। अथ इयदामननाधिकरणम् ।
। ओं इयदामननात् ओं ।
येषां ज्ञानयोग्यानामिदं मुक्तिसंसारयोस्तारतम्यं समर्थितम् ।
ते छन्दोगानामुपनिषदि नामवागादिक्रमेण प्राणान्ता उक्ताः ।
तत्र किं प्राण एवाधिकारितारतम्यस्यावधिः उताधिको ऽप्यस्तीति संशये सतीयदेव देवतातारतम्यमिति सिद्धान्तितम् ।
तत्र न ज्ञायते कास्ता नामाद्या देवता इति ।
कथं च पञ्चदशैव अधिकानामपि भावादित्याशङ्कानिरासार्थं बृहत्संहितावचनमेव पठतिउषा इति ।
इयदामननात् । ब्ब्स्_३,३.३४ ।
उषाः स्वाहा च पर्जन्यो मित्रो ऽग्निर्वरुणो विधुः ।
प्रवहो ऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः । (अनुव्याख्यानम्)३,३.१७७ ।
न्यायसुधा-
उषा अश्विनोर्भार्या ।
स्वाहाग्नेर्भार्या ।
पर्जन्यो मित्रश्चादित्यौ ।
प्रवहो मरुत् ।
अनिरुद्धः कामसुतः ।
एते मुक्तिगा संसारगाश्च सर्वैर्गुणैरुक्तमेवोत्तरत एव वर्तन्त इत्यर्थः ।
१०,३४०
अधिकसद्भावशङ्कानिरासायैतेषां समानन्तरावस्थितांश्चाहसूर्येत्यादिना ।
१०,३४१
सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत् । (अनुव्याख्यानम्)३,३.१७८ ।
सोमवच्छतरूपा तु प्रसूतिर्वह्निवद् विराट् ।
पर्जन्यवद् वारुणी च तथा सञ्ज्ञा च रोहिणी । (अनुव्याख्यानम्)३,३.१७९ ।
धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता ।
मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ । (अनुव्याख्यानम्)३,३.१८० ।
भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।
वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत् । (अनुव्याख्यानम्)३,३.१८१ ।
कामः सुपर्णी चोमावद् वीन्द्रो रुद्रवदीरितः ।
निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत् । (अनुव्याख्यानम्)३,३.१८२ ।
वैवस्वतो मनुश्चाश्विपश्चादन्ये ततो ऽवराः ।
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ।
तद्वच्च विप्रराजन्यविशेषो ऽत्रापि कश्चन । (अनुव्याख्यानम्)३,३.१८३ ।
तद्वत् प्रियव्रतश्चापि तदन्याः शतदेवताः ।
पजर्न्यमित्रान्तराळे तदन्ये तु ततो ऽवराः । (अनुव्याख्यानम्)३,३.१८४ ।
न्यायसुधा-
तथेति शेषः ।
सूर्यधर्मौ सोमसमानौ ।
मन्वादयः पञ्चानिरुद्धसमानाः ।
मनुरत्र स्वायम्भुवो विवक्षितः ।
तारा बृहस्पतिभार्या ।
चस्त्वर्थः ।
मित्रेण तुल्यं वर्तत इति मित्रवत् ।
शतरूपा स्वायम्भुवस्य पत्नी सोमवत् ।
सूर्यधर्मावित्यत्रैवेयं वक्तव्या ।
सत्यम् ।
पतीनामुक्तौ इदानीमासां प्रस्तुतत्वात्पृथगुक्तिः ।
प्रसूतिर्दक्षपत्नी वह्निवत् ।
विराडनिरुद्धभार्या पर्जन्यवत् ।
वरुणस्येयं वारुणी ।
पुंयोगे तु वरुणानीति स्यात् ।
इन्द्रवरुणेति स्मरणात् ।
सञ्ज्ञा सूर्यभार्या ।
रोहिणी सोमभार्या ।
धर्मस्येयं धर्मी ।
वारुणी सञ्ज्ञा रोहिणी धार्मी च तथैव पर्जन्यवदेव ।
प्रवहस्येयं प्रवाही तु मित्रवदेव प्रकीर्तिता ।
अश्विनौ विघ्नपवित्तपौ मित्रपर्जन्यमध्यस्थाविति प्रत्येकं सम्बन्धः ।
एते चत्वारः परस्परं समा मित्रादधमाः ।
पर्जन्यादुत्तमा इत्यथर्ः ।
भृगुरग्निसम इति वक्ष्यमाणस्यापवादः ।
ब्रह्मपुत्रा मरीच्याद्या मित्रतन्मध्ये मित्राग्न्योर्मध्ये ।
परस्परं समा मित्रादुत्तमा अग्नेरधमा इत्यर्थः ।
तत्र तेषु ब्रह्मपुत्रेषु नारदो वरुणाग्न्यन्तरा वारुणादधमो ऽग्नेरुत्तम इत्यर्थः ।
तथाच दक्षभृगुनारदानां पृथगुक्तत्वाद्ब्रह्मपुत्रका मरीच्याद्याः सप्तैव ।
प्रायग्रहणेनेषन्न्यूनः ।
सुपर्णी गरुडभार्या ।
विश्वामित्रः कसूनुवत् ब्रह्मपुत्रैर्मचीच्याद्यैः समानः ।
वैवस्वतो मनुश्च कसूनुवदिति सम्बन्धः ।
१०,३४२
स्वायम्भुवाद्वैवस्वताद्भगवदवतारात्तापसाच्चान्ये मनवस्ततो वैवस्वतादवराः ।
ते ऽश्विभ्यां पश्चात्पर्जन्यादुत्तमाः ।
च्यवनाद्याश्च तद्वत् ।
एकादशमनुसमानाः ।
अत्रैतेष्वपि विप्रराजन्यत्वनिमित्तः कश्चन विशेषो ऽस्ति ।
मुक्तावपि विप्रत्वादेर्भावात् ।
अत्र च्यवनोचथ्यौ विप्रौ ।
अन्ये राजन्याः प्रियव्रतो ऽपि तत् अवरमनुवदेव ।
तदन्या उक्तेभ्यो ऽन्याः शतदेवताः सोमार्हदेवताः शतान्तरगताः पर्जन्यमित्रान्तराले ।
पर्जन्यादुत्तमा मित्रादधमा अश्विनोः समाना इत्यर्थः ।
तदन्ये उक्तेभ्यो ऽन्ये तु देवास्ततः शतान्तर्गतदेवताभ्यो ऽवराः ।
अवरमनुसमाना इत्यर्थः ।
१०,३५०
ननु महालक्ष्मीः प्राणादप्युत्तमास्ति ।
तत्कथं प्राणावसानत्वमधिकारिणामित्यत आहएतेभ्य इति ।
एतेभ्यो ऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः ।
तत्समो नास्ति परमो हरिरेव नचापरः । (अनुव्याख्यानम्)३,३.१८५ ।
संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।
तदेतदखिलं … । (अनुव्याख्यानम्)३,३.१८६अच् ।
न्यायसुधा-
यद्यपि श्रीरेतेभ्यो विशेषतो ऽभ्यधिका ।
तथापि सदा मुक्ता बन्धरहितेति नाधिकारिवर्गे गृह्यते ।
तस्याः समो नास्तीति स्वरूपकथनम् ।
एतेन कामादितरत्र तत्र चायतनादिभ्य इत्यधिकरणस्य तात्पर्यमुक्तं भवति ।
परमो हरिरेव न चापर इत्यनेन’व्यतिहारो विशिंषन्ति हीतरवत्ऽ‘सैव हि सत्यादयः’ इत्यधिकरणद्वयस्य तात्पर्यमुक्तं वेदितव्यम् ।
१०,३५१
ननूपनिषदि नामाद्याः प्राणान्ताः पञ्चदशोक्ताः ।
अत्र चोषाः स्वाहेत्यादिना चतुर्दशशैव तत्कथं न विसंवाद इत्यतो बृहत्संहितावचनेनानुक्तमेकं स्वयमाहप्राण इति ।
… प्राण आहङ्कारिक एव च ।
इन्द्रादनन्तरो … । (अनुव्याख्यानम्)३,३.१८६च्ए ।
न्यायसुधा-
तैजसाहङ्कारादुत्पन्नः प्राणश्चापरो ऽस्ति ।
स चेन्द्रादनन्तरं एवानिरुद्धादुत्तमो ज्ञातव्यः ।
परप्राणव्यावृत्त्यर्थमाहङ्कारिक एवेत्युक्तम् ।
अयमत्र सङ्ग्रहः ।
पुष्करो नाम सर्वावरो देवः ।
‘कलाभ्यश्चान्यादेवेभ्यः कर्म प्रत्यवरं यतः ।
कालाभ्यः पृथगुक्तं तत्पुष्करः कर्म चोच्यते’ इत्यन्यत्रोक्तत्वात् ।
ततश्शनैश्चरो ऽधिकः ।
पृथिव्यात्मा शनिश्चेति वचनात् ।
तत उषाः(उपा) ।
ततो बुधः ।
उदकात्मको बुधश्चेति वचनात् ।
ततः स्वाहा ।
ततः पर्जन्यो वारुणी सञ्ज्ञा रोहिणी धार्मी विराट् ।
तत एकादश मनश्च्यवनोचथ्यवैन्यशशबिन्दुहैहयप्रियव्रतगया अनुक्तदेवाश्च ।
‘प्रियव्रतो गयश्चैव कर्मदेवसमौ मतौ’ इत्यन्यत्रोक्तत्वात् ।
ततो ऽश्विनौ विघ्नेशवित्तपौ विष्वक्सेनश्च ।
विष्वक्सेनो वायुजः स्वेन तुल्य इति वचनात् ।
ततो मित्रो निरृतिस्तारा प्रावहीति च ।
ततो मरीचिरत्र्यङ्गिराः पुलस्त्यः पुलहः क्रतुर्वसिष्ठो विश्वामित्रो वैवस्वतमनुश्च ।
ततो ऽग्निर्भृगुः प्रसूतिश्च ।
ततो नारदः ।
ततो वरुणः ।
१०,३५२
ततश्चन्द्रसूर्यधर्माः शतरूपा च ।
ततः प्रवहः ।
ततो ऽनिरुद्धस्वायम्भुवबृहस्पतिदक्षाः शची रतिश्च ।
तत आहङ्कारिकः प्राणः ।
तत इन्द्रकामौ ।
तत उमा सुपर्णी उमात्मकत्वाच्छेषभार्या च ।
ततो जाम्बवत्याद्या भगवन्महिष्यष्षट् ।
अन्यत्रोक्तत्वात् ।
अन्यत्रोक्तत्वात् ।
ततो रुद्रात्मकत्वाच्छेषश्च ।
ततो भारती तदात्मकत्वात्सरस्वती च ।
ततो मुख्यवायुस्तदात्मकत्वाद्ब्रह्मा च ।
ततो महालक्ष्मीः ।
ततो भगवानिति ।
। इति इयदामनाधिकरणम् ।
__
१०,३५४