। अथ यावदधिकाराधिकरणम् ।
। ओं यावदधिकारमवस्थितिराधिकारिकाणाम् ओं ।
एतद्यथा यथेत्यादिना भाष्ये व्याख्यातम् ।
तदविस्पष्टम् ।
अधिकारविशेषस्य कारणत्वानभिधानात् ।
मुक्तावित्युक्त्या संसारे नैवमिति प्रतीतेः ।
आनन्दमात्रग्रहणाद्गुणानन्तरव्यावृत्तिप्राप्तेः ।
धर्मिणामनिर्देशाच्च ।
अतः स्पष्टं व्याचष्टेअधिकारेति ।
यावदधिकारम् अवस्थितिर् आधिकारिकाणाम् । ब्ब्स्_३,३.३२ ।
अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां … । (अनुव्याख्यानम्)३,३.१७२अच् ।
न्यायसुधा-
अधिकारो योग्यता ।
अत्र सामान्योक्त्या मुक्तौ संसारे चेति गम्यते ।
तर्हि मुक्ताविति कस्मादुक्तमित्यत आहमोक्षे चेति ।
… मोक्षे चैव विशेषतः । (अनुव्याख्यानम्)३,३.१७२द् ।
न्यायसुधा-
चस्त्वर्थः ।
विशेषतस्तु मोक्ष एवेत्यन्वयः ।
संसारे विक्षेपवशाद्योग्यतानुसारित्वं किञ्चिद्विहन्यते ।
मोक्षे तदभावाद्योग्यतानुसार्येव नियमेन भक्त्यादिकं भवतीत्यतो मुक्तावित्युक्तमिति ।
एवं तर्हि मुक्तानां परस्परं द्वेषेर्ष्यादिप्रसङ्गेन मुक्तत्वविरोधः स्यादित्याशङ्कापरिहारार्थं सूत्रम्’अक्षरधियां त्वविरोधः
सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम्’ इति ।
एतदप्यविशदम् ।
दोषाभावसाम्यादित्यत्र साम्यपदप्रयोजनादर्शनात् ।
उत्तमेभ्यो ऽन्येषां भावादित्यस्योत्पत्तेरिति प्रतीतेः ।
शिष्यवदिति चायुक्तम् ।
क्वचिच्छिष्यस्यापि गुरौ द्वेषादिदर्शनात ।
अतो व्याख्यातिनेति ।
अक्षरधियां त्ववरोधः सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् । ब्ब्स्_३,३.३३ ।
१०,३३३
न तावता विरोधो ऽस्ति निर्दोषत्वात् समस्तशः ।
आभासत्वात् परेषां तदवराणां च सर्वशः । (अनुव्याख्यानम्)३,३.१७३ ।
न्यायसुधा-
तावता परस्परमसाम्येन द्वेषादिप्रसङ्गेन मुक्तत्वविरोधो ऽस्ति ।
साम्यशब्दस्यार्थः समस्तश इति ।
उत्तमेभ्य इत्यस्य विवरणमाभासत्वादिति ।
तदवराणां सर्वेषां पराभासत्वाच्चेति योजना ।
एतदेव विवृण्वन्दृष्टान्तं व्याख्यातियत इति ।
यतो ऽवराणां सर्वे ऽपि गुणाः सर्वाः क्रिया अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।
अतः सच्छिष्यवत् तेषां नैवेर्ष्यादिः कथञ्चन । (अनुव्याख्यानम्)३,३.१७४ ।
न्यायसुधा-
गुरौ सच्छिष्यस्येवेत्यर्थः ।
एतच्चोत्तरत्र स्फुटीकरिष्यत्याचार्यः ।
१०,३२४
चिरन्तनास्तु वृत्तिकाराः सूत्रद्वयमिदमन्यथा व्याचक्षते ।
विदुषां किं ज्ञानोदयानन्तरमेव मुक्तिः किंवा नेति संशये पूर्वस्मिन्पक्षे सतीदमुच्यते ।
आधिकारिकाणां परमेश्वरदत्ताधिकारे वर्तमानानां विदुषामपि देवादीनां यावदधिकारं संसारे ऽवस्थितिः ।
न तदैव मुक्तिः ।
तथा श्रुत्यादिषु दर्शनात् ।
सत्यामपि साधनसम्पत्तौ यदि न मोक्षस्तदा न तेषां कदापि मोक्षः स्यादित्याशङ्कापरिहाराय द्वितीयं सूत्रम् ।
ब्रह्मविदां न मोक्षाभावरूपो विरोधः ।
कुतः ।
सामान्यतद्भावाभ्यां सामान्यविशेषभावाभ्याम् ।
यद्यपि क्षीयन्ते चास्य कर्माणीति सामान्यतः सर्वकर्मणां ज्ञानेन क्षयो ऽभिहितस्तथापि तस्य तावदेव चिरमिति
विशेषवचनात्प्रारब्धकर्मणामवशेषो गम्यते ।
एतदुक्तं भवति ।
अप्रारब्धानि कर्माणि निवर्तन्ते ।
प्रारब्धस्य तु भोगेनैव क्षयः ।
अतस्तत्फलभूते ऽधिकारे स्थित्वा तत्क्षये प्रव्रज्यन्त इति ।
मायावादिनस्तु प्रथमसूत्रस्यैवायं समस्तो ऽर्थ इति वर्णयन्तो ऽक्षरधियामित्येतदधिकरणान्तरं व्याचक्षते ।
जोस्हि२६
१०,३३६
त्राद्यं मतं निराकरोतिनचेति ।
न च संसारिदेवानां कालेयत्तापरे इमे ।
सूत्रे … । (अनुव्याख्यानम्)३,३.१७५अच् ।
न्यायसुधा-
संसारावस्थानस्य कालेयत्ता कालमर्यादा प्रारब्धकर्मफलभोगावसानरूपा सा परा उद्देश्या प्रतिपाद्या ययोस्ते तथोक्ते ।
कुतो नेत्यत आहहीति ।
… ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः । (अनुव्याख्यानम्)३,३.१७५च्द् ।
अनारब्धकार्ये भोगेन त्वितरे इति चोदितः । (अनुव्याख्यानम्)३,३.१७६अब् ।
न्यायसुधा-
यस्मादनारब्धस्य ज्ञानेनैव क्षय आरब्धमात्रस्य भोगेनैव क्षयो ध्रुव इत्येषो ऽथ’अनारब्धकार्ये एव तु पूर्वे तदवधेः’ इति सूत्रेण,’भोगेन त्वितरे
क्षपयित्वाथ सम्पत्स्यते’ इति च सूत्रेणोदितः ।
तस्मान्नेति सम्बन्धः ।
एवमुदितत्वे ऽपि कुतो नेत्याशङ्कां परिहरन्नपव्याख्यानिरासस्य प्रयोजनमाहपौनरुक्त्येनेति ।
पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः । (अनुव्याख्यानम्)३,३.१७६च्द् ।
न्यायसुधा-
एतेन मायावादिनामपि (व्याख्यानं) मतं निरस्तम् ।
तात्पर्यभेदात्प्रपञ्चनभावाद्वा न पौनरुक्त्यमिति चेत् ।
स्यादेवम् ।
यद्यसङ्कीर्णं व्याख्यानान्तरं न स्यात् ।
तदिदमुक्तम्इति निश्चय इति ।
। इति यावदधिकराधिकरणम् ।
__
१०,३४०