। अथ श्रीमन्न्यायसुधायां विद्याधिकरणम् ।
। ओं विद्यैव तु निर्धारणात् ओं ।
यद्यपीदमधिकरणमनुबन्धादिभ्य इत्यतः पूर्वं तथाप्युपासनस्वरूपावगमे सत्येव तत्साथर्क्यसमर्थनस्यावसरो नान्यथेति व्युत्क्रमेण
व्याख्यातम् ।
तथाहि ।
न भगवदुपासनं कर्तव्यं वैयर्थ्यात् ।
नच साक्षात्कारार्थम् ।
तस्यापि व्यर्थत्वात् ।
नच मोक्षप्रयोजनो ऽसाविति वाच्यम् ।
चार्वाकदिशा मोक्षस्यैवाभावात् ।
भावे वा जैनादिमतानुसारेण साधनान्तरसाध्यत्वादिति प्राप्ते मोक्षसद्भावं तस्यापि भगवद्दर्शनसाध्यत्वं च साधयितुमिदमारभ्यते ।
यद्यपि समयपादे चार्वाकादिमतानि निराकृतानि ।
तथापि मोक्षतत्साधनवियदूषणविशेषव्युत्पादनार्थो ऽयं प्रयत्नः ।
तत्र चार्वाकमतं तावदनुवदतिनैवेति ।
विद्यैव तु निर्धारणात् । ब्ब्स्_३,३.४७ ।
नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः । (अनुव्याख्यानम्)३,३.११५अब् ।
न्यायसुधा-
एवशब्दः स्वरूपनिषेधद्योतनार्थः ।
अन्यथा पुरुषविशेषादिसम्बन्धेन निषेधो ऽपि ज्ञायेत ।
तस्मादुपासनं व्यर्थमिति शेषः ।
१०,१७८
तर्हि कः पुरुषार्थो ऽस्तीत्यत आहभोग इति ।
भोगः … । (अनुव्याख्यानम्)३,३.११५च् ।
न्यायसुधा-
स्रक्चन्दनादिविषयसुखानुभवो भोगः स पुरुषार्थो ऽस्तीति प्राहुरिति सम्बन्धः ।
भोगश्चैहिक एव न तु स्वर्गादिगत इत्याहशरीरेति ।
… शरीरपर्यन्तं … । (अनुव्याख्यानम्)३,३.११५च् ।
न्यायसुधा-
शरीरपातपर्यन्तमित्यर्थः ।
कुतः स्वर्गापवर्गयोरसत्त्वमित्यत आहभस्मीभाव इति ।
… भस्मीभावस्ततो भवेत् । (अनुव्याख्यानम्)३,३.११५द् ।
इति … । (अनुव्याख्यानम्)३,३.११६अ ।
१०,१७९
न्यायसुधा-
ततः पातानन्तरं शरीरस्य भस्मीभावो भवेत् ।
इदमुक्तं भवति ।
शरीरपातोत्तरकालमात्मनः स्वर्गापवर्गौ वक्तव्यौ ।
आत्मा च न शरीरातिरिक्तो ऽस्ति ।
शरीरं च पातोत्तरकालं नश्यत्येव ।
ततः कस्य तौ स्यातामिति ।
इति प्राहुरिति सम्बन्धः ।
शङ्कासमाप्तौ वेतिशब्दः ।
तदेतत्प्रमाणाभावेन दूषयंस्तावत्पृच्छतितदिति ।
… तत् केन मानेन दृष्टं … । (अनुव्याख्यानम्)३,३.११६अब् ।
न्यायसुधा-
मोक्षो नैवास्तीति वाक्यार्थं तदिति परामृशति ।
केन मानेनेति ।
प्रत्यक्षेण वा तदितरेण वेत्यर्थः ।
दृष्टमवगतम् ।
द्वितीयस्तावच्चार्वाकेण नाङ्गीकर्तुं शक्यत इत्याशयवानाहप्रत्यक्षेति ।
… प्रत्यक्षवादिना । (अनुव्याख्यानम्)३,३.११६ब् ।
न्यायसुधा-
प्रत्यक्षमेकमेव प्रमाणं नान्यदित्यभ्युपगच्छता ।
पूर्वेण सम्बन्धः ।
आद्यं निराकरोतिनहीति ।
नहि प्रत्यक्षमानेन मोक्षाभावो ऽवसीयते । (अनुव्याख्यानम्)३,३.११६च्द् ।
१०,१७९फ़्.
न्यायसुधा-
अनुमानादिकं तावत्परस्य मानं न भवति ।
यच्च मानत्वेनाङ्गीकृतं प्रत्यक्षं तेनेति यावत् ।
मोक्षो हि नाम परमानन्दावाप्तिविशिष्यात्यन्तिकी दुःखनिवृत्तिः ।
तदभावश्चैवमवगन्तव्यः ।
नास्ति को ऽपि पुरुषः परमानन्दानुभवी सर्वो ऽपि दुःखी चेति ।
नच पुरुषान्तरवर्तिनी सुखदुःखे तदभावौ वा पुरुषान्तरप्रत्यक्षविषयाविति कथं मोक्षाभावः प्रत्यक्षेणावसीयेतेति हिशब्दार्थः ।
१०,१८१
मा भूत्प्रमाणाभावेन मोक्षाभावनिश्चयः ।
तत्सद्भावनिश्चयो ऽत्रप दुर्घट एव ।
प्रमाणाभावात् ।
तावत्तत्र प्रत्यक्षं प्रमाणम् ।
परपुरुषवर्तिनोः परमानन्ददुःखाभावयोः परप्रत्यक्षस्य सामर्थ्याभावात् ।
स्वनिष्ठस्तु तदभाव एव प्रत्यक्षेणोक्ष्यते ।
नापि प्रत्यक्षादन्यत् ।
तत्प्रामाण्यसिद्धेः ।
ततश्च साधकबाधकप्रमाणाभावादप्रतिपत्तिर्नित्यसंशयो वा मोक्षे स्यादिति नोपासनानुष्ठानं सम्भवतीति ।
मैवम् ।
प्रत्यक्षेण तावन्मोक्षनिश्चयोपपत्तेः ।
१०,१८२
ननूक्तमत्र प्रत्यक्षस्य तत्र सामर्थ्यं नास्तीति तत्राहघटत इति ।
घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा । (अनुव्याख्यानम्)३,३.११७अब् ।
न्यायसुधा-
यद्यपि प्राकृतानां प्रत्यक्षं न मोक्षं गोचरयितुं क्षमते ।
तथापि महत्तमपुरुषप्रत्यक्षेण मोक्षनिश्चयो युज्यत एव ।
तदीयप्रत्यक्षावगमश्च परेषां तद्वाक्येन भविष्यतीति भावः ।
ननु कर्तृकर्मणोः कृतीत्यत्र षष्ठया भवितव्यं कथं तृतीया ।
शेषविवक्षायां षष्ठी विहिता ।
नचात्र शेषविवक्षेति चेन्न ।
अस्मिन्योगे शेषग्रहणस्य निवृत्तत्वात् ।
उच्यते ।
हेतावेषा तृतीया ।
न कर्तरि करणे वा ।
महीयसा पुरुषेण हेतुना करणेन वा तदीयप्रत्यक्षेणेति यावत् ।
इतरेषां मुक्तिदृष्टिर्मुक्तिसद्भावनिश्चयो घटत इति ।
यद्वा मुक्तिविषया प्रत्यक्षदृष्टिर्घटते ।
कथम् ।
यतो महीयसा पुरुषेणषक्ष्यते मोक्ष इति वदाम इति योजना ।
अथवा क्रियमाणेति पदाध्याहारे न दोषः ।
१०,१८७
एवं तर्हि मयापि वक्तुं शक्यत एव ।
यद्यपि परपुरुषवर्ती मोक्षाभावो ऽस्मदादीनां न प्रत्यक्षः ।
तथापि महीयसः पुरुषस्य लोकायताचार्यस्य प्रत्यक्ष एव ।
तदवगमश्चास्माकं तद्वाक्येन भविष्यतीति ।
तथाच सत्प्रतिपक्षतया पुनरनिश्चय एवेत्यत आहनेतीति ।
नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते । (अनुव्याख्यानम्)३,३.११७च्द् ।
न्यायसुधा-
कस्मिन्नपि पुरुषे वर्तमानो ऽनागतो वा मोक्षो नास्त्येवेत्यहं प्रत्यक्षेणेक्ष इति वक्तुस्त्विति सम्बन्धः ।
महत्त्वमेव न विद्यते कुतो महीयस्त्वमित्येवशब्दार्थो वा तुशब्दः ।
महत्त्वमिह बहुप्रकारमपेक्षितम् ।
इतरपुरुषाप्रत्यक्षार्थसाक्षात्कारित्वं तदुपयुक्तासाधारणधर्मवत्त्वं यथार्थवादित्वं चेति ।
तत्रैकप्रकारमपि न लोकायताचार्यस्य विद्यते ।
कुतस्तेन सत्प्रतिपक्षताशङ्का मोक्षवादिनां महापुरुषाणाम् ।
कुत इत्यत आहसाधयन्निति ।
साधयन् सर्वसामान्यं कथमेव विशेषवान् । (अनुव्याख्यानम्)३,३.११८अब् ।
१०,१८७फ़्.
न्यायसुधा-
धर्माद्यभावप्रतिपादनेन सर्वेषां पुंसां समानत्वं साधयंल्लोकायताचार्यः कथमेवेतरेभ्यो ऽतिशयवान्भवति ।
न कथञ्चित् ।
एतदुक्तं भवति ।
पुरुषान्तराप्रत्यक्षस्य परपुरुषगतस्य मोक्षाभावस्य साक्षात्करणे लोकायताचार्यस्येतरेभ्यो विशेषेण भाव्यम् ।
अन्यथेतरेषामपि तत्प्रसङ्गात् ।
न चासावस्ति ।
तपसा योगेन वा जनितो धर्मविशेषस्तथा ।
स चेतरेषामिव स्वात्मनो ऽपि नास्तीति तेनैव साधितम् ।
अतः कारणाभावादितरवत्तस्यापि परपुरुषवर्तिमोक्षाभावसाक्षात्करणं नास्त्येवेति निश्चीयते ।
तत एवाहं मोक्षाभावं साक्षात्करोमीति तदीयवचनमयथार्थमेव ।
भूतपरिणामविशेष एवातिशयो ऽस्त्विति चेत् ।
स किं प्रत्यक्षो ऽप्रत्यक्षो वा ।
नाद्यः ।
अनुपलम्भात् ।
यादृशतादृशस्य प्रकृतफलहेतुत्वे मानाभावात् ।
अन्यथातिप्रसक्तेः ।
न द्वितीयः ।
अतीन्द्रियार्थं निराकुर्वता तेनैवेतरवदात्मन्यपि तदभावस्य साधितत्वादिति ।
१०,१८९
यथा युष्माभिरभिधीयते नास्त्येव मोक्षाभावसाक्षात्कारी महापुरुष इति तथा अहमपि वदामि ।
नास्त्येवासौ महीयान्पुरुषो यः प्रत्यक्षेण मोक्षमीक्षेत ।
प्रमाणाभावादिति ।
तथाच पुनरनिश्चय एवेत्यत आहदृश्यन्त इति ।
दृश्यन्ते पुरुषा लोके परावरविदो ऽपिच । (अनुव्याख्यानम्)३,३.११८च्द् ।
अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ।
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः । (अनुव्याख्यानम्)३,३.११९ ।
ज्ञानविज्ञानपारज्ञा … । (अनुव्याख्यानम्)३,३.१२०अ ।
न्यायसुधा-
न केवलमेक इति भावः ।
लोके ऽस्मिन्नेव भूमण्डले ।
ते च वसिष्ठादयः ।
तेषां महीयस्त्वमाहज्ञानविज्ञानपारज्ञा इति ।
अत्र विषयिभ्यां विषयावुपलक्ष्येते ।
सामान्यविशेषाकारपारज्ञाः ।
न केवलं वर्तमानाशेषविदः किन्नाम परावरविदो ऽपि ।
तत्किमनुमानादिना नेत्याहअपरोक्षदृशश्चेति ।
अस्मदादिभ्यः को विशेषस्तेषामित्यत उक्तं योगनिष्ठाश्चामलचक्षुष इति ।
योगनिष्ठाजनितविशिष्यादृष्टेन दिव्यदृष्टयः ।
किन्तेनैव नेत्याहप्रत्यक्षमिति ।
योगसामर्थ्येन परदेवतां साक्षादुपलभ्य तन्प्रसादासादितप्रकाशाद्यैश्वर्यवन्तः ।
वसिष्ठादयो योगर्धिसम्पन्नया दिव्यया दृष्टया परमपुरुषवर्तिनं मोक्षं साक्षात्कुर्वाणाः प्रत्यक्षेणैव दृश्यन्ते ऽतो न मोक्षानिश्चय इति ।
अस्मदादिभिरनुपलब्धत्वात्ते न सन्तीत्यत आहनिषिद्धयन्त इति ।
… निषिद्धयन्ते कथं नृभिः । (अनुव्याख्यानम्)३,३.१२०ब् ।
न्यायसुधा-
नृभिरित्यनेन मन्दभाग्यैः परिमिता विविक्तदेशपरिचयवद्भिरिति सूचयति ।
नहि ते वणिग्वीथ्यां वर्तन्ते ।
येन युष्माभिरुपलभ्येरन् ।
अतो विप्रकर्षादनुपलभ्यमाना न निषेद्धुं शक्यन्त इति भावः ।
१०,१९०
ननु पुरुषस्वरूपमात्रे न विप्रतिपत्तिः ।
तेषां महीयस्त्वं तु कुत इत्यत आहदृश्यते चेति ।
१०,१९१
न केवलं पुरुषाः किन्तु तेषामतिमाहात्म्यं महीयस्त्वं च दृश्यते ।
कथम् ।
अतिमहौजसाम् ।
एतदुक्तं भवति ।
दृश्यन्ते तावद्विन्ध्यस्थगनसमुद्रपानादीनि तेषामतिमहान्त्योजांसि ।
तानि च महैश्वर्यकार्याणि ।
नच कार्याणि विना कारणैर्भवितुमर्हन्ति ।
महैश्वर्येषु च सार्वज्ञापरनामकं प्राकाश्यमिति तेषां महीयस्त्वसिद्धिरिति ।
१०,१९२
ननु तदीयं मोक्षविषयं प्रत्यक्षं परेषां कुतः सिद्धम् ।
तद्वाक्यादिति चेन्न ।
तेषां विप्रलम्भकत्वोपपत्तेरित्यत आहयदीति ।
यदि ते ऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते । (अनुव्याख्यानम्)३,३.१२१अब् ।
न्यायसुधा-
विप्रलम्भो हि प्रयोजनमूलो भवति ।
नच तेषां प्रयोजनानुसन्धानं सम्भवति ।
आप्तसमस्तैश्वयर्त्वात् ।
प्रयोजनान्तरस्य चाप्रमितत्वात् ।
एवम्भूता अपि ते योगिनो यदि विप्रलम्भका इति निषिद्धयन्ते ।
तदीयं वाक्यं विप्रलम्भमूलत्वेन निराक्रियत इति यावत् ।
तदा ते त्वदभ्युपगता लोकायताचार्योक्तिः किं तथैव न निषिध्यते ।
सापि विप्रलम्भमूलेति कल्पयित्वानादरणीया स्यात् ।
अविशेषादिति यावत् ।
एतेनैतदपि निरस्तम् ।
विप्रकषर्वशादस्माभिरनुपलभ्यमाना अपि योगिनस्तन्माहात्म्यं तदीयं स्वप्रत्यक्षविषयं वाक्यं चास्माभिः कुतो ऽवगन्तव्यम् ।
इतिहासपुराणेभ्य इति चेन्न ।
तेषामप्रमाणत्वादिति ।
दोषदर्शनेन हि तेषामप्रामाण्यं कल्प्यम् ।
नच तत्र प्रमाणमस्ति ।
वाक्यत्वेनैव प्रामाण्यप्रतिषेधे लोकायताचार्योक्तेरपि तत्प्रतिषेधप्रसङ्गादिति ।
१०,१९३
न लोकायताचार्योक्तिर्विप्रलम्भशङ्कया निराक्रियते ।
प्रत्यक्षसंवादेन प्रामाण्यनिश्चयादिति चेत्समं प्रकृते ऽपीत्याहयदुक्तेति ।
यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते । (अनुव्याख्यानम्)३,३.१२१च्द् ।
न्यायसुधा-
यैर्योगिभिरुक्तानां वाक्यानां प्रामाण्यं प्रत्यक्षेण प्रत्यक्षसंवादेनोपलभ्यन्ते ते ऽपीति पूर्वेणान्वयः ।
कथमित्यत आहवरादयो ऽपीति ।
वरादयो ऽपि तद्दत्ताः सदा सत्या भवन्ति हि । (अनुव्याख्यानम्)३,३.१२२अब् ।
न्यायसुधा-
तैर्योगिभिर्दत्ता वराः शापाश्च सदाव्यभिचारेण सत्या भवन्ति ।
हि यस्मात्तस्मादिति पूर्वेणैव सम्बन्धः ।
ते प्रसन्नाः सन्तस्तवेदं भद्रं भविष्यतीति वा कुपिताः सन्तस्तवेदमभद्रं भविष्यतीति वा यदाहुस्तत्तथैव भवत्प्रत्यक्षेणोपलभ्यत इति ।
स्यादेतत् ।
प्रत्यक्षयोग्यार्थे भवतु तत्संवादेन तदीयं वाक्यं प्रमाणम् ।
अतीन्द्रिये तु मोक्षादौ कथमिति ।
एवं तर्हि लोकायताचार्यवचनमपि प्रत्यक्षयोग्यार्थे तत्संवादेन प्रमाणमस्तु ।
अतीन्द्रिये तु मोक्षाभावादौ कथमिति समानम् ।
अथ मन्यसे प्रत्यक्षयोग्यार्थे तावत्तदीयं वचनं प्रत्यक्षसंवाद्येवोपलब्धम् ।
तेनातीन्द्रियार्थविषये ऽपि तत्र विश्वसिमः ।
लोके तथोपलम्भादिति ।
तदिदं प्रकृते ऽपि समानम् ।
तदिदमुक्तमनुक्तसमुच्चयार्थेनापिपदेन ।
१०,१९४
एवं सत्प्रतिपक्षतानिरासाय योगिनां मोक्षप्रत्यक्षवादस्य प्रामाण्यम्, अप्रामाण्यं च लोकायताचार्यस्य मोक्षाभावप्रत्यक्षोक्तेरुपपादितम् ।
हेत्वन्तरेणापि तदप्रामाण्यमुपपादयतिअप्रामाण्यमिति ।
अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते । (अनुव्याख्यानम्)३,३.१२२च्द् ।
न्यायसुधा-
हेतुसमुच्चये चशब्दः ।
वृथावाचेति भावप्रधानो निर्देशः ।
वृथात्वादित्येवोक्ते तृणादिदर्शने व्यभिचारः स्यात् ।
तदर्थं वाग्ग्रहणम् ।
कथं लोकायताचार्योक्तेर्वृथात्वमित्यत आहन हीति ।
न हि प्रयोजनं किञ्चित् परलोकनिवारणात् । (अनुव्याख्यानम्)३,३.१२३अब् ।
न्यायसुधा-
परलोकस्य मोक्षादेर्निवारणात् नास्तित्वप्रतिपादनाल्लभ्यं किञ्चित्प्रयोजनं नास्तीत्येतत्प्रसिद्धमेव ।
तथाहि ।
तदुक्तेरदृष्टं वा प्रयोजनं स्याद्दृष्टं वा ।
न तावददृष्टम् ।
परलोकनिवारणात् ।
अदृष्टं हि स्वर्गादावुपभोग्यं वा स्याद्देहान्तरेणेहैव वा ।
नाद्यः ।
स्वर्गादेः परलोकस्य परेण प्रतिषिद्धत्वात् ।
न द्वितीयः ।
देहात्मवादिनास्यात्मनः परलोकस्य देहान्तरस्य निवारणात् ।
नापि दृष्टम् ।
प्रतिपादकप्रतिपाद्ययोरर्थकामलाभानुपलम्भादिति ।
१०,१९५
वैदिकानां धर्माधर्मव्यवस्थापकैर्ववचनैरुपरुद्धकामभोगानां प्राणिनां धर्माद्यभावाप्रतिपादनेन
कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्राणिनां धर्माद्यभावप्रतिपादनेन
कामोपभोगोपरोधनिवृत्तिरूपपरोपकारस्तावदाचार्यस्य प्रयोजनमस्ति ।
यद्यप्युपकारो न स्वरूपेण प्रयोजनम् ।
नाप्यदृष्टहेतुत्वेन ।
तथाप्युपकर्तारं प्रत्युपकुर्वन्त्येव ।
विनेयानां च कामोपभोगोपरोधनिवृत्तिरेवास्ति प्रयोजनम् ।
तत्कथं वृथात्वमित्यत आहवृथा वाचमिति ।
वृथावाचं वृथा हन्याद् यदि तस्य किमुत्तरम् । (अनुव्याख्यानम्)३,३.१२३च्द् ।
न्यायसुधा-
अत्र वृथावाचमिति साध्यनिर्देशः ।
एवमपि वृथावाक्त्वं न परिहार्यमिति ।
अदृष्टप्रयोजनरहितवाचमिति वा ।
यदि कश्चित्तमाचार्यं विनेयं वा वृथैव हन्यात्तदा तं प्रति तस्य किमुत्तरम् ।
न किञ्चित् ।
एतदुक्तं भवति ।
न स्त एव धर्माधर्मौ, अतस्त्वया निरङ्कुशेन कामोपभोगः करणीय इत्याचार्येण बोधितो ऽन्तेवासी तदीयकमनीयकान्ताद्यपहारार्थं तं
हन्यादेव, तदास्य का प्रतिक्रिया ।
उपकर्तुरपकारो महाप्रत्यवायहेतुरिति छान्दसोक्तेस्तेनैव त्याजितत्वात् ।
उपकर्तारं प्रत्युपकुर्वन्तीत्येतदपि धर्मादिवासनायां सत्यामेव ।
सा तु तेनैव निश्शेषिता ।
अतो नास्त्येवाचार्यस्य प्रयोजनम् ।
प्रत्युत स्वजीवनहानिलक्षणो ऽनर्थ एव एवं विनेयानामप्यन्योन्यधनवनिताद्यपहारायपरस्परवधादावेव प्रवृत्तिः न तु कामोपभोगावसरः ।
महतानर्थेनाक्रान्तो ऽल्पीयान्कामोपभोगो ऽनर्थ एवेति ।
१०,१९६
अस्त्वेवं लोकायताचार्योक्तेर्वृथात्वमनर्थहेतुत्वं च ।
तथाप्यप्रामाण्यं कुत इत्यत आहस्वेति ।
स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान् । (अनुव्याख्यानम्)३,३.१२३एफ़् ।
न्यायसुधा-
स्वशब्दः परेषामप्युपलक्षकः ।
व्यर्थं चेति शेषः ।
व्यर्थानर्थहेतुवाक्त्वेन लोकायताचार्यस्याप्रेक्षावत्त्वमनुमीयते ।
ततस्तद्वचनस्याप्रामाण्यमिति शेषः ।
उक्तश्चायमर्थः प्रयोजनाधिकरणे ।
१०,१९७
उक्तमर्थं बुद्धयारोहाय सङ्क्षिप्याहप्रामाण्यं इति ।
प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि ।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः । (अनुव्याख्यानम्)३,३.१२४ ।
यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।
अतीतानागतं सर्वं लोकानुभवमापयन् । (अनुव्याख्यानम्)३,३.१२५अच् ।
१०,१९८
न्यायसुधा-
(अत्र) प्रामाण्यशब्देनाप्तत्वमुच्यते ।
किमित्याक्षेपे ।
अपिशब्दो गर्हायाम् ।
स्वेत्युपलक्षणम् ।
दृष्टस्य दर्शनयोग्यस्यापि बहोरर्थस्य ।
चशब्दो विशेषणसमुच्चये ।
देवोक्तीत्यतीन्द्रियान्तरस्याप्युपलक्षणम् ।
स्वोक्तं सर्वं प्रत्यक्षसंवादेन लोकानुभवं लोकाश्वासं प्रापयन् ।
यः स्वजीवनविरुद्धोक्तित्वादिविशेषणो लोकायताचार्यो यश्चातीन्द्रियदेवोक्तिश्रोतृत्वादिविशेषणो योगी तयोरपि पुरुषयोः प्रामाण्ये संशयः
स्यात्किं, न स्यादेव ।
किन्त्वाद्यस्याप्रामाण्यमेव द्वितीयस्य प्रामाण्यमेव निश्चीयत इति योजना ।
१०,१९९
एवं निमित्ताभावेनासम्भावितातीन्द्रियज्ञानस्य कामुकत्वादिना सम्भावितविप्रलम्भस्य लोकायताचार्यस्य योगर्धिसम्पदा
सम्भावितसार्वज्ञावाप्तसमस्तैश्वर्यवत्त्वादिनात्यन्तासम्भावितवञ्चकत्वात्प्रत्यक्षसंवादिवचसो योगिनः प्रति, प्रतिपक्षत्वासम्भवे (न)
तद्वचनावगतेन तत्प्रत्यक्षेण मोक्षः सिद्धयतीत्युक्तम् ।
इदानीं वेदेनापि तं सिषाधयिषुस्तत्प्रामाण्ये विप्रतिपन्नं प्रति किं संवादरहितत्वाद्वेदस्याप्रामाण्यमुच्यते ।
उत वाक्यत्वादुन्मत्तवाक्यवत् ।
अथवोन्मत्तवाक्यादनिश्चितविशेषत्वादथ(वा) बाधितत्वदिति विकल्प्याद्ये ऽपि किं सर्वस्य संवादो नास्ति उतैकदेशस्येति विकल्प्याद्यं
निराचष्टेअत इति ।
अतः प्रत्यक्षगम्यत्वाद् वेदमात्वस्य च स्फुटम् । (अनुव्याख्यानम्)३,३.१२५एफ़् ।
न्यायसुधा-
वैदिकानुष्ठानवतां तत्फलसिद्धेर्दृष्टत्वादित्यर्थः ।
प्रत्यक्षगम्यत्वात् प्रत्यक्षसंवादेन सिद्धत्वात् ।
प्रमाणसमुच्चये चशब्दः ।
वेदेन च मोक्षसिद्धिरिति ।
अनेन सर्वस्यापि वेदस्य प्रमाणान्तरसंवादो नास्तीत्येतदसिद्धम् ।
ऐश्वर्यादिसाधनतया योगादिकमुपदिशतो वेदभागस्य संवाददर्शनादित्युक्तं भवति ।
मोक्षप्रतिपादकानि च वेदवाक्यानि तत्र तत्रोदाहृतान्येव द्रष्टव्यानि ।
फलविसंवादो ऽपि वेदस्य दृश्यत इति चेन्न ।
तस्य कर्तृकर्मादिवैगुण्यहेतुतायाः प्रागुक्तत्वात् ।
तदिदमुक्तं स्फुटमिति ।
आद्ये द्वितीयं दूषयतियदीति ।
यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् । (अनुव्याख्यानम्)३,३.१२६अब् ।
न्यायसुधा-
यदि भागविशेषस्य संवादाभावेन कृत्स्नस्यापि आगमस्य नो मानत्वम् अप्रमाणत्वमित्युच्यते तर्हि अक्षजस्य प्रत्यक्षमात्रस्य तथा अप्रमाणत्वं
भवेत् ।
अस्थात्सुखादिविषयस्य प्रत्यक्षस्य संवादाभावात् ।
यदि च संवादरहितस्यैव वेदभागस्य नो मानत्वमित्युच्यते तदास्मत्सुखादिविषयस्य प्रत्यक्षस्याप्रामाण्यं भवेदेवेति ।
यद्यपि योगिप्रत्यक्षसंवा(दो ऽस्ति तथा)दः प्रागुक्तस्तथापि तदितरप्रमाणापेक्षयेदमुदितं वेदितव्यम् ।
स्यादेतत् ।
प्रत्यक्षं स्वत एव प्रमाणं तत्र किं संवादेनेत्यत आहयद्यक्षजस्येति ।
१०,२००
यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् । (अनुव्याख्यानम्)३,३.१२६च्द् ।
न्यायसुधा-
यदि संवादेन विनाक्षजस्य स्वत एव प्रमाणत्वं स्यात्तर्हि आगमस्य तत् स्वत एव प्रामाण्यं कथं न भवेत्अविशेषाद्भवेदेव ।
१०,२०१
द्वितीयं निराकरोतियद्यागमस्येति ।
यदि वाक्यत्वमात्रेणोन्मत्तवाक्यवदागमस्य न मानत्वमित्युच्यते ।
तर्ह्यक्षजत्वेन शुक्तिरजतादिविषयाक्षजवत्स्तत्स्तम्भाद्यक्षजस्याप्यप्रामाण्यं स्यादविशेषात् ।
निर्देषत्वात्स्तम्भादिविषयमक्षजं प्रमाणमित्यत आहयद्यक्षजस्येति ।
यदि निर्देषत्वात्स्तम्भादिविषयस्याक्षजस्य प्रमाणत्वं स्यात्तर्ह्यागमस्यापि तत एव कथं न भवेत् ।
न ह्यपौरुषेयस्य सदोषता सम्भवति ।
वेद इत्युपक्रमात्तथैव वक्तव्ये यदागमस्येति वदति तदनेनैव न्यायेन पौरुषेयागमस्यापि प्रामाण्यं साधनीयमिति सूचयितुम् ।
१०,२०२
तृतीयं निराकरोतिलोकेति ।
लोकवाक्याद् विशेषश्चाव्यभिचारेण सिद्धयति । (अनुव्याख्यानम्)३,३.१२६एफ़् ।
न्यायसुधा-
उन्मत्तादिवाक्यात् ।
विशेषो वेदस्य ।
अव्यभिचारेण बाधराहित्येन ।
नहि वैदिको ऽर्थः प्रत्यक्षसिद्धो येन तत्तत्र बाधकतयावकाशं लभेत ।
एतेन चतुर्थो ऽपि निरस्तः ।
तदेवं प्रत्यक्षागमाभ्यां मोक्षं साधयतेहामुत्र फलभोगवैराग्यवतां योगिनां प्रवृत्तिः सफला प्रेक्षावत्प्रवृत्तित्वात्सम्मतवदित्यनुमानमपि सूचितम् ।
अनुमानप्रामाण्यं च प्रागेव समर्थितम् ।
१०,२०३
अपरे पुरननुमिमते ।
दुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वाद्दीपज्वालासन्ततिवदिति ।
तदसत् ।
सकलजीवगतदुःखसन्ततिपक्षीकारेंऽशे बाधितत्वात् ।
नित्यसंसारिणां केषाञ्चित्सत्त्वस्य तैरप्यङ्गीकृतत्वात्समर्थयिष्यमाणत्वाच्च ।
तद्वयतिरिक्तजीवगतदुःखसन्ततिपक्षीकारे तु तत्रैव व्यभिचारात् ।
पार्थिवपरमाणुरूपादिसन्ताने व्यभिचाराच्च ।
सर्वमुक्तिपक्षे फलमूलयोरभावेन सो ऽप्यत्यन्तमुच्छिद्यत एवेति चेन्न ।
सर्वमुक्तिपक्षस्यैव निराकरिष्यमाणत्वात् ।
कालक्षणसन्ताने व्यभिचाराच्च ।
किञ्च दुःखसन्ततिशब्देन दुःखान्येवोच्यन्ते उत तद्धर्मः कश्चित् ।
आद्ये सिद्धसाधनता ।
मोक्षमनङ्गीकुर्वतापि दुःखानां विनाशिताभ्युपगमात् ।
अत एवात्यन्तमित्युक्तमिति चेत् ।
को ऽस्यार्थः ।
किं सर्वाण्यपि दुःखान्युच्छिद्यन्त इति ।
उत निःशेषतयोच्छिद्यन्त इति ।
अथवा तत्र दुःखान्तरानुत्पादेनेति ।
न प्रथमः ।
सिद्धसाधनतानिस्तारात् ।
सर्वेषामपि दुःखानां परेणानित्यतायाः स्वीकृतत्वात् ।
अत एव न द्वितीयः ।
न हि दुःखं सावयवद्रव्यम् ।
येन सशेषमुच्छिद्यत इति शङ्कयेत ।
न तृतीयः ।
दृष्टान्तस्य साध्यविकलत्वात् ।
नहि दीपज्वालासन्ततिरेवमुच्छिद्यते ।
तत्रैव पुनर्ज्वालान्तरोदयसम्भवात् ।
न द्वितीयः ।
दुःखधर्मो हि जातिर्वा तदन्यो वा ।
आद्ये ऽपसिद्धान्तः ।
जातेर्नित्यत्वाङ्गीकारात् ।
न द्वितीयः ।
आश्रयासिद्धेः ।
गुणेषु जातिव्यतिरिक्तधर्मानङ्गीकारात् ।
अङ्गीकारे ऽप्यर्थान्तरता स्यात् ।
नहि दुःखधर्मस्य कस्यचिद्विनाशसिद्धौ मोक्षसिद्धिरिति ।
१०,२०६
आत्मा कदाचिद्ध्वस्ताशेषविशेषगुणो विभुत्वे सति कार्यविशेषगुणवत्त्वात् महाप्रलयावस्थायामाकाशवदिति चासत् ।
सर्वात्मपक्षीकारे परमेश्वरात्मनि बाधात् ।
असिद्धेश्च ।
जीवात्मपक्षीकारे ऽपि संसार्येकस्वभावानां जीवानां स्वयमेवोररीकृतत्वेन तत्र बाधात् ।
तदतिरिक्तजीवपक्षीकारे तत्रैवानैकान्त्यात् ।
जीवात्मनां विभुत्वाभावेनासिद्धेश्च ।
आत्मत्वं कदाचिद्ध्वस्ताशेषविशेषगुणद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न ।
तथा सति हेतोरसिद्धिप्रसङ्गात् ।
जातित्वं हेतुरिति चेन्न ।
पूर्वानुमानदोषापरिहारात् ।
घटत्वादावनैकान्तिकत्वाच्च ।
अशेषविशेषगुणशून्यद्रव्यनिष्ठमिति प्रतिज्ञार्थ इति चेन्न ।
सगुणानामेव द्रव्याणामुत्पादस्य समर्थितत्वात् ।
विभुकार्यविशेषगुणवद्वृत्तिजातित्वस्य हेतुत्वान्न को ऽपि दोष इति चेन्न ।
कार्यविशेषगुणवत्पदस्य वैयर्थ्यात् ।
तत्त्यागे ऽप्यर्थान्तरत्वात् ।
अशेषविशेषगुणध्वंसो न मोक्ष इति वक्ष्यमाणत्वात् ।
१०,२१२
एतेन देवदत्तो देवदत्ताधर्मसमानकालीनदेवदत्तगतत्वानधिकरणदुःखध्वंसाधिकरणं दुःखित्वाद्यज्ञदत्तवदिति विशिष्यव्यतिरेक्यनुमानमपि
निरस्तम् ।
अर्थान्तरतापरिहारादित्यास्तां प्रपञ्चः ।
१०,२१३
इदानीं जैनोक्तमोक्षसाधनं दूषयितुमनुवदतिअस्तीति ।
अस्ति मोक्षो ऽपि धर्मेण यथार्थज्ञानतो ऽपि च । (अनुव्याख्यानम्)३,३.१२७अब् ।
१०,२१४
न्यायसुधा-
यदिदं मोक्षास्तित्वं समर्थितं तत्साध्विति जैनाः प्राहुरिति सम्बन्धः ।
अङ्गीकृतश्चेन्मोक्षसद्भावस्तदा तत्साधनमपि किञ्चिदङ्गीकायर्मेव ।
तथाच का विप्रतिपत्तिरित्याशयवान्पृच्छतिअपीति ।
किं तर्हीत्यर्थः ।
उत्तरमाहधर्मेणेति ।
लभ्यत इत्याहुः ।
अपिचावितरेतरसमुच्चये ।
यद्यपि मोक्षं तत्साधनं चाभ्युपयन्ति जैनास्तथापि तद्विशेषे विप्रतिपद्यन्ते ।
यतः सम्यग्ज्ञानसम्यक्चारित्र्यसमुच्चयसाध्यं मोक्षमाहुरित्याशयः ।
सम्यग्दर्शनं यद्यपरोक्षज्ञानं तदा यथार्थग्रहणेनैव गृहीतम् ।
यदि च स्वसमयपरिपालनं तदा धर्मग्रहणेनेति पृथग्ग्रहणं व्यर्थमिति सूचयितुं द्वयोरेव ग्रहणम् ।
धर्मज्ञानसमुच्चयसाध्यत्वं मोक्षस्य कथञ्चिदस्माभिरप्यङ्गीक्रियते ।
अतो विप्रतिपत्त्यनन्तरं दर्शयतिप्रामाण्यमिति ।
प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने । (अनुव्याख्यानम्)३,३.१२७च्द् ।
तद्वाक्याद् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च । (अनुव्याख्यानम्)३,३.१२८अब् ।
न्यायसुधा-
जिन आप्तो ऽस्स्वलितवाक्यत्वादित्याद्यनुमायाः ।
चशब्दाज्जिनदर्शिनां वाक्यस्य च ।
तद्वाक्यात् जिनवाक्यात् ।
इति च जैनाः प्राहुः ।
अनुमा(ना)द्यवगताप्तभावजिनवाक्यान्मोक्षसाधनसिद्धिमाहुः ।
नतु स्वतः प्रमाणाद्वेदादित्याशयः ।
मोक्षसाधनविषयां विप्रतिपत्तिं दर्शयितुमुपक्रम्य प्रमाणविप्रतिपत्तिप्रदर्शनमसङ्गतमिति चेन्न ।
साधनज्ञापकस्यापि साधनत्वात् ।
धर्मज्ञानस्वरूपे ऽपि विप्रतिपत्तिं दर्शयतिधर्म इति ।
धर्मो ऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम् । (अनुव्याख्यानम्)३,३.१२८च्द् ।
इति जैनाः … । (अनुव्याख्यानम्)३,३.१२९अ ।
न्यायसुधा-
अहिंसा परा प्रधानभूता यस्मिन्स तथोक्तः ।
एतदस्माकमपि सम्मतमित्यत उक्तमन्यो हिंसासहितो यज्ञादिर्न धर्म इति ।
आत्मविविक्तत्वादिरूपेण पुद्गलस्य देहस्य दर्शनम् ।
यद्वा पुद्गलस्यात्मनो देहादिविविक्ततया दर्शनम् ।
अत्रापि नान्यद्यत्सिद्धान्तिना विवक्षितमित्यनुवर्तते ।
१०,२१७
दूषयतिकथमिति ।
… कथं तत् स्यात् प्रमाणमनुमानतः । (अनुव्याख्यानम्)३,३.१२९अब् ।
न्यायसुधा-
तज्जिनवाक्यमनुमानेन प्रमाणमिति प्रतिपत्तव्यं कथं स्यात् ।
अनुमानेन वाक्येन च जिनस्याप्तत्वमवधार्याप्तवाक्यत्वानुमानेन मोक्षसाधनं धर्मं ज्ञानं च प्रतिपादयतो जिनवाक्यस्य प्रामाण्यावधारणं यदुक्तं
तन्नोपपद्यत इत्यर्थः ।
कुतो नोपपद्यत इत्यतो हेतुं वक्तुमुपोद्घातत्वेन प्रत्यक्षानुमानागमस्वरूपं क्रमेण तावदाहविषयानिति ।
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।
प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता । (अनुव्याख्यानम्)३,३.१२९च्फ़् ।
आ समन्ताद् गमयति धर्माधर्मौ परं पदम् ।
यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः । (अनुव्याख्यानम्)३,३.१३० ।
न्यायसुधा-
विषयान्निर्देषान्प्रति स्थितं तैः सन्निकृष्टमक्षमदुष्यमिन्द्रियम् ।
जातावेकवचनम् ।
यस्येन्द्रियस्य यो विषयो ऽन्वयव्यतिरेकाभ्यामवगतस्तेनादोषेण सन्निकृष्टमदुष्यं तत्प्रत्यक्षमित्यर्थः ।
अनेन प्रादिसमासो ऽयं नाव्ययीभाव इति सूचितम् ।
तथा सति प्रत्यक्षस्येति षष्ठी न श्रूयेत ।
यद्यपि प्रतिस्थितमक्षं प्रत्यक्षम् ।
तथापि योग्यतया विषयाणां सम्बन्ध इति हिशब्देनाचष्टे ।
१०,२१८
प्रत्यक्षशब्दानुसारात् ।
प्रत्यक्षागमानुसारेणैव मानत्वम् ।
अनुसरणं च तद्गृहीतधर्म्यादिमत्त्वं तदबाधिताप्रतिबद्धविषयत्वं च ।
प्रकीर्तितानुमेति शेषः ।
यानुमा प्रसिद्धा सास्मान्निमित्तादनुमेति प्रकीतिर्ता ।
यद्यप्यनुसृता मानुमा तथापि सामर्थ्यात्प्रत्यक्षादिसम्बन्धः ।
अनुमानमूलानुमाप्यन्ततः प्रत्यक्षादिमूलैवेत्युक्तं प्राक् ।
आ इत्यनुवादेन समन्तादिति व्याख्यानम् ।
सम्यक् चेत्यपि ग्राह्यम् ।
गमयति ज्ञापयति ।
करणे कर्तृत्वोपचारः ।
ग्रहवृदृनिश्चिगमश्चेत्यकर्तरि कारके भावे वा अपो विधानात् ।
अनुप्रमाणविषयं चेदं व्याख्यानं ज्ञातव्यम् ।
यच्च धर्मादिभ्यो ऽन्यदतीन्द्रियमपिशब्दादननुमितं च ।
तुशब्दो ऽवधारणे ।
तेनैवेति सम्बद्धयते ।
यद्यप्या सम्यक् समन्तात्सर्वं गम्यते अनेनेत्यागमः ।
तथापि प्रत्यक्षानुमानागते ऽर्थे तस्य वैयर्थ्यादतीन्द्रियमपीत्युक्तम् ।
तस्य विवरणं धर्मेत्यादि ।
य आगमः प्रसिद्धो ऽसौ ।
जोस्हि२४
१०,२२५
निर्वचनमात्रमेवैतत्प्रत्यक्षादिशब्दानाम् ।
नच निर्वचनलभ्यो ऽर्थो ऽतिव्याप्तिपरिहारेणावश्यम्भावीत्यस्ति नियमः ।
व्याघ्रपर्ण्यादिष्वभावादिति न मन्तव्यमित्याशयवानाहएतेनेति ।
१०,२२६
एतेन कारेणेनैव तत्तन्मानत्वमिष्यते । (अनुव्याख्यानम्)३,३.१३१अब् ।
न्यायसुधा-
तत्तन्मानत्वं प्रत्यक्षादीनां प्रत्यक्षादित्वं प्रत्यक्षादिशब्दवाच्यत्वमिष्यते प्रामाणिकैः ।
प्रत्यक्षादिषु प्रत्यक्षादिशब्दप्रवृत्तौ निमित्तमेवैतत् ।
नतु निर्वचनमात्रलभ्यो ऽर्थ इत्यर्थः ।
कुत इत्यत आहस्वरूपं हीति ।
स्वरूपं हि तदेतेषाम् … । (अनुव्याख्यानम्)३,३.१३१च् ।
न्यायसुधा-
तत् निर्देषविषयसन्निकृष्टनिर्देषेन्द्रियत्वादिकम् एतेषां प्रत्यक्षादीनां स्वरूपं लक्षणं हि इत्यर्थः ।
लक्षणं हि शब्दप्रवृत्तिनिमित्तं भवति ।
एतदपि कुत इत्यत आहअन्यथेति ।
… अन्यथासिद्धिमानतः । (अनुव्याख्यानम्)३,३.१३१द् ।
न्यायसुधा-
अन्यथासिद्धिश्च तन्मानं च ।
प्रकारान्तरेण प्रत्यक्षादिलक्षणानां निरूपयितुमशक्यत्वादित्यर्थः ।
तथाचोक्तम् ।
१०,२२७
ततः किं यद्येवं प्रत्यक्षादिस्वरूपमित्यत आहअत इति ।
अतो ऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् । (अनुव्याख्यानम्)३,३.१३२अब् ।
न्यायसुधा-
अनुमेत्यनुमानावगतप्रामाण्यं जिनवाक्यमुच्यते ।
चापिशब्दावितरेतरसमुच्चये ।
दर्शयेत् प्रतिपादयेत् ।
इदमुक्तं भवति ।
जिनवाक्याद्धर्मादिसिद्धिरिति वदता किं प्रमाणमुक्तं भवति ।
आगम इति चेन्न ।
सम्यक् प्रत्यक्षाद्यन(वग)धिगतार्थप्रतिपादकस्यैवागमत्वात् ।
जिनवाक्यस्य च तदसिद्धेः ।
जिनो हि प्रमाणेनार्थमुपलभ्य वाक्यं प्रणीतवानन्यथा वा ।
द्वितीये पौरुषेयस्य निर्मूलस्योन्मत्तवाक्यवत्सम्यक्त्वं दुर्लभम् ।
आद्ये प्रत्यक्षेणानुमानेन वावगतौ तदनधिगतार्थार्(थता)ऽसम्भवः ।
वाक्यान्तरेण चेदन्धपरम्परापत्त्या पुनरसम्यक्त्वमेव ।
१०,२२९
एतेन विमतं प्रमाणमाप्तवाक्यत्वात्, जिन आप्तो ऽस्स्खलितवाक्यत्वादित्यनुमानं जिनदर्शिनां वाक्यं च प्रत्युक्तम् ।
तथा हि ।
आप्तत्वविषयं वाक्यं तावन्निर्मूलं चेदसम्यगेव ।
वाक्यान्तरमूलत्वे ऽपि तथा ।
नच प्रत्यक्षं मूलम् ।
विषयान्प्रति स्थितस्याक्षस्य प्रत्यक्षत्वात् ।
नचाप्तत्वरूपापरचित्तवृत्तिरपरोक्षविषयतामश्नुते ।
अतो ऽस्स्खलितवाक्त्वाद्यनुमानमूलमित्येव वक्तव्यम् ।
नचैतदनुमानम् ।
प्रत्यक्षाद्यनुसरणेनार्थगमकस्यानुमानत्वात् ।
नचैतत्प्रकृते अस्ति ।
आप्तवाक्यत्वादित्यस्य हि यथाश्रुतार्थत्वे क्वचिदाप्तस्य विप्रलम्भकस्याज्ञस्य वाक्ये व्यभिचारः ।
आप्तिमूलवाक्यत्वादित्यभिप्राये विशेषणासिद्धिः ।
तत्त्वज्ञानादिलक्षणा खलु आप्तिः ।
तत्र धर्मादिविषयं तत्त्वज्ञानं तावन्न जिनस्य प्रत्यक्षजन्यम् ।
विषयान्प्रति स्थितस्य अक्षस्य प्रत्यक्षत्वात् ।
धर्मादेश्चाक्षाविषयत्वात् ।
तथात्वे वान्येषामपि तदधिगतिप्राप्तेः ।
अत एव नानुमानजन्यम् ।
वाक्यान्तराभ्युपगमे त्वन्धपरम्परैव ।
एवमविप्रलिप्सापि दुरधिगमा ।
अत एवाप्तत्वसाधकमनुमानं कालात्ययापदिष्यम् ।
आप्तेरुक्तविधया बाधितत्वात् ।
अन्येषामप्रत्यक्षे ऽर्थे ऽस्य प्रत्यक्षं प्रवर्तत इत्यतो न विरोध इति चेन्न ।
पुरुषत्वादिना सत्प्रतिपक्षत्वात् ।
अस्स्खलितवाक्यं च क्वचिद्वा प्रकृते वा सर्वत्र वा ।
नाद्यः ।
यः क्वचिदस्स्खलितवागसौ विषयविशेष आप्त इति व्याप्त्यभावात् ।
न द्वितीयः ।
निर्धारणोपायाभावात् ।
फलप्राप्त्यनुमेयं खल्वेतत् ।
अत एव न तृतीयो ऽपि ।
यत्तु निःस्वेदत्वादिकं लिङ्गमुच्यते तत्तावत्सन्दिग्धासिद्धम् ।
औषधादिना सम्भवदन्यथासिद्धं च ।
नचायं मन्वादिवाक्येष्वपि प्रसङ्गः ।
अपौरुषेयतया मूलानपेक्षवेदमूलत्वात् ।
‘यद्वै किञ्चन मनुरवदत्तद्भेषजम्’ इत्यादिवेदेनैवाप्तत्वादिनिश्चयाच्च ।
अतः प्रत्यक्षादीनामुक्तलक्षणत्वाज्जिनतद्दर्शितप्रत्यक्षे परोपन्यस्तानुमाने जिनादिवाक्ये च
तदभावादनुमानादिसिद्धाप्तभावजिनवाक्याद्धर्मादिसिद्धिरित्यसदिति ।
१०,२३१
न केवलं जिनस्यास्स्खलितवाक्त्वं निश्चायकाभावादिसिद्धम् ।
किन्तु स्स्खलनदशर्नादपीत्याशयेनाहस्वरूप इति ।
१०,२३२
स्वरूपं पुद्गलस्योक्ता दोषा … । (अनुव्याख्यानम्)३,३.१३२च्द् ।
न्यायसुधा-
विषयसप्तमीयम् ।
अपुद्गलशब्देन तञिवयुक्तन्यायेन पुद्गलाद्देहादन्यस्तत्सदृशश्चात्मोच्यते पुद्गलशब्देनैव वा ।
उक्ताः’एवं चात्मा कात्स्नर्यम्’ इत्यादिना ।
अयमर्थः ।
जिनेनात्मस्वरूपं शरीरपरिमाणं रूपवच्चोक्तम् ।
तत्प्राग्दूषितमिति स्खलितवागसाविति ।
यद्यपि सप्तभङ्गिनयो ऽपि तदुक्तो दूषितस्तथापि मोक्षसाधनं यत्पुद्गलदशर्नमुक्तं तत्रैव स्खलनप्रदर्शनायेयमुक्तिः ।
ननु एतदपि पूर्ववाक्येन सिद्धम् ।
सत्यम् ।
प्रपञ्चार्थ उत्तरबन्ध इत्यदोषः ।
१०,२३३
प्रकारान्तरेणात्मस्वरूपे जिनवचनस्खलनं दर्शयतिआनन्दमेवेति ।
… आनन्दमेव च ।
न मन्यते पुद्गलं स … । (अनुव्याख्यानम्)३,३.१३२दे ।
१०,२३३फ़्.
न्यायसुधा-
अत्राप्यपुद्गलपुद्गलशब्दाभ्यामात्मोच्यते ।
तत्त्वविद आत्मानमानान्दमेवानन्देनात्यन्ताभिन्नं मन्यन्ते ।
स जिनस्तमानन्दमेव न मन्यन्ते ।
भिन्नत्वादिना सप्तप्रकारं ब्रवीति ।
तत्सप्तभङ्गीनयनिरासेन पुंस्त्वादिवदित्यात्मनः सुखाद्यत्यन्ताभेदसाधनेन च निरस्तम् ।
अतश्च स्खलितवागसाविति भावः ।
१०,२३४
इतश्च तथेत्याहदुःखेति ।
… दुःखाभावः सुखं त्विति । (अनुव्याख्यानम्)३,३.१३२फ़् ।
न्यायसुधा-
तुशब्द आत्मव्यावृत्त्यर्थः ।
इतिशब्दो हेतौ ।
पूर्वेणैव सम्बन्धः ।
यस्मादात्मा भावः ।
सुखं तु दुःखाभावः ।
नच विरुद्धस्वभावयोरत्यन्ताभेदो दृष्टः ।
तस्मादात्मा न सुखात्यन्ताभिन्न इति जिनो ब्रूते ।
तच्चायुक्तमित्यतः स्खलितवागसौ ।
कुतस्तदयुक्तमित्यत आहमात्रेति ।
मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् । (अनुव्याख्यानम्)३,३.१३३अब् ।
न्यायसुधा-
मीयन्त इति मात्राः शब्दाद्या विषयाः ।
भोगो ऽनुभवः ।
उपलक्षणं चैतत् ।
विषयभोगाल्पत्वेन सुखाल्पत्वदर्शनत्वादित्यपि ग्राह्यम् ।
सुखं भावस्तारतम्योपेतत्वाद्दुःखादिवदिति प्रमाणविरुद्धत्वात्सुखस्य दुःखाभावत्ववचनमयुक्तमित्यर्थः ।
सुखस्य तारतम्योपेतत्वसमर्थनाय दर्शनादिति साक्षी तत्र प्रमाणत्वेन दर्शितः ।
यस्तु तत्रापि विप्रतिपन्नस्तं प्रत्यनिष्यप्रसङ्गं सूचयितुं मात्राभोगातिरेकेणेत्युक्तम् ।
यदि सुखं निरतिशयं स्यात्तदा प्रेक्षावतां विषयभोगातिरेकोपादनं व्यर्थं स्यात् ।
दृश्यते च तदिति ।
१०,२३५
ननु न सुखं तारतम्योपेतं किन्तु दुःखं भावभूतं तारतम्योपेतं तदभावश्च सुखम् ।
तद् यावद्यावन्निवर्तते तावत्तावत्सुखमिति प्रतीयते ।
नच प्रतियोगरूपोपाधिनिमित्ता तारतम्योपलब्धिस्तात्त्विकं तदुपपादयितुमीष्ये ।
विषयभोगातिरेकोपादानं च दुःखातिरेकव्यावृत्त्यर्थम् ।
विषयभोगसाध्यत्वाद्दुःखाभावस्येत्यत आहसुखस्येति ।
सुखस्याभावता केन … । (अनुव्याख्यानम्)३,३.१३३च् ।
न्यायसुधा-
भवेदेतत्प्रतीत्यादेरौपाधिकत्ववर्णनम् ।
यदि सुखस्याभावता प्रमाणेन सिद्धा स्यात् ।
सुखस्याभावता केन न केनापि प्रमाणेन सिद्धेत्यर्थः ।
एवमेव प्रतीत्यादेरौपाधिकत्ववर्णने बाधकमाहनचेति ।
… नच स्यात् किं विपर्ययः । (अनुव्याख्यानम्)३,३.१३३द् ।
१०,२३५फ़्.
न्यायसुधा-
यदि निर्निबन्धनमेव सुखतारतम्यदशर्नादेरौपाधिकत्वं कल्प्यते ।
तदा सुखं भावरूपं दुःखं तदभावः ।
तत्र तारतम्यदर्शनं प्रतियोगिसुखोपाधिनिमित्तम् ।
सुखनिवृत्त्यर्थानि चाहिकण्टकादीनीति परोक्तविपयर्यश्च किन्न स्यात् ।
स्यादेव ।
अतो द्वयोरप्यनुपलभ्यमानविशेषत्वात्स्वाभाविकतारतम्योर्भावत्वमङ्गीकर्तव्यमिति ।
१०,२३६
सुखमभावो वस्तुत्वात्सम्मताभाववदिति प्रमाणसद्भावात्कथं सुखस्याभावता केनेत्युक्तमिति चेत् ।
किमेवंवादिनो मते कश्चिद्भावो विद्यते ।
उत सर्वे ऽप्यभावाः ।
आद्ये दोषमाहयदीति ।
यदि भावो ऽपि कश्चित् स्यात् तस्यैवाभावता कुतः । (अनुव्याख्यानम्)३,३.१३४अब् ।
न्यायसुधा-
वस्तुत्वेन सुखस्याभावतामनुमिमानस्य मते यदि कश्चित्पदार्थो भावो ऽपि स्यात् ।
तर्हि तस्य सुखस्यैवाभावता कुतः ।
अपि तु भावत्वेनाङ्गीकृतस्यापि पदार्थस्याभावता स्यात् ।
अन्यथा वस्तुत्वस्य तत्र व्यभिचारापत्तेः ।
ननु सर्वे ऽपि पदार्था अभावा भवन्त्येवति नोक्तो दोषः ।
यद्यपि घटादीनामनादित्वाद्यापत्त्या प्राक् प्रध्वंसात्यन्ताभावत्वमनुपपन्नम् ।
तथाप्यन्योन्याभावत्वं युज्यत एव ।
घटे हि पटाद्यन्योन्याभावः प्रमाणसिद्धः ।
नचान्योन्याभावो धर्मिणो ऽन्यो ऽस्ति ।
अतो घट एव पटाद्यन्योन्याभावः ।
एवं पटादयो ऽपीति द्वितीयं शङ्कतेयदि सर्वे ऽपीति ।
यदि सर्वे ऽप्यभावाः स्युरन्योन्यमिति । (अनुव्याख्यानम्)३,३.१३४च्द् ।
न्यायसुधा-
सर्वेऽपि पदार्था अन्योन्याभावाः स्युरिति यदि मन्यस इत्यर्थः ।
उत्तरमाहभावतेति ।
… भावता । (अनुव्याख्यानम्)३,३.१३४द् ।
अभावाभावता यत् स्यात् किं नश्छिन्नं तदा भवेत् । (अनुव्याख्यानम्)३,३.१३५अब् ।
१०,२३७
न्यायसुधा-
तदैवं सर्वपदार्थानामन्योन्याभावत्वव्युत्पादनेन नो ऽस्माकं किं छिन्नं भवेत् ।
न किमपि ।
कथम् ।
यतो ऽभावाभावता भावतैव स्यात् ।
इदमुक्तं भवति ।
सुखस्य वस्तुत्वेन साध्यमानमभावत्वं किं प्रागभावादित्रयान्यतमत्वम् ।
अथवान्योन्याभावत्वम् ।
उत सामान्यम् ।
आद्ये प्रागुक्तदोषपरिहारः ।
द्वितीयतृतीययोः सिद्धसाधनम् ।
अस्माभिरपि सुखादीनां सर्वपदार्थानामन्योन्याभावतास्वीकारात् ।
नच भावत्वाङ्गीकारविरोधः ।
सुखं हि स्वान्योन्याभावदुःखा(द्य)न्योन्याभावः ।
अभावाभावश्च भाव एव ।
एवम्भूतं चाभावत्वं सुखस्य नात्मस्वरूपतां विरुणद्धि ।
आत्मनो ऽपि तथात्वादिति ।
१०,२३९
अभावाभावता भावतैव स्यादित्युक्तम् ।
तदुपपादयितुं भावाभावस्वरूपं तावदाहभावत्वमिति ।
भावत्वं विधिरूपत्वं निषेधत्वमभावता । (अनुव्याख्यानम्)३,३.१३५च्द् ।
न्यायसुधा-
भावत्वं नाम विधिरूपत्वमभावत्वं नाम निषेधत्वमिति योजना ।
शब्दप्रवृत्तिनिमित्तनिष्कर्षार्थं भावप्रत्ययः ।
अन्यथेन्द्रः पुरन्दर इतिवत्स्यात् ।
ततः किमित्यत आहनिषेधस्येति ।
निषेधस्य निषेधो ऽपि भाव एव बलाद् भवेत् । (अनुव्याख्यानम्)३,३.१३६अब् ।
न्यायसुधा-
यस्मादभावो नाम निषेधस्तस्मादभावस्याभाव इति निषेधस्यापि निषेध इत्युक्तं स्यात् ।
स च विधिरेव स्यात् ।
दर्शनबलात् ।
दृष्टो हि’नेयङुवङ्स्थानौ’ इति निषेधस्यास्त्रीति निषेधो विधिः ।
वक्ष्यते चैतत् ।
विधिश्च भाव एवेत्युक्तम् ।
तस्मादभावाभावता भावतैवेति युक्तम् ।
१०,२४०
एवं तर्हि द्रव्यादयो भावाः प्रागभावादयो ऽभावा इत्यन्यत्रोक्तनियमो न स्यात् ।
घटस्यापि न पट इति निषेधरूपतायाः प्रागभावस्यापि प्रमेय इति विधिरूपताया दर्शनादित्यतः प्रागुक्तं स्मारयतिप्रथमेति ।
प्रथमप्रतिपत्तिस्तु भावभावनियामिका । (अनुव्याख्यानम्)३,३.१३६च्द् ।
न्यायसुधा-
कृतव्याख्यानमेतत् ।
१०,२४१
एवं जिनस्य स्खलितवाक्त्वप्रदर्शनेन तदुक्तस्य मोक्षसाधनस्याप्रामाणिकत्वमुक्तम् ।
युक्तिविरुद्धत्वं च दर्शयन्नात्मज्ञानस्य यन्मोक्षसाधनत्वमुक्तं तत्किं साक्षादुतात्मप्रसादद्वारेति विकल्प्याद्यं तावन्निराकरोतिनचेति ।
न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् । (अनुव्याख्यानम्)३,३.१३७अब् ।
न्यायसुधा-
आत्मविज्ञानं मोक्षदं न भवति अचेतनत्वात्पटवदिति शेषः ।
अस्य व्याप्तिमुचपपादयतिक्वचिदिति ।
नेति वर्तते ।
मोक्षदमिति च ।
तच्च भावप्रधानम् ।
नहि क्वचिदप्यचेतने मोक्षदत्वं दृष्टम् ।
येन व्याप्तिर्न स्यात् ।
कर्मणस्तथात्वं निराकरिष्यते ।
ज्ञानं तु चैतन्यमेव न चेतनमिति प्रसिद्धमेव ।
१०,२४२
आत्मा ज्ञातः प्रसन्नो मोक्षं ददातीति द्वितीयं दूषयतिअस्वातन्त्र्यादिति ।
अस्वातन्त्र्यात् पुद्गलस्य ज्ञातो ऽपि सुखदो न हि । (अनुव्याख्यानम्)३,३.१३७च्द् ।
न्यायसुधा-
ज्ञात आत्मापि सुखदो मोक्षदो न भवति ।
कुतः पुद्गलस्यात्मनो ऽस्वातन्त्र्यात् ।
हिशब्देन पटादौ व्याप्तिः स्फुटेति सूचयति ।
अस्वातन्त्र्यं चानुपदमेव ज्ञास्यते ।
आत्मनः सुखमात्रदानं नोपपद्यते ।
किमुतानन्तसुखमोक्षदानमिति सूचयितुं सुखद इत्युक्तम् ।
पक्षद्वयं हेत्वन्तरेण निराकरोतिन हीति ।
१०,२४३
न हि दुःखिपरिज्ञानाद् दुःखित्वं विनिवर्तते । (अनुव्याख्यानम्)३,३.१३८अब् ।
न्यायसुधा-
आत्मज्ञानमात्यन्तिकदुःखनिवृत्तिहेतुर्न भवति दुःखिज्ञानत्वाद्देवदत्तज्ञानवत् ।
जैनेनापि स्वात्मज्ञानमेव मोक्षसाधनमुच्यते नात्मज्ञानमात्रम् ।
ईश्वरज्ञाने व्यभिचारनिरासाय दुःखीत्युक्तम् ।
तस्यापि साक्षान्मोक्षसाधनत्वाभावविवक्षायां ज्ञानत्वादित्येव वक्तव्यम् ।
यद्वाऽत्मा दुःखं निवर्तयितुमशक्तः ।
दुःखित्वाद्यो यदनर्थवान्नासौ तन्निवर्तते शक्तो यथा दरिद्रो दारिद्रयनिवर्तने इति तात्पर्याथर्ः ।
दुःखित्वोक्त्यास्वातन्त्र्यं समर्थितं स्वातन्त्र्ये हि जातु न दुःखी भवेदिति ।
१०,२४४
स्यादेतत् ।
नात्मज्ञानं देवदत्तो गामिव मोक्षं ददाति ।
किन्तु प्रकाशो ऽन्धकारमिव विरोधाद् दुःखं निवर्तयति ।
तत्र किमचैतन्यं करिष्यति ।
स्वात्मज्ञानमेव च स्वदुःखविरोधि नात्मज्ञानमात्रमिति द्वितीयहेतुरप्यप्रयोजक इत्याशङ्कयाहयदीति ।
यदि पुद्गलविज्ञानाददुःखी स्यात् कथञ्चन ।
देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा । (अनुव्याख्यानम्)३,३.१३८च्फ़् ।
१०,२४४फ़्.
न्यायसुधा-
कथञ्चन दुःखात्मज्ञानयोर्विरुद्धत्वेन ।
तर्हि ज्ञानादुत्तरकालं देहवानपि सदा निरन्तरमदुःखी किन्न स्यात्, स्यादेव ।
एतदुक्तं भवति ।
प्रकाशः खल्वन्धकारविरोधित्वात्तन्निवर्तयन् उत्पत्त्यनन्तरमेव निवर्तयति न तु विलम्बेन ।
विलम्बे विरोधस्यैवानिर्वाहात् ।
तथात्मतत्त्वज्ञानं यदि दुःखाद्यनर्थविरोधित्वात्तन्निवर्त्यात्मानं मुक्तं कुर्यात् ।
तर्हि जिनादयस्तत्त्वज्ञानसम्पन्ना ज्ञानोत्पत्त्यनन्तरमेव मुक्ताः स्युः ।
न चैवम् ।
देहादिमत्त्वेनोपलम्भात् ।
तथाविधानां च दुःखादेरवर्जनादिति ।
इष्यापत्तिनिरासाय सदेत्याद्युक्तम् ।
अयमत्र प्रयोगः ।
दुःखादिकमात्मतत्त्वज्ञानविरोधि न भवति बहुलं कालं तेन सह स्थितत्वात्सम्मतवदिति ।
किञ्चात्मतत्त्वज्ञानं न तावदामोक्षादेकम् ।
ज्ञानानां क्षणिकत्वदर्शनात् ।
तथाच यदनन्तरं मोक्षो ऽभिलष्टते तज्जिनस्य चरमज्ञानं न मोक्षसाधनमात्मज्ञानत्वात्प्रथमादिज्ञानवत् ।
अन्यथा प्रथममेव मोक्षं साधयेदविशेषादिति ।
१०,२४६
ननु भवद्भिरीश्वरज्ञानं मोक्षसाधनमभ्युपेयते ।
तत्रापि समानमिदं दूषणमित्यत आहईशेति ।
ईशक्ळ्प्त्यनुसारेण स्यात् कालादीशवादिनः । (अनुव्याख्यानम्)३,३.१३९अब् ।
१०,२४७
न्यायसुधा-
ईशवादिनो मम मते तदिच्छाविशेषानुसारेण कालात्कञ्चन कालमतिवाह्य मुक्तिः स्यात् ।
अयमभिसन्धिः ।
न वयमीश्वरज्ञानं मोक्षसाधनमाचक्ष्महे ।
किन्नाम प्रसन्नः परमेश्वर एव ।
ज्ञानं तु प्रसादसाधनत्वान्मोक्षसाधनमिति गीयते ।
स च चेतनः कामपि कालकल्पनां करोति ।
अस्मिन्समये ऽमुं मुक्तं करिष्यामीति ।
तत्कल्पनानुसारेण भवत्येवासौ मुक्त इति न कश्चिद्दोषः ।
यथा ब्राह्मणस्य विद्याचरणादिना प्रसन्नो ऽपि प्रभुश्चेतसा कल्पयति ।
आगामिनि सूर्योपरागे ऽस्मै गां दास्यामीति ।
स ब्राह्मणस्य विद्याचरणादिना प्रसन्नो ऽपि प्रभुश्चेतसा कल्पयति ।
आगामिनि सूर्योपरागे ऽस्मै गां दास्यामीति ।
स तदनुसारेण तस्माद्गां लभते तथैवेति ।
एवमात्मज्ञानस्य मोक्षसाधनत्वं निराकृत्य धर्मस्यापि तं निराचष्टेकर्मेति ।
१०,२४८
कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित् । (अनुव्याख्यानम्)३,३.१३९च्द् ।
न्यायसुधा-
कर्मणा हेतुत्वं कर्महेतुत्वं मोक्षं प्रति ।
यद्वा कर्महेतुत्वमिति बहुव्रीहिः ।
मोक्षस्येति शेषः ।
तुशब्दो ऽवधारणे ।
नैवेति सम्बन्धः ।
निश्चैतन्यात्कर्मणः ।
विमतं कर्म न मोक्षसाधनं भवति अचेतनत्वात्पटवदित्यर्थः ।
व्याप्तिमुपपादयतिनहीति ।
नेत्युभयत्र सम्बद्धयते ।
नहि क्वचिदचेतने मोक्षसाधनत्वमावयोः सम्मतम् ।
येनात्र व्याप्तिर्न स्यादित्यर्थः ।
नन्वचेतनत्वे ऽपि विशिष्यं कर्मेदं मोक्षसाधनं किन्न स्यादिति चेत् ।
किमामोक्षप्राप्तेः क्रियमाणमेकमेव कर्मोतानेकानि ।
नाद्यः ।
क्रियाणामनेकत्वदर्शनात् ।
प्रतिक्रियं कर्मोत्पत्तेः ।
एकत्वे च जातस्यैव जन्म वा क्रियाणां वैयर्थ्यं वा विरम्यव्यापारो वाऽपद्येत ।
अभ्युपगम्यैकत्वं बाधकमाहअशेषेति ।
१०,२४९
अशेषदुःखविलये नेदानीं कारणं यथा ।
तथोत्तरं च नैव स्याद् … । (अनुव्याख्यानम्)३,३.१४०अच् ।
न्यायसुधा-
यथेदानीं प्रथमक्रियोत्तरकालं जातं कर्माशेषदुःखविलये मोक्षस्य कारणं न भवति ।
तथोत्तरकालं विवक्षितकाले ऽपि मोक्षकारणं न स्यात् ।
कर्मत्वादिति शेषः ।
एकस्यापि कर्मणः कालभेदेन भेदात्पक्षसपक्षत्वं युज्यते ।
विपक्षे तूत्पत्त्यनन्तरमेव मोक्षं साधयेदविशेषादिति ।
द्वितीये ऽपि बाधकं प्रमाणमाहअशेषेति ।
अत्रेदानीमितीदानीन्तनी कर्मव्यक्तिरुच्यते ।
उत्तरमित्यन्तिमा ।
अन्यत्समानम् ।
नचान्तिमकर्मव्यतिरिक्तानां कर्मणां मोक्षसाधनत्वमस्ति ।
तथा सति तदनन्तरमेव मोक्षप्रसङ्गात् ।
नच पूर्वसहकृस्यान्तिमस्य कर्मणो मोक्षसाधनत्वं वाच्यम् ।
इयत्ताभावेनानियतकारणकत्वापत्तेः ।
नहि ज्ञानोदयानन्तरमियतैव कालेनेयन्त्येव कर्माणि कृत्वापव्रज्यत इति नियमः प्रमाणवान् ।
नच जैनैरिष्यते ।
जिनानां विषमकालत्वाभ्युपगमात् ।
१०,२५४
आभासोद्धारं करोतिदृष्टीति ।
… दृष्टिपूर्वानुमा यतः । (अनुव्याख्यानम्)३,३.१४०द् ।
न्यायसुधा-
यस्मादियं दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमती ।
ततो ऽनुमा न त्वाभास इत्यर्थः ।
यदुक्तमीशक्ळ्प्त्यनुसारेणेति तदसत् ।
ज्ञानादीश्वरप्रसादस्ततो मुक्तिरित्यत्र प्रमाणाभावादिति चेन्न ।
श्रुतेः सद्भावात् ।
तत्प्रामाण्यस्य साधितत्वात् ।
आभासादनुद्धरन्नेव(वा) चानुमानमप्याहदृष्टीति ।
शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।
तयैव बन्धहानिः स्यादिति किं नाम दूषणम् । (अनुव्याख्यानम्)३,३.१४१ ।
न्यायसुधा-
शक्तस्यान्यस्य विज्ञानं विशिष्यज्ञानं गुणोत्कर्षादिज्ञानमिति यावत् ।
तत्प्रीतिजनकमिति यद्यनुमीयते ।
यदि च तया तत्प्रीत्यैव बन्धहानिः स्यादित्यनुमीयते ।
तदा किन्नाम दूषणम् ।
न किमपि ।
कुतः ।
यतो दृष्टिपूर्वा प्रमाणगृहीतव्याप्त्यादिमतीयमनुमेत्यर्थः ।
अर्थमात्रमिदमुक्तम् ।
एषा तु प्रयोगप्रक्रिया ।
संसारबन्धहानिः समर्थपुरुषान्तरप्रीतिनिबन्धना बन्धहानित्वात् राजप्रसादाधीनभृत्यनिगडबन्धहानिवत् ।
यश्चासौ पुरुषः स एवेश्वरः ।
विप्रतिपन्ना प्रीतिर्गुणोत्कर्षादिज्ञानजा अनिजप्रीतित्वाद्राजप्रीतिवत् ।
कर्मादिना भवन्नीश्वरप्रसादो ऽपि गुणोत्कर्षादिज्ञाने सत्येवेति न दोषः ।
यद्वेश्वरविषयं गुणोत्कर्षादिज्ञानत्वात्सम्मतवत् ।
नचेश्वरसिद्धया दोषः ।
प्रथमानुमानेन तस्य सिद्धत्वात् ।
तदिदमुक्तं शक्तस्यान्यस्येति ।
१०,२५५
नन्वेतद्विपरीतमपि मयानुमीयते ।
ततः सत्प्रतिपक्षतेति चेत् ।
किं विमता बन्धहानिः स्वज्ञाननिबन्धनेत्यनुमीयते उत परप्रसादनिबन्धना न भवतीति ।
आद्ये दोषमाहस्वज्ञानादिति ।
स्वज्ञानाद् बन्धहानिस्तु दृश्यते कस्य कुत्रचित् । (अनुव्याख्यानम्)३,३.१४२अब् ।
न्यायसुधा-
दृश्यत इत्येतत्काक्वा न दृश्यत इति व्याख्येयम् ।
तथाच व्याप्त्यभाव इति भावः ।
द्वितीये तु बन्धहानित्वादे राजप्रसादाधीननिगडबन्धहान्यादौ व्यभिचारः ।
परप्रसादनिरपेक्षैव काचिद्बन्धहानिर्दृश्यते ।
तत्र भवतामपि व्यभिचार इति चेन्न ।
पक्षतुल्यत्वात् ।
सर्वाप्यनिष्यनिवृत्तिरीश्वरप्रसादाधीनेति हि तत्त्वविदां पन्थाः ।
१०,२५७
यदुक्तं धर्मज्ञानयोर्मोक्षसाधनत्वे तदैव मोक्षः स्यादिति तदसत् ।
कर्मणः प्रतिबन्धकस्य सद्भावात् ।
नहि प्रतिबन्धकवशात्कार्यमकुर्वाणो हेतुरहेतुर्भवति ।
अतिप्रसङ्गात् ।
अनेकविधं खलु कमर् ।
तत्र यद्यपि ज्ञानावरणा(णीया)दिकं ज्ञानादेव निवृत्तम् ।
तथाप्यायुरादिकारणमस्त्येवेति चेत् ।
स्यादिदं प्रतिबन्धकसद्भावकल्पनं यदि’अहिंसादिरूपो धर्मः, शरीरपरिमाणत्वादिनाऽत्मज्ञानं च तत्त्वज्ञानम्, एते च धर्मज्ञाने मोक्षसाधने’
इत्येषो ऽर्थः प्रमितो भवेत् ।
नचैवम् ।
एवमेव कल्यने ऽतिप्रसङ्ग इत्याशयवान्धर्मादिस्वरूपे तावत्प्रमाणं नास्तीत्याहअहिंसायाश्चेति ।
अहिंसायाश्च धर्मत्वं केन मानेन गम्यते । (अनुव्याख्यानम्)३,३.१४२च्द् ।
न्यायसुधा-
चशब्दो ज्ञानसङ्ग्रहार्थः ।
यद्वा सप्तघटिकाभोजनादिसमुच्चयार्थः ।
ज्ञानविशेषस्य चोपलक्षणम् ।
जिनवाक्येनावगम्यत इति चेन्न ।
तत्प्रामाण्यसाधकाभावस्योक्तत्वात् ।
१०,२६०
सत्प्रतिपक्षं च जिनवाक्यमित्याहहिंसाया एवेति ।
हिंसाया एव धर्मत्वमित्युक्ते स्यात् किमुत्तरम् । (अनुव्याख्यानम्)३,३.१४२एफ़् ।
न्यायसुधा-
अत्रापि पूर्ववदुपलक्षणं ज्ञातव्यम् ।
जिनवाक्यादहिंसाया धर्मत्वं प्रतिपन्नस्य भिन्नकाचार्येण हिंसाया एव धर्मत्वमित्यक्ते किमुत्तरं स्यान्न किमपि ।
तथाच न धर्मनिश्चयः स्यात् ।
भिन्नकाचार्यो नाप्त इति चेत् ।
जिनो ऽपि कथमाप्तः ।
(सार्वज्ञगु)सर्वगुणोपेतत्वादिति चेत् ।
भिन्नकाचार्ये ऽपि तुल्यमेतत् ।
अप्रामाणिकास्तत्र ते गुणा इति चेत् ।
जिने ऽपि किं प्रमाणसिद्धाः ।
जिनदर्शिनां वचनेन तेषां तत्र सिद्धिरिति चेन्न ।
समानमन्यत्रापि ।
भिन्नकाचार्यदर्शिनो भ्रान्ताः प्रतारका वेति चेत् ।
जिनदर्शिनो ऽपि कुतो न तथेति ।
१०,२६१
इदानीं धर्मादेर्मोक्षसाधनत्वमप्यप्रामाणिकमित्याहधर्मस्येति ।
धर्मस्य सुखहेतुत्वमपि केनावगम्यते । (अनुव्याख्यानम्)३,३.१४३अब् ।
न्यायसुधा-
सुखं मोक्षः ।
जिनवाक्येनावसीयत इति वदतः पूर्ववत्सत्प्रतिपक्षतेत्याहहत्याया इति ।
हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते । (अनुव्याख्यानम्)३,३.१४३च्द् ।
न्यायसुधा-
मोक्षहेतुत्वं केनचिदाचार्येणोक्तमिति शेषः ।
हनस्त चेत्यत्र सुपीति नानुवर्तते ।
ब्रह्महत्यादयस्तु षष्ठीसमासाः ।
अतो हत्येति साधुः ।
‘सन्ति खल्वक्षयं ह वै चातुर्मास्ययाजिनः सुकृतं भवति’ इत्यादिश्रुतिमनुसृत्य हिंसात्मकस्य यागस्य मोक्षहेतुत्वं वदन्त इत्ययुक्तमेव जैनानां
मोक्षसाधनमिति ।
१०,२६४
अधुना बौद्धाभिमतं मोक्षसाधनं निराकुर्वाणः शून्यवाद्युक्तं तावदपाकरोतिनचेति ।
न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।
मोक्षः कथञ्चन भवेद् … । (अनुव्याख्यानम्)३,३.१४४अच् ।
न्यायसुधा-
शून्यमेव तत्त्वं समस्तं तत्राध्यस्तमिति परिज्ञानम् ।
तथैव शून्यभावनया शून्यध्यानेन ।
अपिचावन्योन्यसमुच्चये ।
मोक्षो न भवेदिति सम्बन्धः ।
कथं च नेत्यनेनेदमाचष्टे ।
शून्यपरिज्ञानादिकं मोक्षसाधनमित्यत्र प्रमाणाभावात्तत्रैव बन्धहानिः स्यादित्युक्तप्रमाणविरोधाच्चेति ।
यद्वा शून्यपरिज्ञानादिकं किं स्वयमेव मोक्षं साधयति किंवा शून्यप्रसादजननेन ।
नाद्यः ।
अचेतनत्वात्पटवत् ।
न द्वितीयः ।
शून्यस्य प्रसादगुणानङ्गीकारात् ।
अन्यथा शून्यत्वव्याघातादिति ।
१०,२६५
स्यादेतत् ।
बन्धस्तावत्संवृविनामकाज्ञाननिमित्तो ऽध्यासः ।
संवृतिश्च विरोधिना शून्यज्ञानेन निवर्त्यते ।
ततस्तन्मूलो बन्धाध्यासो ऽपीति किमचेतनत्वादिकं करिष्यति ।
नच एवम्भावनावैयर्थ्यम् ।
असम्भावनाविपरीतभावनानिवृत्त्यर्थत्वादिति ।
मैवम् ।
बन्धस्याध्यस्तताया निरस्तत्वात् ।
अङ्गीकृत्य दोषमाहयदीति ।
… यदीदानीं कथं न सः । (अनुव्याख्यानम्)३,३.१४४द् ।
न्यायसुधा-
शून्यपरिज्ञानादित्यादिकं सर्वमनुवर्तते ।
शून्यज्ञानेन कथञ्चनेति शङ्कितरीत्या मोक्षो भवेदिति यद्युच्यते तर्हि स मोक्षः कथमिदानीं ज्ञानोदयानन्तरक्षणे न भवेत् ।
तदैव भवितव्यमित्याशयः ।
नहि प्रदीपस्य विरोध्यन्धकारनिवर्तने विलम्बो ऽस्ति ।
अङ्गीक्रियन्ते च शून्यज्ञानसमनन्तरमपि संसरन्तः पुरुषाः परेण ।
असम्भावनाविपरीतभावनासद्भावाद्विलम्ब इति चेत् ।
ते किं संवृतिकार्ये न वा ।
द्वितीये शून्यवदनिवृत्तिरेव ।
आद्ये संवृतौ निवृत्तायां कथं तदनिवृत्तिः ।
अन्यथा संवृत्यनिवृत्तिर्वा तदकार्यत्वमेतयोर्वा स्यात् ।
संवृतेरनिवृत्तौ च कथं ज्ञानविरोधित्वम् ।
पश्चादपि कथं निवृत्तिः ।
१०,२६६
ननु यथा भवन्मते ज्ञानोदयानन्तरमपि संसारावस्थानं तथास्मन्मते ऽपि किं न स्यादित्यतो वैषम्यमाहपरेति ।
परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते ।
पुमिच्छाधीनता नो चेद् विळम्बः किङ्कृतो भवेत् । (अनुव्याख्यानम्)३,३.१४५ ।
न्यायसुधा-
अनुष्ठितस्वकृत्यस्यापि तेन परप्रसादनेच्छोस्तु फलावाप्तौ विलम्बो नाम युज्यते ।
लोके तथा दर्शनात् ।
मोक्षस्य पुरुषान्तरप्रसादाधीनता नो चेदास्थीयते केवलं शून्यज्ञानं बन्धविरोधित्वाद्बन्धं निवर्तयतीत्यङ्गीक्रियते तदा ज्ञानोदयानन्तरं मोक्षस्य
विलम्बः किं निबन्धनो भवेत् ।
प्रतिबन्धकत्वेन कल्प्यमानस्य संवृतिकायर्त्वेन ज्ञानविरोधित्वात् ।
नहि प्रबोधानन्तरं स्वाप्नबन्धनिवृत्तेर्विलम्बो ऽस्ति ।
परप्रसादानपेक्षेष्वपि कार्येषु विलम्बो ऽस्ति ।
त्रिवृन्मूलाभ्यवहरणादौ कृते ऽपि विरेचनादेविर्लम्बदर्शनात् ।
तत्कथमुच्यते पुमिच्छाधीनताभावे विलम्बो न भवेदिति ।
तत्राहअन्यत्रापीति ।
अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः । (अनुव्याख्यानम्)३,३.१४६अब् ।
न्यायसुधा-
मोक्षादन्यत्र ।
एतावता कालेनेदं भवत्वितीशेच्छैव निमित्तं ततः ।
कुतो ऽत्रेश्वरेच्छानिमित्तं कल्प्यत इत्यत आहअन्यथेति ।
अन्यथा कारणं चेत् स्यात् किं कार्यं नोपजायते । (अनुव्याख्यानम्)३,३.१४६च्द् ।
१०,२६७फ़्.
न्यायसुधा-
ईश्वरेच्छाया अकल्पने कारणं स्याच्चेत्त्रिवृन्मूलादनादिमात्रं विरेकादेः कारणं यदि भवेत्तदा तस्य सद्भावात्कार्यं विरेकादिकं कस्मान्नोपजायते ।
उपजायेतैव ।
कार्यानुदयेनैव सामग्रीवैकल्यं कल्प्यते ।
न(चादृष्टवै)च दृष्टस्य वैकल्यमत्रास्तीति परमेश्वरेच्छैव कल्प्या ।
नच धर्मवैकल्यं कल्पयितुं युक्तम् ।
उत्तरकालमपि कार्यानुदयप्रसङ्गात् ।
नहि तन्मध्ये कश्चिद्धर्मो ऽनुष्ठीयते । विद्यमान एव प्रागलब्धवृत्तिर्धर्म इति चेत् ।
केयं वृत्तिर्नाम ।
किं कार्यकारणमुत सहकारिसाहित्यम् ।
नाद्यः ।
करणमेव कुतो नास्तीति विचार्यमाणत्वात् ।
द्वितीये तदेव सहकारीश्वरेच्छैवोच्यते ।
औषधस्य शरीराशयव्याप्त्यभावात्कार्यानुदय इति चेन्न ।
तस्यापीश्वरेच्छामन्तरेणानुपपत्तेरिति ।
१०,२६९
किञ्च प्राप्तसाधनाभिमतानामपि मोक्षविलम्बे सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वान्यैर्वादिभिः कथञ्चिच्छक्यते वक्तुम् ।
नतु बौद्धेनेत्याशयवानाहकारणे सतीति ।
कारणे सति कार्यस्य भावः सुनियतो ऽस्य हि । (अनुव्याख्यानम्)३,३.१४६एफ़् ।
न्यायसुधा-
अस्य बौद्धस्य मते कारणे सति कार्यस्योत्पादः सुनियतो न त्वन्येषामिवाप्रतिबद्धकारणसामग्षां सत्याम् ।
समर्थस्य क्षेपायोगादिति तद्वचनादिति हिशब्दार्थः ।
अतः शून्यविज्ञानादिकं न मोक्षसाधनमिति सिद्धम् ।
विज्ञानवाद्युक्तं मोक्षसाधनं दूषयतिविज्ञानेति ।
विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ।
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित् । (अनुव्याख्यानम्)३,३.१४७ ।
१०,२६९फ़्.
न्यायसुधा-
द्वितैव द्वैतम् ।
स्वार्थिको ऽण् ।
न द्वैतमद्वैतम् ।
विज्ञानस्याद्वैतं विज्ञानाद्वैतम् ।
विज्ञानमेकमेव तत्त्वं न ततो ऽन्यदस्तीति वेदनात् ।
विज्ञानभावनात् विज्ञानाद्वैतध्यानात् ।
आद्यश्चशब्दो वादिसमुच्चये ।
द्वितीयः साधनसमुच्चये ।
एवशब्दो नैव घटत इत्याद्यः सम्बद्धयते ।
द्वितीयस्तु साधननियमार्थः ।
विज्ञानवादिन इति तेनै(ताभ्यां)व ताभ्यां साधनाभ्यां भवतीति प्रतिपादितः ।
सामर्थ्याद्विज्ञानाद्वैतवेदनादिकं विज्ञानवादिनोक्तं मोक्षसाधनं नैवोपपद्यत इत्यर्थः ।
यद्वा विज्ञानवादिन इति तेन प्रतिपादिताद्विज्ञानाद्वैतवेदनादिकान्मोक्षो नैव घटते नैव सम्पद्यत इति योजना ।
कुत इत्यतः पूर्वोक्तं सर्वं स्मारयितुं क्वचित्काले ह्यसौ, नतु ज्ञानोदयोत्तरकाल एव भवतीत्युक्तम् ।
१०,२७१
वैभाषिकसौत्रान्तिकाभिमतं मोक्षसाधनं पराचष्टेअन्तरिति ।
अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ।
भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते । (अनुव्याख्यानम्)३,३.१४८ ।
न्यायसुधा-
शरीरान्तःस्थितस्य ज्ञानस्य ।
उपलक्षणमेतत् ।
विज्ञानवेदनासञ्ज्ञासंस्काराणां बाह्ये स्थितस्य रूपस्य च यत्क्षणिकत्वं तस्य वेदनात् ।
उक्तमार्गेण क्षणिकत्वेन ।
न मुच्यते पुरुषः ।
कुतो ऽत्रार्थे मानाभावात् ।
अकृताभ्यागमकृतविप्रणाशादयो दोषाः स्फुटा एवेति नोक्तः ।
१०,२७२
एवं वेदबाह्यमतानि निराकृत्य वैदिकानि निराकुर्वाणः साङ्खयोक्तेः मोक्षसाधनं तावदनुवदतिप्रकृतेरिति ।
प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ।
इति शङ्कया … । (अनुव्याख्यानम्)३,३.१४९अच् ।
न्यायसुधा-
प्रकृतेरन्तःकरणादिरूपायाः पुरुषस्य स्वात्मनः विवेकः स्वरूपतो धर्मतश्च भेददर्शनं साङ्खयाः प्राहुः ।
दूषयतिन चेति ।
१०,२७३
एतस्मिंश्चार्थे मानं नास्ति ।
कथं नास्ति ।
‘य एनं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानो ऽपि न स भूयो ऽभिजायते ।
क्षेत्रक्षेत्रज्ञायोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम्’ इत्याद्यागमानां सत्त्वादित्यत उक्तम्ईशाप्रसादत इति ।
… न चैतस्मिन् मानमीशाप्रसादतः । (अनुव्याख्यानम्)३,३.१४९च्द् ।
न्यायसुधा-
ईशप्रसादेन विना केवलं प्रकृतिपुरुषविवेको मोक्षसाधनमित्यस्मिन्नर्थे मानं नास्तीत्यर्थः ।
अयमभिसन्धिः ।
भवत्येव प्रकृतिपुरुषविवेको मोक्षसाधनम् ।
किन्तु भगवत्प्रसादसाधनत्वेन ।
प्रकृतिपुरुषविवेके हि पुरुषस्य वैराग्यं सम्पद्यते ।
विरक्तस्य भक्त्यादिद्वारा भगवत्प्रसाद इति ।
तदर्थानि चैतानि वाक्यानि ।
निरीश्वरेण तु साङ्खयेन साक्षान्मोक्षसाधनत्वं प्रकृतिपुरुषविवेकस्योच्यते ।
नच तस्मिन्विशेषे प्रमाणमस्तीति ।
नन्वेतानि वाक्यानि प्रकृतिपुरुषविवेकस्य मोक्षसाधनत्वं तावत्प्रतिपादयन्ति ।
नच पारम्पर्यकल्पने कारणमस्ति ।
अत एतेषामेव साक्षात्साधनत्वे प्रामाण्यमित्यत आहश्रुतय इति ।
श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः ।
वदन्ति नियमान्मुक्तिं तमृते ऽतः कुतो भवेत् । (अनुव्याख्यानम्)३,३.१५० ।
न्यायसुधा-
यस्य प्रसादादित्याद्याः श्रुतयः ।
अज्ञानां ज्ञानदो विष्णुरित्याद्याश्च स्मृतयः ।
एवशब्दस्य न प्राकृतपुरुषवाक्यानीत्यर्थः ।
यदा यस्मात् ।
नियमात्मसाधश्रान्तरव्यवच्छेदेन ।
नापरेण ।
स एवैक इति वचनात् ।
तं प्रसादम् ।
भवेन्मुक्तिः ।
बलवद्बाधकसद्भावात् लाङ्गलेन वयं जीवाम इतिवत् पारम्परत्वमेव तेषां वाक्यानां युक्तमिति भावः ।
१०,२७४
वैशेषिकाद्युक्तं मोक्षसाधनं निराकरोतिकणादेति ।
कणादयोगाक्षपादा अपि … । (अनुव्याख्यानम्)३,३.१५१अब् ।
न्यायसुधा-
योगशब्देन योगानुशासनस्य प्रणेता पतञ्जलिरुपलक्ष्यते ।
अनुपपन्नभाषिण इति शेषः ।
न केवलं साङ्खयाद्या इत्यपेरर्थः ।
नन्वेते त्रयो ऽपीश्वरप्रसादसाध्यां मुक्तिं ब्रुवते ।
तथा हि वैशेषिकेण यद्यपि द्रव्यादिपदार्थानां साधर्म्यवैधम्यर्तत्त्वज्ञानं निःश्रेयसहेतुरित्युक्तम् ।
तथापि न साक्षात् ।
किन्तु धर्मद्वारैव ।
अन्यथा यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्म इति सूत्रविरोधात् ।
नच धर्मो ऽपि साक्षान्मोक्षहेतुः ।
अपि त्वीश्वरप्रसादसहकृत एव ।
यथोक्तम् ।
तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेवेति ।
स्पष्टं च’तुष्येर्मोचयतो बद्धानतुष्येर्बध्नतः पुनः ।
कारागारमिदं विश्वं यस्य वन्दे तमीश्वरम्’ इति ।
१०,२८०
अक्षपादो यद्यपि प्रमाणादिषोडशपदार्थतत्त्वज्ञानान्निःश्रेयसाधिगम इत्याहतथापि
प्रमाणादिपञ्चदशपदार्थतत्त्वज्ञानस्यात्मादिद्वादशविधप्रमेयतत्त्वज्ञानहेतुत्वमेव ।
आत्मशरीरेन्द्रियाथर्बुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुखापवर्गास्तु प्रमेयमिति तुशब्दकरणात् ।
आत्मादिज्ञानमपि न साक्षान्मोक्षसाधनम् ।
किन्नाम परमेश्वरप्रसादोपेतमेव ।
‘स्वर्गापवर्गयोर्मार्गमामनन्ति मनीषिणः ।
यदुपास्तिभसावत्र परमात्मा निरूप्यते’ इति सम्प्रदायविद्वचनात् ।
अथ कथमनुपपन्नभाषिण इत्यत आहईशस्येति ।
… ईशस्य प्रसादतः ।
मुक्तिं ब्रुवाणा अप्याहुर् … । (अनुव्याख्यानम्)३,३.१५१ब्च् ।
न्यायसुधा-
ईश(स्य)प्रसादतो मुक्तिं ब्रुवाणा अप्येते किञ्चिदयुक्तमाहुर्यतो ऽनुपपन्नभाषिणैत्यर्थः ।
१०,२८४
तथाहि ।
यद्यपि वैशेषिकैरीश्वरप्रसादो ऽङ्गीकृतस्तथापि धर्मसहकारित्वेनैव ।
ईश्वरचोदनाभिव्यक्तादिति वचनात् ।
एवं पतञ्जलिरपि तपःस्वाध्यायादिसमानकक्ष्यतामेवेश्वरप्रणिधानस्याह ।
नैय्यायिका अप्यात्मतत्त्वज्ञानमेव मोक्षसाधनमीश्वरप्रसादस्तु सहकारिमात्रमित्यास्थिताः ।
द्वितीयसूत्रे तथैव व्युत्पादितत्वात् ।
श्रुतिस्मृतयस्तु धर्मादिकं समस्तं साक्षात्परम्परया वा भगवत्प्रसादसाधनम् ।
भगवत्प्रसादस्त्वनन्यापेक्षः साक्षादेव मोक्षसाधनमित्याचक्षते ।
‘सर्वं तदन्तराधाय मुक्तये साधनं भवेत् ।
न किञ्चिदन्तराधाय विमोक्षायापरोक्षदृक्’ इत्याद्याः ।
अतः कथं नानुपपन्नवादिन इति ।
१०,२८६
इतश्चानुपपन्नभाषिण इत्याहभोगादेव चेति ।
जोस्हि२५
… भोगादेव च कर्मणाम् ।
क्षयं प्राहुः … । (अनुव्याख्यानम्)३,३.१५१दे ।
न्यायसुधा-
वैशेषिकादयस्तत्त्वविद इव ज्ञानात्पूर्वेषां कर्मणां ज्ञानादेव विनाशं न मन्यन्ते ।
किन्तु समाधिमहिम्नापरिमितदेहव्यूहनिर्माणेनानन्तान्यपि विषमविपाकसमयान्यपि कर्माणि पिण्डीकृत्य तत्फलसुखदुःखभोगेनैव ज्ञानिनो
विनाशयन्तीति प्राहुरतो ऽप्यनुपपन्नभाषिण इत्यर्थः ।
नन्वेतदसङ्गतम् ।
मोक्षसाधनविचारस्य प्रस्तुतत्वादिति ।
मैवम् ।
अविद्याकामकर्मादिलक्षणो हि बन्धः ।
अतस्तन्निवृत्तिर्मोक्ष इति कथं कमर्क्षयो न मोक्षः ।
वक्ष्यति च ।
कर्मक्षयस्तथोत्क्रान्तिरित्यादि ।
अतो मोक्षसाधनविषयैवेयं चिन्तेति ।
तथाब्रुवाणा अपि कथमनुपपन्नभाषिण इत्यतो ऽस्यार्थस्याप्रामाणिकत्वादित्याहकुतश्चेति ।
१०,२८७
… कुतश्चैतत् प्रसन्ने जगदीश्वरे । (अनुव्याख्यानम्)३,३.१५१एफ़् ।
न्यायसुधा-
ज्ञानिनो ऽपि कर्मणां फलभोगेनैव क्षय इत्येतत्कुत एव प्रमाणात्प्रतिपत्तव्यम् ।
न कुतश्चित् ।
अक्षीणकर्मणां मोक्षानुपपत्तेस्तत्क्षयहेतोश्चान्यस्याभावादत्यन्तसुखदुःखसञ्ज्ञानमेव तत्क्षयकारणमिति कल्प्यत इत्यत आहप्रसन्न इति ।
कुत एतदिति वर्तते ।
ज्ञानेन प्रसन्नो भगवानेवाभुक्तफलान्येव कर्माणि विनाशयतीत्यन्यथैवोपपत्तेः कुत एतत्कल्प्यत इत्याशयः ।
भगवानपि कथमदत्तफलकर्मक्षयस्येष्य इति न शङ्कनीयम् ।
तदैश्वर्यस्य क्वाप्यप्रतिहतत्वादिति भावेनोक्तं जगदीश्वर इति ।
सम्भावितमेवैतन्न तु प्रमितम् ।
तत्कथमन्यथैवोपपत्तिरित्यत आहभिद्यत इति ।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे । (अनुव्याख्यानम्)३,३.१५२ ।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।
इति श्रुतिपुराणादिवचनेभ्यो ऽन्यथागतेः । (अनुव्याख्यानम्)३,३.१५३ ।
न्यायसुधा-
हृदयग्रन्थिरविद्या ।
परा अप्यवरा यस्मात्स परावरः ।
आत्मन्याततगुणे जगदीश्वरे ।
आद्यं कठश्रुतिवचनम् ।
द्वितीयं भागवतवचनम् ।
आदिपदेन वक्ष्यमाणानीतिहासवचनानि गृह्यन्ते ।
अन्यथा फलभोगेन विनेश्वरप्रसादेनैव कर्मणां गतेरपगतेर्विनाशनिश्चयादन्यथैवोपपत्तिरिति ।
१०,२८८
नन्वत्र परमेश्वरे दृष्टे कर्माणि क्षीयन्त इत्युच्यते नतु दर्शनेनेति ।
तो भोगेनेति व्याख्याने ऽपि न विरोध इति चेन्न ।
तथा सति हृदयग्रन्थिभेदनसंशयच्छेदनयोरप्यन्यसाध्यतास्वीकारापातात् ।
दृष्ट एवेत्येवशब्दविरोधाच्च ।
भोगेन क्षयस्य सर्वसाधारण्याद्दर्शनविशेषणस्य वैयर्थ्याच्च ।
१०,२८८फ़्.
अज्ञो न सर्वाणि कर्माणि भोगेन क्षेप्तुं क्षमते ।
बहुतरत्वाद्विषमविपाकसमयत्वाच्च ।
ज्ञानी तु समाधिसामर्थ्यात्कायव्यूहं निर्माय सर्वाणि समाहृत्य फलभोगेन विनाशयतीत्यतो विशेषणोपपत्तिरिति चेत्कुत एषा कल्पना ।
उक्तार्थापत्त्यैवेति चेन्न ।
अस्मदुदाहृतवचनानामन्यथाव्याख्यानस्थितावर्थापत्तिस्थितिः ।
तत्स्थितौ च वचनानामन्यथाव्याख्यानस्थितिरिति परस्पराश्रयापत्तेः ।
वचनानामन्यथाव्याख्याननिरासे सत्यर्थापत्तिनिरासस्तन्निरासे (सत्यन्य)नान्यथाव्याख्याननिरास इति भवतामपि परस्पराश्रयापत्तिरिति चेन्न ।
अवधारणादिना निरवकाशस्योक्तत्वात् ।
‘भिनत्ति कर्मसङ्घातं प्रसन्नो भगवान्हरिः’ इत्यादीनामत्यन्तानवकाशानामन्यत्रोदाहृतत्वाच्च ।
अत एव’नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि’ इत्यादिसामान्यवचनमज्ञानिविषयम् ।
ज्ञानिनामपि प्रारब्धकर्मविषयम् ।
‘आत्मनो वै शरीराणि बहूनि मनुजाधिप ।
प्राप्य योगबलं कुर्यात्तैश्च सर्वां महीं चरेत् ।
भुञ्जीत विषयन्कैश्चित्कैश्चिदुग्रं तपश्चरेत् ।
संहरेच्च पुनस्तानि सूर्यस्तेजोगणानिव’ इत्यादिकं ज्ञानिनां प्रारब्धकर्मविषयम् ।
विशेषवचनबलेन प्रारब्धकर्मविनाशस्य वक्ष्यमाणत्वात् ।
अत एव’ज्ञानादेवाशेषकमर्क्षये तदैव मुक्तिः स्यात् ।
नचैवम् ।
जीवन्मुक्तानामुपालब्धेः’ इत्यनवकाशं चोद्यम् ।
१०,२९१
विमतं कर्म फलभोगविनाश्यं कर्मत्वात्सम्प्रतिपन्नकर्मवदित्यनुमानं तु कृतप्रायश्चित्तकर्मण्यनैकान्तिकम् ।
प्रायश्चित्तं न कर्मक्षयहेतुरित्येतदुत्तरत्र निराकरिष्यामः ।
अकृतप्रायश्चित्तकर्मत्वं हेतुरिति चेत्किमिदं प्रायश्चित्तं नाम ।
पापनिवृत्त्यर्थत्वेन विहितो व्रतविशेष इति चेत् ।
तर्हि महानुभावानामनुग्रहादिना विनष्टे कर्मणि व्यभिचारः ।
पापनिवृत्तिहेतुमात्रं प्रायश्चित्तं विवक्षितमिति चेन्न ।
तथापि महदवज्ञादिना विनष्टे पुण्ये व्यभिचारः ।
क्षयहेत्वन्तररहितकर्मत्वं हेतुरिति चेत् ।
तत्किं विधिरेव हेतुत्वं गमयति ।
तथा सति समाधेरपि कायव्यूहनिर्माणादौ हेतुत्वं न स्यात् ।
आर्थवादिकं फलमविरुद्धं स्वीक्रियत इति चेत् ।
समं प्रकृते ऽपि ।
न ह्यत्र कश्चिद्विरोधो ऽस्तीत्युक्तम् ।
अलौकिकत्वं तूभयत्रापि समानम् ।
१०,२९३
किञ्चास्मिन्मते न कदापि कर्मक्षयः ।
भोगकाले ऽपि पुनः करणात् ।
न करोतीति चासम्भावितम् ।
‘नहि कश्चित्क्षणमपि’ इत्युक्तत्वात् ।
क्रियमाणापि प्रवृत्तिर्नादृष्टजननीति चेन्न ।
श्रुतिस्मृतिविरोधात् ।
ज्ञानिनां ज्ञानसामर्थ्यात्तथेत्यन्यविषयं श्रुत्यादिकम् ।
‘तद्यथा पुष्करपलाशेऽ,’ब्रह्माण्याधाय कर्माणि’ इत्यादिश्रुतिस्मृतिबलादित्थं कल्प्यत इति चेत् ।
प्राक्तनकर्मस्वप्ययं प्रकारः कुतो नाभ्युपगम्यते ।
रागद्वेषयोरभावान्न प्रवृत्तिरदृष्टकारणम् ।
यथोक्तम् ।
‘न प्रवृत्तिः प्रतिबन्धाय हीनक्लेशस्य’ इति ।
मैवम् ।
प्रामादिकब्रह्महननादीनामधर्महेतुत्वाभावप्रसङ्ग इत्यलम् ।
१०,२९४
पाशुपताद्युक्तं मोक्षसाधनं निराकरोतिनचेति ।
न च पाशुपताद्युक्तशिवादीनामनुग्रहात् । (अनुव्याख्यानम्)३,३.१५४अब् ।
१०,२९५
न्यायसुधा-
पाशुपतशब्देन चतुर्विधा अपि गृह्यन्ते ।
आदिपदेन स्कान्दसौरादयः ।
द्वितीयेनादिपदेन स्कान्दादयः ।
अनुग्रहान्मोक्षो भवतीति शेषः ।
ननु च पाशुपताद्युक्तेति तावन्नानुग्रहस्य विशेषणम् ।
असामर्थ्येन समासानुपपत्तेः ।
तथा सति पाशुपताद्युक्तादिति स्यात् ।
अत एव न मोक्षस्य विशेषणम् ।
तथा सति पाशुपताद्युक्त इति भवेत् ।
शिवादिविशेषणत्वे तु वैयर्थ्यमिति ।
उच्यते ।
अस्तु तावदनुग्रहविशेषणम् ।
तत्र शिवादीनामनुग्रह इति समास एव ।
षष्ठया आक्रोश इति षष्ठया अलुक् ।
‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’ इत्यादिश्रुतिविरोधपरिहारश्च तत्प्रयोजनम् ।
यः संसारधर्मैरीषदप्यस्पृष्टः परमशिवस्तत्प्रसादान्मुक्तिरिष्यत एव ।
यस्त्वज्ञानाद्युपेतस्तथा प्रमितस्तदनुग्रहान्मोक्षो नेत्युच्यत इति ।
‘मोक्षो ज्ञानं च क्रमशो मुक्तिगो भेद एव च ।
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत्’ इत्यादिवाक्यविरोधपरिहाराय पाशुपताद्युक्तेत्यनुग्रहो विशेषितः ।
अङ्गीक्रियत एव शिवाद्यनुग्रहो भगवत्प्रसादसाधनभूतो मोक्षहेतुः ।
नतु पाशुपताद्युक्तः स्वतन्त्रसाधनभूत इति ।
यद्वा पाशुपताद्युक्तेत्यपि भिन्नं पदम् ।
सुपां सुलुगिति पञ्चम्या लुक् ।
यद्वा प्रथमाया लुक् ।
मोक्षस्य चेदं विशेषणम् ।
तत्र वादिनिर्देशप्रयोजनं वक्तमेव ।
यद्वास्तु यथाश्रुतं शिवादीनामेव ।
ये शिवादयः पाशुपतादिभिः स्वातन्त्र्येणोपास्या उक्तास्तेषां (य)तथोपासितानामनुग्रह एव नास्ति प्रत्युत कोष एव ।
अतो ऽनुग्रहान्मोक्षो दूरनिरस्त इति भावः ।
१०,२९८
कुतः शिवादीनामनुग्रहान्मोक्षो नेत्यत आहनान्य इति ।
नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ । (अनुव्याख्यानम्)३,३.१५४च्द् ।
न्यायसुधा-
तमेवमिति श्रुतौ सहस्रशीर्षा पुरुष इति प्रकतपुरुषज्ञानतो ऽन्यनिषेधेनामृतत्वमुक्तं हि यस्मात्तस्मात्पुरुषोत्तमानुग्रह एव ज्ञानेनेरितो मोक्षहेतुर्न
शिवाद्यनुग्रह इति ।
ननु पुरुषसूक्ते पशुपुरुष एव प्रतिपाद्यते न विष्णुस्तत्कथं विष्णुज्ञानस्य मोक्षसाधनत्वे मन्त्रो ऽयमुदाहृतः ।
पशुपुरुषज्ञानमपि पशुपतेरनुग्रहे परमोपयोगीति मोक्षसाधनमुच्यते ।
नान्य इति च न विरुद्धम् ।
साधनवत्साधनसाधनस्य परित्यागे ऽपि फलानुदयादिति चेत् ।
किमेतत्पुरुषशब्दस्य विष्णौ शक्त्यभावात्कल्पने ।
तात्पर्यज्ञापकाभावाद्वा ।
बाधकसद्भावाद्वा ।
नाद्यः ।
नारायणानुवाके पुरुषशब्दस्य हरौ प्रयोगादित्याहसर्व इति ।
सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः ।
एवं पुरुषशब्दश्च प्रयुक्तो ऽब्धिशये हरौ । (अनुव्याख्यानम्)३,३.१५५ ।
न्यायसुधा-
न केवलं पुरुषज्ञानतो ऽमृतत्मुक्तम् ।
किन्तु पुरुषशब्दश्च हरौ प्रयुक्तः ।
विद्युतः पुरुषादित्युक्तो ऽपि पशुपुरुष एव किन्न स्यादित्यत उक्तमब्धिशय इति अम्भस्य पारे, यमन्तःसमुद्रे इत्यस्मिन्पुरुषे ऽब्धिशयत्वस्य
श्रवणात् ।
महोदधिशयोन्तक इत्यादिना तस्य विष्णुलिङ्गत्वावगमात् ।
१०,२९९
इतश्चायं नारायणो न पशुपतिरित्याहन तस्येति ।
न तस्येशे कश्चन तस्य नाम महद् यशः ।
इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ । (अनुव्याख्यानम्)३,३.१५६ ।
विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।
इति सर्वाधिकत्वोक्तया समो ऽपि विनिवारितः । (अनुव्याख्यानम्)३,३.१५७अद् ।
१०,२९९फ़्.
न्यायसुधा-
तस्य पुरुषस्य ।
ईशे ईष्ये व्यत्ययो बहुलमिति वचनात् ।
अधीगर्थदयेषां कर्मणीति षष्ठी ।
महदिति यशश्चेति तस्य पुरुषस्य नाम ।
श्रुतौ नारायणानुवाके न तस्येति वाक्येन तस्य पुरुषस्याधिपतिः स्वयं मुखत एव प्रतिषिद्धः ।
परमश्चासावश्चेति परमास्तं परमाम् ।
लिङ्गव्यत्ययेन परममिति वा ।
विश्वं पूर्णम् ।
नारायणानुवाक एव विश्वत इति श्रुतौ तस्य पुरुषस्य सर्वाधिकत्वोक्त्या ससो ऽपि विनिवारितः ।
नहि सर्वाधिकस्य समो युज्यते ।
१०,३०१
ततः किमित्यत आहसमेति ।
समाधिकस्य राहित्यान्नोपचारपुमानसौ । (अनुव्याख्यानम्)३,३.१५७एफ़् ।
न्यायसुधा-
समाधिकस्येति द्वन्द्वैक्यवद्भावः ।
असौ नारायणानुवाकोक्तः ।
उप समीपे चारो यस्यासौ प्रधानस्योपसर्जनभूत उपचारपुमान् पशुपुरुषो नेत्यर्थः ।
नारायणनामादिना हरिरेवायमिति शिष्यैरेव ज्ञातुं शक्यत इति नोक्तम् ।
१०,३०२फ़्.
अधिपतिराहित्यसर्वाधिकत्वयोस्ततो ऽवगतस्य समाधिकराहित्यस्य च पशावनुपपत्तेर्न तद्विषयो ऽयं पुरुषशब्दः ।
किन्तु नारायणादिनाम्नाब्धिशयत्वादिलिङ्गेन च विष्णुविषय एवेत्यस्तु ।
न तावता पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिः सिद्धयति ।
प्रयोगस्यामुख्यया वृत्त्याप्युपपत्तेरित्यत आहसमेति । असौ विष्णुरुपचारेण पुरुषशब्दविषयो न भवति किन्तु मुख्यवृत्त्यैव ।
कुतः ।
मुख्यासम्भवे ह्युपचारः कल्प्यते ।
पुरुषशब्दस्य मुख्यार्थः पूर्णत्वम् ।
तच्च विष्णोरेव समाधिकराहित्याद्युज्यत इति ।
१०,३०३
अस्त्वेवं पुरुषशब्दस्य विष्णौ वाचकत्वशक्तिस्तथापि पुरुषसूक्ते ज्ञापकाभावात्तत्परत्वं नास्तीति द्वितीयं निराकरोतिपुरुष एवेति ।
पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति । (अनुव्याख्यानम्)३,३.१५८ ।
मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः । (अनुव्याख्यानम्)३,३.१५९अब् ।
१०,३०४
न्यायसुधा-
यद्भूतं यच्च भव्यं यच्च भवदमुक्तं विश्वमिदं सर्वं पुरुष एव ।
पुरुषाधीनमेव ।
यत एवमन्नेनान्नमदनीयममुक्तवर्गमतिरोहति अतिक्रामति ।
अमुक्ताधिपतिरित यावत् ।
तस्मादमृतत्वस्योत भावभवित्रोरभेदान्मुक्तवर्गस्यापीशानः ।
संसारे स्वाधीनं जगद्यदि मुक्तौ स्वाधीनत्वं जगद्यदि मुक्तौ स्वाधीनत्वं जह्यात्तदा प्रेक्षावान्न मोचयेत् ।
अतो मुक्तावपि तदधीनमेवेति सा श्रुतिः पुरुषसूक्तमन्त्रस्तस्य मुक्तामुक्तपरेशत्वमाह ।
तच्च मुक्तानां परमा गतिरित्यादिना विष्णोरेवावगतं पशोस्त्वसम्भावितमेवेत्यतः पुरुषसूक्तं विष्णुपरमेवेति ज्ञायते ।
ननु च पुरुष एवेदं सर्वमिति पुरुषस्यात्र सर्(वत्वर्)वात्मकत्वमेवोदितम् ।
तत्कथं मुक्तामुक्तपरेशत्वमाह श्रुतिरिति तत्राहअमृतेति ।
अमृतेशानवचनात् सर्वस्येशानतोदिता । (अनुव्याख्यानम्)३,३.१५९च्द् ।
न्यायसुधा-
ईशानेति भावप्रधानो निर्देशः ।
उत्तरार्धे मुक्तेशानत्वस्योक्तत्वात्पूर्वार्धे ऽमुक्तस्य सर्वस्येशानतैवोदिता ज्ञातव्या ।
नतु सर्वत्वम् ।
नहि को ऽपि वादी मुक्तौ भेदममुक्तावभेदमङ्गीकरोति ।
नापि युज्यते ।
अभिन्नस्य पश्चाद्भेदादर्शनात् ।
१०,३०५
हेत्वन्तरमाहयदीति ।
यदि सर्वत्वमुदितमुतेश इति तद् वृथा । (अनुव्याख्यानम्)३,३.१६०अब् ।
न्यायसुधा-
पूर्वार्धे यदि पुरुषस्य सर्वत्वमुदितं स्यात्तत्तर्ह्युत्तरार्धे ऽमृतत्वस्योतेशान इत्युतशब्दो वृथा स्यात् ।
तत्कथमित्यत आहउतशब्द इति ।
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम् । (अनुव्याख्यानम्)३,३.१६०च्द् ।
न्यायसुधा-
उत्तरार्धस्थ उतशब्दो यस्मादीशत्वस्य समुच्चयं वदेत् ।
अर्थान्तरस्यासम्भवात् ।
नच द्वयोरीशत्वयोरनुक्तौ तत्समुच्चयोक्तेरवकाशो ऽस्ति ।
तस्मादुतशब्दो वृथैवेति ।
युक्त्यन्तरमाहपुरुषेणैवेति ।
पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति । (अनुव्याख्यानम्)३,३.१६१अब् ।
न्यायसुधा-
पुरुष एवेदं सर्वमिति पुरुषेणैवेदं सर्वं व्याप्तमातृणादाकरीषात्सर्वं भगवानिति मिथ्यादृष्टिरेवेति शाखान्तरब्राह्मणं च तं मन्त्रं प्रति प्रवृत्तं तस्य
मन्त्रस्य व्याख्यानरूपमेवाह अतश्च न सर्वत्वमर्थः ।
व्याप्तं वशीकृतम् ।
एतेन धर्म(र्मि)समुच्चयार्थ उतशब्द इत्यपि परास्तम् ।
१०,३०६
इतश्च सर्वेशत्वमेव पूर्वार्धार्थो नतु सर्वत्वमित्याहएतावानिति ।
एतावानस्य महिमेति महिम्नो वचो हि तत् । (अनुव्याख्यानम्)३,३.१६१च्द् ।
न्यायसुधा-
इति वचनादिति शेषः ।
अस्य पुरुषस्यैतावान्महिमा यः पूर्ववाक्योक्त इत्युत्तरवाक्यबलात् तत् पुरुष एवेदमित्येतत्पुरुषस्य महिम्नो वाचकं वच इति तावज्ज्ञायते ।
ततश्च महिमप्रतिपादकं यथा स्यात्तथा व्याख्येयम् ।
न च सर्वात्मत्वं महिमा ।
अपकषर्हेतुत्वात् ।
किन्तु सर्वाधिपत्यमेव ।
नच तदतिरिक्त(क्तं)महिम्नो वचनम् ।
सङ्कोचे कारणाभावात् ।
१०,३०७
इतो ऽप्येतदेवमित्याहसो ऽमृतस्येति ।
सो ऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च । (अनुव्याख्यानम्)३,३.१६२ ।
उतामृतस्येश इति विधत्ते मुक्तिगेशताम् । (अनुव्याख्यानम्)३,३.१६३अब् ।
न्यायसुधा-
इति भागवतवचनादिति शेषः ।
अनूद्य यदन्नेनातिरोहतीति वचनेन हेतुतयेति शेषः ।
विधत्ते श्रुतिः ।
अयमर्थः ।
उत्तरार्धे तावदमुक्ताधिपत्यं हेतुत्वेनोपादाय मुक्ताधिपत्यं प्रति जानीते श्रुतिरिति ज्ञायते ।
पुरुषसूक्तव्याख्यानप्रसङ्गे सो ऽमृतस्येति भागवतवचनेनोत्तरार्धस्य तथैव व्याख्यातत्वात् ।
अत एव’अन्नेन दिव्यभोगेन यदतिरोहत्यधिरोहत्येधते तस्यामृतत्वस्य देवत्वस्येशानः’ इति व्याख्यानमयुक्तम् ।
भावभवित्रोरेकत्वाभिप्रायेणामृतत्वस्येत्येतदमृतस्येति हि व्याख्यातम् ।
देवव्यावृत्त्यर्थमेव चाभयस्येत्युक्तम् ।
अन्नेनेति तृतीया च द्वितीयार्थेत्यभिहितम् ।
अन्नं च न प्रसिद्धमिति मर्त्यमित्युदितम् ।
सो ऽयमुत्तरार्धार्थः पूर्वार्धस्यास्मद्वयाख्यान एव युज्यते ।
पूर्वार्धे ऽमुक्ताधिपत्यं विहितम् ।
उत्तरार्धे तत्पूर्वार्धोक्तममुक्ताधिपत्यं हेतुत्वेनानूद्य पुरुषस्य मुक्तिगेशतां विधत्ते श्रुतिरिति ।
परकीयव्याख्याने तु परस्परव्याघातेनानुपपन्न एवेति ।
१०,३०८
एतेन’पुरुषशब्दस्य विष्णुविषयत्वे सर्वात्मकत्वं बाधकम् ।
नहि विष्णोः सर्वात्मकत्वं भवद्भिरप्यभ्युपगम्यते ।
पशोस्तु देहयोगवशाद्भूतत्वादिकं युज्यते’ इति तृतीयपक्षो ऽपि निरस्तः ।
उपसंहरतिअत इति ।
१०,३०९
अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः । (अनुव्याख्यानम्)३,३.१६३च्द् ।
न्यायसुधा-
परिज्ञानात्परिज्ञानोदितात्प्रसादात् ।
अन्यतः शिवादीनामनुग्रहात् ।
पाशुपता अपि ज्ञानिनो भोगेनैव कर्मक्षयमाचक्षते ।
तदप्यनुपपन्नमित्याहतद्यथेति ।
‘तद्यथेषीकातूलमग्नौ प्रोतं पदूयेतैवं हैवास्य सर्वे पाप्मनः प्रदूयन्ते’ इति श्रुतेः ।
‘इष्यकेषी कामालानां चिततूलभारिषु’ इति ह्रस्वता श्रुतित्वान्न भवति ।
प्रोतं प्रविष्यम् ।
प्रदूयेत परितप्तं भवेद्भस्मीभवेत् ।
इति तन्निदर्शनं यथा ।
अस्य ज्ञानिनः ।
प्रदूयन्ते विनश्यन्तीत्यथर्ः ।
चशब्दः पूर्वोदाहृतवाक्यसमुच्चयार्थः ।
तत एव विष्णुपरिज्ञानादेव ।
१०,३१०
नन्वस्यां श्रुतौ ज्ञानिनः कर्मणां परितापः श्रूयते नतु ज्ञानेन विनाश इति विवक्षितो ऽर्थ इत्यतो भगवद्वाक्यसमाख्यामाहयथेति ।
यथैधांसि समिद्धो ऽग्निर्भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा । (अनुव्याख्यानम्)३,३.१६४ ।
न्यायसुधा-
यद्यप्यत्र ज्ञानस्य कारणत्वं स्फुटं प्रतीयते ।
तथापि कर्मणां भस्मसात्करणं नाम मुख्यासम्भवात्किं कल्पनीयमिति न ज्ञायते ऽतोवाक्यान्तरं पठतिसर्वेति ।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते । (अनुव्याख्यानम्)३,३.१६५ ।
न्यायसुधा-
धर्मानवैष्णवान्काम्यार्थांश्च ।
शरणप्राप्तिश्च’सर्वोत्तमत्वविज्ञानपूर्वम्’ इत्यादिनान्यत्र भगवत्पादैरेव व्याख्याता ।
ततः प्रसन्नो ऽहम् ।
मा शुचः ।
न शोचिष्यसि मुक्तो भविष्यसि ।
आदिपदेन’गतसङ्गस्य मुक्तस्य’ इत्यादेः सङ्ग्रहः भगवद्वाक्यैश्चेति सम्बन्धः ।
तद्यथेति श्रुतेरुक्तार्थः भगवद्वाक्यैरवसीयत इति वा ।
१०,३११
भाट्टानां मोक्षसाधनमनुवदतिनित्येति ।
नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन् ।
मुच्यते संसृतेश्च … । (अनुव्याख्यानम्)३,३.१६६अच् ।
१०,३१२
न्यायसुधा-
नित्यं नाम यदकरणे प्रत्यवायो, ब्राह्मण्यादिकमेव च निमित्तमुपादाय विहितं तदुच्यते ।
यथा सन्ध्यावन्दनादि ।
नैमित्तिकं नाम यदकरणे प्रत्यवायः पितृमरणाद्यागन्तुकं च निमित्तमुपादाय विहितं तदुच्यते ।
यथा पितृश्राद्धादि ।
अन्यत्काम्यं निषिद्धं च ।
तत्र यत्कारणे फलमकरणे न प्रत्यवायः ।
कामाननिमित्तं तत्काम्यात् ।
यथा ज्योतिष्योमादि ।
प्रतिषिद्धं निषिद्धम् ।
यथा ब्रह्महत्यादि ।
उपात्तं च कर्म भोगेन क्षपयन्निति चशब्दार्थः ।
अयमाशयः ।
सुखदुःखतत्कारणरूपो हि संसारः ।
स च कर्मनिमित्त एव ।
नित्यनैमित्तिकयोरकरणे त्वधर्मप्रवचयेन दुःखतत्साधनावाप्तिरस्य भवति ।
निषिद्धकरणे ऽपि तथा ।
काम्यकरणे तु धर्मोत्पादनेन सुखतत्साधनावाप्तिर्जायते ।
मुमुक्षुस्तु नित्यं नैमित्तिकं च नित्यमेव करोति ।
परित्यजति च निषिद्धमिति न दुरितोपचय; ।
काम्यमपि परित्यजतीति न धर्मोपचयः ।
एवमनागतयोर्धर्माधर्मयोरनुत्पादे प्रागुपात्तौ च भोगेन क्षपयन्निर्बीजायाः संसृतेर्मुच्यत इति ।
यथोक्तम् ।
‘मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः ।
नित्यनैमित्तिके कुर्यात्प्रत्यवाय जवांसया’ इति ।
नच पञ्चमी कर्मविधास्ति ।
यत्करणे ऽकरणे वा धर्माधर्मोदयः स्यादिति ।
१०,३१४
निराकरोतिएतदपीति ।
… एतदप्येतेन निराकृतम् ।
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् । (अनुव्याख्यानम्)३,३.१६६द्फ़् ।
न्यायसुधा-
एतेन नान्यः पन्था इति श्रौतेन भगवज्ज्ञानव्यतिरिक्तमोक्षसाधननिषेधेन ।
अपि च नित्यनैमित्तिककर्मणां नियमेन सम्यगनुष्ठानं तावदशक्यमेव ।
‘चरन्ति देवा विहितं समस्तमर्धमेव मुनयो दशांशतो मनुष्याः’ इत्यादिश्रुतेः ।
नापि निषिद्धाकरणं सम्भावितम् ।
प्रामादिकानां मानसवाचिककायिकानामपरिहार्यत्वात् ।
प्रायश्चित्तात्तत्क्षय इति चेन्न ।
प्रायश्चित्तस्यापि सम्यगनुष्ठातुमशक्यत्वात् ।
पूर्वोपार्जितकर्मणां भोगेन क्षयस्त्वत्यन्तासम्भावित एव ।
अनन्तत्वादित्यलम् ।
नन्वेतत्सर्वं सूत्रानुक्तं कस्माद्वर्ण्यत इत्यत आहविद्यैवेति ।
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट् । (अनुव्याख्यानम्)३,३.१६६एफ़् ।
१०,३१४फ़्.
न्यायसुधा-
विद्यैव तु निर्धारणादिति सूत्रेण ।
स्वयमेव न त्वर्थतः ।
‘वाजसनेयिनो ऽधीयते ।
षट्त्रिंशत्सहस्राण्यपश्यदात्मनो ऽग्नीनर्कान्मनोमयान्मनश्चितः’ इत्यादि ।
तत्र संशयः ।
किमेते ऽग्नयः क्रियानुप्रवेशिनस्तच्छेषभूता उत स्वतन्त्राः केवलविद्यात्मका इति ।
क्रियामयस्याग्नेः प्रकरणात्तद्विषय एवायमुपदेश इति प्राप्ते ऽभिधीयते ।
विद्यात्मका एवैते ऽग्नयो न क्रियाशेषभूताः ।
ते हैते विद्याचित एवेति निर्धारणात् ।
इति परेषां व्याख्यानमसदेवेति भावेनोक्तमिममेवार्थमिति ।
विफलत्वादस्याश्चिन्तायाः ।
पक्षद्वये ऽप्यभ्युदय एव ह्यस्य प्रयोजनम् ।
यस्तु नित्यानित्यवस्तुविवेकवाञ्छमदमादिसम्पन्नः सर्वभोगवैराग्योपेतो मुमुक्षुरथशब्देनोत्तरमीमांसायामधिकारी सूचितः स कथमेतासु
फल्गुचिन्तासु प्रवर्तत इति ।
१०,३१६
एवं सूत्रकृता पूर्वपक्षितानि मतानि निराकृत्येदानीं ये सूत्राणां वृत्तिकारा अन्यथा भाषन्ते तेषां मतानि निराकुर्वाणः समुच्चयनियमवादिनां मतं
तावदपाकरोतिविनेति ।
विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।
नान्यः पन्था इति ह्येव निवारयति सादरम् । (अनुव्याख्यानम्)३,३.१६७ ।
१०,३१६फ़्.
न्यायसुधा-
संसारनिवृत्तिमात्रं केवलेन ज्ञानेन भवति ।
आनन्दवृद्धिस्तु कमर्सापेक्षेणैव ज्ञानेनेति भगवतः पन्थाः ।
यद्वक्ष्यति सहकारित्वेन चेति ।
अतो ज्ञानकर्मभ्यां मोक्ष इत्यनुक्त्वा कर्म विना केवलज्ञानेन न मोक्षः किन्तु कर्मसहितेनेत्युक्तम् ।
इत्येतदपि मतं सैव सूत्रगृहीतैव नान्यः पन्था इति श्रुतिः स्पष्टं निवारयति ।
तमेवं विदित्वेति ज्ञानमात्रस्य मोक्षसाधनत्वमुक्त्वा पुनर्नान्यः पन्था इत्रत वचनादादरो ऽवगम्यते ।
नच समुच्चयनियमे किमपि प्रमाणमस्ति ।
अन्धन्तमः प्रविशन्तीत्यादीनामन्यार्थत्वात् ।
‘यथान्नं मधुसंयुक्तं मधु चान्नेन संयुतम् ।
एवं तपश्च विद्या च संयुक्ते भेषजं महद्’ इत्यादीनां परोक्षज्ञानविषयत्वात् ।
अपरोक्षज्ञानविषयत्वे ऽप्यानन्दवृद्धयर्थत्वात् ।
१०,३१९
मायावादिनो वदन्ति ।
द्विविधो मोक्षः परापरभेदात् ।
तत्रापरो वैकुण्ठसत्यलोकादिप्राप्तिलक्षणः ।
परस्त्वविद्यास्तमये सत्यद्वैतब्रह्मावस्थानरूपः ।
प्रतीकादिविषयमन्यथोपासनमपरस्य साधनम् ।
परस्य त्वेकत्वज्ञानमिति ।
तत्रान्यथोपासनस्य वैकुण्ठादिप्राप्तिसाधनत्वं तावदपाकरोतिअन्यथेति ।
अन्यथोपासनमपि तमेवमितिवादिनी ।
निवारयत्यादरेण … । (अनुव्याख्यानम्)३,३.१६८अच् ।
न्यायसुधा-
एवं यथास्थितेनैव प्रकारेण न त्वन्यथेति वदन्ती श्रुतिरन्यथोपासनमपि पुरुषार्थसाधनं निवारयति ।
न केवलं परमपुरुषज्ञानव्यतिरिक्तपक्षान् ।
तमित्यनेन यथार्थज्ञानं लब्धमेव ।
सप्रकारस्य प्रकृतस्य परामर्शोपपत्तावेकदेशविषयत्वकल्पनानुपपत्तेः ।
तथापि यदेवमिति वदति तदाऽदरसूचनार्थमिति ।
परममोक्षविषयेयं श्रुतिरस्तु ।
अपरस्तु पुरुषार्थो ऽन्यथोपासनेन भविष्यतीत्यत आहनेति ।
… न प्रतीक इति प्रभुः । (अनुव्याख्यानम्)३,३.१६८द् ।
न्यायसुधा-
‘न प्रतीके न हि सः’ इति सूत्रकारो ऽन्यथोपासनस्य सर्वथाप्यकर्तव्यत्वं वक्ष्यति ।
अतो न तत्पुरुषार्थलेशहेतुः ।
१०,३२०
सूत्रस्यार्थान्तरं वक्ष्यामीति वदन्तं प्रति श्रुतिविरोधमाहअन्धमिति ।
अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते ।
इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत् । (अनुव्याख्यानम्)३,३.१६९ ।
न्यायसुधा-
पुरुषाथर्साधनमिति शेषः ।
श्रुतिस्त्वन्यत्र स्मृतिसम्मतिप्रदर्शनेन व्याख्याता ।
१०,३२१
इदानीमेकत्वज्ञानस्य परमोक्षसाधनत्वं निराकरोतिनचेति ।
न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते । (अनुव्याख्यानम्)३,३.१७०अब् ।
न्यायसुधा-
चो ऽवधारणे ।
एकत्वविज्ञानादपि पुरुषः संसारान्न मुच्यते ।
कुतः ।
उक्तन्यायेन’तमेवं विद्वान्’ इत्रत सहस्रशिरस्त्वादिमहामहिमोपेतस्य भगवतो ज्ञानममृतत्वसाधनमभिधाय’नान्यः पन्थाः’ इति
साधनान्तराभावस्योक्तत्वात् ।
‘पुरुष एवेदं सर्वम्’ इत्युक्तमेकत्वमेवंशब्देन परामृश्यत इति चेन्न ।
उक्तन्यायेन तस्य वाक्यस्यैकत्वविषयताया अभावात् ।
‘तद्यो यो देवानां प्रत्यबुद्धयते’ इत्यादिश्रुतयस्तु तद्गुणसारत्वादित्युक्तन्यायेन नैक्यज्ञानस्य मोक्षसाधनतां वदन्ति ।
किञ्चैक्यज्ञानमन्यथाज्ञानमिति पृथगुपदेशादित्युक्तन्यायेन सिद्धम् ।
मिथ्याज्ञानं चानर्थसाधनमित्युक्तम् ।
१०,३२२
अपि चाद्वैतज्ञानस्य न तावद्यागादिवद्राजसेवादिवद्वा मोक्षसाधनत्वम् ।
किन्तु अविद्याविरोधित्वेन ।
विरोधिनाद्वैतसाक्षात्कारेणाविद्यायां निवृत्तायां तदुपादानको बन्धः स्वयमेव निवर्तत इति ।
तथाच साक्षात्कृताद्वैतानामुत्तरक्षण एव देहादिद्वैतदर्शनाभावः प्राप्नोति ।
अङ्गीक्रियते च जीवन्मुक्तिः ।
ज्ञानेनाविद्यायां निवृत्तायामपि तत्संस्कारेण द्वैतदर्शनानुवृत्तिर्भवतीति चेन्न ।
संस्कारस्याविद्याकार्यत्वे ऽवस्थानानुपपत्तेः ।
न ह्युपादाने निवृत्ते कार्यमवस्थितं दृष्टम् ।
अन्यथा सत्यत्वप्रसङ्गः ।
ज्ञानोदये ऽप्यनिवृत्तस्य तस्य निवर्तकान्तराभावात्सर्वदा(ऽनिवृ)नुवृत्तौ न कदापि द्वैतदशर्ननिवृत्तिः स्यात् ।
असङ्गस्यात्मनो विनैवाविद्यासम्बन्धेन संस्काराश्रयत्वं चायुक्तमेव ।
एतेन प्रारब्धकर्मवशाद् द्वैतदर्शना(ऽनिवृ)नुवृत्तिरित्यपि निरस्तम् ।
ज्ञानेन निवृत्ताप्यविद्या दग्धपटन्यायेन किञ्चित्कालमवतिष्ठते ।
तेन द्वैतदर्शनानुवृत्तिर्घटत इति चेन्न ।
आत्यन्तिकनिवृत्तौ कारणाभावेन द्वैतदर्शनानुपरमप्रसङ्गात् ।
एतेन अविद्यालेशावस्थानपक्षो ऽपि प्रतिक्षिप्तः ।
लेशश्च पटस्य तन्तुरिवावयवो वा स्यात्प्रदेशो वा धर्मो वा ।
नाद्यः ।
अकार्यत्वादविद्यायाः ।
न द्वितीयः ।
प्रदेशानङ्गीकारात् ।
प्रदेशिनो निवृत्तौ प्रदेशावस्थानासम्भवाच्च ।
न तृतीयः ।
धमिणो ऽपगमे धर्मानपगमानुपपत्तेः ।
१०,३२४फ़्.
अथ मतम् ।
संसारमूलकारणभूताविद्या यद्यप्येकैव ।
तथापि तस्याः सन्त्येव बहव आकाराः ।
तत्रैको बन्धस्य परमार्थसत्यत्वविभ्रमहेतुः ।
द्वितीयो ऽर्थक्रियासमर्थवस्तुकल्पकः ।
तृतीयस्त्वपरोक्ष्यप्रतिभासविषयाकारकल्पकः ।
तत्राद्वैतस्य सत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पक आकारो निवर्तते ।
अर्थक्रियासमर्थप्रपञ्चोपादानं मायाकारस्तत्त्वसाक्षात्कारेण विलीयते ।
अपरोक्षप्रतिभासयोग्यार्थासजनकस्तु मायालेशो जीवन्मुक्तस्य निवृत्तः समाध्यवस्थायां तिरोहितो ऽन्यदा देहाभासजनकाभासहेतुतयानुवर्तते ।
प्रारब्धकर्मफलोपभोगावसाने तु निवर्तत इति ।
तदयुक्तम् ।
अस्याः कल्पनायाः निष्प्रमाणकत्वात् ।
इन्द्रो मायाभिः पुरुरूप ईयत इति श्रुतिरत्र प्रमाणमिति चेन्न ।
अत्र पारमेश्वरशक्तिप्रतिपादनात् ।
ज्ञानबाध्यानिर्वाच्यमायाकारप्रतिपादनाप्रतिभासनात् ।
‘तस्याभिध्यानाद्योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिरिति श्वेताश्वतरमन्त्रे ऽपि भूयोभूयस्तस्मिन्मनसो योजनाद्यो जायते
तत्त्वभावस्तत्त्वज्ञानं तस्मादुदितात्तस्य परमेश्वरस्याभिध्यानादनुग्रहात्कर्मक्षयान्ते विश्वबन्धकमायानिवृत्तिर्भवतीत्युच्यते न
त्वनिर्वाच्यविद्याकाराणां क्रमेण निवृत्तिर्बाधलक्षणा ।
किञ्च यो ऽपि मायाकारो ऽनुवर्तत इत्युच्यते तत्त्वज्ञानं तस्य विरोधि न वा ।
आद्ये कथं न निवर्तते ।
द्वितीये ज्ञानेन न निवर्तेत ।
तथाच सत्यः स्यात् ।
कर्मक्षये सति निवर्तत इति वदता कर्मणां तत्कारणत्वमुक्तं स्यात् ।
अन्यथा तन्निवृत्तौ निवृत्तेरनुपपत्तेः ।
१०,३२७
अथ मन्यसे ।
ज्ञानमेवाविद्यलेशस्य निवर्तकम् ।
किन्तु प्रबलेन प्रारब्धकर्मणा प्रतिबद्धं न निवर्तयति ।
फलभोगेन तु प्रतिबन्धके क्षीणे निवर्तयतीति ।
तदप्ययुक्तम् ।
निरुपादानकर्मावस्थानानुपपत्तेः ।
स एवाविद्यालेशः कर्मोपादानमिति चेन्न ।
कर्मावस्थाने ऽविद्यालेशावस्थानं तदवस्थाने च कर्मावस्थानमिति परस्पराश्रयत्वापत्तेः ।
उत्पत्त्यादाविवावस्थाने ऽपि तस्य दोषत्वात् ।
किञ्चास्यार्थस्य न किञ्चित्स्फुटं ज्ञापकान्तरमस्ति ।
ततो मा नाम भूदवस्थितावितरेतराश्रयत्वम् ।
ज्ञप्तौ तु भवत्येव ।
जीवन्मुक्त्यन्यथानुपपत्त्यैवैषो ऽर्थः कल्प्यत इति चेन्न ।
परमपुरुषानुग्रहेणैव मोक्ष इत्यस्य सकलश्रुतीतिहासपुराणादिसिद्धस्यार्थस्याङ्गीकारेणैव सर्वस्योपपत्तावस्याः कल्पनाया अनवकाशादिति ।
१०,३२८
अधिकरणार्थमुपसंहरतिइति सर्वमिति ।
इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः ।
उपासीत हरिं नित्यं गुणैरेव स्वयोगतः । (अनुव्याख्यानम्)३,३.१७०च्फ़् ।
१०,३२८फ़्.
न्यायसुधा-
नास्त्येव मोक्षः सत्त्वे वा साधनान्तरसाध्य इत्येतदनुपपन्नम् ।
किन्नाम निष्कामभगवदर्थश्रुत्यादिविहितकर्मानुष्ठानेन शुद्धान्तःकरणस्य रागादिदोषक्षये जातभगवद्भक्तेः
श्रवणमनननिदिध्यासनाभ्यासवतः परमभागवतस्य भगवत्साक्षात्कारे जाते प्रसन्नो भगवानप्रारब्धानि कर्माणि विनाश्य भागवतधर्मप्रवृत्तये
ज्ञानिनं कमपि कालं व्यवस्थापयंस्तदर्थं प्रारब्धानि कर्माण्यवशेष्य तत्फलोपभोगे सति तान्यपि विनाश्य प्रकृतिबन्धान्मोचयतीति सर्वं प्रतिज्ञाय
गुणैरेव नतु सो ऽरोदीदित्यादिना प्रतीतैरप्यगुणैरिति समाने चेति सूत्रखण्डस्यार्थमनुवदति ।
युक्तमिति शेषः ।
स्वयोग्यत एव नतु योग्यतातिक्रमेणेति प्राप्तेश्चे(त्यादिसू)ति सूत्रार्थानुवादः ।
प्रयोजनं चोत्तरेण सङ्गतिसूचनमिति ।
१०,३२९
स्वयोग्यत इत्युक्तम् ।
तामेव योग्यतां विवृणोतिब्रह्मेति ।
ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे । (अनुव्याख्यानम्)३,३.१७१ ।
१०,३३०
न्यायसुधा-
ब्रह्मैवेति सम्बन्धः ।
सर्वैर्वेदोदितैः ।
चशब्दः क्रियाद्रव्यसमुच्चयाथर्ः ।
हरिमुपासीतेति वर्तते ।
वेदोक्तसमस्तगुणक्रियोपेततयानन्तरूपं हरिमुपासितुं ब्रह्मैव योग्य इत्यर्थः ।
चस्त्वर्थः ।
सरस्वती तु क्रियासामान्यतः क्रियासङ्कोचेनोपास्ते ।
सकलवेदोक्तगुणोपेततयानन्तरूपं हरिमुपास्ते ।
त्रिविक्रमत्वादिक्रियास्तु नित्यविक्रान्त्यादिष्वन्तर्भावयतीत्यर्थः ।
गुणसामान्यतः समस्तरूपाण्युपास्ते ।
गुणान्क्रियांश्च सङ्कोचयतीत्यर्थः ।
परे शक्रादयः ।
द्रव्याणि रूपाणि गुणक्रियासङ्कोचस्तु सिद्ध एव ।
एतेन’समान एवं चाभेदात्’ इत्यधिकरणतात्पर्यमुक्तं भवति ।
विद्यैव तु निर्धारणादित्यतः पूर्वमेवेदमदिकरणम् ।
तत्कुतो व्यत्यासेन व्याख्यानम् ।
उच्यते ।
प्रकरणशुद्धौ प्रमेयं सुग्रहं भवतीत्यतः क्रमभङ्गः ।
तथाहि ।
उपासनस्वरूपानिश्चये न को ऽपि विचारो ऽवकाशं लभत इति तत्स्वरूपमादौ दर्शितम् ।
ततस्तस्य कर्तव्यता समर्थिता ।
अनन्तरं तदितिकर्तव्यताजिज्ञासायां योग्यतादिविचार इति ।
। इति विद्याधिकरणम् ।
__
१०,३३२