१७ अनुबन्धाधिकरण

। अथ अनुबन्धाधिकरणम् ।
। ओं अनुबन्धादिभ्यश्च ओं ।
योगशास्त्रे यमादिकमुपासनाङ्गतयोपदिश्यते ।
तत्र पूर्वपक्षवादी मन्यते ।
यमानुष्ठानं तावदसत् ।
विष्णुभक्त्यादिगुणसम्पत्तिर्विषयसंसर्गादिदोषवर्जनं च यमशब्दाभिधेयम् ।
देशकालावस्ताव्यवस्थया विनानुष्ठेयस्य तथात्वात् ।
अहिंसादिपरिगणनं तु तत्प्रदर्शनार्थमिति हि योगानुशासनानि ।
तत्र यमानां किमुपासनोत्पत्तावुपयोगः ।
किंवा तत्फलज्ञानोत्पत्तौ ।
नाद्यः ।
विद्वेषिणामपि सततानुचिन्तनदर्शनात् ।
तन्मात्रत्वाच्चोपासनायाः ।
न द्वितीयः ।
भक्त्यादिसहितमेवोपासनं ब्रह्मसाक्षात्कारं जनयति नान्यथेत्यत्र प्रमाणाभावात् ।
किञ्च’द्वेषाच्चैद्यादयो नृपाः’ ।
‘वैरेण यन्नृपतयः’ इत्यादौ द्वेषस्य तावन्मोक्षसाधनत्वं प्रतीयते ।
दृष्ट्वैव तं मुच्यते नापरेणेति मोक्षस्य दर्शनैकसाध्यत्वं च ।
तदुभयपर्यालोचनया द्वेषस्य दर्शनसाधनत्वमवगम्यते ।
एवं नियमासनप्राणायामप्रत्याहाराणामप्यङ्गता निरसनीयेति ।
तत्र समाधानमनुबन्धादिभ्य इति ।
तस्यार्थो भक्त्यादिभ्य इति ।
तत्र न ज्ञायते कः पक्षो ऽङ्गीकृतः कथं च तत्रोक्तदोषः परिहृत इति ।
अतो व्याचष्टेविषयेष्वित्यादिना ।
अनुबन्धादिभ्यश्च । ब्ब्स्_??? ।
विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षात् परं न प्रतिपाद्यते । (अनुव्याख्यानम्)३,३.९३ ।
इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।
सदोपासनया युक्तो वासुदेवं प्रपश्यति । (अनुव्याख्यानम्)३,३.९४ ।
न्यायसुधा-
विषयसेवनात् ।
शाश्वतस्य ब्रह्मणः मोक्षादन्यद्विषयजातं प्रति ।
आकाङ्क्षादिति घञन्तः परं ब्रह्म न प्रतिपद्यते न पश्यति ।
मिथः समुच्चये चशब्दः ।
हिशब्दो यस्मादित्यर्थे ।
विषयसंसर्गादिदोषाणां ज्ञानविरोधित्वमाहेति शेषः ।
एतद्दोषवर्जित एव सदोपासनया युक्तो भवति ।
तथाविध एव सदोपासनया युक्तो वासुदेवं प्रपश्यतीति योज्यम् ।
एतदुक्तं भवति ।
उपासनोत्पत्तौ तावद्यमानामङ्गत्वं ब्रूमः ।
विषयसंसर्गादिमतो भक्तिरहितस्य सदोपासनानुपपत्तेः ।
न ह्यन्यत्र(व्या) आसक्तमनास्तत्र स्नेहविधुरश्च तत्सन्ततं चिन्तयतीति युज्यते ।
१०,१५४फ़्.
यदत्रोक्तं स्निग्धवत्क्रुद्धानामपि सन्ततानुचिन्तनं दृष्टमिति तत्सत्यम् ।
तथापि तदितरसंसर्गवर्जनादिकमङ्गीकार्यमेव ।
नच भगवति विद्वेषस्य कारणमस्ति ।
केषाञ्चिदाशयदोषवशाद्द्वेषसम्भवे ऽपि न तथाविधमनुचिन्तनं ज्ञानसाधनं भवति ।
किन्तूक्तयमादिसहितमेवेति द्वितीयपक्षमपि स्वीकुर्मः ।
नच तत्र प्रमाणाभावः ।
भारतवाक्यस्य विद्यमानत्वात् ।
तत्र (च) विषयसंसर्गादिपदानां यममात्राभावोपलक्षणत्वादिति ।
भक्त्याद्यभावस्यापि दोषत्वेनैतद्दोषवर्जित इत्युक्तम् ।
१०,१६०
यमानामवश्यानुष्ठेयत्वे युक्तिमप्याहदोषा इति ।
दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।
सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते । (अनुव्याख्यानम्)३,३.९५ ।
१०,१६०फ़्.
न्यायसुधा-
ते विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुक्तिपरिपन्थिनः प्राचुर्येण पुरुषेष्वनादिसम्बन्धाः सन्त्येव ।
तेन कारणेन तेषां मोक्षो न जायते ।
एतदुक्तं भवति ।
मोक्षयोग्यानां मुमुक्षूणामपीदानीं तावन्मोक्षो न जायते ।
तत्कुत इति चिन्त्यम् ।
भगवत्प्रसादाभावादिति चेत्सो ऽपि कुतः ।
ज्ञानाभावादिति चेदसावपि कुतः ।
ध्यानाभ्यासासत्त्वादिति चेन्न ।
विद्वेषिणां तत्सत्त्वे ऽप्यसत्त्वस्य वक्ष्यमाणत्वात् ।
अपि च ध्यानाभ्यासो ऽपि कुतो नेति वाच्यम् ।
श्रवणाद्यभावादिति चेत् ।
तद्भावो ऽपि न कुतः ।
अतो दोषा एव तत्तदुत्पत्तिं प्रतिबध्नन्तो मोक्षपरिपन्थिन इति ज्ञायते ।
न च दोषाणामागन्तुकानामनादिमोक्षाभावहेतुत्वं न सम्भवतीति साम्प्रतम् ।
प्रवाहतो ऽनादित्वादिति ।
तथा चोक्तम् ।
दोषगृहीतगुणामिति ।
१०,१६२
स्यादेतत् ।
सन्ति केचित्संसारिणो ऽपि रागादिदोषरहिता जीवा बालमुग्धादयः ।
तत्कथं दोषाणां मोक्षाभावहेतुत्वमित्यत आहसर्व इति ।
सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः । (अनुव्याख्यानम्)३,३.९६अब् ।
न्यायसुधा-
उदाहृतेष्वपि बालमुग्धादिजीवेषु त एते मगवद्भक्त्यभावाद्या दोषास्तावत्प्रत्यक्षानुमानाभ्यां दृश्यन्त एव ।
रागद्वेषादयो ऽपि पुरुषेषु तारतम्यतः सन्ति ।
चतुर्विधा हि ते प्रसुप्ततनुविच्छिन्नोदारभेदेन ।
अतो बालादिषूदाराणां तेषामभावादभावाभिमानः ।
स्तन्यादिकामादेस्तेष्वपि दर्शनात् तथा चागमः ।
गर्भे बाल्ये ऽप्यपौष्कल्यादित्यादिः ।
तदेवं सर्वे ऽपि दोषाः सर्वेष्वपि प्रमिता इति युक्तमुक्तम् ।
जोस्हि२३
अथापि स्यात् ।
ऋजवो नाम हिरण्यगर्भपदप्राप्तियोग्याः सन्ति संसारिणः पुरुषाः ।
नच ते दोषिण इति युक्तम् ।
ऋजुत्वविरोधात् ।
ऋजवः समीचीना निर्देषा इत्यनर्थान्तरम् ।
तत्कथमित्यत आहऋजूनामिति ।
ऋजूनामेक एवास्ति परमोत्साहवर्जनम् । (अनुव्याख्यानम्)३,३.९६च्द् ।
न्यायसुधा-
ऋजूनामपि मोक्षार्थं महोद्योगवर्जनं नाम दोषो ऽस्तीत्यतो नोक्तमयुक्तम् ।
अन्यथा मोक्षविलम्बासम्भवात् ।
न चैवमृजुत्वविरोधः ।
यतो ऽसावेक एव ।
दोषबाहुल्याभावाभिप्रायमृजुत्ववचनम् ।
अल्पस्वे निःस्वप्रयोगदर्शनादिति भावः ।
१०,१६५
प्रकारान्तरेण विरोधं परिहरतिस इति ।
स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते । (अनुव्याख्यानम्)३,३.९६एफ़् ।
न्यायसुधा-
स परमोत्साहवर्जनं नाम दोषः ।
यद्यपि महोद्यमाभावो दोष एव हेयत्वात् ।
तथापि न रागादिरिव भावरूपः ।
नापि गुणाभावरूपः ।
किन्नामोत्साहलक्षणगुणाल्पतामात्रमित्यदोषो ऽप्युच्यत इति नर्जुत्वेन विरुद्धयते ।
किमतो यद्येवं दोषाः संसारहेतवो मुक्तिपरिपन्थिन इत्यत आहअत इति ।
अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।
तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता । (अनुव्याख्यानम्)३,३.९७ ।
१०,१६६
न्यायसुधा-
इदं च सर्वयमोपलक्षणम् ।
पुरुषार्थं मोक्षम् ।
अयमत्र सङ्क्षेपः ।
विष्णुभक्त्यभावाद्या विषयसंसर्गाद्याश्च दोषा मुमुक्षादिमता त्याज्याः ।
मोक्षादिविरोधित्वात् ।
यद्यद्विरोधि तत्तदर्थिना त्याज्यं दृष्टम् ।
यथाऽरोग्यविरोध्यपथ्यं तदर्थिना ।
तथाच विष्णुभक्त्यादिकं कार्यमिति सिद्धयति ।
भावानुष्ठानेन विनाभावपरित्यागायोगादिति ।
विष्णौ परान्यत्र तारतम्येनेत्युक्तं विवृणोतिस्वादर इति ।
स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।
ततो ऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः । (अनुव्याख्यानम्)३,३.९८ ।
कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता । (अनुव्याख्यानम्)३,३.९९अब् ।
न्यायसुधा-
आदरः स्नेहः ।
स्वभावतः संसिद्ध इत्युपकारादिकरणमनपेक्ष्यानादिसिद्ध इत्यर्थः ।
अन्यथा सुखिनैव मया भाव्यं न जातु दुःखिनेत्याशीर्न स्यादिति हिशब्दार्थः ।
ततः स्वविषयादादरादधिक आदरः साक्षात्स्वोत्तमेषु कर्तव्यः ।
एवं तेषां तेषामाधिक्यानुसारतो ऽधिकः कर्तव्यो वासुदेवान्तम् ।
वासुदेवे तु निरतिशयः ।
शुभं ध्यानादिकम् ।
एतच्चोपपाददिष्यते ।
१०,१६७
सकृदनुष्ठेयासकृदनुष्ठेयसदानुष्ठेयभेदादङ्गमनेकविधम् ।
अयं तु कथमित्यपेक्षायामाहनेति ।
न कदाचित् त्यजेत् तं च क्रमेणैनं विवर्धयेत् । (अनुव्याख्यानम्)३,३.९९च्द् ।
न्यायसुधा-
तं विष्ण्वाद्यादरम् ।
न केवलं न त्यजेत्किन्तु कालक्रमेणैनं विवर्धयेच्च ।
स्वसमेषु स्वतो ऽधमेषु च कथमित्यपेक्षायामाहसमेष्विति ।
समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया ।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः । (अनुव्याख्यानम्)३,३.१०० ।
१०,१६७फ़्.
न्यायसुधा-
कर्तव्य इति वर्तते ।
तत उत्तमसमेभ्यो ऽन्यत्राधमेषु सत्सु दया कार्या ।
यदि सत्स्वित्येवोच्येत तदोत्तमसमेष्वपि प्रसङ्गः ।
ततो ऽन्यत्रेत्येवोक्तावसत्स्वपि प्रसक्तिः ।
ततो वर्गत्रयादन्यत्राज्ञेष्वोदासीन्यम् ।
विपरीतेषु वैपरीत्यं चेत्यपि योज्यम् ।
एवं क्रियमाणे यमानामुपासनोत्पत्तौ ज्ञानोत्पादे मोक्षतिशये चाङ्गत्वमिति सूचनाय पुरुषार्थमभीप्सता शुभमिच्छता दृश्यते क्षिप्रमीश्वर इति
विचित्रोक्तिः ।
अत एवोपसंहारे त्रयस्यापि सङ्कीर्तनम् ।
१०,१६९
दोषपरित्यागे ऽप्यस्ति विशेषः ।
रागादयो हि संसारमातन्वते ।
विपरीतज्ञानादयस्तु नित्यं नरकं प्रापयन्तीत्यतो रागादितो ऽतिशयेन त्याज्या इत्याशयवांस्तत्र श्रुतिमाहतदिति ।
तत् तमो ऽन्धं व्रजेद् विष्णुसमत्वं यो ऽनुपश्यति ।
रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन । (अनुव्याख्यानम्)३,३.१०१ ।
किमुताधिक्यदृष्टेस्तद् गुणाभावमतेरपि ।
दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः । (अनुव्याख्यानम्)३,३.१०२ ।
इत्याह सच्छ्रुतिस् … । (अनुव्याख्यानम्)३,३.१०३अ ।
न्यायसुधा-
तत्प्रसिद्धम् ।
न केवलं संसारे किन्तु मुक्तावपि कथञ्चन केनापि धर्मेण समत्वम् ।
रमाब्रह्मशिवादीनां विष्णोराधिक्यदृष्टेः पुरुषस्यान्धतमसावाप्तिर्भवतीति किमुतेति योज्यम् ।
विष्णोर्गुणाभावमतेर्विष्णोर्जीवैर्जडैश्चाभेदस्य द्रष्टुः ।
उभयोर्भेदाभेदयोः ।
स्वपक्षसाधनमुपसंहरतितेनेति ।
… तेन सम्प्रोक्तगुणसंयुतम् ।
उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते । (अनुव्याख्यानम्)३,३.१०३अद् ।
१०,१७०
न्यायसुधा-
प्राक् सम्प्रोक्तैर्विषयसंसर्गवर्जनादिभिर्गुणैः संयुतः ।
यद्वा योगशास्त्रे सम्प्रोक्तैर्यमादिभिर्गुणैरङ्गैः संयुतः ।
तेनैव तथाविधेनैवोपासेन हरिं दृष्ट्वा कर्माणि क्षपयतो मुक्तिर्जायते ।
इदानीं यत्पूर्वपक्षिणोक्तं भगवद्द्वेषिणामपि पुराणे मुक्तिः कथ्यत इति तन्निराकरोतिद्वेषादिति ।
द्वेषाद् यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् । (अनुव्याख्यानम्)३,३.१०४अब् ।
न्यायसुधा-
तस्मादन्यथा व्याख्यातव्यमिति भावः ।
तत्प्रकारं च वक्ष्यति ।
किं तच्छतिवाक्यमित्यतो’मा नस्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवो ऽन्नेषु जागृधुः’ इत्येतदर्थतः पठतिरिपव इति ।
१०,१७०फ़्.
रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः । (अनुव्याख्यानम्)३,३.१०४च्फ़् ।
हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदो ऽपि च । (अनुव्याख्यानम्)३,३.१०५ ।
न्यायसुधा-
रामो रमणं तदस्यास्तीति रामी भगवन्नामस्तस्मान्निष्क्रान्तास्तस्य विमुखा निरामिण इत्यर्थः ।
अत एव तस्य रिपवः ।
अभिद्रोहपद इत्यस्यैव व्याख्यानमन्धेतमसीति ।
नित्यं स्थिता भवन्तीति शेषोक्तिः ।
अनेन ये निरामिणो रिपवो ऽन्नेषु भोगेषु जागृधुरभिकाङ्क्षावन्तस्ते ऽभिद्रुहो ऽभितो द्रोहस्य पदे स्थाने स्थातुं योग्या यतो ऽतस्तेभ्यः स्तेनेभ्यो
ऽस्मान्मावोचः ।
न ह्यस्मच्छ्रवणवान्दुःखमर्हतीति योजना सूचिता भवति ।
इदं च वायुं प्रति विद्यादेवताया वचनम् ।
तदभेदिनस्तस्य हरेर्जीवाद्यभेदवादिनः ।
१०,१७२
कथमेतच्छतिविरोध इत्यत आहइत्यादीति ।
इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते । (अनुव्याख्यानम्)३,३.१०६अब् ।
न्यायसुधा-
स्मृतिविरुद्धं च द्वेषिणां मोक्षकथनमित्याशयवांस्ताः पठतिहिरण्यकशिपुश्चेति ।
१०,१७२फ़्.
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विधिक्षुरत्यगात् सूनो प्रह्लादस्यानुभावतः । (अनुव्याख्यानम्)३,३.१०६च्फ़् ।
यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान् ।
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात् । (अनुव्याख्यानम्)३,३.१०७ ।
निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्यघः सुकृताच्च्युतः । (अनुव्याख्यानम्)३,३.१०८ ।
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम् । (अनुव्याख्यानम्)३,३.१०९ ।
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः । (अनुव्याख्यानम्)३,३.११० ।
मामात्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु । (अनुव्याख्यानम्)३,३.१११ ।
आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् । (अनुव्याख्यानम्)३,३.११२ ।
यो द्विष्टाद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित् । (अनुव्याख्यानम्)३,३.११३ ।
यो द्विष्टाद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु । (अनुव्याख्यानम्)३,३.११४ ।
१०,१७३
न्यायसुधा-
विविक्षुर्वेशनसम्भावनाविषयः ।
आशङ्कायामचेतनेषूपसङ्खयानमिति वचनात् ।
श्वा मुमूर्षतीति यथा ।
अत्यागात्तमः ।
मम पिता मह्यं मन्निमित्तं त्वमनिन्दत् ।
मयि मद्विषये चाघवानपराधवान् ।
तस्माद्विष्णुवैष्णवनिन्दापराधजादघान्नित्यनिरयात् ।
निन्दादिकं च द्वेषमूलमिति प्रसिद्धमेव ।
नरहरिं प्रति प्रह्लादस्य वाक्यमिदम् ।
ततः स्थानात् ।
निन्दां शृण्वतो यदाधःपातस्तदा निन्दकस्य किमु ।
मानुषीं मनुष्यसदृशीम् ।
ये मामवजानन्ति ते मोघाशादिमन्तो भवन्ति ।
तेषां सुखलेशो ऽपि न भवति ।
आत्मपरदेहेषु प्रेरकत्वेन स्थितम् ।
संसरन्त्यत्रेति संसारा देहाः ।
तस्य विवरणमासुरीष्वेवेत्यादि ।
लोको जनस्तस्यान्तश्चण्डालादिस्तत्पर्यन्तस्य ।
कथमेतत्स्मृतिविरोध इत्यत आहइत्यादीति ।
इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु । (अनुव्याख्यानम्)३,३.११४च्द् ।
न्यायसुधा-
ज्ञायत इति शेषः ।
तमो ऽपि निरुत्थानमिति तुशब्दः ।
अतो यमाद्यङ्गमवश्यानुष्ठेयमिति सिद्धम् ।
। इति श्रीमन्न्यायसुधायां अनुबन्धाधिकरणम् ।
१०,१७७