। अथ उपसंहाराधिकरणम् ।
। ओं उपसंहारो ऽर्थाभेदाद्विधिशेषवत्समाने च ओं ।
अत्र सर्ववेदोक्तान्गुणान्दोषाभावांश्चोपसंहृत्यैव परमात्मोपास्य इत्युक्तम् ।
इहापि सर्वशब्दो नासङ्कुचितवृत्तिरुक्तन्यायादित्याशयवांस्तात्पर्यमाहकृत्वेति ।
उपसंहारो ऽर्थाभेदाद् विधिशेषवत्समाने च । ब्ब्स्_३,३.५ ।
कृत्वाथ कुर्वन्नपि वा निदिध्यासनमाचरेत् । ३३२ ।
श्रवणं मननं तथेति वर्तते ।
यथाऽत्मशक्त्यैवेति च ।
अनेन’प्राप्तेश्च समञ्जसम्’ इत्यादीनां सूत्राणामपि तात्पर्यमुक्तं वेदितव्यम् ।
तथा’तन्निर्धारणार्थनियमः’ इत्यादीनां, प्रथमाधिकरणव्याख्यानेनेति ।
। इति उपसंहाराधिकरणम् ।
__
१०,१५४