१५ सर्ववेदा(न्तप्रत्यया)धिकरण

। अथ सर्ववेदा(न्तप्रत्यया)धिकरणम् ।
। ओं सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ओं ।
अत्र ध्यानोपासनार्थिभिः किं स्वशाखा एवाध्ययनश्रवणमननैर्ज्ञातव्याः किं वा सर्वे ऽपि वेदा इति संशये शाखाभेदस्य सुप्रसिद्धत्वादन्यथा
तदनुपपत्तेः प्रथमपक्ष एव ज्यायानिति प्राप्ते सिद्धान्तितम् सर्ववेदान्तप्रत्ययमिति ।
तत्र सर्वशब्दो ऽसङ्कुचितवृत्तिरिति प्रतीतिनिरासाय व्याचष्टेयशशक्तीति ।
सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् । ब्ब्स्_३,३.१ ।
यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत् । (अनुव्याख्यानम्)३,३.६५अब् ।
न्यायसुधा-
विज्ञायावस्थितस्येत्यध्याहारात्समानकर्तृकतासिद्धिः ।
उपासनं कुर्वाणो भवेदिति वा ।
उपासनं कुर्वीतेति वा ।
भवेदित्यस्योत्तरवाक्ये ऽन्वयः ।
अत्र यथाशक्त्यखिलान्वेदान्विजानीयादित्येव वक्तव्यम् ।
तथाप्यत्रोच्यमानं सर्वपरिज्ञानं ध्यानोपासनाङ्गमिति दशर्यितुमेवमुक्तम् ।
ततश्च परेत्युक्तं विवृतं भवति ।
१०,८३
यथाश्रुत एवार्थो ऽस्तु किं विशेषेणेनेत्यत आहतत्रेति ।
तत्राखिलस्य विज्ञप्तिः सम्यग् ब्रह्मण एव हि । (अनुव्याख्यानम्)३,३.६५अब् ।
तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते । (अनुव्याख्यानम्)३,३.६६अब् ।
न्यायसुधा-
तत्रोपासकेषु यस्मात्सम्यगखिलस्य वेदस्य विज्ञप्तिर्ब्रह्मण एव युक्ता भवेन्नान्येषां तस्मादन्येषां यथायोगं यथाशक्त्येवाखिलज्ञप्तिरेष्यव्या ।
एतदुक्तं भवति ।
सर्वाधिकारिसाधारणं तावदिदं सूत्रम् ।
चोदनाद्यविशेषादियुक्तिभिस्तदवगमात् ।
संशयपूर्वपक्षासङ्गतत्वप्रसङ्गाच्च ।
नच सर्वेषां सर्ववेदविज्ञानं सम्भवति ।
वेदानामनन्तत्वात् ।
अल्पप्रज्ञादिमत्त्वाच्चा पुंसाम् ।
ततो युक्तमुक्तमिति ।
यद्वा प्रथमवाक्य एव भवेदित्यनेनैवैषो ऽभिहितः ।
यस्मादेवमेवोपपन्नं भवेदिति ।
ततः कस्य कीदृशी शक्तिरिति जिज्ञासायामिदं वाक्यम् ।
हिशब्दः प्रसिद्धौ ।
योगो योग्यता ।
ज्ञप्तिर्ज्ञप्तिशक्तिः ।
१०,८५
उपासनायोग्यतासमन्वये खल्वत्र सर्वविज्ञानमुच्यते ।
नचाल्पवेदज्ञस्य सा भवति ।
‘सर्वैश्च वेदैः परमो हि देवो जिज्ञास्यो ऽसौ नाल्पवेदैः प्रसिद्धयेत्’ इत्यादिश्रुतेः ।
अतः सर्वशब्दो मुख्यार्थ एव व्याख्यातव्यः ।
अत एव यद्यप्यस्मदादीनामस्मिञ्जन्मनि सर्ववेदज्ञानमसम्भवि ।
तथापि तादृशं जन्म कल्पनीयं यत्रेदं सम्भवतीत्यत आहतावतेति ।
तावतोपासने योग्यो भवेदेवाखिलः पुमान् । (अनुव्याख्यानम्)३,३.६६च्द् ।
न्यायसुधा-
यथाशक्ति विज्ञानमात्रेण ।
अयमभिसन्धिः ।
ध्यानोपासने वेदज्ञानस्य कथमुपयोगः ।
ध्येयाज्ञाने ध्यानायोगादिति चेत् ।
तर्हि सर्वेषां सर्ववेदार्थध्यानाभावस्य वक्ष्यमाणत्वान्न सर्ववेदज्ञानमुपयुक्तम् ।
सत्यम् ।
तथाप्यधिगतैकशाखस्य शाखान्तरे ऽन्यथोक्तिशङ्कया ध्यानासम्भवात्सर्व(वेद)परिज्ञानमावश्यकमिति चेन्न ।
गतिसामान्यानुमानेनैव शङ्कानिरासस्योक्तत्वात् ।
अन्यथा परस्परविरोधेन वेदाप्रामाण्यापत्तेः ।
ततः श्रुतिर्यथाशक्तीत्येव व्याख्येयेति ।
१०,८६फ़्.
यथाशक्ति वेदज्ञानं भगवदुपासनोपयुक्तं न सर्ववेदज्ञानावश्यम्भाव इत्यत्र पुराणवाक्यमपि पठतिमहत्त्वस्येति ।
महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद । (अनुव्याख्यानम्)३,३.६७ ।
किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः ।
यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः । (अनुव्याख्यानम्)३,३.६८ ।
इत्यादिवाक्यसन्दर्भाद् यथायोग्याखिलज्ञता । (अनुव्याख्यानम्)३,३.६९अब् ।
न्यायसुधा-
महत्त्वस्य परं पारं विदित्वेति सर्ववेदज्ञत्वमुच्यते ।
वेदेन विना भगवन्महत्त्वस्य ज्ञातुमाशक्यत्वात् ।
स्तोष्यतामिति ध्यानस्याप्युपलक्षणम् ।
समानन्यायत्वात् ।
नास्त्येवेति नियमनिषेधः यथायोग्याखिलज्ञता ध्यानोपयोगिनीति विज्ञायत इति शेषः ।
यथायोग्येति कथम् ।
अव्ययीभावस्य नपुंसकत्वेन यथायोग्यमिति भाव्यम् ।
सत्यम् ।
यथायोग्याखिलज्ञतेति समासो ऽयमित्यदोषः ।
यद्वा यथा यादृशी योग्या तथैवेति भिन्ने एवैते पदे ।
१०,८९
नन्वत्रात्मज्ञानमेवोपासनोपयोगित्वेनोच्यते ।
नतु यथाशक्तिज्ञानम् ।
अतो न प्रकृतोपयोगीदं वाक्यमित्यत आहआत्मेति ।
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात् । (अनुव्याख्यानम्)३,३.६९च्द् ।
न्यायसुधा-
अत्रोपासनस्यात्मज्ञानानुरूपत्वं नाम यथाशक्ति वेदविचारणाद्भावित्वमेव ।
अन्यथा वाक्यस्यासङ्गतत्वप्रसङ्गादिति भावः ।
सर्वज्ञाननियमे निराकृते किन्त्वित्याशङ्कायां यथाशक्तिज्ञानं हि वक्तव्यम् ।
न त्वात्मज्ञानम् ।
नहि परज्ञानं प्राङ् निराकृतम् ।
तस्मादात्मज्ञानं नामात्मयोग्यं ज्ञानमित्येव व्याख्येयमिति ।
कुतः सवर्वेदज्ञानमित्यतश्चोदनाद्यविशेषादित्युक्तम् ।
तत्र शाखाभेदस्य सुप्रसिद्धत्वाच्चोदनादिकमपि विशेषनिष्ठं व्याख्यातमित्यतो युक्त्यन्तरमाह सूत्रकारः ओं स्वाध्यायस्य तथात्वेन हि समाचारे
ऽधिकाराच्चेति ओं ।
तत्र हीयन्तं व्याचष्टेवेद इति ।
स्वाध्यायस्य तथात्वेन हि समाचारे ऽधिकाराच् च सववच् च । ब्ब्स्_३,३.३ ।
वेदः कृत्स्नो ऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते । (अनुव्याख्यानम्)३,३.७० ।
न्यायसुधा-
अनेन’वेदः कृत्स्नो ऽधिगन्तव्यः सरहस्यो द्विजन्मना’ इति स्मृतिमुपादत्ते ।
स्वाध्यायाध्ययनं कर्तव्यं भवेदित्यनेन’स्वाध्यायो ऽध्येतव्यः’ इति श्रुतिम् ।
अन्यथा स्वस्वशाखामात्रज्ञानाङ्गीकारे ।
१०,९०
एतदुक्तं भवति ।
स्वाध्यायस्य स्वाध्यायविधेस्तथात्वेन सामान्यतः सर्ववेदाध्ययनविधायकत्वेन हेतुना सर्वज्ञानमङ्गीकरणीयम् ।
अध्ययनस्यार्थज्ञानपर्यन्तनास्थितेः ।
स्वस्वशाखामात्रज्ञानाङ्गीकारे चास्य विधेर्वैयर्थ्यापत्तेः ।
नच वाच्यं शाखाभेदस्य प्रसिद्धया स्वाध्यायपदकृत्स्नपददर्शनात् ।
शाखाभेदस्याशक्तिनिमित्तत्वोपपत्तेरिति ।
१०,९७
ननु श्रुत्यन्तरं हिशब्देन स्मृतिः सूत्रकृतोपात्ता तत्कथमत्र विपर्ययः ।
उच्यते ।
आकाङ्क्षाक्रमेण सूत्रम् ।
व्याख्यानं तूपोद्घातप्रक्रिययेति न विरोधः ।
श्रुतिस्मृतिबलादेव यथाशक्ति सवर्विज्ञानस्यैव निश्शङ्कताहेतुत्वं कल्प्यते ।
भूयोदर्शनं चानुमानाङ्गमिति सुप्रसिद्धम् ।
१०,९९
आह नाध्ययनविधिप्रयुक्तमध्ययनम् ।
किन्त्वध्यापनविधिप्रयुक्तमेव ।
अध्ययनविधेर्नियोज्यरहितत्वात् ।
नह्यत्र स्वर्गकामो यजेतेतिवत्कश्चिन्नियोज्यः श्रूयते ।
नापि विश्वजिदादाविव कल्पयितुं शक्यते ।
अध्यापनविधिनैवाध्ययनसिद्धौ कल्पकाभावात् ।
नचाध्यापनविधिरपि नियोज्यरहित इति वाच्यम् ।
आचार्यकरणकामस्य तत्र नियोज्यत्वात् ।
नष्टवर्षं ब्राह्मणमुपनयीतेत्यात्मनेपदश्रवणात् ।
‘सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियमः’ इत्याचायर्करणे नयतेरात्मनेपदविधानात् ।
तमध्यापयीतेत्युपनयनाध्यापनयोरेककर्तृकताप्रतीतेः ।
न ह्यध्यापनमध्ययनेन विना भवतीति स्वसिद्धये परा(पेक्ष क्षेप)लक्षणेनोपादानोपादानेनाध्यापनविधिरेवाध्यापनविधिरेवाध्ययनं प्रयुङ्क्ते ।
किञ्चाध्ययने सति विधिज्ञानं ततश्चाध्ययनमितीतरेतराश्रयत्वं स्यात् ।
अतो नैतद्वाक्योदाहरणमत्र सङ्गतमिति ।
उच्यते ।
स्यादेवं यद्यध्यापनविधिप्रयुक्तमध्ययनं स्यात् ।
नचैवम् ।
अध्यापनस्य जीवीकार्थत्वात् ।
त्रीणि कर्माणि जीविकेति वचनात् ।
अध्ययनस्य च नित्यत्वात् ।
‘यो ऽनधीत्य द्विजो वेदान्’ इत्यकरणे प्रत्यवायश्रवणात् ।
नच नित्यमनित्येन प्रयुज्यते ।
किञ्चैकस्य माणवकस्याध्यापनेन चरितार्थत्वे माणवकान्तरस्यानध्ययनप्रसङ्गः ।
यो येनोपनीतः स तेनाध्यापनीय इति चेत् ।
१०,१००
तर्ह्युपनायके परेते ऽध्ययनाभावः स्यात् ।
यत्पुनरितरेतराश्रयत्वमुक्तं तत् प्रातःसन्ध्यामुपासीतेत्यादावपि समानम् ।
अयमप्याचार्यस्यैव विधिः ।
शौचाचारांश्च शिक्षयेदित्यादेरिति चेन्न ।
आचार्ये परेते तदभावापातात् ।
अतो ऽध्ययनादिविधिं वृद्धाः कथञ्चिन्माणवकं बोधयन्तीत्यङ्गीकार्यमित्यलम् ।
जोस्हि२२
१०,१०६
समाचारेधिकाराच्च इत्येतद्वयाचष्टेअद्यापीति ।
… समाचारे ऽधिकाराच् च … । ब्ब्स्_३,३.३ ।
अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं । (अनुव्याख्यानम्)३,३.७१अच् ।
न्यायसुधा-
यतः सर्वविज्ञानमावश्यकम् ।
तेनैव हि कारणेन देवाद्या अद्यापि श्रवणमनने कुर्वन्ति सदा ध्यायन्ति च ।
अन्यथा महामतीनां तेषामेकैकशाखाश्रवणादेरल्पीयसैव कालेन कर्तुं शक्यत्वेनाद्यापि तत्करणं न स्यादिति ।
यथायोगं यथाशक्तीति प्रत्येकं विशेषणम् ।
शृण्वन्त इत्यात्मनेपद उक्तम् ।
समाचारच्चेत्येवोक्ते देवादीनां वेदाधिकारित्वाभावात्कथमेतदित्यतो देवताधिकरणन्यायं मा विस्मार्षीरिति सूचयितुं सूत्रकृता समाचारे
ऽधिकाराच्चेत्युक्तम् ।
१०,१०८
यदि ब्रह्मसाक्षात्कारवन्तो ऽपि देवाद्याः श्रवणाद्यनुतिष्ठन्ति तर्हि तस्य निरवधिकत्वं प्रसक्तमित्यत आहतथापीति ।
… तथाप्या वस्तुनिर्णयात् ।
श्रवणं मननं चैव कर्तव्यं सर्वथैव हि । (अनुव्याख्यानम्)३,३.७१द्फ़् ।
न्यायसुधा-
यद्यपि सूत्रकारेण देवाद्याचारः प्रमाणीकृतस्तथापि, वस्तु परब्रह्मादिकम् ।
निर्णयो यथार्थः परोक्षो निश्चयः ।
प्रथमस्यैवशब्दस्यावस्तुनिर्णयादेवेति सम्बन्धः ।
वस्तुनिर्णयहेतुत्वाच्छ्रवणादेरिति हिशब्दाथर्ः ।
वस्तुनिर्णयपर्यन्तं श्रवणमनने कर्तव्ये इत्यसत् ।
निर्णीते ऽप्यर्थे पुनः कारणान्तरोपनिपातेन संशयाद्युत्पादस्य दर्शनेन वस्तुनिर्णयस्यावधारयितुमशक्यत्वादित्यत आहमतीति ।
मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम् । (अनुव्याख्यानम्)३,३.७२ ।
न्यायसुधा-
मतिर्मननं श्रुतिः श्रवणम् ।
उत्तमः शिष्ययोग्यताभिज्ञः ।
कुर्वतः श्रवणादिकम् ।
दर्शनं ब्रह्मसाक्षात्काः ।
एतदुक्तं भवति ।
ब्रह्मदर्शनार्थं हि श्रवणादिकम् ।
नच तद्यथाकथञ्चिदनुष्ठितं तत्साधनम् ।
किन्तु शिष्ययोग्यताभिज्ञगुरुप्रदानपूर्वकमेवेति वक्ष्यति ।
अतस्तादृशो गुरुरेव श्रवणादिकालविशेषमुपदेक्ष्यति ।
यतः परं कारणशतोपनिपाते ऽपि न संशयाद्युत्पादः स्यादिति ।
१०,१०९
देवाद्याः श्रवणादिकमद्यापि कुर्वन्तीति न युक्तम् ।
स्याद्धि दर्शनमिति श्रवणादेस्तत्त्वदर्शनसाधनत्वस्योक्तत्वात् ।
देवादीनां च तत्त्वदर्शनस्यौत्पत्तिकत्वात् ।
यथोक्तम्’नैव देवपदं प्राप्ता ब्रह्मदर्शनवर्जिताः’ इत्यादि ।
नच प्राप्तसाध्यः साधनमुतिष्ठतीत्यत आहश्रवणमिति ।
श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ।
विशेषानन्दसम्प्राप्त्या … । (अनुव्याख्यानम्)३,३.७३अच् ।
न्यायसुधा-
दृष्टतत्त्वस्यापि पुंसः श्रवणं मननं ध्यानं च विशेषानन्दसम्प्राप्त्यै युज्यत एवेति योजना ।
एवं तर्हि श्रवणादेर्दर्शनसाधनत्वोक्तिर्व्याहन्यत इत्यत आहअन्यस्येति ।
… अन्यस्यैतानि दृष्टये । (अनुव्याख्यानम्)३,३.७३द् ।
न्यायसुधा-
अदृष्टतत्त्वस्यैतानि श्रवणादीनि दृष्टये भवन्ति ।
यथा खलु समुच्चयवादिनां ज्ञानात्पूर्वाणि कर्माणि ज्ञानार्थीनि ।
ततः पराणि तु मोक्षार्थानि ।
यथा च सकामानि कर्माणि संसारकारणानि निष्कामानि तु ज्ञानकारणानि ।
तथा श्रवणादीन्यदृष्टतत्त्वस्य ज्ञानार्थानीति न तदुक्तिव्याघातः ।
दृष्टतत्त्वस्य तु विशेषानन्दार्थानीति देवादीनां तदनुष्ठानं च युक्तम् ।
समाचारकथनं च यथाशक्ति वेदार्थश्रवणमननयोः कर्तव्यतामात्रोपोद्बलनाय कृतमिति नासङ्गतम् ।
विशेषानन्दं तु वक्ष्यामः ।
१०,११०
शिष्ययोग्यताभिज्ञगुरूपदेशानुसारेण श्रवणादिकं कर्तव्यमित्ययुक्तम् ।
तादृशस्य गुरोर्दुलभत्वेन श्रवणाद्यभावापत्तेः ।
लभ्यमानो ऽप्यसावनुष्ठितश्रवणादिना आध्यात्मिकशक्तिसम्पन्नेनैव शिष्येण लभ्यते नान्येन ।
तथाचान्योन्याश्रय इत्यत आहयदीति ।
१०,१११
यदि तादृग् गुरुर्नास्ति निर्णीतश्रवणादिकम् ।
तत्सिद्धान्तानुसारेण निर्णयज्ञात् समाचरेत् । (अनुव्याख्यानम्)३,३.७४ ।
न्यायसुधा-
द्विविधं शास्त्रं निर्णीतं निर्णेतव्यं च ।
तत्राद्यं ब्रह्मसूत्रादिकं, द्वितीयं वेदादिकम् ।
तत्र निर्णीतस्य श्रवणादिकं समाचरेत् ।
सर्वज्ञानां सिद्धान्तानुसारेण यो निर्णयं जानाति तस्मात् ।
इदमुक्तं भवति ।
मुख्यस्य गुरोः प्रथममलाभे ऽपि न श्रवणाद्यभावापत्तिः ।
अमुख्यादपि गुरोस्तदुपपत्तेः ।
तत्र मुख्यवदमुख्यस्यातिगहनवेदादिव्याख्यानसामर्थ्याभावे ऽपि निर्णीतव्याख्यानमुपपद्यत एव ।
नच निर्णीतशास्त्रस्यापि व्याख्यानविप्रतिपत्त्याभिप्रायो दुरधिगम इति वाच्यम् ।
सर्वज्ञप्रणीतोपायग्रन्थानुसारेणामुख्यस्यापि गुरोस्तदवगमसम्भवात् ।
एवं चामुख्ये श्रवणादावनुष्ठिते मुख्यो ऽपि गुरुर्लभ्यत इति ।
१०,११२
सर्वज्ञस्य गुरोः श्रवणाद्यङ्गत्वे तदभावे श्रवणाद्यभाव एव कुतो नाङ्गीक्रियते किमनेनामुख्येन श्रवणादिना ।
सर्वज्ञगुरुप्राप्तिस्तु पुण्योपचयेनापि भविष्यतीत्यत आहश्रवणादीति ।
श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् । (अनुव्याख्यानम्)३,३.७५अब् ।
न्यायसुधा-
सन्ति तावत्सर्वदा श्रवणादिकं कर्तव्यं क्षणमपि न त्याज्यमित्येवमर्थाः श्रुतिस्मृतयः स्वाध्यायप्रवचने एवेति नाको मौद्गल्य इत्याद्याः ।
तत्र च सर्वज्ञो गुरुरङ्गम् ।
तदलाभे तु गुणे त्वन्याय्यकल्पनमिति न्यायेन यादृशतादृशमपि श्रवणादिकं कार्यमेवेतीति भावः ।
नन्वेताः श्रुतय एवानुपपन्नार्थाः ।
अपरिहार्यनिद्राद्युपद्रवप्राप्तौ श्रवणादेः कर्तुमशक्यत्वात् ।
न ह्याकाशरोमन्थनं शक्यविधानमित्यत आहअतीति ।
अत्यशक्ये तु निद्रादौ पुनरेव समारभेत् । (अनुव्याख्यानम्)३,३.७५च्द् ।
न्यायसुधा-
परिहर्तुमशक्ये निद्रादौ प्राप्ते तु पुनरेव तदपगमनानन्तरमेव श्रवणादिकं समाचरेत् ।
अयमभिप्रायः ।
यथा सायम्प्रातरग्निहोत्रं जुहोतीत्यादिविधयः सन्निपाताद्युपप्लवसम्भवे ऽपि नानुपपन्नस्तथा प्रकृते ऽपीति ।
१०,११४
निर्णयज्ञस्य गुरोरभावे किं श्रवणाद्यभाव एव, नेत्याहअभाव इति ।
अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ।
शृणुयाद् … । (अनुव्याख्यानम्)३,३.७६ ।
न्यायसुधा-
निर्णयज्ञस्य गुरोरभावे ऽपि यादृशतादृशात्सर्वदा शृणुयात् ।
मन्वीत च ।
नहि गुणालाभे मुख्यपरित्यागो युक्त इति भावः ।
वेदादिश्रवणे सर्वज्ञो गुरुरपेक्षितः ।
तदितरश्रवणे तु निर्णयज्ञः सर्वज्ञकल्पः ।
द्वयोरभावे ऽपि श्रवणादिकं चेदनुष्ठेयं तदासच्छास्त्राणामिति प्रतीतिः स्यात् ।
अतः सच्छास्त्राण्येवेत्युक्तम् ।
यादृशतादृशात् शृणुयादित्यनेनातिप्रसक्तौ सत्यामाहयदीति ।
… यदि सज्ज्ञानप्राचुर्यमुपलभ्यते । (अनुव्याख्यानम्)३,३.७६च्द् ।
न्यायसुधा-
यदि तस्मिन्पुरुषे स्वापेक्षया सम्यग्ज्ञानादिप्राचुर्यमुपलभ्यते तर्हि ततः शृणुयात् ।
न त्वधमात् ।
वैयर्थ्यात् ।
न ह्यदृष्टमात्रार्थं श्रवणादिकमिति भावः ।
१०,११५
स्वतो ऽधिकस्य पुरुषस्य प्रबन्धेन व्याख्यानासाम्भवे किं श्रवणाद्यभाव एवेत्याकाङ्क्षायामाहमहद्भय इति ।
महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ।
छिन्द्यात् … । (अनुव्याख्यानम्)३,३.७७अच् ।
न्यायसुधा-
स्वतो महद्भयो, महत्त्वं च न सज्ज्ञानमात्रेण किन्तु विष्णुभक्त्यादिगुणैश्चेत्युक्तं विष्णुभक्तेभ्य इति ।
तादृश एव ह्यादरमुत्पादयन्व्याख्याति ।
सादरमेव च श्रवणादिकं फलायालम् ।
संशयान् अज्ञानविपर्ययांश्चेति श्रवणादिफलमुक्तम् ।
एकस्मात्प्रबन्धेन श्रवणाद्यसम्भवे ऽपि बहुभ्यो महद्भयो यथाशक्ति यथासम्भवमेकैकदेशश्रवणादिकमपि कुर्यादेव ।
तेनापि संशयादिच्छेदस्य श्रवणादिफलस्य लाभादिति भावः ।
स्वतो ऽधिकाभावे कथं श्रवणादीत्यत आहस्वत इति ।
… स्वतो ऽधिकाभावे स्वयमेव समभ्यसेत् ।
ब्रूयादपि च शिष्येभ्यः … । (अनुव्याख्यानम्)३,३.७७च्ए ।
१०,११६
न्यायसुधा-
अपिचावितरेतरयोगे ।
श्रुताऽवृत्तिप्रवचनाभ्यामभिनवोत्प्रेक्षोदयात्ते ऽपि श्रवणादिफलं प्रसुवाते ।
सम्यक् श्रवणादिरहितो व्याचक्षाणः स्खलनेन प्रत्यवेयात् ।
तत्कथमुच्यते शिष्येभ्यो ब्रूयादिति तत्राहसदिति ।
… सत्सिद्धान्तमहापयन् । (अनुव्याख्यानम्)३,३.७७ ।
न्यायसुधा-
ब्रूयादिति सम्बन्धः ।
प्रामाणिकतयाभिमानो ऽर्थः सिद्धान्तः ।
नतु प्रामाणिक एवेति नियम; ।
तथात्वे शब्दनित्यत्वं केषाञ्चित्सिद्धान्तः ।
केषाञ्चित्तदनित्यत्वमिति न स्यात् ।
द्वयोः प्रामाणिकत्वायोगात् ।
अयं तु न तथा ।
अपि तु प्रामाणिक एवेत्यतः सदित्युक्तम् ।
स्वार्थिको णिच् ।
अजहदित्यर्थः ।
यद्वा शिष्यैरहापयन् ।
सत्सिद्धान्तहानिरेव महतः प्रत्यवायस्य हेतुरिति वक्ष्यामः ।
क्षुद्रस्स्खलितं त्वल्पीयस एव ।
नच तावता महाप्रयोजनव्याख्यानत्यागः ।
तथा सति मृगभयाद्बीजानावापप्रसङ्गादिति भावः ।
१०,११८
को ऽसौ सत्सिद्धान्तो यो न हातव्यः ।
द्विविधः सत्सिद्धान्तः परापरभेदात् ।
प्रत्येकं द्विविधो वाचनिक आनुषङ्गिकश्च ।
तत्र वाचनिकं परं सत्सिद्धान्तं तावदाहअशेषेति ।
अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः ।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग् विनिर्णयः । (अनुव्याख्यानम्)३,३.७८ ।
न्यायसुधा-
अन्यत्तत्तन्त्रमिति सकलजगज्जन्मादिकारणत्वमुच्यते ।
निर्णीयत इति निर्णयः ।
सम्यग्विनिर्णयो वाचनिकः परसिद्धान्तः ।
साक्षाद्ब्रह्मस्वरूपावधारणपरे जन्मादिसूत्रे खल्वभिहितो ऽयमर्थः ।
आनुषङ्गिकं परसिद्धान्तमाहस्वतन्त्रत्वमिति ।
स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः । (अनुव्याख्यानम्)३,३.७९अब् ।
न्यायसुधा-
स्वतन्त्रत्वं स्वाधीनसत्त्वादिमत्त्वम् ।
तस्य विष्णोः ।
द्वितीयस्तस्येतिशब्द उत्तरत्र सम्बद्धयते ।
सर्वतो भेदश्चेति ।
प्रकृतिजीवजडेभ्यो ऽत्यन्तभिन्नत्वम् ।
नन्वेतदप्यसम्भवस्तु सतो नात्माश्रुतेः पृथगुपदेशादित्यादिनाभिहितमेव ।
तत्कथमानुषङ्किकः सिद्धान्तः ।
सत्यम् ।
तथापि प्रधानप्रमेयोपयोगितयोक्तत्वाददोषः ।
स्वगतभेदवर्जितत्वादेरुपलक्षणमेतत् ।
इति सम्यक् स्थितिरिति वक्ष्यमाणेनान्वयः ।
१०,१२१
कथमस्याथर्स्यानुषङ्गिकत्वमित्यत आहअदोषत्वस्येति ।
अदोषत्वस्य सिद्धयर्थं … । (अनुव्याख्यानम्)३,३.७९च् ।
न्यायसुधा-
विष्णोरदोषत्वस्य सिद्धयर्थमङ्गीकार्यो ऽयमर्थ इति शेषः ।
उपलक्षणमेतत् ।
अशेषगुणपूर्णत्वस्य सकलजगज्जन्मादिकारणत्वस्य चेत्यपि द्रष्टव्यम् ।
अनेन कथं तत्सिद्धिरित्यत आहयदीति ।
… यदभेदे तदन्वयः । (अनुव्याख्यानम्)३,३.७९द् ।
न्यायसुधा-
यस्माज्जगताभेदे विष्णोर्देषसम्बन्धः प्रसज्यते तस्मादिति पूर्वेण सम्बन्धः ।
अत्राप्यभेद इत्यस्वातन्त्र्यस्याप्युपलक्षणम् ।
तदन्वय इति च गुणपूर्त्याद्यभावस्यापि ।
अन्यत्तत्तन्त्रमित्यन्यशब्दो ऽमुक्तविषय इति प्रतीतिः स्यात्तदर्थमाहतत्तन्त्रत्वं चेति ।
तत्तन्त्रत्वं च मुक्तानामपि … । (अनुव्याख्यानम्)३,३.८०अब् ।
न्यायसुधा-
चशब्दो वक्ष्यमाणेन भेदेन सह समुच्चयार्थः ।
अङ्गीकायर्मिति शेषः ।
किमर्थमिदमङ्गीकार्यं जन्मादिसूत्रस्यामुक्तविषयतयाप्युपपत्तेरित्यत आहतदिति ।
१०,१२२
… तद्गुणपूर्तये । (अनुव्याख्यानम्)३,३.८०ब् ।
न्यायसुधा-
नहि मुक्तानां तत्तन्त्रत्वेन विना तस्य निरर्गलमैश्वर्यं सिद्धयति ।
नच तदन्तरेण गुणपूर्तिर्भवतीति ।
स्यादेतत् ।
यदि मुक्ताः परमात्मनो भिन्नाः स्युः ।
नच तथा ।
तत्किं तत्तन्त्रत्वेनेत्यत आहमुक्तानामपीति ।
मुक्तानामपि भेदश्च … । (अनुव्याख्यानम्)३,३.८०च् ।
न्यायसुधा-
परमात्मनो ऽत्यन्तभेदश्चाङ्गीकार्यः ।
अनेन’तस्य भेदश्च सर्वतः’ इत्येतदपि विवृतं भवति ।
किमर्थमित्यतः प्रयोजनं वक्तुं पीठमारचयतिनहीति ।
… नहि भिन्नमभिन्नताम् ।
गच्छद् दृष्टं क्वचित् … । (अनुव्याख्यानम्)३,३.८०दे ।
न्यायसुधा-
मुक्तानां परमात्मनाभेदो भवन्न तावत्प्राग्भिन्नानाम् ।
भिन्नस्याभेदावाप्तेः क्वाप्यदर्शनात् ।
न केवलमदर्शनं किं तर्हीत्यत आहतस्येति ।
… तस्याप्यभावो ऽनुभवोपगः । (अनुव्याख्यानम्)३,३.८०एफ़् ।
न्यायसुधा-
भिन्नमभिन्नतां गच्छतीत्यस्यार्थस्याभावो ऽनुभवसिद्धो ऽपि ।
ततः संसारे ऽप्यभिन्नानामेव मुक्तावभेदो व्यज्यत इत्येव वक्तव्यम् ।
तथैवास्त्वित्यत आहपूर्वेति ।
पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ।
नारायणेन मुक्तानामपि सम्यगिति स्थितिः । (अनुव्याख्यानम्)३,३.८१ ।
न्यायसुधा-
समर्थितं तावद्दुःखादिरूपो ऽयं संसारः सत्य इति ।
ततः संसारे ऽपि जीवानां परमात्मना भेदे तस्य दोषवत्त्वं स्यात् ।
इतिशब्दो हेतौ ।
सम्यक् स्थितिः सत्सिद्धान्तः आनुषङ्गिकः पर इति शेषः ।
१०,१२४
नन्वतिभिन्नता किमर्था भेदाभेदोपपत्तेरित्यत आहभेदेति ।
भेदाभेदे ऽप्यभेदेन दोषाणामपि सम्भवः । (अनुव्याख्यानम्)३,३.८२अब् ।
न्यायसुधा-
भेदेन सहितो ऽभेदो भेदाभेदः ।
‘विप्रतिषिद्धं चानधिकरणवाची’ इति द्वन्द्वैकवद्भावो वा ।
अत्रापि पूर्वन्यायेन संसारे ऽपि भेदाभेदावङ्गीकार्यौ ।
ततश्चाभेदेन दोषाणामपि सम्भवः ।
भेदेन तत्परिहारो भविष्यतीति चेत्तर्हि किमजागलस्तनायितेनाभेदेनेति ।
इदानीमपरं सिद्धान्तमाहनिर्देषत्वमिति ।
निर्दोषत्वं रमायाश्च … । (अनुव्याख्यानम्)३,३.८२च् ।
१०,१२५
न्यायसुधा-
तथा परमेश्वरवद्रमायाश्च निर्देषत्वम् ।
यथोक्तम्’कामादिरतत्र तत्र चायतनादिभ्यःऽ‘समना चासृत्युपक्रमादमृतत्वं चानुपोष्य’ इति ।
निर्देषत्वमित्युक्त्या पारतन्त्र्यमपि नास्तीति प्रतीतिनिरासार्थमाहतदिति ।
… तदनन्तरता तथा । (अनुव्याख्यानम्)३,३.८२द् ।
न्यायसुधा-
परमेश्वरानन्तरता तदधीनतेति यावत् ।
यद्वानेनापरसिद्धान्तान्तरमाहएकस्माद्भगवत एवावरत्वमिति ।
तदप्युक्तम् अस्यैव चोपपत्तेरूष्मा’ इति ।
सिद्धान्तान्तरमाहब्रह्मेति ।
ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः ।
शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च । (अनुव्याख्यानम्)३,३.८३ ।
सत्सिद्धान्त इति ज्ञेयो । (अनुव्याख्यानम्)३,३.८४अ ।
न्यायसुधा-
मुक्तौ संसारे ऽपि ।
प्रोक्तात्क्रमात्तिष्ठन्तीत्यर्थः ।
अत्र द्वन्द्वनिर्दिष्यानां साम्यमन्येषां तारतम्यमिति ज्ञेयम् ।
एतच्चोक्तमियदामननादिति ।
उपलक्षणं चैतत् ।
प्रपञ्चसत्यत्वादिकमपि ग्राह्यम् ।
कुतो ऽयमशेषगुणेत्यादिसत्सिद्धान्त इत्यत आहनिर्णीत इति ।
… निर्णीतो हरिणा स्वयम् । (अनुव्याख्यानम्)३,३.८४ब् ।
न्यायसुधा-
हरिणा सूत्रकारेण स्वयं साक्षान्निर्णीतो न तु बलात्सूत्रार्थतया कल्पितः ।
एतच्च तत्र तत्र दर्शितमेव ।
१०,१२८
सत्सिद्धान्तमहापयन्नित्युक्तम् ।
तद्धानौ को दोष इत्यत आहएतदिति ।
एतद्विरोधि यत् सर्वं तमसे ऽन्धाय केवलम् । (अनुव्याख्यानम्)३,३.८४च्द् ।
न्यायसुधा-
ज्ञातं सदित्यर्थः ।
विरोधि ज्ञानमेव हि ।
अस्य त्यागः ।
अन्धाय भवतीति शेषः ।
केवलमिति न कदापि न सुखायेत्यर्थः ।
कुत एतदित्यत आहअन्धमिति ।
अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् । (अनुव्याख्यानम्)३,३.८५अब् ।
न्यायसुधा-
अनेनान्धन्तमः प्रविशन्ति ये ऽविद्यामुपासत इति श्रुतिमुपादत्ते ।
उक्तार्थस्य प्रामाणिकत्वं वक्ष्यते ।
अतस्तद्विरुद्धप्रतीतिरविद्या भवत्येव ।
अतिस्फुटमित्यनेन परेषां व्याख्यानं पराचष्टे ।
तथाच वक्ष्यामः ।
१०,१२९
ननु च वस्तुतः प्रामाणिकः सत्सिद्धान्तः ।
प्रकृतस्य कथं प्रामाणिकत्वमित्यत आहइत्येवेत्यादिना सादरमित्यन्तेन ।
इत्येव श्रुतयो ऽशेषाः पञ्चरात्रमथाखिलम् । (अनुव्याख्यानम्)३,३.८५च्द् ।
मूलरामायणं चैव भारतं स्मृतयो ऽखिलाः ।
वैष्णवानि पुराणानि साङ्खययोगौ परावपि । (अनुव्याख्यानम्)३,३.८६ ।
ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ।
अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः । (अनुव्याख्यानम्)३,३.८७ ।
प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ।
मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम् । (अनुव्याख्यानम्)३,३.८८ ।
न्यायसुधा-
इत्येवेत्युक्तप्रकारावधारणम् ।
एतमेवार्थमिति प्रकृतधर्म्यवधारणम् ।
तेन व्यत्यासमपि वारयति ।
अशेषा इति श्रुतिभागस्य कर्मादिपर्यवसायित्वनिरासार्थम् ।
अथशब्दः समुच्चये ।
अखिलमिति जीवजननादिवाक्यानामप्युपादनार्थम् ।
मूलरामायणमेवेत्यवान्तररामायणानां व्युदासः ।
अखिला इति बहुवचनविषयविवरणार्थम् ।
इतरपुराणानां पाशुपतादिमूलत्वेनाप्रामाण्याद्वैष्णवानीत्युक्तम् ।
पराविति अर्वाचीनसाङ्खययोगव्यावृत्तये ।
तयोरप्रमाणत्वात् ।
मीमांसा त्रिविधा ।
शब्दसागरः प्रकाशयतीति सम्बन्धः ।
युक्तयश्च प्रकाशयन्ति प्रत्यक्षागममूलका एव ।
न त्वाभासाः ।
प्रत्यक्षं च प्रकाशयति ।
एवशब्देनेश्वरप्रत्यक्षस्य प्राबल्यं सूचयति ।
कर्मकाण्डादीनामेतदर्थप्रकाशकत्वं कथमित्यत उक्तमुत्तममिति ।
कर्मादेरुत्तानार्थत्वे ऽप्युत्तमो ऽर्थो ऽयमिति भावः ।
वेदादीनामन्यथाव्याख्यानं वारयतिअन्यावकाशरहितमिति ।
१०,१३०
अन्यावकाशरहितं प्रकाशयति सादरम् । (अनुव्याख्यानम्)३,३.८९अब् ।
न्यायसुधा-
क्रियाविशेषणमेतत् ।
सादरमिति तत्र तात्पर्यसद्भावमाचष्टे ।
एतदर्थर्ं(थे) च श्रुत्यादिकमन्यत्र पठितमेव द्रष्टव्यम् ।
१०,१३२
सत्सिद्धान्तमहापयन्सच्छास्त्राण्येव सर्वदा शृणुयादित्युक्तम् ।
तत्र स(त)त्सिद्धान्तस्वरूपं निरूप्य सच्छास्त्राण्येव सर्वदा श्रुणुयादित्येतद्विवृणोतिएतदेव चेति ।
एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम् । (अनुव्याख्यानम्)३,३.८९च्द् ।
सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् । (अनुव्याख्यानम्)३,३.९०अब् ।
न्यायसुधा-
एतद्वेदादिकम् ।
ततः परं तद्विरुद्धं तदुदासीनं च ।
ऋगाद्या भारतं चैवेत्याद्यागमो ऽत्र स्फुट एव ।
दुश्शास्त्रं नाभ्यसेदिति वक्तव्ये परित्यजेदिति वचनं न केवलं तत्रोदासीनत्वं किन्तु हेतुतया ज्ञानमपि भाव्यमिति ज्ञापयितुम् ।
अत्र चासच्छास्त्राधिगमनमिति पातकेषु परिगणनं प्रमाणम् ।
स्फुटानि चाचार्येणान्यत्रात्रार्थे वाक्यान्युदाहृतानि ।
१०,१३३
सच्छास्त्रमभ्यसेदिति श्रवणमननयोः कर्तव्यत्वमुक्तं तदयुक्तम् ।
निदिध्यासनेनैव ब्रह्मदर्शनोपपत्तेः ।
अन्यथा तद्वैयर्थ्यादित्यत आहअसंशयेनेति ।
असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम् । (अनुव्याख्यानम्)३,३.९०च्द् ।
न्यायसुधा-
संशयशब्देन विपर्ययो ऽपि लक्ष्यते ।
निर्णये सति निदिध्यासनेन ब्रह्मदर्शनं भवतीति योज्यम् ।
एतदुक्तं भवति ।
सत्यं निदिध्यासनं ब्रह्मदर्शनसाधनमिति ।
किन्तु तत्सिद्धये श्रवणमनने अपि कर्तव्ये ।
अवितथं ब्रह्मानुचिन्तनं हि निदिध्यासनम् ।
वितथानुचिन्तनस्य चतुर्थे निराकरिष्यमाणत्वात् ।
नचाविदितस्यानुचिन्तनं सम्भवतीति ।
तद्वेदनार्थं श्रवणमभ्यर्थनीयम् ।
श्रुते चार्थे लिङ्गाभासप्रतिभासेन संशयविपर्ययोदयेन वितथं तद्भवतीति तद्व्युदासहेतुर्मननमप्येष्यव्यमिति ।
१०,१३५फ़्.
अन्ये पुनर्मन्यन्ते ।
श्रवणमेव ब्रह्मापरोक्षज्ञानसाधनम् ।
मनननिदिध्यासने श्रवणं प्रति फलोपकार्यङ्गभूते ।
असम्भावनाविपरीतभावनाख्यचित्तविक्षेपप्रतिबद्धं हि ब्रह्मापरोक्षज्ञानं नाविद्यानिर्मूलनस्येष्यम् ।
मननादिकं च प्रतिबन्धं निवर्तयतीति ।
तदसत् ।
शब्दस्य साक्षात्कारकारणतायाः क्वाप्यदर्शनात् ।
ब्रह्मविषयशब्दवद्धर्मादिविषयस्यापि तथात्वापत्तेश्च ।
नच विशेषहेतुरस्ति ।
येन ब्रह्मविषयस्यैव तद्भावो न धर्मादिविषयस्येति प्रतीमः ।
प्रत्यक्षलक्षणाक्रान्ततया शब्दस्य तत्रान्तर्भावश्चापद्येत ।
अथ मतम् ।
दृश्यते तावद्दशमस्त्वमसीत्यादिवाक्यस्य साक्षात्कारकरणत्वम् ।
नच तत्रापीन्द्रियमेव करणं न शब्द इति साम्प्रतम् ।
शब्दस्याप्यन्वयव्यतिरेकसिद्धत्वात् ।
अस्तु तर्हीन्द्रियमेव करणं शब्दस्तु सहकारीति चेन्न ।
वैपरीत्यस्यापि सुवचत्वात् ।
तथापि कुता विनिगमनमिति चेत् ।
क्वचिद्बहलतमे तमसि क्वचिच्च लोचनविरहिणो ऽपि वाक्याद्दशमो ऽस्मीत्यपरोक्षप्रतीतिदर्शनादिति वदामः ।
धर्मादिविषयस्यापि शब्दस्यापरोक्षज्ञानसाधनत्वापादनं चासत् ।
वैषम्यात् ।
प्रकृतो हि शब्दो ऽपरोक्षब्रह्मात्मविषयः ।
न तथान्यः ।
अस्ति चास्यापरोक्षज्ञानसाधनत्वे प्रमाणम् ।
नान्यस्य ।
तथाहि ।
विमतं श(शा)ब्दज्ञानमपरोक्षम्, अपरोक्षविषयत्वात् सुखादिज्ञानवत् ।
अपरोक्षत्वं वेदान्तवाक्यजन्यज्ञानवृत्ति, अपरोक्षज्ञाननिष्ठात्यन्ताभावाप्रतियोगित्वात् ज्ञानत्ववदिति ।
नच विवादाध्यासितः शब्दो ऽपरोक्षज्ञानजनको न भवति, शब्दत्वात्, ज्योतिष्योमादिवाक्यवदिति युक्तम् ।
दशमस्त्वमसीत्यादौ व्यभिचारात् ।
श्रूयते च’तद्धास्य विजिज्ञौ तमसः पारं दर्शयति’ इत्युपदेशमात्रदेवापरोक्षप्रमितिजन्म ।
अत एव ब्रह्मात्मविषयवाक्यान्यत्वेन प्रत्यक्षलक्षणं विशेषणीयमिति ।
१०,१३९
अत्रोच्यते ।
यत्तावदुक्तं दशमस्त्वमसीत्यादिवाक्यादपरोक्षज्ञानजन्मोपब्धमिति तदसङ्गतम् ।
दशत्वसङ्खया खल्वपेक्षाबुद्धिजन्या तद्वयङ्गया वेत्यतो नापाततो रूपादिकमिव प्रत्यक्षेणोपलभ्यते ।
ततो दशानां पूरणो दशमो ऽपि तथा ।
अतः प्रथमं शब्देन परोक्षज्ञाने जाते ऽनन्तरं लब्धसहायेन प्रत्यक्षेणापरोक्षज्ञानं जायते ।
आभावादेकमेवापरोक्षं ज्ञानमित्यभिमानः ।
अन्धकारादौ तु वाक्यादुत्पन्नस्य ज्ञानस्यापरोक्षत्वं नास्त्येव ।
प्रतीतिकलहो ऽयं निरवधिक इति चेत् ।
अत्रेदं वक्तव्यम् ।
शब्दस्यापरोक्षज्ञानसाधनत्वं किं स्वभावः किं वा अपरोक्षज्ञानसाधनत्वमस्याप्यगन्तुकम् ।
आद्ये सर्वेषामपि शब्दानां तथाभावः स्यात् ।
द्वितीये निमित्तं वक्तव्यम् ।
ब्रह्मात्मविषयत्वमिति चेत् ।
तर्हि दशमस्त्वमसीत्यादेरतथाभूतस्य नापरोक्षज्ञानसाधनत्वं स्यात् ।
अपरोक्षविषयत्वमिति चेन्न ।
अपरोक्षज्ञानविषयत्वातिरिक्तस्यार्थे अपरोक्षत्वस्याभावात् ।
तत्रैतज्ज्ञानविषयत्वेन तदुक्तावितरेतराश्रयत्वम् ।
ज्ञानान्तराभिप्राये तु स्वर्गादयो ऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दो ऽपरोक्षज्ञानं जनयेत् ।
एकपुरुषाभिप्राये ऽपि केषाञ्चिदपरोक्षज्ञानविषया इत्यस्माकं तद्विषयः शब्दो ऽपरोक्षज्ञानं जनयेत् ।
एकपुरुषाभिप्राये ऽपि प्रत्यक्षावगते ऽग्नौ धूमदर्शनेनापरोक्षज्ञानजन्मप्रसङ्गः ।
शब्दस्यैवम्भाव इति चेत् ।
तथाप्यग्नौ शब्देनापरोक्षज्ञानोत्पत्तिः स्यात् ।
अपरोक्षतया ज्ञायमाने तथेति चेन्न ।
धर्मिमात्राभिप्राये प्रत्यक्षेणावगम्यमाने घटे शतपलपरिमितो ऽयमिति शब्दस्यापरोक्षज्ञानकारणतापत्तेः ।
प्रकाराभिप्राये तु प्रकृते ऽभावात् ।
नहि तत्त्वमसीत्यादिवाक्यप्रतिपाद्यं ब्रह्मात्मैक्यमपरोक्षतयावभासते ।
तथा सति शब्दवैयर्थ्यापत्तेरिति ।
१०,१४२
एतेनापरोक्षविषयत्वानुमानमपि परास्तम् ।
यच्चापरोक्षत्वमित्यादि ।
तज्ज्योतिष्योमादिवाक्ये ऽपि तथा प्रयोगसम्भवादाभाससमानयोगक्षेमम् ।
ज्योतिष्योमादिवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे न किञ्चिद्बाधकमिति चेत् ।
सममेतद्वेदान्तवाक्येष्वपि ।
संसारस्याविद्यामयत्वादविद्यायाश्चापरोक्षज्ञानेन विना निबर्हणायोगाद्वेदान्तवाक्यस्यापरोक्षज्ञानसाधनत्वाभावे मोक्षाभावप्रसङ्ग इति चेन्न ।
ज्ञाननिवर्त्यताया निरस्तत्वात् ।
चित्तैकाग्षरूपनिदिध्यासनस्यापरोक्षज्ञानसाधनत्वोपपत्तेश्च ।
मनसो ऽपरोक्षज्ञानसाधनत्वं क्वापि नोपलब्धमिति चेत् ।
तत्किं शब्दस्योपलब्धम् ।
यन्मनसा न मनुत इति श्रुतिविरुद्धं तदिति चेन्न ।
श्रुतेर्मनसैवेदमाप्तव्यमिति श्रुत्या सत्प्रतिपक्षत्वात् ।
चित्तैकाग्षस्य अन्तरङ्गतापरेयं श्रुतिरिति चेत् ।
साप्यपक्वमनोविषयेति स्यात् ।
१०,१४५
किञ्च शब्दस्यापि ब्रह्मज्ञानसाधनत्वं यतो वाचो निवर्तन्त इति श्रुतिविरुद्धं कथमङ्गीकार्यम् ।
तद्धास्य विजिज्ञावित्यादिश्रुतयस्तु परोक्षज्ञानेनापि सार्थकाः ।
परम्परया अपरोक्षज्ञानसाधनत्ववादिन्यो वा ।
स्पष्टं हि स्मृतयो वदन्ति’श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ ।
संशयं च पराणुद्य लभते ब्रह्मदर्शनम्’ इति,’शृणुयाद्यावदज्ञानं मतिर्यावदयुक्तता ।
ध्यानं च यावदीक्षा स्यान्नेक्षरा क्व च न बाध्यते’ इति च ।
एतेन धर्मादिवाक्ये ऽतिप्रसङ्गः शब्दत्वानुमानं च समाहितं वेदितव्यम् ।
अत एव प्रत्यक्षलक्षणे विशेषप्रक्षेणे ऽपि निरस्तः ।
निर्निबन्धनत्वात् ।
१०,१४७
ये तु शब्द एवापरोक्षज्ञानजननाय प्रवृत्तो ऽसम्भावनादिप्रतिबद्धो मनननिदिध्यासनाभ्यां प्रतिबन्धापगमे सज्जनयतीति मन्यन्ते ते प्रष्टव्याः ।
प्राङ्मनननिदिध्यासनाभ्यां किमसौ किमप्यकृत्वा परस्तादपरोक्षज्ञानं जनयत्युत परोक्षज्ञानं कृत्वा ।
नाद्यः ।
गृहीतसङ्गतेः शब्दाद्बोधोदयाभावस्य प्रमाणविरुद्धत्वात् ।
द्वितीये ऽपि विरम्यव्यापारापत्तिः ।
ततो वरं शब्दस्य तावतैव चरितार्थत्वकल्पनमित्येषा दिक् ।
१०,१४७फ़्.
यदुक्तं यथाशक्ति श्रवणमनने कर्तव्ये इति तदयुक्तम् ।
पुरुषशक्तीनां तारतम्यवत्त्वेन श्रवणादेरपि तारतम्यापत्तेः ।
नच तथास्त्विति वाच्यम् ।
तत्साध्यस्य ज्ञानस्यैकविधत्वेन वैयर्थ्यप्रसङ्गात् ।
नच वाच्यं ज्ञातव्यस्य ब्रह्मणो ऽपरिमितत्वात्तत्तज्ज्ञानान्यपि तारतम्यवन्तीति ।
तत्फलस्य मोक्षस्य तारतम्यरहितत्वेन वैयर्थ्यापरिहारात् ।
न खलु बन्धविध्वंसस्य तारतम्यमुपपद्यत इत्यत आहसम्यगिति ।
१०,१४८
सम्यग्विषमविज्ञानतारतम्यानुसारतः ।
फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम् । (अनुव्याख्यानम्)३,३.९१ ।
न्यायसुधा-
विषमं विपरीतम् ।
ज्ञानमेव विज्ञानम् ।
ततो न पुनरुक्तिर्विरोधश्च ।
तारतम्यादिति तारतम्येनोपेतमित्यर्थः ।
सम्यग्विपरीतज्ञानयोस्तारतम्यमित्युक्ते परस्परमिति प्रतीतिः स्यात् ।
तन्निरासार्थमुक्तं विवृणोतिसम्यक्चेति ।
सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम् । (अनुव्याख्यानम्)३,३.९२अब् ।
न्यायसुधा-
सम्यगित्यव्ययं समीचीनादित्यर्थः ।
चशब्दो ऽनुक्तसमुच्चयार्थः ।
मध्यमात्सम्यग्ज्ञानात्तथाविधं सुखं भवेत् ।
अल्पाच्च सम्यग्ज्ञानादल्पम् ।
एवमधिकान्मिथ्याज्ञानादधिकं दुःखमित्यादि ।
अत्र मिथ्याज्ञानतारतम्येन दुःखतारतम्यस्याभिधानं दृष्टान्तत्वेनोपयुज्यते ।
यद्वा दुश्शास्त्रं तु परित्यजेदित्युक्तम् ।
तत्रात्यन्तपरित्यागार्थो ऽर्थवादो ऽयम् ।
न बन्धप्रध्वंसमात्रं मोक्षः किन्तु सुखमपि ।
तस्य च तारतम्यमुपपद्यत इति भावः ।
१०,१४९
अधिकरणार्थमुपसंहरतिअत इति ।
अतो यथात्मशक्तयैव श्रवणं मननं तथा । (अनुव्याख्यानम्)३,३.९२च्द् ।
१०,१४९फ़्.
न्यायसुधा-
नन्वत्रात्मशक्तिमनतिक्रम्य यथात्मशक्तीत्यव्ययीभावे सति, तस्याव्ययीभावश्चेति अव्ययत्वादव्ययादाप्सुप इति तृतीयाया लुका भवितव्यम्
यथाऽत्मशक्त्यैवेति कथम् ।
उच्यते ।
यथेति भिन्नं पदं सम्यग्वाचि ।
निवृत्तिमार्गः कथित आदौ भगवता यथेति, यथा श्रवणमित्यादिना च सम्बद्धयते ।
सादृश्यार्थं वा ।
आत्मशक्त्यैव श्रवणं मननं चाचरेत् ।
नतु सर्वशाखाविषयम् ।
नापि स्वस्वशाखामात्रविषयम् ।
यथा च श्रवणं मनन चात्मशक्त्यैव ।
निदिध्यासनमपि तथाऽचरेत् ।
तच्च श्रवणं मननं च कृत्वा कुवर्न्वेति ।
यद्वा यथाऽत्मशक्तीत्यव्ययीभावात्पर आशब्दः सम्यग्वाची ।
श्रवणमित्यादिना सम्बद्धयते ।
अथवा यथाशब्दस्यात्मशब्देनाव्ययीभावः ।
ततः शक्तिशब्देन कर्मधारयः ।
योग्यतानुसारिण्या शक्त्येत्यर्थः ।
अत्र यथाऽत्मशक्त्यैव श्रवणं मननं तथाऽचतरेदित्येतावतैवोपसंहारे कर्तव्ये ऽधिकमुच्यते यत्तच्छ्रवणमननयोरुक्तस्य
निदिध्यासनाङ्गत्वस्याप्युपसंहाराथर्म् ।
कृत्वा अथवा कुर्वन्नपीति विशेषज्ञापनार्थं च ।
अयं च विकल्पो गुरूपदेशानुरोधेन व्यवतिष्ठते ।
अथवा पूर्वार्ध एवाधिकरणार्थोपसंहारः ।
तत्राचरेदिति वक्ष्यमाणं सिंहावलोकनेन सम्बद्धयते ।
इति सिद्धमिति शेषः ।
। इति सर्ववेदा(न्प्रत्यया)धिकरणम् ।


__
१०,१५२