। अथ फलदानाधिकरणम् ।
। ओं फलमत उपपत्तेः ओं ।
अत्रादौ तावत्स्वर्गनरकादिकं फलं प्राणिनामीश्वरादेव भवतीति श्रुत्युपपत्तिभ्यामुपपादितम् ।
तदाक्षेपार्थं सूत्रं’धर्मं जैमिनिरत एव’ इति ।
तस्यार्थः ।
ईश्वरः फलकारणं चेद्धर्माधर्मावपेक्षते न वा ।
नेति पक्षे वैषम्याद्यापत्तिर्वेदाप्रामाण्यप्रसक्तिश्च ।
आद्ये किमीश्वरेण तदपेक्षणीयेनैव कर्मणा फलसिद्धेः ।
अन्यथा गौरवापत्तेः ।
न चाचेतनत्वोपपत्तिविरोधः ।
नहि राजादिरिव कर्म फलं ददातीति ब्रूमो येनाचेतनत्वं बाधेत ।
किन्तु कारणमात्रम् ।
नच श्रुतिविरोधः ।
फलकारणयोर्धर्माधर्मयोरीश्वरकारितत्वेन तत्स्तुतये तस्य फलकारणत्वोपचारादिति ।
समाधानार्थं सूत्रम् ।
ओं पूर्वं तु बादरायणो हेतुव्यपदेशात् ओं ।
तेनेदमुक्तम् ।
अपेक्षत एवेश्वरो धर्माधर्मौ ।
नच तावता तयोरेवास्तु फलहेतुतेति युक्तम् ।
धर्मादेरिवेश्वरस्यापि फलहेतुतया श्रुतिसिद्धत्वेन त्यागायोगात् ।
बाधकाभावेन श्रुतेरुपचरितार्थताकल्पनानुपपत्तेः ।
गौरवस्याप्रामाणिकविषयत्वात् ।
परस्य ब्रह्मणः कर्मणश्चोभयोर्हेतुत्वे साम्यापत्तिरित्यपि न वाच्यम् ।
९,५३३
यतः फलदाने परमेश्वरः कर्तृत्वेन कर्म तु कारणत्वेन पुण्येन पुण्यमित्यादौ व्यपदिश्यते ।
करणं च कर्तृप्रयोज्यमिति प्रसिद्धमेवेति ।
तत्रेदमाशङ्कयते ।
तथापि कर्मापेक्षस्येश्वरस्य फलदाने ऽनुपचरितं स्वातन्त्र्यं न सिद्धयति ।
ततश्च न तस्मिन्बहुमानातिशय इति ।
एतत्परिहारत्वेन पूर्वपदं व्याख्यातिस एवेति ।
पूर्वं तु बादरायणो हेतुव्यपदेशात् । ब्ब्स्_३,२.४१ ।
फलमत उपपत्तेः । ब्ब्स्_३,२.३८ ।
स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् ।
धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः । (अनुव्याख्यानम्)३,२.२०२ ।
कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः ।
न ते विशेषं कमपि प्रेरणादिकमुच्यते ।
कुर्युः कदापि तेनायं स्वतन्त्रो ऽनुपचारतः । (अनुव्याख्यानम्)३,२.२०३ ।
न्यायसुधा-
अनादिकालत्वं च प्रवाहापेक्षयोक्तम् कांश्चित् बोधयति सव्यापारीकरोति स्वयमेवेति सम्बन्धः ।
लीलया करणीकरोति न तु तेन विना दातुं न शक्नोतीति भावः ।
९,५३५
यदेतदत्रोक्तं धर्माधर्मदर्शनं तत्प्रेरणं तत्फलदानं तदप्रेर्यत्वादिकं चेश्वरस्य ।
तदेव विचार्यमाणं तस्मिन्महान्तं बहुमानमुत्पादयिष्यति किमु समस्तपदार्थ इत्याशयवान्कमर्णां स्वरूपं तावत्प्रपञ्चयतिकर्माणीति ।
कर्माणि तानि च पृथक् चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्चि च । (अनुव्याख्यानम्)३,२.२०४ ।
प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।
तानि चैवम् … । (अनुव्याख्यानम्)३,२.२०५अच् ।
न्यायसुधा-
तानीत्यशेषजीवस्थेत्याद्युक्तविशेषणानि ।
पृथगित्येकैकधर्माधर्माधिष्ठा(तृ)नभूतानि मुक्तव्यावृत्तये ऽचेतनशरीराणीत्युक्तम् ।
तत एव स्वकर्मफलभाञ्जि च ।
तेषु कर्माभिमानिषु ।
एवंविधानीति चेतनत्वाद्युक्तधर्मवन्ति तानि तेष्वपि कर्मसु वर्तमानानि ।
ततः किमित्यत आहइतीशस्येति ।
… इतीशस्य निस्सीमा शक्तिरुत्तमा । (अनुव्याख्यानम्)३,२.२०५च्द् ।
न्यायसुधा-
एवम्भूतानां कर्मणां दर्शनादिमतः ।
उत्तमा प्रतिबन्धादिरहितत्वात् ।
कर्मणामेवंविधत्वं कुत इत्यत आहएकैवेति ।
एकैव ब्रह्महत्या हि वराहहरिणोदिता । (अनुव्याख्यानम्)३,२.२०६अब् ।
न्यायसुधा-
हरिणैव न त्वर्वाचीनेन ।
वराहग्रहणेन वाराहपुराण इति सूचितम् ।
उदिता चेतनत्वादिरूपेणेति शेषः ।
तदेव दर्शयतिब्रह्मपारेति ।
९,५३६
ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः । (अनुव्याख्यानम्)३,२.२०६च्द् ।
स्तोत्रस्य तस्य माहात्म्याद् व्याधत्वं गमिता पुनः ।
प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा । (अनुव्याख्यानम्)३,२.२०७ ।
अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि ।
संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक् । (अनुव्याख्यानम्)३,२.२०८ ।
न्यायसुधा-
अनेन समग्रमितिहासं सङ्क्षेपेण स्मारयन्ति ।
व्याधत्वादिप्राप्त्या चेतनत्वादिकं गम्यते ।
तथाशब्दः प्रमाणसमुच्चये ।
अन्यानि ब्रह्महत्यायाः ।
पृथक् पृथगुदितानि ।
एवं चेतनत्वादिना ।
हीति (परम)सा(ङ्ख्ये)ङ्ख्यप्रसिद्धिं दर्शयति ।
कथं चेतनत्वादिना प्रतीतिस्तेषामित्यत उक्तम्संसारेति ।
९,५३८
पादार्थमुपसंहरतितस्मादिति ।
तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः ।
भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते । (अनुव्याख्यानम्)३,२.२०९ ।
न्यायसुधा-
माहात्म्यं शक्तिः गुणा आनन्दाद्याः ।
आराध्य उपास्य इत्युत्तरपादार्थेन सङ्गतिमस्य सूचयति ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयाध्यायस्य द्वितीयः पादः ।
। इति श्रीमन्न्यायसुधायां तृतीयाध्यायस्य द्वितीयः पादः ।
१०,१
उपासनास्मिन्पाद उच्यत इति भाष्यम् ।
तत्रोपासनार्थस्यास्य पादस्य का पूर्वेणोत्तरेण वा सङ्गतिरित्यतो ऽस्य पादस्य सङ्गतिं वदन्प्रसङ्गादेतदध्यायगतपादचतुष्ययस्याप्याहवैराग्यत
इति ।
वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।
आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत् । (अनुव्याख्यानम्)३,३.१ ।
न्यायसुधा-
मीमांसासाध्याद्वैराग्यात्त्प्रागेव भक्तेर्भाव्यत्वाद्दार्ढ्यमित्युक्तम् ।
यदाशब्दो यस्मादित्यर्थे ।
तयापरोक्ष्यं भवेत् ।
इति तस्मात् ।
अयमर्थः ।
साधनविचारो ऽयं तावदध्यायः ।
मोक्षसाधनं च भगवत्प्रसाद एव ।
तत्साधनानि च विषयवैराग्यं भगवद्भक्तिस्तदुपासना तत्साक्षात्कार इति चत्वारि ।
तानि च न समकक्ष्याणि ।
किन्त्वादौ वैराग्यं साध्यम् ।
तेन भक्तिः ।
न हि हेये रागवत उपादेये प्रमोत्पत्तिरस्ति ।
दृश्यते तावदिति चेत् ।
नासौ दृढ(ः) प्रेमा ।
अत एवं चोक्तं भक्तिदार्ढ्यमिति ।
तेन वैराग्येण भक्तिदार्ढ्येन चोपासा भवेत् ।
न ह्यन्यत्र रागवतस्तत्र भक्तिरहितस्यादरनैरन्तर्याभ्यामनुचिन्तनमुपप(त्प)द्यते ।
उपासनया चातिदीघर्कालमनुष्ठितया प्रसन्नो भगवानात्मानं दर्शयति ।
यस्मादेवं वैराग्यादीनां क्रमस्तस्मात्तद्विषयाणामेषां पादानामप्ययं क्रमो भवेदिति ।
१०,४फ़्.
एवमेतदध्यायगतानां चतुर्णामपि पादानामानन्तर्यलक्षणां सङ्गतिमभिधाय तत्प्रसङ्गात्प्रथमसूत्रमारभ्यातीतानां सर्वेषामपि सूत्राणां परस्परं
सङ्गतिं विवक्षुः प्रथमसूत्रार्थं तावदनुवदति युक्तित इत्यारभ्य(विशिष्य) आचार्यसम्पदेत्यन्तेन ।
युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।
परस्परविरोधं च प्रणुद्याशेषवाक्यगम् । (अनुव्याख्यानम्)३,३.२ ।
अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः ।
बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः । (अनुव्याख्यानम्)३,३.३ ।
विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् ।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः । (अनुव्याख्यानम्)३,३.४ ।
देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतो ऽधिकम् । (अनुव्याख्यानम्)३,३.५ ।
निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात् । (अनुव्याख्यानम्)३,३.६ ।
सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा । (अनुव्याख्यानम्)३,३.७ ।
१०,५
न्यायसुधा-
तत्र यतेतोपासनायैवेत्यनेन ब्रह्मजिज्ञासा कर्तव्येत्येतद्वयाख्यातम् ।
अन्यत्सर्वमप्यथशब्दव्याख्यानम् ।
यद्यपि सङ्गतिमात्रविवक्षयेदमारब्धम् ।
तथापि प्रागथशब्दस्याव्याख्यातत्वात् तस्य च केवलस्य व्याख्यातुमशक्यत्वात्सूत्रार्थानुवादः कृतः ।
अतीतेन सार्धेनाध्यायद्वयेन यावानर्थो मीमांसितस्तावतः सामान्यतो ज्ञानादिमत्त्वमथशब्दस्यार्थ इति सङ्क्षेपः ।
विशिष्याचार्यसम्पदेति सर्वत्रान्वयः ।
तत्र ज्ञातवेदार्थ इति सर्ववेदानां भगवानेवार्थ इति ज्ञानवानित्यनेन प्रथमाध्यायप्रमेयमुक्तम् ।
यक्तित इति ल्यब्लोपनिमित्ता पञ्चमी ।
वेदार्थविरोधियुक्तीः सामान्यतो निराकृत्येति द्वितीया(ध्याया)द्यपादस्य ।
परान्वैष्णवसमयादन्यान्साङ्खयादिसमयान्सामान्यतो(निराकृत्ये)निरस्येति द्वितीयपादस्य ।
परस्परविरोधञ्चेति तृतीयचतुर्थयोः ।
कथं तर्हि पादभेद इत्यतो ऽध्यात्मप्रवणो भूत्वेति बहुयुक्तिविरोधानां भानात्कारणाच्छतीनां युक्तिसहितश्रुतेर्विरोधं च निराकृत्येति
चतुर्थस्य विशेषो दर्शितः ।
अध्यात्मविषयश्रुतिविरोधपरिहारज्ञानस्य चरमत्वोपपादनाय तस्येत्युक्तम् ।
आध्यात्मिका(हि)भावा मिथ्या सम्यग्वा विदिता बन्धमोक्षयोरन्तरङ्गतामश्नुवते ।
न तथा बाह्याः ।
प्राणतत्त्वगानित्यनेन चतुर्थपादगतानामेव मुख्यप्राणविषयाणामधिकरणानां प्रमेयमध्यात्मेत्यनेनैव लब्धमेतत्कस्मात्पुनरुच्यत इत्यतो
विशेषेणैतद्भाव्यं तत्प्रसादायत्तत्वाज्जिज्ञासाया इत्याशयवतोक्तं तत्प्रसादेति ।
अनुरञ्चितः समीचीनः कृत इति यावत् ।
देहकर्तृत्वमित्यादिना त्रिवृत्कुर्वत इत्यधिकरणस्य सर्वकर्तृत्वत इति सर्वकर्तृत्वं विज्ञाय ततश्च भगवद्भक्तिमान्भूत्वेत्यर्थः ।
अत्रापि पुनर्वचनस्य तात्पर्यं पूर्ववदवधेयम् ।
अतिदुःखसाधनत्वं विज्ञाय ।
तदन्यत्र भगवतो ऽन्यत्राधिकं वैराग्यमुत्पाद्येति तृतीयाद्यस्य ।
अजिज्ञासूनामपि कदाचित्क्वचिद्वैराग्यं जायते ऽतो ऽधिकमित्युक्तं अतीति च ।
तद्गुणाधिक्येति द्वितीयस्य ।
तद्वशत्वात्तद्वशत्वं विज्ञाय भक्तेः प्राक् सिद्धत्वाद्दार्ढ्यमित्युक्तम् ।
न चैतत्सर्वमनुपासितगुरोर्भवतीत्यतो विशिष्येत्यभिहितमिति ।
१०,९
कथमयमथशब्दस्यार्थ इति चेत् ।
उच्यते ।
यद्यप्यथशब्दो ऽनेकार्थः ।
तथाप्यर्थान्तराणामत्रायोगादानन्तर्यार्थः परिगृह्यत इत्यविवादम् ।
आनन्तर्यं न यतः कुतश्रिचदभिधातव्यम् ।
वैयर्थ्यात् ।
किन्तु येन विना न ब्रह्मजिज्ञासा भवति यस्मिंश्च सति भवत्येव तदानन्तर्यम् ।
तथाविधं च वेदार्थज्ञानादीति ।
किञ्च जिज्ञासा नाम विचारापरपर्यायं मननम् ।
नच तच्छ्रवणमन्तरेण सम्भवतीत्यतो यावदर्थजातमत्र शास्त्रे विचार्यं तावतः श्रवणजन्यं ज्ञानं पूर्ववृत्तम् ।
सति च तस्मिञ्जन्मान्तरानुष्ठितसत्कर्मणः सत्कुलप्रसूतस्य सात्त्विकप्रकृतेर्वैराग्यादिकमवश्यं भवत्येव ।
यत्तु परैर्नित्यानित्यवस्तुविवेकः शमदमादिसाधनसम्पदिहामुत्रफलभोगवैराग्यं मुमुक्षुता चेति साधनचतुष्ययं पूर्ववृत्तमुक्तं तदस्मादुक्त
एवान्तर्भवतीत्यविरुद्धम् ।
उत्तमभक्तानां मुमुक्षुता नास्तीत्याचार्येण न सङ्कीर्तिता ।
एतेन जिज्ञासासाध्यस्य वैराग्यादेस्तत्साधनत्वे ऽन्योन्याश्रयत्वं स्यादित्यपि निरस्तम् ।
सात्त्विकप्रकृतेः सत्सङ्गवशादीषद्वैराग्यादिमतः श्रवणेन तदभिवृद्धौ कृतमननादेर्भूयस्तदभिवृद्धिरिति ।
१०,११
एवं प्रथमसूत्रार्थमभिधाय तेन द्वितीयसूत्र(स्य)सङ्गतिमाहकर्तव्येति ।
कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये । (अनुव्याख्यानम्)३,३.८अब् ।
न्यायसुधा-
उक्ते सति किमिति कर्तव्या प्रयोजनाभावान्न कर्तव्येति संशयो भवति ।
संशयशब्देनात्र विपर्ययो ऽभिधीयते ।
मिथ्याज्ञानत्वसाम्यात् ।
संशये सति तत्परिहाराय जन्माद्यस्य यत इत्याहेति शेषः ।
यद्वा किं कर्तव्या न वेति संशये प्रयोजनाभावान्न कर्तव्येति पूर्वपक्षे च सतीति व्याख्येयम् ।
इत्याहेति वक्ष्यमाणेनैव(वा) सम्बन्धः ।
१०,१२
प्रथमसूत्रे ऽतः शब्देन जिज्ञासाया मोक्षार्थत्वात्कथं पुनराशङ्केत्यत आहअत इति ।
अत इत्युदिते ऽप्यस्य विशेषानुक्तितः पुनः । (अनुव्याख्यानम्)३,३.८च्द् ।
न्यायसुधा-
अतःशब्देन जिज्ञासाया मोक्षार्थत्वे उदिते ऽप्यस्य मोक्षार्थत्वस्य विशेषानुक्तितो हेतोः पुनः संशय इति पूर्वेण सम्बन्धः ।
एवं तर्हि जन्मादिसूत्रेणापि नैषा शङ्का निवर्तते ।
तत्रापि(हि) मोक्षः समासार्थतया व्याख्यातव्य एव ।
न तु विशेषेणोक्त इति चेन्न ।
प्रमाणविशेषानुक्तित इति व्याख्यानात् ।
एतदुक्तं भवति ।
मोक्षप्रयोजनत्वाद्ब्रह्मजिज्ञासाकर्तव्येत्यतःशब्देनोदिते ऽपि पुनराशङ्का भवत्येव ।
तत्र प्रमाणस्यानुक्तत्वादिति ।
१०,१३
एवञ्चेद् द्वितीयसूत्रमपि कथमेतदाशङ्कां निवर्तयेत् ।
न ह्यत्रायमर्थः प्रमाणेनोपपादित इत्यतस्तद्वयाचष्टेसृष्टीति ।
सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।
यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ।
इत्याह तत् परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत् । (अनुव्याख्यानम्)३,३.९ ।
न्यायसुधा-
श्रुतत्वतोअब् ऽसौ मोक्षादिदाता ।
यतश्च मोक्षादिदातासावतो वो युष्माकं मुमुक्षूणां जिज्ञास्य एवेत्येतमर्थं जन्मादिसूत्रेणाहेत्यर्थः ।
अयमभिसन्धिः ।
जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः ।
तथाच परमेश्वरस्य मोक्षदातृत्वे श्रुतिः प्रमाणमित्युक्तं भवति ।
किञ्चात्र मोक्षदातृत्वं प्रधानम् ।
सृष्टयादिकर्तृत्वं तु तत्र हेतुत्वेनोक्तम् ।
केवलव्यतिरेकी चायं हेतुः ।
तस्य चासिद्धिपरिहाराय श्रुतत्वमभिहितमिति ।
कृत्यानां कर्तरि वेति व इति षष्ठी ।
१०,१५
ननु मोक्षादिकर्तृत्वस्येत्यादि कथम् ।
कर्तरि चेति तृजन्तेन षष्ठयाः समासप्रतिषेधात् ।
तृन्नयं तच्छीलादौ विहितः ।
तेन च श्रितादिषु गामिगम्यादीनामुपसङ्खयानमिति द्वितीयायाः समासः ।
१०,२५
ज्ञानं रश्मय इव ज्ञानरश्मयः ।
व्याप्तज्ञानवदित्यर्थः ।
अपां तरतमो नाम’कश्चन मुनिर्व्याप्तो बभूव’ इति प्रवाददर्शनाच्छिष्याणां सूत्रकारे भक्तिमान्द्यं मा भूदित्यतो विशेषेणोपादनम् ।
१०,२६
जिज्ञासाया मोक्षसाधनत्वे प्रमाणाभावेनाक्षिप्ते भगवतो मोक्षसाधनत्वसमर्थनमसङ्गतमित्यत आहयेनैवेति ।
येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ।
सुप्रसन्नो भवेदीशो जिज्ञासातो ऽस्य मुक्तिदा । (अनुव्याख्यानम्)३,३.१० ।
न्यायसुधा-
बन्धान्मोक्षो बन्धमोक्ष ।
पञ्चमीति योगविभागात्समासः ।
षष्ठीसमासो वा ।
येन प्रसन्नेनेति शेषः ।
गतो ज्ञातः ।
गत्यर्थानामवगत्यर्थत्वात् ।
चो यस्मादित्यर्थे ।
प्रसादमात्रस्य मोक्षसाधनत्वाभावात्सुशब्दः ।
अस्येशस्य जिज्ञासास्य जीवस्य मुक्तिदा ।
एतदुक्तं भवति ।
जिज्ञासा तावन्न साक्षान्मोक्षसाधनत्वेनास्माकमभिमता ।
किन्तु (सु)प्रसन्नो भगवानेव ।
स चोत्कृष्टतया ज्ञातः सुप्रसन्नो भवति ।
उत्कर्षज्ञानं च जिज्ञासयेत्येवम्परम्परया ।
तत्र भगवतो मोक्षदातृत्वं तावत्प्रमाणैः समर्थितम् ।
प्रसन्न एव ददातीत्युत्कर्षज्ञानात्प्रसीदतीति जिज्ञासयोत्कृष्टतया ज्ञायत इति च लोकत एव सिद्धम् ।
किं तत्र प्रमाणोपन्यासेन ।
अतो भगवज्जिज्ञासाय मोक्षहेतुत्वं प्रमितमिति मन्यते सूत्रकार इति ।
ननु स्थानान्तरे ऽस्य सूत्रस्यान्यथासङ्गतिरुक्ता ।
सत्यम् ।
सत्यां तस्यामियमपरात्रोक्तेति ।
१०,२९
तृतीयसूत्रनिवर्त्यामाशङ्कामभिधाय तत्परिहारत्वेन तत् पठतिमोक्षादीति ।
मोक्षादिदत्वमीशस्य कथमेवावगम्यते ।
इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः । (अनुव्याख्यानम्)३,३.११ ।
न्यायसुधा-
प्रधानं मोक्षदातृत्वं तत्साधनं सृष्टयादिकर्तृत्वं चेशस्यैवेति सम्बन्धः ।
कथमवगम्यते ।
न कथञ्चित् ।
अनुमानैस्तत्तदागमैश्चान्येषां तथावगमादिति भावः ।
इति चेत्तत्रोक्तमिति शेषः ।
कथमिदं सूत्रमेतदाशङ्काया निवर्तकमित्यतस्तद्व्याचष्टेशास्त्रगम्यो हीति ।
मोक्षग्रहणं सृष्टयादेरप्युपलक्षणम् ।
यस्मान्मोक्षादिदः पुरुषः शास्त्रमात्रस्य विषयो ऽतो वेदादिकं यं तथाविधं प्रतिपादयति स एव तथा प्रतिपत्तव्यो नानुमादिना कल्पनीय इति ।
१०,३०
मोक्षादिदातुः शास्त्रैकसमधिगम्यत्वं कुतः ।
परिशेषादित्याशयवान्प्रत्यक्षगम्यत्वं तावद्दूषयतिप्रत्यक्षेति ।
प्रत्यक्षावसितेभ्यः स्याद् यदि मोक्षः कथञ्चन ।
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः । (अनुव्याख्यानम्)३,३.१२ ।
न्यायसुधा-
यदि मोक्षादिदाता प्रत्यक्षः स्यादिति यावत् ।
कथञ्चन तत्सेवादिना ।
तदा सर्वेऽपि युक्ताः स्युरित्यर्थः ।
मोक्षदातुः प्रत्यक्षत्वे कुतः सर्वैर्मुक्तैर्भाव्यमित्यत आहयस्मादिति ।
यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ।
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः । (अनुव्याख्यानम्)३,३.१३ ।
न्यायसुधा-
यस्मात्पुरुषाद्धेतोः ।
अमुमुक्षुत्वान्न धावन्तीत्याशङ्कानिवारणाय मोक्षस्वरूपं व्याख्यातं दुःखहानिरिति ।
न हि को ऽपि दुःखी दुःखं न जिहासति इति सम्भवति ।
प्रत्यक्षतः प्रत्यक्षगम्यात् ।
राजाद्यमिति सम्भावनयोक्तम् ।
दारिद्रयदुःखं जिहासवो वदान्यं राजाद्यमिवेति वा ।
अनुमानगम्यत्वं दूषयतिअनुमेति ।
अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि ।
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत् । (अनुव्याख्यानम्)३,३.१४ ।
तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् । (अनुव्याख्यानम्)३,३.१५अब् ।
न्यायसुधा-
यदि कश्चिन्मोक्षदातृत्वेनानुमीयत इत्यर्थः ।
अनुमैव पुरुषत्वादिका ।
अनुमानं सप्रतिपक्षत्वान्न तत्र भवतीत्यर्थः ।
आगमास्त्वाप्तेरनिश्चयादसमर्था एवेत्याशयवान्परिशेषमुपसंहरतितदिति ।
तत्तस्मान्मोक्षदः पुरुषो ध्रुवं लोकं शास्त्रगम्य एव भवेदिति योजना ।
१०,३१
अस्त्वेवं तथापि मोक्षदत्वेन शास्त्रगम्यत्वमन्येषां भविष्यति ।
तथा प्रतिभासादिति चतुर्थसूत्रस्य सङ्गतिं सूचयंस्तत्त्विति पदद्वयं व्याख्यातिशास्त्रेति ।
शास्त्रगम्यश्च नान्यो ऽस्ति मोक्षदत्वेन केशवात् । (अनुव्याख्यानम्)३,३.१५च्द् ।
न्यायसुधा-
मोक्षदत्वेन शास्त्रगम्यश्च केशवादन्यो नास्ति ।
किन्तु स एव कुत इत्यतः सौत्रं हेतुं व्याख्यातिमोक्षदो हीति ।
मोक्षदो हि स्वतन्त्रः स्यात् … । (अनुव्याख्यानम्)३,३.१६अ ।
न्यायसुधा-
स्वतन्त्र एव हि मोक्षदः स्यादित्यन्वयः ।
स्वातन्त्र्येण समन्वयश्च भगवत एव नान्येषाम् ।
यस्य च प्रतीयते श्रुत्यादौ स एव भगवान्विष्णुरिति भावः ।
परतन्त्रो मोक्षदः किन्न स्यादिति चेत् ।
स किं स्वतन्त्रमनाश्रित्य स्वयमेव मोक्षं दद्यादुत स्वतन्त्रमन्यमाश्रित्य ।
आद्ये दोषमाहपरतन्त्र इति ।
… परतन्त्रः स्वयं सृतौ ।
वर्तमानः कथं शक्तः परमोक्षाय केवलम् । (अनुव्याख्यानम्)३,३.१६ब्द् ।
न्यायसुधा-
परतन्त्र एव ।
केवलं परानपेक्षया ।
यद्यसौ स्वतन्त्रमनपेक्ष्यैव स्वभक्तमोक्षाय शक्तः स्यात्तर्हि स्वात्मानमपि मोचयेदिति न संसारी स्यादित्याशयः ।
द्वितीयं दूषयतिअन्येति ।
अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ।
तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः । (अनुव्याख्यानम्)३,३.१७अद् ।
न्यायसुधा-
एषो ऽवान्तरेश्वरो ऽन्यस्य स्वतन्त्रस्य विष्णोराश्रयेण स्वभक्ताय मोक्षं दद्यादिति यद्युच्यते तदा स स्वतन्त्रस्तेन मुमुक्षुणानुसृतो ऽसेवितो
ऽन्यस्यावान्तरेश्वरस्य मम भक्ताय मोक्षं देहीति प्रार्थनावाक्यमात्रेण मोक्षं नैव दद्यादित्यपि सम्भावितमेव ।
तथा लोके दर्शनादिति हिशब्दः ।
ततः किमित्यत आहअत इति ।
१०,३२
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः । (अनुव्याख्यानम्)३,३.१७एफ़् ।
न्यायसुधा-
तदर्थमप्यवान्तरेश्वरान्मोक्षप्राप्त्यर्थमपि स स्वतन्त्रः ।
तथाच भगवज्जिज्ञासाया अपरिहार्यत्वाद्वयर्थावान्तरेश्वरस्य मोक्षदत्वकल्पनेति भावः ।
प्रकारान्तरेण हेतुं व्याचष्टेयमेवेति ।
जोस्हि२१
१०,३३
यमेवैष इति श्रुत्या तमेवेति च सादरम् ।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः । (अनुव्याख्यानम्)३,३.१८ ।
न्यायसुधा-
अनेन यमेवैष वृणुते तेन लभ्य इति श्रुतिमुपादत्ते ।
तमेव चेति श्रुत्या ।
‘तमेवं विदित्वापि मृत्युमेति’ इति श्रुतिरनेनोपात्ता ।
‘नान्यः पन्था विद्यते’ इति वाक्यशेषेणादरो गम्यते ।
मोक्षदत्वेन शास्त्रयोनित्वमस्य विष्णोरेव ।
अनेन श्रुतीनां सम्यक् सादरमन्वयः समन्वय इत्युक्तं भवति ।
नन्वेतयोः श्रुत्योरेष इति तमिति च भगवानुच्यत इत्येतत्कुतः ।
प्रकरणादिपर्यालोचनया तदवधारणम् ।
तदिदमुक्तं वेदवादिभिरिति ।
अत्र श्रुत्यन्तरमाहय एनमिति ।
य एनं विदुरमृता … । (अनुव्याख्यानम्)३,३.१९अ ।
न्यायसुधा-
‘य एनं विदुरमृतास्ते भवन्ति’ इति च श्रुत्येति पूर्वेण सम्बन्धः ।
मीमांसार्थमस्याः श्रुतेः पृथग्ग्रहणम् ।
अत्रैनमित्युक्तो हरिरित्येतत्कुत इत्यत आहइत्युक्त इति ।
… इत्युक्तस्तु समुद्रगः । (अनुव्याख्यानम्)३,३.१९ब् ।
न्यायसुधा-
य एनं विदुरिति श्रुतौ मोक्षहेतुज्ञानत्वेनोक्तस्तु’यमन्तः समुद्रे कवयो वयन्ति’ इति समुद्रग उक्तः ।
तच्च हरेर्लिङ्गमित्यर्थः ।
प्रमाणान्तरमाहतदेवेति ।
तदेव ब्रह्म परममिति श्रुत्यावधारितः । (अनुव्याख्यानम्)३,३.१९च्द् ।
न्यायसुधा-
इत्युक्त इति वर्तते ।
‘तदेव ब्रह्म परमं कवीनामिति’ श्रुत्या ब्रह्मत्वेनावधारितः ।
एतदुक्तं भवति ।
एनमित्युक्ते ब्रह्मपदश्रवणात्तस्य च भगवन्नामत्वाद्भगवानेवायमिति ज्ञायते ।
यद्यपि ब्रह्मपदस्यान्यत्रापि वृत्तिरस्ति तथाप्यमुख्यैव ।
नचैवमत्र शक्यते ग्रहीतुम् ।
तदेवेत्यवधारणविरोधात् ।
इदं खल्वस्य मुख्यतो ब्रह्मत्वमाचष्टे ।
अन्यत्र ब्रह्मशब्दवृत्तिमात्रस्य प्रामाणिकत्वेन निषेधानुपपत्तेरिति ।
युक्त्यन्तरमाहयत इति ।
यतः प्रसूतेति ततः सृष्टिमाह … । (अनुव्याख्यानम्)३,३.२०अब् ।
न्यायसुधा-
‘यतः प्रसूता जगतः प्रसूतिः’ इति श्रुतिस्ततो य एतमित्युक्तान्मूलप्रकृतेः सृष्टिमाह ।
नच मूलप्रकृतेः कारणत्वं परमपुरुषादन्यस्य सम्भवति ।
अतो ऽप्ययं भगवानिति ।
एतेन मोक्षादिकर्तृत्वस्य श्रुतत्वत इत्युक्तमपि विवृतं वेदितव्यम् ।
१०,३५
द्वितीयं हेतुव्याख्यानमुपसंहरतितत इति ।
… ततो हरिः ।
शास्त्रयोनिर्नचान्यो ऽस्ति मुख्यतस्त्विति गम्यते । (अनुव्याख्यानम्)३,३.२०ब्द् ।
न्यायसुधा-
मुख्यत इति मोक्षदत्वेनेति यावत् ।
विष्णोरिवान्येषामपि शास्त्रयोनित्वं प्रतीयत इति यदुक्तं तत्परिहाराथर्त्वेनापि सौत्रं हेतुं व्याचष्टेशास्त्रेति ।
शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् । (अनुव्याख्यानम्)३,३.२१अब् ।
१०,३६
न्यायसुधा-
अन्वय उपपत्त्यादिलिङ्गम् ।
यतो वाचो निवर्तन्ते इत्यादिश्रुतिभिर्ब्रह्मणो ऽवाच्यत्वमाशङ्कय वाच्यत्वमीक्षत्यधिकरणे साध्यते ।
तदसङ्गतम् ।
प्राग्वाच्यताया अनुक्तत्वात् ।
शास्त्रयोनित्वस्य लक्षणादिनापि सम्भवादित्यतो ऽधिकरणं सङ्गमयितुं संशब्दं व्याख्यातिसमिति ।
समिति ह्युपसर्गेण परमुख्याथर्तोच्यते । (अनुव्याख्यानम्)३,३.२१च्द् ।
न्यायसुधा-
परममुख्यार्थतोच्यते ।
सङ्कोचे(प्रमाणा)कारणाभावात् ।
ततः किमित्यत आहएवमिति ।
एवं परममुख्यार्थो नारायण इति श्रुतेः ।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ । (अनुव्याख्यानम्)३,३.२२ ।
न्यायसुधा-
एवं मोक्षादिदत्वेन नारायणः श्रुतेः परममुख्यार्थ इत्यस्यार्थस्य निर्धारणायेति सम्बन्धः ।
यस्मात्समित्युपसर्गेण परममुख्यार्थतोच्यते, एवं तस्मात्सङ्गतिसद्भावात् नाशब्दमिति जगाविति वा ।
१०,३७
अत्राधिकरणे गतिसामान्यादिति सूत्रम् ।
तत्प्राग्वाच्यतासमर्थनपरं न भवतीति न व्याख्यातम् ।
तस्येदानीं सङ्गतिमाहकथमिति ।
कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् । (अनुव्याख्यानम्)३,३.२३अब् ।
न्यायसुधा-
संशब्दो द्वयर्थो मुख्यवृत्त्येति सर्ववेदानामिति च ।
तत्र द्वितीयार्थो ऽत्राक्षिप्यते ।
अत्र एवैकाधिकरणत्वमेषां सूत्राणाम् ।
संशब्दार्थाक्षेपसमाधानस्यैकत्वात् ।
उपक्रमादिलिङ्गैर्जगज्जन्मादिकारणत्वेन परमेश्वरे सर्ववेदानां समन्वयो न ज्ञातुं शक्यः ।
कुतः ।
नृणां स्वल्पायुः प्रज्ञादिमतां स्वल्पशाखावेदि(त)त्वस्यैव सम्भवेन सर्ववेदज्ञानासम्भवात् ।
वेदानामपि स्वल्पत्वे शक्यत एव तत्समन्वयो ज्ञातुमस्मदादिभिरपीत्यत आहवेदा इति ।
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम् । (अनुव्याख्यानम्)३,३.२३च्द् ।
न्यायसुधा-
अनन्ता वै वेदा इति श्रुतिमनेनोपादत्ते ।
आद्यो हिशब्दः श्रौतवैशब्दार्थः ।
द्वितीयः श्रुतेः प्रसिद्धत्वं द्योतयति ।
अपिः समुच्चये ।
न केवलं पुरुषाः स्वल्पवेदविदः ।
किन्तु वेदा अप्यनन्ता इति ।
अनन्तता वेदानामिति शेषः ।
सन्तु पुरुषाः स्वल्पविदो वेदाश्चानन्तास्तथापि कथं समन्वयज्ञानमशक्यमित्यत आहअनन्तेति ।
अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः ।
उत्तारणोपमा … । (अनुव्याख्यानम्)३,३.२४अच् ।
न्यायसुधा-
स्वल्पशाखाविदामिति वर्तते ।
महाप्रलयवारिधेरुत्तारणोपमेति गमकत्वात्समासः ।
देवदत्तस्य गुरुकुलमिति यथा ।
यो यद्वाक्यं स्वरूपतो न जानाति स तत्रोपक्रमाद्यनुसन्धाय वाक्यार्थमवधारयतीत्यसम्भावितमेतदिति भावः ।
एतदुक्तं भवति ।
विमताः पुरुषा न सर्ववेदसमन्वयज्ञानार्हाः सर्ववेदाज्ञत्वात् ।
यो यद्वाक्यं न जानाति नासौ तत्समन्वयमपि जानाति ।
यथा सम्मतः ।
विमता न सर्ववेदवेदनार्हा अल्पप्रज्ञादिमत्त्वात् यो यदपेक्षयाल्पप्रज्ञादिमान्नासौ तद्वेति यथा सम्मतः ।
वेदा वा नैतत्पुरुषवेद्याः ।
एतत्प्रज्ञाद्यतिक्रान्तत्वात् ।
आक्षेपमुपसंहरतिइत्यस्मादिति ।
… इत्यस्मान्न ज्ञेयो ऽत्र समन्वयः । (अनुव्याख्यानम्)३,३.२४च्द् ।
१०,३८
न्यायसुधा-
अत्र विष्णौ ।
ततश्च शाखान्तरे प्रतिपाद्यान्तरशङ्कया नोक्तार्थावधारणं सम्भवतीति भावः ।
१०,३९
एतत्परिहारार्थत्वेन सूत्रमवतारयतिइत्याशङ्केति ।
इत्याशङ्कापनोदार्थं स आह करुणाकरः । (अनुव्याख्यानम्)३,३.२५अब् ।
न्यायसुधा-
आह गतिसामान्यादिति सूत्रमिति शेषः ।
नन्वस्य सूत्रस्य को ऽर्थः ।
सर्वाभिः शाखाभिरुत्पाद्याया ब्रह्मावगतेरेकरूपत्वात्सर्वा अपि शाखाः परमपुरुषमेकमेव जगज्जन्मादिकारणत्वेनावगमयन्तीति न
क्वचिद(प्य)न्यथाप्रतिपादनं शङ्कनीयमिति चेत् ।
नन्वेतदेव वेदानामनन्तत्वेन ज्ञातुमशक्यत्वादुपक्रमादिभिस्तन्निर्णयो दूरे निरस्त इत्याक्षिप्तम् ।
पुनस्तदेवोच्यत इति किमनेन कृतं स्यादित्यतः सूत्रकृतो ऽभिसन्धिमाहअशक्येति ।
अशक्योत्तरणत्वे ऽपि ह्यागमापारवारिधेः ।
निर्णीयते मयैवायं रोमकूपलयोदिना । (अनुव्याख्यानम्)३,३.२५च्फ़् ।
१०,३९फ़्.
न्यायसुधा-
मदन्यैरिति शेषः ।
हिशब्देन परोपन्यस्तं प्रमाणमभ्युपैति ।
उत्तारणं पारगमनम् ।
उपक्रमादिभिर्निर्णयनमिति यावत् ।
उदमुदकमस्यास्तीत्युदी ।
भूमविवक्षायामिनिः ।
समुद्र इत्यर्थः ।
रोमकूपे लयोदी यस्यासौ तथोक्तः ।
प्रलयसमुद्रसमानो ऽपि वेदो मदीयज्ञाने ऽन्तर्भवतीति भावः ।
एतदेव विवृणोतियद्यपीति ।
१०,४०
यद्यप्यशेषवेदार्थो दुर्गमो ऽखिलमानवैः ।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम् । (अनुव्याख्यानम्)३,३.२६ ।
न्यायसुधा-
अव्याकृताकाशे परमाणुरिव मज्ज्ञाने ऽन्तर्भवति ।
भूताकाशस्य परिमितत्वादव्याकृतग्रहणम् ।
विवरणाभावे पूर्वश्लोकोक्तं किञ्चिद्व्याहतं किञ्चिच्चासङ्गतं प्रतीयेत ।
अभिप्रायमुपसंहरतिइतीति ।
इति प्रकाशयन् विश्वपतिराह प्रमेयताम् ।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा । (अनुव्याख्यानम्)३,३.२७ ।
न्यायसुधा-
उक्तप्रकारेण निखिल्यापि वेदस्य स्वेनाञ्जसा प्रमेयतां प्रकाशयन्सूचयन्गतिसामान्यमाह न तु निरभिसन्धिर्येनोक्तदोषः स्यात् ।
विश्वपतिरिति सर्ववेदवित्त्वे प्रमाणम् ।
नहि पालनीयमविद्वान्पालको भवति ।
विश्वान्तर्गताश्च सर्वे वेदा इति ।
एतदुक्तं भवति सूत्रकारेण ।
सर्ववेदज्ञानासम्भवेन सर्ववेदसमन्वयज्ञानं किं मानवादीनामुच्यते उत सूत्रकर्तुर्मम ।
आद्ये ऽपि किं विशेषतो ऽथ सामान्यतो ऽपि ।
आद्यो ऽभ्युपगम्यत एव ।
द्वितीये तु वक्ष्यामः ।
न तृतीयः ।
मम सर्वज्ञत्वेनासिद्धयादिप्राप्तेरिति ।
१०,४३
एवं चेद्यदि कश्चिदन्यः सूत्रकारवद्विषयान्तरे गतिसामान्यं ब्रूयात्तदा पुनरनिर्णय एवेत्यत आहको नामेति ।
को नाम गतिसामान्यमनन्तागमसम्पदः ।
ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम् । (अनुव्याख्यानम्)३,३.२८ ।
१०,४३फ़्.
न्यायसुधा-
ज्ञानेन सूयर् इव ज्ञानसूर्यः ।
यथा सूर्यः स्वतेजसा विश्वस्य प्रकाशकस्तथायं ज्ञानेनेति ।
‘विना वातम्’ इत्यादिप्रयोगदर्शनाद्विनायोग इव ऋते ऽपि द्वितीया भवत्येव ।
इदमुक्तं भवति ।
किं सर्वज्ञो विपरीतं गतिसामान्यं ब्रूयात् ।
उतापरः ।
नाद्यः ।
सर्वज्ञोक्त्योर्विरोधायोगात् ।
योगे वा द्वयोः सार्वज्ञानुपपत्तेः ।
द्वितीये सम्प्रतिपन्नसर्वज्ञसूत्रकारवचनविरोधान्मिथ्यादृष्टिर्वाप्रतारको वासौ स्यादिति कथमनिर्णय इति ।
१०,४६
अस्तु भगवतः सर्वज्ञत्वेन गतिसामान्यज्ञानं, परस्य तु कथं यदर्थमिदं शास्त्रमित्यतः सूत्रस्यार्थान्तरमाहअन्यो ऽषीति ।
अन्यो ऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ।
जानन्नानुमितत्वेन ब्रूयात् तस्य प्रसादतः । (अनुव्याख्यानम्)३,३.२९ ।
१०,४६फ़्.
न्यायसुधा-
अल्पमतिरप्यन्यस्तस्य प्रसादतः शाखाचतुष्पञ्चगतं वसु जानन्ननुमितत्वेनानन्तागमसम्पदो गतिसामान्यं ब्रूयादिति योजना ।
यासां शाखानामुदाहरणेन सूत्रकृता परमेश्वरसमन्वयो ऽभिहितस्तद्दृष्टान्तीकृत्य शाखात्वाद्विप्रतिपन्नशाखानामपि
तत्परत्वानुमानसम्भवादन्येषामपि गतिसामान्यज्ञानं युक्तमिति भावः ।
अनेन गतिसामान्यानुमानादिति सूत्रं व्याख्यातमिति ।
ननु चतुष्पञ्चशाखागतमिति वक्तव्यम् ।
तद्धितार्थोत्तरपदसमाहारे चेति सङ्खयाया उपसर्जनत्वात् ।
कडाराः कर्मधारय इत्युपसर्जनस्य परनिपातो भविष्यति ।
वर्गार्थौ वा चतुष्पञ्चशब्दौ ।
प्रपञ्चो यदि विद्येतेति यथा ।
१०,५५
इदमेवास्तु सूत्रव्याख्यानं श्रोतृप्रत्यायनाङ्गत्वात् ।
न पूर्वम् ।
शङ्कानिरासाहेतुत्वात् ।
न हि सूत्रकारः सर्वज्ञत्वात् सर्ववेदगतगतिसामान्यं वेत्तीत्येतावतान्येषां शङ्का निवर्तत इत्यत आहइति मुख्यतयेति ।
इति मुख्यतयाशेषगतिसामान्यवित् प्रभुः ।
प्रतिजज्ञे दृढं यस्माद् देवानामपि पूर्यते । (अनुव्याख्यानम्)३,३.३० ।
न्यायसुधा-
इति प्रतिजज्ञ इति सम्बन्धः ।
मुख्यतयेत्यनुमानादिना विनाशेषवेदगतिसामान्यवित् ।
देवानामित्युत्तमाधिकारिणाम् ।
अपिः पदार्थे ।
शङ्केत्यर्थः ।
मधुनो ऽपि स्यादिति यथा ।
पूर्यते निवार्यते ।
ये सूत्रकारस्य परमाप्तत्वं जानन्त्युत्तमाधिकारिस्तेषां तदीयप्रतिमामात्रेण शङ्का निवर्तत एवेति तान्प्रति पूर्वव्याख्यानम् ।
अन्यान्प्रति तु द्वितीयम् ।
तथा भाष्योक्तं गतिसामान्यश्रुतेरिति तृतीयं चेति भावः ।
१०,५७
नन्वनया पञ्चाधिकरण्या वक्तव्यस्योक्त्वत्वात्किमध्यायशेषेणेत्यतः प्रपञ्च्यप्रपञ्चनरूपां सङ्गतिं दर्शयन्नाहअत इति ।
अतो निखिलवेदानां सिद्ध एवं समन्वयः ।
इति सुज्ञापितार्थो ऽपि पृथक् चाह समन्वयम् । (अनुव्याख्यानम्)३,३.३१ ।
न्यायसुधा-
अतीतप्रबन्धेनेत्यर्थः ।
पृथग् विस्तरेणाध्यायशेषेणेति शेषः ।
तत्र प्रथमपादे अन्यत्र प्रसिद्धानां शब्दानां समन्वयो ऽभिधीयते ।
द्वितीये ऽन्यत्र प्रसिद्धानां लिङ्गात्मकानाम् ।
तृतीये तत्रान्यत्र प्रसिद्धानामुभयरूपाणाम् ।
चतुर्थे ऽन्यत्रैव प्रसिद्धानामित्युक्तम् ।
तमेतं क्रममुपपादयन्नाहतत्रेति ।
तत्र प्रथमतो ऽन्यत्र प्रसिद्धानां समन्वयः ।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत् । (अनुव्याख्यानम्)३,३.३२ ।
न्यायसुधा-
तत्र प्रथमाध्याये, प्रथमपादे, शब्दानां नामात्मकानाम्, अत्र विष्णौ ।
महामल्लेशभङ्गेन तुल्यं वर्तते इति तथा ।
यथानेकेषु मल्लेषु प्रत्यर्थितयावस्थितेष्वपि भगवता कृष्णेन प्रधानत्वाच्चाणूरादिमल्लानामेवादौ भङ्गो विहितस्तथेत्यर्थः ।
उभयत्र प्रसिद्धानां हि शब्दानां समन्वये ऽन्यत्रप्रसिद्धिनिवारणमात्रे यत्नो विधेयः ।
अन्यत्र प्रसिद्धानां तु भगवति प्रसिद्धिरप्युपपादनीयेति ।
ततः एतेषां प्राधान्यम् ।
लिङ्गात्मकश्च धर्मवचना व्यवधानेनान्यबुद्धिं जनयन्ति ।
नामात्मकास्तु सत्त्ववचनाः साक्षादेवेति तत्समन्वये यत्नगौरवमस्तीति लिङ्गात्मकेभ्यो नामात्मकानां प्राधान्यमिति ।
१०,६०
यदि प्राधान्यादन्यत्र प्रसिद्धानां नामात्मकानां शब्दानां समन्वयः प्रथमपादे वक्तव्यः स्यात्तदा चतुर्थषादोदितस्यान्यत्रैव प्रसिद्धानां शब्दानां
समन्वयस्येतो ऽपि प्राधान्यात्प्राथम्यं भवेत् ।
अन्यत्र प्रसिद्धेरन्यत्रैव प्रसिद्धिर्बलीयसीत्यत आहइत इति ।
इतो ऽत्यभ्यधिकत्वे ऽपि तुर्यपादोदितस्य तु । (अनुव्याख्यानम्)३,३.३३अब् ।
न्यायसुधा-
तुर्यपादोदितस्य समन्वयस्येतो(ऽत्य)प्यभ्यधिकत्वे ऽप्यसावत्राध्याये प्राथम्येन नैवोदित इति सम्बन्धः ।
तत्तु समन्वयादिति सङ्क्षेपेण तस्याप्यत्रोक्तत्वादञ्जसेत्युक्तम् ।
कुतो नोदित उत्सर्गस्यापवादविशेषसद्भावादिति तुशब्दः ।
तमेवापवादहेतुं दर्शयतिमहासमन्वय इति ।
महासमन्वये तस्मिन् नाधिकारो ऽखिलस्य हि । (अनुव्याख्यानम्)३,३.३३च्द् ।
ब्रह्मैवाधिकृतस्तत्र मुख्यतो ऽन्ये यथाक्रमम् ।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितो ऽञ्जसा । (अनुव्याख्यानम्)३,३.३४ ।
न्यायसुधा-
तर्हि न वक्तव्य एव निरधिकारिकत्वात् ।
नहि गायमानो बधिरेषु गायतीत्यत उक्तं ब्रह्मैवेति ।
नैकाधिकारिकं शास्त्रमित्यतो ऽन्य इत्याद्युक्तम् ।
सर्वाधिकारिसाधारणमर्थमादावभिधायासाधारणं पश्चाद्वक्ष्यामीत्याशयः सूत्रकारस्य ।
तत्र साधारणे त्विदं तारतम्यं चिन्तितमिति ।
दुर्गमत्वाच्चेति हेत्वन्तरम् ।
प्रथमं बुद्धावनारोहादित्यर्थः ।
एतदुक्तं भवति ।
ब्रह्मादीनामेव तत्र यद्यपि मुख्याधिकारिता ।
तथाप्यस्मदादीनामीषदधिकारो ऽस्त्येव ।
नच मन्दानामसौ समन्वयः प्रथमं बुद्धिमधिरोहति ।
साधारणसमन्वयज्ञानेन वैदिकव्युत्पत्त्यनुरक्ता तु बुद्धिः क्रमेण तत्राप्यवतरतीति ।
ततः किमित्यत आहअत इति ।
अतो ऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ।
प्रवृत्तः प्रथमं देवस् … । (अनुव्याख्यानम्)३,३.३५अच् ।
१०,६१
न्यायसुधा-
प्राधान्यादतिप्राधान्यान्यस्योपपादितत्वाच्चेत्यर्थः ।
तुशब्दो ऽवधारणे ।
१०,६२
तत्रानन्दमयाधिकरणस्याद्यत्वे हेतुं सूचयन्नाहतत्रेति ।
… तत्रानन्दादयो गुणाः ।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात् । (अनुव्याख्यानम्)३,३.३५द्फ़् ।
न्यायसुधा-
तत्र समन्वयप्रपञ्चने ।
प्रथममित्यनुवर्तते ।
सर्वेषु हि शुभेषु मूर्धाभिषिक्ता आनन्दविज्ञानादयः ।
अतो माङ्गलिकं आचार्यस्तच्छब्दसमन्वयमादावाहेति ।
अन्तरधिकरणस्याकाशाधिकरणस्य चानन्दमयाधिकरणसङ्गतत्वे समाने कुतः क्रम इत्यतस्तत्र हेतुं सूचयन्नन्तरधिकरणतात्पर्यमाहदेवतेति ।
देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।
विष्णुमेव वदन्त्यद्धा … । (अनुव्याख्यानम्)३,३.३६अच् ।
न्यायसुधा-
देवताः खलु जडेभ्यो मुख्याः ।
अतस्तद्वाचिनामाकाशादिजडवाचिभ्य उत्कर्षः ।
सर्वे शब्दा अद्धा वचनवृत्त्यैव नोपचारेण ।
कथम् ।
शब्दवृत्त्योर्योगरूढ्योर्निमित्तानां बहुलप्रयोगादीनां हरौ विद्यमानत्वात् ।
१०,६२फ़्.
तत्किमन्यत्र शब्दानां वृत्तिरेव नास्ति ।
येन विष्णुमेवेत्यवधार्यत इत्यत आहतत्सङ्गादिति ।
… तत्सङ्गादुपचारतः । (अनुव्याख्यानम्)३,३.३६द् ।
अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।
विष्णुमेव परं ब्रूयुर् … । (अनुव्याख्यानम्)३,३.३७अच् ।
न्यायसुधा-
उपचारप्रकारश्च प्रागेव विवृतः ।
अक्षादिशब्दवदुभयत्र साम्येन प्रवृत्तिः किं न स्यादित्यत आहइहेति ।
इन्द्रादिशब्दा हि परमैश्वर्यादिगुणान्वदति ।
ते च भगवत एवासाधारणा इति तमेव परं मुख्यं ब्रूयुः ।
इह देवतान्तरे ।
तथा नेति शेषः ।
यद्वा इह देवेषु तत्सङ्गादिति पूर्वत्र सम्बन्धः ।
रूढिनिमित्तातिशयस्याप्येतदुपलक्षणम् ।
उत्तराधिकरणेष्वप्येवं क्रमनिमित्तादिकं स्वयमूहनीयमित्याशयवानाहएवमिति ।
… एवमन्ये ऽप्यशेषतः । (अनुव्याख्यानम्)३,३.३७द् ।
न्यायसुधा-
विष्णुमेव परं ब्रूयुरिति वर्तते ।
१०,६५
अन्यत्र प्रसिद्धानां नामात्मकानां शब्दानामनन्तत्वात्कथं पादपरिसमाप्तिरित्याशङ्कां निराकुर्वन्प्रथमपादार्थमनूद्य द्वितीयपादस्य
सङ्गतिमाहइत्यन्यत्रेति ।
इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः ।
ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः । (अनुव्याख्यानम्)३,३.३८ ।
तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम् । (अनुव्याख्यानम्)३,३.३९ ।
आह … । (अनुव्याख्यानम्)३,३.४०अ ।
न्यायसुधा-
समानन्यायसञ्चारविषयत्वादिति भावः ।
ज्ञाते प्रथमपादेन ।
शङ्का जायत इति शेषः ।
कथं(इति) ।
प्रायेण लिङ्गबलेन ह्येष नामात्मकशब्दसमन्वयो ऽभिहितः ।
लिङ्गानां चान्यगतत्वं प्रतीयते ।
ततश्च विरुद्धतवात्तैः प्रतीतः समन्वयः सम्यङ् न स्यादेव ।
नहि कृतकत्वेन नित्यत्वज्ञानं सम्यगुत्पद्यते ।
इतिशब्दः शङ्कासमाप्तौ ।
तत्परिहारायान्यत्र प्रसिद्धानामशेषलिङ्गानाम् ।
आह द्वितीयपादे ।
नन्वेवं तर्हि यानि अन्तस्तद्धर्मोपदेशादित्यादौ समुद्रान्तस्थत्वादीनि लिङ्गानि साधनत्वेनोक्तानि तेषामिह विचारः करणीयः ।
न चैवम् ।
किन्तु यान्युक्तानि न तानि विचार्यन्ते ।
यानि च विचार्यन्ते न तान्यक्तानि ।
उच्यते ।
सर्वश्रुतिगताः सर्वे ऽप्यन्यत्र प्रसिद्धाः नामात्मकाः शब्दा भगवद्विषया एव तत्र तत्र श्रुतैः सर्वैर्लिङ्गैरिति हि प्रथमपादस्यार्थः ।
तत्र यानि लिङ्गान्यसन्दिग्धानि तानि विहायेतराणि विचार्यन्त इति को विरोधः ।
अत एवाशेषत इत्युक्तं प्राक् ।
१०,६६
तृतीयपदास्य प्रथमद्वितीयाभ्यां सङ्गतिमाहउभयेति ।
… उभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थम् … । (अनुव्याख्यानम्)३,३.४०अच् ।
न्यायसुधा-
भगवत्तदितरविषयत्वम् ।
अतो ऽन्यत्र प्रसिद्धानां भगवत्परत्वस्य समर्थनम् ।
लिङ्गात्मकानां च शब्दानाम् ।
१०,६६
नन्वन्यवाचित्वनिरासो ऽपि तत्रैव नेतर इत्यादिना विहित एव ।
तत्कथं शङ्कोदयः ।
मैवम् ।
अन्यत्र तात्पर्याभावो हि नेतर इत्यादिना दर्शितः ।
शक्तिस्तूभयत्र स्यादेव ।
तर्हि त एव पुनर्विचार्याः ।
सत्मय् ।
तेष्वेव यत्र यत्र विचायप्राप्तिस्ते विचार्यन्ते ।
यदा यत्रानुपपत्त्यादीनां सञ्चारः सुगमस्तन्विहायान्यत्रोभयगतत्वं शङ्केतैवेति युक्तमुक्तम् ।
तथा च तत्त्वित्यवधारणानुपपत्तिरिति शङ्काशेषः ।
इत्याशङ्कानिवृत्त्यर्थं तृतीयपादमारब्धवानिति शेषः ।
इत्याहेति वक्ष्यमाणेन वा सम्बन्धः ।
कथमियमाशङ्का तृतीये परिहृतेत्यतस्तात्पर्यमाहउभयत्रेति ।
१०,६७
… उभयत्र प्रतीतितः । (अनुव्याख्यानम्)३,३.४०द् ।
शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव … । (अनुव्याख्यानम्)३,३.४१अच् ।
न्यायसुधा-
हरौ तदितरत्र च ।
प्रतीतितो न तु वस्तुतो वर्तमानानां सलिङ्गानां शब्दानां नाम्नां लिङ्गानां च हरावेव विशेषतः परममुख्यया वृत्त्या तात्पर्येण च समन्वयः ।
कुत इत्यत आहयदिति ।
… यन्नैवान्यत्र मुख्यतः । (अनुव्याख्यानम्)३,३.४१द् ।
शब्दा लिङ्गानि च … । (अनुव्याख्यानम्)३,३.४२अ ।
न्यायसुधा-
यद्यस्माद्वर्तत इति शेषः ।
एतदपि कुत इत्यत आहयत इति ।
… यतो नैवान्यत्र स्वतन्त्रता । (अनुव्याख्यानम्)३,३.४२अब् ।
न्यायसुधा-
स्वतन्त्रतास्तीति शेषः ।
स्वातन्त्र्याभावे ऽपि कुतो ऽन्यत्र शब्दानां मुख्यवृत्त्यभाव इत्यत आहअस्वतन्त्रेष्विति ।
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः । (अनुव्याख्यानम्)३,३.४२च्द् ।
यतो ऽतो … । (अनुव्याख्यानम्)३,३.४३अ ।
न्यायसुधा-
नन्वन्येषामस्वतन्त्रत्वात्तेषु मुख्यतः शब्दप्रवृत्तिहेतोर्गुणादेरभावान्मुख्यतः शब्दा न वर्तन्त इति चेत् ।
मा वर्तिषत ।
तथापि विशेषतः समन्वयो हरावेवेत्येतत्कुत इत्यत आहअत इति ।
इतरस्य मुख्यार्थत्वाभावादित्यर्थः ।
भाव्यं खलु शब्दस्य मुख्यार्थेन ।
अन्यथा तदपेक्षस्यामुख्यस्यानुपपत्तेः ।
तथाच द्वयोः प्रसक्तयोरेकस्य मुख्यार्थत्वानुपपत्तावितरस्य मुख्यार्थत्वमावश्यकमेव ।
यदधीनास्त इत्यादिना युक्त्यन्तरमाह ।
१०,६८
… यदधीनास्ते शब्दार्थत्वमुपागताः ।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु । (अनुव्याख्यानम्)३,३.४३अद् ।
अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।
मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः । (अनुव्याख्यानम्)३,३.४४ ।
इत्याह … । (अनुव्याख्यानम्)३,३.४५अ ।
न्यायसुधा-
ते भगवतो ऽन्ये पदार्था भगवदपेक्षयात्यल्पेनैव शब्दप्रवृत्तिहेतुना गुणादिना यस्मिन्भगवत्यायत्ताः सन्तः शब्दाथर्त्वमुपगताः स भगवानेवेशो
निरवधिकशब्दप्रवृत्तिनिमित्तत्वात् ।
स्वतन्त्रत्वतश्च मुख्यशब्दार्थ इति हि स्वीकर्तव्यः ।
इतरेषु शब्दप्रवृत्तिनिमित्तान्यल्पान्येव तान्यपि भगवदधीनानि ।
भगवति तु निरवधिकपराधीनानि चेत्येतदसिद्धमित्यत उक्तं मनीषिभिरिति ।
श्रुत्यादिपरिचयवद्भिः ।
यो यदधीनः शब्दार्थः सो ऽमुख्य इतरस्तु मुख्य इत्यत्र दृष्टान्तः ।
अयो यथान्याधीनं सद् दाहकत्वं दाहकशब्दार्थत्वमुपगतम् अत एव दहतीति शब्दस्तस्मिन्नमुख्यो ऽग्नौ तु मुख्यस्तथेत्यर्थः ।
अत्रेतरस्यामुख्यार्थत्वमनूद्यत एवेति न पुनरुक्तिः क इत्याह तृतीयपादेनेति शेषः ।
१०,६९
चतुर्थपादस्य सङ्गतिं करोतिएवञ्चेति ।
… एवञ्च शब्दानां नारायणसमन्वये ।
सिद्धे ऽप्यशेषशब्दानां न कथञ्चन युज्यते । (अनुव्याख्यानम्)३,३.४५अद् ।
विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् ।
इति चेद् … । (अनुव्याख्यानम्)३,३.४६अच् ।
न्यायसुधा-
एवञ्चेत्यस्यैव विवरणमतीतेन पादत्रयेण केषाञ्चिच्छब्दानां नारायणसमन्वये सिद्धे ऽपीति ।
अशेषशब्दानां नारायणे समन्वयो न युज्यते ।
यः प्रतिज्ञातो दुःखिबद्धावरादिशब्दानां कर्मादिविषयाणां च कथञ्चन योगेन रूढ्या वा प्रवृत्त्यनुपपत्तेरिति शेषः ।
कथम् ।
यतो ऽवरादिशब्दवाच्यत्वे भगवतो ऽवरत्वादेर्देषस्य प्राप्तिर्भवेत् ।
तस्याश्च सर्वप्रमाणविरोधात् ।
कर्मक्रमादिविरोधाच्चेति ।
इति चेत्तत्र प्रतिविहितं सूत्रकारेणेति शेषः ।
कथमित्यतः प्रथमाधिकरणतात्पर्यमाहअवरत्वादीति ।
… अवरत्वादि द्विविधं ह्युपलभ्यते । (अनुव्याख्यानम्)३,३.४६च्द् ।
१०,७०
न्यायसुधा-
अवरादिशब्दाप्रवृत्तिनिमित्तमुपलभ्यते प्रमाणैः ।
हिशब्दस्तेषां प्रसिद्धिं द्योतयति ।
कथं द्विविधमित्यत आहपरस्येति ।
परस्यावरताहेतुर्यः स्वयं पर एव सन् ।
सो ऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत् । (अनुव्याख्यानम्)३,३.४७ ।
अन्यो ऽवरत्वानुभवी … । (अनुव्याख्यानम्)३,३.४८अ ।
न्यायसुधा-
स्वयं पर एव सन्निति न प्रवृत्तिनिमित्तकथनं किन्तु स्वस्यावरत्वाभावे ऽपीति प्रदशर्नार्थम् ।
परस्मिन्नवरत्वादिधर्मनियन्तृत्वमेकं निमित्तमित्यर्थः ।
तस्य प्रमितत्वदर्शनं यथेति ।
परगतस्य जयस्य राजाधीनत्वेन यथा राजा जयिशब्दवाच्यो भवेत्तथेत्यर्थः ।
अवरत्वानुभवी अन्वयो ऽवरशब्दार्थः ।
अवरत्वादिमत्त्वमपरं निमित्तमिति यावत् ।
एतच्च सुप्रसिद्धमिति न प्रमाणमुक्तम् ।
ततः किं प्रकृत इत्यत आहतयोरिति ।
… तयोः पूर्वो ऽस्ति केशवे । (अनुव्याख्यानम्)३,३.४८ब् ।
न्यायसुधा-
तयोः प्रवृत्तिहेत्वोर्मध्ये ।
तेनावरादिशब्दवाच्यत्व चेति शेषः ।
कुतः पूर्व एवाङ्गीक्रियते न द्वितीय इत्यत आहद्वितीय इति ।
द्वितीयो जीव एवास्ति … । (अनुव्याख्यानम्)३,३.४८च् ।
न्यायसुधा-
जीव इति जडस्याप्युपलक्षणम् ।
तथाच सतीश्वरत्वहानिः स्यादित्यर्थः ।
अधिकरणफलमाहस्वातन्त्र्यादिति ।
… स्वातन्त्रान्नच दूषणम् । (अनुव्याख्यानम्)३,३.४८द् ।
हरेर् … । (अनुव्याख्यानम्)३,३.४९अ ।
न्यायसुधा-
परगतावरत्वादौ स्वातन्त्र्यस्यैव निमित्तत्वाङ्गीकाराद्धरेरवरत्वादिकं दूषणं न प्रसज्यत इति ।
एवमुत्तराधिकरणतात्पर्यमपि वक्तव्यम् ।
१०,७१
प्रथमाध्यायार्थानुवादेन द्वितीयाध्यायस्य सङ्गतिमाहएवमिति ।
… एवमशेषेण सर्वशब्दसमन्वये ।
उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ।
अतो ऽशेषविरोधानां कृतेशेन निराकृतिः । (अनुव्याख्यानम्)३,३.४९अफ़् ।
१०,७२
न्यायसुधा-
सर्वशब्दार्थविवरणमशेषेणेति ।
उक्ते सति द्वितीये ऽशेषविरोधानां निराकृतिरीशेन कृतेति सम्बन्धः ।
विरोधहीनस्यैव समन्वयस्य ।
समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये । (अनुव्याख्यानम्)३,३.५०अब् ।
न्यायसुधा-
तृतीयाध्यायस्य सङ्गतिमाहसमन्वयेति ।
किं मया कार्यमित्येव स्याद् बुद्धिरधिकारिणः । (अनुव्याख्यानम्)३,३.५०च्द् ।
न्यायसुधा-
तदर्थयोरध्याययोरुपलक्षणमेतत् ।
वस्तुनिर्णये ब्रह्मनिर्णये ।
किं मया कार्यमिति ।
अयमर्थः ।
यद्यपि ब्रह्मविचारः कर्तव्य इत्युक्तम् ।
कृतश्चासौ ।
तथापि साधनफलविचारसहितस्य ब्रह्मविचारस्य कर्तव्यतयोक्तत्वात्कृतब्रह्मविचारस्याधिकारिणो यन्मया कार्यं साधनं तत्किं कथम्भूतमिति ।
बुद्धिः स्यादिति ।
फलविषये कुत एवं बुद्धिर्न स्यादिति चेत्स्यादेव ।
किन्तु फलापेक्षया साधनस्य पूर्वभावित्वात्तद्विषयैवादौ स्यात् ।
तदिदमुक्तमेवशब्देन ।
तदर्थं तृतीयो ऽध्यायः प्रवृत्त इति शेषः ।
१०,७३
एतद्गतानां त्रयाणां पादानां प्रागुक्तामेव सङ्गतिं स्फुटीकरोतितत्रेति ।
तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ।
उक्तायां भक्तिदार्ढ्याय प्रोक्ते ऽशेषगुणोच्चये ।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि । (अनुव्याख्यानम्)३,३.५१ ।
न्यायसुधा-
तत्र तृतीये ऽध्याये ।
भक्तिविधानार्थं भक्त्युत्पादनार्थं वैराग्यार्थमिति यावत् ।
अभक्तानां काम्यार्थकर्मिणां पापिनां द्वेषिणां च ।
उक्तायां प्रथमपादेन ।
अशेषगुणोच्यते परमेश्वरस्य प्रोक्ते द्वितीयेन ।
उपासनास्मिन्पादे वक्तव्यावसरप्राप्ता ।
ननूपासनायां को भक्तेरुपयोगो यतस्तदानन्तर्यस्येत्यत आहनित्यमिति ।
यस्मादुपासना नित्यमादरेण कर्तव्या ।
आदरनैरन्तर्याभ्यामेव संस्कारातिशयस्योत्पादात् ।
आदरनैरन्तर्ये चोपासनायां नाभक्तस्य भवतः ।
इति तस्मादिदानीमुपासना वक्तव्येति सम्बन्धः ।
१०,७४
एवं तर्ह्युपासनैव विचारणीया ।
सर्वशास्त्रपरिज्ञानं प्रथमाधिकरणे कस्माद्विचार्यत इत्यत आहसेति ।
१०,७५
सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव … । (अनुव्याख्यानम्)३,३.५२अच् ।
न्यायसुधा-
या वक्तव्यतयावसरप्राप्ता सा चोपासना द्विविधैव ।
न त्वेकरूपैव ।
कथम् ।
एका शास्त्राभ्यासस्वरूपिणी ।
परा च ध्यानरूपा ।
अतो युक्तः प्रथमाधिकरणस्यात्रान्तर्भावः ।
तथाप्ययं क्रमः कुतः ।
ध्यानस्य शास्त्राभ्याससाध्यत्वात् ।
तदिदमुक्तं परेति ।
ध्यानसमाध्योरनतिभिन्नत्वद्धयानशब्देन समाधिरपि गृह्यते ।
धारणाप्रत्याहारप्राणायामाऽसनयमनियमानामप्युपासनाभेदानां सत्त्वात्कथं द्वैविध्यमित्यत आहतदङ्गमिति ।
… तदङ्गं धारणादिकम् । (अनुव्याख्यानम्)३,३.५२द् ।
न्यायसुधा-
तस्य ध्यानस्याङ्गमेव नतु स्वतन्त्रमुपासनम् ।
योगशास्त्रे चैतत्स्पष्टमवगन्तव्यम् ।
शास्त्राभ्यासस्य ध्यानाङ्गत्वे ऽपि स्वतन्त्रोपासनत्वं चास्ति ।
ब्रह्मसाक्षात्कारहेतुत्वात् ।
चित्तवृत्तिनिरोधा(कत्वा)च्च ।
‘अथवा सततं शास्त्रविमर्शेन भविष्यति’ इति ।
१०,७७
किमतो यद्युपासनावसरप्राप्ता द्विविधा चेति ।
तत्राहतथेति ।
तथोभयात्मकं चैव पादे ऽस्मिन् बादरायणः ।
आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम् । (अनुव्याख्यानम्)३,३.५३ ।
न्यायसुधा-
तथा तस्मादवसरप्राप्तत्वात् ।
अस्मिन्नेवेति सम्बन्धः ।
उपासनमेवेति च (वा) ।
तेन परेषामिदानीं तु प्रतिवेदान्तं विज्ञानानि भिद्यन्ते न वेति विचार्यत इति पादार्थकथनं निराकरोति ।
तथाहि ।
किं भेदाभेदौ, विरोधाविरोधौ, उत विलक्षणत्वाविलक्षणत्वे ।
नाद्यः ।
गतार्थत्वात् ।
द्वितीये ब्रह्मणो ऽखण्डत्वेन प्राप्त्यभावः ।
सगुणब्रह्मविषया प्राणादिविषया चेयं चिन्तेति चेन्न ।
प्रकृतविषयप्रयोजनविरुद्धत्वेनाकर्तव्यत्वादिति ।
अद्धा उपयुक्तप्रमेयेण सह ।
अत एव विस्तरात् ।
अनेन केषाञ्चिदधिकरणानामनन्तर्भावशङ्का निराकृता भवति ।
श्रुतिग्रहणमुपलक्षणम् ।
अत्र सङ्गतिकथनप्रस्तावे ऽपि केषाञ्चित्सूत्राणामर्थव्याख्यानं सङ्गतिसमर्थनार्थमेवेति न दोषः ।
१०,७९फ़्.
एवं सङ्गतिमभिधायैतत्पादाधिकरणेषु पूर्वपक्षयुक्तीः सिद्धान्तयुक्तीश्च सङ्ग्रहेणाहपृथग्दृष्टिरित्यादिना ।
पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता । (अनुव्याख्यानम्)३,३.५४ ।
विभ्रमो ऽपाकृतिर्लिङ्गमनवस्थाविशेषिता ।
अप्रयोजनता चातिप्रसङ्गो ऽदूरसंश्रयः । (अनुव्याख्यानम्)३,३.५५ ।
विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ । (अनुव्याख्यानम्)३,३.५६ ।
पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः । (अनुव्याख्यानम्)३,३.५७ ।
अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया । (अनुव्याख्यानम्)३,३.५८ ।
युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः । (अनुव्याख्यानम्)३,३.५९ ।
फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः । (अनुव्याख्यानम्)३,३.६० ।
कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता । (अनुव्याख्यानम्)३,३.६१ ।
संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः । (अनुव्याख्यानम्)३,३.६२ ।
सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता । (अनुव्याख्यानम्)३,३.६३ ।
अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णये ह्येता युक्तयो ऽव्याहताः सदा । (अनुव्याख्यानम्)३,३.६४ ।
न्यायसुधा-
अव्याहताः सदेति सिद्धान्तयुक्तित्वसमर्थनम् ।
। इति न्यायमालास्थलानि ।
__
१०,८१