१३ परानन्दाधिकरणम्

। अथ श्रीमन्न्यायसुधायां परानन्दा(परमता)धिकरणम् ।
। ओं परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ओं ।
परमेश्वरस्यानन्दादयो गुणाः किं लौकिकानन्दादिसलक्षणाः किं वा तद्विलक्षणाः ।
आद्ये न तत्र बहुमानः सम्भवति ।
न द्वितीयः ।
९,५२६
प्रकारप्रमाणाभावात् ।
विमता लौकिकसलक्षणा आनन्दादिशब्दवाच्यत्वादिति बाधकसद्भावाच्च ।
अन्यथा तत्रानन्दादिशब्दप्रवृत्तिर्न स्यात् ।
व्युत्पत्त्यभावात् ।
अतीन्द्रियत्वेन तत्रोपदेशा(द्युपायाद्य)भावे सादृश्यानुमानस्यैवानुसरणीयत्वात् ।
तस्य चासिद्धत्वात् ।
ततश्च वेदवेद्यत्वं न स्यादित्यस्य समाधानार्थमिदमारभ्यते ।
तत्राशङ्कितसकलदोषपरिहारो न स्फुटः प्रतीयत इत्यतो व्याचष्टेते चेति ।
परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः । ब्ब्स्_३,२.३१ ।
… ते चाखिलविलक्षणाः । (अनुव्याख्यानम्)३,२.१९७द् ।
न्यायसुधा-
ते गुणा न केवलं गुणिनाभिन्नाः किन्नामाखिलेभ्यो लौकिकानन्दादिभ्यो विलक्षणाश्च ।
कथं विलक्षणा इत्यत आहसर्व इति ।
सर्वे सर्वगुणात्मानः सर्वकर्तार एव च । (अनुव्याख्यानम्)३,२.१९८अब् ।
न्यायसुधा-
आनन्दो ऽपि ज्ञानात्मको ज्ञानमप्यानन्दात्मकमित्यादि ।
न ह्येवमन्तःकरणपरिणामभेदाः सुखादयः ।
सर्वकर्तारो जगत्सृष्टयादिकर्तारश्च ।
एवशब्देनोपचारं वारयति ।
अन्योन्यमभेदे शब्दानां पर्यायत्वमनेकत्वाभावश्च स्यादित्यत आहतथापीति ।
तथापि सविशेषाश्च … । (अनुव्याख्यानम्)३,२.१९८च् ।
न्यायसुधा-
परस्पराभेदे ऽपि ।
ततो नोक्तदोष इति (शेषः) भावः ।
अनेन वैलक्षण्यप्रकारो दर्शितः ।
प्रमाणं च वक्ष्यते ।
तथाचाद्यं सूत्रद्वयं व्याख्यातं भवति ।
९,५२८
बाधकपरिहारार्थं सूत्रम् ओं बुद्धयर्थः पादवत् ओं इति ।
तद्वयाचष्टेविद्वदिति ।
बुद्ध्यर्थः पादवत् । ब्ब्स्_३,२.३३ ।
… विद्वद्य्वुत्पत्तितो ऽपिच । (अनुव्याख्यानम्)३,२.१९८द् ।
तैस्तैः शब्दैश्च भण्यन्ते … । (अनुव्याख्यानम्)३,२.१९९अ ।
न्यायसुधा-
अपि च तथापि तैस्तैः शब्दैश्च भण्यन्ते ।
कथं विद्वद्व्युत्प(त्तितः)त्त्यन्विता ।
विद्वांसो हि साक्षात्कृतभगवद्गुणाः पूर्वैर्विद्वद्भिर्व्युत्पादयितुं शक्यन्ते ।
अविदुषां कथं व्युत्पत्तिः ।
भवितव्यं हि तया ।
अन्यथा विद्वत्त्वस्यैवानुपपत्तेरित्यत आहयुज्यते चेति ।
… युज्यते चोपदेशतः । (अनुव्याख्यानम्)३,२.१९९ब् ।
न्यायसुधा-
विद्वदुपदेशतो ऽविदुषामपि व्युत्पत्तिर्युज्यते ।
अतीन्द्रिये कथमुपदेश इत्यत आहअन्येति ।
अन्यानन्दादिसादृश्यम् … । (अनुव्याख्यानम्)३,२.१९९च् ।
न्यायसुधा-
लौकिकानन्दादिसादृश्यं भगवदानन्दादेर्विद्यते ।
ततश्च यो ऽस्मदानन्दसदृशो भगवद्गुणः स आनन्दादिशब्दवाच्य इत्यादिरुपदेशो घटते ।
तर्हि पूर्वोत्तरविरोधः स्यात् ।
प्राक्’ते चाखिलविलक्षणाः’ इत्युक्तत्वेदानीमन्यानन्दादिसादृश्याभ्युपगमादित्यत आहआनुकूल्यादीति ।
… आनुकूल्यादिना परम् । (अनुव्याख्यानम्)३,२.१९९द् ।
न्यायसुधा-
आनुकूल्यं निरुपाधिप्रियत्वमानन्दस्य ।
बोधात्मकत्वं ज्ञानस्येत्यादि ।
अपरमल्पत्वास्थिरत्वादि ।
आनुकूल्यादेः प्रवृत्तिनिमित्तस्य सत्त्वात्तदाश्रयेण व्युत्पत्तेरपि सम्भवादानन्दादिशब्दप्रवृत्त्युपपत्तावनुमानमप्रयोजकमित्युक्तं भवति ।
ननु विलक्षणेष्वानन्दादिषु विलक्षणा एव शब्दाः कुतो न प्रयुज्यन्ते ।
तथा सति तत्र बुद्धिप्रवेशाभावप्रसङ्गात् ।
अल्पत्वादिसादृश्यं कुतो नेत्यत आहपूर्णत्वादीति ।
पूर्णत्वादि महत् तेषां वैलक्षण्यं श्रुतौ श्रुतम् । (अनुव्याख्यानम्)३,२.२००अब् ।
९,५२९
न्यायसुधा-
(तां) श्रुतिं पठतिपूर्ण इति ।
पूर्णे ऽशेषनियन्ता च सुखादुतम एककलः । (अनुव्याख्यानम्)३,२.२००च्द् ।
गुणोरुसमुदायो ऽयं वासुदेवः स निष्कळः ।
वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् । (अनुव्याख्यानम्)३,२.२०१ ।
न्यायसुधा-
पूर्णः पूर्णगुणः ।
सुखादुत्तमः शोभनानन्दतमः ।
एकलः एकाकी परानपेक्षः ।
सुनिष्कलः सर्वथा विभक्तांशविकलः ।
हरेर्गुणान्परान्विलक्षणान्वक्तीति ।
९,५३१
एतेषामधिकरणानामपव्याख्यानं न स्थानतो ऽपीत्यत्रैव निराकृतमिति न पुनः प्रक्रान्तम् ।
। इति परानन्दा(परमता)धिकरणम् ।


__
९,५३२