१२ उभयव्यपदेशाधिकरणम्

। अथ उभयव्यपदेशाधिकरणम् ।
। ओं उभयव्यपदेशात्त्वहिकुण्डलवत् ओं ।
यदीश्वरस्य गुणक्रियादयो धर्मास्ततो भिन्नास्तदा समवायस्य निराकृतत्वात्तद्वत्त्वमनुपपन्नम् ।
यदि चाभिन्नास्तदा ज्ञानादिमत्त्वमानन्दादिभोक्तृत्वमित्याद्ययुक्तमित्युभयथा तत्र भक्त्यनुपपत्तिरिति पूर्वपक्षप्राप्ताविदमारभ्यते ।
तत्र हेतुदृष्टान्तावेव सूचितौ ।
नतु पक्षपरिग्रहरूपा प्रतिज्ञा ।
अध्याहारो ऽपि हेतुदृष्टान्तबलेन भेदाभेदपक्षपरिग्रहस्येति प्रतिभाति ।
अतः प्रतिज्ञां दर्शयतितदभिन्ना इति ।
उभयव्यपदेशात्त्वहिकुण्डलवत् । ब्ब्स्_३,२.२७ ।
तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।
गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः । (अनुव्याख्यानम्)३,२.१५८ ।
न्यायसुधा-
नित्यशब्दो नियमार्थः ।
पारमेश्वराः सर्वे गुणा धर्मा नित्यं तदभिन्नास्तेनात्यन्ताभिन्नस्तथापि विशेषशक्त्या गुणगुण्यादिभावेन स्थिताः ।
९,४५४
स्यादेतत् ।
परिमाणादीनां यावद्द्रव्यभाविनां भवतु नाम भगवतात्यन्ताभेदः ।
क्रियाणां (ज्ञानादि)गुणानां चास्राक्षीत्सृजति स्रक्ष्यति व्यज्ञासीज्जानाति ज्ञास्यतीत्यादि श्रौतव्यवहारैरनित्यतयावगतानां तु न युज्यत इत्यत
आहविशेषात्मतयेति ।
९,४५५
विशेषात्मतया तेषां नित्यशक्तयात्मना तथा ।
नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता । (अनुव्याख्यानम्)३,२.१५९ ।
न्यायसुधा-
तेषां परमेश्वरसम्बन्धिन्यां क्रियादीनां धर्माणां नित्यशक्त्यात्मना नित्यं स्थितेस्तथा विशेषात्मतया व्यक्तिरूपेण
व्यवहारविषयतोपपत्तेर्नानित्यतेति योजना ।
प्रपञ्चस्तु प्रागेव कृतः ।
ननु च क्रियादीनां या व्यक्तता सा तावदनित्यैव ।
अन्यथोक्तव्यवहाराणां निरालम्बनत्वापातात् ।
ततस्तस्या भगवद्धर्मभूताया अपि नात्यन्ताभेदोपपत्तिरित्यत आहन विशेषेति ।
न विशेषात्मता चेयमनित्या … । (अनुव्याख्यानम्)३,२.१६०अब् ।
न्यायसुधा-
इयं व्यवहारालम्बनत्वेनोक्ता ।
कुत इत्यत आहशक्तीति ।
… शक्तिरूपता ।
सैव यत् … । (अनुव्याख्यानम्)३,२.१६०ब्च् ।
न्यायसुधा-
यद्यस्मात्सा विशेषत्मता शक्तिरूपतैव ।
शक्तिश्च नित्येत्युक्तं तस्मादित्यर्थः ।
नन्वेवं तर्हि शक्तिर्व्यक्तिरित व्यवहारविशेषो न स्यात् ।
उक्तव्यवहाराणां निरालम्बनत्वं च न परिहृतं स्यादित्यत आहसविशेषेति ।
… सविशेषा स्याद् … । (अनुव्याख्यानम्)३,२.१६० ।
न्यायसुधा-
नेयं व्यक्तिः शक्त्या निर्विशेषाभिन्ना ।
येनोक्तदोषः स्यात् ।
किन्तु
सविशेषाभिन्नैव ।
यद्ययं सर्वनिर्वाहहेतुर्विशेषो भगवतो भिन्नस्तदा सर्वेषां तद्धर्माणां तेनात्यन्ताभेद इति प्रतिज्ञा भज्येत ।
अभिन्नश्चेद्विशेषता तस्य न स्यात् ।
स्वरुपमात्रपर्यवसानेन सो ऽपि न स्यादित्यत आहविशेष इति ।
… विशेषो ऽन्यो नचाप्ययम् । (अनुव्याख्यानम्)३,२.१६०द् ।
स्वनिर्वाहकताहेतोस्तथापि स्याद् विशेषतः । (अनुव्याख्यानम्)३,२.१६१अब् ।
न्यायसुधा-
चो ऽवधारणे ।
अयं विशेषो ऽपि भगवता नैव भिन्नस्तेन न प्रतिज्ञाहानिः ।
तथापि तस्य विशेषता स्यात् ।
कथम् ।
न ह्ययमभिन्नो भवन्निर्विशेषः ।
एवं तर्हि विशेषपरम्परयानवस्था स्यात् ।
न स्यात् ।
कुतः विशेषस्य स्वनिर्वाहकताहेतोरिति ।
९,४५७
एवं प्रतिज्ञा दर्शिता ।
तत्र बाधकानि परिहृतानि ।
अत्र चोक्त्वा ।
स्यादेवम् ।
यद्येतेष्वर्थेषु प्रमाणं स्यात् ।
नच तत्पश्याम इत्यतः सौत्रमुभयव्यपदेशादिति हेतुं व्याचष्टेविशेषत्वेनेति ।
विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि । (अनुव्याख्यानम्)३,२.१६१च्द् ।
न्यायसुधा-
अखिलैः उभयविधैः प्रमाणैः वेदवाक्यैर्ज्ञानादिधर्माणां भगवद्विशेषत्वेनापिशब्दात्तदभिन्नत्वेन च विज्ञातेर्विज्ञानादित्यर्थः ।
ननु विज्ञातेरिति कथम् ।
‘आतश्चोपसर्गे’ इत्यङः क्तिन्बाधकत्वात् ।
‘क्तिन्नाबादिभ्यश्च’ इति वचनाद्भविष्यति ।
एतदेव विवृणोतिससर्जेति ।
ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।
श्रुत्यैव स स एवेति तदभेदश्च गम्यते । (अनुव्याख्यानम्)३,२.१६२ ।
न्यायसुधा-
‘स इदं सर्वमसृजते’ इत्यादिश्रुतिं ससर्जेत्यनेनोपादत्ते ।
तत्तदत्तुमध्रियते’ इत्यादिकां सञ्जहारेत्यनेन, स आनन्दादिः सः परमात्मैवेत्यनेन’आनन्दो ब्रह्म’ इत्यादिश्रुतिम् ।
तदयमर्थः ।
‘स इदं सर्वमसृजत, उक्षा स द्यावापृथिवी बिभर्ति, तत्तदत्तुमध्रियत, स ऐक्षत सो ऽकामयत, आनन्दम् ब्रह्मणो विद्वान्’ इत्यादिश्रुत्या
सर्जनादिकं ब्रह्मणो विशेषो ऽतिशयो न ब्रह्ममात्रमित्यवगम्यते ।
तन्मात्रत्वे क्रियाकर्तृभावादेरनुपपत्तेः ।
‘आनन्दो ब्रह्मेति व्यजानात् ।
सत्यं ज्ञानमनन्तं ब्रह्म एकधैवानुद्रष्टव्यम्’ इत्यादिश्रुत्यैव तस्य तेनाभेदश्चावगम्यते ।
तदेवमुभयव्यपदेशान्यथानुपपत्त्या सकलमिदं कल्प्यते ।
सर्वेषां ब्रह्मधर्माणां ब्रह्मणा सविशेषो ऽत्यन्ताभेदः ।
क्रियादीनां नित्यता शक्तिव्यक्तिरूपता व्यक्तिरूपस्यापि नित्यता शक्तिरूपपाभिन्नता सविशेषता विशेषस्याप्यभेदः स्वनिर्वाहकता चेति ।
न ह्येतेष्वर्थेष्वन्यतमस्याप्यकल्पनायामुदाहृतोभयव्यपदेशविरोधशान्तिर्भवतीति ।
एतदेव प्रपञ्चयितुं’निदर्शनमात्रेण’ इत्यतः प्राक्तनो ग्रन्थसन्दर्भः ।
९,४६०
अथ मतम् ।
भेद एव ब्रह्मधर्माणां ब्रह्मणास्तु ।
समवायेन विशेषणविशेष्यभावो भविष्यति ।
समवायदूषणानि च श्रुतिविरोधेनाभासतां यास्यन्ति ।
समवायाभावे ऽपि वा धर्मधर्मिणोरेव स को ऽपि महिमा कल्प्यते ।
नचाभेदश्रुतिविरोधः ।
अनागन्तकत्वेनोपचारोपपत्तेः ।
अतः किमभेदमादाय विशेषाद्यङ्गीकारेणेति ।
अपर आह अखण्डमेव ब्रह्म न तु तत्र कश्चिद्विशेषः ।
न चापरश्रुतिविरोधः ।
क्रियादिविषयाणां सगुणविषयत्वात् ।
तस्य च मायामयत्वेनाविचारितरमणीयत्वात् ।
आनन्दं इत्यादीनां च राहोः शिर इत्यादिवदुपचरितत्वोपपत्तेरिति ।
अन्यस्त्वाह भेदाभेदाभ्यामेवोभयव्यपदेशसामञ्जस्योपपत्तेः किमनया सविशेषाभेदकल्पनयेति ।
मैवम् ।
त्रिभिरप्येतैरन्ततो ऽभिन्ने विशेषस्याङ्गीकतर्व्यत्वात् ।
ततो वरमादित एव तदङ्गीकरणमित्याशयवान्भेदवादिनं तावद्विशेषमङ्गीकारयितुमाहभेद इति ।
भेदो यदि विशेषस्य स भेदो भेदिना कथम् । (अनुव्याख्यानम्)३,२.१६३अब् ।
न्यायसुधा-
विशेषस्य ज्ञानादेर्ब्रह्मधर्मस्य, यदि ब्रह्मणो भेदो ऽङ्गीक्रियते तदा पृच्छामः ।
स भेदो, भेदिना ब्रह्मणा ज्ञानादिना च सह, कथं किं प्रकारः, प्रतिपत्तव्यः ।
किं भिन्नः किंवाभिन्न इति ।
आद्ये दोषमाहभिन्नश्चेदिति ।
भिन्नश्चेदनवस्था स्याद् … । (अनुव्याख्यानम्)३,२.१६३च् ।
न्यायसुधा-
यदि भेदो भेदिभ्यां भिन्नस्तदा सो ऽपि भेदस्तथेत्यनवस्था स्यात् ।
विशेषणविशेष्यभावादिप्रतिपत्तये खलु धर्मधर्मिणोर्भेदो ऽभ्युपगम्यते ।
स च प्रतीयमान एव तद्धेतुः ।
तत्प्रतीतिश्च विशेषणादिभावेनैवेत्युत्तरोत्तरभेदप्रतीतिरवश्यमपेक्षितैवेति सुस्थानवस्था ।
९,४६४
अभिन्नत्वे ऽपि वक्तव्यं सविशेषाभिन्न उत निर्विशेषाभिन्न इति ।
प्रथमे दोषमाहअभिन्नश्चेदिति ।
… अभिन्नश्चेत् पुरा न किम् । (अनुव्याख्यानम्)३,२.१६३द् ।
न्यायसुधा-
पुरा न किमिति ।
धर्माणां धर्मिणा सविशेषाभेदः किन्नाङ्गीक्रियते ऽङ्गीकार्य एवेत्यर्थः ।
भेद इव विनापि भेदेन विशेषेणैवोपपत्तावपि वृथा परम्पराकल्पनायां गौरवं स्यात्ततो धर्माणामेव सविशेषाभेदाङ्गीकारः श्रेयानिति भावः ।
अस्त्वेवमित्यत आहविशेष इति ।
विशेषो ऽभिन्न एवेति तेन नाभ्युपगम्यते । (अनुव्याख्यानम्)३,२.१६४अब् ।
न्यायसुधा-
विशेषो धर्मोभिन्न इत्येव तावत् ।
तेन भेदवादिना नाभ्युपगम्यते ।
दूरे सविशेषत्वमित्यतो ऽपसिद्धान्तः स्यात् ।
समीहितं च नः (न) सिद्धयेदित्याशयः ।
द्वितीयं दूषयतिअभिन्न इति ।
अभिन्नो निविर्शेषश्चेद् भेदस्तद्भेदता कुतः । (अनुव्याख्यानम्)३,२.१६४च्द् ।
न्यायसुधा-
भेदो यदि भेदिभ्यामभिन्नो निर्विशेषश्च स्यात्तदा तस्य तद्भेदता तयोरयं भेद इत्येवम्भावः कुतो न कुतो ऽपि ।
तदीयताया भेदेन विशेषण वा विनानुपपत्तेः ।
तन्मात्रत्वे च धर्मधर्मिणावेव स्तो न भेद इति स्यात् ।
तथा च धर्मधर्मिणावित्यपि न स्यात् ।
भेद एवास्ति न धर्मधर्मिणाविति वा भवेत् ।
ततश्च भेदो ऽपि न स्यादिति ।
९,४६५
भेदस्य भेदिस्वरूपत्वमङ्गीकृत्य विशेषमनङ्गीकुर्वाणं प्रति दूषणान्तरमाहअनेनेति ।
अनेनानेन भिन्नो ऽयमिति यत् स विशेषतः ।
भेद एवैष बहुधा दृश्यते तत् किमुत्तरम् । (अनुव्याख्यानम्)३,२.१६५ ।
९,४६५फ़्.
न्यायसुधा-
भिन्नो ऽयं घट इति स भेद एव विशेषतो विशेषणत्वेन दृश्यते न तु घटः, किन्तु विशेष्यत्वेन ।
तथानेनानेन ।
व्यत्ययो बहुलमिति पञ्चम्यर्थे तृतीया ।
सहयोगे वा ।
पटाद्भिन्नस्तम्भाद्भिन्नो घट इत्येष भेद एव सविशेषः प्रतियोगिविशेषसाहित्येन दृश्यते ।
तथायं पदार्थो ऽनेन वक्रत्वेनानेन कोटरवत्त्वेन पुरुषाद्भिन्न इति स एष भेद एव विशेषतो व्यावर्तकधर्मेण दृश्यते ।
पदार्थस्त्वक्षसन्निकर्षमात्रेण ।
तथास्मात्पटादस्मात्स्तम्भादस्मात्कुड्याद्भिन्नो ऽयं घट इत्येष भेद एव सविशेषतः प्रतियोगिविशेषसाहित्येन निमित्तेन बहुधा दृश्यते ।
घटस्त्वेकधैव ।
अतो न भेदो घटस्य स्वरूपमिति यत्स्वरूपभेदस्य दूषणं परैरुच्यते ।
तत्तस्य किमुत्तरं त्वयाभिधास्यते, यदि विशेषो नाङ्गीक्रियते, इत्यर्थः ।
यदि विशेषो नाङ्गीक्रियते तदा भेदो भेदिनाभिन्न इत्यपि नाङ्गीकर्तुं शक्यते ।
भेदभेदिनोर्भेदसाधकानामनेकेषां भावात् ।
विशेषणैव हि तेषामन्यथासिद्धिं व्युत्पाद्य प्रतीतिबलेन भेदस्य भेदिनाभेदो वक्तव्यो नान्यथेति भावः ।
९,४६६
तदीयत्वेन विशेषणत्वेन सप्रतियोगित्वेन लिङ्गित्वेन बहुत्वेन च प्रतीयमानो ऽन्योन्याभावादिरूपो भेदो न भेदिस्वरूपतयाङ्गीक्रियते ।
यस्तु स्वरूपतयाङ्गीक्रियते नासौ तदीयत्वादिना प्रतीयत इति तस्योत्तरं ब्रूम इति चेन्न ।
अस्यैव प्रसिद्धत्वादन्यस्य तदभावात् ।
अन्यथा स्वरूपस्यैव भेद इति पारिभाषिकं नामान्तरमुक्तं स्यात् ।
न चाद्वैतवादिनः स्वरूपं नाङ्गीकुर्वते ।
तत्किमनेन भेदेन ।
तदिदमुक्तं स एष इति प्रसिद्धिद्योतकाभ्याम् ।
तदीयत्वादिरुपचार इति चेन्न ।
प्रतीतेः स्फुटत्वात् ।
बाधकाभावेनाभ्रान्तित्वाच्च ।
तदिदमप्युक्तं दृश्यत इति ।
९,४६८
दूषणान्तरमाहअभेदेति ।
अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना । (अनुव्याख्यानम्)३,२.१६६अब् ।
न्यायसुधा-
न केवलं भेदस्य ।
किन्त्वभेदस्य च भेदिनः स्वरूपत्वमेवेति योजना ।
यो भेदस्य भेदिना घटेनाभेदमङ्गीकरोति ।
तेन तस्याभेदस्यापि घटस्वरूपत्वमेवाङ्गीकरणीयम् ।
भेदसमानन्यायत्वादिति हिशब्दार्थः ।
ततः किमित्यत आहतयोरपीति ।
तयोरप्य् … । (अनुव्याख्यानम्)३,२.१६६च् ।
न्यायसुधा-
अभेदो ऽङ्गीकार्य इति शेषः ।
अस्त्वेकेन घटेनात्यन्ताभिन्नयोरभेदभेदयोरभेदस्ततो ऽपि किमित्यत आहअविशेषत्व इति ।
… अविशेषत्वे पर्यायत्वं हि शब्दयोः । (अनुव्याख्यानम्)३,२.१६६च्द् ।
न्यायसुधा-
अभेदभेदयोरत्यन्ताभेदे विशेषे चासत्यभेदाभेदशब्दयोः पर्यायत्वं स्यात् ।
एकाथर्वाचित्वाद्घटकलशशब्दादिति हिशब्दार्थः ।
अस्त्वित्यत आहअभेदेति ।
९,४६९
अभेदभेदशब्दौ च पर्यायाविति को वदेत् । (अनुव्याख्यानम्)३,२.१६७अब् ।
न्यायसुधा-
को वदेत् न को ऽपि ।
प्रत्युतापर्यायावित्येव वदति सर्व इत्यप्रामाणिकं प्रमाणविरुद्धं चैतदिति ।
एतदुक्तं भवति ।
भेदो भेदिनाभिन्नस्तन्न्यायेन सो ऽभेदो ऽपि ततस्तावन्योन्यमप्यभिन्नाविति तावत्त्वम् ।
तथाच भेदाभेदशब्दयोः पर्यायत्वप्राप्तौ विशेषबलेनैव हि तत्परिहरणीयम् ।
तस्य चानङ्गीकारे दुष्परिहरं तदापद्येतेति ।
ननु भेदभेदिशब्दयोरपि पर्यायत्वमापादयितुमुचितम् ।
सत्यम् ।
शिष्यैरूह्यतामिति नोक्तम् ।
९,४७०
शङ्कतेभेद इति ।
भेदो ऽन्योन्यमभेदश्च भेदिना चेद् … । (अनुव्याख्यानम्)३,२.१६७च्द् ।
न्यायसुधा-
यद्यपि भेदाभेदयोः भेदिना घटेन सहाभेदस्तथापि तयोरन्योन्यं भेदो ऽस्तीति न तच्छब्दयोः पर्यायत्वं प्रसज्यते ।
तत्किं विशेषणेति ।
परिहरतिविशेषितेति ।
… विशेषता । (अनुव्याख्यानम्)३,२.१६७द् ।
न्यायसुधा-
एवमङ्गीकुर्वाणेनाप्यभिन्ने वस्तुनि विशेषिताङ्गीकरणीयैवेत्यर्थः ।
तत्कथमित्यत आहअविशेष इति ।
निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा ।
पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् । (अनुव्याख्यानम्)३,२.१६८ ।
न्यायसुधा-
विशेषाभावे भेदो भेदिना एको ऽभिन्नस्तथाभिदा भेदिना घटेनाभिन्ना, पुनस्तयोर्भेदाभेदयोः परस्परं कथमुपपन्नं भवेत् ।
कुतो न भवेत् ।
भेदाभेदयोर्भेदिमात्रत्वतः ।
अन्यथा घटस्यापि स्वतो भेदः स्यात् ।
घटेनाभिन्नयोर्भेदाभेदयोः परस्परं भेद(कार्य)निर्वाहार्थं घटेन सविशेष एवाभेदो ऽङ्गीकार्य इति भावः ।
९,४७१
शङ्कतेभेदिनश्चेति ।
भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।
अभेदाभेदिनोश्चैव … । (अनुव्याख्यानम्)३,२.१६९अच् ।
न्यायसुधा-
चशब्दावन्योन्यसमुच्चयार्थौ ।
एवशब्दौ परस्परं सविशेषाभेदव्यावृत्त्यर्थौ ।
गम्यते ऽभ्युपगम्यते ।
भेदस्य भेदिनश्च घटस्याभेदो विशेषश्च मयाभ्युपगम्यते ।
तथाभेदस्याभेदिनश्च तस्य सविशेषो ऽभेदो ऽभ्युपगम्यते ।
तथाच भेदाभेदयोर्घटतन्मात्रत्वाभावेन परस्परं भेदोपपत्तेर्न शब्दयोः पर्यायत्वम् ।
ततश्च भेदाभेदयोः परस्परमभेदो विशेषश्चाङ्गीकायर् इत्यसदिति भावः ।
एवमपि धर्मधर्मिणोर्भेदमभ्युपगच्छतान्ततो ऽभिन्ने वस्तुनि विशेषो ऽङ्गीर्क्तव्य इत्यभिमतं यद्यपि सिद्धमेव, तथाप्युक्तं तत्त्वं न
परित्याज्यमित्याशयवान्परिहरतिकिमिति ।
… किं भेदो ऽभेदभेदयोः । (अनुव्याख्यानम्)३,२.१६९द् ।
न्यायसुधा-
एवञ्चेदभेदभेदयोर्भेदः कस्मात्कल्प्यते ।
तयोरपि सविशेषाभेद एवाङ्गीकर्तव्यः ।
तत्रोपपत्तिमाहविशेषणैवेति ।
विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् ।
कल्पनागौरवायैव किं भेदः कल्प्यते तदा । (अनुव्याख्यानम्)३,२.१७० ।
न्यायसुधा-
सर्वत्र भेदभेदिनोरभेदाभेदिनोश्चाभेदे ऽपि विशेषेणैव तन्मात्रताभावनिबन्धना व्यावहृतिर्भवेदित्यङ्गीकृतं चेद्भेदाभेदयोस्तर्हि भेदः किं
कल्पनागौरवायैव कल्प्यत इति सोल्लुण्ठवचनम् ।
भेदाभेदयोर्घटेनेव परस्परमपि सविशेषत्वेनैव सर्वस्योपपत्तौ भेदकल्पने कल्पनागौरवं स्यात् ।
अनेकपदार्थकल्पनात् द्विधा कल्पनाच्चेति भावः ।
अस्त्वेवं ततः किमायातं प्रकृत इत्यत आहविशेषेणैवेति ।
भेदस्य भेदिनाभेदे ऽपि तदीयत्वादिव्यवहृतिर्भेदाभेदयो(श्चर्)घटेनाभेदे ऽप्यपर्यायशब्दव्यवहृतिर्यदि विशेषेणैव भवेत् तदा धर्मधमिर्णोरपि भेदः
किं कल्पनागौरवायैव कल्प्यते ।
धर्मधमिर्णोर्भेदमङ्गीकृत्याप्यन्ततो विशेषो ऽङ्गीकार्यः ततो वरमादित एव तदङ्गीकरणम् ।
अन्यथा कल्पनागौरवप्रसङ्गादिति । एतेन पुरा न किमितिविवृतं भवति ।
९,४७३
यदि कल्पनागौरवभयाद्धर्मधर्मिणोरभेदमङ्गीकृत्य व्यवहारविशेषार्थं विशेषो ऽङ्गीक्रियते ।
तर्हि गवाश्वयोरपि तथा कल्प्यताम् ।
अविशेषात् ।
तथाच भेद एव जगति न स्यादित्यत आहऐक्येति ।
ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः । (अनुव्याख्यानम्)३,२.१७१अब् ।
न्यायसुधा-
भेद एव स्वीक्रियते न विशेषः ।
गवश्वयोरिति प्रमादपाठः ।
मूलकोशेष्वदर्शनात् ।
ऐक्यप्रतीत्यभावे ऽपि कुतो विशेषो नाङ्गीक्रियत इत्यत आहस एवेति ।
स एवेति प्रतीतौ हि विशेषो नाम भण्यते । (अनुव्याख्यानम्)३,२.१७१च्द् ।
न्यायसुधा-
धर्मधर्मिप्रतिबन्द्या हि गवाश्वयोविर्शेषः परेणापादनीयः ।
नच तत्राविशेषः ।
अभेदप्रतीत्या तत्र तदङ्गीकारात् ।
इह च तदभावात् ।
भेदस्य प्रतीतिसिद्धत्वेन कल्पना(गौरवाभावाच्चेति)भावादिति ।
९,४७६
अधुनाभेदवादिनापि विशेषमङ्गीकारयतिसच्चिदादेरिति ।
सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि ।
अङ्गीकार्यो विशेषो ऽयं … । (अनुव्याख्यानम्)३,२.१७२अच् ।
९,४७६फ़्.
न्यायसुधा-
मायिनापीति ।
क्रियादिविषयाणां वाक्यानां मायिकविषयतामङ्गीकुर्वतापीति यावत् ।
तत्र हेतुः सच्चिदादेः पदसमूहस्य अपर्यायत्वसिद्धयर्थमिति ।
अयमिति अपर्यायशब्दप्रवृत्तिहेतुः ।
विशेषस्य तथाभावः प्रमित इति हिशब्दः ।
एतदुक्तं भवति ।
सन्तु तावत्क्रियादिविषयाणि वाक्यान्यसत्यविषयाणि ।
तथापि’सत्यं ज्ञानमनन्तं ब्रह्म’ इत्यादीनि तावत्सत्यविषयाणि परेणाङ्गीकृतान्येव ।
तेषां चाखण्डार्थनिष्ठत्वे सत्यज्ञानादिपदानामेकार्थत्वेन पर्यायत्वं स्यात् ।
नच तद्युक्तं सहप्रयोगदर्शनात् ।
नच भेदो ऽङ्गीकर्तुं शक्यः ।
एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् ।
अतः सत्ये ऽपि विशेषो ऽङ्गीकार्यः ।
तस्यापर्यायशब्दप्रवृत्तिहेतुता चानयैवार्थापत्त्या सिद्धा ।
तथात्वेनैव तत्कल्पनादिति ।
९,४७९
अपोहवादाश्रयेण शङ्कतेयदीति ।
… यद्यसत्यविशेषणम् ।
पृथक् पृथग् वारयितुं शब्दान्तरमितीष्यते । (अनुव्याख्यानम्)३,२.१७२द्फ़् ।
न्यायसुधा-
सत्यादिपदानां विधिवाचित्वे विधीयमानानां सत्यत्वादिविशेषणानां ब्रह्मण्यभावात् स्वरूपमात्रस्य चैकत्वात्पर्यायत्वं स्यात् ।
न चैवम् असत्यत्वाद्यपोहवाचित्वात् ।
नचैवं सति वैयर्थ्यम् ।
ब्रह्मण्यसत्यत्वादीनां विशेषणानां भ्रान्तिकल्पितत्वेन तन्निवारणार्थत्वात् ।
सन्ति हि नास्ति ब्रह्म, सदपि न ज्ञानं परिच्छिन्नं (चे)वेत्यादिप्रतीतयः प्राणिनाम् ।
नच सत्यपदमज्ञानस्याप्यपोहं वक्ति येनैकेनैवालमिति स्यात् ।
तस्मान्न पर्यायत्वं वैयर्थ्यं चेति ।
यद्वा सत्यादिपदानि सत्यत्वादिपृथगर्थवाचीन्येवेति न पर्यायतामापद्यन्ते ।
ब्रह्मणि तु लक्षणया प्रवर्तन्त इति न तत्र विशेषणानि समर्पयन्ति ।
नहि गङ्गापदं तीरे गङ्गात्वमर्पयति ।
नचैवमेकेनैव लक्षितत्वादितरेषां वैयर्थ्यमिति वाच्यम् ।
आरोपितानामसत्यत्वादिविशेषणानां प्रत्येक्तं निवारणेन सार्थक्यात् ।
नच सङ्गतिग्रहणविषयाभावाल्लक्षणानुपपत्तिः ।
शबले गृहीतसङ्गतिकानां सत्यब्रह्मलक्षकत्वोपपत्तेः । अतो न पर्यायत्वं नापि वैयर्थ्यमिति शङ्कार्थः ।
असत्यविशेषणम् असत्यत्व(त्वादि)विशेषणम् ।
आरोपितं विशेषणमिति वा ।
इति यदीष्यत इत्यन्वयः ।
परिहरतिमायेति ।
मायाविशेषराहित्यविशेषेण विशेषिता ।
सत्यस्यापि भवेत् … । (अनुव्याख्यानम्)३,२.१७३अच् ।
न्यायसुधा-
मायाशब्देनारोपितत्वमाचष्टे ।
एवं कुसृष्टौ कल्पितायामपि न सत्यस्याखण्डतासिद्धिः ।
कल्पितासत्यत्वादिविशेषराहित्यलक्षणविशेषविशेषिताया अवर्जनीयत्वादित्यर्थः ।
९,४८२
शङ्कतेसा चेति ।
… सा च तथा चेद् … । (अनुव्याख्यानम्)३,२.१७३च्द् ।
न्यायसुधा-
भवेदखण्डत्वखण्डनं यद्यारोपितविशेषपराहित्यरूपविशेषणविशेषिता सत्या स्यात् ।
न चैवम् ।
अपि तर्हि साप्यसत्यत्वादिवदारोपितैव ।
न ह्यारोपितेन रूपेण गगनस्य नीरूपता विहन्यत इत्यर्थः ।
परिहरतिअनवस्थितिरिति ।
… अनवस्थितिः । (अनुव्याख्यानम्)३,२.१७३द् ।
न्यायसुधा-
वाक्यार्थस्येति शेषः ।
एवं तर्हि न को ऽपि वाक्यार्थो व्यवस्थितः स्यात् ।
सत्यत्वादिविशेषवत्तयासत्यत्वादिव्यावृत्तिमत्तया चाप्रतिपादितत्वात् ।
नहि संसर्गभेदौ विहाय वाक्यार्थो ऽस्ति ।
ब्रह्मैव वाक्यार्थ इति चेन्न ।
तस्य स्वप्रकाशत्वात् ।
व्यावृत्तेश्चासत्यत्वादिति ।
यद्वा प्रतीता सा च स्वाभावव्यावर्तकत्वेनैव व्यवतिष्ठते न ब्रह्मविषयत्वेन ।
येनाखण्डता व्याहन्यत इति शङ्कार्थः ।
एवमपि तदभावव्यावृत्तिरूपविशेषणविशिष्यताया अपरिहारादखण्डत्वहानिरेव ।
सापि तथा चेत् अनवस्थितिः ब्रह्मज्ञानस्याव्यवस्थैवेति परिहारार्थः ।
न केवलं ब्रह्मणो निर्विशेषत्वे पदानां पौनरुक्त्यादि(कं) किन्नामैकस्यापि पदस्य तत्र प्रवृत्तिर्न भवेदित्याहयदीति ।
यदि सत्ये विशेषो न न तदुक्तिर्भवेत् तदा । (अनुव्याख्यानम्)३,२.१७४अब् ।
न्यायसुधा-
गुणकर्मादिनिमित्तमनालम्ब्य कस्यापि शब्दस्य प्रवृत्त्यभावादिति भावः ।
९,४८५
शङ्कतेलक्ष्यते चेतेनेति ।
लक्ष्यते चेत् तेन … । (अनुव्याख्यानम्)३,२.१७४च् ।
न्यायसुधा-
स्यादयं दोषो यदि ब्रह्म शब्दाभिधेयं स्यात् ।
नचैवम् ।
किन्तु तेन शब्देन लक्ष्यत एव ।
नहि लक्षणा गुणक्रियाद्यपेक्षा ।
तथात्वे खल्वभिधैव स्यादिति ।
परिहरतिलक्ष्यमिति ।
… लक्ष्यमित्यपि स्याद् विशेषिता । (अनुव्याख्यानम्)३,२.१७४च्द् ।
९,४८६
न्यायसुधा-
एवमङ्गीकारे ऽपि ब्रह्मणो लक्ष्यमिति विशेषिता स्यात् ।
लक्ष्यत्वं तावदपरिहायर्मित्यर्थः ।
उपलक्षणं चैतत् ।
मुख्यार्थयोगादिनापि विशेषिता स्यादेव ।
ननु लक्ष्यत्वमपि ब्रह्मणो नास्त्येव लक्ष्यमित्यपि लक्षणयैवोच्यते नाभिधानवृत्त्येति चेन्न ।
अत्रापि वाक्ये परेण लक्ष्यपदस्य प्रयोगाल्लक्ष्यत्वविशेषप्राप्तेः ।
तेनापि लक्ष्यमेवेति चेत्तत्राहपुनरिति ।
पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः । (अनुव्याख्यानम्)३,२.१७५अब् ।
न्यायसुधा-
लक्षणायामाश्रितायां सत्यामिति शेषः ।
शङ्कतेयदीति ।
यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते । (अनुव्याख्यानम्)३,२.१७५च्द् ।
न्यायसुधा-
ते मते इति शेषः ।
तृतीयार्थे ऽव्ययं वा ।
यदुक्तं मायाविशेषराहित्यविशेषणविशेषिता सत्यस्यापि भवेदिति ।
तन्नानिष्यम् ।
अभावरूपविशेषवत्त्वस्य मयाङ्गीकृतत्वात् ।
‘नेह नानास्ति’ इति श्रुतिः’इह भूतले घटो नास्ति’ इतिवदभावं ब्रह्मण्यङ्गीकरोत्येव ।
यच्चोक्तं न तदुक्तिर्भवेत्तदेति ।
तदप्यसत् ।
भावनिमित्ताभावे ऽप्यभावनिमित्तेन पदप्रवृत्त्युपपत्तेः ।
अभावधर्मवत्त्वस्य चाङ्गीकृतत्वात् ।
एतेन लक्ष्यमित्येतदपि निरस्तम् ।
लक्ष्यपदस्याप्यपोहवाचित्वोपपत्तेरिति भावः ।
९,४८७फ़्.
अत्र वक्तव्यं परमसिद्धान्तमखण्डत्वं परित्यज्याभावधर्मवत्त्वं कस्मादङ्गीकरोषीति ।
अथ ब्रूयात् ।
सत्यं ज्ञानमनन्तं विज्ञानमानन्दमित्यादिपदानि तावद्ब्रह्मणि श्रूयन्ते ।
नच तेषां विधिरूपो ऽर्थः स्वीकर्तुं शक्यः ।
नेह नानास्तीत्यादिश्रुतिविरोधात् ।
अभावधर्माङ्गीकारे च न विरोध इत्युक्तमिति ।
तत्राहअसार्वज्ञादीति ।
असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति । (अनुव्याख्यानम्)३,२.१७६अब् ।
न्यायसुधा-
ते अङ्गीकार्यमिति शेषः ।
यथा हि सत्यज्ञानादिपदानि ब्रह्मणि श्रूयन्ते, एवमेष सर्वज्ञः, एष सर्वेश्वरः, इति सार्वज्ञादिपदान्यपि ।
तथाच यथा तान्यनृतत्वाद्यभाववाचीन्येवमेतान्यपि असर्वज्ञत्वाद्यभाववाचितया (त्वया) अङ्गीकर्तव्यान्येव ।
ततश्च सत्यज्ञानादिवाक्यं तत्त्वावेदकं सार्वज्ञादिवाक्यं मायाशबलपरमिति विभागो न युक्त इति भावः ।
मा भूदयं विभागो ऽसार्वज्ञाद्यभावो ऽपि ब्रह्मण्यङ्गीक्रियत एवेत्यत आहतदेति ।
तदा सार्वज्ञ्यमेव स्याद् भावार्थत्वान्नञोर्द्वयोः । (अनुव्याख्यानम्)३,२.१७६च्द् ।
न्यायसुधा-
ब्रह्मण्यसार्वज्ञाद्यभावे ऽङ्गीकृते (सति) सावर्ज्ञादिभावधर्मा दुर्निवारा एव ।
कुतः ।
द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति न्यायादित्यर्थः ।
एतच्च चतुर्थे स्पष्टयिष्यते ।
९,४८९
असार्वज्ञादिराहित्यमप्येवं ते भविष्यतीत्युक्तानङ्गीकारे बाधकमाहयदीति ।
यदि नैतादृशं ग्राह्यम् … । (अनुव्याख्यानम्)३,२.१७७अ ।
न्यायसुधा-
सर्वज्ञादिपदं ब्रह्मणि श्रूयमाणमसार्वज्ञादिनिवृत्तिं बोधयतीत्येतादृशं प्रमेयं यदि न ग्राह्यं तदाऽनन्दपदमप्यसुखत्वं न निवर्तयेत्, सत्यपदं
चासत्यत्वम्, ज्ञानपदं चाज्ञानत्वम्, आत्मपदं चानात्मत्वम् ।
अविशेषादिति वाक्यशेषः ।
९,४९०
मा भूदानन्दादिपदानामसुखत्वादिव्यावर्तकत्वम् ।
को दोष इत्यत आहअसुखत्वेति ।
… असुखत्वानिवर्तनात् ।
असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा । (अनुव्याख्यानम्)३,२.१७७ब्द् ।
न्यायसुधा-
असत्त्वाज्ञानतादेश्चानिवर्तनादिति सम्बन्धः ।
अयम्भावः ।
ब्रह्मणि तावदसत्त्वादिकं प्रसक्तम् ।
तद्वयावर्तनाय सत्यज्ञानादिवाक्यानां प्रवृत्तिः ।
तान्यपि चेन्न तद्वयावर्तयन्ति तदा ब्रह्मणो ऽसत्त्वादिकं तात्त्विकमेवेत्यापन्नमिति ।
यद्वा यदि नैतादृशमित्यध्याहारेण विनैकमेव वाक्यं बुद्धया विविच्य तु योज्यमिति ।
९,४९१
शङ्कतेअनृतादीति ।
अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते । (अनुव्याख्यानम्)३,२.१७८अब् ।
न्यायसुधा-
अस्य सत्यत्वादेः ।
अयमर्थः ।
सत्यादिपदानि तावदापाततः सत्यत्वादिविशेषणानि समर्पयन्ति ।
तदनन्तरं तत्तद्विरोध्याकारनिवर्तकत्वेन पर्यवस्यन्ति ।
यथोक्तम्’प्रति(पा)पद्यपदार्थं हि विरोधात्तद्विरोधिनः ।
पश्चादभावं जानाति वध्यघातकवत्पदात्’ इति ।
सत्यत्वादिविशे(षणानां)षाणां चानृतत्वादिविरोधित्वं सुप्रसिद्धमिति कथं न तद्वयावृत्तिरिति ।
समवेतत्प्रकृते ऽपीत्याहअनैश्वर्येति ।
अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते । (अनुव्याख्यानम्)३,२.१७८च्द् ।
न्यायसुधा-
सर्वेश्वरादिपदसमर्पितस्यैश्वर्यादेरिति शेषः ।
९,४९२
उपसंहरतिअखण्डेति ।
अखण्डखण्डनादेवं विशेषोऽखण्डवादिना ।
खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः । (अनुव्याख्यानम्)३,२.१७९ ।
न्यायसुधा-
एव(यस्मादे)वमखण्डखण्डनादखण्डवादिनापीत्यन्वयः ।
अनन्यथागतेहे तोः, खण्डितेन उत्तरोत्प्रेक्षारहितेन ।
९,४९३
इदानीं भेदाभेदवादिनं विशेषमङ्गीकारयतिअखण्डेति ।
अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ।
महादरेण शिरसि विशेषो धार्य एव हि । (अनुव्याख्यानम्)३,२.१८० ।
न्यायसुधा-
यस्मादेवमखण्डवादिभ्यां विशेषो ऽङ्गीकार्यस्तत्तस्मादेव हि खण्डाखडेन खण्डाखण्डवादिना च विशेषो ऽङ्गीकार्य एव ।
कुन्ताः प्रविशन्तीतिवदुपलक्षणया अर्शआदिभ्यो ऽजिति वा खण्डाखण्डेनेति साधु ।
तथाहि ।
धर्मधर्मिणोर्भेदाभेदाविति वदता तौ किं ताभ्यामत्यन्तं भिन्नावङ्गीक्रियेते उतात्यन्ताभिन्नावथ भिन्नाभिन्नौ ।
नाद्यः ।
भेदानवस्थापत्तेः ।
भेदस्य स्वरूपत्वे च विशेषानङ्गीकारे तदीयत्वाद्यनुपपत्तेः ।
भेदाभेदयोरत्यन्तभिन्नयोः सम्बन्धाभावेन तदीयत्वानुपपत्तेश्च ।
न द्वितीयः ।
तदीयत्वाद्यनुपपत्तेश्च ।
भेदाभेदशब्दयोः पर्यायत्वापत्तेश्च ।
न तृतीयः ।
अनवस्थापत्तेः ।
क्वचिद्भेदाभेदयोरभेदे पूर्वदोषानुषङ्गात् ।
तस्माद्भेदाभेदवादिनापि क्वचिद्विशेषो ऽङ्गीकार्य इति ।
तदेवमुभयव्यपदेशान्यथानुपपत्त्या भगवद्धर्माणां सविशेषो ऽत्यन्ताभेद एवेति सिद्धम् ।
९,४९६
ननु नायं सूत्रकाराभिप्रायो भवितुमर्हति ।
तेनानेवंविधानामहिकुण्डलादीनां निदर्शनानामुपात्तत्वात् ।
अहेरवयवानामन्योन्यसंयोगविशेषो ह्यहिकुण्डलमित्युच्यते ।
स तावदहिना नात्यन्ताभिन्नः ।
प्रकाशश्च द्रव्यान्तरं न सूर्याभिन्न इत्यतः प्रकाशाश्रयवद्वेति निदर्शनमपि नात्यन्ताभेदोपयुक्तम् ।
कालस्य पूर्वत्वं नाम प्रध्वस्तक्रियासम्बन्ध इति न पूर्ववद्वेत्यपि प्रकृतानुगुणमित्यत आहनिदर्शनेति ।
निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ।
गुणानामादरेणाह … । (अनुव्याख्यानम्)३,२.१८१अच् ।
न्यायसुधा-
यत एवमर्थापत्त्या भगवद्गुणानां भगवता सविशेषो ऽत्यन्ताभेदः सिद्धो ऽत्र इत्यर्थः ।
अत्यभिन्नतां सविशेषाम् ।
निरवकाशप्रमाणानुसारेण निदर्शनत्रयमपि सविशेषाभेदोपयुक्तत्वेन सूत्रकारस्याभिमतं ज्ञातव्यमित्याशयः ।
तत्राहिकुण्डलं यद्यपि भेदाभेदवत्तथापि मन्दानामभेदे बुद्धिमवतारयितुमुपात्तम् ।
यथा पृथिव्यामोषधयः सम्भवन्तीति यथा ।
प्रकाशशब्देन च भास्वरं रूपं विवक्षितम् ।
तच्च यावद्रव्यभावित्वात्सूर्यमण्डलेनात्यन्ताभिन्नमेव ।
पूर्वत्वं च पूर्वकालसम्बन्ध इति सकललोकसिद्धमिति ।
नन्वेकेनैव निदर्शनेनालं किं त्रयेणेत्यत उक्तम्आदरेणेति ।
९,४९८
एवं साक्षादधिकरणार्थं व्याख्यायेदानीमनुषङ्गसिद्धमर्थं दर्शयतितच्चेति ।
… तच्च नाभिहितान्वयः । (अनुव्याख्यानम्)३,२.१८१द् ।
न्यायसुधा-
तस्मादेव भगवद्धर्माणां भगवता सविशेषाभेदस्य समर्थितत्वादेव पदाभिहितैः पदार्थैरन्वयबोध इत्येतन्मतं नेति लभ्यत इति शेषः ।
अभिहितान्वयग्रहणमुपलक्षणम् ।
वक्ष्यमाणान्विताभिधानव्यतिरिक्तानां सर्वेषामपि मतानामनुपपन्नत्वात् ।
यदि तर्ह्यभिहितान्वयवादो ऽनुपपन्नः ।
कः पन्थाः सूत्रकारस्याभिमतः ।
नहि निरुपायमन्वयज्ञानमिति सम्भवति ।
अन्विताभिधानमिति ब्रूमः ।
तत्राप्यस्ति विशेष इत्याशयेनाहयदेति ।
यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् ।
पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् । (अनुव्याख्यानम्)३,२.१८२ ।
न्यायसुधा-
यदाशब्दो यद्यर्थः ।
यद्यप्यशेषविशेषाणामित्यशेषविशेषान्वितस्येत्यर्थः ।
एकशब्दो मुख्यार्थः ।
पदेष्वेकं पदैकमा(द्ये न)द्यपदेनेत्यर्थः ।
कर्मधारयत्वे तु पूर्वकालैकेत्येकपदस्य पूर्वनिपातः स्यात् ।
आपं तथापि ।
उत्तरेण पदजातेनान्वयविशेषावगतिः ।
९,५०५
एतदुक्तं भवति ।
सत्यं ज्ञानमनन्तं ब्रह्म यः सर्वज्ञः सर्वविदित्यादिब्रह्मप्रतिपादकवाक्यगतानि सकलान्यपि पदान्यन्वितार्थाभिधायीनि ।
तत्र ब्रह्मपदं सत्यत्वसर्वज्ञत्वाद्यशेषविशेषान्वितं ब्रह्म प्रतिपादयति ।
नचैवं सत्यादिपदानां वैयर्थ्यम् ।
यतः सामान्यत एवान्विताभिधाने शक्तिः पदानां नान्वयविशेषाभिधाने ।
अतो ब्रह्मपदेन सामान्यतः समस्तयोग्यधर्मान्विते ब्रह्मणि प्रतीते सत्यत्वेनान्वितं ज्ञानत्वेनान्वितमिति विशेषान्वयप्रतिपत्त्यर्थानि
सत्यादिपदानीति ।
९,५०६
नन्वभिहितान्वयादिवादानामनुपपन्नत्वमन्विताभिधानस्योपपन्नत्वं च प्रथमसूत्रे सूत्रकारेणोक्तमेव ।
तत्किमत्राधिकरणसिद्धान्ततया तद्वर्णनेन ।
उच्यते ।
अतःशब्देन ह्यन्वयबोधे ऽस्त्युपाय इत्येतावन्मात्रं प्रतीयते ।
न पुनः पदान्येव न पदाभिहितार्थादीनीति विशेषः ।
तत्र व्याख्यातारं प्रति कुतो ऽयं सूत्रकृतो ऽभिप्राय इति भवत्येव परिचोदना ।
तत्समाधानाय चाधिकरणसिद्धान्तवर्णनमुपपन्नमेव ।
यद्यप्युपपन्नः सूत्रकाराभिप्राय इति शक्यते वक्तुम् ।
तथाप्यधिकरणसिद्धान्तवर्णनमिषेण तत्र सङ्क्षेपतो व्युत्पादितोपपत्तीनां प्रपञ्चाय प्रयत्नो ऽयमित्यदोषः ।
९,५०७
तदिति परामृष्टं हेतुं दर्शयतियत इति ।
यतो ऽशेषविशेषाणां वस्तुनास्त्येव चैकता ।
अतः … । (अनुव्याख्यानम्)३,२.१८३अच् ।
न्यायसुधा-
वस्तुना ब्रह्मणा ।
चशब्दाद्विशेषश्च ।
अतो नाभिहितान्वयादिवादाः किन्नामोक्तविधान्विताभिधानमिति शेषः ।
तथाहि ।
सत्यत्वादिधर्माणां तावद्ब्रह्मणात्यन्ताभेदः समर्थितः ।
ततो ब्रह्मवाचकस्य ब्रह्मपदस्य सत्यत्वादिवाचकत्वमावश्यकमेव ।
किन्त्वभेदे ऽन्वय एव नास्ति कुतस्तदभिधानं विशेषतो ऽभिधानप्रसङ्गश्चेत्यवशिष्यते ।
तत्र सविशेषत्वाङ्गीकार एव समाधिः ।
अभेदे ऽपि विशेषशक्त्यान्वितत्वस्य विशेषानभिदानस्य चोपपत्तिरिति ।
९,५०८
स्यादेतत् ।
अस्मिन्नन्विताभिधानवादे विशेषान्वयप्रतिपत्तिर्निर्निबन्धनैवापद्यते ।
सकलपदानां सामान्यतो ऽन्विताभिधाने सामर्थ्यात् ।
नचाद्यं पदं सामान्यतो ऽन्विताभिधाय्युत्तरं तु विशेषत इति वाच्यम् ।
आद्यत्वादेरव्यवस्थितत्वात् ।
वेदवाक्ये ऽपि हि क्वचिद्ब्रह्मपदमाद्यं क्वचिदुत्तरमित्यत आहसामान्यत इति ।
… सामान्यतो ज्ञातः पदान्तरबलात् पुनः ।
भवेद् विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता । (अनुव्याख्यानम्)३,२.१८३च्फ़् ।
न्यायसुधा-
एकैकशः पदैः सामान्यतो ऽन्विततया ज्ञातो ऽर्थः पुनः पदान्तरसन्निधानाहित(शक्ति)बलाद्विशेषतो ऽन्वितत्वेन ज्ञातो भवेत् ।
तेन कारणेन पदानामन्वितोक्तितान्विताभिधायिता स्यादुपपन्नेति शेषः ।
९,५१०
सविशेषाभेदसमर्थनेनोक्तप्रकारं पदानामन्विताभिधानं सिद्धमित्ययुक्तम् ।
अतिप्रसङ्गात् ।
रूपस्य हि घटेनाभेद इति त्वचा तस्मिन्गृहीते तदपि गृह्येत ।
अथाविशेषेण प्रतिबद्धं तद्ग्रहणमित्युच्यते ।
तर्ह्यत्रापि प्रतिबन्धः स्यात् ।
विशेषाभिधानं प्रतिबद्धमेवेति चेत् ।
सामान्याभिधानमपि कुतो न प्रतिबद्धम् ।
अथ सम्भावनैवैषोक्तेति मतं तदा नायमधिकरणसिद्धान्तः ।
एकस्य सिद्धावनुषङ्गी यो ऽर्थः सिद्धयति सो ऽधिकरणसिद्धान्तो न हि सम्भावनासिद्धिरित्यत आहस्वार्थ एवेति ।
[जोस्हि२०]
स्वार्थ एवान्वितो यस्मात् केनचित् तद्विशेषतः ।
अनेनेति तदुक्तयैव ज्ञायते ऽनुभवेन हि । (अनुव्याख्यानम्)३,२.१८४ ।
९,५१०फ़्.
न्यायसुधा-
यस्मात्केनचिदन्वित एव पदानां स्वार्थ इति, अनेन सत्यत्वेन ज्ञानत्वेन वान्वित इति, तद्विशेषतो धर्मविशेषेण अन्वयः तदुक्त्यैव
सत्यादिपदोक्त्यैव ज्ञायत इत्यनुभ(वेन)वसिद्धम् ।
तस्मादुक्तं युक्तमिति शेषः ।
प्रत्येकं पदानि सामान्यतो ऽन्विताभिधायीनि, विशेषतो ऽन्वितार्थप्रतीतिस्तु परस्परसन्निधानाहितशक्तिभिः
पदैर्भवतीत्येतदनुभवसिद्धमित्यर्थः ।
९,५११
एतदुक्तं भवति ।
अभेदेन तावद्विशेषाभिधानं प्राप्तं नच तदस्त्यनुभवविरोधात् ।
अतस्तत्प्र(ती)तिबन्धकत्वेन विशेषः कल्पनीयः ।
स च यथानुभवमेव स्वीकार्य इति नातिप्रसङ्ग कश्चिदिति ।
९,५१२
एवं प्रतिज्ञातमन्विताभिधानमुपपाद्य यदुक्तमभिहितान्वयादिपक्षाणामयुक्तत्वं तदन्विताभिधानानङ्गीकारे
बाधकप्रदर्शनमुखेनोपपादयतियदीति ।
यद्यनन्वितमेवैतत् पदं स्वार्थं वदेदिह ।
तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः । (अनुव्याख्यानम्)३,२.१८५ ।
न्यायसुधा-
एतद्ब्रह्मादिकमाद्यं पदम् ।
इह सत्यज्ञानादिवाक्ये ।
अन्यान्युत्तरा(ण्यपि)णि पदा(नि)न्यपि तथा यद्यनन्विता(न्येव)नेव स्वार्थान्वदेयुस्तर्ह्यन्वयमन्वयज्ञानं तु कः कुर्यात् ।
आद्यं पदमलब्धसहायं प्रथमं सामान्यतो ऽन्वितमभिधत्ते ।
उत्तराणि त्वादित एव लब्धसहायानि विशेषत एवान्विताभिधायीनि ।
तदिदं वैलक्षण्यं सूचयितुमेतदन्यानीति विभागेन ग्रहणम् ।
अन्यथा यदि वाक्यस्थानि समस्तानि पदानि नान्विताभिधायीनि किन्त्वनन्वितानेव स्वार्थानभिदधतीति, तर्ह्यन्वयज्ञानं
निर्निबन्धनमापद्येतेत्यवक्ष्यत् ।
एतदेव प्रपञ्चयतिव्यापार इति ।
व्यापारो नहि शब्दस्य परः स्वार्थप्रकाशनात् ।
पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत् । (अनुव्याख्यानम्)३,२.१८६ ।
अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न । (अनुव्याख्यानम्)३,२.१८७अब् ।
न्यायसुधा-
यदा यद्यस्यान्वयस्य शब्दार्थत्वं पदाभिधेयत्वं न स्यात्तर्ह्यन्वयस्य ज्ञानं कथं न कथञ्चित् ।
उपायान्तराभावात् ।
तथाहि अन्वयज्ञानात्पूर्वभावित्वेन वादिभिरङ्गीकृतत्वेन वा प्रसक्तानि तावदेतानि पदानि वा वक्ता वा पदैरभिहिताः पदार्था वा वाक्यं वा
वाक्यान्त्यवर्णो वा वर्णमाला वा स्फोटो वा श्रोता वेति ।
तत्र तावदन्विताभिधानानङ्गीकारे पदानामुपायत्वं नोपपद्यत इत्येतद्वयापारो न हीत्यर्धेनाह ।
शब्दस्य पदस्य, स्वार्थप्रकाशनादन्यो व्यापारो नास्तीति तावत्सुप्रसिद्धम् ।
अन्वयश्च न पदाभिधेयः ।
तत्कथं पदस्य तज्ज्ञानोपायत्वम् ।
वक्तुरपि तन्नास्तीत्याहपुमानपीति ।
९,५१३
यदा यस्मात्तस्मात्सो ऽपि नोपाय इति शेषः ।
एकवारग्रहणं तस्यात्यन्तव्यवहितत्वद्योतनार्थम् ।
सकृदुच्चारण एव तस्योपक्षीणत्वादिति ।
पदाभिहितानां पदार्थानामन्वयबोधकत्वपक्षे दोषमाहयदैवेति ।
यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत् । (अनुव्याख्यानम्)३,२.१८७च्द् ।
अनन्वितः स्याच्छब्दार्थो … । (अनुव्याख्यानम्)३,२.१८८अ ।
न्यायसुधा-
अनन्वितार्थस्यैवेति सम्बन्धः ।
जातावेकवचनम् ।
तैर्वाक्यस्थैः ।
यदि पदान्यनन्वितानेव स्वार्थान्प्रतिपाद्य निवर्तन्ते ।
ततः पदार्था एवाकाङ्क्षादिमन्तो ऽन्वयं बोधयन्ति ।
तर्ह्यनन्वित एव शब्दार्थः स्यात् ।
अन्वयस्य शाब्दत्वं न स्यादिति यावत् ।
पदार्थाख्यं प्रमाणान्तरं चाप(द्येत)द्यते ।
भवेदेतत् ।
यदि पदार्थानामेवान्वयबोधकत्वं ब्रूमः ।
न चैवम् ।
किन्नाम पदैरभिहितानाम् ।
तत्कथमन्वयस्याशाब्दत्वमित्यत आहनेति ।
… न तदर्थो हि सो ऽन्वयः । (अनुव्याख्यानम्)३,२.१८८ब् ।
न्यायसुधा-
स पदार्थैः प्रतिपादितो ऽन्वयस्तेषां पदानामर्थो न हीत्यर्थः ।
तथा सति प्रत्यक्षावगतधूमप्रतिपादितस्याग्नेः प्रत्यक्षप्रमेयत्वं स्यादिति भावः ।
९,५१४
अस्तु तर्हि वाक्यस्यान्वयबोधकत्वमिति पक्ष इत्यत आहनिराकाङ्क्षेति ।
निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः । (अनुव्याख्यानम्)३,२.१८८च्द् ।
न्यायसुधा-
पदानामन्विताभिधानसामथ्यर्मनङ्गीकुर्वता वाक्यस्यान्वयबोधकत्वमङ्गीकर्तुमशक्यम् ।
यतः पदान्येव वाक्यमिति बुधैरुच्यते ।
पदव्यतिरिक्तस्य वाक्यस्याभावादित्यर्थः ।
केचित्पदातिरिक्तमेव वाक्यं प्रतिपन्नास्तदूव्युदासाय बुधैरित्युक्तम् ।
तच्च निराकरिष्यते ।
गौरश्वः पुरुषो हस्तीत्यादिपदानां वाक्यत्वं मा भूदिति निराकाङ्क्षेत्युक्तम् ।
सन्निधानाभावे निराकाङ्क्षत्वमेव न निर्वहतीति निराकाङ्क्षत्वेनैव सन्निधानस्य लब्धत्वान्न पृ(तत्पृ)थगुक्तम् ।
अग्निना सिञ्चेदित्यादौ योग्यताभावे ऽप्यन्वयप्रतीतेः प्रकृतानुपयोगाद्योग्यतापि नोक्ता ।
९,५१६
नन्वेवं वदता भवतैव पदव्यतिरिक्तं वाक्यमङ्गीकृतम् ।
यथा खलु तन्तूनां विक्रियाविशेषः पटो न तन्तुमात्रम् ।
तथा पदानां यो निराकाङ्क्षतालक्षणो विक्रियाविशेषः स शक्यं, पदातिरिक्तमेवेत्यत आहतत्तदिति ।
तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा । (अनुव्याख्यानम्)३,२.१८९ ।
न्यायसुधा-
न तन्तूनां पट इव पदानां निराकाङ्क्षता विक्रिया ।
येन पदातिरिक्तं वाक्यं स्यात् ।
किन्नाम श्रोतृपुरुषधर्म एव ।
जिज्ञासा खल्वाकाङ्क्षा ।
निराकाङ्क्षता च निवृत्तजिज्ञासत्वम् ।
सा च निराकाङ्क्षता पदैः स्यादिति पदानि निराकाङ्क्षाणीत्युच्यन्ते ।
निराकाङ्क्षताकारित्वं च न पदानां विक्रियाविशेषः ।
जिज्ञासितार्थाभिधानमात्रेण तद्धेतुत्वात् ।
तस्य च स्वभावत्वात् ।
तथाच जिज्ञासितार्थानभिदधति जिज्ञासां निवर्तयन्ति पदानि निराकाङ्क्षाणीत्युक्तं भवति ।
९,५१७
जिज्ञासितार्थाभिधानेनैव श्रोतुर्निराकाङ्क्षता स्यादित्येतदुपपादयतिअपूर्तेरिति ।
अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते । (अनुव्याख्यानम्)३,२.१९०अब् ।
न्यायसुधा-
आनयेत्येवोक्ते गवादिपदप्रयोगात्पूर्वं, या किमि(त्यादि)तिजिज्ञासा (वर्तते) सा तावतां जिज्ञासितानामर्थानां
कर्मादीनामापूर्तेर्गवादिपदैरनभिधानादिति यावत् ।
एतदुक्तं भवति ।
शाब्दी जिज्ञासा यावत्पदानि जिज्ञासिता(नर्)थान्नाभिदधति तावन्न निवर्तते ।
निवर्तते च पदैस्तेष्वभिहितेष्वित्यतो ऽन्वयव्यतिरेकाभ्यां विज्ञायते तत्तदर्थाभिधानेनैव निराकाङ्क्षता स्यादिति ।
वाक्यान्त्यवर्णो वर्णमालेति पक्षद्वयमतिमन्दमिति न दूषितम् ।
तथाचोक्तं पुरस्तात् ।
अस्तु तर्हि निरस्तवर्णपदविभागं स्फोटाख्यं वाक्यमेवान्वयस्य प्रतिपादकम् ।
पदानि तु तदभिव्यञ्जकतयोपयुज्यन्त इति पक्ष इत्यत आहकर्मेति ।
९,५१८
कर्मकर्तृक्रियाणां तु पूर्तौ को ऽन्यो ऽन्वयो भवेत् । (अनुव्याख्यानम्)३,२.१९०च्द् ।
न्यायसुधा-
अत्र कर्मादिग्रहणमुपलक्षणम् ।
जिज्ञासितानां पदार्थानामित्यर्थः ।
अन्योन्यसंसृष्टानामिति शेषः ।
पूर्तावभिधाने सति पदैरिति शेषः ।
अन्वयो भवेत्प्रतिपादनीय इति शेषः ।
एतदुक्तं भवति ।
स्फोटमन्वयस्य प्रतिपादकं वदता तत्सद्भावे प्रमाणं वाच्यम् ।
अन्वयप्रतीत्यन्यथानुपपत्तिरिति चेन्न ।
पदानामेव संसृष्टार्थप्रतिपादकत्वसम्भवात् ।
नच तदतिरिक्तो ऽन्वयो नामास्ति प्रतिपादनीयो यदर्थं स्फोटान्वेषणमिति ।
एवमनङ्गीकारे बाधकमाहअपूर्तिरिति ।
अपूर्तिश्चेत् पदैरुक्तैः किं नृशृङ्गेण पूर्यते । (अनुव्याख्यानम्)३,२.१९१अब् ।
न्यायसुधा-
अन्वयस्यापूर्तिरनभिधानम् ।
उक्तैरिति पदानां प्रमितत्वमभिप्रैति ।
नृशृङ्गेण स्फोटेनेति तस्याप्रामाणिकत्वम् ।
नृशृङ्गतुल्येनेति पूर्यते ऽभिधीयते ऽन्वय इति शेषः ।
इदमुक्तं भवति ।
पदवादिनः कल्पनालाघवं प्रमितानां पदानामन्वितार्(था)भिधानस्य कल्पनात् ।
स्फोटवादिनस्तु गौरवम् ।
यतो निष्प्रमाणकः स्फोटस्तस्यान्वयप्रतिपादकत्वं चेति द्वयं कल्पनीयमिति ।
९,५२०
अस्तु तर्हि नवीनाभिहितान्वयपक्षः ।
यदि हि पदानि पदार्थान्प्रतिपाद्यैव निवर्तन्ते पदार्था एवान्वयं बोधयन्तीति मतं तदा स्यादेवोक्तदोषः ।
नचैवम् ।
किन्तु पदान्येव पदार्थप्रतिपादनावान्तरव्यापाराण्यन्वयं बोधयन्तीति ।
मैवम् ।
तथा सति पदानां विरम्यव्यापारप्रसङ्गात् ।
ततः को दोष इत्यत आहव्यापारश्चेदिति ।
व्यापारश्चेत् पुनस्तेषामनुक्तावपि किं न सः । (अनुव्याख्यानम्)३,२.१९१च्द् ।
न्यायसुधा-
अचेतनानामपि पदानां यदि पुनर्व्यापारो विरम्यव्यापारो ऽङ्गीक्रियते तदा पृच्छामो ऽनुक्तानामपि पदानां पदार्थादिप्रतिपादने व्यापारः कुतो न
भवतीति ।
उत्तरमाशङ्कतेउक्त इति ।
उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते । (अनुव्याख्यानम्)३,२.१९२अब् ।
न्यायसुधा-
भावे क्तप्रत्ययः ।
बुद्धिस्थता बुद्धिविषयता ।
पदानि हि ज्ञातकरणानि न तु चक्षुरादिवत्सत्तामात्रेण ।
उक्तिस्तु(श्च तज्ज्ञा)ज्ञानोपावय इत्यतो ऽनुक्तौ ज्ञातत्वाभावान्न व्यापार इत्याशयः ।
इति यदीष्यत इति सम्बन्धः ।
९,५२१
पुनः सिद्धान्ती पृच्छतिबुद्धिस्थत्वायेति ।
बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च । (अनुव्याख्यानम्)३,२.१९२च्द् ।
न्यायसुधा-
पदार्थबोधनादिव्यापाराय यत्पदानां ज्ञातत्वमावश्यकम्, तदर्थं तानि पदान्युक्तेः प्रागेव यत्नं कथं न कुर्युरिति च त्वां पृच्छामः ।
उक्तिं विनापि बुद्धिविषयतायै कुतो यत्नं न कुर्युरिति प्रश्नार्थः ।
यद्वा बुद्धिविषयत्वाय यदुच्चारणं तदर्थं तूष्णीं स्थितं कुतो न प्रेरयन्तीति ।
उत्तरं शङ्कतेपुरुषेति ।
पुरुषाधीनता तेषां यदि … । (अनुव्याख्यानम्)३,२.१९२ए ।
न्यायसुधा-
स्यादेतद्यदि पदानि चेतनानि स्युः ।
नचैवम् ।
अतो वक्तृपुरुषायत्तान्येव ।
स यदोच्चारणेन व्यनक्ति तदा श्रोतृबुद्धिस्थानि भूत्वा पदार्थप्रतिपादनादिव्यापारवन्ति भवन्ति ।
नतु स्वयं किमपि कुर्वन्तीति ।
एवं तर्ह्यन्वयबोधनरूपो ऽपि विरम्यव्यापारो न तेषामुपपद्यत इत्याहपश्चाच्चेति ।
… पश्चाच्च सा समा । (अनुव्याख्यानम्)३,२.१९२फ़् ।
न्यायसुधा-
पश्चादन्वयबोधने सा पुरुषाधीनता ।
एतदुक्तं भवति ।
चैतन्ये हि पदानामन्वयबोधनाय समभिव्याहृतानामस्माकं न पदार्थप्रतिपादनमात्रेण कृतार्थता ।
अतो ऽन्वयो ऽप्यस्माभिः प्रतिपादनीय इति विमृश्य विरम्यव्यापारो युज्यते ।
न चैवम् ।
अन्यथोक्त एवातिप्रसङ्ग इति ।
श्रोतान्वयज्ञाने कारणमिति तु स्यात् ।
किन्तु कर्तैव ।
तस्य कारणं तु विचार्यते ।
९,५२२
अनन्विताभिधायीनि पदान्येव करणीकृत्य श्रोता तत्स्मारितानामर्थानामन्वयज्ञानाय यतत इति चेत्तत्राहपुमानेवेति ।
पुमानेवान्वयायैषां पश्चाद् यदि विचेष्यते ।
अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।
यततां … । (अनुव्याख्यानम्)३,२.१९३अए ।
न्यायसुधा-
अन्वयशब्देन तज्ज्ञानमुपलक्ष्यते ।
पश्चात् पदैः पदार्थस्मरणानन्तरम् ।
अनन्विताभिधानानां साहाय्येनेति शेषः ।
सः पुमानेव ।
उक्तिशब्दस्तत्कार्यज्ञानोपलक्षणः ।
अन्वयानभिधायिभिरपि पदैर्यद्यन्वयं प्रतिपद्यते, तदा गवादिपदैरश्वादिकमपि प्रतिपद्येतेत्यर्थः ।
शङ्कतेशब्देति ।
… शब्दशक्तिश्चेत् तत्र नैव … । (अनुव्याख्यानम्)३,२.१९३एफ़् ।
न्यायसुधा-
गवादिपदानामश्वादौ शक्तिरेव नास्ति तत्कथं तैस्तत्प्रतिपद्यताम् ।
न (हि) चक्षुषा शब्दं प्रतिपाद्यत इति चेदित्यर्थः ।
तर्हि समं प्रकृते ऽपीत्याहअन्वये कथमिति ।
… अन्वये कथम् । (अनुव्याख्यानम्)३,२.१९३फ़् ।
न्यायसुधा-
अन्वये शक्तिरहितैस्तैः कथमन्वयज्ञानाय यतेतेत्यर्थः ।
९,५२३
यद्यनन्वितमित्यादिनोक्तमर्थमुपसंहरतितदिति ।
तत्कल्पनागुरुत्वादिदोषेतो ऽभिहितान्वयः ।
अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः । (अनुव्याख्यानम्)३,२.१९४ ।
न्यायसुधा-
तत् तस्मात् ।
तस्यैव विवरणं कल्पनेत्यादि ।
कल्पनागौरवं प्रथमसूत्रेण व्युत्पादितम् ।
अभिहितान्वय इत्युक्तसमस्तपक्षोपलक्षणम् ।
कथमनुभूतिविरोध इत्यत आहकर्तृशब्दे हीति ।
कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।
विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति । (अनुव्याख्यानम्)३,२.१९५ ।
न्यायसुधा-
कर्तृग्रहणं सम्बन्धिमात्रोपलक्षणम् ।
विशेषधर्ममिति तज्ज्ञानम् ।
देवदत्तेनेति कर्तृवाचिनि शब्दे प्रयुक्ते श्रोता किमिति पृच्छतीति तावदविवादम् ।
स च पचनादिधर्मविशेषज्ञानमि(मन्वि)च्छन्नेव पृच्छति ।
विशेषजिज्ञासा च धर्मसामान्यज्ञानादेव ।
नच तदा तस्य धर्मसामान्यज्ञानोपायो ऽस्त्यन्यः पदात् ।
अतः पदेन धर्मसामान्यान्वितं वस्तु प्रतिपादितमिति ज्ञायते ।
किमिति प्रश्नो विशेषजिज्ञासयेत्येतत्कुत इत्यत आहगुणेति ।
गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।
निराकाङ्क्षो भवेद्यस्माच् … । (अनुव्याख्यानम्)३,२.१९६अच् ।
न्यायसुधा-
निराकाङ्क्षो निवृत्तजिज्ञासः ।
तस्माद्विशेषधर्ममन्विच्छक्तिमित्येव हि पृच्छतीति सम्बन्धः ।
एतदुक्तं भवति ।
कर्त्रादिपदश्रवणानन्तरभावी किमित्यादिप्रश्नो जिज्ञासामूलः ।
प्रश्नत्वात्सम्मतवत् ।
सा च जिज्ञासा धर्मविशेषविषया ।
तदुक्त्या निवर्तमानत्वा(त्समत्मत)त्सम्प्रतिपन्नवत् ।
विशेषजिज्ञासा च धर्मसामान्यज्ञानपूविर्का विशेषजिज्ञासात्वात्सम्मतवत् ।
सामान्यज्ञानं चेदमेतत्पदजन्यं तदनन्तरभावित्वात्सम्मतवदिति ।
पदेन पदार्थमात्रे ऽभिहिते अविनाभावबलेन धर्मसामान्यज्ञानमिति चेन्न ।
दृष्टपदपरित्यागेनादृष्टानुमानकल्पनानुपपत्तेरिति ।
एतेन विशेषान्विताभिधानपक्षो ऽपि परास्तः ।
९,५२४
अभिहितान्वयादिपक्षाणां त्याज्यत्वे प्रकृते किमायातमित्यत आहशब्दा इति ।
… छब्दा अन्वितवाचकाः । (अनुव्याख्यानम्)३,२.१९६द् ।
न्यायसुधा-
सर्वे ऽपि शब्दाः सामान्येनान्वित(स्व)स्वार्थवाचका इत्येष एव पक्षा ग्राह्य इत्यर्थः ।
९,५२५
अधिकरणस्य साक्षात्प्रतिपाद्यमर्तमुपसंहरतिअत इति ।
अतो ऽनन्तगुणात्मैको भगवान् … । (अनुव्याख्यानम्)३,२.१९७अब् ।
न्यायसुधा-
अनन्तगुणात्मकत्वे ऽपि न तस्यैक्यं विहन्यते, नाप्येकेनाभिन्नानामनन्तत्वं गुणत्वं चेत्यर्थः ।
तच्चेत्यानुषङ्गिक(मर्थ)मुपसंहरतिएक एवेति ।
… एक एव तु ।
उच्यते सर्ववेदैश्च … । (अनुव्याख्यानम्)३,२.१९७ब्च् ।
न्यायसुधा-
तुशब्देन सकलधर्मान्वित इति सूचयति ।
। इति श्रीमन्न्यायसुधायां उभयव्यपदेशाधिकणम् ।


__