११ अव्यक्ताधिकरणम्

। अथ अव्यक्ताधिकरणम् ।
। ओं तदव्यक्तमाह हि ओं ।
अत्र परमात्मनो ऽव्यक्तत्वमादौ विस्तरेण समर्थितम् ।
ततस्तर्हि भक्त्यादिसाधनवैयर्थ्यमित्याशङ्कय’प्रकाशश्च कर्मण्यभासात्’ इति दृश्यत्वं चोक्तम् ।
तदेतदुभयं विरुद्धमित्याशङ्कय अतो ऽनन्तेन तथा हि लिङ्गमिति सूत्रितम् ।
अत्र विरोधशान्तिर्न स्फुटा प्रतीयत इत्यतस्तस्य तात्पर्यमाहअव्यक्तो ऽपीति ।
तदव्यक्तमाह हि । ब्ब्स्_३,२.२३ ।
अव्यक्तो ऽपि स्वक्तयैव भक्तानां दृश्यते हरिः । (अनुव्याख्यानम्)३,२.१५७च्द् ।
न्यायसुधा-
। इति अव्यक्ताधिकरणम् ।


__
९,४५३