। अथ श्रीमन्न्यासुधायां पालकत्वाधिकरणम् ।
। ओं प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः ओं ।
अत्र पूवर्पक्षप्रदर्शनपरं भाष्यं’सृष्टिसंहारकर्तृत्वमेवास्य न पालकत्वम् ।
स्वतः सिद्धेरिति ।
तदयुक्तम् ।
सृष्टिसंहारकर्तृत्वाभ्युपगमस्य व्यर्थत्वात् ।
स्वतः सिद्धेरित्यत्रास्येत्यप्रतीतेश्च ।
स्थितेरित्यध्याहारे ऽपि स्वभाववादाश्रयणस्य सृष्टिसंहारयोरपि साम्येन तत्कर्तृत्वाभ्युपगमानुपपत्तेरित्यतः पूर्वपक्षं विशदयतिसृष्टीति ।
… सृष्टिनाशौ तदधीनावितीरिते ।
स्वभावत्वात् स्थितेर्नैतदपेक्षा … । (अनुव्याख्यानम्)३,२.१५६द्फ़् ।
न्यायसुधा-
इति ईरिते सिद्धान्तिनाभ्युपगते सति ।
ततश्चायमर्थः ।
ईश्वरस्य पालकत्वं नोपपद्यते स्थितेस्तत्प्रयोजनत्वात् ।
तस्याश्च स्वभावसिद्धत्वेनेश्वरानपेक्षत्वात् ।
ईश्वर एव हि विश्वस्य सृष्टिसंहारयोः कर्ता नान्य इत्यभ्युपगतम् ।
तथाच सृष्ट्वा यावन्न संहरेत्तावत्स्थितिः स्वभावसिद्धैव न परव्यापारमपेक्षते ।
यदि खलु सृष्टिसंहारयोः कर्ताऽन्यः स्यात्तदोदासीनस्य तस्य सृष्टौ प्रेरणाद्यर्थं संहारे प्रवृत्तस्य निवारणार्थं च स्थितावीश्वरापेक्षा सम्भवेत् ।
नच तदस्ति ।
अतः संहारोदासीनत्वातिरिक्तं पालकत्वं नोपपद्यत इत्येवमत्र पूर्वपक्ष इति ।
एवं तर्हि सिद्धान्तो न युक्तः ।
स्वभावत्त्वयुक्तेरपरिहृतत्वादित्यतः सूत्राभिप्रायमाहइति नेति ।
… इति न युज्यते । (अनुव्याख्यानम्)३,२.१५६ ।
यतः स्वभावो ऽखिल ईशायत्तो ऽखिलस्य च । (अनुव्याख्यानम्)३,२.१५७अब् ।
९,४५०फ़्.
न्यायसुधा-
परानपेक्षतया प्रतीयमानं स्वरूपं धर्मो वा स्वभाव इत्युच्यते ।
स सर्वेषां पदार्थानाम् ।
(स) सर्वो ऽपीशायत्त एव ।
अन्यथा तेषां स्वातन्त्र्यप्रसङ्गेनास्येशत्वानुपपत्तेः ।
सर्वं खल्वित्यादिश्रुतिविरोधापत्तेश्च ।
अन्नदानादौ व्यापारश्च स्फुट एवेति ।
। इति पालकत्वाधिकरणम् ।
__
९,४५२