। अथ स्थानविशेषाधिकरणम् ।
। ओं स्थाननिशेषात्प्रकाशादिवत् ओं ।
(ओं उपपत्तेश्च ओं) ।
यद्यप्येतदधिकरणं परमत इत्यतो ऽनन्तरम् ।
तथापि तेनेवानेनापि सङ्गतिरस्य ।
अनेन विषयोपक्षेपात्तेन पूर्वपक्षोपपत्तिदर्शनात् ।
यद्वानेन पूर्वपक्षयुक्त्युत्थानात्तेन विषयोपक्षेपात् ।
तथाहि ।
न ब्रह्मादीनामानन्दस्य तारतम्यमुपपद्यते ।
भगवदानन्दप्रतिबिम्बत्वाभ्युपगमात् ।
बिम्बे च तारतम्याभावस्य न स्थानतो ऽपीत्युक्तत्वात् ।
अन्यथाऽकस्मिकत्वप्रसङ्गादिति ।
यद्वा न ब्रह्मा(द्या)दीनामानन्दो भगवदानन्दप्रतिबिम्बः ।
परस्परं विभिन्न(चित्र)त्वात् ।
बिम्बाभिमते च वैचित्र्याभावादिति ।
अतो ऽत्रेदं विशदयतिप्रतिबिम्बवदिति ।
स्थानविशेषात्प्रकाशादिवत् । ब्ब्स्_३,२.३४ ।
प्रतिबिम्बवदप्येषामानन्दो ऽन्यगुणा यथा । (अनुव्याख्यानम्)३,२.१५४अब् ।
न्यायसुधा-
यद्येप्येषां ब्रह्मादीनामानन्दः प्रतिबिम्बवत् ।
प्रसिद्धप्रतिबिम्बैस्तुल्यं वर्तते ।
भगवदानन्दप्रतिबिम्बो भवतीति यावत् ।
तथापि परस्परं विचित्रो भवतीति शेषः ।
कथम् ।
अन्येषां साधनभूतानामुपाधिगुणानां भक्त्यादीनां वैचित्र्यानतिक्रमेण ।
तत्र दृष्टान्तः प्रतिबिम्बवदिति ।
यथा सूर्यादिप्रतिबिम्बानां सूर्यकान्तजलादिगतायां सूर्यादिबिम्बवैचित्र्याभावे ऽपि सूर्यकान्तादिस्थानगुणवैचित्र्याद्वैचित्र्यं तथेत्यर्थः ।
९,४४८
वैचित्र्ये हेत्वन्तरमाहनारायणेति ।
उपपत्तेश् च । ब्ब्स्_३,२.३५ ।
नारायणगुणाधीनश्च … । (अनुव्याख्यानम्)३,२.१५४च् ।
न्यायसुधा-
बिम्बशक्त्या च विचित्र इत्यर्थः ।
स्थानगुणस्य बिम्बसामर्थ्यस्य च प्रयोजकत्वं न्यायविवरणे व्युत्पादितम् अनेनोपपत्तेश्चेति सूत्रं व्याख्यातं भवति ।
बिम्बप्रतिबिम्बयोरैक्यं केचिदिच्छन्ति ।
अतः प्रतिबिम्बत्वं व्याख्या(तं)ति नारायणेति ।
गुण आनन्दः ।
चशब्देन तत्सदृशश्चेति ग्राह्यम् ।
बिम्बाभिन्न एव किन्न भवतीत्यत आहअत्यल्प इति ।
… अत्यल्पस्तदपेक्षया । (अनुव्याख्यानम्)३,२.१५४द् ।
तस्माद् भिन्नश्च सततमन्यज्ज्ञानं परस्य च । (अनुव्याख्यानम्)३,२.१५५अब् ।
न्यायसुधा-
चो हेतौ ।
यस्मात्तदपेक्षयात्यल्पस्तस्मात्सततं भिन्न इति ।
तदपेक्षयात्यल्पत्वं कुत इत्याकाङ्क्षां परिहरन्नत्र श्रुतिमाहअन्यदिति ।
अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता । (अनुव्याख्यानम्)३,२.१५५च्द् ।
मुख्येशता परेशस्य गौणी जीवस्य सा यतः ।
इति श्रुतेः … । (अनुव्याख्यानम्)३,२.१५६अच् ।
न्यायसुधा-
अन्य आनन्दः परस्य जीवानां चेति सम्बन्धः ।
एवमीशतेत्यपि योज्यम् ।
मुख्येशतेत्युपलक्षणया हेतुमाह ।
इति श्रुतेरिति पूर्वेण सम्बन्धः ।
। इति स्थानविशेषाधिकरणम् ।
[जोस्हि१९]
__
९,४५०