। अथ वृद्धिह्रासाधिकरणम् ।
। ओं वृद्धिह्रासभाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम् ओं ।
यदर्थं भगवन्महिमात्रोच्यते सा भक्तिः पुरुषेषु तारतम्येन तिष्ठतीत्येतदिहोपपाद्यते ।
तथाहि ।
अस्ति भक्तेर्वृद्धिह्रासभाक्त्व(मिति)म् ।
कुतः ।
ब्रह्मादीनामस्मदादीनां च भक्तत्वेऽन्तर्भावात् ।
एवं भक्तितारतम्येऽङ्गीकृते एवेश्वरस्योभयान्प्रति सामञ्जस्यसम्भवादिति ।
तदेतदसङ्गतम् ।
युक्तेः प्रतिज्ञातार्थेन सह स्म्बन्धाप्रतीतेरि(त्यत)ति तत्र आह तद्भक्तीति ।
९,४४५
वृद्धिह्रासभाक्त्वम् अन्तर्भावाद् उभयसामञ्जस्याद् एवम् । ब्ब्स्_३,२.२० ।
तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।
ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् । (अनुव्याख्यानम्)३,२.१५३ ।
न्यायसुधा-
ब्रह्मादीनां चशब्दादस्मदादीनामित्येवं सर्वेषां यथाक्रमं श्रौतक्रमानतिरेकेण यद्विमुक्तिगमानन्दादेस्तारतम्यं तद्भगवद्भक्तितारतम्येनैव
भवतीत्यर्थः ।
एतदुक्तं भवति ।
साधितं तावन्मौक्तस्यानन्दादेः फलस्य भक्तिसाध्यत्वमम्बुवदग्रहणात्तु न तथात्वमिति सूत्रेण ।
तच्चाथात आनन्दस्य मीमांसेत्यादिश्रुत्या तारतम्यवदवगम्यते ।
साध्यतारतम्ये च साधनतारतम्यमावश्यकम् ।
अन्यथा तस्याकस्मिकत्वप्रसङ्गात् ।
फलदातुरीश्वरस्यासामञ्जस्यप्रसक्तेश्च ।
न चैवम् ।
अतोऽस्ति भक्तेर्वृद्धिह्रासभाक्त्वम् इति ।
। इति वृद्धिह्रासाधिकरणम् ।
__
९,४४६