०७ अरूपाधिकरणम्

। अथ श्रीमन्न्यायसुधायां अरूपाधिकरणम् ।
। ओं अरूपवदेव हि तत्प्रधानत्वात् ओं ।
अत्राधिकरणे प्रथमसूत्रेण ब्रह्मणो रूपराहित्यमुपपाद्य प्रकाशवच्चावैयर्थ्यमिति (द्वितीय)सूत्रेण रूपवत्त्वविषयाणां श्रुतीनां वैयर्थ्यमाशङ्कय
विलक्षणरूपवत्त्वाङ्गीकारेण परिहृतम् ।
विलक्षणरूपवत्त्वं च,’आह च तन्मात्रम्ऽ‘दर्शयति चाथो ऽपि स्मर्यते’ इति सूत्रद्वयेन समर्थितमिति भाष्येण प्रतीयते ।
तदनुपपन्नम् ।
अन्ततो रूपवत्त्वाङ्गीकारे ऽरूपवदेव हि तदित्यस्यावक्तव्यत्वापातात् ।
प्रयोजनाभावाच्चास्य विचारस्येत्यतश्चतुःसूत्र्यास्तात्पर्यमाहस चेति ।
अरूपवद् एव हि तत्प्रधानत्वात् । ब्ब्स्_३,२.१४ ।
स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् ।
रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते । (अनुव्याख्यानम्)३,२.१५१ ।
न्यायसुधा-
स परमात्मा ।
प्रकृतिशब्दो ऽन्येषामपि तत्त्वानामुपलक्षकः ।
अप्राकृतरूपत्वात् ।
प्राकृतरूपरहितत्वात् ।
गुणात्मकमित्युक्ते सत्त्वादीनां प्रतीतिः स्यात् ।
तन्निरासार्थं स्वशब्दः ।
ये परमात्मनः स्वरूपभूता गुणा आनन्दाद्यास्तदात्मकमिति ।
रूपशब्देन च शुक्लादिगुणप्रतीतिः स्यात् ।
अतः शिरःपाणीति विवरणं कृतम् ।
अतो रूपवांश्चेति शेषः ।
विचारप्रयोजनं दर्शयतिअत इति ।
९,४४१
अतो नानित्यता नैव श्रुतिद्वयविरोधिता । (अनुव्याख्यानम्)३,२.१५२अब् ।
न्यायसुधा-
अनित्यता जन्ममरणवत्ता ।
नापि सौन्दर्याद्यभाव इति च द्रष्टव्यम् ।
तथाच तस्मिन्भक्तिरुपपन्नेति शेषः ।
९,४४२फ़्.
यद्यपि परमात्मनो रूपं कथं तर्हि तस्य प्रसिद्धवैलक्षण्यमात्रेणारूपत्वव्यवहार इत्याशङ्कापरिहारार्थत्वेन प्रकाशवदिति सूत्रावयवो भाष्ये
व्याख्यातः ।
इदानीं यदीश्वररूपं लोकविलक्षणं तदा तत्र रूपशब्द(प्र)वृत्तिर्दुर्घटा स्यात् ।
सम्बन्धग्रहणानुपपत्तेः ।
तथाच रूपवत्त्वश्रुतीनां वैयर्थ्यं दुष्परिहरमित्याशङ्कापरिहारार्थत्वेनापि व्याचष्टेयथा हीति ।
यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि ।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा । (अनुव्याख्यानम्)३,२.१५२च्फ़् ।
न्यायसुधा-
तैजसस्यैव प्रकाशस्येत्येतत्तैजस एव हि सौरादिरालोकः प्रकाशशब्दवाच्यः प्रसिद्धस्तस्येति व्याख्येयम् ।
उज्खितावपि परमेश्वरस्य तत्त्वाभावे ऽपीति यावत् ।
आत्मैवास्य ज्योतिर्भवति इति श्रुतिर्जीवस्येशं प्रकाशमाहेत्यर्थः ।
तथा लोकविलक्षणे ऽपि भगवद्रूपे रूपशब्दप्रवृत्तिर्युक्तेति शेषः ।
उपपत्तिस्तु’परमते’ इत्यत्र वक्षमाणात्रा(प्य)नुसन्देयेति ।
९,४४३फ़्.
नन्वेतदधिकरणं’अत एव च(चोपमा)’ इति सूत्रात्पूर्वम् ।
तत्कथं पश्चाद्वयाख्यानम् ।
उच्यते ।
अत एवे(चे)ति सूत्रं’न स्थानतो ऽपि’ इत्यधिकरणेन सङ्गतमिति ज्ञापनाय क्रमभेदः ।
तत्सिद्धा(मर्)थमुपजीव्य पूर्वपक्षोत्थानात् ।
तथाच भाष्यम्’यस्मादेवम्’ इत्यादि ।
अत्रापि’ईशरूपेषु’ इत्यादि ।
अथ तदनन्तरमेव किन्न कृतमरूपवत्त्वाधिकरणार्थस्यात एव चेति सूत्रार्थं प्रति हेतुत्वेनोपोद्घातलक्षणया सङ्गत्या वर्णितस्याव्यवधायकत्वात् ।
हेतुत्वमपि प्रपञ्चयितुमाचार्येण’स चाप्रकृतरूपत्वादिति चशब्दो निबद्धः ।
कालत्रये ऽप्यशरीरात्परमात्मनो जीवस्यात्यन्ताभेद एव ह्युपपन्न इति ।
। इति अरूपाधिकरणम् ।


__
९,४४४