०६ उपमाधिकरणम्

। अथ उपमाधिकरणम् ।
। ओं अत एव चोपमा सूर्यकादिवत् ओं ।
इह परमेश्वरे जीवस्यात्यन्तिकभक्तिसिद्धये भेदाभेदमतं निराक्रियते ।
तथाहि ।
जीवब्रह्मणोर्भेदस्तावत्सिद्धान्तिनाङ्गीक्रियत एव ।
अभेदस्त्वनुमानतः सिद्धः ।
जीवो ब्रह्माभिन्नश्चेतनत्वाद्ब्रह्मवतः, ब्रह्मांशत्वात् ।
यो यदंशः स तदभिन्नो यथेश्वरांशा मत्स्यादिस्तदभिन्न इति ।
अतो भिन्नाभिन्ना ब्रह्मणा जीव इत्येवं प्राप्ते प्रतिविहितं सूत्रकृता सूर्यकादिवदिति सूत्रखण्डेन ।
तदेतद्दृष्टान्तवचनमात्रं न कस्यचिदर्थस्य साधकं बाधकं वेत्यतः पूवर्पक्षनिषेधपूर्वकं प्रतिज्ञाहेतू दर्शयतिनचेति ।
अत एव चोपमा सूर्यकादिवत् । ब्ब्स्_३,२.१८ ।
न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।
यत आभासतामेव श्रुतिरस्य वदत्यलम् । (अनुव्याख्यानम्)३,२.११४ ।
न्यायसुधा-
चित्त्वादित्यंशत्वस्याप्युपलक्षणम् ।
अभिन्नत्वं ब्रह्मणेति शेषः ।
ईशवत् ब्रह्मवदीश्वरावतारवच्च ।
आप्यते युज्यते ।
अस्य जीवस्य ।
अस्य ब्रह्मण आभासताम् ।
एवेत्यविगानेनालं विस्पष्टम् ।
एतदुक्तं भवति ।
न चेतनत्वाद्यनुमानेन जीवस्य ब्रह्माभेदसाधनं युक्तम् ।
जीवो ब्रह्माभिन्नो न भवति तदाभासत्वाद्यो यदाभासो नासौ तदभिन्नो यथासूर्यकादिः सूर्यादिनेत्यनुमानविरोधात् ।
न चासिद्धो हेतुर्विस्पष्टश्रुतिसिद्धत्वादिति ।
९,३७५
कासौ श्रुतिरित्यतस्तामुदाहरतियथेति ।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् । (अनुव्याख्यानम्)३,२.११५अब् ।
न्यायसुधा-
छायाऽतता तथैतस्मिन्परमात्मन्येतज्जीवजातमाततमायत्तमिति यावत् ।
एतदेव विशदश्रुतिभ्यां दर्शयतिछायेति ।
छाया यथा पुंसदृशा पुमाधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः । (अनुव्याख्यानम्)३,२.११५च्फ़् ।
सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।
आभास एव पुरुषा मुक्ताश्च परमात्मनः । (अनुव्याख्यानम्)३,२.११६ ।
९,३७६
न्यायसुधा-
आत्मका अल्पचेतनाः ।
पुरुषाः संसारिणः ।
तदधीनत्वादिकमेवाभासत्वमिति वक्ष्यति ।
परमेश्वराभासत्वं (न सर्वेषां सा) च साक्षात्किन्तु पारम्पर्येणेति स्वरूपकथनाय श्रुतिद्वयं पठतिछाया विष्णोरिति ।
छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।
तस्येन्द्रकामौ च तयोस्तयोरन्ये ऽखिला अपि । (अनुव्याख्यानम्)३,२.११७ ।
हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।
मारश्चाभासकाः सर्व एतयोस्तदधीनतः । (अनुव्याख्यानम्)३,२.११८ ।
सर्वे ऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।
चेतनत्वे ऽपि भिन्नास्ते तस्मादेतेन सर्वदा । (अनुव्याख्यानम्)३,२.११९अद् ।
न्यायसुधा-
छायेव छाया ।
विशेषकौ गरुडशेषौ ।
तस्य धातुश्छाये तयोः गरुडशेषयोः ।
पुनस्तयोरिन्द्रकामयोः ।
हरेर्ब्रह्मा ।
अभास इति सर्वत्र सम्बन्धः ।
आभासत्वव्याख्यानं तदधीनत इति ।
सर्व इत्यनेन सर्वेषां परमेश्वराभासत्वमुपपादयति ।
चशब्दो हरिस्त्विति तुशब्दार्थः ।
आभासात्वे किमित्यत उक्तम्चेतनत्वे ऽपीति ।
अत्रापि तदंश(त्वस्योप)त्वोपलक्षणम् ।
तस्मात् आभासत्वात् ।
सर्वदेत्यनेन भिन्ना एवेत्यवधारणं सूचयति ।
उदाहृतश्रुतीनां फलमाहइत्यादीति ।
इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि । (अनुव्याख्यानम्)३,२.११९एफ़् ।
न्यायसुधा-
जीवस्य परमेश्वराभासत्वं ज्ञायते तेनात्यन्तभेदश्च ज्ञायत इत्यर्थः ।
न परानुमानयोः सत्प्रतिपक्षत्वमुच्यते ।
किन्त्वस्मदीयानुमानस्य श्रौतत्वेन प्रबलत्वाद्बाधितत्वमिति भावः ।
९,३७८
इदानीं’अत एव चोपमा’ इति सूत्रावयवं व्याख्यातुं तन्निवर्तनीयामाशङ्कामाहआभासत्वं हीति ।
आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।
तन्न युक्तं … । (अनुव्याख्यानम्)३,२.१२०अच् ।
न्यायसुधा-
यज्जीवस्य परमात्मन आभासत्वं श्रुतिबलेन निर्णीतं तद्युक्तिविरुद्धम् ।
नहि निरवकाशयुक्तिविरुद्धो ऽर्थः श्रुत्यापि प्रतिपादयितुं शक्यते ।
तथा सत्यभिमान्यधिकरणानारम्भप्रसङ्गात् ।
अतः सा कथञ्चिद्योजनीयेति ।
कथं न युक्तमित्यत आहयदिति ।
… यदाभास उपाध्यायत्त ईयते । (अनुव्याख्यानम्)३,२.१२०च्द् ।
न्यायसुधा-
यस्मादाभासः सूर्यकादिर्जलाद्युपाध्यायत्तो ज्ञायते ।
आभासत्वस्योपाध्यायत्तत्वं व्यापकत्वेन सर्वत्र निश्चितमित्यर्थः ।
तथापि कुतो न युक्तमित्यत आहउपाधीति ।
उपाध्यायत्तताभावाद् … । (अनुव्याख्यानम्)३,२.१२१अ ।
न्यायसुधा-
जीवानामिति शेषः ।
व्यापकस्योपाध्यायत्तत्वस्य जीवेष्वभावाद्वयाप्यमप्याभासत्वं न युक्तम् ।
ततो हेतोरसिद्धेर्दुष्यमनुमानम् ।
इतश्च दुष्यमित्याहआभासत्वेति ।
… आभासत्वविरोधतः । (अनुव्याख्यानम्)३,२.१२१ब् ।
न्यायसुधा-
आभासत्वस्य भिन्नत्वेन विरोधतश्चानुमानं दुष्यम् ।
तथाहि ।
दर्पणादिना सन्निकृष्टाः प्रतिहताः परावृत्ता नायनरश्मयो मुखेन सन्निकृष्टास्तदेव विषयीकुर्वन्ति ।
नतु ततो ऽन्य आभासो नामास्ति ।
तत्र व्यवच्छेदः पराक्त्वं सव्येतरव्यत्यासश्चेत्यादिकं भ्रान्त्यैव प्रतीयते ।
सोपाधिकश्चायं भ्रम इति यावदुपाधिभावं न निवर्तते ।
एवञ्चाभासत्वस्याभेदेन व्याप्तत्वाद्भेदसाधने विरुद्धत्वमिति ।
उपलक्षणं चैतत् ।
तत्त्वमस्यादिश्रुतिविरुद्धत्वेन कालातीतत्वमपि द्रष्टव्यम् ।
एवमाभासत्वानुमाने दुष्ये किम् इति चेन्निराबाधेन प्रागुक्तानुमानद्वयेनैक्यं सिद्धमित्याहचेतनत्वेनेति ।
९,३७९
चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् । (अनुव्याख्यानम्)३,२.१२१च्द् ।
न्यायसुधा-
अंशत्वाच्चेत्यन्वयः ।
ऐक्यं च साध्यमानं न मायावादिनामिवेत्युक्तम्समुदायेति ।
मायावादिनो हि जीवानां प्रत्येकं ब्रह्मणात्यन्ताभेदमङ्गीकुर्वते ।
नचैवमस्मन्मतम् ।
समुदायैक्ये भेदस्यापि सत्त्वादिति ।
अत्यन्ताभेदं परित्यज्य समुदायैक्यं कुतो ऽङ्गीक्रियत इत्यत आहअत इति ।
९,३८०
अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् । (अनुव्याख्यानम्)३,२.१२२अब् ।
न्यायसुधा-
समुदायैक्याङ्गीकारतो यच्छत्याद्युक्तं पृथक्त्वं तत्समुदायस्य तदंशस्य च जीवस्य भवेत् ।
समुदायस्य यावंशौ जीवेश्वरौ तयोर्भवेदिति वा ।
एतदुक्तं भवति ।
यदि जीवस्य ब्रह्मणात्यन्ताभेदः सा(ध्येत)ध्यते तदा भेदश्रुतय उपरुध्येरन् ।
मायिक(भेद)परत्वाभिधाने चाप्रमाणमापद्येरन् ।
नचायमस्माकमस्ति दोषः ।
जीवब्रह्मणोर्जीवेश्वरयोश्च भेदसद्भावेन तद्विषयत्वोपपत्तेरिति ।
एतेन चेतनत्वाद्यनुमानस्याभासोद्धारः कृतो भवति ।
समुदायैक्यमित्युक्तम् ।
तत्किञ्चित्प्रपञ्चयतिईशाख्येति ।
ईशाख्या समुदाये स्याद् … । (अनुव्याख्यानम्)३,२.१२२च् ।
न्यायसुधा-
ईशशब्दो ब्रह्मपरः ।
समुदाये चेतनानाम् ।
एतदुक्तं भवति ।
ब्रह्मैक्यमेव स्वभावसिद्धं तत्त्वं तत्परमार्थभूतं मायासम्बन्धादीश्वरतामापद्यते ।
स च सर्वज्ञः सर्वेश्वरो जगज्जननादिकर्ता ।
जीवास्तु ब्रह्मणोंऽशाश्चित्स्वभावा वह्नेरिव विष्फुलिङ्गा अत एव ब्रह्मणो भिन्नाभिन्नाः ।
परस्परमीश्वराच्च भिन्ना एव ।
ब्रह्म तु सकलचेतनसमुदायात्मकमतिरिक्तं चेति ।
अत्र दृष्टान्तमाहईशेति ।
… ईशरूपेष्विवोदिता । (अनुव्याख्यानम्)३,२.१२२द् ।
न्यायसुधा-
यथा भगवद्रूपाणां मत्स्यादीनां समुदाये भगवत्सञ्ज्ञा न स्थानतो ऽपीत्यादौ सिद्धान्तिनोदिता तथा ।
एतेनात्यन्ताभेदं परित्यज्य भेदाभेदाङ्गीकारे श्रुतिद्वयमिवांशत्वानुमानं चोक्तं भवति ।
यदि मत्स्यादयः परमेश्वरस्येव जीवा ब्रह्मणोंऽशाः स्युस्तदा मत्स्यादीनामैश्वर्यादिवज्जीवानां निर्दुःखत्वादिकं स्यात् ।
अंशेष्वंशिसाधर्म्यस्याव्यभिचारात् ।
९,३८१
किञ्च यदि जीवस्य ब्रह्मणाभेदो ऽपि परमार्थः स्यात्तदा ब्रह्मैव भवतीत्युक्ता मुक्तिरयुक्ता स्यादित्यत आहअत इति ।
अतो देहाद्युपाधीनामपाये समता भवेत् ।
ईशरूपैर् … । (अनुव्याख्यानम्)३,२.१२३अच् ।
९,३८२
न्यायसुधा-
बुद्धिसन्निहितं तदीयसिद्धान्तमत इति परामृशति ।
न जीवानां ब्रह्मणा भेदाभेदौ स्वाभाविकौ ।
किन्त्वभेदः स्वाभाविको भेदस्त्वौपाधिकः ।
यथेश्वरांशानां मत्स्यादीनामीश्वरेण इयांस्तु विशेषः ।
मत्स्याद्या जगदनुग्रहार्थं लीलाविग्रहोपाधिभिन्ना अतिरस्कृतैश्वर्यादिमन्तः ।
जीवास्त्वनाद्यविद्याकामकर्मादिनिबन्धनदेहेन्द्रियाद्युपाधिभिन्नास्तिरस्कृतब्रह्मस्वभावा उपाधिनिबन्धनदुःखादिभाजश्चेति ।
यत एवमौपाधिक एव भेदो ऽतो ज्ञानकर्माभ्यां देहाद्युपाधीनामात्यन्तिके ऽपाये सति जीवानामीशरूपैः समता भवेत् ।
यथेश्वररूपाणि कार्यावसाने स्वेच्छयैव लीलाविग्रहत्यागेनेश्वरतामापद्यन्ते ।
तथा जीवा अप्यनुष्यितज्ञानकर्मसमुच्चयाः प्रारब्धकर्मावसाने देहाद्युपाधिभिरत्यन्तविमुक्ताः स्वाभाविकं ब्रह्मत्वमापद्यन्त इति न कश्चिद्दोषः ।
९,३८३
यदुक्तमुपाध्यायत्तताभावादिति तदसिद्धम् ।
जीवानामपि सूर्यकादिवदाभासत्वाङ्गीकारे बाधकाभावादिति भावेनाशङ्कतेअथेति ।
… अथाभासा मुख्यतः सूर्यकादिवत् । (अनुव्याख्यानम्)३,२.१२३च्द् ।
यदा … । (अनुव्याख्यानम्)३,२.१२४अ ।
न्यायसुधा-
अथशब्दः शङ्कोपक्रमे पक्षान्तरे वा ।
आभासाः जीवाः ।
मुख्यत इति उपाध्यायत्तत्वेन ।
सूर्यकादिना तुल्यं वर्तत इति सूर्यकादिवत् ।
उत्तरवाक्ये वास्य सम्बन्धः ।
परिहरतितदेति ।
… तदोपाध्यायत्तरूपाणां नाशिता भवेत् । (अनुव्याख्यानम्)३,२.१२४अब् ।
न्यायसुधा-
यदि जीवानामुपाध्यायत्तता स्यात्तर्ह्युपाधिनाशे सूर्यकादीनामिव तेषां नाशिता भवेत् ।
अथोपाधयो ऽविनाशिनस्तदा प्रत्यक्षादिविरोधः सर्वदा संसारित्वं च स्यादित्युभयथा मोक्षशास्त्रवैयर्थ्यम् ।
तस्मादुपाध्यधीनत्वे ऽङ्गीकर्तुमशक्ये सुस्थैवाभासत्वस्यासिद्धिरिति ।
९,३८४
एतदाशङ्कानिवर्तकत्वेन सूत्रावयवमवतारयतिइत्याशङ्केति ।
इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।
अत एवोपमेत्येव च … । (अनुव्याख्यानम्)३,२.१२४च्ए ।
न्यायसुधा-
चशब्दो ऽत एव चोपमेति भिन्नक्रमः ।
एतावदेव वाक्यमेतदाशङ्कानिरासार्थं न पुनरिदं सूत्रस्य प्रतीकग्रहणमिति एवशब्दः ।
अन्यथा हि सूर्यकादिवदित्यस्यावृत्तिराशङ्कयेत ।
यद्वैकवाक्यतानिरासेन परकृतस्यापव्याख्यानतामाह, यत एवायमात्मा चैतन्यस्वरूपो निर्विशेषो वाङ्मनसातीतः परप्रतिषेधोपदेश्यो ऽत एव
चास्योपाधिनिमित्तमपारमार्थिकीं विशेषवत्तामभिप्रेत्य जलसूर्यकादिवदित्युपमोपादीयते मोक्षशास्त्रेष्विति ।
यद्यप्येवमेकवाक्यतालाभस्तथाप्यर्थदोषस्तत्र तत्र व्युत्पादित एव ।
वतेर्वैयर्थ्यं च ।
सूर्यकादिरित्येतावता पूर्णत्वात् ।
इतिशब्दाध्याहारश्चैवं न कर्तव्य इति ।
९,३८५
सूत्रखण्डस्य तात्पर्यमाहअन्येति ।
… अन्याभासविशेषिताम् । (अनुव्याख्यानम्)३,२.१२४फ़् ।
न्यायसुधा-
अन्यस्मात्सूर्यकादेराभासाज्जीवानां विशेषितां विलक्षणतां अनेन सूत्रखण्डेनाह सूत्रकारः ।
तदेतत्तात्पर्यं सूत्राक्षरैः कतं लभ्यत इत्यत (एतच्छब्द)इदंशब्दपरामृष्टमर्थं तावद्दर्शयतियदुक्तमिति ।
यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।
जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम् । (अनुव्याख्यानम्)३,२.१२५ ।
९,३८६
न्यायसुधा-
तदधीनत्वं परमात्माधीनत्वम् ।
अशेषतो ऽशेषेषु व्यापारेषु ।
सन्ध्ये सृष्टिराह हीत्यादौ ।
सदृशत्वं च परमात्मना, यदुक्तं पुंस्त्वादिवदित्यादौ किं तत्सदृशत्वम्, चित्त्वमात्रम् ।
न चापरं स्वातन्त्र्यादिकं, येन हेतोर्विरुद्धता स्यादिति भावः ।
९,३८७
इदानीमत एव चोपमेति वाक्यं योजयतितावन्मात्रेण चेति ।
तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् । (अनुव्याख्यानम्)३,२.१२६अब् ।
न्यायसुधा-
तदधीनत्वतत्सदृशत्वमात्रेणैषां चिदात्मनां रूपं स्वरूपमस्माभिराभास इत्युक्तम् ।
सूर्यकाद्युपमा च तावन्मात्रेण चोपपत्तेरिति चार्थः ।
जीव इति वक्तव्ये एषां चिदात्मनां रूपमिति वचनं मुक्तेष्विदं द्वयमस्तीति दर्शयितुम् ।
अनेन अत एव प्रकृताभ्यां तदधीनत्वतत्सदृशत्वाभ्यामेव ।
९,३८८
आभासत्वं सूर्यकाद्युपमा चोक्तेति स्वाभिप्रायप्रकटनं सूत्राथर् इत्युक्तं भवति ।
एवशब्दव्यावर्त्यं दर्शयतिनेति ।
नोपाध्यधीनताद्यैश्च … । (अनुव्याख्यानम्)३,२.१२६च् ।
न्यायसुधा-
उपाध्यधीनत्वतन्नाशनश्यत्वडत्वाद्यैरपि नेत्यर्थः ।
(इह) बहुवचनप्रयोगान्नाशिता भवेदित्यापादनमप्युपलक्षणं बोद्धव्यम् ।
९,३९०
नन्वेवं सति दृष्टान्तदार्ष्यान्तिकभावो न स्यात् ।
अत्यन्तसाम्ये हि स भवति ।
अन्यथा प्रमेयत्वादिमात्रसाम्यस्य सर्वत्र सम्भवेन मशको ऽपि मातङ्गस्य दृष्टान्तः स्यादित्यत आहनातिसाम्यमिति ।
… नातिसाम्यं निदर्शने । (अनुव्याख्यानम्)३,२.१२६द् ।
न्यायसुधा-
निदर्श्यते साध्येन साधनस्य व्याप्तिरत्रेति हि निदर्शनम् ।
अतः साध्यसाधनधर्मसाम्यमेव दार्ष्यान्तिकेन तत्रान्वेष्यव्यम् ।
न त्वतिसाम्यम् ।
तथा सति सर्वानुमानोच्छेदप्रसङ्गात् ।
मशकादेरपि विवक्षितधर्मसाम्ये दृष्टान्तत्वं नानिष्यमिति ।
ननु चित्त्वमात्रमित्यसत् ।
मुक्तौ सुखाद्यङ्गीकारविरोधादित्यत आहकिञ्चिदिति ।
किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते । (अनुव्याख्यानम्)३,२.१२७अब् ।
न्यायसुधा-
असुरान्विहायान्येषां जीवानामीशेन किञ्चित्सुखादिसादृश्यमप्यस्त्येव ।
सुखादिसादृश्यं विद्यमानमप्यसर्वगामित्वान्नोक्तम् ।
चित्त्वसादृश्यं तु सर्वगामित्वादुक्तामिति भावः ।
निरवधिकसुखादिव्यवच्छेदाय किञ्चिदित्युक्तम् ।
अन्यथा हि हेतोर्विरुद्धता स्यात् ।
९,३९१
अयं समुदायार्थः ।
ब्रह्माभासत्वादिति हेतोर्ब्रह्माधीनत्वात्तत्सदृशत्वाच्चेत्यर्थो न तु सूर्यकादिवत्प्रतिबिम्बत्वादिति ।
न चायमर्थो ऽसिद्धः ।
निपुणतरं प्रागुपपादितत्वात् ।
न चोपाध्यधीनत्वेन व्याप्तो येन तद्वयावृत्त्या व्यावर्तेत ।
उपाध्यधीनतारहितेष्वपि भावात् ।
नच भागासिद्धिः(द्धः) ।
चिदात्मस्वरूपतयोपपादितत्वात् ।
नापि विरुद्धः ।
भिन्नेष्वेव भा(ष्वपि भा)वात् ।
तथापि बिम्बप्रतिबिम्बयोरैक्यात्सूर्यकादिदृष्टान्तः साध्यसाधनविकल इति चेन्न ।
प्रमाणाभावात् ।
न तावत्प्रत्यक्षम् ।
तस्य प्रत्यक्त्वपरक्त्वादिना भेदग्राहित्वात् ।
प्रत्यभिज्ञानं त्वसिद्धमेव ।
नाप्यनुमानं लिङ्गाभावात् ।
अत्यन्तसादृश्यस्य सव्येतरकरादिना व्यभिचारात् ।
वैधर्म्याभावस्य चासिद्धत्वात् ।
क्रियासाम्यस्य छायादावनैकान्त्यात् ।
पृथक्कारणाभावस्य नित्येषु व्यभिचारात् ।
बिम्बकारणमात्रजन्यत्वस्य सन्दिग्धत्वात् ।
पृथग्दृष्टकार्यानुरोधेन ह्यदृष्टमपि पृथक्कारणं कल्प्यते ।
नतु कारणादर्शनेन दृष्टकार्यापलापः ।
तथा सति बहुविप्लवापत्तेः ।
ततः कारणमुपाधिरेव कल्प्यते ।
आगमास्तु प्रत्यक्षादिवि(क्षवि)रोधादुपचरितार्था एव ।
यदि च जलादिना प्रतिहता नयनरश्मयो मुखमीक्षन्ते तदा शिलादिप्रतिहता अपीक्षेरन् ।
न चास्यां प्रक्रियायां स्वच्छतायाः को ऽप्युपयोगो ऽस्तीत्यलम् ।
तत्त्वमस्यादिश्रुतिविरोधस्तु परिहरिष्यते ।
अतो निर्देषमेवाभासत्वानुमानमिति ।
९,३९५
ननु ब्रह्माभासशब्दो जीवस्य ब्रह्माधीनतां ब्रह्मसदृशतां च कया वृत्त्या वक्ति ।
गौण्येति चेत् ।
एवं तर्ह्यस्मदायत्ते शब्दप्रयोगे ऽवाचकं किमिति प्रयोक्ष्यामह इति प्रयोजनं वाच्यम् ।
मैवम् ।
योगाश्रयणादित्याहतत इति ।
तत आभासते नित्यं तद्वदाभासते ऽपि च । (अनुव्याख्यानम्)३,२.१२७च्द् ।
भानमस्तित्वमपिचैवासमन्ताद् यतस्ततः ।
जीव आभास उद्दिष्टः सदैव परमात्मनः । (अनुव्याख्यानम्)३,२.१२८ ।
९,३९६
न्यायसुधा-
तेन परमात्मना निमित्तेनाभासते प्रतीतो भवतीति प्रतीतौ तदधीनत्वमुच्यते ।
तद्वत् ब्रह्मवदाभासत इत्यनेन तत्सदृशत्वम् ।
अपि चेति व्याख्यानसमुच्चये ।
भानं ज्ञानम् ।
अस्तित्वं सत्त्वम् ।
अस्तिशब्दो ऽव्ययम् ।
अस्ति स्वतीति पाठात् ।
अपिशब्दो भानास्तित्वयोः समुच्चये ।
चशब्दो व्याख्यानसमुच्चये ।
एवशब्दस्य तत एवेति सम्बन्धः ।
आ इत्यनुवादेन समन्तादिति व्याख्यानम् ।
यतः कारणात्ततः परमात्मन एव जीवस्य भवतस्ततः कारणादित्यावृत्त्या योज्यम् ।
भा च आमा च भाऽसे, आ सर्वकालवर्तिन्यौ भाऽसे आभासे, परमात्माधीने आभासे यस्यासौ परमात्माभासः ।
‘पूर्वान्तवत्स्वरःसन्धौ क्वचिदेव परादिवत् ।
द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत्’ इति वचनान्न यतिभङ्गः शङ्कनीयः ।
९,४००
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः । (अनुव्याख्यानम्)३,२.१२९अब् ।
न्यायसुधा-
न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वत इति ।
सूर्यादिप्रतिबिम्बा यथा जलाद्युपाध्यायत्तास्तथोपाध्यायत्तत्वेनाभासो नेत्यर्थः ।
नन्वयमर्थो नोपाध्यधीनताद्यैरित्यनेनैवोक्तः ।
सत्यम् ।
यदुक्तमित्यादिनोक्त एवार्थस्तत आभासत इत्यादिना प्रपञ्चित इत्यदोषः ।
तथा हि ।
‘रूपमेषां चिदात्मनाम्’ इत्युक्तस्य तात्पर्यं सदैवेत्युक्तम् ।
स्यादेतत् ।
सूत्रकारेण दृष्टान्तमात्रमुक्तम् ।
तद्बलात्कश्चिद्धेतुरध्याहर्तव्यः ।
न चाभासत्वमेवेत्यस्ति नियमः ।
नाप्याभासपदोपादाने नियामकमस्ति ।
तस्मादसङ्गतमेतत् ।
मैवम् ।
आभास एव चेति सूत्रकारोक्तस्य ब्रह्माभासत्वस्यात्र हेतुत्वेन विवक्षितत्वात् ।
ब्रह्मांशत्वेनाक्षेपे तदधिकरणगतार्थस्यैव (तु) बुद्धिसन्निधानात्तत्र कर्तव्य एवायं चर्चो ऽत्र कृत इति न कश्चिद्दोषः ।
ननूपाधिमत्त्वेनैव जीवस्य भगवत्प्रतिबिम्बत्वमिति सिद्धान्त ।
उपाधेरपि नित्यचेतनत्वेन दोषपरिहारः ।
यथोक्तम् ।
‘उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति ।
स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पना’ इति ।
तत्कथमेतत् ।
इत्थम् ।
द्विविधो हि जीवोपाधिः ।
अभ्यन्तरो बाह्यश्च ।
तत्र स्वरूप(स्वभाव)प्रतिभासहेतुराभ्यन्तरः ।
स्वभावविपरीतावभासहेतुरन्तःकरणादिर्बाह्यः ।
तदायत्तत्वादिकं चैतन्यस्य नास्तीत्यभिप्रेत्येदमुदितम् ।
तदुक्तम् ।
‘जीवोपाधिर्द्विधा प्रोक्तः स्वरूपं बाह्य एव च ।
बाह्योपाधिर्लयं याति मुक्तावन्यस्य तु स्थितिः’ इति ।
निरुपाधिप्रतिबिम्बवाचोयुक्तरपि बाह्योपाध्यधीनत्वाभावाभिप्रायेण नेतव्येति ।
९,४०२
सौत्रश्चशब्द आभासत्वसमुच्चयार्थस्य व्याख्यातः ।
अवधारणार्थो वा प्रतिपत्तव्यः ।
एवं तर्हि पुनरुक्तिदोषः ।
एवशब्दस्याप्यवधारणार्थत्वादित्यत आहतदधीनत्वमिति ।
तदधीनत्वमेवेति किञ्चित् सादृश्यमेव च ।
सम्प्रकाशयतः सूत्रगताव् … । (अनुव्याख्यानम्)३,२.१२९च्फ़् ।
न्यायसुधा-
एवेतिशब्दस्तदधीनत्वमेवेत्यर्थं, च(श्च)शब्दः किञ्चित्सादृश्यमेवेत्यर्थमित्युभावर्थद्वयं सम्प्रकाशयत इत्यावृत्त्या योज्यम् ।
यद्वैवेतिशब्दस्तदधीनत्वम्, चः किञ्चित्सादृश्यमित्युभावर्थद्वयं सम्प्रकाशयतः अवधारयत इति व्याख्येयम् ।
एतदुक्तं भवति ।
अत इत्यर्थद्वयं हेतुत्वेनोक्तम् ।
प्रत्येकं चोपाध्यधीनत्वादिकं व्यावर्तनीयम् ।
तदधीनत्वादेव तत्सदृशत्वादेवेति ।
तस्मादुभावपि सार्थकाविति ।
एवशब्देनैकेनैवशब्देनोभयावधारणं प्रतिषेधति ।
नन्वेकैकेनैवशब्देनार्थद्वयस्योक्तत्वादेकेनैवाधारणेनालम् ।
मैवम् ।
बुद्धया विविक्तेनार्थद्वयेन सम्बन्धात् ।
अथार्थद्वयमेकीकृत्य कस्मान्नावधार्यते ।
अस्त्यत्र सूचनीयो ऽर्थः ।
यद्यत एवेत्येतावदेवोच्येत तदेकस्यैवार्थस्यायं परामर्शो न द्वितयस्य परामर्शो द्वितीयपरामर्शेऽपि मिलितस्य हेतुत्वमिति ज्ञायेत ।
अवधारणद्वयप्रयोगे तु तदन्यथानुपपत्त्या प्रत्येकं हेतुभूतार्थद्वयपरामर्शो विज्ञायते ।
तथाच बाधकस्यानेकत्वेन प्राबल्यं विशेषणकृत्यगवेषणप्रयासनि(रासो ऽपि न स्या)रसरनं च लब्धं स्यात् ।
तदिदमुक्तम्सूत्रगताविति ।
[जोस्हि१८]
९,४०५
एवं चेतनत्वाद्यनुमानस्य बाधकतयोक्तमाभासत्वानुमानं समर्थितम् ।
तदिदं प्रमाणान्तरोपलक्षणमित्याशयवानाहअखिलेति ।
… अखिलमानतः । (अनुव्याख्यानम्)३,२.१२९फ़् ।
जीवेशभेददृष्टयैव समुदायैकता कुतः । (अनुव्याख्यानम्)३,२.१३०अब् ।
न्यायसुधा-
न केवलमाभासत्वानुमानेन किन्त्वखिलैरपि मानैः ।
भेददृष्टयेत्युक्ते सिद्धसाधनता स्यात् ।
परेणापि भेदस्याङ्गीकृतत्वात् ।
अत’एवऽशब्दः ।
स च समासे गुणभूतेनापि बुद्धया विविक्तेन भेदशब्देन सम्बद्धयते ऽभेदनिरासेन भेदस्य दर्शनादिति ।
कुतः प्रमाणात्सिद्धयेत् ।
तत्रैक्यबाधकं प्रत्यक्षं ताव(त्प्रसिद्ध)त्सिद्धमेव ।
नाहं सर्वज्ञो निर्देष इत्याद्यनुभवात् ।
यथा हि स्तम्भे कुम्भतादात्म्याभावः प्रत्यक्षस्तथाऽत्मनि सार्वज्ञादिलक्षणब्रह्मतादात्म्याभावः साक्षिणा सिद्ध एव ।
तदभ्रान्तता च प्रागेवोपपादिता ।
आगमास्तु तत्र तत्रोदाहृता द्रष्टव्याः ।
९,४०७
अनुमानान्तरं (त्वाह) चाहअशेषेति ।
अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः । (अनुव्याख्यानम्)३,२.१३०च्द् ।
सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा । (अनुव्याख्यानम्)३,२.१३१अब् ।
न्यायसुधा-
एतदुक्तं भवति ।
जीवब्रह्मणी नाभेदवती विरुद्धधर्माधिकरणात् ।
छायाऽतपवत् ।
न चासिद्धो हेतुः ।
सर्वोपेता च तद्दर्शनादिति सर्वशक्तित्वेन हेतुना ब्रह्मणो ऽशेषदोषराहित्यस्य समर्थितत्वात् ।
जीवे दुःखादिदोषाणामनुभवसिद्धत्वात् ।
विरुद्धधर्माधिकरणयोरप्यैक्ये स्तम्भकुम्भयोरप्यैक्यं स्यादिति ।
नन्वस्तु परमात्मा सर्वशक्तिरशेषदोषरहितश्च ।
तथाप्युपाधिभिन्नस्तदंशो जीवास्तन्निमित्तदोषवांश्च भविष्यति को विरोधः ।
प्रकारभेदस्य विरोधशान्तिहेतुत्वादित्यत आहअशेषेति ।
९,४०८
अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद् दोषवान् कथम् । (अनुव्याख्यानम्)३,२.१३१च्द् ।
न्यायसुधा-
यद्यशेषशक्तियुक्तः परमात्माङ्गीकृतस्तदा तस्योपाधौ तन्निमित्ते च स्वातन्त्र्यात्कथं तन्निमित्तदोषवान्स्यात् ।
अयमभिसन्धिः ।
भवतु वानेन प्रकारभेदेन विरोधशान्तिर्मा वा भूत् ।
प्रकारभेद एवायमनुपपन्नः ।
तथाहि ।
अन्तःकरणादयुपाधयो ऽविद्यानिमित्तमित्तानि च स्वशक्त्या परमात्मानं विच्छिद्य तदंशस्य जीवस्य दुःखादिदोषान्कुर्वन्तीति तावन्न युज्यते ।
परमात्मनः सर्वशक्तिस्वातन्त्र्यहानिप्रसङ्गात् ।
अतः परमात्मैव सर्वशक्तिः स्वाधीनैरेव तैः स्वात्मानं विच्छिद्य स्वांशं जीवं दुःखादिदोषयोगिनं करोतीति मन्तव्यम् ।
तच्चायुक्ततरम् ।
अप्रेक्षावत्त्वप्रसक्तेः ।
न हि कश्चित्प्रेक्षावानात्मानमात्माधीनैरहिकण्टकादिभिरपुरुषार्थभाजं कुर्वाणो दृष्टः ।
नच तापसस्येवात्मनो दुःखोत्पादनेन परमात्मनः किञ्चित्प्रयोजनमस्ति ।
परिपूर्णत्वात् ।
नचाविद्यादिनो ऽनादितात्र समाधानम्, अनादिनो ऽपि तत्प्रवाहस्य तदधीनत्वात् ।
नच लीलामात्रमेतदिति साम्प्रतम् ।
स्वापुरुषार्थहेतोर्लीलायाः प्रेक्षापूर्वकारिभिरनुपादानात् ।
अतः परमपुरुषस्य न केनापि प्रकारेण दोषसंसर्गो युज्यत इति न दोषिणा जीवेन तस्यैक्यं युक्तमिति ।
९,४०९
जीवब्रह्मणोरैक्ये ऽपि ब्रह्मणो जीवगतदुःखाद्यनुसन्धानाभावान्नोक्तदोषप्रसङ्गः ।
तथा चोक्तेन प्रकारभेदेन विरोधशान्तिर्भविष्यतीति भावेन शङ्कतेअनुसन्धानेति ।
अनुसन्धानरहितमैक्यं चेद् … । (अनुव्याख्यानम्)३,२.१३२अब् ।
९,४१०
न्यायसुधा-
अनुसन्धानं नाम भोगसमाख्यातः स्वीयतया दुःखादिसाक्षात्कारो ऽभिमतः ।
परिहरति ।
एकतेति ।
… एकता न तत् । (अनुव्याख्यानम्)३,२.१३२ब् ।
न्यायसुधा-
तत् तर्हि ।
जीवस्तावद्ब्रह्मस्वरूपं निर्दुःखत्वादिकं नानुसन्धत्त इत्यविवादम् ।
ब्रह्मापि चेज्जीवगतं दुःखादिकं नानुसन्दध्यात्तदा तयोरेकता नास्तीत्येवोक्तप्रायं स्यात् कथमित्यत आहचेतनेति ।
चेतनैक्ये ऽनुसन्धानं प्रमाणं नैव चापरम् । (अनुव्याख्यानम्)३,२.१३२च्द् ।
न्यायसुधा-
चो हेत्वर्थः ।
अस्त्वैक्यो ऽनुसन्धानं प्रमाणम् ।
ततः किम् ।
एकप्रमाणव्यावृत्तौ प्रमेयव्यावृत्त्यभावात् ।
मा हि भूद्धूमाभावो ऽग्न्यभाव इत्यत उक्तम्नैवापरमिति ।
नन्वस्ति घटस्य घटेनैक्यं न त्वनुसन्धानं तत्कथमेतदित्यत उक्तम्चेतनेति ।
एतदुक्तं भवति ।
चैतन्यावच्छिन्नमैक्यमनुसन्धानैकप्रमाणकम् ।
आगमादिकं त्वनुसन्धाने सति संवादितया प्रवर्तते ।
अत एव हि ममात्मा भद्रसेन इति वाक्यमनुसन्धानाभावेन बाध्यते ।
तथा नायं स इत्यादिवाक्यमनुसन्धानेन ।
नच प्राग्भवीयदुःखाद्यनुसन्धानमिदानीं नास्त्यस्ति चैक्यमिति व्यभिचारः शङ्कनीयः ।
नहि वयं सदानुसन्धानं ब्रूमः ।
किन्तु यश्चेतनो यत्स्वरूपं कदाचिदनुसन्धत्ते स तेनाभिन्नो यो नानुसन्धत्ते स तेन नाभिन्न इति ।
तदेकप्रमाणकस्य तन्निवृत्तौ निवृत्तिरेव ।
यथा रूपग्रहणनिवृत्तौ चक्षुर्निवृत्तिः ।
नच चेतनत्वं शक्यनिवर्तनम् ।
उभयवादिसिद्धत्वात् ।
तस्मादेकतैव निवर्तत इति ।
एतेन चेतनत्वाद्यनुमानस्य सोपाधिकत्वं चोक्तं भवति ।
अनुसन्धानं खलु चेतनत्वावच्छिन्नस्यैक्यस्य व्यापकमुपलब्धं देवदत्तादौ ।
अव्यापकं च चेतनत्वादेः ।
पक्ष एव तदभावात् ।
तथाच सुलभः प्रयोगः ।
जीवब्रह्मणी चेतनत्वे सति परस्परैक्यवती न भवतः परस्प(रस्वरूपानु)रानुसन्धानरहितत्वात्सम्प्रतिपन्नवदिति ।
नच प्रतिज्ञायां विशेषणं व्यर्थम् ।
शब्दो न स्पर्शवद्विशेषगुण इत्यादाविव हेतुव्यभिचारपरिहारार्थत्वात् ।
९,४१३
शङ्कतेअनुसन्धानेति ।
अनुसन्धानरहितसमुदायैक्यमेव चेत् ।
चेतनेष्व् … । (अनुव्याख्यानम्)३,२.१३३अच् ।
९,४१४
न्यायसुधा-
यतः समुदायैक्यमेव मयोच्यते नात्यन्तैक्यम् ।
अतश्चेतनेष्वप्यनुसन्धानरहितं तद्युक्तम् ।
अयमभिसन्धिः ।
समुदायैक्यवादिना हि जीवब्रह्मणोर्भेदाभेदौ स्वीक्रियेते ।
तत्रानुसन्धानाभावो भेदनिमित्तस्तज्ज्ञापनेनैव चरितार्थो नाभेदं निवर्तयति ।
तन्तुपटादिषु हि समुदायैक्यस्थलेषु विरुद्धधर्माध्यासो भेदज्ञापनमात्रेण कृतार्थो नाभेदं बाधते ।
अन्यथा तत्राप्यभेदाङ्गीकारो दुर्घटः स्यात् ।
तस्मादैक्यं नानुपपन्नमिति ।
गूढाभिसन्धिः सम्प्रतिपत्तिमुत्तरमाहअस्तु तदिति ।
… अस्तु तन् … । (अनुव्याख्यानम्)३,२.१३३च् ।
न्यायसुधा-
सर्वथापि परस्परस्वरूपानुसन्धानरहितं जीवब्रह्मणोरैक्यं भवन्त्वित्यर्थः ।
विप्रतिपन्नार्थाङ्गीकारे प्रतिज्ञाहानिर्निग्रहस्थानं स्यादित्यत आहनाममात्रमेवेति ।
… नाममात्रमेव यतस्ततः । (अनुव्याख्यानम्)३,२.१३३च्द् ।
न्यायसुधा-
यतस्तदैक्यं नाममात्रं न वास्तवं ततस्तदभ्युपगमो न दूषणम् ।
अयमभिसन्धिः ।
तन्तुपटाद्यभेदो न विरुद्धधर्माध्यासाभावैकप्रमाणकः ।
प्रत्यक्षादिना तदभेदस्य सिद्धत्वात् ।
तथाच विरुद्धधर्माध्यासः कालात्ययापदिष्टत्वभयादभेदबाधनान्निवृत्तो भेदसाधनेनैव कृती भवति ।
तथा यदि चेतनैक्यं निरवकाशप्रमाणान्तरगम्यं स्यात्तदानुसन्धानाभावो ऽभेदमबाधमानो भेदमात्रप्रतिपादनेन चरितार्थः स्यात् ।
नचैवम् ।
चेतनैक्यस्यानुसन्धानव्याप्यतयोक्तत्वात् ।
व्यापकाभावे च व्याप्यनिवृत्तेरावश्यकत्वेनैक्याभावे पुनस्तद्वचनं निरर्थकमेवेति ।
९,४१५
भवत्वनुसन्धानैकप्रमाणकं चेतनैक्यम् ।
अनुसन्धानं च कादाचित्कमप्यैक्यं साधयति ।
विद्यते च मुक्तावनुसन्धानमित्यैक्यसिद्धिः ।
मुक्तस्वरूपस्य दुःखादिदोषदूरत्वेन प्रागुक्तदोषाभावश्चेत्यत आहमुक्ताविति ।
९,४१६
मुक्तौ स्यादनुसन्धानं इत्यपि स्यात् सुदुष्करम् । (अनुव्याख्यानम्)३,२.१३४अब् ।
न्यायसुधा-
इत्यपि वचनं सुदुष्करं स्यात् ।
प्रमाणाभावेन सन्दिग्धत्वादिति भावः ।
किञ्च मुक्तावनुसन्धानं भविष्यतीति वदता वक्तव्यमिदानीं कुतो ऽनुसन्धानं नास्तीति ।
अथ ब्रूयादविद्याकामकर्मादि(निमित्त)प्रतिबन्धकसद्भावादिति ।
तत्र वक्तव्यम् ।
प्रतिबन्धकसद्भावनिबन्धन एवेदानीमनुसन्धानाभावो न पुनरैक्याभावनिबन्धन इति कुतस्ते निश्चय इति ।
वयं तु वदामः ।
ऐक्याभावनिबन्धन एवायमिदानीमनुसन्धानाभावो नाज्ञानादिनिमित्त इति ।
कुतो ऽयं निश्चय इति तत्राहसर्वज्ञ इति ।
सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः । (अनुव्याख्यानम्)३,२.१३४च्द् ।
न्यायसुधा-
यतः सर्वज्ञ एकतां नानुसन्धत्ते ऽतः सा एकता नैवेति सम्बन्धः ।
एतदुक्तं भवति ।
यद्यज्ञानादिनिबन्धनो ऽयमनुसन्धानाभावो भवेत् ।
भवेत्तदा जीवानामेव ।
तेषामेवाज्ञानादिसम्बन्धित्वात् ।
परमात्मा त्वनुसन्दध्यादेव ।
तस्य सर्वज्ञत्वेनाज्ञानाद्यभावात् ।
नचासावनुसन्धत्ते ।
यस्मात्क्षरमतीतो ऽहमित्यादिवद्वाक्यैर्भेदानुभवस्यैवावगमात् ।
तेन निश्चिनुमो ऽनुसन्धानाभावो नाज्ञानादिप्रतिबन्धकनिबन्धनः ।
किन्त्वैक्याभावनिमित्त एवेति ।
९,४१७
ईश्वर एवासाविति चेत् ।
कस्ततो ऽन्यः परमात्मा प्रमाणाभावात् ।
किञ्चेश्वरो ऽपि सर्वज्ञ एवेति किमनेनेति ।
अपि चैक्ये प्रमाणसिद्धे ऽनुसन्धानाभावः प्रतिबन्धकनिबन्धन इति कल्पनोपपद्यते ।
नच तदस्तीत्युक्तम् ।
ननु च दुःखादिकं जीवस्य न चैतन्यस्वरूपानुबन्धि ।
किन्नाम विशिष्याकारगतमेव ।
तत्कथमीश्वरो ऽनुसन्धीतेति दुःखाद्यननुसन्धाने ऽप्यैक्यं तावदनुसन्दध्यादेवेत्युक्तम्एकतामिति ।
अत एव’विभेदजनके ऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणा भेदमसन्तं कः करिष्यति’ इत्यादिवाक्यान्यथा योज्यानि ।
विभेदशब्दो हि विरोधवाची ।
मित्रभेद इति यथा ।
तथाच जीवस्य परमात्मना विपरीतमतित्वमज्ञाननिबन्धनम् ।
तदपाये न भवतीत्यर्थः ।
९,४१८
परमात्मन ऐक्यानुसन्धानाभावो ऽसिद्धः ।
यत इदानीमननुसन्दधदपीदमागामिनि काले ऽनुसन्धस्यति ।
न हि सार्वकालिकमनुसन्धानमैक्यस्य व्यापकमित्याशङ्कतेपश्चादिति ।
पश्चात् स्यादनुसन्धानं चेन् … । (अनुव्याख्यानम्)३,२.१३५अब् ।
न्यायसुधा-
परमात्मनो जीवैक्यस्येति शेषः ।
अत्र प्रमाणं नास्तीति स्फुटः परिहारः ।
गूढाभिसन्धिः परिहारान्तरमाहमिथ्येति ।
… मिथ्याज्ञानिता भवेत् । (अनुव्याख्यानम्)३,२.१३५ब् ।
९,४१९
न्यायसुधा-
परमात्मन इति शेषः ।
सर्वज्ञो हि यदीदानीं जीवैक्यं नानुसन्धत्ते तदा तदसदेव स्यात्सप्तमरसादिवत् ।
तथाचागामिनि काले तदनुसन्धास्यति चेन्मिथ्याज्ञानी प्रसज्येतेत्यभिसन्धिः ।
नन्वविद्यमानं विद्यमानतयानुसन्दधानो मिथ्याज्ञानी भवति ।
न चैक्यमविद्यमानम् ।
तत्कथं परमात्मनो मिथ्याज्ञानित्वमित्यविदिताभिसन्धेराशङ्कामभिसन्धिमुद्धाटयन्परिहरतिविद्यमानेति ।
विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत् । (अनुव्याख्यानम्)३,२.१३५च्द् ।
न्यायसुधा-
यद्यैक्यं विद्यमानं तर्हि तदिदानीमननुसन्दधदसर्वज्ञः स्यात् ।
नच तद्युक्तम् ।
अतो नास्त्येव तदिति वाच्यम् ।
तथाच तदनुसन्धास्यान्कथं मिथ्याज्ञानी न भवेत् ।
एतेनेश्वरस्येदानीं शरीरसद्भावादननुसन्धानमित्यपि निरस्तम् ।
सार्वज्ञहानिप्रसङ्गानिस्तारात् ।
ईश्वरस्य साकारताया नित्यत्वेन न भाविन्यप्यनुसन्धाने प्रत्याशा ।
९,४२०
यदै(द्यै)क्यमविद्यमानमेव यदि वा विद्यमानमेव तदोक्तदोषद्वयं स्यात् ।
नचैवम् ।
किन्त्विदानीमसदेव पश्चाज्ज्ञानोत्तरकाले भवेत् ।
तत्रेदानीमसत्त्वान्न परमात्मनस्तदननुसन्धाने सावर्ज्ञहानिः ।
पश्चाद्भावाच्च न तदनुसन्धाने मिथ्याज्ञानित्वमिति परिशिष्यं पक्षं कस्यचिन्मतं वा शङ्कतेअसदिति ।
असदैक्यं भवेत् पश्चाद् यदि स्यात् सप्तमो रसः । (अनुव्याख्यानम्)३,२.१३६अब् ।
न्यायसुधा-
परिहरतिस्यादिति ।
तर्हीति शेषः ।
न ह्यनादौ संसारे यस्य येन नैक्यं तत्तेनैकीभूतमुपलब्धम् ।
नच तथा भविष्यतीत्यत्र प्रमाणमस्ति ।
‘परे ऽव्यये सर्व एकीभवन्तिऽ‘यावन्मोक्षं तु भेदः स्याज्जीवस्य परमस्य च ।
ततः परं न भेदो ऽस्ति भेदहेतोरभावतः’ इत्यादिश्रुतिस्मृतीनां स्थानैक्यादिविषयत्वेन सावकाशत्वात् ।
अतः सप्तमो रसो भविष्यतीतिवदियं प्रत्याशात्यन्तासम्भावितविषयेति भावः ।
९,४२१
जीवब्रह्मणोः संसारे भेदाभेदौ मोक्षे त्वभेद एवेति संसारे केवलभेदो मुक्तावत्यन्ताभेद इति
भेदाभेदमतद्वयदोषातिदेशेनावस्थाद्वये ऽपि भेदाभेदाविति तृतीयमतमपाकरोतिसमुदायेति ।
समुदायैक्यमेतस्माद् दूरतो ऽपाकृतं सदा । (अनुव्याख्यानम्)३,२.१३६च्द् ।
न्यायसुधा-
सदा समुदायैक्यमिति सम्बन्धः ।
एतस्मात्प्रमाणशून्यत्वादाभासत्वादिप्रमाणविरुद्धत्वाच्च ।
इयांस्तु विशेषः ।
अभेदकार्यस्यानुसन्धानस्य भेदः प्रतिबन्धकः ।
तस्मिन्नपगते मुक्तावनुसन्धानं भविष्यतीत्यस्ति पूर्वयोर्मतयोः प्रत्याशा ।
अत्र तु सापि नास्ति ।
भेदस्य सदातनत्वात् ।
अनुसन्धानं च चेतनैक्यस्य व्यापकमित्युक्तम् ।
तदिदमुक्तं दूरत इति ।
देहाद्येवानुसन्धानस्य प्रतिबन्धकमिति चेन्न ।
कायव्हवतां यूयोगिनामनुसन्धानसद्भावस्य वक्ष्यमाणत्वात् ।
९,४२२
यद्येवं न सकलचेतनसमुदायः परमात्मा तर्हि कियती सीमा परमात्मत्वस्येत्यत आहअत इति ।
९,४२३
अतो ऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।
तावदेवेश्वरो नाम … । (अनुव्याख्यानम्)३,२.१३७अच् ।
न्यायसुधा-
साधकस्यानुसन्धानस्य सर्वत्राभावाद्बाधकस्याभासत्वादेर्भावादिह तु तद्भावाभावाभ्यामित्यर्थः ।
अशेषगुणोन्नद्धत्वं निर्देषत्वं च प्रत्येकं निर्धारणहेतुत्वेनोक्तम् ।
स्वमते ब्रह्मण ईश्वरातिरिक्तस्याभावं सूचयितुं सर्वत्रेश्वर इत्याद्युक्तिः ।
इदं हि ब्रह्मणो लक्षणं श्रुत्यादिसिद्धमिति हिशब्दः ।
तावद्वस्त्वीश्वरो नामेत्युक्ते समुदायैक्यं प्रतीयते तन्निराकरोतितत्रेति ।
… तत्र भेदो ऽपि न क्वचित् । (अनुव्याख्यानम्)३,२.१३७द् ।
न्यायसुधा-
क्वचिदिति ।
परस्परं परमात्मना चेत्यर्थः ।
एतेनैतदपि निरस्तम्’ईश(श्वर)रूपेष्विवोदितः’ इति यदुक्तं पूर्वपक्षिणा ।
तत्कुत इत्यत आहनेहेति ।
नेह नानास्ति किमपि हरयो ऽयमयं हि सः ।
इत्यादिश्रुतिमानेन … । (अनुव्याख्यानम्)३,२.१३८अच् ।
न्यायसुधा-
अनेन’नेह नानास्ति किञ्चन’ इति श्रुतिमुपादत्ते ।
हरय इति ।
‘अयं वै हरय इत्यादिकाम् ।
अयं हि स इति’अयमेव स यो ऽयमात्मा’ इत्यादिकाम् ।
पूर्वेणैवान्वयः ।
एतासां श्रुतीनामभेदपरत्वान्न विवक्षितार्थे मानत्वमित्याशङ्कानिरासाय मानेनेत्युक्तम् ।
आद्यश्रुतावीश्वररूपेषु भेदनिराकरणस्य स्पष्टतवात्तृतीयायामेवशब्द(स्य)श्रवणात्तदनुसारेण द्वितीयायामपि वैशब्दस्यैवार्थत्वोपपत्तेरेताः श्रुतयो
विवक्षितार्थे मानतामापद्यन्त इति भावः ।
९,४२४
चेतनैक्यस्यानुसन्धानं व्यापकमित्युक्तं क्व तदुपलब्धमिति चेन्न ।
देवदत्तसम्बन्धिनः सुखादेर्देवदत्तेनानुसन्धीयमानत्वात् ।
उपाधिभिन्ने नोपलब्धमिति चेन्न ।
हस्तपादाद्युपाधिभिन्ने ऽपि दर्शनात् ।
विश्लिष्योपाधिभिन्ने न दृष्टमिति चेत्तत्राहजीवांशा इति ।
… जीवांशाः सर्व एव च । (अनुव्याख्यानम्)३,२.१३८ ।
नियमेनानुसन्धानवन्तो … । (अनुव्याख्यानम्)३,२.१३९अ ।
न्यायसुधा-
जीवानामिन्द्रादीनामंशा अर्जुनादयः ।
एतच्च’एक आत्मनः शरीरे भावात्’ इत्यादिन समर्थयिष्यते ।
चशब्देनेश्वरांशाः समुच्चीयन्ते ।
नच’(नु)आत्मा वै पुत्रनामासीत्’ इत्यादिवचनात्पितापुत्रयोः सत्यप्यैक्ये ऽनुसन्धानं नास्तीति कथं तद्वयापकमित्यत आहयदीति ।
… यद्येकता स्वतः । (अनुव्याख्यानम्)३,२.१३९ब् ।
न्यायसुधा-
तर्ह्यनुसन्धानवन्त इति सम्बन्धः ।
अयं भावः ।
वास्तवस्यैक्यस्यानुसन्धानं व्यापकमभिमतं न तूपचरितस्य ।
नचाभिमतस्य व्यभिचारो ऽस्ति ।
पितापुत्रैक्यं तूपचरितमेवेति न तत्र व्यभिचारो दोषायेति ।
स्वतो वस्तुतः ।
९,४२७
यद्वा परमेश्वरांशत्वहेतुरसिद्धश्चेत्याहजीवांशा इति ।
एतदुक्तं भवति ।
चैतन्यावच्छिन्नांशत्वस्यानुसन्धानं व्यापकमर्जुनादिषु दृष्टम् ।
तच्च परमेश्वरजीवयोर्नास्तीत्युपपादितम् ।
व्यापकाभावे च व्याप्याभावो ऽवश्यम्भावी ।
नच चैतन्यव्यावृत्तिर्युक्तेत्यंशत्वमेव व्यावर्तते ।
तथाच प्रयोगः ।
जीवेश्वरौ न चेतनत्वे सत्यंशांशिनौ ।
परस्परानुसन्धानशून्यत्वात् ।
यथा घटपटौ ।
यथा चेन्द्रार्जुनाविति ।
ननु पितापुत्रयोरंशांशिभावे सत्यप्यनुसन्धानं नास्तीति कथं तत्तस्य व्यापकमित्यत आहयदीति ।
एकता एकदेशतारूपांशता पितापुत्रयोरंशाशिभावो नैकदेशतादिरूप इति भावः ।
नन्वनुसन्धानाभावेनांशत्वव्यावृत्तावंशाधिकरणविरोधः स्यात् ।
न स्यात् ।
अंशशब्दो हि तदेकदेशार्थस्तत्सदृशाद्यर्थश्च ।
तत्र (तच्च) द्वितीयमंशत्वमंशाधिकरणप्रतिपाद्यं न निराक्रियते ।
तस्यानैकान्त्यप्रसङ्गेन परेण हेतूकर्तुमशक्यत्वात् ।
आद्यस्यासिद्धिव्युत्पादने न को ऽपि दोषः ।
९,४२९
नन्विन्द्रिदीनामनुसन्धानसद्भावे कथमिन्द्रानभिमतं खाण्डववनदाहादिकमर्जुनः कृतत्वात् ।
कथं चेन्द्रो ऽर्जुनानभिमतं दहनशमनादिकम् ।
नहि हस्तादावनुसन्धाने सतीदं दृष्टमित्यत आहअंशिन इति ।
अंशिनो ऽशेषसन्धानमत्यल्पस्यापि विद्यते । (अनुव्याख्यानम्)३,२.१३९च्द् ।
भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् । (अनुव्याख्यानम्)३,२.१४० ।
न्यायसुधा-
अत्यल्पस्याप्यंशिनोंशगताशेषानुसन्धानं विद्यत एव ।
तथापि कश्चिद्विशेषोंऽशानभिमतकरणादिः शकृतो भवत् ।
अंशकीर्त्याद्यथर्मीश्वरप्रेरितेनांशिना क्रियत इत्यर्थः ।
अल्पस्यापीति स्वरूपसङ्कीर्तनम् ।
भुवि जातेनांशेन चांशिगतं सुखदुःखाद्येवानुभूयते नतु सर्वम् ।
सत्यप्यैक्ये कश्चित्सर्वाननुसन्धानरूपो विशेषस्तु ईशकृतो भवेत् ।
भूम्याद्यपकृष्टदेशं गर्भवासाद्यवस्थां मानुषान्नोपभोगादिकं च निमित्तीकृत्येश्वरेण क्रियते ।
अतोंऽशस्यांशनभिमतकरणादिकं युज्यते ।
न ह्यशेषानुसन्धानमस्माभिश्चेतनैक्यादेर्व्यापकमुक्तम् ।
किन्त्वनुसन्धानमात्रमिति भावः ।
९,४३१
नन्वीश्वरो ऽपि कथं स्वानभितं कारयति ।
कथं चाभिन्ने ऽनुसन्धानं प्रतिबध्नातीत्यत आहईशस्येति ।
ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते । (अनुव्याख्यानम्)३,२.१४१अब् ।
न्यायसुधा-
दृश्यन्ते खल्वघटितं घटयन्त्येश्वरशक्त्या प्रेरिताः कामक्रोधादिपरवशा ऐहिकामुष्मिकदुःखहेतुं स्वशिरश्छेदं पातकं च कुर्वाणा इत्याशयः ।
नन्वेवं तर्हि मयापि शक्यते वक्तुम् ।
यथाजुनस्यैक्ये सत्यपीन्द्रगताशेषानुसन्धानमचिन्त्यया ईशशक्त्या प्रतिबद्धयते ।
तथा जीवपरमात्मनोरभेदे ऽपि तयैवानुसन्धानप्रतिबन्धो भविष्यति ।
अपकृष्टदेशादिकमिव देहाद्युपाधयो निमित्ततामापत्स्यन्ते ।
तथा चानुसन्धानाभावादैक्याभाव इत्यनुपपन्नम् ।
अनुसन्धानस्यैक्यव्यापकत्वं चासति प्रतिबन्ध इति कल्प्यत इत्यत आहसेति ।
सेशतानुपपन्नैव यदि जीवैकतास्य हि । (अनुव्याख्यानम्)३,२.१४१च्द् ।
न्यायसुधा-
सा अघटितघटनारूपा ।
अस्य परमात्मनः ।
भवेदेतद्यदि भवन्मते परमात्मनो ऽचिन्त्यशक्तिमत्तारूपेशता भवेत्(स्यात्) ।
जीवेनाभिन्नस्य सेशतैवानुपपन्ना ।
कुतस्तयानुसन्धानप्रतिबन्धकल्पनादिकमिति ।
हिशब्देन यो जीवेनाभिन्नो नासावचिन्त्यशक्तिरूपेशतोपेतो यथा देवदत्त इति व्याप्तिं सूचयति ।
जीवेनैकीभूतो ऽपि परमात्मास्त्वीशतोपेतः ।
किं विपक्षे बाधकमित्यत आहअनीशस्येति ।
अनीशस्येशतेत्येव विरुद्धं सर्वमानतः । (अनुव्याख्यानम्)३,२.१४१एफ़् ।
न्यायसुधा-
जीवस्तावदनीश इत्यनुभवसिद्धम् ।
तदभेदे परमात्माप्यनीश इत्युक्तमेव ।
तथाच अनीशस्येशतास्त्विति शङ्कितं स्यात् ।
एतच्च सर्वप्रमाणैर्विरुद्धं स्वव्याहतं च ।
न चैवंविधमनुन्मत्तः शङ्कते ।
शङ्काया एवानुदये कुतो बाधकोपन्यासावसर इत्येवशब्दः(ब्दार्थः) ।
९,४३२
स्यादेतत् ।
सेशतानुपपन्नैवेति तर्को ऽनुमानं वा ।
नाद्यः ।
ऐक्यस्य श्रुतिसिद्धत्वेन विपर्ययपर्यवसानानुपपत्तेः ।
न द्वितीयः ।
जीवैकताया भवतामसिद्धत्वात् ।
यदि पदवैयर्थ्याच्चेति ।
मैवम् ।
यस्य जीवैक्यं सिद्धं (स्यात्) तस्यानीशताविषयस्वार्थानुमानापादनस्याभिमतत्वात् ।
तर्कपक्षे ऽपि न दोषः ।
श्रुतीनामैक्यपरत्वाभावादित्याशयवानाहईशत्वेनैवेति ।
ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।
अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत् । (अनुव्याख्यानम्)३,२.१४२ ।
उपजीव्यविरोधेन नैव मानत्वमेष्यति । (अनुव्याख्यानम्)३,२.१४३अब् ।
न्यायसुधा-
त्रैविध्यं खल्वत्र सम्भवति ।
काचित् श्रुतिः प्रमाणान्तरेण ईशत्वेनैव विज्ञातं परमात्मानमुद्दिश्य अनीशत्वेन प्रमितानीशत्वजीवभावेन आदिशेत् ।
काचिदनीशत्वेन प्रमितं जीवमुद्दिश्य ईशत्वेन प्रमितेशभावपरमात्मत्वेन उपदिशेत् ।
काचिदुभावपि तथा प्रमितावुद्दिश्यैक्यमुपदिशेदिति ।
सर्वथाप्युजीव्यविरोधप्रसङ्गेन नैक्ये प्रामाण्यमश्नुत इति ।
यदत्र वक्तव्यं तत्’कथं ब्रह्मेति तज्ज्ञेयम्’ इत्यादिना वक्ष्यते ।
चेच्छतिरिति द्वितीयार्धे ऽपि ग्राह्यम् ।
आदिशेदिति प्रथामार्धे ऽपि ।
तृतीयः प्रकारो ऽप्यध्याहार्यः ।
तर्हीतिपदमुपजीव्येत्यतः पूर्वम् ।
९,४३५
ननु परमात्मनो ऽघटिथघटनस्वरूपया शक्त्यैवेशतानीशतयोः (विरुद्धयोरपि) एकत्र समावेशो भविष्यति ।
तत्कथमुपजीव्यविरोध इत्यत आहअत एवेति ।
अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च । (अनुव्याख्यानम्)३,२.१४३च्द् ।
न्यायसुधा-
जीवैक्यादेवेत्यर्थः ।
ईशता उक्तरूपा शक्तिः ।
किञ्चित् ईशतानीशतयोरेकत्रावस्थानम् ।
अस्य च परमात्मनो ऽपि ।
जीवैक्येनेशताभावानुमानमशक्यम् ।
ईशतायाः’परास्य शक्तिः’ इत्यादिश्रुतिसिद्धत्वात् ।
किञ्च जीवैक्ये ऽपि भेदस्य विद्यमानत्वादीशतोपपद्यत इत्याशङ्कां परिहरन् तर्हि कियती सीमा परमात्मशक्त्याघटितघटनकल्पनस्येति मन्देन
जिज्ञासिते सत्याहईशत्व इति ।
ईशत्वे ऽनीशभेदेन श्रुत्या सम्यक् प्रकाशिते ।
अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् । (अनुव्याख्यानम्)३,२.१४४ ।
अतो ऽन्यत्रापि यद् दृष्टं तदीशेनैव कल्प्यते ।
श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत् । (अनुव्याख्यानम्)३,२.१४५ ।
न्यायसुधा-
अत्रानीशभेदेनाङ्गीकृतेनैवेशत्वं श्रुत्या सम्यक् प्रकाशितं भवतीति वदता श्रुतिविरोधः परिहृतः ।
तथाहि ।
यदि जीवपरमात्मैक्यं तात्त्विकं तदा निरवकाशानुमानविरुद्धा श्रुतिरुपचरितार्था भवन्ती नेशत्वं व्यवस्थापयेदिति सुस्थः स्वार्थानुमानप्रसङ्ग
इति ।
सम्यगनीशभेदेन न तु भेदमात्रेणेति वा ।
तथाच भेदेनेशतोपपत्स्यत इति
निरस्तम् ।
अनीशताहेतोः अभेदस्य विद्यमानत्वात् ।
किमभेदेनानीशतास्तु उत भेदेन मा भूदिति सन्देहानिवारणात् ।
अन्यत्र ईश्वरात् ।
अयुक्तं परस्परपरिहारेण वर्तमानमपि युक्तं भवति ।
ईश्वर इति शेषः ।
तद्बलात् ईशत्वबलात् ।
दृष्टमिति अत्रापि सम्बद्धयते ।
९,४३६
अतः परमेश्वरात् ।
ईशेनेति भावप्रधानो निर्देशः ।
कल्प्यते युक्ततयेति शेषः ।
उक्तस्यापवादः श्रुतीति ।
आभासत्वं च वस्तुवृत्तशपेक्षया ।
हीति तत्रोपपत्तिः ।
९,४३७
अयमर्थः ।
यत्क्वचिद्विरुद्धमिव प्रतीयमानमपीश्वरे तदितरत्र वा प्रमाणसिद्धमीश्वरैश्वर्यविरोधि च न भवति ।
यथाणुत्वमहत्त्वयौगपद्यादि, यथा वार्ऽजुनादीनामशेषानुसन्धानाभावः ।
तत्सर्वमीश्वरैश्वर्यबलेन घटत इत्यङ्गीकार्यम् ।
नतु निराकार्यम् ।
यत्पुनरप्रमितं तदीश्वरैश्वर्याविरुद्धमपि न कल्पनीयम् ।
शशविषाणादिकल्पनापत्तेः ।
यच्च प्रमितमपि ईश्वरैश्वर्यविरोधि तन्न कल्पनीयमेव ।
कल्पकविघातकत्वम् ।
किन्तु तस्य प्रमाणस्य यथायोगमाभासत्वं वणर्नीयम् ।
यथा प्रकृतमिति ।
९,४३८
‘अनीशस्येशतेत्येव विरुद्धं सर्वमानतः’ इत्युक्तम् ।
तदुपपादयितुं स्मृतिमेव पठतिईश इति ।
ईशो ऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा नहि ।
इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः । (अनुव्याख्यानम्)३,२.१४६ ।
इति हि ब्रह्मतर्कोक्तिर् … । (अनुव्याख्यानम्)३,२.१४७अ ।
न्यायसुधा-
द्विविधो हि प्रतिज्ञाविरोधः ।
प्रमाणस्ववाक्यविरोधभेदात् ।
तत्रेशो ऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधस्योदाहरणद्वयम् ।
जगन्मिथ्या भिदा न हीति प्रमाणविरोधस्य ।
९,४३९
यद्वेशो ऽनीशो दुःखी मुक्त इति स्ववाक्यविरोधोदाहरणे ।
जगन्मिथ्येति स्वन्यायविरोधस्य ।
जगतो मिथ्यात्वे तन्न्यायेन मिथ्यात्वस्यापि मिथ्यात्वापत्त्या सत्यत्वप्रसङ्गात् ।
भिदा न हीति स्वक्रियाविरोधस्य ।
अनया हि प्रतिज्ञाक्रियया साध्यधर्मधर्मिणोर्भेदस्तावत्प्राप्यत इति ।
सर्वदोषेष्वधिकाधिको ऽत्यन्ताधिकः ।
स्मृत्युदाहरणस्य साध्यमाहअतिहेयमिति ।
… अतिहेयमतो ऽखिलैः ।
बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः । (अनुव्याख्यानम्)३,२.१४७ब्द् ।
न्यायसुधा-
इदम् ईशस्यानीशत्वम् ।
ईशत्वेनेशभेदेनेत्यादिनोक्ते ऽर्थे स्मृतिमप्याहनायुक्तमिति ।
नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।
यदीशित्वविरोधि स्यात् तदेवायुक्तमञ्जसा । (अनुव्याख्यानम्)३,२.१४८ ।
ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।
सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत् । (अनुव्याख्यानम्)३,२.१४९ ।
मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् ।
इति हि ब्रह्मतर्कोक्तिर् … । (अनुव्याख्यानम्)३,२.१५०अच् ।
न्यायसुधा-
यस्मान्नायुक्तमीशतुः किञ्चिदित्यादि तस्मादीत्वस्याविरोधेनेत्यादि ।
सिद्धमीशत्वं यस्यासौ तथोक्तः ।
तेनेशेन संयोज्जयेत् ।
ईश्वरे ऽस्तीति जानीयात् ।
अपिपदादन्येनापि ।
सिद्धेनेशत्वेन निमित्तेनेति वा ।
स्मृत्युदाहरणस्य प्रयोजनमाहअत इति ।
… अतो युक्तमिहोदितम् । (अनुव्याख्यानम्)३,२.१५०द् ।
न्यायसुधा-
तस्मादत्यन्तभिन्न एव ब्रह्मणा जीव इति स्थितम् ।
। इति श्रीमन्न्यायसुधायां उपमाधिकरणम् ।


__
९,४४०