०५ स्थान(तो ऽप्य)भेदाधिकरणम्

। अथ स्थान(तो ऽप्य)भेदाधिकरणम् ।
। ओं न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि ओं ।
केचिदिदमित्थं व्याचक्षते ।
द्विरूपं ब्रह्म श्रूयते सर्वकर्मा सर्वकाम इत्यादौ सविशेषमस्थूलमनण्वित्यादौ निर्विशेषम् ।
तत्र किमुभयरूपं ब्रह्म प्रतिपत्तव्यमुतान्यतररूपम् ।
यदाप्यन्यतररूपं तदा(ऽपि) किं सविशेषमुत निर्विशेषमिति संशये द्विविधश्रुत्यनुरोधादुभयरूपमेव ब्रह्मेति प्राप्ते इदमुच्यते ।
न तावत्स्वत एव परस्य ब्रह्मण उभयरूपत्वं सम्भवति विरोधात् ।
अस्तु तर्हि स्थानतः पृथिव्याद्युपाधियोगात् ।
मैवम् ।
न ह्युपाधिरन्यदन्यथाकरोति किन्त्वविद्योपस्थापिताः पृथिव्याद्युपाधयो भ्रममुपजनयन्ति ।
अतश्चान्यतरपरिग्रहे ऽपि निरस्तसमस्तविशेषमेव ब्रह्म प्रतिपत्तव्यम् ।
सर्वत्राशब्दमस्पर्शमित्यादिवाक्येषु तथाभूतमेव हि ब्रह्मोपदिश्यते ।
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ।
न निर्विशेषमेव ब्रह्म ।
चतुष्पाद्ब्रह्म षोडशकलं ब्रह्मेत्यादौ भेदेनोपदेशादिति चेन्न ।
यश्चायमस्यां पृथिव्यामित्यादिना प्रत्युपाधि भेदाभाववचनात् ।
अपि चैवमेके ।
नेह नानास्ति किञ्चनेत्यादौ भेददर्शननिन्दापूर्वकमभेदमेके शाखिनः समामनन्तीति ।
तदिदं व्याख्यानं सम्यग्व्याख्यानेनैवापहस्तितं भविष्यति किं पुनः प्रयत्नेनेत्याशयवान्व्याख्यानमेवारभते ।
सर्वशरीरेषु, प्रतिशरीरं च दक्षिणाक्ष्यादिस्थानेषु, स्थितः परमपुरुषः स्वपनाद्यवस्थाः प्रवर्तयतीत्युक्तम् ।
तत्र सर्वत्र स्थितः किमेक एवोत परस्परं भिन्न इति संशये यद्युगपद्भिन्नस्थानं तद्भिन्नं दृष्टम् ।
यथा घटादि ।
भिन्नस्थानश्चायमित्यतो भिन्न एव भवेत् ।
भिन्नानां च तारतम्यमनुग्राह्यानुग्राहकभावश्चोपलब्ध इति तत्प्रसङ्गो ऽपीति कथं स एव चेत्युक्तमिति प्राप्ते प्रतिविहितं सूत्रकृता न स्थानतो
ऽपीति ।
तद्वयाचष्टेनेति ।
न स्थानतो ऽपि परस्योभयलिङ्गं सर्वत्र हि । ब्ब्स्_३,२.११ ।
न स्थानभेदतो ऽप्यस्य भेदः कश्चित् परेशितुः । (अनुव्याख्यानम्)३,२.१०३अब् ।
न्यायसुधा-
अत्र स्थानशब्दस्तद्भेदस्योपलक्षण इत्युक्तं भवति ।
सप्तम्यर्थे तसिः ।
आद्यादिभ्य उपसङ्खयानात् ।
९,३६०
भेद इति वदता’उभयलिङ्गम्’ इत्येतद्भिन्नस्वरूपत्वमिति व्याख्यातम् ।
स्थानानां सुरनरादिशरीराणां तत्रापि दक्षिणाक्ष्यादीनां भेदे सत्यप्यस्य तत्र तत्र स्थितस्य परेशितुः कश्चित् अन्योन्याभावलक्षणो
हीनाधिकत्वरूपो ऽनुग्राह्यानुग्राहकत्वरूपो वा, भेदो नास्ति ।
कुत इत्यतः सर्वत्र हीत्युक्तं व्याचष्टेसर्वत्रेति ।
सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः । (अनुव्याख्यानम्)३,२.१०३च्द् ।
९,३६१
न्यायसुधा-
सर्वत्र स्थानेषु निर्भेदश्चेत्यपि द्रष्टव्यम् ।
अशेषदोषोज्खश्चासौ पूर्णकल्याणचिद्गुणश्चेति विग्रहः ।
कल्याणा विनाशादिरहिताः ।
यद्वा गुणशब्दो दुःखादिष्वपीत्यतः कल्याणेत्युक्तम् ।
चिच्छब्दात्परत आदिपदमध्याहार्यम् ।
अथवा चिद्रूपा न त्वचेतना इत्यर्थः ।
‘सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते’ इत्यादौ परमात्मा श्रूयते यत इति शेषः ।
९,३६२
ओं न भेदादिति चेन्न प्रत्येकमतद्वचनात् ओं ।
उक्तमर्थमाक्षिप्य समाधातुं सूत्रं न भेदादिति ।
निर्भेदं सर्वत्र सर्वदोषदूरं सकलगुणपरिपूर्णं ब्रह्मेति नोपपद्यते ।
‘कार्यकारणबद्धौ तौ’ इत्यादिश्रुतिपुराणादिवाक्यैर्भिन्नत्वदोषित्वाल्पगुणत्वादेर्भेदशब्दोपलक्षितस्योक्तत्वादित्याक्षेपार्थः ।
नेति परिहारांशं व्याचष्टेतद्विरुद्धं त्विति ।
न भेदाद् इति चेन् न प्रत्येकम् अतद्वचनात् । ब्ब्स्_३,२.१२ ।
तद्विरुद्धं तु यत् तत्र मानं नैव भवेत् क्वचित् । (अनुव्याख्यानम्)३,२.१०४अब् ।
न्यायसुधा-
यत्तु वाक्यं तस्योक्तार्थस्य विरुद्धं प्रतीयते तत्तत्र उक्तविरुद्धे क्वचिदर्थे मानं नैव भवेत्किन्त्वन्य एव तस्यार्थः प्रतिपत्तव्यः ।
कुत इत्यतः प्रत्येकमतद्वचनादित्युक्तम् ।
तदनुपपन्नमिवाभाति ।
सर्वत्र हीत्युक्तस्य प्रतिपक्षचोदनायां पुनस्तन्मात्रोपन्यासस्य व्यर्थत्वात् ।
अतस्तात्पर्यमाहमहातात्पर्येति ।
९,३६३
महातात्पर्यरोधेन कथं तन्मानमत्र तु । (अनुव्याख्यानम्)३,२.१०४च्द् ।
न्यायसुधा-
सकलस्मृतीतिहासपुराणानां परमेश्वरस्याशेषदोषदूरत्वे समस्तगुणपरिपूर्णत्वे च यन्महातात्पर्यं तद्विरोधेन तत् वाक्यं अत्र भगवतो
दोषित्वादौ कथं मानं भवेत् ।
तुशब्दो महावाक्यत्वावान्तरवाक्यत्वलक्षणविशेषार्थः ।
दृष्टं हि निर्णीतमहावाक्यार्थविरुद्धस्य तदवान्तरवाक्यस्य तत्राप्रामाण्यम् ।
यथा स्वर्गप्रयोजनाग्निहोत्रपरमहावाक्यार्थविरुद्धस्य यद्यमुष्मिन्ल्लोके ऽस्ति वा न वेत्यादेस्तदवान्तरवाक्यम् ।
तदथर्प्रतिपत्तिहेतुत्वात् ।
९,३६४
स्यादेतत् ।
यदि परमेश्वरस्य सकलगुणपरिपूर्णत्वे निरस्तसमस्तदोषत्वे च वेदादीनां महातात्पर्यमित्यर्थः प्रमाणवान्स्यात् ।
तदेव तु न पश्याम इत्यत आहदुःखेति ।
दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।
भवेन्मानं … । (अनुव्याख्यानम्)३,२.१०५अच् ।
९,३६५
न्यायसुधा-
मोक्षहेतुत्वेनेति वक्तव्ये दुःखाप्ययेत्यादिवचनं वादिविप्रतिपत्तेर्मोक्षस्वरूपनिरूपणार्थमात्यन्तिकदुःखनिवृत्तिर्निरतिशयसुखाभिव्यक्तिश्च
मुक्तिरिति ।
यद्वाप्रधानप्रयोजनस्वर्गादिसङ्ग्रहार्थमिदम् ।
इत्थम्भूतलक्षणे तृतीया ।
दुःखाप्ययसुखावाप्तिहेतुत्वेनैव तद्धेतुत्वं यथा निर्वहेत्तथैव, मानं कस्यचिदर्थस्य प्रतिपादिका भवेत् ।
वेदवागिति स्मृत्यादेरुपलक्षणम् ।
एतदुक्तं भवति ।
शास्त्रेण हि विषयप्रयोजनवता भाव्यम् ।
प्रमाणत्वात्परार्थत्वाच्च ।
तत्र यदा विषयः सन्दिग्धः प्रयोजनं च निश्चितं तदा, निश्चितेन प्रयोजनेनानिश्चितो विषयो निश्चेतव्यः ।
नहि शास्त्रं साक्षात्प्रयोजनस्य कारकम् ।
किन्तु विषयप्रतिपादनद्वारैव ।
तथाच तत्प्रयोजनं यस्मिन्ज्ञापिते सम्पद्यते स एव विषयो ऽवधार्यते ।
अन्यथा विषयप्रयोजनयोरसम्बद्धत्वेन शास्त्रस्यानुपादेयताऽपत्तेः ।
वेदादेश्च मोक्ष एव प्रधानं प्रयोजनम् ।
‘तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते’ इत्यादेः ।
स्वर्गादिकं चाप्रधानम् ।
अतः स एव विषयः कल्पनीयो यस्मिन्ज्ञा(पि)ते मोक्षादिकं सम्प(द्यत इति)द्येतेति ।
९,३६६
ततः किमित्यत आहतदिति ।
… तदीशानात् प्रसन्नादेव नान्यथा । (अनुव्याख्यानम्)३,२.१०५च्द् ।
न्यायसुधा-
तत् दुःखाप्ययादिरूपं कैवल्यम् ।
ईशानात् विष्णोरेव भवेन्नान्यस्मात् ।
स हि तस्येष्ये नान्यः ।
अस्तु तर्हि स एव विषयः किं गुणपूर्णत्वादिनेत्यत उक्तं प्रसन्नादेव नान्यथा न ज्ञातमात्रादिति ।
ततो ऽपि किमित्यत आहप्रसन्नतेति ।
प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।
निर्दोषतापरिज्ञानादपि नान्येन केनचित् । (अनुव्याख्यानम्)३,२.१०६ ।
न्यायसुधा-
विष्णोः प्रसन्नता च तदीयगुणोत्कर्षज्ञानादेव केवलं निर्देषतापरिज्ञानाच्च भवति ।
हिशब्दः प्रमाणप्रसिद्धिं द्योतयति ।
तच्च वक्ष्यते ।
केवलशब्दो ऽवदारणार्थः ।
नान्येन केनचिदित्येतत्प्रतिरूपेणाल्पगुणत्वादिज्ञानेन कर्मादिना वा नेत्यर्थः ।
तथाच मोक्षादिप्रयोजनेन शास्त्रेण तत्साधनभूतं भगवद्गुणोत्कर्षनिर्देषताज्ञानमेव जीवानामुत्पादनीयमित्यतः सकलगुणपरिपूर्णे
निरस्तसमस्तदोषे नारायण एवाशेषशास्त्रस्य महातात्पर्यमित्यवसीयते ।
९,३६७
स्यादेतद्यदि तदीशानादित्यादिनोक्तं प्रामाणिकं स्यादित्यतस्तत्रागमवाक्यान्युदाहरतियो मामिति ।
यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।
जानात्यस्मै प्रसन्नो ऽहं दद्यां मुक्तिं नचान्यथा । (अनुव्याख्यानम्)३,२.१०७ ।
यो मामशेषाभ्यधिकं विजानाति स एव माम् ।
विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् । (अनुव्याख्यानम्)३,२.१०८ ।
यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः । (अनुव्याख्यानम्)३,२.१०९अब् ।
९,३६७फ़्.
न्यायसुधा-
बृंहितशब्देन प्रत्येकमपि गुणानामनवधिकत्वमाचष्टे ।
अशेषाभ्यधिकं गुणैर्देषभावैश्च सर्वोत्तमम् ।
स एव मां विजानाति ।
अन्यज्ञानस्य मत्प्रसादाहेतुत्वात् ।
‘यो मामेवम्’ इत्यनेन’कृतकृत्यश्च भारत’ इत्यन्तं भगवद्वाक्यं सङ्गृह्णाति ।
एवं समस्तैर्गुणैर्देषाभावैश्च ।
क्षराक्षरोत्तमो हि पुरुषोत्तमः ।
स सर्वविदित्यादिस्तुत्या प्रसन्नता द्योत्यते ।
सर्वभावेन सर्वेण प्रकारेण ।
अन्यथा व्याघातात् ।
कृतकृत्यो मुक्तः ।
‘किं माम्’ इत्यनेन’अभी’ इदमेकमेक अस्मि निष्षाळभी द्वा किमौ त्रयः करन्ति ।
खले न पर्षान्प्रति हन्मि भूरि किम्मा निन्दन्ति शत्रवो ऽनिन्द्रा’ (ऋ.१०४८७) इति श्रुतिमुपादत्ते ।
इदमेकं विश्वं अभि प्रति अहमेको निष्पळस्मि नितरां सहत इति निष्पाट् द्वौ प्रपञ्चावभि प्रति अहमेको निष्षाळस्मि ।
त्रयो ऽपि प्रपञ्चा मम किमेव कुर्वन्ति न किमपि ममानिष्यं कर्तुमीशते ।
किन्त्वहमेव खल इव खलस्थितानि धान्यानीव भूरि भूरीन्बहून्बहुवरं वा तान्निष्ठुरान्निन्दकान्प्रतिहन्मि तस्मादनीश्वरास्ते शत्रवो मां किं
निन्दन्तीत्यर्थः ।
एतद्भगवतो वाक्यम् ।
अत्र निन्दकेषु भगवतो ऽप्रसादो ऽ(नर्थावा)निष्यावाप्तिश्च श्रूयते ।
निन्दा च दोषज्ञानादिकेति प्रसिद्धमेव ।
९,३६९
वाक्योदाहरणफलमाहइत्यादीति ।
इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते । (अनुव्याख्यानम्)३,२.१०९च्द् ।
न्यायसुधा-
अवधारणेन प्राबल्यं सूचयति ।
‘प्रसादेन मुक्तिः सगुणवेदनात्’ इति वक्ष्यमाणमत्रापि सम्बद्धयते ।
अत्रानुमानमप्याहलोकतश्चेति ।
लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् । (अनुव्याख्यानम्)३,२.११०अब् ।
न्यायसुधा-
इतिशब्दो ऽध्याहार्यः अवसीयत इति वर्तते ।
भगवत्प्रसादेन संसारान्मुक्तिर्भवति स भगवत्प्रसादस्तद्गुणोत्कर्षवेदनाद्दोषाभाववेदनाच्च भवतीत्ययमर्थो लोकतो
लोकदृष्टान्तोपेतानुमानतश्चा(नुमीयते)वसीयते ।
तथाच प्रयोगः ।
संसारान्मुक्तिः (परमपु)समर्थपुरुषप्रसादसाध्या मुक्तित्वान्निगडमुक्तिवत् ।
न(च)हि भगवतो ऽन्यस्तत्र समर्थो ऽस्ति ।
विमतो भगवत्प्रसादो गुणोत्कर्षज्ञानसाध्यो महाप्रसादत्वाद्राजसप्रसादवत् ।
पक्षतुल्यत्वान्न व्यभिचारश्चोदनीयः ।
९,३७१
महातात्पर्यरोधेनेत्यादिनोक्तमुपसंहरन्परकृतापव्याख्याननिरासे ऽप्युक्तां युक्तिमतिदिशतिमहातात्पर्येति ।
महातात्पर्यमुख्यस्य विरोधादत एव हि । (अनुव्याख्यानम्)३,२.११०च्द् ।
दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।
नार्थः श्रुतिपुराणादेस् … । (अनुव्याख्यानम्)३,२.१११अच् ।
न्यायसुधा-
परममहातात्पर्यस्य ।
निर्गुणत्वग्रहणमपव्याख्याननिरासार्थम् ।
कथञ्चनेत्युपाधिसम्बन्धादिनेत्यर्थः ।
न केवलमानुमानिकं सकलवेदा(दीनां)न्तानां भगवद्गुणोत्कर्षादौ महातात्पयर्म् ।
किन्तु वाचनिकं चेत्याहतद्विरुद्ध इति ।
… तद्विरुद्धो ऽखिलस्य च ।
अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् । (अनुव्याख्यानम्)३,२.१११द्फ़् ।
न्यायसुधा-
दोषित्वादेर्विरुद्धः ।
अखिलस्य शास्त्रस्य ।
तद्वाक्यं पठतिइति गुह्यतममिति ।
इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत । (अनुव्याख्यानम्)३,२.११२ ।
इत्य् … । (अनुव्याख्यानम्)३,२.११३अ ।
न्यायसुधा-
इति यन्मया मम पुरुषोत्तमत्वादिकमुक्तं इदं गुह्यतमं शास्त्रं तात्पर्येण सर्वशास्त्रैः प्रतिपाद्यो ऽर्थः ।
एतद्बुद्ध्वेति प्रशंसयाऽदरः प्रतीयते ।
यदुक्तं स्थानभेदानुमानं तदन्यथासिद्धमिति परेशितुरित्यनेन सूचितम् ।
यथोक्तम् ।
‘ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयत’ इति ।
कालातीतं चेत्याहअत इति ।
… अतो ऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।
वर्तते तत्र … । (अनुव्याख्यानम्)३,२.११३अच् ।
न्यायसुधा-
तत्र परमेश्वरभेदादौ ।
९,३७२
अधिकरणार्थमुपसंहरतितेनेति ।
… तेनेशो निर्णीतो ऽखिलसद्गुणः । (अनुव्याख्यानम्)३,२.११३च्द् ।
न्यायसुधा-
सच्छब्दो निर्देषार्थः ।
निर्भेद इत्युपसंहर्तव्ये तत्फलोपसंहारो ऽयमपव्याख्याननिरासमप्युपसंहर्तुम् ।
। इति स्थान(तो ऽप्य)भेदाधिकरणम् ।


__
९,३७३