। अथ कर्मानुस्मृत्यधिकरणम् ।
। ओं स एव च कर्मानुस्मृतिशब्दविधिभ्यः ओं ।
केचिदेवं व्याचक्षते ।
सुषुप्तौ ब्रह्मसम्पन्नो य एव जीवषः (किं) स एवोत्तिष्ठत्युतान्यो ऽपीति संशये महाजलनिधौ क्षिप्तस्योदबिन्दोरिव
ब्रह्मणैकीभूतस्योद्धरणासम्भवादनियम इति प्राप्ते समाधीयते ।
स एवोत्तिष्ठति, यः सुप्तः ।
कुतः ।
कर्मशेषसमापनात्प्रत्यभिज्ञानाच्छब्देभ्यो विधिभ्यश्च ।
सुप्तस्य मुक्तत्वापत्त्या विध्यनुपपत्तेरिति ।
तदेतदपव्याख्यानमिति सूचनायाधिकरणतात्पयर्माहनान्य इति ।
स एव च कर्मानुस्मृतिशब्दविधिभ्यः । ब्ब्स्_३,२.९ ।
… नान्यः कर्तास्य कश्चन । (अनुव्याख्यानम्)३,२.१०२द् ।
न्यायसुधा-
स्वप्नादीनां परमेश्वरकृतत्वे ऽभिहिते किं देशकालान्तरे ऽन्यो ऽपि कर्तास्त्युतेश्वर एवेति संशये लौकिकेश्वराणां
देशकालव्यवस्थयैश्वर्यदर्शनादयमपि तथाविध इति प्राप्ते ।
स एवेश्वरो ऽस्य स्वप्नादेः कर्ता नतु देशकालान्तरे ऽन्यः कश्चनेत्येष एवार्थो ऽत्र प्रतिपाद्यत इति ।
नहि यः सुप्तः स एवोत्तिष्ठत्यन्यो वेति कस्यचित्संशयो ऽस्ति ।
नच सुप्तस्य ब्रह्मणैक्यं प्रमाणदृष्टमिष्यं वा परस्येति यत्किञ्चिदेतत् ।
लाघवार्थं क्रमोल्लङ्घनेन व्याख्यानमिति बो(द्धव्य)ध्यम् ।
सूत्रकृता च स्वप्नादिवन्न मोहः स्वतन्त्रावस्थेति ज्ञापनाय व्यवधानं कृतमिति ।
। इति कर्मानुस्मृत्यधिकरणम् ।
__
९,३५८