०३ सुषुप्तिबोधमोहाधिकरणम्

। अथ श्रीमन्न्यायसुधायां बोधमोहाधिकरणानि ।
तदभावो नाडीषु तच्छ्रुतेर् आत्मनि च । ब्ब्स्_३,२.७ ।
अतः प्रबोधो ऽस्मात् । ब्ब्स्_३,२.८ ।
मुग्धे ऽर्धसम्पत्तिः परिशेषात् । ब्ब्स्_३,२.१० ।
। ओं तदभावो नाडीषु तच्छतेरात्मनि ह ओं ।
ओं अतः प्रबोधो ऽस्मात् ओं ।
ओं मुग्धे ऽर्धसम्पत्ति परिशेषात् ओं ।
अत्र यज्जीवब्रह्मणोरेकत्वं परेण वर्णितं तत्सूत्राक्षराप्रतीतं तद्विरुद्धं चापेक्षणीयमेवेति ज्ञापयितुमधिकरणत्रयस्य तात्पर्यमाहसुषुप्तीति ।
सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा ।
जीवं नयति जीवेशो … । (अनुव्याख्यानम्)३,२.१०२अच् ।
न्यायसुधा-
सुषुप्तिबोधादेः कारणान्तरदर्शनात्कथमेतदित्यत उक्तं स्ववशस्तद्वशमिति ।
स्वतन्त्रो ऽपीश्वरो लीलया तानि कारणान्युपादाय जीवं तद्वशतां नीत्वा सुषुप्त्यादिकं प्रापयतीत्यर्थः ।
एतच्च भाष्यादौ स्पष्टम् ।
। इति सुषुप्तिबोधमोहाधिकरणम् ।


__
९,३५५