०२ पराभिध्यानाधिकरणम्

। अथ श्रीमन्न्यायसुधायां पराभिध्यानाधिकरणम् ।
पराभिध्यानात् तु तिरोहितं ततो ह्य् अस्य बन्धविपर्ययौ । ब्ब्स्_३,२.५ ।
। ओं पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ओं ।
परकृतस्यापव्याख्यानतां प्रतिपादयितुं पराभिध्यानादिति सूत्रतात्पर्यमाहईशेति ।
ईशेच्छयान्तर्दधाति … । (अनुव्याख्यानम्)३,२.१००च् ।
९,३४७
न्यायसुधा-
सन्ध्यमिति शेषः ।
न केवलं स्वप्नः किन्तु तत्तिरोधानमपीश्वरेच्छाधीनमित्येष एवार्थो ऽनेन सूत्रेणोच्यते नान्यः ।
जीवस्येश्वरांशताया अप्रामाणिकत्वस्य द्वितीये ऽभिहितत्वात् ।
नच ज्ञानैश्वर्यशक्ती ब्रह्मणस्तात्त्विकतया परेणाङ्गीकृते ।
किञ्च देहयोगात्तिरोहितमित्येतावतालम् ।
अन्यदसङ्गतमेव ।
किञ्च देहयोगश्चेत्तिरोधान (एव) हेतुस्तदा सुप्तिप्रलययोराविर्भावः स्यात् ।
अविद्याद्युपलक्षणमेतदिति चे(देतदपि त)त् अथ तथैव किन्नोक्तमित्यास्तां विस्तरः ।
यदि स्वप्नो ऽन्तर्धत्ते कथं तर्हि पुनस्तत्प्रतीतिरिष्यत आहव्यज्यते चेति ।
… व्यज्यते च पुनस्तया । (अनुव्याख्यानम्)३,२.१००द् ।
न्यायसुधा-
एतेन परकीयं बाधकथनं निरस्तम् ।
व्यक्तिस्तिरोधानं च न ज्ञायत इत्यतो ऽधिकरणद्वयार्थमुपसंहरतिसृष्ट्वैवेति ।
सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।
वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः । (अनुव्याख्यानम्)३,२.१०१ ।
न्यायसुधा-
एवशब्देनारोपं वारयति ।
दर्शयित्वेत्यपि द्रष्टव्यम् ।
तस्य च वासनामात्रतां नीत्वा कृत्वा ।
अन्यथा द्वितीया स्यात् ।
अन्तर्धापयति अदर्शनं गमयति ।
तस्य जीवस्य वासनाभिरिति वा ।
तस्यान्तर्धापयतीति वा ।
। इति श्रीमन्न्यायसुधायां पराभिध्यानाधिकरणम् ।


__
९,३५०