सन्ध्ये सृष्टिराह हि । ब्ब्स्_३,२.१ ।
(च्फ़्. बेलोव्)
। ओं सन्ध्ये सृष्टिराह हि ओं ।
९,१७फ़्.
योनेः शरीरमित्येतदवसानैः सूत्रैर्जीवस्य जन्मावगतम् ।
जातस्य च स्वपनाद्यवस्थासम्बन्धः प्रसिद्धः ।
तत्र स्वप्नावस्थाप्रवर्तकत्वलक्षणो महिमाभगवतो ऽत्राधिकरणे निर्णीयते ।
तथाहि ।
स्वप्नो नामार्थज्ञानात्मकः ।
तत्र तावत्स्वाप्नार्थानां करितुरगादीनां परमेश्वरायत्तता नोपपद्यते ।
असत्यत्वात् ।
न तावदिमे ऽनादिनित्याः ।
स्वप्नावस्थातः प्रागूर्ध्वं चोपलब्धिप्रसङ्गात् ।
नहि विद्यमाना अप्युपलब्धिसाधनेषु चक्षुरादिष्वनुपरतेषु नोपलभ्यन्ते, उपलभ्यन्ते चोपपत्तेरिति सम्भवति ।
नचान्यत्र गताः ।
अन्यैरप्यनुपलम्भात् ।
मद्यमपरिमाणश्चैते दृश्यन्ते ।
नच तथाविधमनादिनित्यं किमपि दृष्टम् ।
नाप्युत्पत्तिनाशवन्तः ।
तथात्वे ऽपि प्रागूर्ध्वमुपलम्भप्रसक्तेः ।
नच वाच्यं विद्युदादिवत्तदैवोत्पत्तिर्विनाशश्चेति ।
इत्थम्भावे प्रमाणाभावात् ।
प्राड्मृदादीनामूर्ध्वं कपालादीनां चोपलम्भापत्तेश्च ।
नचैतेषां (तात्कालिक)तत्कालीनजन्मन्युपादानं निमित्तं च पश्यामः ।
कर्ता च न तावज्जीवात्मा ।
द्रष्टुर्निर्व्यापारत्वात् ।
अपरस्य चादर्शनात् ।
नापीश्वरः ।
प्रमाणाभावात् ।
भ्रान्तित्वं चैतेषाम्,’स्वाप्नमायासरूपः’ इति’स्वाप्नमनोरथो यथा’ इत्यादिश्रुतिस्मृतिभ्यामावेद्यते ।
शिष्यमपव्याख्यानानुवादे वक्ष्यामः ।
तदेवं न स्वाप्नानामर्थानामीश्वराधीनत्वम् ।
नापि तज्ज्ञानस्य ।
तस्यापि निमित्ताभावेनापरमार्थत्वात् ।
नतावच्चक्षुरादीनां त(त्र निमि)न्निमित्तत्वम् ।
तेषामुपरतत्वात् ।
नापि मनसः ।
रूपादिमत्यर्थे सामर्थ्याभावात् (स्वातन्त्र्याभावात्) ।
अत एव न साक्षिणः ।
स इन्द्रियाप्रवृत्तौ लिङ्गशब्दयोरपि नावकाशः ।
अपरोक्षाकारं चेदमवभासते ।
अतो ऽर्थज्ञानरूपा स्वाप्नावस्था नेश्वराधीनेति प्राप्ते तत्प्रतिविधानायोपोद्घातमाहवासना इति ।
सन्ध्ये सृष्टिराह हि । ब्ब्स्_३,२.१ ।
निर्मातारं चैके पुत्रादयश् च । ब्ब्स्_३,२.२ ।
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् । ब्ब्स्_३,२.३ ।
वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।
सन्त्येवाशेषजीवानामनादिमनसि स्थिताः । (अनुव्याख्यानम्)३,२.५ ।
न्यायसुधा-
भावनापरनामकाः संस्काराः ।
सर्वग्रहणप्रयोजनमुत्तरत्र भविष्यति ।
ननु भावनाख्यसंस्कारो ऽनुभवजन्यः ।
नच सर्वजीवानां सर्ववस्त्वनुभवो ऽस्ति ।
तत्कथमशेषजीवानां सर्ववस्तुवासनाः सन्त्येवेत्यत उक्तम्अनादीति ।
अनाद्यनुभवप्रवाहोत्पन्नाः ।
वासनानामात्मसमवेतत्वं वैशेषिकादिभिरभ्युपगतम् ।
तन्निरासार्थमुक्तं मनसि स्थिता इति ।
जातावेकवचनम् ।
सादितो मनसः कथमनादिवासनासम्बन्ध इत्यत उक्तम्अनादीति ।
९,२७
एतदेव प्रपञ्चयतित्रिगुणात्मकमिति ।
त्रिगुणात्मकं मनो ऽस्त्येव यावन्मुक्तिः सदातनम् ।
तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च । (अनुव्याख्यानम्)३,२.६ ।
न्यायसुधा-
मनस एव संस्काराश्रयत्वं नात्मन इतयत्रोपपत्तिसूचनाय त्रिगुणात्मकमित्युक्तम् ।
गुणात्मकमित्येवोक्ते परिमाणादिगुणात्मकमित्यपि प्रतीतिः स्यात् ।
तदात्मनो ऽपि समानमित्यतस्त्रिग्रहणम् ।
तथाच जीवात्मा न भावनाश्रयः सत्त्वादिगुणानात्मकत्वादीश्वरवत् ।
भावना वा सत्त्वादिगुणात्मकद्रव्याश्रया संस्कारत्वाद्वेगादिवत् ।
तच्च परिशेषान्मन एवेत्युक्तं भवति ।
सत्त्वादिगुणानभ्युपगन्तारं प्रति तु तत्स्थाने ऽचेतनपदं प्रयोक्तव्यम् ।
त्रिगुणात्मकग्रहणं (च)स्वरूपकथनम् ।
अस्त्येव सर्व(दैवेति)देति शेषः ।
तथा सति मोक्षे ऽपि सत्त्वात्स्वप्नाद्यवस्थापत्तिरित्यत उक्तं विवृणोतियावदिति ।
यद्यपि मनः स्वरूपेण नित्यमेव तथापि जीवसम्बन्धस्तस्य मोक्षावधिरित्यत इदमुक्तम् ।
(तद्वै देवं) तद्वै जैवं मनो येनानन्द्येत भवतीति सूक्तावप्यात्मनो मनःसम्बन्धश्रवणात्कथं यावन्मुक्तिरित्युक्तमित्यतो वा त्रिगुणात्मकमित्युक्तम् ।
आत्मस्वरूपमनसो मुक्तौ सत्त्वे ऽपि जडमनो ऽभिप्रेत्यायमवधिरुक्त इति ।
चस्तस्मादित्यर्थे ।
तत्रैव न त्वात्मनि ।
९,२३
‘एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च’ इति मनसो जन्मश्रवणात्कथमनादित्वमुच्यत इत्यत आहसूक्ष्मत्वेनेति ।
९,२४
सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः । (अनुव्याख्यानम्)३,२.७ ।
न्यायसुधा-
चशब्द एवार्थे ।
प्राकृतैः अहङ्काराद्यैः ।
मन इति वर्तते ।
प्रलये सतो ऽप्युपचयापेक्षया जन्मश्रुतिरिति भावः ।
कुत एषा कल्पना ।
मुख्यार्थे बाधकसद्भावादित्याहयदेति ।
यदि मनो मुख्यत एव जनिमत्स्यात्तदा प्रलये तन्न स्यात् ।
यदि च प्रलये तन्न स्यात्तदाऽत्मनः संसारावस्थानं न स्यात् ।
नच मा भूत्प्रलये संसारावस्थानमिति युक्तम् ।
मुक्तानां पुनः संसारानुपपत्त्या सृष्टयनुपपत्तिप्रसङ्गात् ।
अविद्याकामकर्माद्यधीनः संसार इति चेन्न ।
अविद्यादेरेव संसारत्वात्,’मनः परं कारणमामनन्ति’ इत्यादिस्मृतिविरोधाच्च ।
तथाच श्रुतिः ।
‘नित्यं मनो ऽनादित्वान्न ह्यमनाः पुमांस्तिष्ठति’ इति ।
पुमान्संसारीत्यर्थः ।
९,२५
किमतो यद्येवं सर्ववस्त्वनुभवाहितसंस्कारसद्भाव इत्यत आहसंस्कारैरिति ।
संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।
स्वप्नकाले दर्शयति … । (अनुव्याख्यानम्)३,२.८अच् ।
न्यायसुधा-
अत्र सृष्ट्वेत्यनेनानादिनित्यत्वपक्षदोषा अनभ्युपगमेनैव निरस्ताः ।
स्वप्नकाल एव सृष्ट्वेत्यनेन प्रागूर्ध्वं चोपलम्भप्रसङ्गो निराकृतः ।
सृष्टेः संहारोपलक्षणत्वात् ।
संस्कारैरित्युपादानकीर्तनम् ।
नच तेषां गुणत्वेनोपादानत्वानुपपत्तिः ।
मनोवृत्तित्वेन द्रव्यत्वात् ।
संस्काराणां चातीन्द्रियत्वेन त्र्यणुकजन्मविनाशयोरिव प्रागूर्ध्वं चानुपलम्भो न दोषाय ।
भगवानिति कर्तृनिर्देशः ।
तदैव सृष्टिसंहारकरणमसम्भावितमित्यतो ऽशक्यकर्तृताशक्तिसूचनाय भगवानित्युक्तम् ।
एवं च सत्यदृष्टादिनिमित्तं प्रसिद्धमेव ।
न केवलमर्थानां सत्यत्वसम्भवेन भगवदधीनत्वम्, अपि तु तज्ज्ञानस्यापीत्युक्तं दर्शयतीति ।
जीवायेति शेषः ।
दर्शनसाधनं च मन एवेति वक्ष्यति ।
दर्शनं चानुभवो विवक्षितः ।
तेन स्मरणमेवैतदिति मतं निरस्तं भवति ।
स्मरणत्वं खल्वस्य तच्चिह्नस्य तदित्युल्लेखस्य सद्भावाद्वा कल्प्यते ।
असन्निहितगोचरत्वाद्वा संस्कारप्रभवत्वाद्वा ।
नाद्यः ।
इदमित्युल्लेखेन तदभावात् ।
अत एव स्मृतिविपर्यासो ऽयमिति चेन्न ।
स्मृतित्वस्यैवासिद्धेः ।
न द्वितीयः ।
विषयसान्निध्यस्योपपादितत्वात् ।
न तृतीयः ।
पदार्थजन्मनि संस्कारस्योपक्षीणत्वेनासिद्धेः ।
तस्माद्यथा मनोरथे ध्याने वा संस्कारयोनीनर्थान्मनसानुभवत्येवं स्वप्ने ऽपीति किमनुपपन्नम् ।
इयांस्तु विशेषः ।
मनोरथादौ प्रयत्नपूर्विका पदार्थसृष्टिः ।
स्वप्ने पुनरीश्व(रेच्छाधी)राधीनैवेति ।
९,२८
अपरे तु भवत्येवायमनुभवः ।
किन्तु जागरानुभूतस्मर्तव्यार्थ एवेति मन्यन्ते ।
तदप्यसत् ।
तथाहि ।
किमयमनुभवो यथार्थ उतायथार्थः ।
नाद्यः ।
बाह्यार्थानां देशकालविप्रकृष्टत्वेन तदनुपपत्तेः ।
द्वितीये वक्तव्यं किमयमगजे गजत्वोल्लेखीत्ययमयथार्थः, किंवा गज एवासन्निकृष्टे सन्निकृष्टत्वोल्लेखीत्ययथार्थः ।
आद्ये नायं गजः किन्तु गवय एवेति बादोदयः स्यात् ।
द्वितीये नायं सन्निकृष्टः किन्नाम विप्रकृष्ट इति बाधो भवेत् ।
न चैतदस्ति ।
तस्मात्संस्कारप्रभवसन्निकृष्टसत्यार्थप्रमितिरेवेयमिति युक्तम् ।
कथं तर्हि श्रुतिस्मृतिषु स्वप्नप्रतीतेर्भ्रान्तित्वमुच्यत इत्यत आहभ्रान्तिरिति ।
… भ्रान्तिर्जाग्रत्त्वमेव हि । (अनुव्याख्यानम्)३,२.८द् ।
न्यायसुधा-
जाग्रत्त्वमिति तत्प्रतीतिमुपलक्षयति ।
एवेति पदार्थस्वरूपं व्यावर्तयति ।
जाग्रत्त्वं जागरानुभूतपदार्थैरेकत्वम् ।
स्वप्ने हि तात्कालिकतयादृष्टचरानेव तनयादीन्दृष्टचरतयानुसन्धत्ते ।
यद्वा जाग्रत्त्वं नाम गगनादीनां नित्यत्वादिकम् ।
घटादीनां मृदाद्युपादानकत्वं बाह्यार्थक्रियाक्षमत्वमित्यादि ग्राह्यम् ।
जाग्रत्त्वप्रतीतेर्भ्रान्तित्वात्तद्विषयं श्रुत्यादिकमिति भावः ।
स्यादेतत् ।
जाग्रत्त्वस्यापि संस्कारो ऽस्त्येवेति सोपादानत्वसम्भवात्कथं तत्प्रतीतिः भ्रान्तिरित्युच्यते ।
अन्यथार्ऽथप्रतीतिरपि भ्रान्तिः स्यादविशेषादिति ।
मैवम् ।
नहि वयं कारणसामग्रीसम्भवमात्रेणार्थानां सत्यतामातिष्ठामहे ।
किन्तु बाधाभावेनेति वक्ष्यामः ।
सामग्षभावेनासत्यत्वं ब्रुवाणं प्रति तु तदसिद्धि(रा)रेवावेदिता ।
अस्ति च जाग्रत्ता(त्त्व)प्रतीतेर्बाधः ।
स्वाप्न एवायं न जागरानुभूत इत्याद्युदयात् ।
तदिदमुक्तं हिशब्देन ।
९,३१
जाग्रत्त्व्रप्रतीतिरेव भ्रान्तिरित्ययुक्तम् ।
अर्थानामपि केषाञ्चिदसत्त्वेन तत्प्रतीतेरपि भ्रान्तित्वात् ।
स्वप्ने ऽपि स्वशिरच्छेदादयो ऽपि प्रतीयन्ते ।
नच तदुत्पत्तावुपादानमस्ति ।
अननुभूतत्वेन संस्कारोदयायोगात् ।
अननुभूते ऽपि संस्कारोदयाभ्युपगमे’अदृष्टे चाश्रुतेः’ इत्यादिश्रुतिस्मृतिविरोधः स्यात् ।
कदाचिदननुभूतार्थस्मृतिरप्यापद्येत ।
ततो यद्यपि साक्षात्स्वशिरच्छेदादेर्बाधो नास्ति तथापि कारणानुपपत्त्यासत्त्वमङ्गीकार्यमेवेत्यत आहअदृष्टे चेति ।
अदृष्टे चाश्रुते भावे न भाव उपजायते ।
अदृष्टादश्रुताद् भावान्न भाव उपजायते । (अनुव्याख्यानम्)३,२.९ ।
इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते । (अनुव्याख्यानम्)३,२.१०अब् ।
न्यायसुधा-
भावे पदार्थे ।
भावो वासना ।
पञ्चमी सप्तम्यर्थे ।
उक्तिरित्यतः परस्तुशब्दो बोद्धव्यः ।
अनादित्वात् संसारस्येति शेषः ।
संसारस्यानादित्वात्क्वचिज्जन्मनि स्वशिरश्च्छेदादेरप्यनुभवसम्भवेन संस्कारोपपत्तेः ।
सत्यत्वे ऽपि श्रुतिपुराणोक्तिर्युज्यत एव, न तु विरुद्धयते ।
विनाप्यनुभवेन संस्कारोदयाभ्युपगमे हि सा विरुद्धयेतेति ।
अत्राश्रुतग्रहणेनात्रापि जन्मनि श्रवणजनितसंस्कारः सम्भवतीति सूच्यते ।
यत्र तु श्रवणाद्यपि नास्ति तत्रानादित्वं निवेशितम् ।
अनेन यत्पूर्वं सर्वग्रहणं कृतं तदुपपत्तये वानाद्यनुभवपरम्परोक्ता तस्य सर्वस्योपयोगः कथितो भवति ।
९,३२
ननु (च) शशविषाणादिप्रतीतौ कथम् ।
नहि भवान्तरे ऽपि तदनुभवः सम्भवति ।
यथापूर्वमिति सर्वकल्पानामेकविधत्वश्रवणात् ।
मैवम् ।
शशविषाणादिप्रमाभावे ऽपि शब्दादिना भ्रान्तिसम्भवेन संस्कारोपपत्तेः ।
येन तु शशविषाणादिकं भ्रान्त्यापि न प्रतिपन्नं तस्य कथम् ।
नहि (सवो ऽपि) सर्वत्र भ्राम्यतीति नियमो ऽस्ति ।
नापि स्वप्ने न तत्पश्यतीति नियन्तुं शक्यते ।
उच्यते ।
किमत्र शशादीनां विषाणादीनां चोपादानासम्भवेनासत्त्वमुच्यते ।
उत शशत्वादिविषाणित्वादिसामानाधिकरण्यादेः ।
आद्यं निराकरोतिकदाचिदिति ।
कदाचिद् दर्शनायोग्यं यत् तत्रापि विभागतः । (अनुव्याख्यानम्)३,२.१०च्द् ।
दृष्टं … । (अनुव्याख्यानम्)३,२.११अ ।
९,३३
न्यायसुधा-
यत्स्वप्ने दृश्यत इति शेषः ।
विभागतः सामानाधिरण्येन विना दृष्टं जागरे ।
यद्यपि शशत्वविषाणित्वादीनां सामानाधिकरण्यं शशविषाणादिसम्बन्धविशेषो वा जागरे नानुभूतस्तथापि विविक्तं शशत्वादिकमनुभूतमेवेति
तत्संस्कारसम्भवे(न) न शशादीनामसत्त्वं वाच्यमिति ।
द्वितीये सम्प्रतिपत्तिमुत्तरमाहसमेति ।
… समानाधिकरणं दृश्यते च स च भ्रमः । (अनुव्याख्यानम्)३,२.११अब् ।
न्यायसुधा-
भावप्रधानो निर्देशः ।
उपलक्षणं चैतत् ।
दृश्यत इत्यत्र प्रकृत्यर्थं स इति परामृशति ।
यदित्यनुवर्तते ।
अत्र स्वप्ने न केवलं जाग्रत्त्वमिति चार्थः ।
यस्योपादानं सम्भवति बाधश्च नास्ति ।
तदेव हि प्रागेवशब्देन व्यवच्छिन्नमिति भावः ।
९,३४
भवेदेतत्सर्वं यदि स्वाप्नार्थानां जागरोपलब्धानामिव स्पष्टतया बाह्यार्थक्रियासामर्थ्यलक्षणा नास्ति ।
अन्यथा सा स्यादित्यर्थः ।
दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः ।
९,३४फ़्.
न्यायसुधा-
अयमभिसन्धिः ।
स्वाप्नास्तावद्घटादयो नासन्तो बाधाभावात् ।
नाप्यनादिनित्याः ।
पूर्वोत्तरमनुपलम्भात् ।
न(च)निरुपादानोत्पत्तिरुपपन्ना ।
ततो ऽवश्यमुपादाने ऽनुसरणीये ।
न तावद्बाह्य(त्ते बाह्य)मृदाद्युपादानाः ।
बाह्यार्थक्रियासामर्थ्यरहितत्वात् ।
विमतो घटो न बाह्यमृदाद्युपादानको बाह्यमृदाद्युपादानको बाह्यमृदाद्युपादानकार्यक्रियारहितत्वात् (पटवत्) इति प्रयोगात् ।
अन्यथा तत्प्रसङ्गात् ।
नचोपादानान्तरमस्ति ।
ततः परिशेषाद्वासनोपादानका एवेति ।
चशब्देन भगवत्कर्तृकत्वे तात्कालिकोत्पत्तिविनाशित्वे च परिशेषम्’य एष सुप्तेषु जागर्तिऽ‘एतस्माद्धयेव पुत्रो जायतेऽ‘न तत्र रथाः’
इत्यादिश्रुतिं च प्रमाणं समुच्चिनोति ।
तदनेन प्रबन्धेन सन्ध्ये सृष्टिराह हि ।
निर्मातारं चैके पुत्रादयश्च ।
मायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति त्रिसूत्री व्याख्याता भवति ।
९,३५फ़्.
अन्ये पुनरन्यथैतानि सूत्राणि व्याचक्षते ।
तथाहि ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते’ इत्यादि श्रूयते ।
तत्र संशयः ।
किं प्रबोध इव स्वप्ने ऽपि पारमार्थिकी सृष्टिराहोस्विन्मायामयीति ।
तत्र तावत्प्रतिपद्यन्ते ।
सन्ध्ये सृष्टिराह हि ।
प्रबोध (स्वापस्थान) सम्प्रसाद(योः सं) स्थानयोः सन्धौ, भवतीति सन्ध्यं स्वाप्नस्थानम् ।
तत्र तथारूपैव सृष्टिः ।
कुतः ।
यतः प्रमाणभूता श्रुतिरेवमाह ।
‘अथ रथान्रथयोगान्पथः सृजते’ इत्यादि ।
निर्मातारं चैके पुत्रादयश्च ।
अपि चैके शाखिनः सन्ध्ये कामानां निर्मातारमात्मानमामनन्ति ।
‘य एष सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः’ इति ।
पुत्रादयश्च तत्र कामा अभिप्रेयन्ते काम्यन्त इति, न पुनरिच्छाविशेषाः ।
‘शतायुषः पुत्रपौत्रान्वृणीष्व’ इति प्रकृतेषु पुत्रादिषु’कामानां त्वा कामभाजं करोमि’ इति कामशब्दस्य प्रयुक्तत्वात् ।
प्राज्ञं चैनं निर्मातारं प्रकरणवाक्यशेषाभ्यां प्रतीमः ।
‘अन्यत्र धर्मादन्यत्राधर्मात्’ इत्यादेः प्राज्ञस्य हीदं प्रकरणम् ।
वाक्यशेषो ऽपि’तदेव शुक्रं तद्ब्रह्म’ इत्यादिः ।
प्राज्ञकर्तृका च सृष्टि(स्तथाभूतार्)यथारूपा सन्ध्ये सृष्टिरिति ।
एवं प्राप्ते प्रत्याहमायामात्रं तु कात्स्नर्येनानभिव्यक्तस्वरूपत्वात् ।
तुशब्दः पक्षं व्यावर्तयति ।
मायेत्यनादिरनिर्वाच्याविद्योच्यते ।
मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धो ऽप्यस्ति ।
कुतः ।
मायेत्यनादिरनिर्वाच्यऽविद्योच्यते ।
मायैव सन्ध्ये सृष्टिर्न परमार्थगन्धो ऽप्यस्ति ।
कुतः ।
कात्स्नर्येनानभिव्यक्तस्वरूपत्वात् ।
देशकालनिमित्तसम्पत्तिरबाधश्च कात्स्नर्यं तेनाभिव्यक्तस्वरूपत्वाभावात् ।
तथाहि ।
न तावत्स्वप्ने रथादीनामुचितो देशः सम्भवति ।
नहि संवृते देहदेशे रथादयो ऽवकाशं लभेरन् ।
नच वाच्यं’बहिः कुलायादमृतश्चरित्वा’ इति श्रुतेः स्थितिगतिप्रत्ययभेदाच्च बहिर्देहात्स्वप्नं पश्यतीति ।
सुप्तस्य जन्तोर्योजनशतान्तरितं देशं क्षणमात्रेण पर्येतुं विपर्येतु च ततः (सर्वतः)सामर्थ्या(भावा)सम्भवात् ।
क्वचिच्च प्रत्यागमनवर्जितः स्वप्नो भवति ।
कुरुष्वहमद्य शयानः स्वप्ने पाञ्चालानधिगतश्च प्रतिबुद्धश्चेति ।
देहाच्चेदपेयात्पाञ्चालेषु प्रतिबुध्येत ।
कुरुष्वेव तु प्रतिबुध्यते ।
येन चायं देहेन देशान्तराणि स्वप्ने पश्यति, न तानि तथाभूतान्येव भवन्ति ।
परिधावंश्चेत्पश्येज्जाग्रद्वद्भूतमर्थमाकलयेत् ।
दर्शयति च श्रुतिरन्तरेव स्वप्नं’स्वे शरीरे यथाकामं परिवर्तते’ इति ।
अतश्च श्रुत्युपपत्तिविरेधाद्बहिः श्रुतिरनुपकारित्वसाम्याद्गौणी व्याख्येया ।
स्थितिगतिप्रत्ययभेदश्च भ्रान्तो ऽभ्युपेयः ।
९,३७
कालविसंवादो ऽपि स्वप्ने भवति ।
रजन्यां सुप्तो हि वासरं भारते वर्षे मन्यन्ते ।
तथा मुहूर्तमात्रमपि वर्षम् ।
निमित्तान्यपि (च) स्वप्ने न बुद्धये कर्मणे वोचि(चोचि)तानि विद्यन्ते ।
बाध्यन्ते चैते रथादयः स्वप्ने दृष्टाः प्रबोधे ।
स्वप्ने एव चैते सुलभबाधा भवन्ति ।
आद्यन्तयोर्व्यभिचारदर्शनात् ।
रथो ऽयमिति हि कदाचित्स्वप्ने निर्धारितः क्षणेन मनुष्यः सम्पद्यते ।
मनुष्यो ऽयमिति निर्धारितः क्षणेन वृक्षः ।
स्पष्टं चाभावं रथादीनां स्वप्ने श्रावयति शास्त्रम् ।
‘न तत्र रथा न रथयोगा न पन्थानो भवन्ति’ इत्यादि ।
तस्मान्मायामात्रं स्वपनदर्शनम् ।
९,४४
अपर आह कात्स्नर्येनानभिव्यक्तस्वरपूत्वाद् द्रष्टुभिर्न्नत्वादिना निर्वक्तुमशक्यत्वात् ।
तथाहि ।
स्वाप्नानां रथादीनां द्रष्टुर्भेदो ऽभेदो भेदाभेदो वा ।
न तावद्भेदः ।
पाश्वर्स्थानामपि तदुपलम्भप्रसङ्गात् ।
आन्तरत्वस्य चानुचितत्वात् ।
नाप्यभेदः ।
एकस्याविचित्रस्य विचित्रानेकात्मकताया विना भ्रान्तिमनुपपत्तेः ।
भेदप्रत्ययविरोधाच्च ।
नच भेदाभेदौ ।
व्याघातात् ।
अतो ऽनिर्वाच्याविद्यालास एवायमिति ।
सूचकश्च हि श्रुतेर् आचक्षते च तद्विदः । ब्ब्स्_३,२.४ ।
सूचकश्च हि श्रुतेराचक्षते च तद्विदः ।
मायामात्रत्वात्तर्हि न कश्चित्स्वप्ने परमार्थगन्ध इति नेत्युच्यते ।
सूचकश्च हि स्वप्नो भवति भविष्यतोः साध्वसाधुनोः ।
कुतः ।
यदा कर्मस्वित्यादिश्रुतेः ।
आचक्षते च स्वप्नाध्यायविदः ।
तत्र भवतु सूच्यमानस्य सत्यत्वम् ।
सूचकस्य तु वैतथ्यमेवेति भावः ।
यदुक्तम्’आह हि’ इति ।
तदेवं सति भाक्तं व्याख्येयम् ।
सुप्तौ हि स्वप्नदर्शननिमित्तसुकृतदुष्कृतकर्तृत्वाद्रथादीनां कर्तेत्युच्यते ।
निर्माणश्रुतिरप्येवं भाक्ता व्याख्येया ।
यदप्युक्तं प्राज्ञमेनं निर्मातारमामनन्तीति तदप्यसत् ।
श्रुत्यन्तरे’स्वयं विहृत्य स्वयं निर्माय’ इति जीवव्यापारश्रवणात् ।
अपरस्त्वेतदर्थमेव सूचकश्चेति सूत्रं व्याख्यातवान् ।
शुभाशुभसूचको हि स्वप्नः ।
नहि प्राज्ञस्य शुभाशुभयोगो ऽवकल्पत इति ।
जीवस्यैव तदेव शुक्लमिति वाक्यशेषे जीवभावं व्यावर्त्य ब्रह्मभाव उपदिश्यते तत्त्वमसीत्यादिवदिति न ब्रह्मप्रकरणं विरुद्धय(तो)ते ।
अस्तु वा स्वप्ने ऽपि प्राज्ञव्यवहारः ।
न(च) तावता वियदादिवत्स्वप्नस्य सत्यत्वम् ।
वैषम्यस्योक्तत्वात् ।
वियदादिप्रपञ्चो ऽप्यसत्य एवेत्युपपादितं चारम्भणाधिकरणे ।
ब्रह्मात्मत्वदर्शनाद्वियदादिप्रपञ्चो बाध्यते ।
सन्ध्याश्रयस्तु प्रतिदिनमित्यतो वैशेषिकमिदं सन्ध्यस्य मायामात्रत्वमु(पपा)दितम् ।
९,४५
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ।
नन्यग्नेरंशस्य विष्फुलिङ्गस्य यथा दहनप्रकाशनशक्ती भवतस्तथेश्वरांशस्य जीवस्यापि ज्ञानैश्वर्यशक्तिभ्यां भाव्यम् ।
ततश्च साङ्कल्पिकी सृष्टिः स्यादित्यस्येदमुत्तरम् ।
सत्यमस्त्येवेश्वरसाधर्म्यं जीवस्य किन्तु तिरोहितम् ।
तत्तु परमेश्वराभिध्यानादेवाविर्भवति ।
कुतः ।
ततो हीश्वराद्धेतोरस्य जीवस्य बन्धमोक्षौ भवतः ।
देहयोगाद्वा सो ऽपि ।
कस्माज्जीवस्य ज्ञानैश्वर्यतिरस्कारो भवति ।
विष्फुलिङ्गवदतिरस्कारो हि युक्त इत्यत्रेदमुत्तरम् ।
सो ऽपि तिरस्कारो जीवस्य देहयोगात् ।
अविद्याप्रत्युपस्थापितनामरूपकृतदेहेन्द्रियमनोबुद्धिविषयवेदनाद्युपाधियोगात्तदविवेकभ्रमकृतो भवति ।
यथारणियोगादग्नेः ।
किमनया कल्पनया ।
अन्य एवास्तु जीवः परमेश्वरादित्येतद्वाशब्देन ।
व्यवच्छिनत्ति ।
मैवम् ।
तत्त्वमस्यादिश्रुतिविरोधादिति ।
९,४७
तदिदमनुपपन्नं व्याख्यानम् ।
तथाहि ।
यत्तात्स्वप्नसृष्टेः पारमार्थिकत्वप्रतिपादकं सूत्रद्वयं पूर्वपीनुवादपरमिति तत्तदा प्रतीमो यदि मायामात्रमित्यनिर्वाच्यत्वप्रतिज्ञा स्यात् ।
नचैवम् ।
तत्प्रतिपादकप्रमाणाभावात् ।
ननूक्तं कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति देशकालनिमित्तसम्पत्त्यबाधराहित्यं तथा भिन्नत्वादिना निरूपयितुमशक्यत्वं च ।
मैवम् ।
तस्यानुपपन्नत्वात् ।
तत्र यद्देशादिराहित्यमुपपादितम् ।
तत्सूत्रार्थस्पष्टीकरणेनैवाभासीभविष्यतीत्याशयवान् भेदादिविकल्पप्रश्नेन यत् दूषणमुक्तं तत्र प्रश्न एवासावनुपपन्नो दूरे
दूषणाभिधानमित्याहभेद इति ।
भेदो ऽभेदो ऽथवा द्वन्द्वमिति प्रश्नो न युज्यते ।
द्रष्टुः स्वप्नस्य … । (अनुव्याख्यानम्)३,२.१२अच् ।
न्यायसुधा-
द्रष्टुर्देवदत्तात्स्वप्नस्य स्वप्नोपलभ्यस्य रथादेः किं भेदो ऽथाभेदो द्वन्द्वं भेदाभेदौ वेति विकल्प(ल्प्य) प्रश्नो न युज्यते ।
कुत इत्यत आहदृष्टत्वादिति ।
… दृष्टत्वाद् भेदस्यैवाखिलैर्जनैः । (अनुव्याख्यानम्)३,२.१२च्द् ।
न्यायसुधा-
द्रष्टुः स्वप्नस्येत्यनुवर्तते ।
सन्देहमूलो हि विकल्पप्रश्नः ।
नच प्रकृते सन्देहः सम्भवति ।
स्वप्नतद्द्रष्षोर्भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन विप्रतिपत्तेरभावात् ।
९,५०
स्यादेतत् ।
मा भूद्विप्रतिपत्तिमूलो ऽयं संशयः ।
समानधर्मजस्तु भविष्यति ।
किञ्चिद्वस्तु द्रष्टुर्भिन्नं भवति किञ्चिदभिन्नं किञ्चिद्भिन्नाभिन्नम् ।
वस्तु चेदमतो भिन्नमभिन्नं वेत्यादिसंशयो भवेदिति ।
मैवम् ।
संशयो हि किं समानधर्मदर्शनमात्राद्भवति ।
उत निर्णायकाभावसहकृतात् ।
नाद्यः ।
सर्वत्र सन्देहोत्पादप्रसङ्गात् ।
अस्ति हि सर्वत्र किञ्चित् साधर्म्यम् ।
तदनिवृत्तिप्रसङ्गाच्च ।
नहि समानो धर्मः कदापि निवर्तते ।
द्वितीये तु कथमत्र सन्देहः ।
भेदस्यैवाखिलैर्जनैर्दृष्टत्वेन निर्णायकाभावस्यैवासिद्धेः ।
९,५२
अथ मतम् ।
भेदो हि कश्चित्परमार्थो दृष्टो यथा स्तम्भकुम्भयोः ।
कश्चि(च्चाप)दपरमार्थो यथा चन्द्रमसोः ।
दृश्यते चायं भेदस्ततो भवेदेव सन्देह इति ।
एतदपि न ।
तथा सति यथासंशयं विकल्पप्रश्नस्य कार्यत्वात् ।
स एवानया वाचोभङ्गया क्रियत इति चेन्न ।
प्रतीतिरपि हि न केवला संशयहेतुर्भवति ।
सर्वत्र (संशय)प्रसङ्गात् ।
तदनिवृत्तिप्रसङ्गाच्च ।
विशेषप्रतीत्या हि तन्निवृत्तिरेष्यव्या ।
तत्रापि च सन्देहो ऽवस्कन्दत एव ।
किन्तु विप्रतिपत्त्यादिकलुषिता ।
नचात्र तदस्तीत्युक्तम् ।
औत्सर्गिकं हि प्रतीतीनां याथाथ्यर्म् ।
अन्यथात्वं त्वपवादम् ।
तदेवं सिद्धविषयत्वात्प्रश्न एवायमनुपपन्नः ।
९,५५
ननु च भेदपक्षमेवाङ्गीकृत्य तत्रोक्तो दोषः शक्यत एव परिहर्तुम् ।
मनोयोनित्वेन सुखादिवत्पार्श्वस्थानुपलम्भसम्भवात् ।
तत्किमनेन प्रश्नखण्डेन ।
सत्यम् ।
तथापि प्रतिवादिस्स्वखिलं नोपेक्षामर्हतीति शिष्याञ्च्छिक्षयितुमेतत् ।
तथाच वक्ष्यति ।
युक्तिपादव्युत्पादितन्यायशेषं प्रसङ्गेन व्युत्पादयितुं च ।
इह च तद्व्युत्पादनस्योपयोगं लेशतो दर्शयिष्यामः ।
९,५६
सिद्धे ऽर्थे संशयो न युज्यते ।
ततो विकल्पप्रश्नो ऽपीत्युक्तम् ।
तत्र न युज्यत इति को ऽर्थः ।
न तावन्नोत्पद्यत इति ।
संशयविकल्पप्रश्नोत्पत्तेः प्रमितत्वात् ।
न चोत्पन्नो ऽपि निष्कारण इति ।
अकारणकार्योत्पत्तेः प्रमाणविरुद्धत्वात् ।
नाप्यतत्कारणादुत्पन्न इति ।
यत उत्पन्नस्तस्यैव कारणत्वेन व्याहतत्वात् ।
नचान्यदनुपपन्नत्वमस्तीत्यत आहप्रश्नेति ।
विकल्पप्रश्नदोषाःढ ।
प्रमाणव्याहतिः सिद्धार्थतैवेति न पृथगुक्तः ।
स्वव्याहतिर्यथा ।
वन्ध्या किं पुत्रवती न वेति ।
असङ्गतिर्यथा ।
ईश्वरः सुखीत्युक्ते प्रपञ्चस्य क्षणिकत्वे किं प्रत्यक्षं प्रमाणमुतानुमितिरिति ।
सिद्धार्थस्य तु प्रकृतैव ।
वैफलत्यं यथा ।
काकस्याष्यौ दश वा दन्ता इति ।
वैफल्यमित्यतःपरमितिशब्दो ऽध्याहार्यः ।
९,५८
अयमभिसन्धिः ।
स्वव्याहत्यादिकं तावत्त्रयं प्रश्नदूषणं भवत्येव ।
प्रतिज्ञाविरोदार्थान्तरादेर्निग्रहस्थानत्वेन
प्रामाणिकैः परिगणितत्वात् ।
तस्यानुपपन्नता कीदृशी येन दूषणत्वमिति वक्तव्यम् ।
अथ मन्येत ।
अव्या(घातादि)हत्यादिकमर्थप्रत्ययनाङ्गम् ।
व्याहतादिकं च ब्रुवाणस्तन्न प्रत्येति विपरीतं च प्रत्येतीत्यनुमीयते ।
अतो ऽप्रतिपत्तिविप्रतिपत्तिलिङ्गत्वादनुपपन्नमिति ।
एवं तर्हि सिद्धार्थताप्येवमेवेति कथं न दोषः ।
विकल्पप्रश्नो हि सन्देहमूलः ।
सन्देहश्च समानधर्मदर्शनादिना निर्णायकाभावसहकृतेन भवति ।
समानधर्माद्यभावे वा निर्णायकसद्भावे ऽपि वा यः सन्दिग्धे विकल्पांश्च पृच्छति स नूनमविद्यामानमेव समानधर्मादिकं प्रतिपन्नो न प्रतिपन्नश्च
निर्णायकसद्भावमित्यनुमीयते ।
नच कार्यमकारणं भवितुमर्हति ।
दृश्यते हि सर्पभ्रमादिनापि भयकम्पादिकार्योत्पाद इति ।
९,५९फ़्.
ननु ग्रन्थास्तावदिमे वादकथाप्रक्रियया प्रवृत्ताः ।
नच वादे निग्रहस्थानमस्ति ।
तस्य तत्त्वनिर्णयावसानत्वात् ।
नहि वादिप्रतिवादिनोरन्यरस्मिन्प्रतिज्ञाहान्यादिना निगृहीते सत्यन्तरपक्षनिर्णयः सिद्धयति ।
पुनः सम्यक् प्रतिपाद्य प्रत्यवस्थानसम्भवात् ।
यत्तु वादसूत्रे’सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः’ इत्यपसिद्धान्तादेर्निग्रहस्थानत्वं सूचितम् ।
तदपि वादस्यान्यतरपक्षनिणर्यावसानत्वविरोधादनुपपन्नम् ।
यदि च वादे ऽपसिद्धान्तादीनि कानिचिन्निग्रहस्थानानि स्युस्तदापरण्यपि कस्मान्न स्युः ।
तत्त्वनिर्णयावसानत्वविरो(धित्वस्यो)धस्योभयत्र साम्यात् ।
प्रतिज्ञाहान्यादिना निग्रहे वीतरागत्वहा(निरिति)निः स्यादिति चेत् ।
सममपसिद्धान्तदावपीति ।
अतो वादे निग्रहस्थानाभावात्कथं प्रश्नदोषोद्भवनमित्यत आहन तैरिति ।
९,६०
… न तैः स्यात् तत्त्वनिर्णयः । (अनुव्याख्यानम्)३,२.१३द् ।
न्यायसुधा-
तैः स्वव्याहतादिप्रश्नैः ।
स्वव्याहतादिप्रश्नास्तत्त्वनिर्णयविरोधिन इत्यर्थः ।
नहि सिद्धे ऽप्यर्थे सन्दिहानः शतेनापि प्रमाणानां तत्त्वं प्रतिपादयितुं शक्यते ।
(तत्र) तत्रापि सन्देहानिवारणात् ।
[जोस्हि१२]
९,६१
ततः किमित्यत आहतत्त्वेति ।
तत्त्वनिर्णयवैलोम्यं स्याद् वादे ऽपि हि निग्रहः । (अनुव्याख्यानम्)३,२.१४अब् ।
न्यायसुधा-
न केवलं जल्पवितण्डयोरेव निग्रहस्थानसद्भावः किन्तु वादे ऽपि ।
निगृह्यते ऽनेनेति निग्रहो निग्रहस्थानं स्यादेव ।
अयं तु विशेषः ।
न जल्पवितण्डयोरिव समस्तम् ।
अपि तु यावत्तत्त्वनिर्णयविरोधि तावदेव ।
सिद्धप्रश्नादिकं च तत्त्वनिर्णयविरोधीत्युक्तम्, तत्कुतो वादे न निग्रहस्थानमिति ।
यो हि यदर्थं प्रवर्तते स तद्विरुद्धमाचरन्कथं नापराधी स्यादिति हिशब्दार्थः ।
निग्रहनिमित्तनिष्कर्षार्थं वैलोम्यमिति भावप्रत्ययः ।
९,६३
नन्वेवं तर्हि वादस्य तत्त्वनिर्णयार्थत्वं व्याह(न्येत)न्यते ।
तथाच विजयार्थत्वेन जल्पादितो व्यावृत्तिश्च न स्यात् ।
तद्वदेव सवर्निग्रहस्थानसद्भावो ऽपि स्यादित्यत आहउद्भावनीयमेवेति ।
उद्भावनीयमेव स्यान्न कथावसितिर्भवेत् । (अनुव्याख्यानम्)३,२.१४च्द् ।
विजिगीषुकथायां तु कथावसितिकारणम् । (अनुव्याख्यानम्)३,२.१५अब् ।
न्यायसुधा-
तत्त्वनिर्णयवैलोम्यं वाद इत्यनुवर्तते ।
अवसीतयते ऽनेनेत्यवसितिः ।
विजिगीषुकथायां जल्पवितण्डालक्षणायाम् ।
कथावसितिकारणं सर्वमपि निग्रहस्थानमिति शेषः ।
९,६३फ़्.
एतदुक्तं भवति ।
वादे(ऽपि) किञ्चिदसम्भावितमेव ।
यथा विक्षेपादि ।
तस्याज्ञानसङ्गूहनाद्यर्थत्वात् ।
तत्त्वनिर्णिनीषोश्च तत्रानर्थित्वात् ।
किञ्चित्सम्भावितमप्यनुद्भाव्यम् ।
यथाननुभाषणादि ।
तस्योभयाभिलषितत्त्वनिर्णयाविरोधित्वेन तदुद्भावनस्य व्यर्थत्वात् ।
किञ्चिदुद्भाव्यमात्रं यथा प्रतिज्ञाविरोधादिकं प्रकृतम् ।
तस्य तत्त्वनिर्णयविरोधित्वेन तदुद्भावनस्य त्याजनेन तत्त्वनिर्णयाङ्गत्वात् ।
वादावसानं त्वन्यतरस्य साधनदूषणयोः स्थितयोरन्य(तर)स्मिंश्च निस्साधदूषणे सति भवति ।
स एव हि तत्त्वनिर्णय इति ।
जल्पवितण्डयोस्तु सर्वमपि निग्रहस्थानं सम्भावितं चोद्भाव्यं च ।
उद्भावितं च कथां चावसाययति ।
तयोर्विजयार्थत्वात् ।
सर्वस्य विजयसाधनत्वात् ।
अतो न कश्चिद्दोष इति ।
९,७०
एवं सिद्धार्थविषयत्वं प्रश्नस्य दूषणमुद्भाव्यं चेत्युपपाद्य तद्दूषणत्वानभ्युपगमे ऽतिप्रसङ्गं सूचयितुमाहपरिहारे ऽपीति ।
परिहारे ऽपि सिद्धत्वं दूषणं प्रतिवादिनः ।
प्रतिज्ञायां … । (अनुव्याख्यानम्)३,२.१५च्ए ।
न्यायसुधा-
न केवलं सिद्धविषयत्वं प्रश्नदूषणं किन्नाम परिहरे ऽप्युत्तरे ऽप्यर्थस्य सिद्धत्वं दूषणम् ।
इयांस्तु विशेषः ।
प्रश्ने तु पृच्छ्यमानार्थस्य प्रष्टुः सिद्धत्वं दूषणम् ।
प्रतियोगिनस्तु सिद्धत्वं न्याय्यमेव ।
अन्यथा प्रतिपादकत्वानुपपत्तेरिति ।
तत्किमुत्तरवाक्यार्थस्य सर्वस्यापि प्रतिवादिसिद्धत्वं दूषणम् ।
नेति ब्रूमः ।
किन्तु प्रतिज्ञार्थस्यैव, परिहारे ऽपि प्रतिज्ञायामर्थस्य प्रतिवादिनः सिद्धत्वं दूषणमिति सम्बन्धः ।
इदमुक्तं भवति ।
यदि स्वसिद्धार्(थे प्रर्)थप्रश्नकरणं न दूषणं स्यात् ।
तदा प्रतिवादिसिद्धार्थप्रतिज्ञापि न दूषणं स्यादविशेषात् ।
९,७१
ननु परं प्रति साधनाय पक्षवचनं प्रतिज्ञा ।
नच सिद्धं साधनमर्हति ।
अतः प्रतिज्ञात्वव्याघातात् ।
प्रतिवादिसिद्धार्थत्वं दूषणमेवेति ।
एवं तर्हि ज्ञीप्सापूर्वकं वाक्यं प्रश्नः ।
नच ज्ञाते ज्ञीप्सा सम्भवति ।
अतः प्रश्नत्वव्याघातात्स्वसिद्धार्थविषयत्वं कथं न दूषणमिति ।
अथ किमर्थं प्रतिज्ञायामित्युच्यत इत्यत आहतदन्यस्येति ।
… तदन्यस्य सिद्धतैव हि साधका । (अनुव्याख्यानम्)३,२.१५एफ़् ।
९,७२
न्यायसुधा-
व्यापकधर्मस्य साध्यधर्मिणा सम्बन्धस्तदपर्यवसानलभ्यश्चार्थः प्रतिज्ञार्(ता)थः ।
तदन्यस्य हेत्वाद्यर्थस्य सिद्धतैव हि साध्यसाधिका भवति ।
असिद्धस्य लिङ्गादेः साध्यसाधकत्वे ऽतिप्रसङ्गात् ।
अतः प्रतिज्ञायामित्यक्तम् ।
प्रतिज्ञातार्थव्यतिरिक्तस्योत्तरवाक्यार्थस्य सिद्धतैव साधिकेत्यनेन तदसिद्धेर्दूषण्वं लब्धम् ।
सा चानेकप्रकारा ।
तथाहि ।
साध्यधर्मिणो ऽसिद्धिराश्रयासिद्धिः ।
यथा नृ(शश)शृङ्गमस्ति शृङ्गत्वाद्गोशृङ्गवदिति ।
साध्यधर्मासिद्धिरप्रसिद्धविशेषणतापरसञ्ज्ञा ।
यथा शुक्तिरजतादिकं सदसद्विलक्षणं बाध्यत्वादिति ।
लिङ्गासिद्धिः ।
यथा विमतमचेतनं सदसद्विलक्षणत्वादिति ।
लिङ्गस्य पक्षधर्मतासिद्धिः ।
यथा शब्दो नित्यश्चाक्षुषत्वादिति ।
व्यधिकरणासिद्धिः ।
यथा शब्दो ऽनित्यो घटस्य कृतकत्वादिति ।
व्याप्त्यसिद्धिः ।
यथा यत्सत्तत्क्षणिकं यथा प्रदीपः, संश्च प्रपञ्च इति ।
एवं विशेषणासिद्धयादयो ऽपि द्रष्टव्याः ।
९,७४
तत्र सर्वासामप्यसिद्धीनां दूषणत्वे प्राप्ते ऽपवादमाहआश्रयेति ।
आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् ।
केषाञ्चिन् … । (अनुव्याख्यानम्)३,२.१६अच् ।
न्यायसुधा-
आश्रयासिद्धिर्व्यधिकरणासिद्धिः साध्यासिद्धिश्च यद्यपि केषाञ्चिन्नैय्यायिकादीनां मते दूषणम् ।
तथापि तत्त्वतो न च ते दोषाः ।
आश्रयासिद्धिरनेकप्रकारा ।
असदाश्रयत्वमभावाश्रयत्वमप्रतीताश्रयत्वं पक्षीकृताकारेणासत्त्वं सिद्धसाध(कत्वं)नत्वं चेति ।
तत्राद्ययोर्द्वयोरदोषत्वं प्रतिजानीतेनचेति ।
… न च ते दोषा व्याप्तौ सत्यां कथञ्चन । (अनुव्याख्यानम्)३,२.१६ ।
न्यायसुधा-
अप्रतीताश्रयत्वादेर्देषत्वस्य सिद्धत्वात् ।
अत एवोक्तमन्यत्र’असदाश्रयस्य’ इत्यादि ।
‘न चात्यन्ताभावो ऽपि’ इति ।
एवमुत्तरत्रापि ज्ञातव्यम् ।
आश्रयासिद्धिशब्देन दृष्टान्तस्याश्रयहीनतापि सङ्ग्राह्या ।
कुतस्ते न दोषा इति चेत् ।
किं व्याप्त्यादिभङ्गहेतुत्वेन दोषत्वमुत सत्येव व्याप्त्यादौ प्रकारान्तरेण ।
नाद्यः ।
आश्रयासिद्धयादावपि व्याप्त्यादेः सत्त्वात् ।
द्वितीये त्विदमुपतिष्ठते ।
व्याप्तौ सत्यां कथञ्चन केनापि प्रकारेण न दोषा इति ।
व्याप्तिग्रहणमबाधितविषयत्वाद्युपलक्षणम् ।
वस्तुतो व्याप्तावेव तस्योपयोगान्न पृथगुक्तम् ।
अस्यैवार्थस्य प्रपञ्चार्थमुत्तरः प्रबन्धः ।
९,७७
तत्र भगवदभावस्यापि प्रामाणिकत्वं सधर्मकत्वं च प्रागेव साधितम् ।
असदाश्रयस्य तु कुतो दुष्टत्वमिति वाच्यम् ।
किन्नरविषाणमस्ति विषाणत्वादित्यादेरपि साधनत्वप्रसङ्गात् ।
उतासतो निर्धर्मकत्वेन साध्यधर्माश्रयत्वानुपपत्त्या बाधितविषयत्वेन ।
अथ साधनधर्माश्रयत्वानुपपत्त्या स्वरूपासिद्धत्वेन ।
यद्वासतः सकलव्यवहाराभाजनत्वेन ।
यदि वाप्रामाणिकस्य प्रमाणाङ्गतासम्भवेन ।
अथवासदाश्रयस्य व्याप्त्यनुपपत्त्येति ।
आद्यं निराकरोतिदोष इति ।
दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने । (अनुव्याख्यानम्)३,२.१७अब् ।
न्यायसुधा-
व्याहतिः प्रमाणविरोधः ।
शृङ्गशब्दो हि महतः शिस्संयुक्तस्य रूपवतो ऽवयवविशेषस्य वाचको ऽभिप्रेतः स्यात् ।
अतीन्द्रियस्य वा कस्यचित् ।
आद्ये प्रत्यक्षेण तस्य नास्तितावधारणात् ।
प्रमाणबाधितत्वेनैव विषाणत्वस्यासाधनत्वान्नातिप्रसङ्गः ।
द्वितीये त्विष्यापादनमिति ।
९,७९
स्यादेतत् ।
शृङ्गत्वं तावदसाधनमित्यविवादम् ।
अस्ति च तत्र बाधितविषयत्वमसदाश्रयत्वं च ।
तत्र बाधितविषयत्वमेव तदीयासाधनत्वे प्रयोजकं नासदाश्रयत्वमिति कुतो नियम्यत इत्यत आहयत्रेति ।
यत्र व्याहतता नास्ति को ऽतिसङ्गो ऽस्य साधने । (अनुव्याख्यानम्)३,२.१७च्द् ।
न्यायसुधा-
यस्मिन्साध्ये व्याहतता प्रमाणबाधो नास्ति ।
अस्य साधने ऽसदाश्रयेणापि हेतुना क्रियमाणे को ऽतिप्रसङ्गः ।
न को ऽपि दोषः ।
व्याहततेत्युपलक्षणम् ।
व्यभिचारादिकं चेत्यपि द्रष्टव्यम् ।
एतदुक्तं भवति ।
अस्ति तावद्बाधितविषयत्वस्य दूषणत्वे कृशानुशैत्यादिसाधनं कृतकत्वादिकं दोषान्तरासङ्कीर्णमुदाहरणम् ।
तेन ।
तस्य दूषणत्वं निश्निनुमः ।
न चासादाश्रयत्वस्य दोषत्वे ऽबाधितविषयत्वाद्यसङ्कीर्णमुदाहरणमस्ति ।
येन तस्य दोषत्वं प्रतीमः ।
बाधितविषयत्वादिदोषान्तराभावे केवलासदाश्रयस्य हेतुत्वे बाधकाभावात् ।
दृश्यते च तथाविधस्य हेतुत्वम् ।
यथा वन्ध्यासुतो न वक्ताचेतनत्वात्पाषाणवदिति ।
अतो बाधितविषयत्वेनैव शृङ्गत्वमसाधनं नासदाश्रयत्वेनेति निश्चीयते ।
९,८०
अथ मतम् ।
वन्ध्यासुतो वक्ता सुतत्वात्सम्मतवदिति सत्प्रतिपक्षमेतत्किन्न स्यात् ।
असदाश्रयताभयस्य भवतैव त्याजितत्वादिति ।
मैवम् ।
तदीयवक्तृताकार्यस्य कदापि केनाप्यनुपलब्धत्वेन बाधितविषयतया दुर्बलस्याप्रतिपक्षत्वात् ।
नहि भवति तरक्षोः प्रतिपक्षो हरिणशावः ।
अवक्तृत्वमपि वचनेतरक्रियाकर्तृत्वमित्यतो ऽचेतनत्वमपि बाधितविषयमिति चेन्न ।
वक्तृत्वाभावमात्रस्य साध्यत्वात् ।
९,८१
नन्वभावो ऽप्यसति कथं, तस्य धर्माभावादिति चेन्न ।
धर्माणामनेकविधत्वात् ।
केचिद्धि धर्मिसमवेता भवन्ति ।
यथा रूपादयः ।
केचिदन्यसमवेता अप्यन्यमुपरञ्जनीयम् ।
यथा ज्ञानादयो घटादीनाम् ।
केचिदाश्रयसमवायमपि नापेक्षन्ते केवलं केनचिन्निरूप्यन्ते ।
यथाभावः ।
नच वाच्यमभावो ऽपि सद्भयां निरूपणीय इति ।
प्रागभावाद्यनिरूपणप्रसङ्गात् ।
घटादेः कदाचित्सत्त्वान्नैवमिति चेन्न ।
तस्य निरूपणसमये ऽनुपयोगात् ।
प्रतीत्या निरूपकत्वमिति चेत् ।
समं प्रकृते ऽपि ।
शब्दाभासादिना वन्ध्यासुतस्यापि प्रतीतिसम्भवात् ।
९,८३
असिद्धं च सुतत्वं वन्ध्यासुतस्य ।
नचैवं स्ववचनव्याघातः ।
काल्पनिकानुवादेन वास्तवनिराकरणात् ।
काल्पनिकस्य कथं पक्षत्वमिति चेन्न ।
निषेधं प्रति पक्षत्वे बाधकाभावात् ।
अन्यथा परपक्षप्रतिक्षेपायोगात् ।
अथाचेतनत्वमप्यसिद्धम् ।
तस्य चेतनातिरिक्तस्वभावत्वादिति चेन्न ।
चैतन्यव्यावृत्तिमात्रस्य हेतुत्वात् ।
अभावस्य चासतो(ता)ऽपि निरूपणमुपपद्यत इत्युक्तम् ।
९,८४
मूके ऽनैकान्तिकश्च सतत्वहेतुः ।
अमूकत्वेन विशेषणे तस्य वक्तृत्वानतिरिक्तत्वेन साध्यविशिष्यता स्यात् ।
एतेन विकल्पिताः पक्षाः समस्ता अपि निरस्ता भवन्तीत्यास्तां विस्तरः ।
९,८५
प्रमाण(बाधे)विरोधेन शृङ्गत्वहेतुराभास इत्युक्तम् ।
अथ प्रमाणविरोधस्यापि कुतो दूषणत्वम् ।
व्याप्त्याद्यङ्गसाकल्ये साध्यसिद्धेरावश्यकत्वात् ।
तदभावे तत एवाभासत्वम् ।
किं प्रमाणबाधेनेत्यत आहप्रत्यक्षेति ।
प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ।
न्यायाभासा अमूलाः स्युर् … । (अनुव्याख्यानम्)३,२.१८अच् ।
न्यायसुधा-
तुशब्दो ऽवधारणे हिशब्दः प्रसिद्धौ ।
यस्मादित्यर्थे च ।
यद्यपि निषेधकहेतोर्निषेधात्मनो ऽप्रामाणिकमप्याश्रयो दृष्टान्तधर्मी च क्वचिद्भवतीत्युक्तम् ।
तथापि विधायकानां विधिरूपाणां चाश्रयेणावश्यं प्रत्यक्षागमगृहीतेन भाव्यम् ।
क्वचिन्निषेधकस्य निषेधात्मनश्च निषेधे, साध्ये, क्वचित्प्रतियोगिना प्रत्यक्षादिगृहीतेन भवितव्यम् ।
लिङ्गं च न स्वरूपेण साध्यप्रमितिमुपजनयितुमलम् ।
किन्तु प्रत्यक्षागमाभ्यां निश्चितस्वरूपव्याप्तिकम् ।
इत्येवमनेकधा सर्वे ऽपि न्यायाः प्रत्यक्षागममूला एव भवन्तीति तावत्प्रसिद्धम् ।
यत एवं, तस्मादमूलाः स्वमूलभूतप्रत्यक्षागमविरुद्धा न्यायाभासा एव स्युः ।
यथा (खलु) नैशत्यादिसम्पन्नो ऽपि परशुरविषये गगनादौ न छिदां जनयति एवमनुमानान्यप्युपजीव्यत्वादिना प्रबलाभ्यां प्रत्यक्षागमाभ्यां
बाधितत्वेनाविषये न प्रमामुपजनयितुमलमित्याभासभूतान्येवेति ।
९,८८
नन्वनुमानमूलो ऽपि न्यायो ऽस्ति ।
यथा चक्षुरादिपक्षीकारेण प्रवृत्तः ।
तत्कथं प्रत्यक्षागममूलाः स्युरित्युक्तमित्यत आहन्यायस्येति ।
… न्यायस्यान्यस्य तौ पुनः । (अनुव्याख्यानम्)३,२.१८द् ।
न्यायसुधा-
प्रत्यक्षागममूलान्न्यायादन्यस्यापि न्यायस्य तौ प्रत्यक्षागमावेवे मूलम् ।
कथम् ।
यतो मूलभूतस्याप्यन्यस्य न्यायस्य तौ पुनर्मूलमित्यन्ततः सर्वथा प्रत्यक्षागमानतिक्रमात्तथोक्तमिति ।
यद्यप्यागमो ऽपि प्रत्यक्षमूलस्तथापि क्वचित्प्रत्यक्षस्यापि मूलं भवतीत्यतो द्वयोर्ग्रहणम् ।
अनुमानस्यापि क्वचित्तन्मूलत्वे ऽपि न स्वतन्त्रस्येत्यतस्तत्परित्यागः ।
९,८९
एवं व्याप्तिभङ्गाद्यनपेक्षमेवाविषयवृत्तित्वेन बाधितस्य दुष्टत्वमुपपादितम् ।
प्रकारान्तरमप्याहअदृष्ट इति ।
अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।
ज्ञायते साक्षिणैवाद्वा … । (अनुव्याख्यानम्)३,२.१९अच् ।
न्यायसुधा-
तुशब्दो ऽवधारणे ।
तल्लिङ्गं धूमादिकं दहनादिसाध्यव्यभिचारे ऽद्धा सर्वथाप्यदृष्ट एव सति तस्य साधकं न तु व्यभिचारदर्शन इति तावत्साक्षिणैव स्फुटं ज्ञायते ।
९,९०
किमते यद्यदृष्टव्यभिचारस्यैव लिङ्गस्य साध्यसाधकत्वं साक्षिसिद्धमित्यत आहमानेति ।
… मानबाधे न तद् भवेत् । (अनुव्याख्यानम्)३,२.१९द् ।
यत् साक्षिणैव मानत्वं मानानामवसीयते । (अनुव्याख्यानम्)३,२.२०अब् ।
न्यायसुधा-
प्रमाणबाधे सति तद्दृष्टान्तव्यभिचारित्वं न भवेत् ।
प्रमाणबाधेनाग्न्यादेः शैत्याद्यपहारे सति तत्रैव लिङ्गस्य कृतकत्वादेः साध्यव्यभिचारदर्शनात् ।
तदनेन व्याप्तिभङ्गहेतुतया बाधस्य दूषणत्वमित्युक्तं भवति ।
तत्रायं विवेकः ।
परार्थप्रयोगोत्तरकालमविषयवृत्तित्वमेवोद्भाव्यम् ।
न व्याप्तिभङ्गः ।
व्याप्तिभङ्गोपपादनायोपजीव्येनाविषयवृत्तित्वेनैवानुमानस्य दुष्टत्वे जघन्यप्रतिपत्तिकस्य व्याप्तिभङ्गस्यानुसरणस्यान्याय्यत्वात् ।
व्याप्तिग्रहणसमये तु तद्भङ्गहेतुत्वेनैव ।
तदानीं विषयस्य बुद्धावनारूढत्वात् ।
व्याप्तिभङ्गस्यैव पुरस्फूतिर्कत्वाच्चेति साक्षिणैवेत्युक्तम् ।
तत्प्रसङ्गादुपपादयतियदिति ।
यस्मात्सर्वेषां मानानां ज्ञानानां मानत्वं साक्षिणैवावसीयते ।
अन्यतानवस्थादिप्रसङ्गात् ।
तस्मादनुमानस्यापि प्रामाण्यं तेनैव ज्ञायत इत्युक्तमेव ।
९,९१
यदि तर्हि प्रामाण्यं साक्षिवेद्यं साक्षिणः प्रागुपपादितो याथार्थ्यनियमो भज्येत ।
कदाचिदमानस्यापि हि मानत्वं गृह्यते ।
अन्यथा विपर्ययादिशङ्का प्रवृत्तिर्न स्यात् ।
तस्य चायथार्थत्वं बाधेनावेद्यते इत्यत आहअमानस्येति ।
अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत् । (अनुव्याख्यानम्)३,२.२०च्द् ।
न्यायसुधा-
मानत्वं मानत्वग्रहणं चलं बाधितम् ।
अमानस्य तु यन्मानत्वं गृह्यते तन्मनसैव ।
न साक्षिणा ।
अतस्तस्य बाध्यत्वं न दोषमावहतीति ।
अत्रैषा प्रक्रिया ।
सर्वमपि ज्ञानं साक्षी गृह्णाति ।
यद्यस्य बाधो भविष्यति तदाप्रमाणं न चेत्प्रमाणमेवेति तत्प्रामाण्यमपि गृह्णाति ।
सति प्रयोजने प्रामाण्यादिजिज्ञासायां परीक्षामनुसृत्य प्रामाण्यमप्रामाण्यं वा व्यवस्थापयति ।
अलाभे तु परीक्षाया विशेषावधारणादुदास्ते ।
९,९२
अस्यामवस्थायां रागादिकलुषितं मनः परीक्षाऽभाससहायं प्रामाण्यादिकमवधारयति ।
तच्च कदाचिद्बाध्यते कदाचिन्नेति ।
कुत एषा कल्पनेति चेत्साक्षिणो याथार्थ्यनियमस्यैवोपापदितत्वात् ।
वक्ष्यते चैतदिति ।
९,९४
अदृष्टे व्यभिचार इति साध्यव्यभिचारिलिङ्गमप्रमाणमित्युक्तम् ।
तत्र दृष्टव्यभिचारिलिङ्गमप्रमाणमित्युक्तं (भवति) ।
तत्र विशेषमाहउत्सर्गतो ऽपीति ।
उत्सर्गतो ऽपि यत् प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यति । (अनुव्याख्यानम्)३,२.२१ ।
९,९५
न्यायसुधा-
यल्लिङ्गमुत्सर्गतः स्वभावेनापवादविवर्जितं साध्यव्यभिचारवर्जितं प्राप्तं निश्चितमप्यपवादेन कारणविशेषेणैव व्यभिचारि तन्मानमेव भविष्यति ।
एतदुक्तं भवति ।
यथा साधनस्य साध्यसाहित्यमात्रं न प्रामाण्ययोपयोगि ।
किन्तु निरुपाधिकमेव ।
अन्यथा सोपाधिकसाध्यसम्बन्धस्य, मैत्रीतनयत्वादेरपि श्यमतासाधनत्वप्रसङ्गात् ।
तथा व्यभिचारो ऽपि निरुपाधिक एवासा(को ऽसा)धनत्वे हेतुः ।
यथा प्रमेयत्वस्य नित्यत्वेन ।
नहि प्रमेयत्वं स्वभावेन नित्यत्वाव्यभिचारि, व्यभिचारि तु निमित्तान्तरेणेत्यत्र नियामकं पश्यामः यस्तु स्वभावेन नित्यत्वाव्यभिचारि,
व्यभिचारि तु निमित्तान्तरेणेत्यत्र पश्यामः यस्तु स्वभावेन साध्यव्यभिचारिणो ऽपि साधनस्यौपाधिको व्यभिचारो नासावप्रामाण्यकारणमिति ।
कुत एतदित्यत आहअतो हीति ।
अतो हि भोजनादीनामिष्टसाधनतानुमा ।
मानं व्यवहृतौ नित्यं … । (अनुव्याख्यानम्)३,२.२२अच् ।
९,९६
न्यायसुधा-
एवशब्दो ऽत्राध्याहार्यः ।
सोपाधिक(स्य)व्यभिचारस्याप्रामाण्यकारणत्वाभावादेव ह्यागामिभोजनादीनामिष्यसाधनतानुमानम् यदि सोपाधिको ऽपि व्यभिचारो
ऽप्रामाण्यहेतुः ।
स्यात्तदा विमतं भोजनमिष्यसाधनं भोजनत्वात् ह्यस्तनभोजनवदित्यनुमानममानं प्रसज्येतेति ।
अप्रामाण्यमेव तदस्त्वित्यत आहव्यवहृताविति ।
कारणमिति शेषः ।
यदि व्यभिचारेणेदममानं स्यात्तदा प्रमेयत्वमिव व्यवहर्तृभिरमानतया निश्चीयेतापि ।
तथा च ततो भोजने प्रेक्षावतां प्रवृत्तिर्न स्यात् ।
ननु व्यभिचारिसाधनं सन्देहमावहति ।
सन्देहो ऽपि भवति प्रवृत्तिहेतुरिति ।
सत्यम् ।
सन्देहः साशङ्कां प्रवृत्तिमुपजनयति न निरङ्कुशाम् ।
इयं तु निरङ्कुशा सर्वानुभवसिद्धेति ।
तदिदमुक्तम्नित्यमिति ।
पूर्वेणैव सम्बन्धः ।
९,९७
भवतीदमनुमानं प्रमाणं किन्तु व्यभिचाराभावादेवेत्यत आहव्यभिचारो हीति ।
… व्यभिचारो हि तत्र च । (अनुव्याख्यानम्)३,२.२२ ।
न्यायसुधा-
तत्र भोजनत्वादौ साधने साध्येष्यसाधनत्वव्यभिचारः स्फुट एव ।
क्वचिदनिष्यसाधनत्वस्याप्युपलम्भात् ।
किन्त्वपथ्यत्वाद्युपाधिनिबन्धन एव ।
नच पथ्यत्वादिविशिष्यमेव भोजनत्वादिकं साधनमिति वाच्यम् ।
तस्य प्रवृत्त्युत्तरकाले, फलानुमेयस्य प्रागसिद्धेः ।
न खलु फलमूलादीनां विषपत्रिकाद्यनुपहतत्वमस्मदादिभिरवधारयितुं शक्यते ।
तस्मान्निरुपाधिक एव व्यभिचारो ऽसाधनत्वहेतुरिति ।
तदेवं प्रमाणबाधस्य दूषणत्वे प्रकारसम्भवान्नासदाश्रयत्वस्यादूषणत्वे तत्प्रतिबन्दी युक्तेति ।
९,९८फ़्.
एवमसदाश्रयत्वस्य हेतुदूषणत्वं निराकृत्य व्यधिकरणत्वस्यापि तन्निराकुर्वाणो यदि व्यधिकरणो ऽपि हेतुः स्यात्तदाऽत्मा(ऽनि)नित्यः काकस्य
कार्ष्यादित्ययमपि हेतुः स्यादित्यतिप्रसङ्गाद्वा व्यधिकरणत्वस्य हेतुदूषणत्वमङ्गीकतर्व्यम् व्याप्त्यभावाद्वा पक्षधर्मताभावाद्वेति विकल्पं मनसि
निधायाद्यं निराचष्टेव्याप्तत्व इति ।
९,९९
व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् । (अनुव्याख्यानम्)३,२.२३अब् ।
न्यायसुधा-
साधनस्य साध्येन व्याप्तत्वे सति तेन विभिन्नाश्रयत्वं कथमेव हि दूषणम् ।
न कथञ्चित् ।
इदमुक्तं भवति ।
काकस्य कार्ष्ण्यं व्याप्त्यभावादेव हि नित्यत्वासाधकं न पुनर्व्यधिकरणत्वम् ।
अतो नातिप्रसङ्गः ।
कुत एतत् ।
व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेणासाधकत्वस्य क्वाप्यनुपलम्भात् ।
घटस्य कृतकत्वात् शब्दो ऽनित्यत इत्यादौ दृष्टमिति चेत् ।
घटस्येत्येतद्धेतुविशेषणं न वा ।
आद्ये वैयर्थ्यम् ।
द्वितीये कथमसाधकत्वम् ।
(अथ) अनित्यत्वव्याप्तमपि कृतकत्वं घटवृत्ति न शब्दे ऽनित्यत्वं साधयतीति चेन्न ।
व्याप्त्यभावात् ।
तथाच वक्ष्यामः ।
९,१०२
न केवलं व्याप्त्याद्यङ्गसाकल्ये व्यधिकरणत्वमात्रेण दुष्टत्वं न दृष्टम् ।
किन्तु दृष्टं च व्यधिकरणस्यापि व्याप्त्यादिसम्पत्तिमतः साधकत्वमित्याहरोहिणीति ।
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।
इत्युक्ते साधनं नो किं … । (अनुव्याख्यानम्)३,२.२३च्ए ।
न्यायसुधा-
नदीपूरदर्शनेनोत्तरदेशे वृष्टयनुमानं, प्रत्यग्रशरावचक्रभ्रमदर्शनेन कुलालासत्त्यनुमानं चाशङ्कय केनचिदुक्तं नोत्तरदेशो ऽत्र पक्षः किन्नाम नदी ।
तद्धर्मेणैव पूरेण, तद्धर्मस्य वृष्टिमदुत्तरदेशसम्बन्धस्य साध्यत्वम् ।
एवं शरावचक्रधर्माभ्यां प्रत्यग्रत्वभ्रमाभ्यां तद्धर्मस्यैव कुलालासत्तेरनुमानमिति ।
अत इदमुदाहरणान्तरमुदितम् ।
नहि त(थेहो)त्रेवेह रोहिण्याः कृत्तिकाया वा द्वौ धर्मौ सम्पादयितुं शक्यौ ।
९,१०२फ़्.
नन्विहापि कालं पक्षीकृत्य प्रयोक्तव्यम् ।
विमतः कालो रोहिण्युदयासत्तिमान्कृत्तिकोदयवत्कालत्वादतीतकालवदिति ।
(मैवम्) एवं सति देशं कालं वाऽदाय सामानाधिकरण्यस्य सर्वत्र सत्त्वाद्वयधिकरणासिद्ध एव न स्यादिति व्यर्थं तत्परिसङ्खयानम् ।
एवमप्रयोगे व्यधिकरणत्वं सावकाशमिति चेन्न ।
तथा सत्यसिद्धेरुक्तिदोषत्वाभावप्रसङ्गात् ।
नचोक्तिदोषत्वमपि ।
व्यधिकरणतयोक्तेरपि साध्यसिद्धयङ्गत्वानुभवात् ।
एवमेव हि लौकिकानामुक्तयः ।
परीक्षका अपि हि’तत्प्रामाण्यमपातप्रामाण्यात्’ इत्यादि प्रयुज्यते ।
तदिदमुक्तम् इति व्यधिकरणतया उक्ते ऽप्येतद्वाक्यं, साधनं साध्यसिध्यङ्गं नो किं भवत्येवेति ।
९,१०५
किञ्च कालादिकमादाय प्रयोगविपरिणामः कार्य इत्यत्र (किं) नैयायिकादिसमयो नियामकः, किंवा(त्र)प्रमाणमस्ति ।
आद्यं दूषयतिन हीति ।
… न ह्याज्ञैवात्र साधका । (अनुव्याख्यानम्)३,२.२३ ।
९,१०५फ़्.
न्यायसुधा-
अत्र उपपत्ति(सिद्धे ऽर्थे) साध्ये ऽर्थे ।
आज्ञैव समयमात्रम् ।
तथा सति सर्वं वाङ्मात्रेणैवोपदेष्यव्यम् ।
न पुनः क्वापि प्रमाणं वाच्यम् ।
विपरीताज्ञया सत्प्रतिपक्षता च स्यादिति हि शब्दार्थः ।
आज्ञा खलु प्रमाणात्परविषये धर्मादौ भवति ।
सा चावगताप्तभावानाम् ।
नापि द्वितीयः ।
तदनुपलम्भात् ।
९,१०६फ़्.
स्यादेतत् ।
व्याप्तिस्तावदनुमानाङ्गम् ।
सम्बन्धविशेषश्च व्याप्तिः ।
नच व्याश्रययोः सम्बन्धो युज्यते ।
अतो व्याश्रयत्वस्य दोषत्वात्सम्भ(तवि)ते विषये विपरिणाम इति ।
मैवम् ।
अविनाभावमात्रस्य व्याप्तित्वात् ।
अविनाभावश्च क्वचिदेकाश्रयतामन्तर्भाव्य भवति ।
यथा कृतकत्वस्यानित्यत्वेन ।
अत एवान्यगतेन तेन नान्यत्रानित्यतासिद्धिः ।
क्वचिद्विभिन्नाश्रययोरेव ।
यथा धूमस्याग्निना ।
धूमाग्नी खलु न समवायवृत्त्या समानाश्रयौ ।
नापि संयोगवृत्त्या ।
ऊर्ध्वाधोदेशसंयोगित्वात् ।
(धूमस्याधोदेशसंयोगस्य सिद्धत्वात्) ।
तथाप्येकपर्वतसंयोगिता द्वयोरस्तीति चेन्न ।
तथा सत्यग्न्यर्थिनो नियमेन प्रदेशविशेषे प्रवृत्त्यनुपपत्तेः ।
धूम एव धूमत्वेन मूले ऽग्निमान्साध्यत इति चेत् ।
किमेषा लौकिकी प्रतीतिः ।
आहोस्वित्समयसिद्धये विपरिणामः क्रियते ।
न प्रथमः ।
लौकिका ह्यूर्ध्वदेशं धूमवन्तमवलोक्याधोदेशं वह्निमन्तमवगच्छन्ति ।
न द्वितीयः ।
निर्मूलत्वात् ।
अपि च देहादीनां तावत्परेण क्षणिकता स्वीक्रिय(ऽऽस्थीय)ते ।
तत्र पतनकमर्णा गुरुत्वानुमानं दुर्घटं स्यात् ।
नहि तयोः कालतः सामानाधिकरण्यम् ।
कार्यकारणभावात् ।
नापि देशतः ।
विभिन्नद्रव्याश्रयत्वात् ।
अतः कस्यचिद्विभिन्नाश्रयेणैवाविनाभावः ।
९,१०९
ननु व्यधिकरणस्य पक्षधर्मता नास्तीति चेन्मा भूत् ।
तन्नियमस्य निर्निबन्धनत्वात् ।
तथा सति साध्य(स्य)नियतदेशता कथं सिद्धयेदिति चेद्वयाप्तिस्वभावादिति ब्रूमः ।
यथा हि ।
यत्कृतकं तदनित्यमिति सामानाधिकरण्यमन्तर्भाव्य व्याप्तेः कृतकत्वं स्वाश्रय एवानित्यत्वं गमयति ।
तथा कृत्तिकोदयो व्यधिकरणयैव रोहिण्युदयासत्त्या व्याप्त इति तौ तथैव गमयति ।
यथा च सामानाधिकरण्ये ऽप्यस्ति प्रदेशादिनियमस्तथा वैयधिकरण्ये ऽपीति को दोषः ।
तस्माद्यत्रेदं तत्रेदमितिवद्यदेदं तदेदमितिवत् यदेवं तदेवमितिवच्च यदीदं तर्हीदमिति व्याप्तिसम्भवात् ।
व्याप्त्यनुरोधेनैव हेतुसिद्धेरावश्यकतया पक्षधर्मतानावश्यकत्वाद्युक्तं व्यधिकरणस्यापि हेतुत्वमिति ।
९,११०
तथा साध्यविशेषणस्याप्रसिद्धावपि ।
तथाहि ।
साध्यविशेषणशप्रसिद्धेः कुतो दूषणत्वात् ।
किं विश्वं सदसद्विलक्षणं बाध्यत्वादित्यादेरपि प्रामाण्यप्रसङ्गात् ।
उत साध्यविशेषणाप्रसिद्धौ तत्सन्देहानुपपत्तौ पक्षत्वानुपपत्तेर्हेतोः पक्षधर्मत्वानुपपत्तिप्रसक्तेः ।
अथवा साध्यविशेषणाप्रसिद्धौ तेन साधनस्य व्याप्तिप्रतीत्यनुपपत्तिप्रसङ्गात् ।
यद्वा प्रतिज्ञावाक्यस्याप्रतीतपदार्थकत्वेनाबोधकत्वापत्तेः ।
आद्यं दूषयतिअन्यदिति ।
अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा । (अनुव्याख्यानम्)३,२.२४अब् ।
९,११०फ़्.
न्यायसुधा-
सन्न भवतीत्युक्ते ऽसत्त्वमुक्तं भवेत् (स्यात्स)सत्त्वप्रतिक्षेपरूपत्वादसत्त्वस्य ।
पुनरसन्न भवतीत्युक्ते स्ववचनव्याहतिः ।
एवमसन्न भवतीत्युक्त्या द्वौ नञौ प्रकृतमर्थं सातिशयं गमयत इति सत्त्वं लभ्यते ।
पुनः सन्न भवतीत्युक्ते स्वव्याहतिरेव ।
तदेवं विश्वं सदसतोः सकाशादन्यत् सदसच्च न भवतीत्येषा प्रतिज्ञा स्वव्याहतेरेव अमा(ऽप्रमा) साधनाङ्गं न भवति ।
नतु विशेषणस्य सदसद्वैलक्षण्यलक्षणस्याप्रसिद्धत्वेन ।
कुतः ।
स्वव्याहतिर्हि मे माता वन्ध्येत्यादौ दूषणत्वेन सम्प्रतिपन्ना ।
स्ववचनस्वन्यायस्वक्रियास्वसिद्धान्तप्रमाणान्तराप्रतिहताया एवोक्तेः साधनदूषणाङ्गत्वात् ।
नहि स्वविषविमूर्छिता भुजङ्गी परं दशति ।
नच दोषान्तरासङ्कीर्णं साध्यविशेषणासिद्धेरुदाहरणं पश्यामो येन दोषत्वं प्रतीमः ।
कस्यचिदसाधारणधर्मेण शशविषाणादिमत्त्वसाधनमपि प्रमाणं किन्न स्यादिति चेन्न ।
तत्रापि दृश्यानुपलम्भबाधस्य विद्यमानत्वात् ।
अतीन्द्रियसंसगर्साधने न को ऽपि दोष इति चेन्न ।
ईश्वरादिसंसर्गेण सिद्धसाधनत्वात् ।
एवमन्यत्रापि सम्प्रतिपन्नाप्रामाण्ये दोषान्तरमन्वेषणीयम् ।
तदिदमुक्तं चशब्देन ।
अत एव व्याहतेरित्युपलक्षणम् ।
९,११४
द्वितीयं पराचष्टेअसिद्धेति ।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते । (अनुव्याख्यानम्)३,२.२४च्द् ।
न्यायसुधा-
साध्याप्रसिद्धया यत्र पक्षधर्मत्वासिद्धिरुच्यते(हेतौ) तत्र व्याप्त्यादीतराङ्गसाकल्यमस्ति न वा ।
न चेत्तत एवानुमानं दुष्यं किं साध्यविशेषणाप्रसिद्धया ।
यदि व्याप्त्यादिकं विद्यते तदासिद्धसाधने को दोषः ।
न को ऽपि ।
अयमभिसन्धिः ।
हेतोर्हि पक्षधर्मत्वासिद्धिस्तदा स्यात् ।
यदि धर्मी वा हेतोस्तद्धर्मत्वं वा न स्यात् ।
सन्देहाभावेन पक्षधर्मत्वासिद्धिस्तदा स्यात् ।
यदि धर्मी वा हेतोस्तद्धर्मत्वं वा न स्यात् ।
सन्देहाभावेन पक्षत्वानुपपत्त्या पक्षधर्म(त्व)ताभावे तु स्वार्थानुमानविशेषविलोपः स्यात् ।
यदा हि यो धूमवानसावग्निमानिति गृहीतव्याप्तिको गिरिशेखरे धूमं पश्यन्व्याप्तिं स्मरति ।
तदोत्पद्यत एवास्यानुमितिः ।
नच तस्याग्निसन्देहो ऽस्ति ।
यदा चाप्तवचनाद्विनिश्चितपर्वताग्निसम्बन्धः पर्वतं प्रत्यासीदन्धूममवलोकयति ।
तदापि तस्य विना सन्देहेनाग्न्यनुमितिर्भवत्येव ।
नहि सामग्री बुद्धिमती ।
येन यन्मया कर्तव्यं तदन्येन कृतमिति पर्यालोच्योदासीत ।
नापि छिन्ने छिदाया इव परिच्छिन्ने परिच्छेदान्तरोत्पादो ऽयुक्तः(वक्तुं न शक्यः) ।
नापि परार्थानुमाने सन्देहनियमः ।
विपर्यस्तस्यापि प्रतिवादित्वोपपत्तेः ।
अत एव सिद्धसाधको ऽसङ्गत एव नाश्रयासिद्ध इत्युक्तम् ।
किञ्च विदिततत्त्वो ऽपि यदा परपरीक्षार्थं (द्यर्थे) तत्र प्रमाणं पृच्छति ।
तदा प्रयुक्तमनुमानममानं स्यात् ।
सन्देहाभावात् ।
तस्मात्सन्दिग्धसाध्यः पक्ष इत्याद्याः प्राचां वाचः सम्भावनाभिप्रायाः ।
परमार्थतस्त्वनुमितिविषय एव पक्षः ।
अतः सन्देहाभावे पक्षत्वानुपपत्त्यभावान्नाप्रसिद्धसाधने पक्षधर्मत्वासिद्धिरूपो दोष इति ।
९,११७
तृतीयं निराकरोतिव्याप्तिश्चेति ।
व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते । (अनुव्याख्यानम्)३,२.२५अब् ।
न्यायसुधा-
तत्र जीवाच्छरीरजातं सात्मकं प्राणादिमत्त्वात्, भूरितरेभ्यो भिद्यते गन्धवत्त्वात्, ईश्वरः सर्वज्ञः सवर्कर्तृत्वादित्यादौ केवलव्यतिरेकिणि
साधनसमूहे ।
तैः अप्रसिद्धैरपि सात्मकत्वादिभिः साध्यैः ।
व्याप्तिश्चास्ति ।
न केवलं पक्षधर्मता ।
व्यतिरेकेण साध्याभावस्य साधनाभावव्याप्तत्वेन लिङ्गेनावगम्यते च सा ।
९,११७फ़्.
इदमुक्तं भवति ।
साध्यविशेषणाप्रसिद्धया व्याप्तिप्रतीत्यभावं प्रसज्जयतो व्याप्त्यभावः ।
तथाहि ।
केवलव्यतिरेक्यनुमानं प्रमाणं न वा ।
नेति पक्षे वक्ष्यामः ।
आद्ये तस्य व्याप्तिसद्भावो व्याप्त्यवगम(श्चावश्यमङ्गी)श्चाङ्गीकार्यः ।
अन्यथानुमानत्वव्याघातात् ।
नच केवलव्यतिरेकिणि साध्यं प्रसिद्धम् ।
पक्षे प्रसिद्धौ सिद्धसाधनत्वात् ।
अन्यत्र प्रसिद्धौ केवलव्यतिरेकिणि साध्यं प्रसिद्धम् ।
पक्षे प्रसिद्धौ सिद्धसाधनत्वात् ।
अन्यत्र प्रसिद्धौ केवलव्यतिरेकिणि साध्यं प्रसिद्धम् ।
पक्षे प्रसिद्धौ सिद्धसाधनत्वात् ।
अन्यत्र प्रसिद्धौ तत्र हेतोर्वृत्तौ केवलव्यतिरेकित्वानुपपत्तेः ।
अवृत्तावसाधारण्यप्रसङ्गात् ।
अतः (प्र)शिथिलमूलः प्रसङ्गः व्यतिरेकिणः क्व व्याप्तिः केन चावगम्यत इति चेत् ।
पक्ष एव व्यतिरेकेणावगम्यत इति ब्रूमः ।
पक्षादिप्रविभागात्प्रागवगता तत्रैव विप्रतिपत्त्योपदर्शयितुमशक्या व्यतिरेकेणोपपाद्यत इति ।
तैरिति बहुवचनेनातिप्रसिद्धतां प्रसङ्गव्याप्तिभङ्गस्य सूचयति ।
९,१२०
न केवलं केवलव्यतिरेकिसाधनस्य साध्येन व्याप्तिर्व्यतिरेकेण तदवगमश्चास्माभिरेवाङ्गीक्रियते ।
किन्त्वप्रसिद्धविशेषणत्वदूषणत्ववादिभिरपि कैश्चिदित्याहतैश्चेति ।
अवगम्यते अभ्युपगम्यते ।
यथाऽहुः ।
यदि साध्येनास्य क्वचिदप्यन्वयो नास्ति तदा विरुद्ध एवायमित्याशङ्कय नोपेयत्वमन्वयस्य व्यासेधामो ऽपि तूपा(यमि)यत्वमित्यादि ।
तथा, यथा च व्यतिरेकबलादन्वयसिद्धिस्तथा वैशेषिकैरप्युपपादनीयम् ।
अन्यथा साध्यसाधनयोरव्याप्तौ व्यतिरेकिणो गमकत्वभङ्गादित्यादि ।
तथा चाप्रसिद्धविशेषणस्यापि केवलव्यतिरेकिणो व्याप्त्युपपादनमप्रसिद्धविशेषणत्वे व्याप्त्यप्रतीतिप्रसञ्जनं च कथं न व्याहतमिति भावः ।
९,१२३
यदुक्तं केवलव्यतिरेकिणो व्याप्त्यवगमात्परैरभ्युपगमाच्च नाप्रसिद्धविशेषणत्वे ऽपि व्याप्त्यवगमात्परैरभ्युपगमाच्च नाप्रसिद्धविशेषणत्वे ऽपि
व्याप्त्यनवगतिरिति ।
तदयुक्तम् ।
यतः केवलव्यतिरेकिण्यन्यैव गतिः ।
ये हि सम्प्रतिपन्नप्रमाणभावाः केवलव्यतिरेकिणस्तेषु सामान्यतो ऽन्वयव्याप्तिरेवाभिधातव्या ।
तथा हि ।
प्राणादिमत्त्वेन जीवच्छरीरस्य सात्मकत्वे साध्ये यद्यत्कार्यवत्तत्तत्कारणवद्यथाहङ्कुरवती भूमिर्बीजगर्भेति ।
(य)तथा गन्धवत्त्वेन भुवो ऽन्यभेदसाधने यद्यदसाधारणधर्मवत्तत्ततो भिद्यते यथा अबादीति ।
एवमीश्वरस्य सर्वकर्तृत्वेन सार्वज्ञसाधने यो यस्य कर्ता स तस्य कारणं प्रयोजनं च जानाति ।
यथा कुलाल इति ।
एवं शब्दः पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्याश्रितः पृथिव्यादिवृत्तौ बाधकोपपन्नत्वे सति गुणत्वादित्यादौ यो यद्वृत्तौ बाधकोपपन्नत्वे सति गुणः
स ततो ऽन्यद्रव्यवृत्तिर्यथा गन्ध इत्यादिरूपेण सामान्यतो व्याप्तिरभिधातव्या ।
यद्वा सामान्यतो विशेषणप्रसिद्धिं विधाय केवलव्यतिरेकी प्रयोक्तव्यः ।
यथा ज्ञानतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वादित्यनेन सामान्यतः सार्वज्ञसिद्धौ तस्येश्वरसम्बन्धः केवलव्यतिरेकिणा साध्यते ।
तथेच्छादयः क्वचिदाश्रिता गुणत्वाद्रूपवत् ।
यश्चेच्छादीनामाश्रयः स एवात्मेति सामान्येनात्मसिद्धौ तत्सम्बन्धो जीवच्छरीरस्य केवलव्यतिरेकिणा साध्यते ।
एवमन्यत्रापि यथासम्भवमूह्यम् ।
क्वचित्पक्षैकदेश एव विशेषणप्रसिद्धिमाश्रित्य केवलव्यतिरेकी प्रवर्तते ।
यथा पृथिवी इतरेभ्यो भिद्यते पृथिवीत्वान्न यदेवं न तदेवं यथा जलादीत्यत्र घटादावेव विशेषणप्रसिद्धेर्नाप्रसिद्धविशेषणता ।
नचैवं सपक्षसम्भवेन केवलव्यतिरेकित्वभङ्गः ।
घटादेः पक्षैकदेशत्वात् ।
नचांशे सिद्धसाधनता ।
एकैकत्र प्रसिद्धावप्यापरमाणरोः आ च भूगोलकादसिद्धेरिति ।
अभावो वा केवलव्यतिरेकिणा साध्यः ।
भावे हि प्रतिपाद्ये व्यतिरेकव्याप्तौ तदभावस्य प्रतियोगिप्रतीतिसापेक्षतया विशेषणप्रसिद्धयपेक्षा ।
अभावे तु साध्ये नायं दोषः ।
अभावाभावस्य भावत्वेन प्रतियोगिनिरपेक्षत्वात् ।
एवमन्ये ऽप्युक्तिविशेषप्रकारा द्रष्टव्याः ।
[जोस्हि१३]
९,१२८
तेष्वन्यतमस्याप्यभावे ऽप्रसिद्धविशेषणता दूषणमेव ।
अतो न केवलव्यतिरेकिप्रामाण्यमवलम्ब्याप्रसिद्धविशेषणतादूषणत्वं निरसनीयमित्यत आहअप्रसिद्धस्येति ।
९,१२९
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।
लिङ्गस्योक्तौ विशेषो ऽयं केन मानेन गम्यते । (अनुव्याख्यानम्)३,२.२५च्फ़् ।
न्यायसुधा-
साध्यस्येति कर्मणि षष्ठी लिङ्गस्येति कर्तरि ।
अयमिति बुद्धिस्थपरामर्शः ।
भवेदेतद्यद्ययं केवलव्यतिरेकिण्युक्तिविशेषः कार्य इत्यत्र नियामकं स्यात् ।
न चैतदस्ति ।
तथाहि ।
किमनेनोक्तिविशेषेण केवलव्यतिरेकिसाध्यमन्वयितां नीयत उत नेति वक्तव्यम् ।
नाद्यः ।
उक्तेरर्थतथात्वपरिवर्तकत्वासम्भवात् ।
नहि सहस्रेणाप्युक्तीनां नरो वानरीकर्तुं शक्यते ।
शक्यत्वे वा केवलव्यतिरेकिप्रामाण्यं त्यक्तं स्यात् ।
द्वितीयस्येदमुक्तम् ।
यदा लिङ्गस्याप्रसिद्धस्य साध्यस्य साधकत्वमिष्यते ।
यद्युक्तिविशेषणापि लिङ्गं केवलव्यतिरेकिसाध्यसाधकमेव नान्वयितामापद्यत इतीष्यत इति यावत् ।
तदायमुक्तौ विशेषः केन मानेन कर्तव्यतया ज्ञायते न केनापि ।
अतो ऽप्रसिद्धविशेषण एव केवलव्यतिरेकी साधकश्चेति नाप्रसिद्धविशेषणत्वस्य दोषत्वमिति ।
अस्त्येवोक्तिविशेषस्य कर्तव्यतायां नियामकम् ।
तथाहि ।
यद्यप्युक्तिविशेषो न व्यतिरेकिणमन्वयिनं करोति ।
तथापि लिङ्गस्य साध्येन व्याप्तिस्तावदश्यम्भाविनी ।
नच सा केवलव्यतिरेकिणि साक्षादुपर्शयितुं शक्या ।
अन्वयग्रहणस्थलस्य विप्रतिपत्त्या प्रतिरुद्धत्वात् ।
अतः साध्यव्यतिरेकस्य साधनव्यतिरेकेण विपक्षे व्याप्तिं प्रदर्श्योपपादनीया ।
९,१३०
यदि वा व्यतिरेकव्याप्तिरेव साध्यसिद्धेरङ्गम् ।
तथापि तद्ग्रहो ऽवश्यम्भावी ।
व्यतिरेकश्च प्रतियोगिप्रतीत्यधीनप्रतीतिक एव ।
प्रतियोगिनौ च लिङ्गसाध्यधर्मौ ।
तत्र लिङ्गं पक्षे प्रतीतमेव ।
साध्यधर्मश्च न पक्षे प्रतीतो नाप्यन्यत्र ।
तत्कथं व्यतिरेकयोरपि व्याप्तिर्गृह्यताम् ।
एतैस्तूक्तिविशेषैः कथञ्चित्प्रतियोगिनः साध्यधर्मस्य बुद्धिस्थतायां सुकरो व्याप्तिग्रहः स्यात् ।
९,१३१
प्रतिज्ञावाक्यं चैवमविदितपदार्थकं न प्रसज्यत इत्यत आहसाधनमिति ।
साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ।
यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा । (अनुव्याख्यानम्)३,२.२६ ।
न्यायसुधा-
परमाणुकारकतां कार्याणामभ्युपगच्छता वैशेषिकादिना परमाणुसद्भावः साध्यते ।
तथा प्रधानोपादानतां वदता साङ्खयेन प्रधानसद्भावः ।
एवमन्यदपि समवायादिकं तदङ्गीकारिभिः समर्थ्यते ।
तत्र पृच्छामः ।
यः परमाण्वादिकमभ्युपैति तं प्रति तत्सद्भावः साध्यते, उत न सन्ति परमाणव इति तदभावमभ्युपगच्छन्तं प्रति ।
नाद्यः ।
सिद्धस्य साधनायोगात् ।
द्वितीये त्वबुद्धयारूढस्य परमाण्वादेः साधनाय कथं वादिनः प्रयत्नः कथं च तदभावं परो मन्येत ।
प्रतियोगिनो ऽविदितत्वात् ।
अथ मन्यसे कणादाद्युपदेशेन, सामान्यतो दृष्टस्वार्थानुमानेन वा स्वयमवगतं परमाण्वादिकं वादिना शक्यत एव साधयितुम् ।
वादिवाक्येन च प्रतियोगिनः परमाण्वादेरवगमे तदभावा(नुम)भिमतिः प्रतिवादिनो युक्तैव ।
नहि प्रमाणेनैव प्रतियोगी ज्ञातव्य इति नियमो ऽस्ति शशविषाणाद्यभावप्रतीत्यानुपपत्तिप्रसङ्गादिति ।
यद्येवमत्यन्ताप्रसिद्धस्यापि परमाण्वादेरनुभवमार्गमनतिक्रम्य साधनमिष्यते ।
तदैतद्वयतिरेकिसाध्यसाधनमप्यनुभवानुसारेणैव कुतो नाङ्गीकार्यम् ।
तथाहि ।
प्रत्यक्षेणोपदेशेन वासाधार(णध)णौ धर्मावेकत्रोपलब्धवतस्ततो ऽन्यत्र सवर्त्रापि तदभावोपलम्भसम्भवे व्यतिरेकव्याप्तिग्रहस्तावद्वादिनः
सुकर एव ।
प्रतिवादिनो ऽपि वादिवाक्यावगतप्रतियोगिनस्तदभावावगमसम्भवात् ।
व्यतिरेकव्याप्तिग्रहः सम्भवत्येव ।
तथाच प्रागुक्तरीत्यान्वयसमर्थनेन अप्रसिद्धसाध्यसाधने सम्भवति किमेताभिः क्लिष्यकल्पनाभिः ।
एवञ्च न प्रतिज्ञावाक्यस्याविदितपदार्थकत्वप्रसङ्गः ।
वादिना तदर्थस्य व्युत्पादितत्वा(द्यत्वा)दिति ।
९,१३३
उपसंहरतियत्रेति ।
यत्र नातिप्रसङ्गो ऽस्ति मानं नच विपर्यते ।
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः । (अनुव्याख्यानम्)३,२.२७ ।
न्यायसुधा-
विषये केवलव्यतिरेकिणि ।
एवं सामान्यान्व(वमन्व)याभिधानादिना साधनं कार्यमिति नियामकं (मानं वा) नास्ति ।
व्याप्तिप्रतीत्यादेरन्यथासिद्धत्वात् ।
ऋजुनानुभवानुसारिणा मार्गेण सिद्धयतो ऽर्थस्य वक्रेणानानुभाविकेन साधनायोगात् ।
विपर्यये तथा साधनाकरणे, अतिप्रसङ्गश्च नास्ति ।
स्वव्याहत्यादिनैवापरस्याभासत्वात् ।
अत्र क्लिष्यकल्पनयैव साध्यसाधनं कार्यमित्यतिदुष्यं वाक्यमिति ।
अनेन विशिष्यव्यतिरेकमाश्रित्य या महाविद्यादिवक्ररीतिः साप्यपास्ता वेदितव्या ।
भवेदेतद्यदि केवलव्यतिरेक्यनुमानं भवेत् ।
नचैवम् ।
पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चरूपोपपन्नं खल्वनुमानं भवति ।
नच केवलव्यतिरेकिणस्तदस्ति ।
सपक्षाभावेन सपक्षे सत्त्वाभावात् ।
नचैवं केवलान्वयिनो ऽपि विपक्षाभावेन विपक्षाद्वयावृत्तेरभावादननुमानत्वप्रसङ्ग इति वाच्यम् ।
अन्वयव्यतिरेकवत एवानुमानत्वेनानिष्याभावादिति ।
९,१३६
द्वितीयमाशङ्कयाहपरिशेष इति ।
परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः ।
असिद्धसाधकत्वेन पञ्चावयवतां विना ।
अङ्गीकार्याः समस्तैस् … । (अनुव्याख्यानम्)३,२.२८अए ।
न्यायसुधा-
प्रसक्तप्रतिषेधे परिशिष्यमाणे बुद्धिः परिशेषः ।
द्वयोः परस्परापेक्षयोत्पत्तिर्ज्ञप्तिर्वा मिथःसिद्धिः ।
बहूनां चक्रवदितरेतरापेक्षयोत्पत्त्यादिकं चक्रकम् ।
स्वापेक्षं स्वोत्पत्त्यादि स्वाश्रयः ।
आदिपदेनानवस्था ।
सा चानवस्थितासिद्धोत्पादकादिपरम्परापेक्षा ।
असिद्धसाधकत्वेन हेतुना ।
पञ्चावयवतां पञ्चरूपोपपन्नताम् ।
अङ्गीकार्याः अनुमानत्वेन समस्तैर्वादिभिः ।
न खलु को ऽपि वादी परिशेषादीननादृत्य परीक्षायां प्रवृत्तो ऽस्ति ।
९,१३६फ़्.
एतदुक्तं भवति ।
परिशेषादीनि तावदनुमानानि, व्याप्यज्ञानाद्वयापकज्ञानमिति तल्लक्षणाक्रान्तत्वात् ।
प्रमाणप्रपञ्चरुचिभिरप्यनुमानाद्बहिर्भावेन तत्प्रामाण्यस्यानभ्युपगतत्वाच्च ।
तानि चासिद्धस्यैव साध्यस्य साधकानि ।
शब्दस्य हि पृथिव्याद्यष्टसंसर्गे प्रतिषिद्धे परिशेषात्तदतिरिक्तद्रव्याश्रितत्वं सिद्धयति ।
नच प्रागाकाशसिद्धेः पृथिव्याद्यतिरिक्तं द्रव्यं सिद्धम् ।
येन तदाश्रितत्व क्वचित्प्रसिद्धं स्यात् ।
यत् यस्य कार्यं प्रमितं परेणाङ्गीकृतं वा तस्य तत्कार्यतामङ्गीकुर्वाणं प्रति मिथःसिद्धिरुच्यते ।
नच सा क्वचित्प्रसिद्धा ।
द्वयोरपि परस्परापेक्षया पूर्वभावित्वं (से त्वे) सेति पक्षे ऽपि तथा ।
एतेन चक्रकं व्याख्यातम् ।
अस्यैव घटस्यैतत्कार्यत्वम्युप(मुप)गच्छन्तं प्रति स्वाश्रयत्वमभिधीयते ।
(तच्च) स्वस्यैव स्वापेक्षया पूर्वभावित्वं पश्चाद्भावित्वं चाप्रसिद्धमेव ।
असिद्धस्यैव कारणतां ब्रुवाणं प्रत्यनवस्थोच्यते ।
नच क्वचित्कार्ये ऽनवस्थितासिद्धकारणपरम्परा सिद्धा ।
सामान्यतः प्रसिद्धिस्तु केवलव्यतिरेकिण्यपि समाना ।
असिद्धसाधकत्वेन चैषां पञ्चरूपोपपन्नता नास्ति ।
तथा चानुमानानामप्येषां पञ्चरूपोपपन्नत्वाभावात् ।
व्यतिरेकि नानुमानं पञ्चरू(पोपन्नता)पतावैधुर्यादित्यनैकान्तिकमिति ।
९,१४०
दूषणान्तरमाहतन्नियम इति ।
… तन्नियमः किन्निबन्धनः । (अनुव्याख्यानम्)३,२.२८फ़् ।
९,१४०फ़्.
न्यायसुधा-
अनुमाने पञ्चरूपोपपन्नतानियमस्य निर्निबन्धनत्वादतादृशस्याप्यनुमानत्वे बाधकाभावाच्चाप्रयोजको ऽयं हेत्वाभासः ।
नन्वेपां रूपाणां व्याप्तिपक्षधर्मतौपायिकत्वादसिद्धयादिहेत्वाभासपञ्चक(स्य)व्युदासार्थत्वाच्च कथं निर्निबन्धन(त्व)ता ।
कथं च विपक्षे बाधकाभावः ।
उक्तप्रयोजनासिद्धेरेव बाधकत्वात् ।
सपक्षे सत्त्वं विनाप्यनुमानत्वे भूर्नित्या गन्धवत्त्वादित्यादेरसाधारणस्याप्यनुमानत्वं स्यादिति चेन्न ।
सपक्षसद्भावासद्भावाभ्यां भेदसिद्धेरिति ।
९,१४३
एवमाश्रयासिद्धयादेरदूषणत्वमुपपाद्य यदुक्तं’परिहरे ऽपि सिद्धत्वं दूषणम्’ इति तदयुक्तम् ।
वादे निग्रहस्थानाभावस्योक्तत्वादित्याशङ्कां परिहरतिसिद्धेति ।
सिद्दसाधनतायां च न कथावसितिर्भवेत् । (अनुव्याख्यानम्)३,२.२९अब् ।
न्यायसुधा-
यथा सिद्धप्रश्नादौ न वादकथावसितिर्भवेत् किन्तु तत्त्वनिर्णयविरोधित्वादुद्भाव्य त्याजनीयमेव ।
एवं सिद्धसाधनतायां चेत्यर्थः ।
‘तदन्यस्य सिद्धतैव हि साधिका’ इत्यनेन हेतोर्व्याप्त्यसिद्धिः स्वरूपासिद्धिश्च दूषणमिति सूचितम् ।
तत्र केचिदाचक्षते ।
द्विविधं व्याप्त्यभावादिकम् ।
वादिप्रतिवादिनोरन्यतरमतेनोभयमतेन चेति ।
अन्ये तु मन्यन्ते ।
अन्यतराव्याप्त्यादिकं नाम नास्त्येव ।
वस्तुविकल्पासम्भवादिति ।
तत्र किन्तत्त्वमित्याकाङ्क्षायामाहव्यभिचार इति ।
व्यभिचारो हेत्वसिद्धिरेकपक्षे ऽपि दूषणम् । (अनुव्याख्यानम्)३,२.२९च्द् ।
९,१४४
न्यायसुधा-
अत्र व्यभिचार इत्यव्याप्तिमात्रोपलक्षणम् ।
न केवलमुभयपक्षे किन्तु वादिप्रतिवादिनोरेकस्य पक्षे ऽपि व्यभिचारो हेत्वसिद्धिश्च हेतोर्दूषणमेव ।
यद्यपि वस्तुतो ऽन्यतरव्यभिचारादिकं न सम्भवति तथापि प्राग्वस्तुतत्त्वावधारणादाभिमानिकं सम्भवत्येव ।
तथाच हेतुसामर्थ्यसन्देहे ऽप्यहेतुत्वमावश्यकमेव ।
व्याप्त्यादिनिमित्तया निश्चितस्यैव हेतुत्वादिति ।
तदन्यस्येत्यनेन दृष्टान्तस्यापि साध्यादिमत्त्वेनासिद्धिर्दूषणमिति सूचितम् ।
९,१४५
केचिदाचक्षते ।
दृष्टान्तदोषा नाम न सन्ति तेषां यथायोगं हेतुदोषेष्वेवान्तर्भूतत्वादिति ।
तान्प्रत्याहसाध्येति ।
साध्यसाधनवैकल्यं दृष्टान्तस्य … । (अनुव्याख्यानम्)३,२.३०अब् ।
न्यायसुधा-
दूषणमिति वर्तते ।
साध्यवैकल्यादेर्हेत्वाभासान्तर्भावे ऽपि दृष्टान्ताश्रयतया स्पष्टप्रतिभासत्वात् ।
प्रतिभासानुसारेणैवोद्भाव्यत्वादुद्भावनार्थत्वाच्च व्युत्पादनस्य दृष्टान्तदोषत्वं युक्तमिति भावः ।
दृष्टान्तदोषांश्च केचिदष्टावाचक्षते ।
साध्यवैकल्यं साधनवैकल्यमुभयवैकल्यमाश्रयहीनत्वमिति चत्वारः साधर्म्यदृष्टान्तदोषाः ।
साध्याव्यावृत्तिः साधनाव्यावृत्तिरुभयाव्यावृत्तिराश्रयहीनत्वमिति चत्वारो वैधम्यर्दृष्टान्तदोषा इति ।
तन्नेत्याहसाध्येति ।
सिद्धे सत्यारम्भो नियमार्थः ।
साध्यसाधनवैकल्यमेव दृष्टान्तस्य दूषणं नापरमित्यर्थः ।
तथाहि ।
उभयवैकल्यं तावत्पृथङ् न वाच्यम् ।
एकैकवैकल्येनैव दृष्टान्तस्य दुष्टत्वे समुदितकल्पनावैयर्थ्यात् ।
अन्यथैकैकवैकल्यस्य दूषणत्वाङ्गीकारभङ्गात् ।
सम्भवमात्रेण पृथग्वचने ऽनैकान्तिककालतीतत्वं नाम हेत्वाभासान्तरं वाच्यं स्यात् ।
आश्रयहीनत्वं चाश्रयसिद्धिसमानम् ।
वैधर्म्यदृष्टान्तो नाम नास्त्येवेति प्रागेव प्रपञ्चितमिति ।
यद्वा दृष्टान्तस्य साध्यसाधनवैकल्यमपि व्यभिचारासिवदुभयान्यतररीत्या द्विविधं प्रतिपत्तव्य न पुनरेकविधमेव ।
अभिमानतो द्वैविध्यस्यापि सम्भवादित्याहसाध्येति ।
एकपक्षे ऽपि दूषणमित्यनुवर्तते ।
९,१४७
हेतोर्व्यर्थविशेषणत्वं व्यर्थविशेष्यत्वं च न दूषणम् ।
व्याप्तिपक्षधर्मतयोरप्रतिहतेरिति केचित् ।
तान्प्रत्याहविशेषण इति ।
विशेषणे दत्ते सति यद्वैयर्थ्यं विशेष्यस्य विशेषणस्य वा तदपि हेतोर्दूषणमेव ।
व्याप्त्युपयोगितया हि हेतौ विशेषणमुपदीयते ।
वैयर्थ्ये तु विशिष्यस्य व्याप्यत्वाभावाद्युक्तं (तस्य) हेतुदोषत्वमिति ।
यद्वा सिद्धप्रश्नादिकमिति वक्ष्यमाणत्वादाधिक्यान्तर्गतमेतत् ।
सर्वथा हेतुदोषत्वं सि(द्धमिति)द्धम् ।
व्यर्थविशेषणत्वादिकमप्युभयान्यतररीत्या द्विविधं प्रतिपत्तव्यम् ।
न पुनरेकविधमेवेत्याहविशेषण इति ।
… विशेषणे ।
वैयथ्यर्म् … । (अनुव्याख्यानम्)३,२.३०ब्च् ।
न्यायसुधा-
एकपक्षे ऽपि दूषणमिति वर्तते ।
९,१५०
विशेषणासिद्धिर्विशेष्यासिद्धिश्च हेतुदोषो न भवति ।
नहि विशेषणमात्रं विशेष्यमात्रं वा हेतुर्येन तदसिद्धिर्हेतोर्दूषणं स्यादित्येके ।
तान्प्रत्याहएकसिद्धौ चेति ।
… एकासिद्धौ च विशिष्टासिद्धिरेव हि । (अनुव्याख्यानम्)३,२.३०च्द् ।
न्यायसुधा-
विशिष्यो(हि)हेतुर्न विशेषणादिमात्रम् ।
विशेषणविशेष्ययोरेकस्यासिद्धावपि विशिष्यस्यासिद्धिरेव प्रसिद्धा ।
दण्डमात्राभावे पुरुषमात्राभावे वा दण्डिनो ऽभावदर्शनात् ।
अतो विशेषणासिद्धयादावपि विशिष्यहेत्वसिद्धेरवर्जनीयत्वाद्युक्तं तस्य हेतुदोषत्वम् ।
तच्चोभयान्यतररीत्या द्विविधमिति पूर्ववत्सिद्धमेवेति ।
एकाभावे चेत्याद्यनुक्त्वैकासिद्धौ चेति वचनमसिद्धिश्च द्विविधा स्वरूपताज्ञानतश्चेति सूचनार्थम् ।
तदेवं व्यर्थविशेषणासिद्धयादेर्हेतुदोषत्वद्युक्तं परपरिगणितासिद्धिभेदेष्वाश्रयासिद्धयादित्रयस्यैवादोषत्वकथनमिति ।
९,१५०फ़्.
यदुक्तं प्रश्नदोषाश्चत्वार इति तत्र वैफल्यस्यासङ्गतेश्च दोषत्वमयुक्तम् ।
अशक्योद्भावनत्वात् ।
तथाहि शब्दो ऽनित्यो ऽस्मदादिबाह्येन्द्रियग्राह्यत्वादिति प्रयुक्ते परः पृच्छति सामान्यं नित्यमनित्यं वेति ।
तत्र वैफल्योद्भावने निरनुयोज्यानुयोगेन परो निगृह्णीयात् ।
सामान्यनित्यत्वमुभयसम्मतं कृत्वा तत्रानैकान्तिकत्वोद्भावनस्य प्रयोजनस्य परेणाभिसन्धातुमप्युचितत्वात् ।
तत्रैव प्रयोगे परः पृच्छति सामान्यमनुगतदं न वेति ।
तत्रासङ्गत्युद्भावने निरनुयोगज्यानुयोगः स्यात् ।
अनुगतत्वेन नित्यत्वं प्रसाध्य तत्रानैकान्तिकत्वं वक्ष्यामीत्येवमुपोद्घातलक्षणायाः सङ्गतेरपि परेणाभिप्रेतमुचितत्वात् ।
नचाशक्योद्भावनं दूषणं नामेत्यत आहअप्रयोजनतेति ।
अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् । (अनुव्याख्यानम्)३,२.३१अब् ।
न्यायसुधा-
तत्र प्रश्नदोषेष्वप्रयोजनता यद्यप्यु(त्तरो)त्तरप्रश्नेष्ववधारयितुमशक्या ।
तथापि प्रथमप्रश्ने सम्भाविता दूषणत्वेनोद्भावयितुं शक्यत एव ।
नहि कथोपक्रमे प्रधानप्रमेयप्रश्नमपहायैवंविधः प्रश्नः सम्भवतीति ।
अनेनैव न्यायेनासङ्गतिरपि सर्वथा सङ्गत्यनुपलम्भ एवोद्भाव्येति द्रष्टव्यम् ।
९,१५२
नन्वेवं सति षडेव निग्रहस्थानानीति भज्येत ।
स्वव्याहत्यसङ्गत्योर्विरोधासङ्गत्यन्तर्भावे ऽपि सिद्धार्थतावैफल्ययोरतिरिक्तत्वादित्यत आहसिद्धेति ।
सिद्धप्रश्नादिकं यत् तदाधिक्यान्तगर्तं भवेत् । (अनुव्याख्यानम्)३,२.३१च्द् ।
न्यायसुधा-
दूषणान्तर्भावकथनप्रसङ्गेन प्रागुक्तप्रमाणत्रित्वनियमसिद्धये परैः पृथक्प्रमाणत्वेनाङ्गीकृतानामर्थापत्त्यादीनामुक्तान्तर्भावमाहअर्थापत्तीति ।
अर्थापत्त्युपमाभावा अनुमान्तर्गताः … । (अनुव्याख्यानम्)३,२.३२अब् ।
न्यायसुधा-
अनुपपद्यमानदर्शनादुपपादके बुद्धिरर्थापत्तिः ।
यथा जीवतो गृहाभावदर्शनाद्बहिर्भावबुद्धिः ।
तत्र जीवतो गृहाभावस्यानुपपद्यमानता नाम किं सर्वथासम्भवः किं बहिर्भावेन विनानवस्थानम् ।
आद्ये दहनशैत्यमप्यनुमानाभासात्प्रतीतं किं कमप्यर्थं न बोधयेत् ।
तत्प्रतीतिर्भ्रान्तिरिति चेत् ।
सर्वथासम्भवतो गृहाभावस्यापि प्रतीतिः कथं न भ्रान्तिः ।
दहनशैत्यस्योपपादकं नास्तीति चेन्न ।
सर्वथाप्यसम्भवतो गृहाभावस्यापि तदनुपपत्तेः ।
द्वितीये व्याप्तिरेव सेति व्याप्यदर्शनाद्वयापकबुद्धिरर्थापत्तिरनुमानमेव ।
प्रमाणद्वयविरोधो ऽनुपपत्तिरिति चेन्न ।
प्रकृतोदाहरणे तदभावात् ।
विरोधो हि तदा स्याद्यदि जीवतीत्यस्य गृहे ऽस्तीत्यर्थः स्यात् ।
यदि वा गृहे नास्तीत्यस्य न जीवतीत्यर्थः स्यात् ।
नच तदस्ति ।
स्वस्मिन्नेवान्यथाभावादर्शनात् ।
यो हि मातापितृभ्यां सु(रक्षी)शिक्षितो न जातु गृहान्निर्गच्छति सो ऽन्यानपि तथा मन्यमानो जीवनप्रमाणस्य गृहे सत्त्वमेवार्थं प्रतिपाद्यत इति ।
एवं तर्हि सन्दिहानो ऽवतिष्ठेत न तु बहिर्भावं निश्चिनुयात् ।
अन्यथा प्रकरणसमेनापि किञ्चिदवधारयेत् ।
एतेनैतदपि निरस्तम् ।
यदाहुः ।
अनुमानत्वपक्षे किं बहिर्भावे जीवनमात्रं लिङ्गमुत गृहाभावमात्रम् अथवा विशिष्यम् ।
न प्रथमद्वितीयौ ।
व्यभिचारात् ।
न तृतीयः ।
विरुद्धयोर्विशेषणविशेष्यभावानुपपत्तेः ।
अविरोधप्रतीतेश्च बहिर्भावकल्पनोत्तरकालीनत्वेनेतरेतराश्रयापत्तेरिति ।
जीवनग्रहाभावयोर्विरोधस्य अभावात् ।
भावे वार्ऽथापत्तेरप्यनुपपत्तेः ।
अतो ऽविनाभावबलेनार्थप्रतीतिहेतुत्वादर्थापत्तिरनुमानमेव ।
९,१५३
एतेन केवलव्यतिरेकी परिशेषश्चार्थापत्तिरेव नानुमानमित्यपि निरस्तम् ।
९,१५६
गृह्यमाणे वस्तुनि स्मर्यमाणप्रतियोगिकसादृश्यदर्शनात् स्मर्यमाणे गृह्यमाणप्रतियोगिकसादृश्यप्रतीतिरुपमानम् ।
यथा गामनुभूय वनं गतो गवये गोसादृश्यमुपलभ्य गवि गवयसादृश्यं प्रत्येति ।
यद्यपि नैतत्स्मरणम् ।
प्रतियोगिनो गवयस्य प्रागननुभूतत्वेन गोगतसादृश्यस्याननुभूतत्वात् ।
नहि सामग्षभावे योग्येन्द्रियसन्निकर्षसद्भावमात्रेणानुभवः शक्यो ऽङ्गीकर्तुम् ।
प्रतियोगिज्ञानस्यान्वयव्यतिरेकाभ्यां सादृश्यप्रतीतौ हेतुत्वमवधृतमेव ।
निर्विकल्पकप्रतीत्यभ्युपगमस्त्वप्रामाणिक एव ।
तथापि यो यत्सदृशः स तत्सदृश इति व्याप्तिबलेन गमकत्वादनुमानमेव ।
व्यधिकरणत्वान्नेति चेत्तस्यादोषताया निरूपितत्वात् ।
एकाधिकरणतायाः शक्यसम्पादनत्वाच्च ।
तस्माद्वैसादृश्यदर्शनवत्सादृश्यदर्शनमपि न पृथक् प्रमाणम् ।
९,१५९
अन्ये तु सञ्ज्ञासञ्ज्ञिसम्बन्धप्रमितिफलमनधिगतसङ्गतिसञ्ज्ञास्मरणसहायं तत्समभिव्याहृतातिदेशवाक्यार्थप्रत्यभिज्ञानमुपमानम् ।
अतिदेशवाक्यार्थश्च क्वचित्साधर्म्यं क्वचिद्वैधर्म्यं क्वचिद्धर्ममात्रमिति त्रिविधो भवति ।
यथाव्युत्पन्नगवयपदार्थो गोसदृशो गवय इत्यतिदेशवाक्यानुभूतमर्थं प्रत्यक्षे(ण) गवये प्रत्यभिज्ञानम् गवयपदं स्मरन् गवयपदस्य गवये
सङ्गतिमवगच्छति ।
तदिदं साधर्म्योपमानम् ।
वैधर्म्योपमानं तु गवादिवद्द्विशफो न भवत्यश्व इति वाक्यार्थप्रत्यभिज्ञानादश्वे ऽश्वपदसङ्गतिग्रहणम् । धर्ममात्रोपमानमपि
दीर्घग्रीवत्वादिधर्मवान्पशुरुष्ष इति वाक्यार्थप्रत्यभिज्ञानादुष्षपदव्युत्पत्तिरिति मन्यन्ते ।
तत्र यद्यपि सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिः प्राग्गवयादिदर्शनादतिदेशवाक्येन प्रयोगादिना लिङ्गेन वा भवितुं नार्हति ।
सम्बन्धिनो ऽनवगमे सम्बन्धस्यावगन्तुमशक्यत्वात् ।
तथापि गवयादिदर्शनोत्तरकालं साधर्म्यादिना लिङ्गेनैव भविष्यति ।
एतस्यां दशायामतिदेशवाक्यं व्याप्तिग्राहकत्वेनोपयुज्यते ।
यथा हि पृथिवीत्वाभिसम्बन्धात्पृथिवीति व्यवहर्तव्येति श्रुतवतः पृथिवीत्वाभिसम्बन्धं क्वचिद्द्रव्ये पश्यतो ऽनुमानेनैव
सञ्ज्ञासञ्ज्ञिसम्बन्धप्रतिपत्तिरभ्युपगता ।
तथा प्रकृते ऽपीति कथमिदं पृथक् प्रमाणं स्यादिति ।
९,१६१
घटादिप्रत्यक्षयोग्यार्थप्रतियोगिकाभावप्रतीतिसाधनं प्रमाणमभावः ।
तच्चानुपलब्धिलक्षणं लिङ्गमेवेत्यभावो ऽपि नानुमानाद्भिद्यते ।
अतो युक्तं त्रीण्येव प्रमाणानीति ।
तत्किमभावो नियमेनानुमानान्तर्गत इत्यत आहक्वचिदिति ।
… क्वचित् ।
प्रत्यक्षान्तर्गतो ऽभावः … । (अनुव्याख्यानम्)३,२.३२ब्च् ।
न्यायसुधा-
कदाचिद्धटाद्यभावग्राहकं प्रत्यक्षमपि भवतीत्यर्थः ।
किं तर्हि प्रत्यक्षयोग्यार्थानां सर्वेषामप्यभावः प्रमाणद्वयवेद्य इत्यत आहसुखादेरिति ।
… सुखादेर्नियमेन च । (अनुव्याख्यानम्)३,२.३२द् ।
न्यायसुधा-
चस्त्वर्थः ।
सुखादेरान्तरस्य साक्षिवेद्यस्याभावस्तु नियमेन साक्षिप्रत्यक्षेणैव ग्राह्य इत्यर्थः ।
यद्वाभाव इति प्रमाणमेवोच्यते ।
तस्य सुखादेरिति परम्परया सम्बन्धः ।
नियमेन प्रत्यक्षान्तर्गत इति सम्बन्धः ।
अनेन बाह्यानां प्रत्यक्षयोग्यानां घटादीनामभावः प्रत्यक्षानुमानवेद्य इत्युक्तम् ।
तदयुक्तम् ।
एकस्यैव ज्ञानस्य स्वतन्त्रकारणद्वयजन्यत्वानुपपत्तेः ।
परस्परविरुद्धपरोक्षापरोक्षत्वलक्षणाकारद्वयप्राप्तेश्चेत्यत उक्तङ्क्वचिदिति ।
९,१६२
तथाप्यनुपपत्तिरेव, प्रत्यक्षग्राह्ये ऽर्थेऽनुमानानवकाशादित्यत आहअन्यत्रेति ।
अन्यत्र खडिति प्राप्तः … । (अनुव्याख्यानम्)३,२.३३अ ।
९,१६२फ़्.
न्यायसुधा-
सुखादेरन्यत्र घटादौ प्रतियोगिनि सति, यो ऽभावो ऽभावप्रमाणं खडिति प्राप्नोति, तत्प्रत्यक्षम् ।
यत्तु विलम्बेन जायते तदनुमानमिति ।
एतदुक्तं भवति ।
घटाद्यभावग्राहकं योग्यानुपलब्धिरूपं प्रमाणं पृथगेवेति मीमांसकाः ।
अनुपलब्धिलिङ्गकमनुमानमेवे तदिति सौगताः ।
तदुभयमप्यनुपपन्नम् ।
प्रतियोगिस्मरणवतः पुरोवर्तिनि भूतले घटाद्यभावस्य प्रत्यक्षेणैव(चाव)गम्यमानत्वात् ।
इन्द्रियान्वयव्यतिरेकानुविधायिनो ऽभावप्रत्ययस्याप्रत्यक्षफलत्वानुपपत्तेः ।
अपरोक्षकारत्वस्यानुभवसिद्धत्वात् ।
बाधकाभावाच्चान्यत्रोपक्षयकल्पनानुपपत्तेः ।
अन्यथा रूपादिज्ञाने ऽपि प्रमाणान्तरकल्पनाप्रसङ्गात् ।
लिङ्गदर्शनव्याप्तिस्मरणादिविलम्बेन विना खडिति जायमानस्यानुमानफलत्वानुपपत्तेः ।
लिङ्गस्य ज्ञातस्यैव करणत्वादनुपलब्धेरप्यभावत्वेनानुपलब्ध्यन्तरापेक्षायामनवस्थाप्रसङ्गाच्च ।
९,१६४
ननु च प्रातश्चत्वरादौ प्रतियोगिस्मरणाभावेन गजाद्यभावम्मननुभूय देशान्तरं गतो गजस्मृतिमान्प्रातश्चत्वरे गजो नासीदिति प्रतिपद्यते ।
न तत्र प्रत्यक्षस्यावकाश इत्यनुपलब्धिलक्षणं पृथक् प्रमाणं तत्राङ्गीकार्यमिति ।
मैवम् ।
तत्राभावस्याप्रत्यक्षत्वे ऽप्यनुपलब्धिलिङ्गकानुमानवेद्यताभ्युपगमात् ।
अनुपलब्धेश्च स्मरणाभावलिङ्गानुमेयत्वात् ।
अत एव तत्र क्षणं ध्यात्वा नासीच्चत्वरे गज इति प्रतिपद्यते ।
स्मरणाभावो ऽप्यनुपलब्ध्यन्तरानुमेय इत्यनवस्थेत्यपि नास्ति ।
साक्षिग्राह्याणां बुद्धिसुखादीनामवभावस्य नियमेन साक्षि(प्रत्यक्ष)वेद्यत्वादिति ।
९,१६५
तथाप्युपक्रमोपसंहारावभ्यासापूवर्ताफलार्थवादाः प्रमाणानि सन्तीति कथं तत्त्रित्वनियम इत्यत आहप्रारम्भाद्याश्चेति ।
… प्रारम्भाद्याश्च युक्तयः । (अनुव्याख्यानम्)३,२.३३ब् ।
न्यायसुधा-
युक्तयः अनुमानानि ।
कुत इत्यत आहआगमेति ।
आगमार्थावसित्यर्था नियतव्याप्तयो ऽखिलाः । (अनुव्याख्यानम्)३,२.३३च्द् ।
न्यायसुधा-
यतो ऽखिलाः प्रारम्भाद्या नियतव्याप्तयो, यो यत्र प्रारभ्यते स तत्र प्रतिपाद्य इत्यादिरूपां व्याप्तिमपेक्षमाणा एवागमार्थावसित्यर्था भवन्त्यतो
युक्तय एवेत्यर्थः ।
एतेनागमान्तर्भावो ऽपि निरस्तः ।
उपक्रमाद्या आगमविषया एव न चार्थापत्त्युपमाभावा इति योगविभागः ।
९,१६६
वाक्यादीनामपि प्रमाणानमनुमानान्तर्भावमाहवाक्यमिति ।
वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः । (अनुव्याख्यानम्)३,२.३४अब् ।
न्यायसुधा-
यतो वाक्यादयो ऽपि तथाविधा व्याप्तिमपेक्ष्यैवागमार्थावसित्यर्थास्ततस्तथाविधा युक्तय एवेत्यर्थः ।
उपक्रमादीनामुत्तरोत्तरं प्राबल्यं वाक्यादीनां तु पूर्वपूर्वमिति ज्ञापनाय योगविभागः
यद्युपक्रमादयो वाक्यादयश्चानुमाने ऽन्तर्भवन्ति तर्हि कथम्’उपक्रमोपसंहारावभ्यासो ऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये’ इत्युपक्रमादीनामनुमानापरपर्या(याया उप)योपपत्तेः पृथक्त्वेनोक्तिः त ।
तथा’श्रुतिर्लिङ्गं समाख्या च वाक्यं प्रकरणं तथा’ इति वाक्यादीनां लिङ्गादित्यत आहकुरुपाण्डववदिति ।
कुरुपाण्डववत् तेषामुपपत्तेः पृथग् वचः । (अनुव्याख्यानम्)३,२.३४च्द् ।
९,१६७
न्यायसुधा-
यथा पाण्डवानां कुरु(विशेष)त्वे ऽपि सामान्यविशेषापेक्षया’सन्तानबीजं कुरुपाण्डवानाम्’ इत्यादौ कुरुभ्यः पृथग्वचनं तथा
तेषामुपक्रमादीनां वाक्यादीनां चानुमानत्वे ऽप्युपपत्तेर्लिङ्गाच्च पृथग्वचनं युक्तमित्यर्थः ।
ननु तथापि शाकुनलिप्यक्षरचेष्यासम्बवैतिह्यपरिशेषाः पृथक् प्रमाणानि सन्तीति चेत्(न) ।
शाकुनलिप्यक्षरचेष्यानामन्तर्भावस्य न विलक्षणाधिकरणे सूचितत्वात् ।
सम्भवैतिह्ययोरनुमानागमान्तर्भावस्य सर्ववादिसम्प्रतिपन्नत्वात् ।
परिशेषस्य च’परिशेषो मिथः सिद्धिः’ इत्यनेनैवानुमानत्वस्य स्थितत्वात् ।
९,१६८
ननु तथापि जैनास्तर्कं पृथक् प्रमाणमाहुः ।
सत्यम् ।
मिथस्सिसिद्धिरीत्यादिना सो ऽप्यनुमानान्तर्गत इति सूचितमेव ।
अत्राह तर्कः प्रमाणमेव न भवति ।
कुतो ऽनुमानम् ।
तथाहि ।
अनिष्यप्रसञ्जनं तर्कः ।
अनिष्यं च द्विविधं (धा) प्रामाणिकपरित्यागो ऽप्रामाणिकस्वीकारश्चेति ।
स पञ्चविधः ।
आत्माश्रयान्योन्याश्रयचक्रकानवस्थाप्रमाणबाधितार्थप्रसङ्गभेदात् ।
तत्र प्रसङ्गो नाम व्याप्याङ्गीकारे ऽनिष्यव्यापकप्रसञ्जनम् ।
९,१७१
सो ऽयं तर्कः प्रमाणानामनुग्राहकः ।
अनुग्रहश्च प्रमाणविषयसम्भावनादिरूपः ।
तथाहि ।
भूतले घटः किन्न स्यादिति विपरीतशङ्कया कुण्ठितशक्तिकं प्रत्यक्षं न तावद्घटाभावं निश्निनुयाद्यावद्यद्यत्र घटो ऽभविष्यत्तदा
भूतलमिवाद्रक्ष्यत तत्तुल्यदर्शनसामग्रीकत्वादिति तर्केण विपरीतशङ्का नापनीयते ।
तर्को हि दुर्जन इव पराभिलषितं वि(व्यव)च्छिद्य घटाभावं सम्भावयति ।
अथेदानीं प्रत्यक्षं सुजन इव स्वप्रमेयं निश्चिनोति ।
९,१७२
एवं क्वचिद्वयभिचारशङ्कयोपाधिशङ्कया वा धूमवानपि पर्वतो ऽग्निमान्मा भूदिति पक्षे विपक्षशङ्कयानुमाने कुण्ठिते यदि निरग्निकः
स्यात्पर्वतस्तदा निर्धूमो ऽपि स्यादित्यादिरूपस्तर्कः प्रवर्तते ।
स ह्युपाधिकोटौ तदायत्तव्यभिचारकोटौ वानिष्यमुपजनयन्विपरीतेच्छां विच्छिनत्ति ।
ततश्च निश्चिताविनाभावमनुमानं निष्कम्मपेवाग्निमत्त्वं निश्चाययति ।
तथा स्वर्गकामो यजेतेत्यत्र लिङ्गा प्रतीयमानाया भावनाया भाव्यपेक्षायां, किं भाव्यो धात्वर्थो भवतु, भवतु वा स्वर्ग, इति सन्देहे
समानपदोपात्तत्वाद्धात्वर्थ एव भाव्य इति शङ्कया कुण्ठितशक्तिः शब्दो जोषमेवास्ते ।
यदि धात्वर्थो भाव्यः स्यात्तदा विधेरिष्याभ्युपायत्वं शास्त्रस्य च तद्बोधकत्वं तत्प्रणेतुश्चाप्तत्वं प्रेक्षावतां प्रवृत्तिश्चेत्येतत्सर्वं न स्यादिति
तर्केणापनीतायां शङ्कायां शब्दः स्वर्गमेव भाव्यतयावधारयति ।
एवं नानाविधस्तर्कसाध्यो ऽनुग्रहः स्वयमेव बोद्धव्यः ।
९,१७५
सो ऽयं प्रमारूपं वा प्रमाणं स्याल्लिङ्गदशर्नवदप्रमारूपं वेन्द्रियादिवत् ।
न तावदन्यः ।
तर्(क)स्याहार्यरूपत्वात् ।
न तत्करणमपि प्रमाणम् ।
प्रमाफलत्वाभावात् ।
न द्वितीयः ।
आरोपितविषयत्वात् ।
विपर्ययप्रामाण्योपगतौ तु तेनास्य नियामकः सम्बन्धो नास्ति ।
असम्बद्धस्य गमकत्वे चातिप्रसङ्गः ।
अनुमानत्वे चास्यापादकं लिङ्गमापाद्यं साध्यमिति वक्तव्यम् ।
नच तद्युक्तम् ।
आपादकस्याहार्यत्वेनान्यतरासिद्धत्वात् ।
आपाद्यस्य चानिष्टत्वेन बाधितत्वात् ।
न ह्यसिद्धं लिङ्गं भवति ।
नापि बाधितं साध्यम् ।
सति चाश्रये ऽनुमानं भवति ।
न(हि)च भूतले घटो ऽस्ति यः साध्यसाधनयोराश्रयः स्यात् ।
व्यधिकरणता चापाद्यापादकयोर्बहुलमुपलभ्यते ।
आपाद्यस्य साध्यत्वे ऽपसिद्धान्तश्च स्यात् ।
धूमसद्भावस्य स्वयमभ्युपगन्तव्यत्वात् ।
तस्माद्विपर्ययपरतन्त्रत्वादप्रमाणमेव प्रमाणानामनुग्राहकस्तर्क इति कुतो ऽस्यानुमाने ऽन्तर्भाव इत्यत आहस्वन्यायैरिति ।
९,१७६
स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।
स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः । (अनुव्याख्यानम्)३,२.३५ ।
न्यायसुधा-
न्यायशब्देन धमिर्लिङ्गव्याप्तिदृष्टान्ता उच्यन्ते ।
न केवलं परस्य किन्तु स्वस्यापि ये सिद्धा न्यायास्ते स्वन्यायाः ।
साधनमिति दूषणस्याप्युपलक्षणम् ।
परस्यैव सिद्धा न्यायाः परन्यायाः स्वस्यैव सिद्धा न्यायाः स्वन्यायाः ।
चशब्देन साधनं च प्रतिवादिनः प्रति ।
९,१७९
एतदुक्तं भवति ।
द्विविधं हि कार्यं कथकस्य, स्वपक्षसाधनं परपक्षदूषणं चेति ।
तत्र साधनं स्वपरसम्मतैरेव न्यायैः कार्यं नान्यतरमात्रसिद्धैः ।
यथा पर्वतो ऽग्निमान्धूमवत्त्वाद्यो यो धूमवानसावग्निमान्यथा महानस इति ।
क्वचित्पुनः साधनं स्वमात्रसिद्धैरेव न्यायैः क्रियते ।
तत्र च परेणान्यतरासिद्धयादावुदाहृते तं प्रति तत्साधनं क्रियते ।
यथा शब्दो ऽनित्यः कार्यत्वात् ।
कार्यश्चासावव्यञ्जकप्रयत्नानन्तरोपलब्धेरित्यादि ।
सर्वथा साधनमुभयसिद्धन्यायसाध्यम् ।
दूषणं तु द्विविधम् ।
इदमित्थं न भवतीति वानिष्योपदर्शनेन वा ।
तत्राद्यमुभयसिद्धन्यायैरेव कार्यम् ।
यथा शब्दो न द्रव्यं श्रोत्रग्राह्यत्वात्सामान्यवदिति ।
क्वचित्पुनः स्वमात्रसिद्धैर्न्यायैः साधनमिव दूषणमपि कृत्वा परं प्रति तत्साधनं क्रियते ।
यथा तत्रैव प्रयोगे कालेनानैकान्त्यौद्भावने तस्यातीन्द्रियत्वसाधनमित्यादि ।
सर्वथाऽद्यं दूषणमुभयसिद्धन्यायसम्पाद्यमेव ।
द्वितीयं तु परसिद्धैरेव न्यायैः कार्यम् ।
यथा यदि पर्वतो निरग्निकस्तदा निर्धूमः स्यादिति ।
अत्र ह्यापादकस्य परसिद्धत्वमेव भाव्यं न स्वसिद्धत्वम् ।
तदतिरिक्ताङ्गानां तु स्वसिद्धः सती असती वा न विवक्षिता परसिद्धिरेवोपयुज्यते ।
तदेव च तर्क इति व्यवह्रियते ।
तेन तत्राश्रयासिद्धयन्यतरासिद्धी भूषणे एव न दूषणे ।
९,१८१
व्यधिकरणत्वं तु न क्वापि दूषणमित्युक्तम् ।
शक्यसम्पादनं च तर्के ऽपि सामानाधिकरणत्वम् ।
अवश्यं चैतदेवम् ।
अन्यथा केवलान्वयिधर्मस्य केवलव्यतिरेकिण्यभावात् तस्याननुमानत्वापत्तेः ।
सामान्यलक्षणसद्भावात्, विशेषलक्षणाभावे ऽपि न दोष इति चेत्समं प्रकृते ऽपि ।
व्याप्त्यपेक्षया गमकत्वस्य तर्के ऽपि विद्यमानत्वात् ।
विद्यमान एवाश्रये विद्यमानस्यैवेत्यपि सामान्यलक्षणे निवेश्यत इति चेत् ।
तर्हि विपक्षाभावो वा सप(क्षे स)पक्षसद्भावो ऽपि वा निवेश्यताम् ।
प्रयोजनाभावान्नेति चेन्न ।
प्रकृते ऽपि समत्वात् ।
तर्कनिरासः प्रयोजनमिति चेत्तत्रापि केवलव्यतिकिनिरासः प्रयोजनं भविष्यति ।
निर्निबन्धनो ऽसाविति चेत् समं प्रकृते ऽपि ।
साधने ऽप्यसिद्धस्यानुमानत्वं स्यादिति चेत्तर्हि विपक्षवतः सपक्षे ऽसतो ऽपि केवलान्वयित्वं स्यात् ।
तद्विशेषलक्षण एव निक्षेप्यमिति चेत्समानमत्रापि ।
अत एव स्वन्यायैः साधनमित्यादिना व्यवस्था दर्शितेति ।
[जोस्हि१४]
९,१८४
मभूदाश्रयासिद्धयन्यतरासिद्धयोरत्र दूषणत्वम् ।
तथापि बाधापसिद्धान्तसद्भावान्न तर्कस्यानुमानत्वमिति चेत् न ।
तयोरप्यसिद्धिवत्साधनदूषणविशेषयोरेव दूषणत्वेन प्रसङ्गानुमाने तदभावादिति पूर्ववत्परिहारः सिद्ध एव ।
तथापि, साधने ऽप्यवान्तरभेदकल्पनया तर्हि बाधादेरदूषणत्वं कल्प्यतामित्यतिप्रसङ्गनिरासाय परिहारान्तरमाहप्रसङ्गेति ।
प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः । (अनुव्याख्यानम्)३,२.३६अब् ।
न्यायसुधा-
प्रसङ्गः आपादनं, तदर्थतया तद्विषयतया प्रसञ्जनीयतयेति यावत् ।
प्रोक्ताः निर्धूमत्वादयो ऽर्थाः ।
न सिद्धान्तस्य दूषका इत्युपलक्षणम् ।
न बाधिता इत्यपि द्रष्टव्यम् ।
९,१८४फ़्.
एतदुक्तं भवति ।
किमापाद्यतोपेतस्य निर्धूमत्वादेर्बाध्यत्वं तत्प्रोक्तौ चापसिद्धान्त उच्यते, उत केवलस्य ।
नाद्यः ।
यत आपादनं नामाङ्गीकतर्व्यताज्ञापनम् ।
न पुनः सद्भावप्रतिपादनम् ।
नच तत्प्रमाणादिविरुद्धम् ।
यदि विषं भक्षयिष्यसि तर्हि मरिष्यसीति यथा ।
द्वितीये तु स्यादेव बाधादि ।
नच तदत्रोच्यते ।
तथा सति (तर्हि) स्यादिति न स्यादिति ।
९,१८५
असिद्धिरप्येवमेव परिहतर्व्या ।
तथाहि ।
किं यद्यलङ्कृतस्य निरग्निकत्वादेरसिद्धत्वमुच्यते ।
किंवा केवलस्य ।
न प्रथमः ।
असिद्धेः ।
यदि निरग्निकः स्यादित्य(स्य हि य)पि यदि निरग्निकत्वेनाङ्गीक्रियेतेत्यर्थः ।
नचायमसिद्धः ।
तथासति तर्कस्याप्यनुत्थानापत्तेः ।
अत एव भगवानाचार्यो’यदि विद्येत’ इत्येतत्’विद्यत इत्यङ्गीकारो भवेद्यदि’ इति व्याख्यातवान् ।
न द्वितीयः ।
तस्यात्रानुपादानात् ।
तथात्वे(हि) यदीति न स्यादिति ।
९,१८६
अस्मिन्परिहारे सति पूर्वोक्तव्यवस्थाश्रयणे ऽपि न कश्चिततिप्रसङ्गः ।
९,१९२
स्यादेतत् ।
द्विविधमेवानुमानं साधनं दूषणं च ।
तत्र तर्को न साधनमिति तावद्भवतामपि सम्मतम् ।
नापि दूषणम् ।
दुष्यिप्रमाजनकं हि दूषणं नाम ।
नच तर्कस्य तत्सम्भवति ।
परसिद्धेन हि न्यायेन परस्य तत्र दुष्यिर्ज्ञापनीया ।
न चासौ साधुः ।
तथात्वे हि परसिद्ध इत्येव न स्यात् ।
असाधुना च ज्ञाप्यमाना दुष्यिराभासभूतैवेति कथं तर्को ऽनुमानमित्यतः
छलजात्योर्दुष्टत्वमूलव्युत्पादनेनैवैतत्समानयोगक्षेममित्याशयवांस्तत्स्वरूपं निरूपयतिछलमिति ।
छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते । (अनुव्याख्यानम्)३,२.३६च्द् ।
न्यायसुधा-
व्याहत्यन्तरं व्याहतिप्रभेदः ।
इष्यते प्रामाणिकैः ।
यद्वा व्याहतिविरोधः ।
अन्यदसङ्गतं चेति व्याहत्यन्तरम् ।
छलमसङ्गतं जातिविरोध इत्यर्थः ।
९,१९४
तत्र जातेर्लक्षणमाहजातिरिति ।
जातिः स्वव्याहतिर्ज्ञेया … । (अनुव्याख्यानम्)३,२.३६ए ।
न्यायसुधा-
ज्ञेयत्यनेनोत्तरत्वविशेषणं न कार्यम् ।
साधने ऽपि स्वव्याहतेः सम्भवात् ।
वृथा प्रभेदकल्पनस्याप्रामाणिकत्वात् ।
स्वव्याहतिश्च स्ववचनविरोधस्वक्रियाविरोधस्वन्यायविरोधभेदेन त्रिविधेति ।
छललक्षणमाहछलमिति ।
… छलमर्थान्तरोत्तरम् । (अनुव्याख्यानम्)३,२.३६फ़् ।
न्यायसुधा-
परोक्तस्यार्थान्तरं परिकल्प्य तस्यार्थान्तरस्योत्तरमित्यर्थः ।
९,१९५
अयं भावः ।
अस्ति तावत्स्वव्याहतिलक्षणा जातिः, अर्थान्तरोत्तरलक्षणं छलं चेति द्विविधं निग्रहस्थानम् ।
नच तदङ्गीकारे षडेव निग्रहस्थानानीति नियमभङ्गः ।
जातेर्विरोधभेदत्वाच्छलस्यासङ्गतिप्रभेदत्वाद्द्वयोरपि वा विरोध एवान्तर्भावयितुं शक्यत्वात् ।
तत्र जातिं वा छलं वा प्रयुञ्जानो दुष्यमेतदिति कथं प्रतिपादनीय इति वाच्यम् ।
जातौ तावद्युक्ताङ्गहीनत्वादयुक्ताङ्गाधिकत्वादविषयवृत्तित्वा(द्वा)द्दुष्यमेतदिति । छले च मदविवक्षितदूषणेनासङ्गतत्वादित्येवमिति चेत् ।
तत्र जातिवादी नेदमयुक्ताङ्गमिति वा नेदमयुक्तमिति वा नायमविषय इति वा नेदमयुक्तमिति वा (प्रति)ब्रूयादेव ।
छलवादी च किं त्वद्विवक्षया, त्वद्वचनेन प्रतीतो ऽर्थो मया दूषणीय इति ।
तौ कथं प्रतिबोधनीयौ ।
९,१९६फ़्.
अथ मन्यसे ।
द्विविधं दुष्टत्वमूलं साधारणमसाधारणं च (चेति) ।
तत्रासाधारणं युक्ताङ्गत्यागादिकम् ।
साधारणं तु स्वव्याहतिः ।
तत्रासाधारणदूषणोपन्यासे ऽपि पुनश्शङ्कमानः स्वव्याहत्या बोधनीयः ।
यदि व्याप्त्याद्यङ्गमनपे(क्ष्यैव)क्ष्य प्रसङ्गस्तदा जातिवाक्यार्थो ऽपि तथा दूषयितुं शक्यत इत्यादि ।
यदि (च) वक्तुर्विवक्षामनपेक्ष्यैव शब्दप्रतीतत्वमात्रेण दूषणं तदा छलवाक्ये ऽपि तथा शक्यमिति ।
एवं तर्हि परसिद्धेनैव न्यायेन परश्छलजात्योर्दुष्यिं बोधनीयः ।
ततः परं तु न शङ्कयत एव ।
व्याघातावधित्वादाशङ्काया इत्युक्तं भवति ।
तथाच परन्यायस्तावदसाधुः ।
तेन बोध्यमाना दुष्यिराभासभूतैवेति छलादेर्वास्तवमदुष्टत्वं स्यात् ।
न स्यात् ।
न ह्यत्र परन्यायः प्रमाणत्वेनोपन्यस्यते किन्त्वसाधुरयं त्वदीयो न्यायो यतः स्वात्मानमपि व्याहन्तीत्यभिप्राय इति चेत्तुल्यमेतत्प्रकृते ऽपि ।
न ह्यत्रापि निरग्निकत्वं प्रमाणतयोपन्यस्यते ऽपि तु असाधुरयं त्वदीयो निरग्निकत्वाङ्गीकारो यतः प्रमाणविरुद्धं
निर्धूमत्वमप्यङ्गीकारयतीत्यभिप्रायैति ।
जात्यादौ स्वविरु(द्धताप)द्धापत्तिस्तर्के तु प्रमाणविरुद्धापत्तिरिति वैलक्षण्यमात्रम् ।
अस्ति च स्वविरुद्धापत्तिरन्ततस्तर्के ऽपि ।
यथोक्तम् ।
‘व्याघातावधिराशङ्का तर्कः शङ्कावधिर्मतः’ इति ।
तदेवं तर्कस्य दूषणानुमाने ऽन्तर्भावाद्युक्तमुक्तमिति ।
९,१९८
तदनेन प्रबन्धेनोक्तार्थस्य प्रकृतोपयोगं दर्शयन्नपव्याख्यानस्य दूषणान्तरमाहएवमिति ।
एवं संशोधितन्यायसदागमविरोधतः ।
नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि । (अनुव्याख्यानम्)३,२.३७ ।
९,१९९
न्यायसुधा-
संशोधितः आभासात्सम्यग्विवेचितः ।
न्यायो ऽनुमानम् ।
निर्देषत्वस्यागमपदेनैव लब्धत्वात्सच्छब्देन निरवकाशत्वमुच्यते ।
इह सूत्रे ।
प्रोक्तं सन्ध्यमिति शेषः ।
तत्र न्यायविरोधो ऽनुपदमेव प्रदर्शयिष्यते ।
स्वप्नस्य सत्यतां प्रतिपादयन्सदागमस्तु भाष्यादावुदाहृतः प्रसिद्ध एवेति हिशब्देनाह ।
न केवलं प्रमाणाभावान्मायामात्रमितीयं न स्वप्नस्यानिर्वाच्यताप्रतिज्ञा किन्नाम प्रमाणविरोधादपीत्यर्थः ।
न केवलं प्रमाणव्याहतेयं प्रतिज्ञापि तर्हि स्वव्याहतापीत्याहविलक्षणमिति ।
विलक्षणं सदसतोरिति हि व्याहतं स्वतः । (अनुव्याख्यानम्)३,२.३८अब् ।
न्यायसुधा-
अनिर्वाच्यमिति न वाच्यताविरहः परस्याभिमतः स्वक्रियाविरोधापत्तेः ।
किन्तु सदसतोः सकाशाद्विलक्षणमिति प्रतिज्ञानं च स्वव्याहतम् ।
सन्न भवतीत्युक्ते ऽसत्त्वमेव लब्धम् ।
पुनरसन्न भवतीत्यभिधाने कथं न स्वव्याहतिः ।
एवमसन्न भवतीत्यभिहिते सति सत्त्वमेवाभिहितम् ।
पुनः सन्न भवतीत्युक्तौ कुतो न स्वव्याहतिरिति हिशब्दार्थः ।
तृतीयप्रकाराङ्गीकारिणां न स्वव्याहतिरिति चेन्न ।
अस्यां प्रतिज्ञायां सिद्धायां तृतीयप्रकारसिद्धिस्तत्सिद्धौ च प्रतिज्ञासिद्धिरिति परस्पराश्रयदोषात् ।
सदादिप्रका(र)रैःदुर्निरूपतामात्रं प्रतिज्ञायते न पुनरसदादिप्रकारो विधीयते ऽतो न स्वव्याहतिरिति चेन्न ।
सदादिप्रकारप्रतिषेधो ऽसदादिप्रकारविधिरित्येतयोरनर्थान्तरभावस्योक्तत्वात् ।
अन्यथैवं मम माता वन्ध्येत्यादावपि स्वव्याहतिः समाहिता स्यात् ।
९,२०२
किञ्च सदसद्विलक्षणमित्यत्र सच्छब्देन किमबाध्यमभिधीयते उत ब्रह्मस्वरूपम् ।
वैलक्षण्यमपि तद्धमर्विपरीतधर्म(व)त्त्वं वा तत्प्रतियोगिकान्योन्याभावो वा तत्त्वानधिकरणत्वं वा ।
सर्वेष्वपि दूषणान्याहप्रतियोगित्वमपीति ।
प्रतियोगित्वमप्यस्य ब्रह्मणो ऽङ्गीकृतं भवेत् । (अनुव्याख्यानम्)३,२.३८च्द् ।
न्यायसुधा-
अस्य स्वाप्नप्रपञ्चस्य ।
स्वाप्नप्रपञ्चं प्रतीति यावत् ।
अपिपदं दोषान्तरसमुच्चयार्थम् ।
अस्य निराकारतयाङ्गीकृतस्यापि ब्रह्मण इति वा ।
सदसद्विलक्षणं सन्ध्यमिति प्रतिजानतेति वाक्यशेषः ।
ततश्चायमर्थः ।
सच्छब्देनाबाध्यमङ्गीकृत्य वैलक्षण्यमपि तद्धर्मविपरीतधर्मत्वमङ्गीक्रियते चेत्तदाबाध्यस्यापि धर्मवत्त्वमङ्गीकृतं स्यात् ।
अबाध्यं च न ब्रह्मणो ऽन्यदस्तीति ब्रह्मैव सधर्मकमु(मित्यु)क्तं स्यात् ।
तथा चापसिद्धान्तः ।
एतेन सच्छब्दस्य ब्रह्मार्थो, वैलक्षण्यं च तद्धर्मविपर्यय इति पक्षो ऽप्यपास्तः ।
अथाबाध्यं सत्, वैलक्षण्यं च तत्प्रतियोगिको ऽन्योन्याभाव इति मतम् ।
तदा ब्रह्मातिरिक्तस्याबाध्यस्याभावाद्ब्रह्मणः प्रपञ्चं प्रति प्रतियोगित्वलक्षणो धर्मः स्वीकृतो भवेत् ।
अनेन सच्छब्दो ब्रह्मार्थ इति (इत्यपि) प्रत्युक्तम् ।
अथ सच्छब्दो ऽबाध्यार्थो, वैलक्षण्यं च तत्त्वानधिकरणत्वं तर्हि बाध्यमिति प्रतिज्ञार्थः स्यात् ।
कात्स्नर्येनानभिव्यक्तत्वं च तदेवेति साध्यहेत्वोर्भेदो न भवेत् ।
अबाध्यस्य धर्मित्वं चाभ्युपेतं स्यात् ।
अन्यथा त्वप्रत्ययवैयर्थ्यात् ।
एतेन ब्रह्मपक्षरो ऽप्यपोढः ।
नच वाच्यं सकलमप्येतदयुक्तम् ।
यतो ऽत्र मायामात्रत्वमेव प्रतिज्ञातं न तु सदसद्वैलक्षण्यमिति ।
मायामात्रपदस्य सदसद्वैलक्षण्यार्थतयैव परस्याभिमतत्वात् ।
तच्च’किं स्वप्ने पारमार्थिकी सृष्टिराहोस्विन्मयामयि’ इति संशयोपपादनेन’सन्ध्ये तथारूपैव सृष्टिः’ इति पूर्वपक्षोत्थापनेन’न
परमार्थगन्धो ऽप्यस्ति’ इति सिद्धान्तोपक्रमेण चावगम्यते न ह्यसत्त्वं स्वीक्रियत इति ।
९,२०५
स्यादेतत् ।
ब्रह्मणः प्रतियोगित्वाद्यङ्गीकारे ऽपि नापसिद्धान्तः ।
परमार्थतो हि ब्रह्म निर्धर्मकं ब्रूमः ।
प्रतियोगित्वादिकं चाङ्गीक्रियमाणं मिथ्यैव ।
न ह्यारोपितेन नीलिम्ना नभसो नीरूपत्वं व्याहन्यत इत्याशङ्कयाहमिथ्या चेदिति ।
मिथ्या चेत् प्रतियोगित्वं वैलक्षण्यं ततो नहि । (अनुव्याख्यानम्)३,२.३९अब् ।
न्यायसुधा-
प्रतियोगित्वमित्युपलक्षणम् ।
ब्रह्मणः प्रतियोगित्वादि यदि मिथ्या स्यात्तर्हि ततो ब्रह्मणः स्वाप्नप्रपञ्चस्य वैलक्षण्यमुक्तविधं न स्यात् ।
यस्य यदपेक्षया न प्रतियोगित्वं न ततस्तस्य वैलक्षण्यमपि ।
यथा तत एव घटात्तस्यैव घटस्येति व्याप्तिसूचनार्थो हिशब्दः ।
मिथ्याशब्दो ऽनिर्वचनीयवचनो नासद्वचन इति तु प्रागनिर्वचनीयसिद्धेर्दुर्वचनम् ।
९,२०६
ननु च वैलक्षण्यं न स्यादितीदमिष्यापादनम् ।
मया तस्यापि मिथ्यात्वाङ्गीकारादित्यत आहअविलक्षणत्वमिति ।
अविलक्षणत्वं सत्यं स्यान् … । (अनुव्याख्यानम्)३,२.३९च् ।
न्यायसुधा-
यदि स्वाप्नप्रपञ्चस्य ब्रह्मवैलक्षण्यं मृषा तदविलक्षणत्वं सत्यं स्यात् ।
घटादौ तथा दर्शनात् ।
यद्यप्यत्र न परेण तथास्त्विति वक्तुं (न) शक्यम् ।
अपसिद्धान्तापत्तेः स्फुटत्वात् ।
तथाप्यधिकं विवक्षुराहमिथ्यात्वमिति ।
… मिथ्यात्वं ब्रह्मणस्ततः । (अनुव्याख्यानम्)३,२.३९द् ।
अनिर्वाच्यस्य सत्त्वं वा … । (अनुव्याख्यानम्)३,२.४०अ ।
न्यायसुधा-
ततो ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वात् ।
अनिर्वाच्यस्य अनिर्वाच्यतयाङ्गीकृतस्य स्वप्नस्य ।
सत्त्वं, भवेदित्यनुवर्तते ।
प्रसङ्गस्यानिष्यता(प्र)दर्शनाय स्वप्नस्येति वक्तव्ये ऽनिर्वाच्यस्येत्युक्तम् ।
एवं ब्रह्मणः सत्यस्येत्यपि ग्राह्यम् ।
ब्रह्मस्वप्नयोरवैलक्षण्यस्य सत्यत्वे ऽपि कुतो मिथ्यात्वादिप्रसङ्ग इत्यतो वेदमुदितम् ।
उपलब्धं हि घटस्य घटान्तरेण सालक्षण्यसद्भावे पार्थिवत्वादिसाम्यम् ।
अत्र सामान्येन विशेषापादनान्नापाद्यापादकयोरभेदः शङ्कनीयः ।
भावत्वे द्रव्याद्यन्यतमत्वापत्तिरिति यथा ।
ब्रह्मप्रतियोगिकं स्वप्नस्य सालक्षण्यं चेद्ब्रह्मणो ऽपि मिथ्यात्वं स्यादित्यसङ्गतम् व्यधिकरणत्वादिति न वाच्यम् ।
यत्प्रतियोगिकं यत्र सालक्षण्यं स तद्धर्मेति व्याप्तेः सुग्रहत्वात् ।
यस्तु मन्दमतिस्तं प्रति समानाधिकरणमप्यनिष्यं सुवचनमिति प्रसङ्गान्तरमभिहितम् ।
९,२०८
स्यादेतत् ।
ब्रह्मणः प्रतियोगित्वाभावे ऽनुयोगित्वं स्यात् ।
तथाच स्वप्नस्य ततो वैलक्षण्यं न स्यात् ।
तदभावे च सालक्षण्यापत्त्या ब्रह्मस्वप्नयोर्मिथ्यात्वादि प्रसज्येतेत्युक्तमयुक्तम् ।
सधर्मके हि वस्तुन्येकस्य धर्मस्याभावेन तद्विरुद्धस्य धर्मस्य भावो भावेन चाभावो(न्यस्य भावो) वक्तुं शक्यते ।
यथा परिमाणवत्त्वाद्द्रव्यस्य महत्त्वाभावे ऽणुत्वस्य अणुत्वभावे वा महत्त्वाभावस्यापादनम् ।
यथा (वा) वक्तुर्मन्दवचनाभावे तीव्रवचनम् ।
तद्भावे वा तदभावः शक्यापादनः ।
ब्रह्म तु सकलधर्मविकलमिति कथं तत्रापादनं प्रतियोगित्वादेरिवायोगित्वादेरप्यभावात् ।
नहि परिमाणरहिते गुणादौ वक्तृत्वशून्ये काष्ठे चोक्तप्रसङ्गावकाशो ऽस्ति ।
तथा स्वपने ऽपि नोक्तप्रसङ्गावकाशः ।
स्वयमसत्यस्य वैलक्षण्यवदवैलक्षण्यस्याप्यभावात् ।
नहि भ्रान्तसर्पविसर्पणादयः सत्या भवेयुरित्याशङ्कय ब्रह्मणो निर्धर्मकत्वं दूषयति ।
यदीत्यादिना ईशतज्ज्ञानेत्यतः प्राक्तनेन प्रकरणेन ।
९,२०९
… यदि धर्मा न केचन ।
ब्रह्मणो नैव जिज्ञास्यं … । (अनुव्याख्यानम्)३,२.४०ब्च् ।
न्यायसुधा-
यदि ब्रह्मणः के ऽपि धर्मा न स्युस्तर्हि तज्जिज्ञास्यं नैव स्यात् ।
भवति हि (च) जिज्ञास्यम् ।
अथातो ब्रह्मजिज्ञासेति वचनात् ।
अतो न तन्निर्धकमिति ।
९,२१०
निर्धर्मकत्वे ऽपि ब्रह्मणः कुतो न जिज्ञास्यतेत्यत आहजिज्ञासेति ।
… जिज्ञासा धर्मनिर्णयः । (अनुव्याख्यानम्)३,२.४०द् ।
न्यायसुधा-
विचारो हि जिज्ञासा नाम ।
स च धर्मस्य निर्णयो धर्मनिर्णयः ।
व्याप्यधर्मदर्शनमिति यावत् ।
शशविषाणवन्निर्धर्मके कथमसौ स्यात् ।
अङ्गीकारे च व्याघातः कथं न स्यात् ।
इतो ऽपि न निर्धर्मकस्य जिज्ञास्यतेत्याहइदमित्थमिति ।
इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् । (अनुव्याख्यानम्)३,२.४१अब् ।
न्यायसुधा-
न खल्वनुमानविचारापरपर्यायायाः जिज्ञासाया वस्तुस्वरूपमात्रज्ञानं प्रयोजनम् ।
तस्य प्रागेव सिद्धत्वात् ।
असिद्धौ वा(चा)ऽऽश्रयासिद्धस्यानुमानस्यानुत्थानात् ।
किन्नामेदमिति स्वरूपानुवादेनेत्थमिति व्यापकधर्मविशिष्यधर्मिज्ञानम् ।
धूमानुमानादौ तथा दर्शनात् ।
तथा च कथं निर्धर्मकस्य जिज्ञास्यतेति ।
एतेन स्वप्ने ऽपि प्रसङ्गानवकाशो(ऽपि) निरस्तः ।
तथा सति मायामात्रमित्यनुमानासम्भवात् ।
आरोपिताभ्यां व्याप्यव्यापकाभ्यां तत्सम्भवं इति चेन्न ।
स्वरूपासिद्धिबाधप्रसङ्गादिति ।
९,२११
यद्यपि न ब्रह्मनिष्ठेन केनचिद्धर्मेण तत्र धर्मान्तरं विधित्सितं तथापि कस्यचिद्धर्मस्य निवृत्त्या धर्मान्तरस्य भ्रान्तिप्रसक्तस्यान्यत्र सतो
निवृत्तिर्ज्ञाप्यते ।
यथोक्तम् ।
सिद्धं तु निवर्तकत्वादिति ।
एवञ्च निर्धर्मकस्य कथं जिज्ञास्यतानुपपत्तिरित्यत आहइत्थम्भावो हीति ।
इत्थम्भावो हि धर्मो ऽस्य न चेन्न प्रतियोगिता । (अनुव्याख्यानम्)३,२.४१च्द् ।
न्यायसुधा-
अस्य ब्रह्मणः प्रतियोगिता विरोधिता ।
प्रपञ्चधर्मव्यावृत्तिमत्तेति यावत् ।
न खलु निराधारया कस्यचिद्धर्मस्य निवृत्त्या निराधारैव धर्मान्तरव्यावृत्तिरनुमातुं शक्या ।
एवंविधानुमानप्रवृत्तेरलौकिकत्वात् ।
अतो ब्रह्मनिष्ठयैव ब्रह्मनिष्ठेति वाच्यम् ।
यदि चास्य धर्मो न स्यान्न तर्हि व्यावृत्तिमत्तापि स्यादिति ।
इत्थमिति ज्ञानं जिज्ञासाफलं चेद्ब्रह्मणीत्थम्भाव एव स्वीकार्यः स्यात् ।
तत् किं धर्मेणेति मन्दाशङ्कानिरासाय’इत्थम्भावो हि धर्मो ऽस्य’ इत्यनुवादेन परिहारो ऽभिहितः ।
यद्वास्तु व्यावृत्तिमत्ता ब्रह्मणः किं धर्मेणेत्यत इदमुक्तम् ।
न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रं प्रकृतमिति ।
तदनेन ब्रह्म न निर्धर्मकं जिज्ञास्यत्वात्पर्वतवदित्यनुमानं (च) सूचितं भवति ।
९,२१२
इतो ऽपि न निर्धर्मकं ब्रह्मेत्याहइत्थम्भावात्मकानिति ।
९,२१३
इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयो ऽखिलाः । (अनुव्याख्यानम्)३,२.४२अब् ।
न्यायसुधा-
श्रुतयश्चेति सम्बन्धः ।
भव(न्तु स)न्ति सत्यकाम इत्याद्याः श्रुतयो धर्मवादिन्यो न त्वपहतपाप्मेत्याद्यास्तत्कथमखिला इत्युच्यत इत्यत उक्तमित्थम्भावात्मकानिति ।
अखण्डनिष्ठता तु प्रागेव निराकृता निराकरिष्यते चेति ।
न केवलं श्रुत्यनुमानविरुद्धं ब्रह्मणो निर्धर्मकत्वं किन्तु सूत्रविरुद्धं चेत्याहअदृश्यत्वादयो ऽपीति ।
अदृश्यत्वादयो ऽप्यस्य गुणा हि प्रभुणोदिताः । (अनुव्याख्यानम्)३,२.४२च्द् ।
न्यायसुधा-
प्रभुणापीति सम्बन्धः ।
‘अदृश्यत्वादिगुणको धर्मोक्तेः’ इत्यादिनेति शेषः ।
यद्वा न विधिरूप एव धर्मः किन्नामेत्थम्भावमात्रमित्यत प्रयोगमनेन प्रमाणयति ।
अत्रचापिशब्दो न भिन्नक्रमः ।
गुणशब्दश्च धमर्वचनो न पारिभाषिकवचनः ।
अदृश्यत्वादीनां तदभावात् ।
नन्वस्माभिर्भावरूपा एव धर्मा ब्रह्मणो नाङ्गीक्रियन्ते ऽभावात्मकास्तु स्वीक्रियन्त एव ।
अतो न सूत्रविरोध इत्यत आहयदीति ।
यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् । (अनुव्याख्यानम्)३,२.४३अब् ।
न्यायसुधा-
तादृशा अभावात्मकाः ।
यतादृश्यत्वाद्याः प्रमाणावगतास्तथा सर्वज्ञत्वादयो भावरूपा अपि यः सर्वज्ञ इत्यादिश्रुतिसिद्धा इति ते ऽप्यङ्गीकार्याः ।
अथ तदङ्गीकारे नेह नानास्तीत्यादिश्रुतिविरोध इत्युच्यते सो ऽदृश्यत्वाद्यङ्गीकारे ऽपि समानः ।
अतो ऽर्धचर(जर)तीयस्याप्रामाणिकत्वात्सर्वज्ञत्वादयो ऽपि स्वीकार्याः ।
अदृश्यत्वादयो ऽपि वा त्याज्या इति ।
९,२१४
स्यादेतत् ।
सर्वज्ञत्वादयः सर्वनिरूप्यत्वात्सर्वापेक्षाः ।
वियदादिकं च सर्वं भ्रान्तिसिद्धमसत्यमेव ।
असत्यसापेक्षास्तु कथं परमाथर्तो ब्रह्मधर्मतया स्वीकर्तुं शक्यन्त इत्यत आहअन्येति ।
अन्यापेक्षा यदि स्युष्टे … । (अनुव्याख्यानम्)३,२.४३च् ।
न्यायसुधा-
ते सर्वज्ञत्वादयो ऽन्यापेक्षा इति यदि नाङ्गीक्रियन्ते तर्हि ते ऽदृश्यत्वादयो ऽपि न दृश्यमदृश्यमित्येवमन्यापेक्षास्स्युरिति नाङ्गीकार्या एव ।
तथा च सूत्रविरोधस्तदवस्थ एव ।
विषयतयान्यापेक्षत्वं प्रतियोगितयान्यापेक्षत्वमिति (तु) वैषम्यमात्रम् ।
स्युष्य इति सुषामादिषु द्रष्टव्यम् ।
९,२१६
किञ्च परापेक्षतया सर्वज्ञत्वादिकं ब्रह्मणो ऽनङ्गीकुर्वाणेन सत्तापि नाङ्गीकरणीया ।
यतः सत्ताप्येवं परापेक्षेत्याहसत्तैवमिति ।
… सत्तैवं … । (अनुव्याख्यानम्)३,२.४३द् ।
न्यायसुधा-
नास्त्येव स्वरूपातिरिक्ता सत्तेति चेत्स्वरूपसत्तापि न स्यात् ।
नहि मिथ्याभूतपरापेक्षं सत्यस्वरूपं भवितुमर्हतीति त्वदीयन्यायप्राप्तत्वात् ।
तथाच सदेव सोम्येत्यादिश्रुतिविरोधः ।
कथं सत्ता परापेक्षेत्यत आहदेशेति ।
… देशकालगा । (अनुव्याख्यानम्)३,२.४३द् ।
न्यायसुधा-
यतस्तस्मात्सत्तैवमिति सम्बन्धः ।
ननु देशकालगेति को ऽर्थः ।
देशकालसम्बद्धेति वा देशकालजन्येति वा ।
नाद्यः ।
तावता परापेक्षासिद्धेः ।
नहि गगनं घटेन संयुक्तमित्येतावता तदपेक्षम् ।
न द्वितीयः ।
अनादिनित्यत्वादिति चेदेवं तर्हि सावर्ज्ञादेरपि नान्यापे(क्षा)क्षता ।
नहि सर्वेण सह विषयविषयिभावमात्रेण सर्वापेक्षत्वं सौरप्रकाशस्यापि घटापेक्षताप्रसङ्गात् ।
न(हि स) च सर्वेण जन्यत्वम् ।
नित्यसिद्धत्वात् ।
९,२१७
ननूत्पत्तौ सार्वज्ञादेः सर्वासापेक्षताभावे ऽपि ज्ञप्तौ सास्त्येव ।
विदित एव सर्वस्मिन्सार्वज्ञादि विज्ञायते नाविदित इति ।
एवं तर्हि सत्तापि मा भूदुत्पत्तौ परापेक्षा ।
ज्ञप्तौ तु भवत्येवेत्याहदेशेति ।
देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते । (अनुव्याख्यानम्)३,२.४४अब् ।
न्यायसुधा-
देशकालानपेक्षा देशकालप्रतीत्यनपेक्षा ।
देशकालप्रतीत्यपेक्षैव दृश्यत इत्यन्वयो ऽपि द्रष्टव्यः ।
यदि कश्चिद्वैयात्यात्क्वचिद्देशकालप्रतीत्यनपेक्षापि सत्ता दृश्यत इति ब्रूयात्तदा व्याघातः स्यात् ।
देशकालव्यतिरेकेण (क्वचित्सत्ताश) किंशब्दार्थानिर्वचनात् ।
सत्ताप्रतीताववर्जनीयतया देशकालौ दृश्येते न तु तदपेक्षेति चेन्न ।
अभूद्भवति भविष्यतीत्यादिप्रतीतिमवधूय सत्ताया अप्रतिभासात् ।
नियतविशिष्यप्रतीतिके ऽ(तदन)नपेक्षायां न कुत्राप्यपेक्षा स्यात् ।
तदिदमुक्तङ्क्वापीति ।
९,२१८
न केवलं ब्राह्मणो निर्धमर्कत्वे मीमांसाविषयत्वानुपपत्तिः किन्नाम शास्त्रयोनित्वादित्युक्तं शास्त्रविषयत्वमप्यनुपपन्नं स्यादित्याहसर्वेति ।
सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते । (अनुव्याख्यानम्)३,२.४४च्द् ।
न्यायसुधा-
किमाक्षेपे ।
स्वरूपं तावत्स्वप्रकाशत्वान्न शास्त्रप्रतिपाद्यम् ।
संसर्गभेदयोरेव वाक्यार्थत्वाच्च ।
धर्मास्तु न सन्ति ।
येन संसर्गभेदौ शास्त्रविषयौ स्याताम् ।
तस्मादस्य ब्रह्मणः किं शास्त्रेणाधिगम्यते न स्वरूपं नापि धर्मसंसर्गादीति ।
९,२२१
इत्थम्भावात्मकानीति ब्रह्मणो निर्धर्मकत्वे श्रुतिविरोधो ऽभिहितः ।
साम्प्रतं तु श्रुतीनां निर्विषयत्वापत्त्यादिकमिति महान्भेदः ।
ब्रह्मणि परमार्थतो धर्माभावे ऽपि मिथ्याभूता धर्माः शास्त्रस्य विषया भविष्यन्तीत्यत आहमिथ्येति ।
मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता । (अनुव्याख्यानम्)३,२.४५अब् ।
न्यायसुधा-
चस्त्वर्थः ।
अप्रमाणतैवेति सम्बन्धः ।
वेदान्तानां (दानां) विषयाभावेन प्रसक्तमबोधकत्वलक्षणमप्रामाण्यं परिहर्तुमङ्गीकृतं मिथ्याधर्मप्रतिपादकत्वं
विपरीतबोधकत्वलक्षणमप्रामाण्यमेवापादयति ।
इयांस्तु विशेषः ।
अबोधकानामुपेक्षणीयतैव केवलं
विपरीतबोधकानां तु हेयता स्यादिति ।
९,२२२
भवेदप्रमाणं वेदो यदि मिथ्याधर्मान्प्रतिपाद्यैवोपरमेत् ।
नचैवं किन्नाम नेह नानास्तीत्यादिना (तु तत्प्रति) प्रतिषेधति चेत्यत आहआप्राप्तमिति ।
अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् । (अनुव्याख्यानम्)३,२.४५च्द् ।
न्यायसुधा-
आपाद्येत्यतःपरं निषेधं कुर्वन्निति शेषः ।
‘यः सर्वज्ञः सर्ववित्’ ।
‘य आत्मापहतपाप्मा’ इत्यादिना वेदो यदि भ्रान्तिं ब्रह्मणि मिथ्याभूतसार्वज्ञ्यादिप्रतीतिमुत्पाद्य स्वयमेव नेह नानास्तीत्यादिना तत्प्रतिषेधं
कुर्यात्तदा मानतां व्रजेत्किम् ।
परस्परविरुद्धत्वेनोन्मत्तवचनवदप्रामाण्य(प्रमाण)मेव स्यात् ।
नन्वेतदनाकलितपराभिसन्धेरसदनुवादेनोक्तम् ।
नहि वयं वेदो धर्मान्विधाय स्वयमेव निषेधतीति ब्रूमः ।
किन्त्वनूद्य निषेधतीति ।
तथाच कथमप्रामाण्यापत्तिरित्यत उक्तम्आप्राप्तमिति ।
अनुवादो ह्यन्यतः प्राप्तस्य भवति ।
नच ब्रह्मणि मिथ्याभूतधर्मप्रतीतिः केनचित्प्राप्ता ।
ततो ऽनुवादासम्भवात् विधायैव प्रतिषेधतीति वक्तव्ये पूर्वोक्तो दोष इति ।
९,२२३
कथमप्राप्तिर्ब्रह्मधर्मणामित्यत आहनहीति ।
नहि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः । (अनुव्याख्यानम्)३,२.४६अब् ।
न्यायसुधा-
वेदेन विना ब्रह्म न वेद्यमिति तावत्समर्थितं प्रथमाध्याये ।
तथाच कथं तद्गतत्वेन सार्वज्ञादयो ऽन्यतो वेद्या भवेयुः ।
वेदविदिते ऽपि ब्रह्मण्यनुमानेन सार्वज्ञादिप्रतीतिरिति चेन्न ।
तस्या विनापि वैदिकेन प्रतिषेधेन प्रत्यनुमाने(नादि)नैवापास्तत्वात् ।
अन्यथातिप्रसङ्गात् ।
९,२२४
अथ मतम् ।
मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणतेति यदुक्तं तन्नानिष्यम् ।
द्विविधो(हि) वेदभागः ।
तत्त्वावेदको ऽतत्त्वावेदकश्च ।
तत्र जीवेश्वरयो(वब्रह्मणो)रैक्यं प्रतिपादयंस्तत्त्वावेदको ऽपरो ऽतत्त्वावेदक इत्यस्माभिरङ्गीकृतत्वादित्यत आहवेदेति ।
वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत् कथम् । (अनुव्याख्यानम्)३,२.४६च्द् ।
न्यायसुधा-
तत् तर्हि तन्मिथ्यात्वमिति वा ।
सत्यमेव त्वयाङ्गीकृतमिति ।
नच तदुपपद्यते(द्युज्यते) ।
सर्वो ऽपि हि वेदो ऽपौरुषेयः स्वतःप्रमा(णं च)णभूतश्च ।
तत्र चैकस्य भागस्याप्रामाण्ये परस्यापि तत्स्यात् तस्य प्रामाण्ये ऽस्यापि कथं तन्न स्यात् ।
तात्पर्यलिङ्गभावाभावाभ्यां व्यवस्थेति चासङ्गतम् ।
तथात्वे ह्यस्य भागस्यान्यत्र तात्पर्यं वाच्यं स्यात् ।
नच निषेधायानुवाद इत्युपपादितम् ।
अहिंसादिश्येनादिविधिवद्विद्वदविद्वद्विषयतया व्यवस्थास्त्विति चेन्न ।
वैषम्यात् ।
धनत्वस्य चानभिधानात् ।
अथैक्यं प्रतिपादयितुं बुद्धिशुद्धये सार्वज्ञाद्यविद्यामानमपि प्रतिपाद्यते ।
सर्वत्र प्रसृता हि बुद्धिः सगुणे ब्रह्मणि दत्तपदा क्रमेणैक्ये प्रविशतीति चेन्न ।
प्रतिकूलत्वात् ।
सार्वज्ञादिप्रतिपादनेन हि भेदवासनैव दृढनिरूढा स्यादित्येषा दिक् ।
९,२२८
यदुक्तं ब्रह्मणि धर्माणामप्राप्तिरिति तन्न ।
प्रमाणतो ऽप्राप्तावप्यारोपस्तत्सम्भवात् ।
आत्मैव हि ब्रह्म स च स्वप्रकाशतयावभासत एवेति तस्मिन्धर्मारोपो नानुपपन्नः ।
ततश्चारोपितधर्मानुवादेन प्रतिषेधो युज्यत इति चेत् ।
स्यादप्येवं यदि ब्रह्मणि धर्मारोपो युज्येत ।
नचैवम् ।
तस्य सर्वधर्मरहितत्वात् ।
प्रधानाभावाच्च ।
अथ धर्मरहितत्वादावपि कुतो नारोप इत्यतो व्यतिरेकव्याप्तिं दर्शयतिधर्मेति ।
धर्मारोपो ऽपि सामान्यधर्मादीनां हि दशर्ने । (अनुव्याख्यानम्)३,२.४७अब् ।
९,२२९
न्यायसुधा-
न केवलं प्रमाणतः प्राप्त्यभावः किन्तु धर्मारोपो ऽपि नोपपद्यत इत्यपिशब्दः ।
सामान्यं चासौ धर्मश्च सामान्यधर्मः ।
आदिपदेन प्रधानदर्शनम् ।
दृष्ट इति शेषः ।
९,२३०
एतदेव प्रपञ्चयतिइदमिति ।
इदन्तदादिधर्मित्वे धर्मो ऽन्यः कल्प्यते ऽत्र हि । (अनुव्याख्यानम्)३,२.४७च्द् ।
न्यायसुधा-
इदं तदिति भावप्रधानो निर्देशः ।
आदिपदेन साधारणधर्मग्रहणम् ।
धर्मित्वे दृष्ट इति शेषः ।
प्रधानज्ञानमप्यत्र सङ्ग्राह्यम् ।
अत्र लोके ।
शुक्तिकायां रजतत्वधर्मारोपो हि न शुक्तिकावभासमात्रेण भवति ।
किन्नाम वस्तुतो रजतत्वधर्मवतः प्रधानस्य, अधिष्ठाने शुक्तिकाशकले पुरोवर्तित्वादेः, प्रधानसाधारण(धर्मस्य)स्य च शुक्लभास्वरत्वादेर्धर्मस्य
दर्शन एव ।
तथा स्फटिके लौहित्यारोपो ऽपि वस्तुतो लौहित्यवतो जपाकुसुमस्य, स्फटिके च(चे)दन्तादेः, प्रधानसन्निधानस्य च दर्शन एव दृष्ट इति ।
९,२३२
सहदर्शनमात्रेण न व्याप्तिनिश्चय इत्यत आहसर्वेति ।
सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते । (अनुव्याख्यानम्)३,२.४८अब् ।
९,२३३
न्यायसुधा-
अत्रापि प्रधानदर्शनमुपलक्षणीयम् ।
क्व दृश्यते येनोक्तव्याप्तेर्व्यभिचारः स्यादिति शेषः ।
उपाधिव्यभिचारयोरदर्शने (सहचार)साहचर्यदर्शनं व्याप्तिनिश्चायकमेवेति भावः ।
अयं(मत्र) समुदायार्थः ।
धर्मारोपस्य प्रधानदर्शनादिकं व्यापकमुपलब्धम् ।
नच प्रकृते तदस्ति ।
सर्वाज्ञादीनामपहतपाप्मत्वादीनामन्यत्रानभ्युपगमात् ।
ब्रह्मणि च प्रधानसाधारणधर्मादेरनङ्गीकारात् ।
अतो व्याप्यस्य धर्मारोपस्याभाव इति ।
नन्वत्र प्रधानादर्शनेन धर्मारोपसम्भवः शक्यानुमानः ।
सार्वज्ञादिकं न ब्रह्मण्यारोपितं प्रागन्यत्रानुपलब्धत्वादिति प्रयोगसम्भवात् ।
धर्माभावलिङ्गकमनुमानं तु कथम् ।
भवतामसिद्धत्वादिति ।
मैवम् ।
धर्मराहित्यवादिनैवमनुमायोपगन्तव्यमित्यभिप्रायत् ।
९,२३४
ननु (च) धर्मारोपो ऽधिष्ठानधर्माणां प्रधानस्य च प्रतीतावेवायतते न तु सत्तायाम् ।
इदन्त्वादिप्रतीतौ हीदं रजतमित्यादिरूपा प्रतीतिः स्यात् ।
साधारणधर्मप्रतीतिरेव च प्रधानं बुद्धि(स्थं क)स्थीकरोति ।
प्रधानप्रतीतिरेव चान्वयव्यतिरेकाभ्यामारोपोपयोगिनी ।
सत्ताया उपयोगाङ्गीकारे ऽतिप्रसङ्गः ।
उभयोपयोगे तु गौरवम् ।
अस्ति चाप्यत्राधिष्ठानधर्मादिप्रतीतिरारोपरूपा ।
नहीदम्पूर्वो ऽयं ब्रह्मणि धर्मारोपः ।
तथाच पूर्वारोपितधर्मप्रतीत्यधीनो ऽयमुत्तरोत्तरारोपो भविष्यति ।
पूर्वमेव चोत्तरस्य प्रधानमिति किमनुपपन्नमित्यत आहतदर्थमिति ।
यदि ब्रह्म(णो)णि धर्मारोपसिद्धयर्थमन्या धर्माणामारोपः कल्प्यते ।
तदा सो ऽपि धर्मारोपान्तरायत्त इत्येवं प्रसक्तानवस्थितिः स्यात् ।
सिद्धविषयत्वान्नेयमनवस्था दूषणमिति चेन्न ।
धर्मसद्भावतत्प्रतीत्योः पूर्वसिद्धत्वे ऽप्यारोपत्वकल्पनायामनवस्थानिवारणात् ।
अस्या धर्मप्रतीतेरारोपत्वं पूर्वप्रतीतेरारोपत्वकल्पनाधीनं तस्या अपि तथेति ।
तदेवं ब्रह्मणि धर्मारोपासम्भवात्स्वतो निर्धर्मकत्वे वेदाप्रामाण्यादिप्रसङ्गान्न निर्धर्मकं ब्रह्मेति सिद्धम् ।
९,२३६
यदुक्तं सार्वज्ञादेर्मिथ्यात्वसिद्धये विश्वस्य भ्रान्तिकल्पितत्वं तद्दूषयितुमीशतज्ज्ञानेत्यादिको ग्रन्थः ।
तथाहि ।
विश्वस्य भ्रान्तिसिद्धत्वं वदता तत्र प्रमाणं वक्तव्यम् ।
तत्किं प्रत्यक्षं स्यादनुमानं वाऽगमो वा ।
न तावत्प्रत्यक्षम् ।
तस्य सत्य(तत्सत्य)त्वग्राहित्वस्य वक्ष्यमाणत्वात् ।
नाप्यनुमानम् ।
शून्यसमयनिरासे(न)निरस्तत्वात् ।
अधिकं च दूषणं वक्तुमाहईशेति ।
ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।
भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ऽत्र हि । (अनुव्याख्यानम्)३,२.४९ ।
तन्मात्रस्यान्यथा भावात् किं न स्याद् विश्वसत्यता । (अनुव्याख्यानम्)३,२.५०अब् ।
९,२३७
न्यायसुधा-
यद्यप्यत्र भ्रान्तिर्विश्वस्येत्यादिनैवालम् ।
तथापि ये विश्वं प्रमाणप्रमेयप्रमातृप्रमितिभेदेन चतुर्विधमाचक्षते तन्निराकरणप्रस्तावनाय प्रमाणप्रमेयप्रमातृभेदेन त्रिविधमेव विश्वमिति
प्रतिज्ञातुमीशेत्याद्युक्तम् ।
तत्रेशमात्रपदाभ्यां परापरप्रमात्रोर्ग्रहणम् ।
यद्यपि मातृपदेनैवेश्वरो ऽपि लभ्यते ।
तथापि तस्य नियतं प्रमातृत्वमन्येषां तु विपर्ययादिसम्भवादनियतमित्यादिविशेषद्योतनाय पृथग्ग्रहणम् ।
वेदाक्षजानुमापदैः करणफलरूपप्रमाणस्वीकारः ।
वेदपदमागमो(मात्रो)पलक्षणम् ।
अक्षजत्वं ज्ञानसन्निकर्षयोरस्त्येव ।
ईश्वरादि(र)ज्ञानं न वेदादिपदैः सङ्गृह्यते ।
अकरणत्वादफलत्वाच्च ।
भवति च प्रमाणमित्यतस्तज्ज्ञानेति पृथगुक्तम् ।
नित्यज्ञानमात्रोपलक्षणं चैतत् ।
पूर्वशब्देन कर्मधारयं विधाय तत इनिप्रत्ययः ।
प्रत्ययार्थस्तु वेदशब्दश्चापौपुरुषेयवाक्यवचन एव ।
पूर्वशब्दः (क)कारणार्थः ।
प्रमाध्याहारेण तत्सम्बन्धः ।
ततश्चेशवाक्येशादिज्ञानवेदाक्षजानुमानानीश्वरप्रमातृवाक्यरूपप्रमाणवतः सर्वप्रमाणसिद्धस्येत्युक्तं भवति ।
भ्रान्तिः भ्रान्तिकल्पितत्वम् ।
येनेत्यतो लब्धमेकत्वमेवेत्यवधार्यते मानाभासेनेति ।
स्वभावतो दुर्बलेनानुमानेनेत्यर्थः ।
अन्यथाभावे अप्रामाण्ये ।
किमाक्षेपे ।
एतदुक्तं भवति ।
विश्वं तावत्स्वभावतो बहुत्वेन च प्रबलैरीशवाक्यादिभिः सर्वैः प्रमाणैः सत्यतयावगतम् ।
तेषां’असत्यमप्रतिष्ठं ते’ इत्यादीनामन्यत्र दर्शितत्वात् ।
विवादपदं मिथ्या दृश्यत्वाज्जडवदित्यादिकं विश्वमिथ्यात्वानुमानं तु स्वभावैकत्वाभ्यां दुर्बलम् ।
तथाच प्रबलप्रमाणविरुद्धस्यानुमानस्याप्रामाण्योपपत्तेर्विश्वस्य सत्यत्वमेव युक्तमिति ।
९,२४५
नाप्यभावः ।
स हि गौडपादादिपुरुषप्रणीतो वा वेदादिर्वा ।
आद्यं दूषयतियेनेति ।
येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा । (अनुव्याख्यानम्)३,२.५०च्द् ।
न्यायसुधा-
येन गौडपादादिना इदं प्रागुक्तमीशादिकं विश्वं, भ्रान्तं भ्रान्तिसिद्धं कल्प्यते, कल्पयित्वा च तथा वाक्यं प्रणीयते ।
तस्यैव सा कल्पना भ्रान्तिरयथार्था किन्न भवेत् ।
एतदुक्तं भवति ।
ईशवाक्यादिप्रमाणैस्तावदीशादिविश्वं सत्यतयावगतम् ।
तद्विरुद्धा च गौडपादादीनां विश्वमिथ्यात्वप्रतीतिर्भ्रान्तिरेवेति ।
ततः किमित्यत आहभ्रान्तत्व इति ।
भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि । (अनुव्याख्यानम्)३,२.५१अब् ।
न्यायसुधा-
विश्वारेर्विश्वमिथ्यात्वं प्रतिपादयतस्तस्य गौडपादादेर्भ्रान्तत्वे सिद्धे तन्मूलस्य तद्वाक्यस्याप्रामाण्यात्तेन
विश्वमिथ्यात्वासिद्धावीशवाक्यादिभिःप्रमाणैरीशादिविश्वमभ्रान्तं सत्यमेव सिद्धमिति ।
नन्वीश्वरवाक्यविरोधाद्गौडपादादीनां भ्रान्तत्वं कुतः कल्पनीयम् ।
गौडपादादिवाक्यविरोधादीश्वरादीनां विश्वसत्यत्वप्रतीतिरेव भ्रान्तिः कुतो न कल्पनीयेत्यत आहभवेयुरिति ।
भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन । (अनुव्याख्यानम्)३,२.५१च्द् ।
न्यायसुधा-
बाह्या(भ्य)न्तरकारणसामग्रीसत्त्वादिति शेषः ।
कथञ्चनेन्द्रियदोषादेर्बाह्यकारणस्य अधर्मादेः अज्ञानादेरान्तरकारणस्याप्यत्यन्तमसम्भवादित्यर्थः ।
ईशादयो विप्रलम्भका इति चेन्न ।
कल्पकाभावादिति ।
९,२४६
अस्तु तर्हि नेह नानास्तीत्यादिरद्वैतपरो वेदादिरागमः सर्वस्यापि मिथ्यात्वे प्रमाणमिति चेन्न ।
तस्य विश्वसत्यत्वग्राहकप्रत्यक्षबाधितत्वेनातदर्थत्वात् ।
अथ मतम् ।
प्रत्यक्षं खलु तात्कालिकं प्रमाणं न पुनरात्यन्तिकम् ।
वेदस्तु न तथा ।
स्वतः प्रमाणं च ।
अतो बलवता वेदेन बाधितत्वात्प्रत्यक्षप्राप्तमपि विश्वसत्यत्वं भ्रान्तिसिद्धमित्येवाङ्गीकर्तुमुचितमित्यत आहसत्यत्वमिति ।
सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते । (अनुव्याख्यानम्)३,२.५२अब् ।
न्यायसुधा-
सत्यत्यं विश्वस्येति शेषः ।
आगमबलमाश्रित्य ।
तन्नेति वाक्यशेषः ।
कुतो नेत्यत आहप्रामाण्यमिति ।
[जोस्हि१५]
प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः । (अनुव्याख्यानम्)३,२.५२च्द् ।
न्यायसुधा-
कुतः सिद्धम् ।
न कुतो ऽपि ।
न केवलं प्रत्यक्षस्य किन्त्वागमस्यापि प्रामाण्यं प्रत्यक्षेणैव सिद्धं न त्वन्येनेत्यर्थः ।
तत्कथमित्यत आहसाक्षीति ।
साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते । (अनुव्याख्यानम्)३,२.५३अब् ।
न्यायसुधा-
आद्यादिभ्य उपसङ्खयानात्तृतीयार्थे तसिः ।
मानानां सर्वेषामीयते प्रतीयते ।
हिशब्दः सर्वप्रमाणप्रामाण्यस्य साक्षिसिद्धत्वोपपादकप्रमाणसूचनार्थः ।
तद्विवृणोतिसाक्षिणा इति ।
९,२४७
साक्षिणः स्वप्रकाशत्वमनवस्था ततो नहि । (अनुव्याख्यानम्)३,२.५३च्द् ।
न्यायसुधा-
प्रमाणानां प्रामाण्यं हि न सत्तामात्रेण निश्शङ्कव्यवहारहेतुः ।
अपि तु प्रमितमेव ।
नच बाह्यप्रत्यक्षादिकमेव प्रामाण्यप्रमितिसाधनम् ।
तत्प्रामाण्यप्रमितेरप्युक्तन्यायेनावश्यकत्वात् ।
नच तत्प्रामाण्यं स्वग्राह्यम् ।
अचैतन्यज्ञानस्य स्वप्रकाशत्वाभावात् ।
प्रत्यक्षाद्यन्तरान्वेषणे चानवस्था स्यात् ।
साक्षिवेद्यत्वे तु सर्वप्रमाणप्रामाण्यस्य न कश्चिद्दोषः ।
साक्षी हि चैतन्यरूपतया स्वप्रकाशः ।
प्रामाण्यं च ज्ञानग्राहकग्राह्यमिति स्वप्रामाण्यं स्वयमेव गृह्णातीति नानवस्थाऽपद्यते ।
अतः साक्षिवेद्यमेव सर्वप्रमाणप्रामाण्यमङ्गीकार्यमिति ।
९,२५०
अस्त्वेवं साक्षिप्रत्यक्षवेद्यं प्रत्यक्षागमप्रामाण्यम् ।
तथाप्युक्तरीत्या प्रबलेनागमेन विरोधे दुर्बलस्य प्रत्यक्षस्य कुतो न बाध इति चेत् ।
इत्थम् ।
स्यादयं प्रत्यक्षागमयोर्बाध्यबाधकभावः, यदि व्युत्पादिते दौर्बल्यप्राबल्ये युक्ते स्याताम् ।
नचोभयप्रामाण्यस्य साक्षिवेद्यत्वे ते युज्येते इत्याशयवान्प्रत्यक्षस्य तात्कालिकं प्रामाण्यमागमस्यात्यन्तिकमिति विभागं
तावदपाकरोतितत्कालिकमिति ।
तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ।
ऐक्यागमस्य किं न स्यात् … । (अनुव्याख्यानम्)३,२.५४अच् ।
न्यायसुधा-
यदि साक्षिगृहीतमपि विश्वसत्यत्वग्राहिणो ऽक्षजस्य प्रामाण्यं तात्कालिकमेव भवेत्तर्ह्यैक्यागमस्यापि प्रामाण्यं साक्षिगृहीतत्वाविशेषात्तात्कालिकं
स्यादेवेति न विभागः सिद्धयति ।
नन्वैक्यगामप्रामाण्यमपि तात्कालिकमेव ।
किन्तु प्रत्यक्षमाभासीकृत्य निवर्तते ।
यथोक्तम्’वेणुसङ्घर्षजो वह्निर्दग्ध्वा शाम्यति तद्वनम् ।
एवं गुणव्यत्ययजो वेदः शाम्यति तद्यथा’ इतीत्यत आहतस्यापीति ।
… तस्याप्येतादृशं यदि ।
ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता । (अनुव्याख्यानम्)३,२.५४द्फ़् ।
९,२५१
न्यायसुधा-
ऐक्यागमस्यापि प्रामाण्यं यदि तात्कालिकं स्वीक्रियेत तदा विश्वस्य सत्यतैव स्यात् ।
ननूक्तमत्र प्रत्यक्षमाभासीकृत्य पश्चादैक्यागमप्रामाण्यं निवर्तत इति भवति तात्कालिकम्, नच विश्व(स्य)
सत्यत्वापत्तिरित्यतः’तस्याप्येतादृशं यदि’ इत्येतद्’ऐक्यप्रमाणमिथ्यात्वं यदा’ इति व्याख्यातम् ।
ऐक्यागमप्रामाण्यस्य बाध्यत्वं यदेत्यर्थः ।
न केवलं प्रामाण्यमात्रस्य बाध्यत्वम् ।
किन्तु धर्मिणो वाक्यस्यापीति ज्ञापनायैवमुक्तम् ।
एतदुक्तं भवति ।
स्यादिदं यदि प्रामाण्यस्य तात्कालिकत्वं नामानित्यत्वमिह विवक्षितं स्यात् ।
न चैवम् ।
क्षणमात्रवर्तिनो ऽपि प्रामाण्यस्य विषयसत्यत्वाव्यभिचारित्वेनानित्यताया दौर्बल्यहेतुत्वासम्भवात् ।
किन्तु बाध्यत्वमेव ।
तच्चेदैक्यागमप्रामाण्यस्याभ्युपगतं तदा कथं विश्वस्य सत्यता न स्यादिति ।
९,२५२
ननु साक्षिणो विषयव्यभिचारित्वात्तद्गृहीतमैक्यागमप्रामाण्यमबाधतयमेवेत्याशङ्कयाहऐक्यवाक्यस्येति ।
ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते ।
अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते । (अनुव्याख्यानम्)३,२.५५ ।
न्यायसुधा-
साक्षिगृहीतत्वाविशेषादिति भावः ।
साक्षिगृहीतत्वाविशेषाद्विश्वसत्यताग्राहकप्रत्यक्षप्रामाण्यस्य बाध्यतायामैक्यागमप्रामाण्यमपि बाध्यं स्यात् ।
तदबाध्यत्वे वा प्रत्यक्षप्रामाण्यमप्यबाध्यमेवैष्यव्यमिति समुदायार्थः ।
नन्वद्वैतब्रह्मावस्थानं मोक्षः ।
स च प्रत्यक्षप्रामाण्यस्याबाध्यत्वे व्याहन्येत ।
प्रपञ्चसत्यत्वेन सद्द्वैततापत्तेः ।
अतः साक्षिवेद्यत्वाविशेषे ऽप्यनेन विशेषेण प्रत्यक्षप्रामाण्यं साक्षिणा तात्कालिकमेव गृह्यत इति कल्प्यत इत्यत आहअद्वैतेति ।
अद्वैतहानिसामान्यान् … । (अनुव्याख्यानम्)३,२.५६अ ।
न्यायसुधा-
एवं तर्ह्यैक्यवाक्यप्रामाण्यमपि तथाविधमेव (मन्तव्यम्) ।
तदबाध्यत्वे ऽप्यद्वैतहानिसामान्येनोक्तलक्षणमोक्षासिद्धेः ।
नहि वाक्यं वा तत्प्रामाण्यं वा तदर्थो भेदाभावो वा ब्रह्मेति ।
प्रत्यक्षप्रामाण्यस्याबाध्यत्वे बहुप्रपञ्चापत्तिः ।
आगमप्रामाण्याबाध्यतायां तु नैवमिति चेन्न ।
अस्य विशेषस्य व्यर्थत्वादित्याशयवानाहनेति ।
९,२५३
… न विशेषश्च कश्चन । (अनुव्याख्यानम्)३,२.५६ब् ।
न्यायसुधा-
यदप्यद्वैतागमस्य प्राबल्योपपादनाय स्वतःप्रामाण्यमुक्तं तत्राहयदीति ।
यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते । (अनुव्याख्यानम्)३,२.५६च्द् ।
न्यायसुधा-
स्वतस्त्वधर्मस्य प्रामाण्यं धर्मि, अधिकरणतया विवक्षितमिति सप्तम्युपपत्तिः ।
यद्यागमप्रामाण्यस्य स्वतस्त्वमुच्यते तदा प्रत्यक्षप्रामाण्यमपि स्वत एवेति ब्रूमः ।
सम्यङ्मिथ्याज्ञानसाधारणकारणमात्रजन्यत्वं वा सम्यङ्मिथ्याज्ञानसाधारणज्ञापकमात्रज्ञेयत्वं वा प्रामाण्यस्य स्वतस्त्वम् ।
तदागमजन्यज्ञानवत्प्रत्यक्षजन्यस्याप्यविशिष्यमेव ।
तथा चागमप्रामाण्यस्य स्वतस्त्वमङ्गीकुर्वतो यता तद्विषयसत्यता सम्मता तथा स्वतःप्रमाणप्रत्यक्षविषयविश्वसत्ता(त्यता)ऽपि कथं न ते
सम्मतेति ।
९,२५४
स्यादेतत् ।
प्रत्यक्षागमयोः स्वतःप्रामाण्ये ऽप्यस्ति विशेषः ।
यत्प्रत्यक्षं तात्कालिकमेव ज्ञानस्य प्रामाण्यं जनयति वाक्यन्त्वात्यन्तिकम् ।
तथा ज्ञानग्राहकः साक्षी प्रत्यक्षज्ञानस्य तात्कालिकमेव प्रामाण्यं गृह्णाति वाक्यजन्यज्ञानस्य त्वात्यन्तिकमिति ।
मैवम् ।
अस्यां व्यवस्थायां नियामकाभावस्योक्तत्वात् ।
दोषान्तरं चाहप्रामाण्यस्य चेति ।
प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् । (अनुव्याख्यानम्)३,२.५७अब् ।
न्यायसुधा-
कालतो मर्यादा व्यवच्छेदः ।
तात्कालिकत्वम् इति यावत् ।
कथं व्याहतिरित्यत आह कालान्तरे ऽपीति ।
कालान्तरे ऽप्यमानं चेदिदानीं मानता कुतः । (अनुव्याख्यानम्)३,२.५७च्द् ।
९,२५४फ़्.
न्यायसुधा-
अमानं बाधितमानत्वं (नं) चेत्प्रत्यक्षम् ।
तात्कालिकशब्देन हीदानीमस्ति कालान्तरे तु बाध्य(त्व)मिति परस्याभिमतम् ।
तत्र यदि च प्रत्यक्षं कालान्तरे ऽपि बाधितप्रामाण्यं स्यात्तर्हीदानीं तस्य मानतास्तीति कुतः स्यात् ।
कालत्रयसत्तानिषेधरूपत्वाद्बाधस्य यदि च प्रत्यक्षप्रामाण्यमिदानीं सत्स्यात्कथं कालान्तरे ऽपि तर्हि बाध्येतेति व्याहतमेव
तात्कालिकत्ववचनम् ।
अप्रमाणमेव भवतु तर्हि प्रत्यक्षमिति चेत् ।
सत्यम् ।
भवति भवतो ऽयं मनोरथः ।
तत्सिद्धिरेवेदानीमपि क(पो)फोणिगुडायते ।
अद्वितीयब्रह्मावस्थानलक्षणं मोक्षमभ्युपेत्य प्रत्यक्षप्रामाण्याबाध्यतावदागमप्रामाण्याबाध्यतायामपि तद्धानिः समानेत्युक्तम् ।
इदानीन्तु स एवानुपपन्न इत्याशयवान्पृच्छतिमिथ्यात्वमानमिति ।
मिथ्यात्वमानं मोक्षे ऽपि मानं किं नेति भण्यताम् । (अनुव्याख्यानम्)३,२.५८अब् ।
न्यायसुधा-
विश्वमिथ्यात्वप्रतिपादकमानमागमो ऽनुमानं वा मोक्षे ऽपि मानमिति मोक्षसमये ऽप्यबाधितस्वरूपप्रामाण्यमित्यर्थः ।
नेति बाधितस्वरूपप्रामाण्यमित्यर्थः ।
किंशब्दः पूर्वेण परेण च सम्बद्धयते ।
यद्वा काक्वैव मानमित्ययं प्रश्नो ज्ञातव्यः ।
इति पृष्टस्योत्तरं, भण्यताम् ।
आद्ये दोषमाहमानत्व इति ।
९,२५६
मानत्वे ऽद्वैतहानिः स्याद् … । (अनुव्याख्यानम्)३,२.५८च् ।
न्यायसुधा-
अबाधितस्वरूपप्रामाण्यपक्षे तेनैव सद्द्वितीयत्वादद्वैतहानिः स्यादित्युक्तलक्षणो मोक्षो न सिद्धयेत् ।
द्वितीये दूषणमाहअमानत्वे ऽपीति ।
… अमानत्वे ऽप्यमोक्षता । (अनुव्याख्यानम्)३,२.५८द् ।
न्यायसुधा-
अमोक्षता विवक्षितावस्थाया इति शेषः ।
विश्वमिथ्यात्वमानस्य तत्प्रामाण्यस्य च बाध्यत्वपक्षे ऽपि मोक्षो न सिद्धयति ।
कथमित्यत आहविश्वस्येति ।
विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा । (अनुव्याख्यानम्)३,२.५९अब् ।
न्यायसुधा-
विश्वमिथ्यात्वमानं यदा न मा बाधितस्वरूपप्रामाण्यं स्यात्तदा विश्वस्य पुनरापत्तिः स्यात् ।
नास्तित्वप्रमाणबाधस्यास्तित्वाव्यभिचारात् ।
विश्वसद्भावे च कथमुक्तलक्षणो मोक्षः स्यादिति ।
आदौ तावत्प्रत्यक्षेण विश्वं प्राप्तम् ।
तदागमादिनाऽपाततो ऽपनीयम् ।
आगमादेश्च बाधे पुनस्तदापतितमिति प्रतीत्यपेक्षया पुनःशब्दः ।
विश्वं तद्बाधकं चोभयमपि बाधितमिति चेन्न ।
उत्तरत्र दूषणात् ।
९,२५७
किञ्च मुक्तिः सती वासती वा ।
पक्षद्वये ऽपि नोक्तलक्षणा मुक्तिः सिद्धयति ।
कथमिति ।
आद्यं प्रत्याहअस्ति चेदिति ।
अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिर् … । (अनुव्याख्यानम्)३,२.५९च्द् ।
न्यायसुधा-
आत्मस्वरूपमेव मुक्तिः ।
यथोक्तम् ।
‘आत्मैवाज्ञानहानिः’ इति ।
‘अविद्यास्तमयो मोक्षः’ इति च ।
तत्कथं द्वैतापत्तिरित्यतो मुक्त्यवस्थेत्युक्तम् ।
अवस्थैवैषाऽत्मनो न त्वात्मैव ।
तथात्वे हि प्रागेव सिद्धत्वात् प्रयत्नवैयर्थ्यम् ।
न चात्मा ज्ञानस्य साध्यो ऽनादित्वात् ।
अविद्याध्वंसविशिष्यो न प्राक्सिद्धो ज्ञानसाध्यश्चेति चेत्तत्किं स एव मुक्तिः ।
अद्धेति चेत् ।
तर्हि विशिष्यस्य सत्त्वाभावेन सती मुक्तिरित्ययुक्तं स्यात् ।
किञ्च मुक्तिर्नाम धर्मः ।
स कथमात्मैव स्यादिति ।
९,२५८
द्वितीयं पराचष्टेअतो ऽन्यश्चेति ।
९,२५९
… अतो ऽन्यथा । (अनुव्याख्यानम्)३,२.५९द् ।
अमुक्तत्वं … । (अनुव्याख्यानम्)३,२.६०अ ।
न्यायसुधा-
सत्त्वपक्षात्पक्षान्तरे ।
यदि मुक्तिरसती स्यात्तदाऽत्मनो ऽमुक्तत्वं स्यात् ।
विषाणासत्त्वे शशो ह्यविषाणी दृष्टः ।
तथाच कुत उक्तलक्षणत्वम् ।
अथ मतम् ।
न मुक्तिः सती नाप्यसती किन्त्वनिर्वचनीयेति ।
तदाप्यमुक्ततैव(दप्ययुक्तमेव) ।
संसारे ऽप्यनिर्वचनीयेनैव हि द्वितीयेन सद्द्वितीयत्वम् ।
तदुत्तरमपि तच्चेत्स्यात्कथममुक्तत्वं न भवेत् ।
एतेन पञ्चमप्रकारतापि निरस्ता ।
अनिर्वचनीयतापरिहारात् ।
नहि चतुर्थप्रकारतावस्थितिरनिर्वचनीयत्वम् ।
तथा सति निर्वचनीयतापत्तेः ।
अनिर्वचनीयाविद्यानिवृत्तिः कथमनिर्वचनीया स्यादिति चेत् ।
घटप्रध्वंसो यथा तथेति जानीथाः ।
तदेतत्सङ्ग्रहायातो ऽन्यथेत्युक्तम् ।
अन्यथासती चेदित्यवक्ष्यत् ।
९,२६१
एवमेव मुक्तेरद्वितीयब्रह्मावस्थानरूपतानिरासाय काले ऽपि विकल्प्य दोषो ऽभिधातव्य इत्याहतथा काल इति ।
… तथा काले … । (अनुव्याख्यानम्)३,२.६०अ ।
न्यायसुधा-
ननु च मोक्षदशायां कालो ऽस्ति न वेति विकल्प्य’अस्ति चेद्द्वैतापत्तिः’ इति दूषणं चास्तु ।
‘अतो ऽन्यथामुक्तत्वम्’ इति कथमतिदेश इत्यत आहकालाधीना हीति ।
… कालाधीना हि मुक्तता । (अनुव्याख्यानम्)३,२.६०ब् ।
न्यायसुधा-
कालाधीना नियमेन कालाधिकरणा ।
यद्वस्तु तत्कालसम्बन्ध्येवेति व्याप्तेरिति हि शब्दार्थः ।
न केवलमनुमानसिद्धो मुक्तेः कालाधिकरणतानियमः किन्तु’तदा विद्वान्ऽ‘दृष्ट्वैव तं मुच्यते’ इत्यागमसिद्धो ऽपीत्याहकाल एवेति ।
काल एवागमो ऽप्याह मुक्तिं … । (अनुव्याख्यानम्)३,२.६०च्द् ।
९,२६२
न्यायसुधा-
किन्ततो यद्येवमधिकरणेन कालेन व्याप्ता मुक्तिरित्यत आहकालेति ।
… कालनिवर्तने ।
मुक्तेरपि निवृत्तिः स्यात् … । (अनुव्याख्यानम्)३,२.६०दे ।
न्यायसुधा-
कालासत्त्वे मुक्तेरप्यसत्त्वं स्यात् ।
व्यापकनिवृत्तौ व्याप्यनिवृत्तेरावश्यकत्वात् ।
तथा चातिदेशो युक्त इति ।
एतदुक्तं भवति ।
यदि मोक्षः कालसम्बन्धी न स्यात्तदा शशृङ्गादिवदसत्त्वापत्तिः इति ।
ननु च’न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता’ इति मुक्तेरसत्त्वस्येष्टत्वान्नेयमनिष्यापत्तिरित्यत आहसंसारित्वमिति ।
… संसारित्वमतो भवेत् । (अनुव्याख्यानम्)३,२.६०फ़् ।
न्यायसुधा-
चैतन्यस्य सतो बन्धाभावलक्षणे मोक्षे ऽसति देवदत्तवन्मुक्ताभिमतस्यापि संसारित्वं भवेत् ।
बन्ध(स्य)मिथ्यात्वात्संसारो मुक्तिश्च न स्त एवेति चेन्नानङ्गीकृतत्वमेवानिष्टत्वं किन्त्वप्रामाणिकत्वादिकम् ।
नच बन्धमिथ्यात्वं प्रामाणिकमित्युक्तं प्राक् ।
९,२६३फ़्.
तदेवमागमादितः प्रत्यक्षस्य दौर्बल्यं निराकुर्वता तन्मिषेण प्राबल्यं च व्युत्पादितम् ।
साक्षिप्रत्यक्षस्यागमादिप्रामाण्यग्राहकत्वेनोपजीव्यतायास्तदितरस्य साक्षिनिश्चितप्रमाण(प्रामाण्य)तायाश्च सूचितत्वात् ।
ततस्तद्विरुद्धस्यागमादेरेवाप्रामाण्यं युक्तमिति ।
न केवलमुपजीव्यत्वादिगुणेनान्यतः प्रबलं प्रत्यक्षम् ।
किन्तु स्वभावतो ऽपीत्याशयवानाहक्व चेति ।
९,२६४
क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् । (अनुव्याख्यानम्)३,२.६१अब् ।
न्यायसुधा-
प्रत्यक्षतः प्राप्तमिति साक्षात्कारसिद्धम् ।
अनुमानागमशब्दौ लिङ्गवचनवचनौ ।
प्रामाण्यनिर्णयस्येदानीं क्रियमाणत्वात् ।
दृष्टमिति शेषः ।
यदि हि प्रत्यक्षप्राप्तं क्वचिदनुमानागमाभ्यां बाधितमुपलब्धवन्तः तदा प्रतीमो ऽनुमादितः प्रत्यक्षस्य दौर्बल्यम् ।
नच तथा ।
ईश्वरे दोषग्राहिप्रत्यक्षमागमादिबाधितं दृष्टमिति चेत् ।
सत्यम् ।
तत्रागमादेरुपजीव्यतया बाधकत्वमिति वक्ष्यामः ।
‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम्’ इत्यस्य वैदिकार्तविषयत्वादत्र च पृथिव्यादिप्रपञ्चस्य प्रस्तुतत्वान्न विरोधः ।
९,२६७
दृष्टं च दहनशैत्यानुमानस्य, मम कर्णे प्रविश्य गजो गर्जतीत्यादिवाक्यस्य च प्रत्यक्षबाधितत्वात् ।
तत्रापि प्रत्यक्षमुपजीव्यत्वाद्बाधकं नतु स्वभावेनेति चेत् ।
न ।
धर्मिव्यापकव्याप्यव्याप्तिग्राहकत्वाभावाद्दहनौष्ण्यादिग्राहिणः प्रत्यक्षस्य ।
अनौष्ण्यमुष्णताभावः ।
स च प्रतियोगिज्ञानाधीनज्ञानः प्रतियोगिभूतं चौष्ण्यं तेजस्येव प्रत्यक्षेण प्रत्येतव्यमिति तस्योपजीव्यत्वमिति चेन्न ।
उक्तोत्तरत्वात् ।
अनुष्णतासाधने हीदमुपपा(दितम्)दनम् ।
केनचिद्धेतुना शैत्यसाधने त्वस्यानवकाशः ।
यदा च समस्तस्यापि तेजसो ऽनौष्ण्यं साध्यते तदा भवत्विदं व्युत्पादनम् ।
अग्निमात्रपक्षीकारे तु नेदमुपयुज्यते ।
सौरादौ तेजस्युष्णतां स्पर्शनेनोपलभ्य चक्षुषोपलब्धे ऽग्नावनौष्ण्यसाधनस्य तु स्वभावप्रबलेनैव प्रत्यक्षेण बाध इत्येषा दिक् ।
९,२६९
देहस्यात्मत्वं प्रत्यक्षप्राप्तमपि देहो नात्मा भूतत्वात्कार्यत्वाद्घटवदित्याद्यनुमानेन’तं स्वाच्छरीरात्प्रवृहेत्’ इत्यागमेन च बाधितं दृष्टम् ।
अन्यथा बाधकान्तराभावाद्देहात्मत्वस्य वास्तवतापातात् ।
तत्कथमेतदित्यत आहदेहात्मत्वमिति ।
देहात्मत्वं यदि … । (अनुव्याख्यानम्)३,२.६१च् ।
न्यायसुधा-
देहात्मत्वं प्रत्यक्षतः प्राप्तमनुमानागमबाधितं दृष्टमिति यदि ब्रूयात्तदा तन्नेति ब्रूम इत्यर्थः ।
न तदिति पूर्वेणोत्तरेण च सम्बद्धयते ।
कुतो नेत्यत आहन तदिति ।
… न तत् प्राप्तं प्रत्यक्षतः क्वचित् । (अनुव्याख्यानम्)३,२.६१च्द् ।
न्यायसुधा-
देहात्मत्वं प्रत्यक्षप्राप्तमेव न भवति ।
अतः प्रत्यक्षप्राप्तस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणम् ।
अयमभिसन्धिः ।
नास्त्येव देहात्मत्वप्रतीतिः ।
यानुमानादिना बाध्यते ।
येषां चास्ति नास्तिकादीनां तेषामपि नेन्द्रियजा ।
किन्त्वनुमानागमाभासजन्यैवेति ।
मा भूत्पण्डितरूपाणां देहात्मत्वप्रतीतिः ।
पामाराणां त्वस्त्येव ।
सैवास्माकमुदाहरणं भविष्यतीत्यतः क्वचिदित्युक्तम् ।
९,२७१
तदुपपादयतिममेति ।
मम देह इति ह्येव न देहो ऽहमिति प्रमा । (अनुव्याख्यानम्)३,२.६१एफ़् ।
न्यायसुधा-
सर्वस्यापि जन्तोर्मम देह इत्येव हि प्रमा प्रतीतिर्न तु कस्यापि देहो ऽहमिति ।
यद्वा यस्मात्सर्वेषां मम देह इत्येव प्रमा सम्यक्प्रतीतिः सर्(व)दानुवर्तते तस्माद्देहो ऽहमिति प्रतीतिर्नावकाशमासादयतीति ।
देहात्मत्वप्रतीत्यभावे ऽपि देहधर्माणां कार्ष्ण्यादीनामात्मनिष्ठत्वप्रतीतिस्तावदस्त्येव कृष्णो ऽहमित्यादिव्यवहारसन्दर्शनात् ।
सा च लिङ्गाद्यनपेक्षैव जायमाना प्रत्यक्षजन्यैव बाध्यते चानुमानादिनेति सैवोदाहरणं भविष्यतीत्यत आहउपचारश्चेति ।
उपचारश्च कृष्णो ऽहमिति … । (अनुव्याख्यानम्)३,२.६२अब् ।
न्यायसुधा-
कृष्णो ऽहमिति च प्रतीतिर्नास्तीत्यनुवर्तते ।
कथं तर्हि व्यवहारः ।
कृष्णो ऽहमिति व्यवहारस्तूपचार एवेति योजना ।
अस्य यो व्यवहारबलेन तथाविधां प्रतीतिमप्यनुमिनोति ।
तस्यानैकान्तिकत्वं स्यादित्याशयवानुक्तार्थे
दृष्टान्तमाहकर्दमेति ।
… कर्दमलेपने । (अनुव्याख्यानम्)३,२.६२अब् ।
९,२७२
न्यायसुधा-
वस्त्रस्य यद्वदेवं स्याद् … । (अनुव्याख्यानम्)३,२.६२च् ।
न्यायसुधा-
यथा वस्त्रस्य कर्दमलेपने सति कृष्णं वस्त्रमित्युपचारव्यवहारो भवत्येवं प्रकृते ऽपि स्यात् ।
अयमभिसन्धिः ।
यो हि वस्त्रस्य शौक्लयं कर्दमलेपनं च सम्यगवगच्छति न तस्य वस्त्रे काष्ण्यर्प्रतीतिरस्ति ।
व्यवहरति च कृष्णं वस्त्रमिति ।
अतः कृष्णो ऽहमिति व्यवहारात्तथाविधज्ञानानुमानं तत्र व्यभिचरति ।
उपचारव्यवहारो ऽसाविति चेत् ।
प्रकृते ऽपि तथा किन्न स्यादिति ।
९,२७३
ननु कृष्णं वस्त्रमिति नोपचारः ।
स्वतः शुक्ले ऽपि वस्त्रे कर्दमोपाधिककार्ष्ण्यसद्भावेन प्रतीतिसम्भवादिति चेन्न ।
किमिदमौपाधिकं नाम ।
साधनाभिमते व्याप्तिरिव कर्दमसन्निधानादारोप्यमाणमिति चेन्न ।
आरोपासम्भस्योक्तत्वात् ।
जपाकुसुमसन्निधानात्स्फटिके लौहित्यमिव प्रतिफलतीति चेन्न ।
वस्त्रस्यास्वच्छत्वात् ।
घृतादिना कुङ्कुमगन्धादि(वत्कर्द)रिव कर्दमनाभिव्यक्तमिति चेन्न ।
प्राग्वस्त्रे कार्ष्ण्यसद्भावे मानाभावात् ।
अथाग्निसंयोगात्पार्थिवद्रव्ये रूपादिकमिव कर्दमोपाधिना कृतमिति मतम् ।
तत्र पृच्छामः किं कर्दमः शौक्लयं निवर्त्य कार्ष्ण्यं वस्त्रे करोति, उतानिवर्त्यैव ।
नाद्यः ।
कर्दमापगमे शौक्लयानुपलब्धिप्रसङ्गात् ।
नच पुनः शौक्लयमुत्पन्नम् ।
कारणाभावात् ।
न द्वितीयः ।
युगपद्रूपद्वयाधिष्ठानविरोधात् ।
औपाधिकस्यापि सत्यत्वेन स्वाभाविकाविशेषात् ।
९,२७४
भवतु वा वस्त्रे कथञ्चित्कार्ष्ण्यमौपाधिकं किन्तदुपन्यासेनाभ्यर्थते ।
नचोक्तव्यभिचारपरिहारः ।
एकोदाहरणनिराकरणे ऽपि मञ्चाः क्रोशन्तीत्यादेरनेकस्य व्यभिचारोदाहरणस्य सम्भवात् ।
अथ वस्त्रे कर्दमेनेवात्मनि देहोपाधिना कृतं कार्ष्ण्यमस्तीति प्रतीतिसम्भावना विवक्षिता तत्राहयदीति ।
… यद्युपाधिकृतं तदा । (अनुव्याख्यानम्)३,२.६२ब् ।
न्यायसुधा-
यदि वस्त्र इवात्मनि देहोपाधिकृतं कार्ष्ण्यमस्तीति तत्प्रतीतिः सम्भाव्यते तदा प्रत्यक्षप्रतीतस्यानुमानादिना बाध इत्यत्र नेदमुदाहरणमिति शेषः ।
कथमित्यत आहस्वत इति ।
स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते । (अनुव्याख्यानम्)३,२.६२च्द् ।
९,२७४फ़्.
न्यायसुधा-
अत्र दृष्टान्ते दार्ष्यान्तिके चैकदेशोत्कीर्तनेनान्यदप्युपलक्ष्यते ।
तथा चायमर्थः ।
वस्त्रे खलु कार्ष्ण्यं कर्दमोपाधिकृतं (औपाधिकं) प्रतीयमानमेवं प्रत्येतव्यम् ।
स्वतिः शुक्लमेवेदं वस्त्रं न कृष्णम् ।
कार्ष्ण्यन्तूपाधिकृतमिति ।
तथात्रापि स्वतो नीरूप एवाहम् ।
कार्ष्ण्यं तु न मम स्वभावतः ।
किन्तु देहोपाधिकृतमिति प्रतीयत इत्यङ्गीकर्तव्यम् ।
तथाचास्याः प्रतीतेर्यथार्थत्वान्नानुमानादिना(तो) बाध इति ।
९,२७६
यदुक्तं देहात्मताप्रतीतिर्नास्ति देहो ऽहमिति प्रतीत्यननुभवादिति तदसत् ।
अहमिति प्रतीतेरेव तत्प्रतीतित्वात् ।
इदमनिदंरूपवस्तुगर्भो ह्यहङ्कारः ।
यच्चोक्तं मम देह इति भेदप्रती(तेर)त्यनुवृत्तेर्देहात्मत्वप्रतिभासो ऽनुपपन्न इति ।
तदयुक्तम् ।
भेदप्रतीत्यसम्प्रतिपत्तेः ।
मम देह इति व्यवहारस्य मम स्वरूपमितिवदौपचारिकत्वोपपत्तेः ।
न खलु केवले देहे आत्मत्वप्रतीतिः ।
किन्तर्हि देहेन्द्रियान्तःकरणादिसङ्घाते ।
तत्र सङ्घातापेक्षया देहमात्रे सम्बन्धप्रतीतिरपि न बाधिका ।
प्रसादस्य स्तम्भो, वृक्षस्य शाखेति यथा ।
नच देहेन्द्रियादेरात्मनश्च भेदावभासे स्फुटं प्रमाणमस्ति ।
येन देहाद्यात्मप्रतीतिर्विरुध्येत ।
यदप्युक्तं कृष्णो ऽहमित्यादिरूपदेहादिधर्माणामात्मनिष्ठप्रतीतिर्नास्ति प्रमाणाभावादिति ।
तन्न ।
कृष्णो ऽहमिति व्यवहारदर्शनात् ।
ज्ञानमूलता खलु व्यवहारस्योत्सर्गतः सिद्धा ।
तदनुपपत्तौ तूपचारत्वकल्पना ।
नच नाहं कृष्ण इत्यादिरूपा प्रतीतिरस्ति ।
यद्भयादुपचारत्वं कल्पयामः ।
अतो भेदादिप्रतीत्यभावादस्त्येवोभयी प्रतीतिः ।
यथाऽह ।
‘अन्योन्यस्मिन्नन्योन्यात्मकतामन्योन्यधर्मांश्चाध्यस्य’ इति ।
९,२७८
प्रत्यक्षजा चेयं प्रतीतिरिति कथं प्रत्यक्षसिद्धस्य नानुमानादिना बाध इत्यत आहकथं चेति ।
कथं च भेदो देहादेरात्मनो न प्रमीयते । (अनुव्याख्यानम्)३,२.६३अब् ।
न्यायसुधा-
भेदशब्देनासंसर्गो ऽपि गृह्यते ।
देहादिशब्देन सङ्घातस्तद्धर्माश्च ।
यदा देहादेरिति पञ्चमी तदाऽत्मन इति षष्ठी ।
यदा चात्मन इति पञ्चमी तदा देहादेरिति षष्ठी ।
अन्योन्यारोपस्य परेणोक्तत्वात् ।
देहादिसङ्घातस्यात्मनश्चान्योन्यं भेदस्तद्धर्माणां च परस्परमसंसर्गः प्रतीयत एवेत्यर्थः ।
तत्कथमित्यत आहजातमात्रा इति ।
जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।
भयाभयस्वभोगादौ कारणानि विजानते । (अनुव्याख्यानम्)३,२.६३च्फ़् ।
९,२७८फ़्.
न्यायसुधा-
जाता एव न तु व्यापारान्तरं कृतवन्तः ।
भुज्यत इति भोगः सुखम् ।
आदिपदेन दुःखम् ।
सिंहव्याघ्रादीनि भयकारणानि, मात्रादीन्यभयकारणानि, स्तनपानादीनि सुखकारणानि, शङ्क्वादिना नयनान्तःकण्डूयनादीनि
दुःखकारणानीति विजानते ।
अत एव सिंहादिध्वनिमात्रेण पलायन्ते, मात्रादीनि चोपसर्पन्ति, स्तनपानाद्यर्थं प्रवर्तन्ते, वर्जयन्ति शङ्कुकण्डूयनादीनि ।
९,२७९
ततः किमित्यत आह अस्मृताविति
अस्मृतौ पूर्वदेहस्य विज्ञानं तत् कथं भवेत् । (अनुव्याख्यानम्)३,२.६४अब् ।
न्यायसुधा-
तद्विज्ञानं भयादिकारणमेतदिति विज्ञानम् ।
पूर्वदेहास्मरणे तद्विज्ञानं(कृतो) कथं न भवेदित्यत आहअन्वयेति ।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ । (अनुव्याख्यानम्)३,२.६४च्द् ।
९,२८०
न्यायसुधा-
आदिपदेन दृष्टान्तधर्मिणोर्ग्रहणम् ।
यद्वाऽदिग्रहणेनोपदेशो गृह्यते ।
अन्वयव्यतिरेकादेर्विस्मृताविति सम्बन्धः ।
न केवलमेतावत् ।
किन्तु तथा चायमित्यनुसन्धनस्य च विस्मृतौ सत्यां विज्ञानं तत्कथं भवेदिति सम्बन्धः ।
एतदुक्तं भवति ।
अस्ति तावन्मृगादीनां स्तनपानादौ प्रवृत्तिः शङ्कुकण्डूयनादितो निवृत्तिश्च ।
ततो ऽनुमीयते विद्येते तत्र तेषां रागद्वेषाविति ।
रागद्वेषयोरेव प्रवृत्तिकारणत्वेनास्मदादौ निर्णीतत्वात् ।
रागद्वेषाभ्यां चेष्यानिष्यसाधनत्वज्ञानम् ।
तस्यैव रागादिकारणतया निश्चितत्वात् ।
नच तज्ज्ञानं प्रत्यक्षसाध्यम् ।
कार्यकारणभावस्यातीन्द्रियत्वात् ।
किन्त्वनुमानोपदेशसाध्यमेव ।
नच मृगादीनामुपदेशः सम्भवति ।
अनधिकारात् ।
तस्मात्प्राग्भवीयोपदेश इति वाच्यम् ।
नचास्मृतो ऽसौ तत्कारणमिति तत्स्मृतिसद्भावो ऽङ्गीकार्यः ।
यद्वानुमानम् ।
नच तत्, यद्यत्स्तनपानं तदिष्यसाधनं, यदिष्यसाधनं न भवति तत्स्तनपानं न भवति, यथामुकम्, स्तनपानं चेदमित्यन्वयादिस्मरणेन विना
भवति ।
नचाननुभूते स्मृतिरुत्पद्यते ।
नचास्मिञ्जन्मन्यन्वयाद्यनुभवो ऽस्ति ।
जातमात्राणामुदाहृतत्वात् ।
अतो जन्मान्तरानुभूतान्वयादिस्मरणमेष्टव्यम् ।
प्राग्भवीयस्योपदेशस्यान्वयादेश्च स्मरणे पूवर्देहस्मरणमप्यङ्गीकर्तव्यम् ।
समानयोगक्षेमत्वात् ।
नचेद्देहान्तरस्मरणं मृगादीनां तदा तदविशिष्यान्वययादिस्मरणमपि न स्यात् ।
तदभावे चानुमानाद्यभावेनेष्यानिष्यकारणताज्ञानं नोत्पद्येत ।
तदनुत्पादे च रागाद्यनुत्पादात्प्रवृत्त्याद्यनुत्प(द्यत)द्यते ।
कारणाभावे कार्याभावस्य सुलभत्वात् ।
अदृष्टवशात्प्रवृत्त्यादीति चेन्न ।
दृष्टातिक्रमदोषात् ।
एतावांस्त्वदृष्टस्योपयोगो यञ्जन्मान्तरानुभूतं सर्वमस्मरन्नेतावत्स्मरति ।
यादृच्छिकं प्रवृत्त्यादि भवत्विति चेन्न ।
अनन्तानां तदनुपपत्तेः ।
अत एव मृगा इत्यादिबहुवचनम् ।
अस्तु जातिस्वभावो ऽयम् ।
न ।
भिन्नजातीयानामप्युपलम्भात् ।
अत एव मृगा गाव इत्याद्युक्तम् ।
दृष्टातिक्रमदोषश्चापरिहार्यः ।
तस्मादस्ति मृगादीनां पूर्वदेहस्मरणम् ।
तथैव मानुषादीनामपीति सिद्धमिति ।
९,२८३
तथापि किं प्रकृत इत्यत आहयदेति ।
यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः । (अनुव्याख्यानम्)३,२.६५अब् ।
न्यायसुधा-
यदैवमेतद्देहवर्तिनो मम न केवलमयमेव देहः किन्तु तत्प्रागन्यो ऽप्यभूदिति देहान्तरस्मरणं प्रमितम्(णमापतितम्) ।
तदैतद्देहेन स्वस्यैक्या(ध्य)वसायः कुतः स्यात् ।
किन्त्वनेकमणिष्वनुस्यूतं सूत्रमिवानेकदेहानुस्यूतमात्मानं पश्यतः स्वस्य ततो ऽत्यन्तभेदावसितिरेव युक्ता ।
तथाच कार्ष्ण्यादीनामसंसर्गज्ञानमपि सुस्थमेवे ।
परेण देहाद्यारोपनिबन्धनत्वाभ्युपगमात्तदारोपस्य ।
अहम्प्रत्ययस्तु नारोप इति प्रागेवोक्तम् ।
अतो मम देह इति प्रत्ययो नान्यथयितव्यः कृष्णो ऽहमित्यादिश्चोपचारो ऽङ्गीकरणीय इति ।
९,२८४फ़्.
स्यादेतत् ।
न मुख्यार्थानुपपत्तिमात्रादुपचारो लभ्यते ।
किन्तु सादृश्ये सम्बन्धे वा प्रयोजने च सति ।
नचात्र सादृश्यादिकमस्ति ।
तत्कथमयमुपचारः ।
किञ्च मृगादीनां पामाराणां मनुष्याणां च यदि देहात्मभेदज्ञानं स्यात्तर्हि’नैषां ममाहमिति धीः श्वसृगालभक्ष्य’ इत्यादयः पुराणादिव्यवहाराः
कथं सङ्गच्छन्ते ।
कथं च देहात्मविवेकार्थानामुपदेशानामानर्थक्यं न स्यात् ।
देहानुकूलप्रतिकूलार्थयो रागद्वेषौ च देहात्मभेदज्ञाने सति न स्याताम् ।
ततश्च संसारानुपपत्तिरित्यत आहव्याप्तत्वादिति ।
९,२८५
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् । (अनुव्याख्यानम्)३,२.६५च्द् ।
भेदज्ञाने ऽपि चाङ्गारवह्निवत् स्वाविविक्तवत् ।
भवन्ति व्यवहाराश्च … । (अनुव्याख्यानम्)३,२.६६अच् ।
न्यायसुधा-
भेदाज्ञाने ऽपि चेति चशब्दो व्यवहारेष्वपाटवाच्चेति सम्बद्धयते ।
अङ्गारवह्निवदिति ।
अङ्गारव्याप्तवन्हाविवेत्यर्थः ।
स्वाविविक्तवत् स्वाभिन्ने स्वसंसृष्टे च यथा तथेत्यर्थः ।
व्यवहाराश्चेति चशब्दो ऽनुक्तसमुच्चयार्थः ।
आत्मनो(देहे) व्याप्तत्वात्स्वाविविक्तवद्वयवहारा भवन्ति इत्यनेनैकदेशत्वलक्षणं सादृश्यं सम्बन्धो ऽप्यभिहितः ।
भेदज्ञाने ऽप्यभिन्नवद्वयवहारे किं प्रयोजनमित्यस्योत्तरं भेदज्ञाने ऽपि लोकानां व्यवहारेष्वपाटवात्स्वाविविक्तवद्वयवहारे किं प्रयोजनमित्यस्योत्तरं
भेदज्ञाने ऽपि लोकानां व्यवहारेष्वपाटववात्स्वाविविक्तवद्वयवहारा भवन्तीति ।
न प्रयोजनमुद्दिश्य लोकास्तथा व्यवहरन्ति ।
किन्तु विविक्तव्यवहारेषु पाटवाभावादेवेति ।
अपाटवे हेतुर्व्याप्तत्वादात्मनो देह इति ।
रूढत्वाच्चैतेषां व्यवहाराणां न प्रयोजनापेक्षेत्याशयेन उक्तम्अङ्गारवह्निवदिति ।
भेदज्ञाने ऽप्यात्मनो देहव्याप्तत्वादङ्गारवह्निवल्लोकानां व्यवहारेषु अपाटवादत्यन्तविविक्तवेदनेष्वसामर्थ्यात्पुराणादिव्यवहाराश्च
स्वाविविक्तवद्भवन्ति ।
विशदविवेकाभावविवक्षयैव ते व्यवहारा इत्याशयः ।
अत एव विवेकार्थानामुपदेशानां च सार्थक्यमुपपद्यते ।
विशदो हि विवेकः पुरुषार्थाय कल्पते न त्वौत्पत्तिकः ।
आत्मनो देहे व्याप्तत्वादत्यन्तं प्रेमास्पदत्वाद्रागादयो युज्यन्त एवेति ।
९,२८७
ननु ज्ञानमेव व्यवहारकारणं तच्चेदस्ति कथं तर्हि व्यवहारेष्वपाटवमित्यत आहनहीति ।
… न हि प्रत्यक्षगानपि । (अनुव्याख्यानम्)३,२.६६द् ।
९,२८८
न्यायसुधा-
अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः ।
लोकास् … । (अनुव्याख्यानम्)३,२.६७अच् ।
न्यायसुधा-
यथानुभवतः अनुभवानुसारेण प्रतिपादयितुं व्यवहर्तुम् ।
यमलयोरत्यन्तविवेकं पश्यन्तो ऽपि मात्रादयः कथमेतौ विविक्ताववगन्तव्याविति पृष्टा एवमिति स्वप्रत्यक्षानुभवानुसारेण न परान्प्रतिपादयितुं
क्षमन्त इत्याद्यनुभवसिद्धम् ।
का नामात्र कथन्ता ।
अथ तत्रात्यन्तसादृश्यं प्रतिबन्धकं तर्ह्यत्राप्यङ्गारवह्निवदात्मनो देहे व्याप्तत्वं प्रतिबन्धकमुक्तमेव ।
शुक्तिरजतादिप्रत्यक्षाणामनुमानादिना बाधो नास्तीत्यन्यत्रोपपादितमित्याशयवान्’क्व च प्रत्यक्षतः प्राप्तम्’ इत्यादिनोक्तमुपसंहरतिततो
हीति ।
… ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् । (अनुव्याख्यानम्)३,२.६७च्द् ।
शक्यं वारयितुं क्वापि … । (अनुव्याख्यानम्)३,२.६८अ ।
न्यायसुधा-
क्वचित्प्रतीतेरेवाभावात्क्वचित्प्रतीतिसद्भावे ऽपि प्रत्यक्षजन्यत्वाभावात्क्वचित्प्रत्यक्षप्रतीतिभावे ऽपि यथार्थत्वात्क्वचिदयथार्थत्वे ऽपि
प्रबलप्रत्यक्षेणैव बाधादित्यर्थः ।
अत एव क्वापीत्युक्तम् ।
अन्येनेति ।
अनुपजीव्येनागमादिनेत्यर्थः ।
तदेवं स्वभावतः प्रबलेन प्रत्यक्षेण विरुद्धावनुमानागमावभासावेवेति ।
९,२८९
भवत्वागमादितः प्रत्यक्षं प्रबलं मा वा भूत् ।
तद्विरोधस्त्वागमादेर्नास्ति ।
भिन्नविषयत्वात् ।
तथाहि ।
आगमादिकं खल्वागामिनं विश्वस्य बाधं प्रतिपादयति न तु अधुनातनम् ।
स एव च मिथ्यादिपदेन वेदनीयः ।
तस्य च प्रत्यक्षविरोधस्तदा स्यात् ।
यद्यागामिनमपि विश्वस्य बाधं प्रत्यक्षं प्रतिक्षिपेत् ।
नचैवम् ।
तस्य वर्तमानमात्रग्राहित्वेन आगामिनमपि विश्वस्य बाधं प्रत्यक्षं प्रतिक्षिपेत् ।
नचैवम् ।
तस्य वर्तमानमात्रग्राहित्वेन आगामिबाधाभावग्रहणे सामर्थ्याभावात् ।
यथोक्तम् ।
‘सम्बद्धं वर्तमानं च गृह्यते चक्षुरादिना’ इति ।
इदानीन्तनबाधाभावग्रहणे ऽपि न विरोधः ।
नच भिन्नविषययोर्विरोधो ऽस्ति ।
तथा सतीदानीन्तनघटाभावग्राहिणा प्रत्यक्षेण भविष्यति घट इत्यागमादेर्विरोधः स्यादिति ।
९,२९०
उच्यते ।
अस्ति तावत् प्रत्यक्षं वर्तमानकालीनं बाधाभावमावेदयतीति परस्यापि सम्प्रतिपत्तिः ।
आगमश्च नेह नानास्तीत्यादिरूपो वर्तमानमेव विश्वस्य बाधं प्रतिपादयतीति कथं न प्रत्यक्षविरुद्धः ।
अस्तु वागामिबोधकत्वमागमादेस्तथापि बाधो नाम त्रैकालिकसत्तनिषेधः ।
स च वर्तमानकालीनसत्ताग्राहिणा प्रत्यक्षेण विरुद्धयत एवेति तत्प्रतिपादकस्यागमादेः कथं न प्रत्यक्षविरोधः ।
एतेनास्मत्प्रत्यक्षमस्मन्निष्ठमेव बाधं प्रतिक्षेप्तुं क्षमते न पुरुषान्तरगतमिति निरस्तम् ।
घटादिसत्तानिषेधरूपस्य बाधस्य तत्सत्ताग्राहिणा प्रत्यक्षेण विरोधावश्यम्भावात् ।
९,२९३
तदेवं प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे ऽप्यागमादेस्तद्विरोधो दुष्परिहार एव ।
तथापि प्रसक्तौ वस्तुस्थितिर्वक्तव्येत्याशयवान्प्रत्यक्षस्य वर्तमानमात्रग्राहितानियममपाकर्तुमुत्तरं प्रकरणमारभमाणः साक्षिप्रत्यक्षस्य
तावत्तन्नियममपाकरोतितच्चेदिति ।
… तच्चेन्नोत्तरगोचरम् ।
कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते । (अनुव्याख्यानम्)३,२.६८ब्द् ।
न्यायसुधा-
गम्यत इति वक्ष्यमाणेन सम्बन्धः ।
तदिति प्रत्यक्षविशेषसाक्षिणमेवाधिकुरुते भगवान् भाष्यकारः चेच्छब्दश्रवणात्तर्हीत्यध्याहार्यम् ।
नोत्तरगोचरमिति ।
वर्तमानमात्रगोचरमित्यर्थः ।
प्रमाणान्तराणां प्रागेव दूषितत्वादित्येवार्थः ।
उत्तर इत्यतीतस्याप्युपलक्षणम् ।
येषां चाखण्ड एव कालस्तैरप्युपाधिभेदो ऽङ्गीकर्तव्य एव ।
अन्यथा सर्वाख्यातप्रत्ययानामैकाथ्यर्प्रसङ्गात् ।
अतः स्वाभाविको वौपाधिको वास्त्युत्तरः कालः ।
मावगाम्युत्तरः काल इदानीम् ।
किन्नश्छिन्नमित्यत आहतद्ग इति ।
कथमेवेत्यनुवर्तते ।
उत्तरकालानवगताविति चार्थः ।
गम्यते अवगम्यते ।
अत्रातीतस्य कण्ठतो ऽसङ्कीर्तनं कैश्चिदतीतमोक्षस्यानङ्गीकृतत्वात् ।
उत्तरकालानवगतौ तत्सम्बन्धितया मोक्षो ऽपि नावगम्यत एव ।
विशेषणानवगमे विशिष्यानवगमस्य प्रसिद्धत्वात् ।
भविष्यति मोक्ष इत्यवगमाभावे च तदर्थः प्रयत्नो न स्यात् ।
मोक्षे सर्वस्य बाधो भविष्यतीत्येतदपि न स्यादिति ।
९,२९५
शुकवामदेवादयो ज्ञानेन मुक्ता अभूवन्नहमपि मुक्तो भविष्यामीत्याद्यवगतिः आगमादेव भविष्य(तीति)ति किमत्र साक्षिणो
ऽतीतानागतार्थगोचरत्वेनेत्यत आहआगमो ऽपीति ।
आगमो ऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।
विशेषं गमयेदेव … । (अनुव्याख्यानम्)३,२.६९अच् ।
न्यायसुधा-
एषा खल्वागमस्य स्थितिः ।
यत्सामान्ये ऽन्वयसामान्यवति पदार्थसमूहे, प्रत्यक्षतः प्रमाणान्तरेण, सिद्धे सति, पुनः पश्चाद्विशेषमन्वयविशेषवन्तं तमेव पदार्थसमूहं,
गमयेदित्येव न पुनः पदार्थानपि गमयेदिति ।
नद्यास्तीरे पञ्चफलानि सन्तीत्यादौ तथा दर्शनादिति हिशब्दार्थः ।
किं प्राक् पदाथर्सिद्धयेत्यत आहकथमिति ।
… कथं शक्तिग्रहो ऽन्यथा । (अनुव्याख्यानम्)३,२.६९द् ।
न्यायसुधा-
यदि पदार्थाः प्राङ् न सिद्धास्तर्हि पदानां तेषु वाचकत्वशक्तिग्रहणं न स्यात् ।
अविदितविषयायाः शक्तेर्गृहीतुमशक्यत्वात् ।
नहि काष्ठमजानन्कुठारस्य तच्छेदनशक्तिं ज्ञातु शक्नोति ।
९,२९६
अस्तु पदानां शक्तिग्रहाय पदार्थज्ञानमावश्यकम् ।
अथ शक्तिग्रह एव किमर्थ इत्यत आहअतीतेति ।
अतीतानागतार्थेषु जाते शक्तिग्रहे ऽखिलम् ।
विशेषं ज्ञापयेद् वाक्यं न तदज्ञातशक्तिके । (अनुव्याख्यानम्)३,२.७० ।
न्यायसुधा-
अत्रातीतानागतग्रहणं प्रकृतापेक्षम् ।
अखिलमपि वाक्यं पदानां पदार्थेषु वाचकत्वशक्तिग्रहे जात एवान्वयविशेषं गमयेत् ।
नतु तद्वाक्यं पदार्थेषु पदसमूहे ऽज्ञातशक्तिके सति विशेषं गमयेदित्यन्वयव्यतिरेकाभ्यां, वाक्यस्य वाक्यार्थावगतौ कर्तव्यायां, शक्तिग्रहो
ऽङ्गमिति ज्ञायते ऽतो ऽसावर्थनीयः ।
प्रकृतवाक्यानां चातीतानागतार्थसंसर्गबोधकत्वादतीतानागतार्थेषु लुङ्ळ्डाद्यन्तपदानां शक्तिर्ज्ञातव्येत्यर्थः ।
९,२९७
अस्तु शक्तिग्रहावश्यम्भावः किन्तु वर्तमानेष्वेवार्थेषु नातीतानागतेष्वनुपयोगादित्यत आहशक्तिश्चेदिति ।
[जोस्हि१६]
शक्तिश्चेद् वर्तमाने स्यान्नातीतानागतं वदेत् । (अनुव्याख्यानम्)३,२.७१अब् ।
न्यायसुधा-
यदि वर्तमान एवार्थे पदानां शक्तिर्गृहीता स्यात्तदा वाक्यम् अतीतानागतम् अतीतानागतार्थसंसर्गं न वदेत् न प्रतिपादयेत् ।
सहकारिविरहात् ।
सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः ।
अतीतानागतार्थेष्वित्युक्तस्याभिप्रायकथनमेतत् ।
९,२९९
अस्त्वतीतानागतार्थेष्वपि पदानां शक्तिग्रहः ।
ततः किमित्यत आहयदीति ।
यदि शक्तिग्रहो ऽन्यत्र कथं स स्यात् तदग्रहे । (अनुव्याख्यानम्)३,२.७१च्द् ।
न्यायसुधा-
वर्तमानादन्यत्रातीतानागतयोरपि पदशक्तिग्रहो यद्यङ्गीकृतस्तदा सः अतीतानागतार्थेषु पदशक्तिग्रहस्तदग्रहे ऽतीतानागतार्थाग्रहे कथं स्यात् ।
न कथञ्चित् ।
निर्विषयायाः शक्तेर्ज्ञातुमशक्यत्वात् ।
अतो ऽतीतानागतार्थज्ञानमप्यङ्गीकार्यम् ।
अयमत्र समुदायार्थः ।
वाक्यं तावत्पदार्थसंसर्गविशेषलक्षणं वाक्यार्थमेव बोधयति न पदार्थमात्रम् ।
तच्चापेक्षते पदानां पदार्थेषु वाचकत्वशक्तिग्रहम् ।
शक्तिग्रहश्च पदार्थग्रहम् ।
पदार्थग्रहश्च प्रमाणान्तरायत्तो न पदवाक्यजन्यः ।
इतरेतराश्रयादिदोषप्रसङ्गात् ।
यत्र चातीतानागतार्थसंसर्गो वाक्यार्थस्तत्रातीतानागतार्थग्रहणमावश्यकम् ।
शुकवामदेवेदयो मुक्ता अभूवन्नहं च मुक्तो भविष्यामीत्यादिकं च तथा ।
तस्माल्लुङ्ळ्डाद्यन्तपदवाच्यानामतीतानगतकालतत्सम्बन्धिपदार्थानां च ग्रहणमागमेनोक्तार्थप्रतिपत्तिमभिलषतापि परेणैष्यव्यम् ।
नच तत्साक्षिणा विना भवतीति कथमतीतानागतार्थग्राहिणस्तस्य वर्तमानमात्रविषयत्वमिति ।
९,३००
मीमांसकमतानुसारेण शङ्कतेसामान्यमिति ।
सामान्यं दृष्टमेवासावन्यत्र गमयेद् यदि । (अनुव्याख्यानम्)३,२.७२अब् ।
९,३०१
न्यायसुधा-
असाविति प्रकृवाक्यैकदेशस्य शब्दस्य परामर्शः ।
सकलमपि वस्तु सामान्यविशेषात्मकम् ।
तत्र सामान्याकार एव शब्दवाच्यो विशेषस्तु लक्ष्य एवेति तावन्निष्यङ्कितम् ।
सामान्यं चातीतानागतविशेषेष्वेकमेव ।
तच्च वर्तमानं चक्षुरादिना दृष्टं शब्दशक्तिविषयतया अवगतमेव, अन्यत्र कालान्तरे ऽपि, शब्दो बोधयति ।
तत्र किमतीतानागतार्थज्ञानेन ।
विशेषाणां हि शब्दवाच्यत्वे तेषामतीतादिरूपत्वात् शक्तिग्रहणायातीतादिज्ञानमपेक्षितं स्यात् ।
नच लुङ्ळ्डादिशक्तिग्रहणायातीतानागतादिकालग्रहणमपरिहार्यमिति वाच्यम् ।
तत्रापि कालत्वजातेरेव वाच्यत्वात् ।
नहि वैशेषिकादिवन्मीमांसकानां निस्सामान्यं किमप्यस्ति ।
अतो न शक्तिग्रहायातीतादिग्रहापेक्षेति ।
९,३०२
उत्तरमाहसामान्येति ।
सामान्यवर्जितं वस्तुस्वरूपं गमयेत् कथम् । (अनुव्याख्यानम्)३,२.७२च्द् ।
न्यायसुधा-
अस्तु तावत्सर्वविशेषा(षया)नुगतं नित्यं गोत्वादिसामान्यमेव गवादिशब्दवाच्वत्वं सास्नादिमन्तो विशेषास्तु लक्ष्या एव ।
तथापीदं वक्तव्यम् ।
स्वरूपशब्दो वस्तुस्वरूपाण्यवगमयति न वेति ।
नेति पक्षे ऽनुभवविरोधः ।
आद्ये कथं कया वृत्त्येति वाच्यम् ।
न तावल्लक्षणया ।
वाच्यार्थद्वारैव(रेणैव) सक्षणासम्भवा(लाभा)त्सामान्यस्यैव वाच्यत्वात् ।
स्वरूपाणां च सामान्यवर्जितत्वात् ।
अतः स्वरूपशब्दो वस्तुस्वरूपाणां वाचक इत्येवाङ्गीकार्यमिति ।
९,३०३
ननु सर्वसामान्यानां वस्तुस्वरूपाबहिर्भावात्सामान्यवर्जितं (वस्तु)स्वरूपमिति कथमित्यत आहनेति ।
न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् । (अनुव्याख्यानम्)३,२.७३अब् ।
न्यायसुधा-
सत्यम् सन्ति स्वरूपे सामान्यानि ।
नच तानि स्वरूपशब्दवाच्यानि ।
नहि सास्नादिमति पिण्डे वतर्मानं पशुत्वं गोशब्दवाच्यम् ।
किन्तु गोत्वमेव ।
तदत्रापि स्वरूपशब्दस्य वाच्यं सामान्यमभ्युपगच्छता स्वरूपत्वमेवाङ्गीकार्यम् ।
तच्च नास्ति ।
केनापि परीक्षकेण, क्वचिदप्यनङ्गीकृतत्वात् ।
माङ्गीकारि केनापि स्वरूपत्वसामान्यम् ।
मया त्वङ्गीकरिष्यते ।
नहि सर्वैरङ्गीकृतमेवाङ्गीकरणीयमित्यस्ति नियमः ।
तथात्वे दर्शनभेदासम्भवादिति वैयात्याद्वदन्तं प्रत्याहस्वरूपं चेदिति ।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् । (अनुव्याख्यानम्)३,२.७३च्द् ।
न्यायसुधा-
स्वरूपमिति भावप्रधानो निर्देशः ।
तत्र वस्तुनि ।
किंशब्दः प्रश्ने ।
एवं सत्यत्व प्रश्नो निरुत्तरः स्यादिति भावः ।
तत्कथमित्यत आहसर्वेति ।
९,३०४
सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।
किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।
स्यादुत्तरं … । (अनुव्याख्यानम्)३,२.७४अए ।
न्यायसुधा-
यस्मात्सर्वेषामनुगतधर्माणामन्ते ऽवसाने स्वत्त्वं स्वरूपत्वमिष्यते मीमांसकेन ।
तस्मात्किं तत्र व्यावृत्तमिति प्रश्ने कृते स्वरूपत्वमित्येवोत्तरं वक्तव्यं स्यात् ।
एतदुक्तं भवति ।
द्रव्येष्वत्यन्तं व्यावृत्ता धर्मा अन्त्या विशेषा इति वैशेषिकैरङ्गीकृतम् ।
विशेषेष्वपि विशेषान्तराङ्गीकारे ऽनवस्था(स्यात्)नात् ।
तत्र यथा स्वरूपत्वमेव व्यावृत्तं तथा द्रव्येष्वपि तदेवास्तु किं विशेषैरिति विशेषानवज्ञाय तत्स्थाने स्वरूपत्वमभिषिञ्चता मीमांसकेन किं
व्यावृत्तमिति प्रश्ने ऽन्त्या विशेषा इति वक्तुं न शक्यत एव ।
अपसिद्धान्तापातात् ।
गुणादयस्तु व्यावृत्तत्वे ऽप्यनुगताधारतयाङ्गीकृता अनुगतकल्पा एव ।
अतः स्वरूपत्व(मित्ये)मेव वक्तव्यम् ।
तस्य चेदानीमनुगतत्वाङ्गीकारे कथमयं प्रश्नो निरुत्तरो न भवेदिति ।
९,३०५
ननु भेद एव व्यावृत्तो भविष्यति ।
तस्यानुगतेरनुगताधारतायाश्चाभावादित्यत आहतत इति ।
… ततो ऽन्यच्चेत् तदेव स्वयमेव नः । (अनुव्याख्यानम्)३,२.७४एफ़् ।
न्यायसुधा-
एकस्य एवशब्दस्य तर्हीत्यर्थः ।
ततः स्वरूपत्वादन्यद्भेदलक्षणं व्यावृत्तं यद्यङ्गीक्रियते ।
तर्हि तदेवास्माकं स्वयं स्वरूपम् पदार्थ(यदर्थं)स्वरूपमुदाहृतं तत्र भेद एवोदाहरणं भविष्यतीत्यर्थः ।
एतदुक्तं भवति ।
उदाहरणस्यानादरणीयत्वाद्भेदस्तावन्निस्सामान्यो ऽपि शब्दबोध्यो वचनवृत्त्यैवेत्यङ्गीकरणीयम् ।
नच वाचकः शब्दः शक्तिग्रहणे विनार्ऽथं बोधयतीति तत्र तस्य शक्तिग्रहो ऽप्येष्यव्य इति ।
ततः किं प्रकृत इत्यत आहएवमिति ।
एवं व्यावृत्तरूपे ऽपि यदा शक्तिग्रहो भवेत् ।
तस्य … । (अनुव्याख्यानम्)३,२.७५अच् ।
न्यायसुधा-
एवमुक्तप्रकारेण व्यावृत्तरूपे निस्सामान्ये ऽपि स्वरूपे वा भेदे वा स्वरूपभेदादिशब्दानां वाचकत्वशक्तिग्रहो यदाङ्गीकृतो भवेत्तदा स च
शक्तिग्रहस्तस्य स्वरूपादेर्ज्ञानं विना कुतो भवेत् ।
सम्बन्धज्ञानस्य सम्बन्धिज्ञानपूर्वकत्वनियमान्न भवेदेवेति तज्ज्ञानमङ्गीकरणीयम् ।
सर्वेषां स्वरूपाणां भेदानां च ज्ञाने(च) सार्वज्ञमापतितमित्यत आहसामान्यत इति ।
… सामान्यतो ज्ञानं विना स च भवेत् कुतः । (अनुव्याख्यानम्)३,२.७५च्द् ।
न्यायसुधा-
सामान्यतो ज्ञानेनैव व्युत्पत्त्युपपत्तिः, विशेषतो ज्ञानाभावाच्च सार्वज्ञानापत्तिरित्यर्थः ।
ननु सामान्यवर्जितस्य स्वरूपादेः कथं सामान्यतो ज्ञानमित्यत आहअत इति ।
अतो विशेषसामान्यरूपं सर्वमपीष्यते । (अनुव्याख्यानम्)३,२.७६अब् ।
न्यायसुधा-
सर्वमपि वस्त्वस्माभिर्विशेषसामान्यरूपं व्यावृत्तरूपं सामान्यरूपं चेष्यते ऽतो न काचिदनुपपत्तिः ।
कुत एवमिष्यते ।
अतः पूर्वन्यायात् ।
यदि व्यावृत्तमेव स्यात्तदोक्तप्रकारेण सार्वज्ञमापद्येत शक्तिग्रहाभावो वा स्यात् ।
यदि च सामान्यरूपमेव भवेत्तदा व्यावृत्तबुद्धयनुपपत्तिरेवेति ।
९,३०६
नन्विदं पूर्वोक्तविरुद्धमुच्यते ।
यावता प्राक् स्वरूपादिकं निस्सामान्यमेवेति प्रसाध्येदानीं सर्वमपि विशेषसामान्यरूपमिष्यत इत्युच्यत इत्यत आहव्यावृत्तमिति ।
व्यावृत्तं यच्च सामान्यं तदेव स्याद् विशेषतः । (अनुव्याख्यानम्)३,२.७६च्द् ।
नचैकधर्मता तेन पदार्थानां परस्परम् । (अनुव्याख्यानम्)३,२.७७अब् ।
न्यायसुधा-
यदेव व्यावृत्तं स्वरूपं तदेव विशेषबलेन सामान्यं च स्याद्यतस्तेन कारणेन पदार्थानां परस्परमेकधर्मता नास्तीति ।
एतदुक्तं भवति ।
यत्प्राक् स्वरूपभेदादौ सामान्यं नास्तीत्युक्तं तत्पदार्थस्वरूपाणां परस्परमनुगतैकधर्मता नास्तीत्यभिप्रायेण ।
तदभावे ऽपि व्यावृत्त(स्य)स्वरूपाभिन्नस्य प्रतिनियतस्य सामान्याकारस्याभ्युपगमे विशेषसामान्यरूपं सर्वमपीष्यत इत्युक्तमिति न
पूर्वोत्तरविरोधः ।
नचैतदयुक्तम् ।
एकस्यैव वस्तुनो विशेषबलेन व्यावृत्तानुवृत्तबुद्धिजनकत्वेन विशेषसामान्यरूपतोपपत्ते(त्ति)रिति ।
९,३०७
एवं गोत्वादिसामान्यस्यानुगतत्वमङ्गीकृत्य स्वरूपत्वादिसामान्याभावात्तत्रशब्दशक्तिग्रहार्थं तत्स्वरूपज्ञानमपेक्षितमित्युक्तम् ।
इदानीं गोत्वादिकमपि नानुगतमित्याहधर्माणामिति ।
धर्माणां भेददृष्टयैव … । (अनुव्याख्यानम्)३,२.७७च् ।
न्यायसुधा-
पदार्थानां परम्परमेकधर्मता नेत्येतावदनुवतर्ते ।
समुदायव्यतिरिक्तानां शौक्लयादिधर्माणां भेददृष्टया प्रतिधर्मिव्यावृत्तत्वदर्शनात्तद्दृष्टान्तेन गवादिपदार्थानामपि परस्परमेकधर्मता
अनुगतगोत्वादिधर्मवत्ता नेत्यनुमातव्यम् ।
अयमत्र प्रयोगः ।
गोत्वादिकं प्रतिव्यक्तिव्यावृत्तं समुदायातिरिक्तधर्मत्वाच्छौक्लयादिवदिति ।
एवशब्दः प्रतिज्ञया सम्बद्धयते ।
तेनानुगतबुद्धिबाध इति निराकरोति ।
अनुगतबुद्धेरन्यथैवोपपादितत्वात् ।
९,३०८
अथवा यथान्यासामेवास्तु सम्बन्धः ।
प्राभाकरा मन्यन्ते ।
रूपादयो ऽपि धर्मा अनुवृत्ता एव न तु प्रतिव्यक्ति भिद्यते ।
अतः साध्यविकलतेति ।
तन्निरासाय भेददृष्टयैवेत्युक्तम् ।
अन्यथा भेदादित्येवावक्ष्यत् ।
शौक्लयादेर्व्यावृत्तत्वे ऽनुवृत्तप्रत्ययो विरुद्धयेतेत्यत आहतदिति ।
… तत्सादृश्यस्य दर्शनात् । (अनुव्याख्यानम्)३,२.७७द् ।
न्यायसुधा-
शौक्लयमिदं शौक्लयमिदमिति प्रतीतौ हिमशौक्लयसादृश्यमेव हिमांशुशौक्लये प्रतीयते नतु तेनैक्यमित्यतो न विरोधः ।
मा भूदनुगतं सामान्यं ततः किं प्रकृत इत्यत आहअत इति ।
अतः सर्वपदार्थाश्च सामान्यात् साक्षिगोचराः । (अनुव्याख्यानम्)३,२.७८अब् ।
न्यायसुधा-
अनुगतसामान्याभावेनातीतानागतवर्तमानव्यक्तीनामेव वाच्यत्वादगृहीतशक्तीनां च पदानामबोधकत्वात् शक्तिग्रहणस्य च पदार्थज्ञानेन
विनासम्भवाद्विशेषतो ज्ञाने सार्वज्ञापत्तेरित्यर्थः ।
सर्व इति ।
वर्तमानातीतानागताः ।
अस्त्वतीतादिज्ञानापेक्षा शक्तिग्रहस्य ।
तच्च साक्षिणेति कुत इत्यत आहसर्वमिति ।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा । (अनुव्याख्यानम्)३,२.७८च्द् ।
९,३०९
न्यायसुधा-
एवशब्दो विशेषाकारव्यवच्छेदार्थः ।
प्रमाणान्तराभावादिति भावः ।
अनुमानेनातीतादिसर्वसामान्यज्ञानं भविष्यतीत्यस्य चेदमुत्तरम् ।
अतीतानागतवर्तमानं सर्वमपि लिङ्गमनेन साध्येन व्याप्तमिति ज्ञानापेक्षं खल्वनुमानम् ।
नचैतज्ज्ञानं साक्षिणा विना सम्भवतीति ।
यद्वा साक्षिणो ऽतीतादिसर्वसामान्याकारगोचरत्वे प्रमाणान्तरमेवानेनोच्यते ।
अतीतादिकं सर्वं धूमादि तथाविधेनाग्न्यादिना व्याप्तमिति ज्ञानपूर्वकं खल्वनुमानम् ।
तथाच साक्षिणो ऽतीतादिगोचरत्वाभावे ऽन्यस्य तथाविधस्याभावादनुमानमात्रोच्छेदः स्यादिति ।
किञ्चास्ति तावत्सर्वेषां सर्वशब्दशक्तिग्रहः ।
अन्यथा’सर्वं खल्विदं ब्रह्म’ इति व्यवहारविलोपप्रसङ्गात् ।
शक्तिग्रहश्चार्थग्रहापेक्ष इति सर्वेषां सामान्यतः सर्वमिति ज्ञानमङ्गीकार्यम् ।
साक्षिणश्चातीतादिसर्वगोचरत्वाभावे तन्न स्यादिति ।
९,३१०
नन्वनुगतसामान्याभावे व्यक्तीनामानन्त्याद्वयभिचाराच्च शब्दशक्तिग्रह एव न सङ्गच्छते ।
कुतस्तदन्यथानुपपत्त्या साक्षिणो ऽतीतादिगोचरत्वसिद्धिरित्यत आहकिञ्चिदिति ।
किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः ।
शब्दशक्तिग्रहश्च स्यात् … । (अनुव्याख्यानम्)३,२.७९अच् ।
९,३११
न्यायसुधा-
तदेतद्वैशेषिकपरीक्षायां व्याख्यातप्रायम् ।
नन्वेवं सति गोशब्दस्य गवये ऽपि शक्तिं गृह्णीयात् ।
सादृश्यसद्भावादित्यत आहतत्तदिति ।
… तत्तत्सादृश्यमानतः । (अनुव्याख्यानम्)३,२.७९द् ।
न्यायसुधा-
पूर्वेणान्वयः ।
न यत्किञ्चित्सादृश्यज्ञानं शब्दशक्तिग्रहणकारणम् ।
किन्त्वतिव्याप्तिविधुरम् ।
यथा गोशब्दे सास्नादिमत्त्वमेवमन्यत्रान्यदिति भावः ।
एतेन पूर्वः’किञ्चित्’ शब्दो व्याख्यातो भवति ।
९,३१२
एवं साक्षिप्रत्यक्षस्य वर्तमानमात्रग्राहित्वमपाकृत्य मानसप्रत्यक्षस्यापि तदपाकरोतिप्रत्यक्षमिति ।
प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् । (अनुव्याख्यानम्)३,२.८०अब् ।
न्यायसुधा-
मानसं प्रत्यक्षं चातीतार्थगोचरमेव यत्स्मृतिकारणमिति ।
यदेत्युत्तरवाक्ये सम्बद्धयते ।
पूर्वानुभवानधिकविषयायाः स्मृतेः प्रामाण्यमेव दुर्लभं कुतो मानसप्रत्यक्षजत्वमित्यत आह(यदेति)तदेति ।
९,३१३
तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् । (अनुव्याख्यानम्)३,२.८०च्द् ।
न्यायसुधा-
यदा यस्मात् अतीतत्वविशेषितम् अर्थं स्मृतिर्विषयीकरोतीति शेषः ।
तदा तस्मात्स्मृतिप्रमाणत्वं सिद्धम् ।
अतीतत्वविशेषितार्थविषयत्वे ऽपि कथं स्मृतेः प्रमाणत्वमित्यत आहआधिक्यमिति ।
आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते ।
मानता च कथं न स्यात् स्मृतेर् … । (अनुव्याख्यानम्)३,२.८१अद् ।
न्यायसुधा-
यस्मात्स्मृतिविषयीकृतमतीतत्वं वर्तमानतयानुभूतार्थादधिक्यमिष्यते सर्वैस्तस्मात्स्मृतेर्मानता कथं न स्यात् ।
मानत्वे च मानसप्रत्यक्षजत्वं कथं न स्यादिति चार्थः ।
अपि चानधिगतार्थगन्तृत्वं प्रमाणलक्षणमङ्गीकृत्येदं स्मृतेरनुभवाधिकविषयत्वं व्युत्पादितम् ।
वस्तुतस्तु नेदं लक्षणम् ।
किन्तु यथार्थत्वमेव ।
तच्चास्ति स्मृतेरनुभवसिद्धम् ।
बाधकप्रत्यये हि सति तन्न भवेत् ।
नचासावत्रास्तीत्याहबाधश्चेति ।
… बाधश्च नात्रहि । (अनुव्याख्यानम्)३,२.८१द् ।
न्यायसुधा-
चाक्षुषादिप्रत्यक्षे ऽपि न वर्तमानमात्रग्राहित्वनियम इति भावेनाहमानत्वमिति ।
मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् । (अनुव्याख्यानम्)३,२.८२अब् ।
न्यायसुधा-
सर्वे ऽपि हि परीक्षकास्तद्बलेनात्मादेः स्थायित्वं साधयन्ति ।
ततः किं प्रकृत इत्यत आहअतीतेति ।
अतीतवर्तमानत्वधर्मिणी सा च दृश्यते । (अनुव्याख्यानम्)३,२.८२च्द् ।
न्यायसुधा-
अतीतत्ववर्तमानत्वधर्मविशिष्यार्थविषयेत्यर्थः ।
दृश्यते साक्षिणा ।
सो ऽयमिति हि प्रत्यभिज्ञाकारो ऽनुभूयते ।
सा च चक्षुरादिनैव जायत इति भावः ।
९,३१४
अथ मतम् ।
प्रत्यभिज्ञायां चत्वारः पक्षाः सम्भवन्ति ।
अनुभव एवेति वा स्मृतिरेवेति वा स्मृत्यनुभवरूपं ज्ञानद्वयमिति चैकमेव ज्ञानमंशे स्मृतिरंशे ऽनुभव इति वेति ।
तत्र न तावदाद्यः ।
तथात्वे ह्यहमित्येव स्यान्न तु स इति ।
नापि द्वितीयः ।
तथा सति स इत्येव स्यान्न त्वयमिति ।
वक्ष्यमा(ण)णो दोषश्च स्यात् ।
अथ उत्तरं पक्षद्वयमेवाङ्गीकरणीयम् ।
तथाच स इत्यंशस्य स्मृतित्वान्न चाक्षुषादिप्रत्यक्षस्यातीतविषयत्वमित्यत आहनचेति ।
न च सा स्मृतिमात्रार्धा … । (अनुव्याख्यानम्)३,२.८३अ ।
न्यायसुधा-
स्मृतिरेव (मात्रा) स्मृतिमात्रा स्मृतिमात्रार्धं यस्याः सा तथोक्ता स्मृत्यनुभवरूपैकदेशसमुदायरूपा तथा स्मृत्यनुभवात्मकैकज्ञानरूपा च
नेत्यर्थः ।
कुतो नेत्यतः प्रथमप्रतिज्ञायां हेतुमाहतदिदन्त्वेति ।
९,३१५
… तदिदन्त्वग्रहैकतः । (अनुव्याख्यानम्)३,२.८३ब् ।
न्यायसुधा-
तत्त्वेदन्त्वग्रहयोरेकत्वानुभवात् ।
ग्रहग्रहणेनानुभवत्वं सूचयति ।
द्वितीयप्रतिज्ञायां हेतुमाहतदिदन्त्वेति ।
तत्त्वेदन्त्वग्रहस्यैकत्वान्निरंशत्वात् ।
एतदुक्तं भवति ।
प्रत्यभिज्ञा न स्मृतिरेवेति परेणाप्युक्तम् ।
नापि ज्ञानद्वयरूपा ।
तत्तावत एवेदन्तायां मानाभावप्रसङ्गेन क्षणभङ्गभङ्गासिद्धेः ।
नच स्मृत्यनुभवरूपमेकमेव ज्ञानम् ।
एकत्वे द्विरूपताविरोधात् ।
तस्मादनुभवरूपमेकमेव विज्ञानं संस्कारसचिवेन चक्षुरादिना जातत्वात्सोयमित्याकारं भवति ।
यथा खलु शुक्लहरितपीतादिरूपाणां चित्ररूपारम्भकत्वम् ।
यथा वा दोषसहकृतानामिन्द्रियाणां विपर्ययहेतुत्वम् ।
तथा संस्कारसचिवानामिन्द्रियाणां प्रत्यभिज्ञाहेतुत्वं भविष्यतीति को दोषः ।
नच संस्कारस्य स्वतन्त्रस्य ज्ञानहेतुत्वम् ।
स्मृतेर्मानसप्रत्यक्षजत्वाङ्गीकारादिति ।
तच्चेन्नोत्तरगोचरमित्यादिनोक्तमर्थमुपसंहरतिअत इति ।
अतो न वतर्मानैकनियमः स्याद् ग्रहे ऽक्षजे । (अनुव्याख्यानम्)३,२.८३च्द् ।
न्यायसुधा-
वर्तमानैकनियमः वर्तमानमेकमेव विषयीकरोतीत्येवंरूपो नियमः ।
९,३१८
प्रमाणप्रमेयप्रमातृभेदं विश्वमबाध्यमिति यदुक्तं तदुपसंहरिष्यन्नर्थगताया ज्ञा(ततायाः प्राकट्यापरपर्याया)तत्ताप्राकट्यसमाख्यायाः
प्रमितेश्चतुर्थ्या विद्यमानत्वात्कथं त्रिविधं विश्वमित्याशङ्कां तावत्परिहरतिनचेति ।
नच प्रमाणतो ऽन्या स्यात् प्रमितिर्नाम कुत्रचित् ।
मानाभावाद् गौरवाच्च कल्पनायाः किमेतया । (अनुव्याख्यानम्)३,२.८४ ।
न्यायसुधा-
प्रमितिर्नाम वस्तु नास्त्येव तत्र मानाभावात् ।
ननु कथं मानाभावः ।
‘प्रमाता च प्रमेयं च प्रमाणं प्रमितिस्तथा’ इत्यादेरागमस्य विद्यमानत्वादित्यत उक्तम्प्रमाणतो ऽन्येति ।
द्विविधं प्रमाणं करणं फलं च ।
(अत्र) तत्र प्रमाणशब्देन करणमभिधाय प्रमितिशब्देन फलरूपप्रमाणमेवोच्यते ।
नतु ततो ऽन्या प्रमितिरिति ।
अस्ति तावदर्थज्ञानयोविर्षयविषयिभावनियमः ।
नचासौ सत्तया कारणत्वेन वातिव्याप्तेः ।
नापि तादात्म्यसारूप्याभ्याम् ।
असम्भवात् ।
यत्र ज्ञाने यो ऽर्थो ऽवभासते त(त्रासौ)स्यासौ विषय इत्यत्र सप्तम्यर्थानुपपत्तिः ।
तस्माद्येन यस्यातिशय उत्पद्यते तस्यासौ विषय इत्यङ्गीकार्यम् ।
तथा चार्थस्य विषयत्वसिद्धये ज्ञानजन्यो ऽर्थगतो ऽतिशयः सर्वथाङ्गीकार्य इति कथं मानाभावः ।
मैवम् ।
तथा सत्यतीतानागतयोर्ज्ञानविषयताभावप्रसङ्गात् ।
न ह्यसति धर्मिणि तत्र धर्मोत्पत्तिः सम्भवति ।
अथ करणसम्भवात्तत्र विषयत्वमित्युच्यते तर्हि वर्तमाने ऽपि तथा सम्भवान्न ज्ञातता कल्पनीयेति ।
तदिदमुक्तं कुत्रचिदिति ।
अतीतादिवद्वर्तमाने ऽपि नास्तीत्यर्थः ।
किञ्च ज्ञानं स्वविषये ज्ञाततामुपजनयति यत्र क्वचिद्वा ।
द्वितीये ऽतिप्रसङ्गः ।
आद्ये ज्ञातोपजननात्प्रागेवार्थस्य विषयत्वसिद्धेर्व्यर्थं तत्कल्पनमित्याहकिमेतयेति ।
अपि च ज्ञाततायामपि ज्ञाततोत्पादो ऽङ्गीक्रियते न वा ।
नेति पक्षे ज्ञानविषयत्वं न स्यात् ।
आद्ये ऽनुभवानारूढं ज्ञातताप्रवाहमङ्गीकुर्वाणस्य कल्पनागौरवं स्यादित्याहकल्पनाया गौरवाच्चेति ।
अथ ज्ञातता ज्ञाततान्तरमन्तरेणैव विषय इति कल्प्यते ।
तदापि कल्पनागौरवमेव ।
एतेन ज्ञानं स्वविषये किञ्चित्करोति क्रियात्वाद्गमनवदित्यनुमानमपि निरस्तम् ।
ज्ञानमात्रपक्षीकारे ऽतीतानागतज्ञातताज्ञानेषु बाधात् ।
अन्यथा तत्रैव व्यभिचारादिति ।
९,३२१
ननु ज्ञातो घटः प्रकटो घट इत्यर्थविशेषणतया ज्ञातता प्रत्यक्षमीक्ष्यत इत्यत आहमयेति ।
मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।
ज्ञानमेव … । (अनुव्याख्यानम्)३,२.८५अच् ।
९,३२१फ़्.
न्यायसुधा-
ज्ञानमेव मयैतज्ज्ञातमिति ज्ञानगोचरम् ।
क्रिया हि कर्तृस्थैव यदा कर्तृप्राधान्येन व्यवह्रियते तदा कर्तृधर्मतया प्रतीयते ।
यथा देवदत्तो घटमिच्छति द्वेष्यीति ।
यदा तु कर्मप्राधान्येन तदा तद्धर्मतया ।
यथेष्यो द्विष्य इति ।
९,३२२
यदा पुनः स्वप्राधान्येन तदा स्वतन्त्रैव ।
यथेच्छा द्वेष इति ।
एवामात्मगतमेव ज्ञानं विषयधर्मतयावभासत इति किमनुपपन्नम् ।
ननु च ज्ञानं तावन्न प्रत्यक्षम् ।
तथाहि ।
न तावत्पूर्वभाविनो ज्ञानस्य ज्ञानं विषयः ।
तथा सति ज्ञास्यामीत्येव(मेव) स्यान्न तु जानामीति ।
नाप्यागामिनः ।
तथात्वे ह्यज्ञासिषमित्येव स्यात् ।
नच सहभाविज्ञानान्तरमस्ति ।
ततो ज्ञाततालक्षणकार्येणैवानुमातव्यमिति कथं सा नाभ्युपगम्यत इत्यत उक्तम्साक्षिणमिति ।
साक्षिणो नित्यत्वान्नोक्तदोषः ।
स च स्वप्रकाश इति ।
अनुपलम्भबाधिता च ज्ञाततेत्याहततो ऽन्येति ।
… ततो ऽन्या न प्रमितिर्नाम दृश्यते । (अनुव्याख्यानम्)३,२.८५च्द् ।
न्यायसुधा-
प्रथमज्ञाने हि शुद्ध एवार्थो ज्ञायते न ज्ञातताविशिष्यः ।
तदानीं तस्या अजातत्वात् ।
तामुत्पाद्य पुनस्तद्विशिष्यमर्थं विषयीकरोतीति पक्षे विरम्यव्यापारप्रसङ्गात् ।
नच प्रथमज्ञानविषयीकृतादधिको ऽर्थ उत्तरज्ञानेषु चकास्ति ।
ज्ञात इत्यत्र तु ज्ञानं विषय इत्युक्तमेवेति ।
९,३२४
इदानीमीशतज्ज्ञानेत्यादिनोक्तमर्थमुपसंहरतिमानेति ।
मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् । (अनुव्याख्यानम्)३,२.८६अब् ।
न्यायसुधा-
तत्तस्मान्मानादिभेदेन त्रिविधमेव विश्वं तस्य क्वचिदप्युच्छित्तिर्बाधो ना(स्ती)स्त्येवेत्यर्थः ।
प्रकृत(मनुस)मुपसंहरन्स्वप्नस्य मिथ्यात्वं हेत्वन्तरेण दूषयतिस्वाप्नानामपीति ।
९,३२५
स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् । (अनुव्याख्यानम्)३,२.८६च्द् ।
न्यायसुधा-
चो हेतौ ।
यस्मात्स्वप्नानामप्ये(ते)षां मानमातृप्रमेयाणां क्वचित्काले न बाधो दृश्यते अतः स्वप्नो मिथ्या नैवेति सम्बन्धः ।
न केवलं बाह्यप्रपञ्च इत्यपेरर्थः ।
स्वप्नादुत्थितस्य नात्र गजो ऽभूदित्यादिना बाधदर्शनात्कथमेतदित्यत आहजाग्रत्त्वमात्रमिति ।
जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।
अतो मिथ्या नच स्वप्नो … । (अनुव्याख्यानम्)३,२.८७अच् ।
न्यायसुधा-
अन्यथा अविद्यमानत्वेन ।
व्याख्यातप्रायमेतत् ।
यत्तूक्तं रथो ऽयमित्यादि, तत्परिणामितामावेदयति ।
न बाधमिति वक्ष्यते ।
‘न तत्र रथाः’ इत्यादिश्रुतिस्तु तत्प्रागभावम् ।
ननु स्वाप्नपदार्थानां जाग्रत्त्वं यदि भ्रमसिद्धं बाधितं च तदा तेषां मिथ्यात्वमवर्जनीयम् ।
स्वाप्नगजादयो मिथ्या भ्रमविषयत्वाद्बाधविषयत्वाच्च शक्तिरजतवदित्यनुमानादिति चेत्किमिदं भ्रमविषयत्वमारोप्यतया वाऽरोपाधिष्ठानतया वा
साधारणं वा ।
तथा बाधविषयत्वमपि किन्निषेध्यतयोत निषेधाधिकरणतयाथ साधारणम् ।
उभयत्रापि द्वितीयतृतीययोर्देषमाहजाग्रद्वदिति ।
… जाग्रद्वज् … । (अनुव्याख्यानम्)३,२.८७द् ।
न्यायसुधा-
जाग्रता दृष्टं शुक्त्यादिकं यथा तथेत्यर्थः ।
यथा शुक्तिकादेरारोपबाधाधिष्ठानत्वे ऽपि न मिथ्यात्वं तथा स्वाप्नानामपीत्यनैकान्त्यमित्यर्थः ।
ननु जागरोपलब्धस्य शुक्त्यादेरप्यनेनैव हेतुना मिथ्यात्वमस्माकं सिषाधयिषितमेवेति कथं तत्रानैकान्तिकत्वमित्यत आहजाग्रदिति ।
… जाग्रदेव च । (अनुव्याख्यानम्)३,२.८७द् ।
आत्मवत् … । (अनुव्याख्यानम्)३,२.८८अ ।
न्यायसुधा-
एवं तर्हि जाग्रत्स्वप्नश्चात्मवन्नैव मिथ्येत्यर्थः ।
९,३२६
तद्विवृणोतिक्वचिदिति ।
… क्वचिदात्मा च स्यादेव भ्रमगोचरः ।
एतावता न मिथ्यासौ स्वप्ने जागरिते तथा । (अनुव्याख्यानम्)३,२.८८अद् ।
९,३२७
न्यायसुधा-
क्षणिको ऽहमित्यादि भ्रमगोचरः ।
उपलक्षणं चैतत् ।
न क्षणिको ऽहं स्थिर एवेति बाधगोचरश्चेत्यपि द्रष्टव्यम् ।
स्वप्ने जागरिते तथेति ।
तत्रोपलब्धाः पदार्था अपि न मिथ्येत्यर्थः ।
उभयपक्षीकारेणानुमा(ने ऽप्या)नस्यात्मनि व्यभिचारो ऽपरिहायर् इति ।
ननु क्षणिकत्वादिना प्रतिपन्न आत्मापि मिथ्येति कथं तत्र व्यभिचार इति चेत् ।
किं क्षणिकत्वादेरारोपितस्य मिथ्यात्वादेवमुच्यते उतात्मस्वरूपस्यैव ।
द्वितीये त्वपसिद्धान्तः स्फुट एव ।
आद्यमाशङ्कय दूषयतियदीति ।
यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद् भवेत् । (अनुव्याख्यानम्)३,२.८९अब् ।
न्यायसुधा-
एवं तर्ह्यारोपिताकारस्य मिथ्यात्वं साध्यमित्युक्तं स्यात् ।
तथाच सिद्धसाधनत्वं जाग्रत्स्वप्नावगतार्थेष्वारोपिताकाराणां मिथ्यात्वस्यास्माभिरप्यङ्गीकृतत्वात् ।
आरोप्यतया निषेध्यतया वा भ्रान्तिबाधविषयत्वं हेतुरित्याद्यपक्षे दोषमाहअबाधितेति ।
अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः । (अनुव्याख्यानम्)३,२.८९च्द् ।
न्यायसुधा-
जाग्रत्त्वादेः रजतत्वादेश्च बाधादुत्तरमप्यबाधितत्वेन गजादेः शुक्त्यादेश्चानुवृत्तेः स्वप्नादेरुक्तविधा भ्रान्तता बाध्यता च कुतः ।
तथाच स्वरूपासिद्धिः ।
यथा खलु बाधोत्तरकालमप्यनुवर्तमान आत्मा नारोप्यो नापि बाध्यः ।
तथा स्वप्नजागरावपि ।
तयोरप्यद्राक्षमेवाहं गजमित्याद्यनुवृत्तेरिति ।
अनुकूलप्रमाणाभावात्प्रतिकूलप्रमाणभावाच्च भ्रान्तिविषयत्वादिहेतुना जाग्रत्स्वप्नयोर्मिथ्यात्वानुमानमनुपपन्नमित्याहनचेति ।
नच काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च ।
अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् । (अनुव्याख्यानम्)३,२.९० ।
न्यायसुधा-
विश्वमित्युभयविधं विवक्षितम् ।
भ्रान्तत्वे मिथ्यात्वे ।
यद्वा भ्रान्तिविषयत्वादिहेतुद्वयस्यासिद्धिं प्रकारान्तरेण साधयितुमिदं वाक्यम् ।
भ्रान्तस्य इ(मि)ति बाध्यत्वस्याप्युपलक्षणम् ।
यतस्तस्मादित्युपस्कर्तव्यम् ।
तद्भ्रान्तता तस्य द्विविधस्यापि विश्वस्य भ्रान्तिविषयता ।
९,३२८
दृश्यत्वादिहेतुना स्वप्नजागरयोभ्रान्तत्वादिसाधनात्कथमसिद्धिरित्याशङ्कां परिहर्तुं भ्रान्तत्वं प्रकारान्तरेण दूषयतिकिञ्चेति ।
९,३२९
किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।
अङ्गीकरोति नियतं … । (अनुव्याख्यानम्)३,२.९१अच् ।
न्यायसुधा-
भ्रान्तत्ववादी दृश्यत्वादिना द्विविधस्यापि विश्वस्य भ्रान्तत्वादिकं (सा त्वं) साधयन् ।
स्वमतस्येति ।
स्वप्रतिज्ञाथर्म् ।
नियतमिति ।
अन्यथा तत्रानैकान्त्यापत्तेरिति भावः ।
न केवलं परेण स्वव्याप्तिसिद्धये स्वप्रतिज्ञातार्थस्य भ्रान्तत्वादिकमङ्गीकरणीयम् ।
किन्तु वयमपि तदङ्गीकुर्म इत्याहतत्रेति ।
… तत्र सम्प्रतिपन्नता ।
वादिनोस् … । (अनुव्याख्यानम्)३,२.९१द्ए ।
न्यायसुधा-
परप्रतिज्ञातार्थस्य भ्रान्तत्वादौ वादिनोः वादिप्रतिवादिनोः ।
एतच्च वक्ष्यमाणानुमानस्यान्यतरासिद्धिनिरासार्थमिति बोद्धव्यम् ।
ततः किमित्यत आहतेन चेति ।
… तेन चाभ्रान्तं विश्वमेव भविष्यति । (अनुव्याख्यानम्)३,२.९१एफ़् ।
न्यायसुधा-
न केवलमुक्तप्रमाणैः किन्तु विश्वभ्रान्तत्वादेर्भ्रान्तत्वादिहेतुना च विश्वमभ्रान्तमेव तथाबाध्यमेव भविष्यति ।
तत्र व्याप्तिं सूचयतिभ्रान्तत्वेति ।
भ्रान्तित्वभ्रान्तता चेत् स्यात् कथं नाभ्रान्तिसत्यता । (अनुव्याख्यानम्)३,२.९२अब् ।
न्यायसुधा-
तदेतौ प्रयोगौ भवतः ।
विश्वमभ्रान्तं भ्रान्तभ्रान्तत्वात् ।
तथा विश्वमबाध्यं बाध्यबाध्यत्वात् आत्मवदिति ।
अपव्याख्यानदूषणस्य प्रयारेजनमाहअशेषेति ।
अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः । (अनुव्याख्यानम्)३,२.९२च्द् ।
न्यायसुधा-
तन्मतमिति ।
स्वाप्नजागरप्रपञ्चस्य मिथ्यात्वं प्रतिपादयन्मतम् ।
९,३३०
स्यादेतत् ।
विश्वस्य भ्रान्तत्वादिकमिवाभ्रान्तत्वादिकमपि मिथ्या किन्न स्यात् ।
न चैतदघटितं दुर्घटत्वस्य भूषणत्वादित्याशङ्कां परिहरन्मन्दमेतदस्मदीयं तन्मतहेयताव्युत्पादानप्रसक्तेरभावादिति सोल्लुण्ठमाहयेनेति ।
येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।
भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम् । (अनुव्याख्यानम्)३,२.९३ ।
उन्मत्तो ऽपि कथं तस्य मतं स्वीकर्तुमिच्छति । (अनुव्याख्यानम्)३,२.९४अब् ।
९,३३१
न्यायसुधा-
भ्रान्तित्वात् भ्रान्तिविषयत्वेनाङ्गीकृतत्वात् ।
दुर्घटत्वस्य भूषणत्वात् भूषणत्वेनाङ्गीकृतत्वाच्च ।
केवलमुन्मत्तो ऽपि साक्षादुन्मत्तो ऽपि न पुनरुन्मत्तकबीजाद्यदनेनोन्मत्तः ।
न ह्युन्मत्तः स्वमतं भ्रान्तं दुर्घटं चेति स्वयमेव मन्यते ।
तर्हि कथं लोके प्रवृत्तमित्यत आहईशेति ।
ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम् । (अनुव्याख्यानम्)३,२.९४च्द् ।
न्यायसुधा-
महोन्मत्तैरिति हेत्वन्तरम् ।
सूत्रव्याख्यानमुपक्रम्यापव्याख्यानस्य हेयताव्युत्पादनमसङ्गतमित्यतः स्वव्याख्यानदार्ढ्यार्थमित्याशयवानुक्तं सूत्रार्थं विवृण्वन्मायाशब्दार्थं
तावदाहअत इति ।
अतः प्रज्ञात्र मायोक्ता जैव्यु … । (अनुव्याख्यानम्)३,२.९५अब् ।
न्यायसुधा-
अत इति ।
अन्यथा व्याख्यानस्य दुष्टत्वात्’माया वयुनमभिख्य’ इति प्रज्ञानामसु पाठादिति भावः ।
मायायाः सन्ध्यकारणत्वं वक्ष्यते ।
तत्र जैवी प्रज्ञा कीदृशं कारणमित्यत आहउपादानमेवेति ।
… उपादानमेव सा । (अनुव्याख्यानम्)३,२.९५ब् ।
न्यायसुधा-
सन्ध्यस्येति शेषः ।
न केवलं जैवीप्रज्ञात्र माया ।
किन्त्वैश्वरी च ।
सा च सन्ध्यस्य निमित्तमेवेत्याहनिमित्तमिति ।
निमित्तमैश्वरी मुख्यं … । (अनुव्याख्यानम्)३,२.९५च् ।
न्यायसुधा-
प्रज्ञाशब्दश्चात्र लाक्षणिको वासनार्थ इति वक्ष्यति(ते) ।
तच्च व्याख्यानं नोभयसाधारणमित्याशयेनोक्तं मुख्येति ।
ईश्वरप्रज्ञा मुख्यैव जीवप्रज्ञा तु लाक्षणिकी ।
९,३३३
मायामात्रपदं व्याख्यातिनिर्मितमिति ।
… निर्मितं त्रातमेव च । (अनुव्याख्यानम्)३,२.९५द् ।
ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते ।
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः । (अनुव्याख्यानम्)३,२.९६ ।
न्यायसुधा-
ताभ्यामेवेति सम्बन्धः ।
तेन तुशब्दो व्याख्यातो भवति ।
यथासङ्खयेनान्वयपरिहारार्थमुक्तम्सह पृथगेवेति ।
चशब्दस्तस्मादित्यर्थे ।
ईर्यते सन्ध्यमिति शेषः ।
सह पृथगित्युक्तं विवृणोतिउभाभ्यामिति ।
जीवेश्वरप्रज्ञाभ्यां मातं निर्मितमैश्वर्या प्रज्ञया त्रातं यस्मात्ततः सह पृथगित्युक्तम् । धातुसमुदायादातो ऽनुपसर्गे क इति कः ।
अदिभूम्यां हुतजिति यथा ।
यद्यप्येकस्मादेव धातोस्त्रप्रत्ययः शक्यः कर्तुम् ।
तथाप्यधिकार्थलाभायैवं कृतम् ।
सौत्रत्वान्निर्देशस्य कर्मणि प्रत्ययः ।
घञर्थे कविधानमिति वा ।
नन्विदं पूर्वापरविरुद्धम् ।
पूर्वं हि जीववासनोपादानकं सन्ध्यमित्युक्तम् ।
इदानीं तु प्रज्ञोपादनकमिति ।
मैवम् ।
प्रज्ञाशब्द(स्यापि वा)स्य वासनोपलक्षणत्वात् ।
९,३३८
अथ प्रज्ञाया वासनायाश्च कः सम्बन्धो येन लक्षणा स्यादित्यत आहप्रज्ञात्मकमिति ।
प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः । (अनुव्याख्यानम्)३,२.९७अब् ।
न्यायसुधा-
येन कारणेन मनः प्रज्ञात्मकं प्रज्ञोपादानं, वासनाश्च मनोरूपा मनौपादानकाः तेनैतयोरेककारणत्वलक्षणसम्बन्धेन लक्षणोपपद्यत इति शेषः ।
प्रज्ञावासनयोमर्न उपादानमित्येतत्कुत इत्यत आहधीरिति ।
धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा । (अनुव्याख्यानम्)३,२.९७च्द् ।
न्यायसुधा-
श्रुतावितिशब्द आद्यर्थः ।
तेन वासनाया अपि मनोविकारत्वं लभ्यते ।
इति त्विति सम्बन्धः ।
इति श्रुतिश्चशब्दादन्या चाह प्रज्ञादेर्मनोविकारत्वम् ।
अञ्जसा स्पष्टम् ।
एतेनात्मकार्यत्वं वदन्तो निरस्ता भवन्ति ।
बाह्यार्थज्ञानस्य तदानीमभावादसतश्चोपादानत्वानुपपत्तेः मुख्यार्थत्यागः ।
यदि च वासनामात्रमिति मुख्य एव प्रयोगः क्रियेत तदेश्वरप्रज्ञा न सङ्गृहीता स्यात्पृथगुभयग्रहणे च गौरवं स्यात् ।
अतो मुख्यामुख्यविवक्षयोभयस्य लाघवेन ग्रहणाय मायामात्रमित्युक्तम् ।
अत एव मायैव मायामात्रमिति न व्याख्यातम् ।
सन्ध्यस्य निमित्तकारणभूतयेश्वरप्रज्ञया तादात्म्याभावात् ।
९,३४०
ननु प्रज्ञावासनयोरस्ति कार्यकारणभावः सम्बन्धः ।
स एव लक्षणाबीजमस्तु ।
किं द्वयोर्मनःकार्यत्ववर्णनेनेत्यत आहचिदिति ।
चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।
तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा । (अनुव्याख्यानम्)३,२.९८ ।
न्यायसुधा-
न केवलं स्वप्नं किन्त्विमाः सांसारिकीः सर्वा अप्यवस्थास्तेन मनसैव सर्वदा जीवः पश्यति ।
अतः प्रधानत्वात्तद्द्वारक एव सम्बन्ध आदरणीयो नापरः ।
मनश्च केचन जडमेव मन्यन्ते ।
अपरे त्वचेतनमेवारोपितचैतन्यम् ।
तन्निरासेन स्वरूपं कथयतिचिदचिन्मिश्रमेवेति ।
यदित्यध्याहार्यम् ।
केवलमचेतनस्य घटादिवदेवम्भावासम्भवाच्चैतन्यारोपस्य निराकृतत्वाच्चिदचिन्मिश्रमेवाङ्गीकार्यम् ।
भवन्ति चात्रागमाः ।
यदि मनसा सर्वावस्थाप्राप्तिस्तदा मोक्षे ऽपि तस्य भावा(दव)देवावस्थास्स्युरित्यत उक्तं यावत्संसृतिस्तावदेव जीवस्योपकारापकारौ करोतीति ।
कात्स्नर्येनानभिव्यक्तस्वरूपत्वादिति व्याख्यातिमनोविकारा इति ।
९,३४१
मनोविकारा विषयाः स्वाप्ना यद् बह्यवन्न ते ।
स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् । (अनुव्याख्यानम्)३,२.९९ ।
न्यायसुधा-
यद्यस्मात्स्वाप्ना विषया मनोजन्यवासनाविकारा अत एव हि ते बाह्यवत् स्थूलाः न भवन्ति संवृते देशे ऽवकाशानर्हा न भवन्ति ।
तेषां तथा बाह्यवत्क्वचित्स्पष्टता बाह्यार्थक्रियाकारिता नास्ति ।
यद्वा यस्मात्ते बाह्यवत्स्थूला न भवन्ति तथा तेषां क्वचित्स्पष्टता नास्त्यतः स्वापना विषया मनोविकारा इति योजना ।
यथा चैतत्तथोक्तं पुरस्तात् ।
९,३४३
ननु (च) स्वाप्नकामिनीसम्भोगादेश्चरमधातुविसर्गादिबाह्याथर्क्रियाकारितादर्शनाद्भागासिद्धिरित्यत आहक्वचिदिति ।
क्वचित् स्पष्टा अपि स्युष्ये … । (अनुव्याख्यानम्)३,२.१००अ ।
न्यायसुधा-
ते स्वाप्ना विषयाः क्वचित्स्पष्टा अपि स्युरेव ।
तथापि तदतिरिक्तपक्षीकरणेनादोष इति भावः ।
एवं तर्हि तस्यांशस्य वासनामयत्वं न स्यादित्यत आहवासनेति ।
… वासना मानसी च सा । (अनुव्याख्यानम्)३,२.१००ब् ।
९,३४३फ़्.
न्यायसुधा-
सा च मानसी वासना सिद्धा ।
अस्पष्टताभावे ऽप्यस्थूलत्वस्य सत्त्वादिति भावः ।
अत एव सौत्रो हेतुर्द्वेधा व्याख्यातः ।
तदनेन देशकालनिमित्तसम्पत्तिः स्वप्ने नास्तीति यदुक्तं तद्वासनामयोक्त्या निरस्तम् ।
अत एव सृष्टिश्रुतेर्भाक्तत्ववर्णनमपास्तम् ।
प्राज्ञस्य निर्मातृत्वं च न वृथा त्वाज्यम् ।
स्वयं विहत्येत्याद्यापीश्वरविषयमन्यत्र व्याख्यातम् ।
स्वप्ननिर्माणे शुभाशुभयोगापत्तिरिति चासङ्गतम् ।
व्याप्त्यभावात् ।
जीवस्य ब्रह्मभावोपदेश इति च सार्वज्ञादेः पारमार्थिकत्वसमर्थनादयुक्तम् ।
वियदादिप्रपञ्चस्य मिथ्यात्वकथनं च तत्सत्यत्वोपपादनान्निरस्तम् ।
। इति श्रीमन्न्यायसुधायां सन्ध्याधिकरणम् ।
[जोस्हि१७]
__