+2

श्रीन्यायसुधा - अनुव्याख्यानटीका श्रीजयतीर्थमुनिविरचिता
अध्याय २, पद १
। अथ श्रीमन्न्यायसुधायां स्मृत्यधिकरणम् ।
५,१
यत्पदं वेदसंवेद्यं कटाक्षेणापि वीक्षितुम् ।
न क्षमन्ते विमतयस्तमुपासे श्रियः पतिम् । १ ।
एकवाक्यता(दि)सिद्धये प्रथमाध्यायार्थसङ्गतत्वेन द्वितीयाध्यायार्थं विवक्षुरबुद्धिस्थेन सङ्गतेर्दर्शयितुमशक्यत्वात् प्रथमाध्यायार्थं
तावदनुवदतिउक्त इति ।
उक्तः समन्वयः साक्षाद् … । मनुव्_२,१.१अ ।
न्यायसुधा-
(सकल)जगज्जन्मादिनिमित्तकारणे सार्वज्ज्ञसर्वैश्वर्याद्यनन्तगुणपरिपूर्णे ऽविद्याद्यवद्यगन्धविधुरे परे ब्रह्मणि नारायणे
स्वरवर्णपदवाक्यमहावाक्यरूपस्य समस्तस्य शास्त्रस्य, साक्षात्परममुख्यया वृत्त्या नतु लक्षणया, तथा महातात्पर्येण नतु पारार्थ्येन समन्वयः
प्रथमे ऽध्याये समर्थित इत्यर्थः ।
यद्यपि समन्वयशब्देनैव साक्षादित्यर्थो लभ्यते ।
तथापि परकीयसंशब्दव्याख्याननिरसने ऽवहितैर्भवितव्यमिति सूचनाय तद्वयाख्यानमिदं कृतमित्यदोषः ।
अथवा समन्वयशब्देन मुख्यया वृत्त्यान्वयः प्रतीयते ।
परममुख्यया तु वृत्त्या अन्वयं दर्शयितुं साक्षादित्युक्तम् ।
यद्वा न प्रधानपरमाण्वादिनिरासनेन उपादानत्वादिप्रतिपादनेन च परम्परया किन्तु साक्षादेवेत्यनेनाचष्टे ।
५,८
एवं प्रथमाध्यायार्थमभिधाय तत्सङ्गतत्वेन द्वितीयाध्यायार्थमाहअविरोध इति ।
… अविरोधो ऽत्र साध्यते । मनुव्_२,१.१ब् ।
न्यायसुधा-
अत्रोक्ते ऽर्थे ऽविरोधो विरोधाभावो ऽत्र व्याचिख्यासिततया बुद्धिसन्निहिते द्वितीये(ऽध्याये) साध्यते ।
अनेनास्याध्यास्यातीताध्यायेन कार्यकारणभावलक्षण(णा)सङ्गतिः सूचिता भवति ।
सकलशास्त्रस्य समन्वयेन जगज्जन्मादिकारणत्वे समस्तगुरपूर्णत्वे ऽशेषदोषविधुरत्वे च परस्य ब्रह्मणो ऽभिहित एव(हि) तत्र विरोधः स्फुरति ।
नान्यथा निराश्रयत्वात् ।
विरोधस्फूर्तावेव तदभावसाधनस्यावसरो नेतरथा ।
अप्राप्तप्रतिषेधायोगात् ।
अतो ऽतीताध्यायार्थस्य कारणत्वमेतदध्यायार्थस्य कार्यत्वं निश्चीयते ।
अथवा श्रुतिसमन्वयेनोपपादितो ऽप्यर्थो न तावच्छ्रोतॄणां दृढनिरूढो भवति, यावदत्र प्रतीते विरोधाभावो न साध्यते ।
विरोधेन श्रुतीनामेवाप्रामाण्यशङ्कनात् ।
तथा चानुपपादितकल्प एवापद्यते ।
विरोधाभावसाधने तु भवत्येव दृढनिरूढः ।
यथोक्तम् ।
‘विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः’ इति ।
अतो विपरीतकार्यकारणभावलक्षणा अनयोस्सङ्गतिः ।
ननूक्तार्थे विरोधस्तत्र तत्रैव परिहृतः ।
किमत्र परि(तत्किमपरमव)शिष्यते यदर्थमध्यायान्तरारम्भः ।
सत्यम् ।
प्रतिवक्ष्यत्यत्राचार्यः ।
५,१६
नन्वेवमध्यायस्याविरोधलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः ।
तत्राप्यस्य पादस्य प्राथम्यं किन्निबन्धनमित्यपेक्षायामाहचतुर्विधस्येति ।
चतुर्विधस्य तस्यादौ यौक्तस् … । मनुव्_२,१.१च् ।
न्यायसुधा-
तस्याविरोधस्य ।
निर्धारणे षष्ठी ।
आदौ प्रथमपादे ।
अविरोधः साध्यत इत्यनुवर्तते ।
चतुर्विधस्य तस्येत्यनुवादात्स चतुर्विध इति लभ्यते ।
५,१७
तदयमर्थः ।
यद्यप्युक्ते ऽर्थे विरोधाभाव इत्येको ऽर्थः ।
तथापि युक्तिसमयश्रुतिन्यायोपेतश्रुतिविरोधाभावरूपावान्तरभेदेन स चतुर्विधो भवति ।
तत्प्रतिपादनेन चतुर्णां पादानां भेदो युज्यते ।
तस्य चतुर्विधस्यापि विरोधाभावस्य मध्ये युक्तिविरोधाभावः प्रथमपादे साध्यते ।
सर्वेषामपि विरोधानां युक्त्युपजीवितवेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः ।
युक्तिपुरस्कारेण युक्त्युपजीवित्वेन तद्विरोधस्य प्रबलतया तदभावसाधनस्य प्राथम्योपपत्तेः ।
युक्तिपुरस्कारेण प्रवर्तना(मानत्वा)च्च विचारशास्त्रस्येति ।
ननु कथमभावस्य चातुर्विध्यम् ।
उच्यते ।
चतुर्विधा हि विरोधिनो(न्यो)युक्त्यादयः ।
तदुपधानाद्विरोधो ऽपि चतुर्विधो ऽभिधीयते ।
ततस्तत्प्रतियोगिको ऽभावो ऽपि तथोच्यते ।
अत एव यौक्त इत्युपपन्नम् ।
अभावस्यापि परम्परया युक्तिसम्बन्धित्वात् ।
अथवाविरोधपदसन्निधापितो विरोधस्तस्येति परामृशते ।
तथाच विरोधस्य युक्त्याद्युपधानेन चतुर्विधत्वात्तदभावसाधनेन पादभेदो युज्यते ।
चतुर्विधस्य तस्य विरोधस्य मध्ये यौक्तो विरोध आदावुक्तप्रकारेण प्रबलो यतस्तस्मात्तदभावो ऽत्रादौ साध्यत इति योजनीयम् ।
यद्वा तस्येति विरोधिपरामर्शो ऽयम् ।
तस्याप्यविरोधपदेन बुद्धिसन्निहितत्वात् ।
अविरोधो हि विरोध(निरूपण)धीननिरूपणः ।
विरोधश्च विरोधिना विना नोपपद्यते ।
ततश्च विरोधिनो युक्त्यादिभेदेन चतुर्विधत्वा(त्त)द्विरोधाभावसाधनेन पादभेदोपपत्तिः ।
चतुर्विधस्यापि तस्य विरोधिनो मध्ये युक्तेः प्रबलत्वादादौ यौक्तो युक्तिसम्बन्धी विरोधाभावः साध्यत इति योज्यम् ।
५,२०
प्रथमाधिकरणे विशेषमाहतत्रापीति ।
… तत्रापि च स्मृतेः । मनुव्_२,१.१द् ।
५,२०फ़्.
न्यायसुधा-
अपिपदमादावित्यस्यानुकषर्णार्थम् ।
तत्र युक्तिविरोधाभावप्रतिपादके ऽपि पाद इत्यनौचित्यशङ्कासूचनार्थं वा ।
चशब्देनाविरोधः साध्यत इत्येतदनुकृष्टते ।
स्मृतेः पाशुपतादिकायाः ।
यद्यपि स्मृतेरित्यस्य न नञर्थेन सम्बन्धो घटते विरोधश्च समासे गुणभूतः ।
तथापि बुद्धया विविक्तेन तेन सम्बन्धः सम्भवति ।
५,२२
युक्तिविरोधपरिहारलक्षणे ऽत्र पादे स्मृतिविरोधपरिहारो न कर्तव्यो ऽसङ्गतत्वात् ।
कर्तव्यतायां वा प्राथम्यं कुत इत्यत आहतस्या इति ।
तस्याश्चतुःस्वरूपत्वात् … । मनुव्_२,१.२अ ।
न्यायसुधा-
तस्याः पाशुपतादिस्मृतेर्युक्तिसमयादिविरोधिचतुस्स्वरूपत्वात् ।
एतदुक्तं भवति ।
पाशुपतादिस्मृतयो हि स्वयमाप्ताभिमतवाक्यतया समयरूपा अपि स्वाभिमतार्थे युक्तीः श्रुतीश्च संवादयन्त्यो
युक्तिसमयादिविरोधिचतुष्ययरूपाः ।
ततश्चोक्ते ऽर्थे तद्विरोधपरिहारो ऽध्याये ऽन्तर्भवत्येव ।
किन्तु पादचतुष्ययार्थसङ्गतो ऽ(प्य)यं न निष्कृष्टैकत्रैव पादे ऽन्तर्भवति ।
ततो ऽध्यायादौ तदन्ते वा वक्तव्यः ।
प्रथमातिक्रमे च कारणं न किञ्चिदस्तीत्याद्याधिकरणे निरूप्यत इति ।
एवञ्च तत्रापि च स्मृतेरित्ययमुक्तस्यापवादो भवन्नपि न सर्वथेत्युक्तं भवति ।
समयादिविरोधस्यापि परिहारेण निष्कृष्टपादार्थाभावाद्युक्तिविरोधपरिहारस्यापि भावेनान्तर्भावसम्भवाच्च ।
५,२३
एकस्यैवाधिकरणस्य पादचतुष्ययार्थसम्बन्धेन चतुस्स्वरूपत्वकथन(नेन)प्रसङ्गच्छिष्याणां शास्त्रे बहुमानोत्पादनायान्यदपि चातुर्विध्यं
वक्तिप्रत्येकमिति ।
… प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च … । मनुव्_२,१.२ब्च् ।
न्यायसुधा-
चत्वारो ऽपि पादाः प्रत्येकं चतुरात्मकाः पादचतुष्ययार्थवन्तो द्रष्टव्याः ।
तद्यथा ।
युक्तिविरोधपरिहारलक्षणो ऽप्ययं पादः समयादित्रयविरोधपरिहारात्मको ऽपि भवति ।
तथा समयविरोधपरिहारलक्षणो ऽपि द्वितीयो युक्त्यादित्रयविरोधपरिहारात्मको ऽपि भवतीत्यादि ।
पादा इत्येवोक्ते सन्निहितत्वादेतदध्यायगता एवेति ज्ञायते ।
तदर्थं सर्वे इत्युक्तम् ।
सर्वाध्यायसम्बन्धिनो ऽपीत्यर्थः ।
यो यदध्यायगतः पादः स तदध्याय(गत)पादचतुष्ययार्थवानवधे(से)यः ।
न केवलमेवं पादाः, किन्तु तदंशाश्च ते पादा अंशा येषां ते तदंशा अध्याया इत्यर्थः ।
प्रथमाध्यायः समन्वयस्येवाविरोधादित्रयस्यापि प्रतिपादको भवतीत्यादि ।
पादानां चतुरात्मकत्वे ऽधिकरणानां तथात्वं सिद्धमेव ।
न चैवमध्यायादिभेदानुपपत्तिः पौनरुक्त्यदोषश्चेति वाच्यम् ।
विवक्षाभेदेन सामञ्जस्यात् ।
यदा प्रथमः समन्वयस्यार्थो विवक्ष्यते न तदा तदर्थतेतरेषामित्यादि ।
५,२४
अन्यदादि चातुर्विध्यं शास्त्रस्य दर्शयतिमूर्तीनामिति ।
व्यास(८)
… मूर्तीनां वर्णमाऽगमात् । मनुव्_२,१.२द् ।
न्यायसुधा-
चतसृणां वासुदेवादिमूर्तीनां प्रतिपादकत्वेनापि चतुरात्मकत्वं ज्ञातव्यमिति योजना ।
नन्वेतदुक्तमेव, पुनः कस्मादुच्यत इत्यत आहवर्णमिति ।
अत्रागमादित्याङ्गद्वयस्योपश्लेषो द्रष्टव्यः ।
तत्राद्यस्यारभ्येत्यर्थः ।
द्वितीयो ऽभिविधौ ।
आगम इति चतुरध्यायिशास्त्रमुच्यते ।
ततश्चायमर्थः ।
न केवलं प्रत्यक्षरं प्रतिपदं प्रतिसूत्रं प्रत्यधिकरणं किन्त्वेतच्छास्त्रगतमेकं वर्णमारभ्य आ सर्वशास्त्रात्, प्रत्यधिकरणं प्रतिपादं प्रत्याध्यायं
समस्तेन शास्त्रेण च चतस्रो मूर्तयः प्रतिपाद्यन्त इत्यर्थः ।
कुत एतदवगन्तव्यमित्यत आहआगमादिति ।
बृहत्तन्त्रादेरित्यर्थः ।
५,२६फ़्.
एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्क्षेपेणाहआप्ततेत्यादिना ।
आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले । मनुव्_२,१.३ ।
इष्यसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबला सिद्धान्तस्य नियामकाः । मनुव्_२,१.४ ।
न्यायसुधा-
उक्तार्थं स्मृतिविरोधेनाक्षिप्य समादधत्सूत्रम् ओं स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ओं ।
इति ।
अस्यार्थः ।
यदुक्तं परस्य ब्रह्मणो विष्णोः सकलजगज्जन्मादिकारणत्वं सार्वज्ञ्यादिसकलगुणपूर्णत्वं समस्तदोषदूरत्वं च तदयुक्तम् ।
पाशुपतसाङ्खयबौद्धार्हतादिस्मृतिविरुद्धत्वात् ।
ता हि शिवप्रभृतीनामेव जगज्जन्मादिकारणत्वादिकं प्रतिपादयन्ति ।
नच तासामन्यो ऽवकाशो ऽस्ति येन प्रतीते ऽप्यर्थे तात्पर्याभावं प्रतीमः ।
अन्यथा तासां स्मृतीनामनवकाशेनाप्रामाण्यलक्षणदोषप्रसङ्ग इति ।
तन्न ।
पुरुषोत्तमस्यैव पञ्चरात्रादिस्मृतिभिरखिलजगत्कारणत्वादेरुक्तत्वात् ।
अपर(न्य)था तासां पाशुपतादि(स्मृति)भ्यो ऽन्यासां पञ्चरात्रादिस्मृतीनामवकाशान्तराभावेनाप्रामाण्यदोषप्रसङ्गादिति ।
तत्राक्षेपस्तावदयमयुक्तः ।
श्रुतिसमन्वयेनास्यार्थस्य साधितत्वात् ।
श्रुतिविरुद्धानां(च) स्मृतीनामप्रामाण्यस्येष्टत्वात् ।
श्रुतिसमन्वयन्यायेन पाशुपतादिस्मृतीनामपि परब्रह्मणि समन्वयेन शिवार्चनादिपरत्वेन वा सावकाशत्वाच्च ।
समाधानमपीदमयुक्तम् ।
सकलशास्त्रप्रमाणकत्वमुक्तार्थस्याभिधायेदानीं स्मृतिमात्रोपादाने कारणाभावात् ।
पराभिधित्सितं दोषमवबुद्धय श्रुतिपरित्यागस्त्वयुक्तः ।
किन्तु स परिहर्तव्यः ।
अन्यथा प्रागपि श्रुतिरनादेया स्यात् ।
किञ्च पञ्चरात्रादिस्मृतीनामप्रामाण्यं परस्येष्यमेव ।
वासुदेवार्चनादिपरतया सावकाशतापि तेन सम्भाव्येत ।
साम्यापादनमात्रे ऽपि परस्यैव जयो निश्चयप्रतिबन्धकत्वादित्यतो निर्दलं पूर्वपक्ष तावदुज्जीवयतिआप्तैरिति ।
५,२७
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन् नान्यस्मृत्यनवकाशदोषप्रसङ्गात् । ब्ब्स्_२,१.१ ।
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः ।
पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते । मनुव्_२,१.५ ।
न्यायसुधा-
अयमिहाभिसन्धिः पूर्वपक्षिणः ।
श्रुतिविरोधेन स्मृतीनामप्रामाण्यमभिलषता प्रबलदुर्बलत्वे सर्वथा समर्थनीये ।
अन्यथातिप्रसङ्गात् ।
न तावत्प्रामाण्यकारणभावाभावाभ्यां प्राबल्यदौर्बल्ये ।
प्रामाण्यस्य स्वतस्त्वेनाङ्गीकृतत्वात् ।
वैपरीत्याच्च ।
वाक्यप्रामाण्ये हि कारणं वक्तुराप्तत्वम् ।
वक्तारश्च स्मृतीनामाप्ताः ।
न श्रुतेः ।
अपौरुषेयत्वेनाङ्गीकृतत्वात् ।
अत एव समूलत्वनिर्मूलत्वाभ्याम् ।
स्मृतीनामाप्तिमूलत्वात् ।
श्रुतेस्तदभावात् ।
नापि कृत्तिमत्वाकृत्रिमत्वाभ्याम् ।
स्वरूपतो ऽप्रयोजकत्वात् ।
उक्तरीत्या वैपरीत्याच्च ।
तदिदमुक्तमाप्तै रुद्रकपिलकमलासनादिभिः उक्तमर्थं शिवादीनां जगत्कारणत्वादिकं, पिपीलिकालिपिनिभा बुद्धिपूर्वप्रणयहीना, श्रुतिः,
कथं वारयेत् न कथमपीति ।
५,३०फ़्.
नन्वौदुम्बरीं स्पृष्ट्वोद्गायेदित्यादिश्रुतिविरुद्धानामौदुम्बरी सर्वा वेष्ययितव्येत्यादिस्मृतीनामप्रामाण्यमुपलब्धं तथात्र स्यात् ।
न स्यात् ।
वैषम्यात् ।
श्रुतिमूलतयाभिमता हि ताः स्मृतयो ऽतस्तासां मूलश्रुत्यनुमापकत्वेन प्रामाण्यमिष्यम् ।
नच श्रुतिविरुद्धायाः स्मृतेर्मूलश्रुत्यनुमापकत्वं सम्भवतीत्यप्रामाण्यमेव युक्तम् ।
यथाऽह जैमिनिः’विरोधे त्वनपेक्षं स्यादसति ह्यनुमानम्’ इति ।
नचैवं प्रकृते ।
पाशुपतादिस्मृतीनां शिवादिप्रत्यक्षमूलत्वेन श्रुतिमूलत्वाभावात् ।
तदिदमाहप्रत्यक्षतो दृष्ट्वेति ।
ननु तर्हि स्मृतीनामुक्तरीत्या सावकाशत्वान्निरवकाशश्रुतिविरोधेनाप्रामाण्यमस्तु ।
मैवम् ।
वैपरीत्यात् ।
स्मृतयो हि विस्पष्टवादिन्यो न विवक्षितार्थात्प्रच्यावनमर्हन्ति ।
श्रुतयस्त्वस्फुट(स्पष्ट)विक्षिप्तवादिन्यो ऽव्यवस्थितालौकिकशाब्दलक्षणविषया अशक्याध्ययनानन्तापरिपूर्णवाक्यरूपा नार्थविशेषनिष्ठा
लक्ष्यन्ते ।
अत एव भवतां मीमांसायासः ।
एतदप्युक्तं प्रकर्षेणोक्तमिति ।
विस्पष्टमुक्तमित्यर्थः ।
पिपीलिकालिपिनिभेति च ।
अस्फुटे(स्पष्टे)त्यर्थः ।
५,३३
किञ्च श्रुतयस्तावदविस्पष्टार्थाः ।
प्रणेतृव्याख्यानसम्प्रदायविकला न स्वतन्त्राः कमप्यर्थं प्रतिपादयितुमीशते ।
किन्तु सहजसिद्धेन योगर्धिलब्धेन वा प्रत्यक्षेणाशेषार्थदर्शिनामाप्तानां वचनमनुसृत्य नेतव्याः ।
यथोक्तम् ।
इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति ।
इतिहासपुराणग्रहणमुपलक्षणम् ।
तथाच कथं पाशुपतादिस्मृत्युक्तार्थनिवारणाय समर्थास्स्युः ।
तदिदमुक्तं पिपीलिकालिपिनिभा संवादेन विना कमप्यर्थं प्रतिपादयितुमसमर्था श्रुतिर्यद्वचनसंवादापेक्षिणी तैरेवाप्तैः प्रत्यक्षतो दृष्ट्वा
प्रोक्तमर्थं कथं वारयेत् ।
स्वतन्त्र(स्वातन्त्र्य)दशायामप्रतिपादकत्वात् ।
पारतन्त्र्ये तु विरोधाभावादेव ।
किन्तु तदनुसारेणैव नेतव्येति ।
५,३४
भवेदेतद्यदि पाशुपतादिस्मृतिप्रणेतॄणामाप्तत्वं स्यात् ।
तदेव कुत इत्यत आहसर्वगा हीति ।
सर्वं गच्छन्त्यवगच्छन्तीति सर्वगाः ।
आप्तत्वोपलक्षणमेतत् ।
ते रुद्रादयः ।
हीति तत्र प्रमाणप्रसिद्धिं द्योतयति ।
अथवा सर्वज्ञत्वमेवात्र प्रमाणप्रसिद्धया साध्यते ।
५,३५
तत एवान्यस्य सिद्धेः ।
तथाहि ।
हरिहरहिरण्यगर्भास्तावत्सर्वज्ञतया श्रुतीतिहासपुराणेषु प्रसिद्धाः ।
तत्र हरेरेवावतारा बुद्धर्षभकपिलाः सौगतादिस्मृतिप्रणेतारः ।
तथाच तेषां मोहाभावेन रागद्वेषयोरप्यभावात् विप्रलिप्सा च निवर्तते ।
किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते ।
किञ्च ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण तेषां निश्चीयन्ते ।
ज्ञानं तु यथार्थमयथार्थं वा स्यात् ।
इच्छापि प्रतिपिपादयिषा वा विप्रलिप्सा वेति सन्देहो ऽवशिष्यते ।
तत्राभ्यासदशापन्नो ऽयमर्थो ऽस्येति सामान्यतो निश्चये भवत्येव तस्य ज्ञानस्य यथार्थत्वनिश्चयः यथाभ्यासदशापन्नमिदमरण्यममीषां
म्लेञ्छानामतो ऽस्मिन्नेते मार्गाभिज्ञा इति पान्थानामेव निश्चयः ।
विप्रलिप्सा च हेतुदर्शनेन व्याप्ता हेतौ सति स्यात् ।
स च द्विरूपः ।
स्वोपकारः परापकारो वा ।
न तावत्पान्थेषु विमार्गेण प्रतिष्ठमानेषु म्लेञ्छानां कश्चित्स्वोपकारः ।
स्वस्य गृहीतत्वात् ।
शरीरस्य च करणीयान्तरभावात् ।
भावे वा परित्यागायोगात् ।
नापि द्वितीयः ।
न ह्यनुन्मत्ता अनपकारिणमपकुर्वते ।
नापि परापकारमात्रं पुरुषार्थः ।
तथा सति सर्वः सर्वमपकुर्यादिति ।
एवं विप्रलिप्सापि निवार्यते ।
अनभ्यासदशापन्ने तु विषये प्रमाणान्तरसंवादात्प्रवृत्तिसामर्थ्याद्वा मोहविप्रलिप्सयोर्निवृत्तिरित्यतो म्लेञ्छा अप्याप्ता भवन्ति ।
किमुत महानुभावा रुद्रादय इति ।
५,३८
एवं पूर्वपक्षसूत्राभिप्रायमभिधाय सिद्धान्तसूत्रतात्पर्यमाहइति चेदिति ।
इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो … । मनुव्_२,१.६अच् ।
न्यायसुधा-
तन्नेति शेषः ।
कुतः ।
निश्चिते हि पाशुपतादिस्मृतिप्रामाण्ये तद्विरुद्धं विष्णोस्सर्वजगत्कारणत्वादिकमसत्स्यात् ।
न चैवम् ।
सत्प्रतिपक्षत्वात् ।
आस्तां तावच्छतिः ।
पञ्चरात्रादिस्मृतयो हि विष्णोरेव सकलजगत्कारणत्वादिकमभिदधाना दृश्यन्ते ।
५,३८फ़्.
ननु विरुद्धयोः प्रमाणयोः साम्ये सति सत्प्रतिपक्षता स्यात् ।
न चैवं प्रकृते ।
पाशुपतादिस्मृतीनामाप्तप्रणीतत्वात् विस्पष्टवादित्वेन निरवकाशत्वाच्च ।
पञ्चरात्रादिस्मृतीनां तदभावादित्यत आहयदीति ।
अशेषज्ञा अशेषविद इत्याप्तत्वोपलक्षणम् ।
हरिपूर्वका हरिमनुप्रभृतयः पञ्चरात्रादीनामपि तदुपेयम् ।
नच विशेषहेतुरस्तीति भावः ।
उपलक्षणं चैतत् ।
विस्पष्टवादित्वेन निर(रान)वकाशत्वं च द्रष्टव्यम् ।
५,४०
किमतो यद्येवमित्यत आहमानमिति ।
… मानं ह्य् उभयत्र समं भवेत् । मनुव्_२,१.६च्द् ।
न्यायसुधा-
हिशब्दो हेतौ ।
यस्मादेवं तस्मादुभयत्र पूर्वपक्षसिद्धान्तयोर्मानं स्मृतिद्वयं समं भवेत् ।
तथा च पाशुपतादिस्मृतीनां सत्प्रतिपक्षत्वं स्थितमिति शेषः ।
ननु ये विरुद्धे प्रमाणे न तयोः साम्यम् ।
शुक्तिरजतज्ञानयोस्तदभावदर्शनात् ।
ये च समे न तयोर्विरोधः ।
पटशुक्लो दीर्घश्चेत्यत्र तदभावात् ।
तत्कथं पाशुपतादिस्मृतेः सत्प्रतिपक्षत्वसम्भवः ।
सम्भवे ऽपि जितं परेण ।
सिद्धान्तनिर्णयस्यायोगादित्यत आहमानमिति ।
उभयत्र द्वयोस्स्मरणयोर्मध्ये यत्समं सह मया मूलप्रमाणेन वर्तते, तदेव मानमन्यदप्रमाणम् ।
एतदुक्तं भवति ।
विशेषानिर्धारणायामेव सत्प्रतिपक्षत्वम् ।
वस्तुतस्तु समूलं मानमन्यदमानमिति ।
ननु समूलत्वेन प्रामाण्यावधारणे प्रामाण्यस्य परतस्त्वापत्तिः ।
मैवम् ।
परस्परविरोधेनाप्रामाण्यशङ्काप्राप्तौ समूलत्वेन तदपनयनात् ।
तथोभयत्र स्मरणे यत्पञ्चरात्रादिस्मरणं समं समूलप्रमाणं संवादिपमाणान्तरोपेतं च, तदेव मानं भवेन्न तु पाशुपतादिकम्, मूलाद्यभावात् ।
अतो नोक्तदोष इति योज्यम् ।
वक्ष्येते हि श्रुतिमूलत्वतत्संवादित्वे च पञ्चरात्रादीनाम् ।
५,४२
ननु कथं पाशुपतादिस्मृतीनां निर्मूलत्वात् ।
यावता पशुपतिप्रभृतीनामाप्तिस्तत्र मूलमुदितेत्यत आहन चेति ।
नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः । मनुव्_२,१.७अब् ।
न्यायसुधा-
तत्र शिवादिषु निश्चयोपायाभावादिति शेषः ।
ननूक्तमत्र’सर्वगा हि ते’ इति ।
मैवम् ।
‘नित्यं वृद्धिक्षयोपेतम्’ इत्यादिना परमपुरुषादितरेषां सार्वज्ञ्याभावस्योक्तत्वात् ।
श्रुत्यादीनां चोपचरितत्वात् ।
नन्वस्ति तावद्विष्णोरनुपचरितसार्वज्ञ्यम् ।
शिवादीनामप्युपायोपेयविषयम् ।
किं गङ्गावालुकाकीटसङ्खयापरिज्ञानेन ।
सत्यम् ।
न तावत्तत्त्वज्ञानमेवाप्तिः ।
विप्रलम्भके ऽतिव्याप्तिरित्याहव्यभिचरत इति ।
५,४३फ़्.
अथोच्येत सर्वज्ञानां मोहाभावात्तन्मूलयो रागद्वेषयोरभावे विप्रलिप्सापि निवर्तत इत्याप्तिनिश्चय इति ।
किं तत्र सर्वे ऽपि तीर्थकरा आप्ता इत्यङ्गीकृत्यैवमनुमीयते ।
उत स्वस्वाभिमतमेकमेव ।
आद्यं दूषयतिव्यभिचारत इति ।
पञ्चरात्रादिस्मृतिप्रणेतरि नारायणे अस्याङ्गीकारस्य भग्नत्वादित्यर्थः ।
अभङ्गे वा सिद्धं
नः समीहितम् ।
यद्वा व्यभिचारो ऽन्योन्यविरोधः ।
नहि परस्परविरुद्धवादिनः सर्वे ऽप्याप्ता इत्यङ्गीकर्तुमुचितम् ।
वस्तुविकल्पप्रसङ्गात् ।
द्वितीयं पराचष्टेव्यभिचारत इति ।
यस्य तीर्थकरस्याप्तत्वं नाङ्गीक्रियते ।
तत्रैव सार्वज्ञ्यस्य व्यभिचारादित्यर्थः ।
नच तत्र सावर्ज्ञ्यं नाङ्गीक्रियत इति युक्तम् ।
समानन्यायत्वात् ।
अथ हेतुं विशिंष्यात्तदा सन्दिग्धासिद्धयादिकम् ।
५,४५फ़्.
यदप्युक्तं ज्ञानेच्छाप्रयत्नस्थानकरणपाटवानि तावदुपदेशमात्रेण निश्चीयन्त इति ।
तन्न ।
अपटुकरणानामप्युपदेशदर्शनेन व्यभिचारादित्याहव्यभिचरत इति ।
उपदेशविशेषणे चोक्तो दोषः ।
निश्चीयतां ज्ञानम्, तस्य याथार्थ्यं तु कुतः ।
अभ्यासदशापन्नो ऽयम् अर्थो ऽस्येति सामान्यनिश्चये सति तत्सिद्धिरिति नेत्याहव्यभिचारत इति ।
व्यभिचारः विप्रकर्षः तेषामेव सन्निधानं दुर्लभमस्मदादीनां, दूरे तदीयाभ्यासावधारणमिति भावः ।
विनेयवचनपरम्परया तदवधारणमिति चेत्(न) ।
तीर्थकरान्तरे व्यभिचारादित्याहव्यभिचारत इति ।
तासु तासु स्मृतिष्वभिनिविष्याः सर्वे ऽपि हि तं तमाचार्यं तत्र तत्रार्थे ऽभ्यासवन्तमेवाचक्षते ।
नच तदीयं ज्ञानं यथार्थमेवाङ्गीकर्तुं शक्यं, त्वत्सिद्धान्तविरोधित्वात् ।
अन्यथा त्वदीयसिद्धान्तस्यावास्तवत्वापातादित्याहव्यभिचारत इति ।
व्यभिचारः विरोधः ।
इच्छापि विप्रलिप्सा कुतो नेति वाच्यम् ।
स्वोपकारपरापकाररूपहेतुदर्शनाभावादिति चेत् तत्किं स्मृतिप्रणेतारस्सर्वे ऽपि न विप्रलम्भकाः ।
अद्धेति चेत् ।
अस्य नियमस्य बुद्धादिषु भग्नत्वादित्याहव्यभिचरत इति ।
नियमे च स्वव्याघातः ।
यस्य कस्यापि विप्रलम्भकत्वे, हेतुदर्शनाभावस्य तत्रैव व्यभिचारः ।
नहि तत्तत्पुरुषविशेषानुसंहितास्ते ते प्रयोजनविशेषाः पिशितनयनैरस्मदादिभिरवधारयितुं शक्यन्त इत्याशयेनाहव्यभिचारत इति ।
केनापि प्रमाणेन हेतूपलम्भाभावो ऽविप्रलम्भहेतुरिति चेन्न ।
सन्दिग्धत्वात् ।
प्रयोजनाभावो ऽविप्रलम्भहेतुः ।
प्रयोजनाभावश्च परवञ्चनस्यापुरुषार्थत्वादतत्साधनत्वाच्च निश्चीयत इति चेन्न ।
सम्प्रतिपन्नविप्रलम्भकेषु व्यभिचारादित्याहव्यभिचारत इति ।
अपुरुषार्थमपि पुरुषार्थतया विभ्रम्य वञ्चयत्यसाविति चेत् ।
किं तावता ।
प्रकृतस्तु विवेकितया नैवमिति चेन्न ।
तीर्थकरान्तरे अविद्यमानस्य विवेकस्यास्मिन्नवधारणानुपपत्तेः ।
अथ विश्वहितोपदेशार्थं प्रवृत्त्या विप्रलम्भाभावो ऽनुमीयत इति चेन्न ।
बुद्धादिषु तत्साम्येन व्यभिचारादित्याहव्यभिचारत इति ।
अथ ते न तथा, किन्त्वयोग्यजनव्यामोहनार्थमिति चेत् ।
प्रकृतो ऽपि न तथेति कुतो निश्चितम् ।
निश्चयोपायस्येतरत्रापि तुल्यत्वात् ।
५,४९फ़्.
यदप्युक्तं प्रमाणान्तरसंवादान्मोहविप्रलिप्सयोर्निवृत्तिरिति तदसत् ।
प्रमाणान्तरं हि न तावत्प्रत्यक्षम् ।
अतीन्द्रियत्वाद्विप्रतिपन्नार्थस्य ।
अनुमानं चेद्वयभिचारो बुद्धादिषु ।
आभासमेव तत् मदीयं त्वनुमानमेवेति चेन्न ।
यतो निवारयिष्यामस्तव(वचन)चमत्कारं मा त्वरिष्ठा इत्याशयेनाहव्यभिचारत इति ।
अथागमः स किं वेदादिरुत तद्विरुद्धं स्मृत्यन्तरमथवा स्वयूथ्यरचितं ग्रन्थान्तरम् ।
न प्रथमद्वितीयौ ।
विरोधित्वेन संवादासम्भवादित्याहव्यभिचारत इति ।
नापि तृतीयः ।
बुद्धादिप्रणीतस्मृतीनामपि स्वयूथ्यपुरुषान्तरवचनसंवादित्वेन व्यभिचारादित्याहव्यभिचारत इति ।
ते ऽपि सन्दिग्धाप्तभावा इति चेन्न ।
प्रकृतेष्वपि तन्निश्चयोपायाभावात् ।
५,५२
यच्चोक्तं प्रवृत्तिसामर्थ्याद्वयामोहविप्रलिप्सयोर्निरास इति ।
तदयुक्तम् ।
प्रवृत्तिसामर्थ्यं हि ततो ऽर्थमवबुद्धय प्रवृत्तस्य फलोपलम्भः ।
नच विप्रतिपन्नस्मृतिफलं स्वर्गापवर्गलक्षणं प्रत्यक्षेणेक्ष्यते ।
इन्द्रियाणां तादृगार्थाविषयत्वादित्याहव्यभिचारत इति ।
आभिमुख्येन चारो ऽभिचारस्तदभावो व्यभिचारः ।
नाप्यनुमानेन ।
स्मृतित्वादेर्व्यभिचारित्वात् ।
अन्यस्य चाभावादित्याहव्यभिचारत इति ।
अथागमेन ।
सो ऽपि न तावत्सम्प्रतिपन्नो ऽस्ति ।
नच विप्रतिपन्नेन ।
तस्य बौद्धादिविषये ऽपि विद्यमानत्वेन व्यभिचारादित्याहव्यभिचारत इति ।
५,५३
स्यादेतत् ।
द्विविधा खलु शिवादिप्रणीता स्मृतिः ।
एका तावददृष्टं फलमुद्दिश्य प्रवृत्ता ।
परा तु सम्पदादिकं दृष्टम् ।
तत्र दृष्टार्थायाः प्रवृत्तिसामर्थ्यं प्रत्यक्षेणोपलभ्यते ।
ततस्तत्प्रणेतुराप्तत्वमिति ।
तन्न ।
तथापि विप्रतिपन्नस्मृतेराप्तिमूलत्वे प्रमाणाभावात् ।
तत एवास्या अपि तत्सिद्धिरिति चेन्न ।
व्यभिचारात् ।
न ह्येकत्राप्तेन सर्वत्रापि तथा भाव्यमिति नियमो ऽस्ति ।
तथा च सति सर्वासामपि स्मृतीनामाप्तिमूलतापातात् ।
तत्रापि दृष्टार्थानां प्रवृत्तिसामर्थ्योपलम्भादित्याहव्यभिचारत इति ।
अङ्गीकृत्य चेदमुदितम् ।
दृष्टार्थानामपि तासां बहुलं (फल)व्यभिचारो दृश्यते ।
तथाच कथं तद्दृष्टान्तेनेतरासामाप्तिमूलतानुमानमित्याहव्यभिचारत इति ।
किञ्च फलव्यभिचारतस्तदंशस्यानाप्तिमूलत्वस्थितौ पशुपतिप्रणीतत्वादेस्तत्र व्यभिचारतः कथमनुमानं स्यादित्याहव्यभिचारत इति ।
तदेवं पाशुपतादिस्मृतीनामाप्तिमूलत्वानिश्चयेन निर्मूलानां पञ्चरात्रादिस्मृतिविरोधेनाप्रामाण्यमेव युक्तम् ।
५,५४
तदनेन’इतरेषां चानुपलब्धेः, एतेन योगः प्रत्युक्तः’ इति सूत्रद्वयं व्याख्यातं भवति ।
यच्चेतरेषां महदहङ्कारादितत्त्वानामनुपलब्धेश्च साङ्खयस्मृतेरप्रामाण्यमिति व्याख्यानम् ।
तत्प्रत्यक्षानुपलब्धेर्वेदान्तेष्वपि व्यभिचारतः सर्वथानुपलब्धेरसिद्धेरुक्तत्वादयुक्तमिति ।
५,५५
ननु पञ्चरात्रादिस्मृतयो ऽपि फलं व्यभिचरन्ति ।
क्वचित्तदुक्तानुष्ठाने ऽपि दृष्टफलानुपलम्भात् ।
अतस्तासामप्रामाण्यान्न तद्विरोधेन पाशुपतादिस्मृतीनामप्रामाण्यम् ।
अन्यथा फलव्यभिचारस्यानैकान्तिकत्वमित्यत आहन चेति ।
नचास्या व्यभिचारे ऽपि हीयते मानता क्वचित् । मनुव्_२,१.७च्द् ।
न्यायसुधा-
अस्याः पञ्चरात्रादिस्मृतेः क्वचिद्वयभिचारे ऽपीति सम्बन्धः ।
कुतो न हीयत इति चेत् ।
किमदृष्टार्थायाः प्रामाण्याभावो ऽभिधीयते, उत दृष्टार्थाया एव ।
नाद्यः ।
यतः फलव्यभिचारे हेतौ क्वचिद् दृष्टार्थायां वर्तमाने अस्या अदृष्टार्थायां फलव्यभिचारे, तत एवाप्रामाण्ये सत्यप्यस्या
अदृष्टार्थायास्ताववन्मानता न हीयते ।
कारणाभावात् ।
तद्विरोधादेव च पाशुपतादीनामप्रामाण्यमुक्तम् ।
दृष्टार्थाया अप्रामाण्यवचनं तु प्रकृतानुपयुक्तमित्यभिसन्धिः ।
५,५७
अथ दृष्टार्थायाः फलव्यभिचारेणाप्रामाण्ये सति तत एवादृष्टार्था अप्यप्रमाणं भविष्यतीति चेन्न ।
तत इति किं तेन हेतुनोत तेन दृष्टान्तेन ।
नाद्यः ।
क्वचिद्वयभिचारे(णा)ऽप्रामाण्ये ऽप्यस्या मानता हीयत इति न युक्तम्, व्याप्त्यभावात् ।
न द्वितीयः ।
क्वचिद्वयभिचारे ऽप्रामाण्ये(ऽपि) अस्या मानता हीयत इत्येतन्न युक्तम् ।
हेत्वभावात् ।
नारायणवाक्यत्वादेर्व्यभिचारात् ।
मा हि भूत्सकलमपि नारायणवाक्यमप्रमाणम् ।
दृष्टार्थायां फलव्यभिचारे अप्रामाण्ये च सत्यस्या अपि मानता शङ्कास्पदत्वेन हीयत इति च न वाच्यम् ।
अत्र हेतुमाहनिर्दोषेति ।
निर्दोषवाक्यमूलत्वान् न च तद्युक्तिमूलता । मनुव्_२,१.७* ।
५,५८
न्यायसुधा-
निर्दोषवाक्यं वेदः तद्युक्तिः समर्थप्रवृत्तिजनकत्वं प्रामाण्यावधारणस्य यत इति शेषः ।
अयमभिसन्धिः ।
किमिदं दृष्टार्थायाः पञ्चरात्रादिस्मृतेः फलव्यभिचारेणाप्रामाण्यानुमानम् ।
तत एवेतरस्या अप्यप्रामाण्यशङ्कनं च स्वातन्त्र्येण क्रियते किंवा प्रतिबन्दीग्रहणम् ।
आद्यं तूत्तराधिकरणे निराकरिष्यामः ।
न द्वितीयः ।
प्रतिबन्दीग्रहणं हि प्रमेयसाध्ये भवति ।
न चैवं प्रकृते ।
परेण खलु फलसंवादादिना पाशुपतादिस्मृतेराप्तिमूलत्वप्रामाण्ययोरनुमितयोरस्माभिस्तन्न्यायेन फलविसंवादं प्रदर्श्य दोषो ऽभिहितः ।
यदि नाम पञ्चरात्रादिस्मृतिप्रामाण्यावधारणं फलसंवादयुक्त्याऽशास्येत ।
स्यादिदं तदा प्रतिबन्दीग्रहणम् ।
न चास्माभिः पञ्चरात्रादिप्रामाण्यावधारणस्य तद्युक्तिमूलतोपेयते ।
न चैवं तत्प्रामाण्यावधारणं निर्मूलं स्यादिति वाच्यम् ।
बोधकत्वेन स्वतःसिद्धत्वात् ।
अप्रामाण्यशङ्कानिवृत्तिः कुत इति चेदाप्तिमूलत्वेनेत्युक्तम् ।
तदवधारणं निर्मूलमिति चेन्न ।
श्रुतिसंवादनिबन्धनत्वादिति ।
ननु श्रुतेरेव वक्तृगुणहीनाया न प्रामाण्यमित्यतो निर्दोषवाक्येत्युक्तम् ।
बोधकत्वेनैव हि प्रामाण्यं व्यवस्थापितं तच्च वाक्यत्वाच्छतेरुभयसम्मतम् ।
दोषस्तु तदपवादकः ।
न चापौरुषेये स सम्भवतीति निष्कम्पमेव श्रुतिप्रामाण्यमिति वक्ष्याम इत्यर्थः ।
अस्यां दशायां श्रुतिविरोधेनापि पाशुपतादिस्मृतीनामप्रामाण्यं शक्यसाधनम् ।
यदप्युक्तम्’इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इति तत्तथा किन्त्वविरुद्धानामेवोपायत्वं न तु विरुद्धानाम् ।
नचैवमितरेतराश्रयत्वम् ।
श्रुत्यर्थनिश्चयस्य स्मृतिसंवादैकनिबन्धनत्वाभावादिति ।
५,६२
ननु च पञ्चरात्रादिस्मृतीनां प्रामाण्यमङ्गीकुर्वाणैः सर्वथा प्रवृत्तिसामर्थ्यमङ्गीकरणीयम् ।
व्यभिचारस्य च कर्तृकरणादिवैगुण्यनिबन्धनत्वमभ्युपेयम् ।
अन्यथा फलव्यभिचारि च प्रमाणं चेति व्याघातापातात् ।
तथाच फलसंवादेनापि प्रामाण्यादिसाधनं सुशकमेवेति किमुच्यते, नच तद्युक्तिमूलतेति सुहृद्भावेन पृच्छन्तं प्रत्याहवेदोक्तस्येति ।
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते । मनुव्_२,१.८ ।
न्यायसुधा-
वैदिकग्रन्थोपदिष्यानुष्ठाने वेदोक्ता निषेकादिसंस्कारा एवाधिकारतामापद्यन्त इति वेदोक्तस्येत्युक्तम् ।
यद्वा वेदशब्देन पञ्चरात्रादयो ऽपि गृह्यन्ते ।
अधिकारस्येत्युपलक्षणम् ।
साधनानुष्ठानस्येत्यपि द्रष्टव्यम् ।
दुर्निरूपत्वमस्मदाद्यप्रत्यक्षत्वम् ।
सदेति स्वभावत एव न तु देशादिव्यवधानेनेत्यर्थः ।
नियमो व्यभिचारो वा फलस्येति शेषः ।
हिशब्दो यस्मादित्यर्थे ।
तस्मात्फलसंवादेन प्रामाण्यादि नानुमीयत इति शेषः ।
एतदुक्तं भवति ।
प्रमितं खलु लिङ्गमनुमितेः करणम् ।
न सत्तामात्रेण ।
अतिप्रसङ्गात् ।
अत्र (च) एवं प्रयोक्तव्यम् ।
पञ्चरात्रादिकं प्रमाणम् ।
समर्थप्रवृत्तिजनकत्वात्सम्प्रतिपन्नवदिति ।
तस्य चायमर्थः ।
एतद्विहितसाधनानुष्ठानवद्भिस्तत्फलस्य नियमेन प्राप्तेरिति ।
नचैतल्लिङ्गं शक्यावधारणम् ।
व्यभिचारस्य बहुलमुपलम्भेन नियमस्य प्रत्येतुमशक्यत्वात् ।
तदवधारणे च काकतालीयतायाः शङ्कनात् ।
तत्रैतावद्वक्तव्यम् ।
कार्यं कारणसामग्रीसम्पाद्यं नतु तदेकदेशेन ।
तथात्वे ऽतिप्रसक्तेः ।
प्रकृते चोभयकुलशुद्धिवैदिकनिषेकादिसंस्काराद्यधिकारपूर्वकं विशुद्धाभिसन्ध्यादिमता सम्यगनुष्ठित कर्म असति प्रतिबन्धके, सति
चेश्वरेच्छादौ हि सहकारिणि, सम्पदादिफलजननायालम् ।
तथा च यत्र फलं नोपलब्धं तत्राधिकारादिवैगुण्यमितरत्र तु तत्साद्गुण्यमित्यतो नियमनिश्चय इति ।
न चैतद्युक्तम् ।
परगतयोरधिकारादिभावाभावयोरस्मदादिभिरवगन्तुमशक्यत्वात् ।
नहि खलु परकीयपितृपितामहादीनां मानसादिविशुद्धिर्धा, निषेकादिसमीचीनता वा, मन्त्राणामयातयामत्वादिकं वा द्रव्यादीनां शुचित्वादिकं
वा, अर्वाचीनैरवगन्तुं शक्यते ।
तथाचास्य फलनियम एव व्यभिचारस्तु वैगुण्यनिमित्त इति वास्तु ।
व्यभिचार एवास्य ।
क्वचित्फलोपलम्भस्तु काकतालीयो ऽन्यनिमित्त एवेति वा भवत्विति सन्देहो न निवर्तते ।
नच सन्दिग्धेन प्रामाण्यानुमानं युज्यते ।
प्रामाण्यसिद्धयुत्तरकालं तु व्यभिचारस्य वैगुण्यनिमित्तताकल्पनायामितरेतराश्रयत्वं स्यात् ।
वेदसंवादेन तु प्रामाण्ये ऽवधारिते शक्यते फलव्यभिचारस्यान्या गतिः कल्पयितुम् ।
अतो वेदसंवादेनैव प्रामाण्यं पञ्चरात्रादीनामवधार्यते न प्रवृत्तिसामर्थ्येनेति ।
५,६७
एवं न्यायसाम्याभावेन प्रतिबन्दी मोचिता ।
यदपि प्रतिबन्दीमाददानस्य विवक्षितम् ।
यथा च पञ्चरात्रादिप्रामाण्यमभिलषता फलव्यभिचारस्याधिकारादिवैकल्यनिबन्धनता कल्प्या तथाहमपि पाशुपतादिस्मृतिषु
कल्पयिष्यामीति, तदयुक्तं वैषम्यादित्याहअधिकारो हीति ।
अधिकारो हि सुलभः कथितो ऽन्यागमेष्वलम् ।
वेदोक्तो ह्य् अधिकारस्तु दुर्लभः सर्वमानुषैः । मनुव्_२,१.९ ।
न्यायसुधा-
अधिकारग्रहणं साधनस्याप्युपलक्षणम् ।
अन्यागमेषु पाशुपतादिषु कथितो ऽधिकारो ऽलं सुलभो ऽनायाससाध्यः ।
कुतः ।
यस्मादन्यागमेषु तथा कथितः ।
तथाच तद्वैकल्यकल्पनमसम्भावनाप्रतिहतम् ।
वेदोक्तस्त्वधिकारो विशुद्धसन्तानजत्वादिः सर्वमानुषैर्दुर्लभ इति प्रसिद्धमेव ।
अतस्तद्वैकल्यकल्पनं सम्भावितमेवेति ।
५,६८
ननु कथमन्यागमेष्वधिकारः साधनं च सुलभमुक्तमित्यतो लेशेन दशर्यतिअन्यागमेष्विति ।
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते । मनुव्_२,१.१० ।
न्यायसुधा-
यद्भावाः तरेण महता तपसा विना वा(न)ऽलभ्यं तदपीत्यर्थः ।
यतित्वादिकमपीति वा ।
चण्डालजन्मनामपि किमु क्षत्रियादीनामिति वा ।
विप्रा एव ये कमर्णा चण्डालास्तेषां कथञ्चित्प्रत्यापत्तिर्वैदिकैरप्यङ्गीक्रियत इत्यतश्चण्डालजन्मनामित्युक्तम् ।
चण्डालेषु जन्म येषामिति वा ।
चण्डालसम्बन्धित्वाच्चण्डालं जन्म येषामिति वा तथोक्ताः ।
क्रमशो मण्डलान्तःप्रवेशेनेत्यनेनेदमुच्यते ।
यो यावज्जातिव्यवहितस्तस्य तावन्ति मण्डलानि पूज्यानि (कल्प्यानि) ।
तत्र यद्यन्मण्डलं प्रविशति तत्तज्जातीयो भवति ।
चरममण्डलप्रवेशे तु विप्रः सम्पद्यत इत्यन्यागमेषु प्रतिपाद्यत इति सम्बन्धः ।
तथा चोक्तम्
‘दीक्षाप्रवेशमात्रेण ब्राह्मणो भवति क्षणात् ।
कापालं व्रतमास्थाय यतिर्भवति मानवः’ ।
इति ।
एतदधिकारसौलभ्यमुदाहरणम् ।
एवं साधनसौलभ्यमपि द्रष्टव्यम् ।
यथाऽहुः कापालिकाः ।
‘मुद्रिकाषट्कतत्त्वज्ञः परमुद्राविशारदः ।
भगासनस्थमात्मानं ध्यात्वा निर्वाणमृच्छति ।
कर्णिका रुचकं चैव कुण्डलं च शिखामणिः ।
भस्म यज्ञोपवीतं च मुद्राषट्कं प्रचक्षते ।
आभिर्मुद्रितदेहस्तु न भूय इह जायते (कायभाक्)’ इत्यादि ।
तथा कालामुखा अपि ।
रुद्राक्षकङ्कणं हस्ते जटा चैका च मस्तके ।
कपालं भस्मना स्नानं लकुटं (च कला) कलशार्चनम्’ इत्यादि ।
५,६९
ननु यथाधिकारसाधनयोः सौलभ्यमुक्तमेवं तद्दौर्लभ्यमपि तत्रैवोक्तमिति चेत्तर्हि न केवलं फलसंवादेन पाशुपतादीनामप्रामाण्यम् ।
किन्नाम परस्परविसंवादेनापीत्याहअधिकारमिति ।
५,७०
अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः ।
अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये ।
उच्यते ऽतस्तदुक्तं हि व्यभिचारि फले ऽपि तु । मनुव्_२,१.११ ।
कथं प्रमाणतां गच्छेन् … । मनुव्_२,१.१२अ ।
न्यायसुधा-
यस्मात्क्वचिदधिकारं दुरापाद्यमुक्त्वा पुनरपि सुलभं ब्रवीति, यस्माच्च तत्फलाप्तये सम्पदादिफलाप्तये, साधनमशक्यमुक्त्वा सुशकं चोच्यते ।
यस्माच्च तदुक्तं साधनं फले ऽपि विषये व्यभिचारि अतस्तदुक्तं सा पाशुपताद्युक्तिः कथं प्रमाणतां गच्छेन्न कथमपीत्यर्थः ।
दुर्लभत्वोक्त्यनुरोधेन सौलभ्यवचनं प्ररोचनार्थं व्याख्यायताम् ।
तथाच फलविसंवादो ऽप्यधिकारादिवैगुण्यनिमित्तो भविष्यति यथा पञ्चरात्रादाविति चेन्न ।
वैषम्यात् ।
युक्तं हि पञ्चरात्रादिषु तथा कल्पनम् ।
श्रुतिमूलत्वेन प्रामाण्यस्य निश्चिततया कल्पकस्य विद्यमानत्वात् ।
पाशुपतादौ तु तदभावेन विसंवादस्याप्रामाण्यनिबन्धनतोपपत्तौ कल्पकाभावात् ।
क्वचित्संवादस्तु काकतालीयो वा गुडजिह्विकानिमित्तो वा भविष्यति ।
तदिदमुक्तं तुशब्देन ।
तदुक्तं त्विति सम्बन्धः ।
तदेवं पाशुपतादीनामपस्मृतित्वान्न तद्विरोधेनोक्तार्थासम्भवः शङ्कनीय इति स्थितम् ।
। इति श्रीमन्न्यायसुधायां स्मृत्यधिकरणम् ।


__