। अथ श्रीमन्न्यायसुधायां अंशाधिकरणम् ।
। ओं अंशो नानाव्यपदेशादन्यथा चापि ताशकितवादित्वमधीयत एके ओं ।
केचिदिदमेवं व्याचक्षते ।
जीवः परमात्मनोंऽशः ।
अंशत्वं च नारम्भकत्वम् ।
परमात्मनो ऽनारब्धत्वात् ।
नापि खण्डत्वम् ।
अच्छेद्यत्वात् ।
नच प्रदेशत्वम् ।
प(घ)टादिवदनित्यत्वप्रसङ्गात् ।
किन्नाम भिन्नाभिन्नत्वम् ।
अत्र भेद औपाधिको ऽभेदस्तु स्वाभाविकः ।
उपाधिश्च अनाद्यनिर्वाच्याविद्येत्येके ।
अन्ये तु सत्यमेवान्तःकरणादिकमिति ।
कुत एतत् ।
‘द्वा सुपर्णाऽ‘नित्यो नित्यानाम्’ इत्यादिनानाव्यपदेशात् ।
अन्यथा चापि’तत्त्वमसिऽ‘अहं ब्रह्मास्मि’ इत्याद्यभेदव्यपदेशात् ।
नचैकस्यैव जीवस्य ब्रह्मणा भेदाभेदौ किन्तु सर्वेषाम् ।
यतो ब्रह्मदाशा ब्रह्मकितवा इत्येके ब्रह्मररो दाशकितवादित्वमधीयत इत्यादि ।
तदिदमयुक्तम् ।
तथाहि ।
को ऽयमभेदः ।
किं मुख्य एवोतामुख्यः ।
सादृश्यादिलक्षणः ।
आद्यं निराकरोतिभेदस्येति ।
८,६२३
अंशो नानाव्यपदेशाद् अन्यथा चापि दाशकितवादित्वम् अधीयत एके । ब्ब्स्_२,३.४३ ।
भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः । मनुव्_२,३.७५अब् ।
न्यायसुधा-
मुक्तावपीति सम्बन्धः ।
तत्पक्षो मुख्याभेदपक्षः ।
जीवस्यौपाधिक एव परमात्मनो भेदः ।
अभेदस्तु स्वाभाविक इति वदता मुक्तौ भेदाभावो (वाच्यः) ।
तत्राविद्याया अन्तःकरणादेश्चाभावात् ।
नच तद्युज्यते ।
मुक्तावपि जीवब्रह्मभे(णोर्भे)दस्य प्रागुदाहृताभिः श्रुतिस्मृतिभिरभिहितत्वात् ।
अतः प्रमाणविरुद्धत्वादस्य पक्षस्य हेयत्वमेव ।
द्वितीयं निराचष्टेचेतनत्वादीति ।
चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित् । मनुव्_२,३.७५च्फ़् ।
न्यायसुधा-
सादृश्यमित्युपलक्षणम् ।
तत्प्रधान(क)त्वाद्यपीति द्रष्टव्यम् ।
अभेदो ऽङ्गीकृतश्चेत्कथं तत्पक्षनिग्रह इत्युक्तमित्यत(मत) आहनेति ।
क्वचिदिति संसारे मुक्तौ वे(चे)त्यर्थः ।
८,६२५
न केवलं युक्तिविरुद्धो जीवब्रह्मणोर्भेदाभेदाङ्गीकारः किं तर्हि श्रुतिविरुद्धो ऽपीत्याहन केनचिदिति ।
न केनचिदभेदो ऽस्ति भेदाभेदो ऽपिवा क्वचित् ।
समुदायमृते विष्णोः स्वगुणादीन् विनापि वा । मनुव्_२,३.७६ ।
इति श्रुतेर्न तस्यास्ति भेदाभेदो ऽपि केनचित् । मनुव्_२,३.७७अब् ।
८,६२५फ़्.
न्यायसुधा-
भेदेन सहितो ऽभेदो भेदाभेदः ।
क्वचिदपीति सम्बन्धः ।
वाशब्दः समुच्चये ।
ऋतेयोगे द्वितीयाप्युपसङ्खयातव्या ।
श्रौतप्रयोगात् ।
अपिशब्दः समुच्चये ।
वाशब्दो विकल्पार्थः ।
स च व्यवस्थितो विकल्पः ।
समुदायमृते(न) केनचिद्भेदाभेदो(दो ऽस्ति) नास्ति ।
स्वगुणादीन्विनाभेदो नास्तीति ।
केनचिदपीत्यन्वयः ।
एतेन जीवब्रह्मणोर्भेदाभेदौ द्वावपि स्वाभाविकौ ।
नतु भेदो ऽविद्याद्युपाधिनिबन्धनः ।
अतो मुक्तावपि भेदसद्भावान्नास्माकं मुक्तभेदवचनविरोध इति वदन्यादवप्रकाशो ऽपि निरस्तः ।
क्वचित्केनचिदिति विशेषश्रुतिविरोधादिति ।
८,६२८
यद्येवं जीवब्रह्मणोर्न भेदाभेदौ कथं तर्हि सौत्रं भेदाभेदश्रुत्युदाहरणमित्यतः स्वमतेन सूत्रतात्पर्यमाहअभेदेति ।
अभेदश्रुतयो ऽंशत्वात् … । मनुव्_२,३.७७च् ।
न्यायसुधा-
उपलक्षणमेतत् ।
भेदश्रुतयश्चेत्यपि द्रष्टव्यम् ।
अंशत्वादेव हि उपपद्यन्त इति शेषः ।
दिनानाविधसम्बन्धव्यपदेशहेतुमभिधायान्यथा चापीत्यादिनार्ऽथापत्तिरप्युच्यते ।
तथाहि ।
जीवब्रह्मणोर्भेदमभेदं च वदन्त्यः श्रुतयस्तावद्विद्यन्ते ।
ताश्च जीवस्य ब्रह्मांशत्वादेव हि उपपद्यन्ते नान्यथा ।
यदि जीवो ब्रह्मणो घट इव पटादत्यन्तभिन्नः स्यात्तदाभेदश्रुतय उपरुध्येरन् ।
यदि वा ब्रह्माभिन्नः स्यात्तर्हि भेदश्रुतयो बाध्येरन् ।
नच भेदाभेदाश्रयणेन श्रुतिद्वयसामञ्जस्यं वाच्यम् ।
न केनचिदित्युदाहृतश्रुतिविरोधात् ।
अतो भेदाभेदश्रुत्यन्यथानुपपत्त्या जीवो ब्रह्मां(णों)शो ऽङ्गीकार्य इत्येव सूत्रार्थ इति ।
एतदर्थं च न केनचिदित्याद्येकवाक्यतया वा योज्यम् ।
यथोक्तम् ।
‘यतो भेदेन तस्यायमभेदेन च गीयते ।
अतश्चांशत्वमुद्दिष्यं भेदाभेदौ न मुख्यतः’ इति ।
८,६२९
परमात्मांशत्वं चेदुपगतं कथं तर्हि न भेदाभेदाङ्गीकारः ।
प्रकारान्तरेणांशत्वस्य निर्वक्तुमशक्यत्वात् ।
मत्स्यादिषु परमेश्वरांशेष्वभेदस्याङ्गीकृतत्वाच्चेत्यत आहसादृश्यं चेति ।
… सादृश्यं चांशतास्य तु । मनुव्_२,३.७७द् ।
न्यायसुधा-
अस्य जीवस्य परमेश्वरांशता तु तत्सादृश्यम् ।
चशब्दात्तदधीनसत्तादिमत्त्वं चेत्यर्थः ।
एतेन पुंस्त्वादिवदित्यनेनैवेदं गतार्थमधिकरणमित्यपि निरस्तम् ।
यद्वा चशब्दो ऽवधारणार्थः ।
सत्यम् ।
मत्स्यादिष्वभेदनिमित्तकोंऽशशब्दः ।
तथापि मुख्यांशसादृश्यं तत्सत्तयैव सत्तावत्त्वलक्षणमेव जीवस्यांशत्वं गौणो ऽयमंशशब्द इति इति यावत् ।
अंशशब्दस्यानेकार्थत्वं तत्र मत्स्याद्याः स्वरूपांशा एव जीवाः भिन्नांशा एवेत्यत्र असम्भावनानिरासाय(दीनां स्वरूपांशत्वं जीवानां
त्वतथाभूतांशत्वमित्येतत्कुत इत्यतो ऽत्र) आगमवाकयं पठतिअंशस्त्विति ।
८,६३०
अंशस्तु द्विविधो ज्ञेयः स्वरूपांशो ऽन्य एव च ।
विभिन्नांशो ऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक् । मनुव्_२,३.७८ ।
अंशिनो यत्तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः ।
स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा । मनुव्_२,३.७९ ।
न्यायसुधा-
द्विविध एव न त्वेकविध एवेत्यन्वयः ।
किञ्चित्सादृश्यमात्रयुगिति पुरोवदुभयथा व्याख्येयम् ।
सामर्थ्यं सृष्टयादिकर्तृत्वादिलक्षणम् ।
स्वरूपं पूर्णानन्दादिकम् ।
स्थितिः सर्वगतत्वादिपरिमाणम् ।
स एव चेत् तत्सामर्थ्यादियुक्तश्चेदंशस्तदासौ तत्स्वरूपांशो ज्ञातव्यः ।
प्रादुर्भावा इति तस्यैवोदाहरणम् ।
एवं जीवा यथेत्याद्यस्याप्युदाहरणं द्रष्टव्यम् ।
अनेन प्रकाशादिवन्नैवं पर इत्यस्य तात्पर्यमुक्तं भवति ।
८,६३३
मत्स्यादीनां जीवानां च परमेश्वरांशत्वासाम्ये ऽपि नैकप्रकारता किन्तु मत्स्याद्याः स्वरूपांशा एव जीवा विभिन्नांशा एवेत्यत्रासम्भावनानिरासाय
प्रकाशवदिति सूत्रकृता दृष्टान्ता दत्ताः ।
ते चायुक्ता इव प्रतीयन्ते उभयत्र भेदाभेदसाम्या(सद्भावा)दित्याशङ्कानिरासा(यर्)थं भाष्यम्’अभिमानिदेवतापेक्षयैतद्’ इति ।
तदविस्पष्टमित्यतः सौत्रान्दृष्टान्तान्स्पष्टयतिसूर्येति ।
सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।
सूर्यो ऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः । मनुव्_२,३.८० ।
कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।
धरादेव्य् … । मनुव्_२,३.८१अच् ।
न्यायसुधा-
सूर्यमण्डलमान्यंशी सूर्यस्तत्प्रकाशाभिमानवांस्तदंशश्चैक एव ।
यथेति सर्वत्रान्वीयते ।
अथशब्दः समुच्चये ।
बाह्योदस्याभिमान्यंशी वारिपः सप्तमाब्धेरभिमानी तदंशश्चैक एव ।
पृथिव्याः पञ्चाशत्कोटिविस्तीर्णाया अभिमानिन्यंशिभूता (देवता) धरादेवी मेर्वा(देर)द्यभिमानिनी देवताप्यंशरूपैकैव ।
मेरुहिमवदादेः पुरुषा अभिमानिनः पुराणेषु (प्र)सिद्धा इत्यत उक्तङ्कठिणत्वेनेति ।
यत्कठिनं(णं) सा पृथिवीति श्रुतेर्धरादेव्येव सर्वस्याः पृथिव्या अभिमानिनी ।
अवान्तराभिमानिनस्त्वन्ये इति ।
अनेन स्वरूपांशो निदर्शितः ।
दार्ष्यान्तिकं दर्शयतिएवमेवेति ।
… एवमेवैको भगवान् विष्णुरव्ययः ।
नानावताररूपेण स्थितः पूर्णगुणः सदा । मनुव्_२,३.८१च्फ़् ।
न्यायसुधा-
भगवान्विष्णुरंशी नानावताररूपेण स्थितोंऽशश्चैक एवेति योजना ।
अव्ययः सदा पूर्णगुण इत्यागामिसूत्रानुसारेणाभेदोपपादनम् ।
विभिन्नांशदृष्टान्तविवरणपूर्वकं दार्ष्यान्तिकं विवृणोतिविण्मूत्रेति ।
विण्मूत्राक्ष्यादिमानिन्यो यथापभ्रष्टदेवताः ।
सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक् । मनुव्_२,३.८२ ।
८,६३५
न्यायसुधा-
अपभ्रष्टनामका देवता अंशरूपाः सूर्यादिभ्यः सूर्यवरुणपृथिवीभ्योंऽशिभ्यो व्युत्क्रमेण यथा पृथक् ।
जीवांशानामंशिनः परमेश्वरात्पृथक्त्वं युक्तितः समर्थयितुं सूत्रम् अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवदिति ।
अत्रापि दृष्टान्तानामसङ्गतिमाशङ्कयाभिमानिविषयतया व्याख्यातिदेहेति ।
अनुज्ञापरिहारौ देहसम्बन्धाज् ज्योतिरादिवत् । ब्ब्स्_२,३.४८ ।
देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ।
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा । मनुव्_२,३.८३ ।
एवमेव पराद् विष्णोः पृथक् संसारिणो मताः ।
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः । मनुव्_२,३.८४ ।
न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते । मनुव्_२,३.८५अब् ।
न्यायसुधा-
परदेहगतदोषैः ।
देवतात्वं त्वन्तर्धानादिशक्तियोगः ।
चश(ब्दौ)ब्दो हेत्वोः समुच्चये ।
हि यस्मादनुग्राह्याश्च तैः सूर्यादिभिस्तत्प्रसादायत्तप्रतिबन्धनिवृत्तित्वाच्चेत्यपि द्रष्टव्यम् ।
अनुग्राह्यश्चेत्यादौ यत इति शेषः ।
देहदोषलिप्तत्वादित्यपि ग्राह्यम् ।
नन्वनुज्ञादिहेतुत्रयं स्वरूपांशेषु मत्स्यादिष्वस्तीत्यनैकान्तिकं न जीवांशानां परमेश्वराद्भेदं साधयितुमलमित्यत आहनत्विति ।
अनुग्राह्यत्वमित्युपलक्षणम् ।
नेष्यते’नैव ते जायन्ते’ इत्यादिश्रुतिबलेनेति शेषः ।
८,६३७
अत्रैव सूत्रम्असन्ततेश्चाव्यतिकरः’ इति ।
तज्जीवांशानां परमेश्वराद्भेदमेव साधयत्प्रतीयते ।
नतु मत्स्यादीनामभेदमपि ।
अत उ(तदु)पलक्षणत्वेन व्याचष्टेगुणैरिति ।
असन्ततेश् चाव्यतिकरः । ब्ब्स्_२,३.४९ ।
गुणैरशेषैः पूर्णत्वान्मुख्याभेदो ऽपरैर्नच । मनुव्_२,३.८५च्द् ।
न्यायसुधा-
मत्स्यादिरूपाणामिति वर्तते ।
मुख्याभेदाएंऽशिना ।
अपरैर्जीवैरीश्वरस्याभेदो न च तेषामपरिपूर्णगुणत्वाच्चेति ।
अनुज्ञापरिहारावित्येतदप्येवमुपलक्षणतया व्याख्येयम् ।
तदर्थं वा नतु मत्स्यादिरूपाणामिति वाक्यं योज्यम् ।
८,६३८
। ओं आभास एव च ओं ।
एवमंशस्यापि जीवस्येश्वराद्भेदः प्रमाणैस्समर्थितः ।
यस्त्वंशत्वादभेदं साधयेत्तस्यांशशब्दवाच्यत्वमात्रत्वं चेद्धेतुस्तदानैकान्तिकत्वमुक्तमेव ।
मुख्यांशत्वं चेद्धेतुस्तदासिद्धिरिति प्रतिपादयदाभास एव चेति सूत्रं व्याचष्टेअंशेति ।
आभास एव च । ब्ब्स्_२,३.५० ।
अंशाभासाश्च सर्वे ऽपि परस्यांशा न मुख्यतः । मनुव्_२,३.८६अब् ।
न्यायसुधा-
सर्वे ऽपि जीवाः ।
जीवानामंशाभासत्वं श्रुत्यन्तरेण द्रढयतियथेति ।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् । मनुव्_२,३.८६च्द् ।
न्यायसुधा-
तथैतस्मिन्पुरुषोत्तमे एतज्जीवजातमाततमेतदेवास्य तदंशत्वमिति भावः ।
नन्वेतत् श्रुतिविरुद्धं’पादो ऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि’ इत्यस्मिन्मन्त्रे ऽनन्तासनश्वेतद्वीपवैकुण्ठेषु
द्युशब्दवाच्येष्ववस्थितरूपत्रयवद्भूतशब्दवाच्यानां जीवानामपि परमपुरुषपादत्वाभिधानात् इत्याशङ्कय विशेषश्रुतिबलेन
पादशब्दस्यानेकार्थत्वकल्पनं न्याय्यमित्याशयवानाहनत्विति ।
न तु पुम्पादवत् पादा जीवा एते परात्मनः ।
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।
एवं जगाद परमश्रुतिर्नारायणं परम् । मनुव्_२,३.८७ ।
न्यायसुधा-
पुम्पादवत् पुरुषस्यामृतपादत्रयमिव ।
कुतः ।
पूर्णाः ।
नारायणं प्रादुर्भावरूपम् ।
जीवांशेभ्यः परं विलक्षणम् ।
जगाद ।
८,६३९
अधिदैवादिस्वरूपनिर्णयाय पादो ऽयमारब्ध इत्युक्तम् ।
तत्र कीदृशो ऽत्र निर्णयो जात इत्यतस्तं बुद्धयारोहाय पिण्डीकृत्याहअक्षय इति ।
अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः । मनुव्_२,३.८८अब् ।
न्यायसुधा-
देहादिक्षयरहित एव प्रलये स्थितः ।
अनेन’असम्भवस्तु सतो ऽनुपपत्तेःऽ,’नात्मा श्रुतेर्नित्यत्वाच्च ताभ्यः’ इत्यधिकरणतात्पर्यमुक्तं भवति ।
लक्ष्म्यावास इति ।
देव्या अपि प्रलये ऽवस्थानोक्त्या वियत्प(देनोप)दोपलक्षितायास्तस्या न जीववज्जननमिति ।
वियदादिपदोपादानेन तदभिमानित्वदशायामेव ब्रह्मादीनां देहाद्युत्पत्तिर्न मुक्ताविति सूचितम् ।
तत्सूचयतिमुक्तैरिति ।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः । मनुव्_२,३.८८च्द् ।
न्यायसुधा-
तथापि सृष्टि(प्र)लयक्रमसमर्थनेन सूचितं तारतम्यं तु तत्रापि नापैतीत्याशयेनोक्तम्तारतम्यगौरिति ।
विपर्ययेण तु क्रमो ऽत्र इति सृष्टिक्रमविपर्ययेण (प्र)लये क्रमो ऽभिहितः ।
तत्र कः सृष्टौ क्रम इत्यतस्तं दर्शयन्वियदधिकरणतात्पर्यमाहप्रकृतिरिति ।
प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्ययम् ।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ।
उत्पत्तिमादिति प्रोक्तं लक्ष्मीस्तदभिमानिनी । मनुव्_२,३.८९ ।
८,६४०
न्यायसुधा-
ततो जातः पुमान् नाम ब्रह्मास्यां वासुदेवतः ।
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी । मनुव्_२,३.९० ।
ततो रूपं महान् नाम ब्रह्मणो ऽहङ्कृतिः शिवः ।
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनो ऽभिधः ।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे । मनुव्_२,३.९१ ।
न्यायसुधा-
तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः ।
ततः कः सृष्टौ क्रम इत्यतस्तं दर्शयन्वियदधिकरणतात्पर्यमाहप्रकृतिरिति ।
तदभिमानिनी लक्ष्मीश्चैवमित्यर्थः ।
ततः तदनन्तरम् ।
प्राणनामा सङ्कर्षणात् ।
देव्यौ सरस्वतीभारत्यौ ।
प्रकृतिमानिनी महत्तत्त्वरूपात् ।
ततः अहङ्कारात् ।
तत एव इन्द्रस्कन्दाभ्याम् ।
अन्ये तत्त्वाभिमानिनः ।
अत्रोपलक्षितानामप्यधिकाशङ्कानिरासाय’तथा प्राणःऽइत्यादिना निर्णयः करिष्यत इत्यदोषः ।
सृष्टिप्रलययोः क्रमविपयर्यसमर्थनाय तात्पर्यमाहतत्रेति ।
तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः । मनुव्_२,३.९२अब् ।
न्यायसुधा-
समस्तशः समस्तेषु ।
‘तेजो ऽतःऽ,’तदभिध्यानात्’ इत्यादेस्तात्पर्यमाहतेभ्यश्चेति ।
तेभ्यश्च भगवान् विष्णुस् … । मनुव्_२,३.९२च् ।
न्यायसुधा-
श्रेयानिति वर्तते ।
समस्तश इति पञ्चम्यन्तमत्र वा सम्बद्धयते ।
सर्वस्य जन्मलयौ परमेश्वरायत्तावित्युक्तम् ।
‘परात्तु तच्छतेः’ इत्यादिना प्रवृत्तिश्च ।
तत्तात्पर्यमाहतदधीना इति ।
… तदधीना इमे सदा । मनुव्_२,३.९२द् ।
जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ।
मोक्षश्च … । मनुव्_२,३.९३अच् ।
न्यायसुधा-
इमे जन्माद्या मोक्षान्ता भावाः ।
एतेषामिति वक्ष्यमाणमत्रापि सम्बद्धयते ।
द्वन्द्वैकवद्भावे ऽपि नपुंसकत्वाभावश्छान्दसः ।
युवोरनाकाविति यथा ।
मुक्तौ जन्माभावे ऽपि स्थित्यादौ भगवदधीनत्वमस्त्येवेत्याहतदधीनत्वमिति ।
… तदधीनत्वमेतेषां नैव हीयते । मनुव्_२,३.९३च्द् ।
मुक्तावपि … । मनुव्_२,३.९४अ ।
८,६४१
न्यायसुधा-
एतेषां ब्रह्मादीनाम् ।
परमप्रमेयमाहस एवेति ।
… स एवैकः स्वतन्त्रः पूर्णसद्गुणः । मनुव्_२,३.९४अब् ।
न्यायसुधा-
उपसंहरतिइतीति ।
इति श्रुत्युपपत्तिभ्यां पादे ऽस्मिन् प्रभुणोदितम् । मनुव्_२,३.९४च्द् ।
न्यायसुधा-
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमदवाक्यार्थविवृतौ द्वितीये ऽध्याये ऽस्मिन्गगनचरणः पर्यवसितः ।
। इति द्वितीयाध्यायस्य तृतीयः पादः ।
अध्यय २, पद ४
८,६४७
। अथ द्वितीयाध्यायस्य चतुर्थः पादः ।
यद्यपि चतुर्थपादे ऽपि श्रुतिवचनानां परस्परविरोध एव परिह्रियते ।
तथाप्यध्यात्मविषयत्वेन भेदसिद्धिरिति प्रागेव सूचितम् ।
प्रकारान्तरेण पादभेदं दर्शयितुमाहश्रुत्यर्थ इति ।
श्रुत्यर्थः श्रुतियुक्तिभ्यां विरुद्ध इव दृश्यते ।
यत्र तन्निर्णयं देवः सुविशिष्टोपपत्तिभिः ।
करोत्यनेन पादेन … । मनुव्_२,४.१अए ।
न्यायसुधा-
यद्यपि श्रुतिरित्येवोक्ते ऽपि सिद्धयत्यर्थ इति ।
वाक्यानामर्थद्वारैव विरोधस्थितेः ।
तथाप्यर्थनिर्णयायैव पादारम्भो न प्रामाण्यनिर्णयायातो न मीमांसात्वहनिरिति दर्शयितुमर्थ इत्युक्तम् ।
यद्यपि युक्तयः पूर्वपादे ऽपि सन्ति तथाप्यागमगृहीतव्याप्त्यादिमत्त्वेनात्र प्रबला इति विशेषः ।
पारमार्थिके विरोधे निणर्यो दुष्कर इत्यत इवेत्युक्तम् ।
यत्र प्राणादिविषये ।
श्रुत्यर्थो जन्मादिः ।
युक्त्युपसर्जनाभिः ।
श्रुतिभिर्विरुद्ध इव दृश्यते ।
तन्निर्णयमिति योजना ।
युक्तिसहितश्रुतिभिः पूर्वपक्षिते कथं श्रुतिमात्रेण तद्विपरीतार्थनिर्णय इत्यत उक्तम्सुविशिष्येति ।
अनेन बुद्धिसन्निहितेन ।
तथा प्राणा इत्यादीनां सूत्राणां भाष्य एवार्थो विस्पष्ट इत्यतः पूर्वोत्तरप(क्षीययु)क्षयुक्तीः सङ्गृह्याहतत्रेति ।
… तत्र स्पष्टार्थवच्छ्रुतिः । मनुव्_२,४.१फ़् ।
विशेषश्रुतिवैरूप्यं माहात्म्यं व्यक्तसद्गुणाः ।
दृष्टायुक्तिः समानत्वं कर्तृशक्तिर्विमिश्रता । मनुव्_२,४.२ ।
युक्तयः पूर्वपक्षेषु सुनिर्णीतासतु तादृशाः ।
युक्तयो निर्णयस्यैव स्वयं भगवतोदिताः । मनुव्_२,४.३ ।
८,६४८
न्यायसुधा-
तत्र चतुर्थपादे ।
तादृशाः तच्छब्दवाच्याः ।
निर्णयस्य सिद्धान्तस्य ।
तादृशाश्चेत्कथं निर्णयं कुर्युरित्यत उक्तम्सुनिर्णीतास्त्विति ।
तादृशार्था इति शेषः ।
कुत एतदित्यत उक्तम्स्वयमिति ।
स्वयमेवेति सम्बन्धः ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीये ऽध्याये ऽस्मिंश्चरमचरणः पर्यवसितः ।
। इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य चतुर्थः पादः ।