२७ पृथगुपदेशाधिकरण

। अथ श्रीमन्न्यायसुधायां पृथगुपदेशाधिकरणम् ।
। ओं पृथगुपदेशात् ओं ।
अत्र जीवात्मनः परमात्मनाऽत्यन्तिको भेदः समर्थ्यते ।
स्यादेतत् ।
यथा हि प्रत्यक्षादिप्रमाणैर??णावधृत(देवदत्त)सिंह(देवदत्त)भेदस्य पुंसः सिंहो देवदत्त इति वाक्यश्रवणे ऽपि न
सिंहदेवदत्तस्वरूपैक्यप्रतिपत्तिर्भवति ।
किन्नाम गौण एवायं प्रयोग इत्यध्यवस्यति ।
तथा अथातो ब्रह्मजिज्ञासा इत्यादिभिः व्यतिरेको गन्धवत् इत्यन्तैः सूत्रैः जीवात्मपरमात्मभेदस्य
प्रत्यक्षादिप्रमाणबलेनोपपादितत्वात्तत्त्वमस्यादिश्रुतिशतेनापि न तदभेदप्रतिपत्तिरुत्पत्तुमलम् ।
किन्तु गौणार्थ एव श्रुतय एव इति निश्चयो भवेत् ।
अतः प्रापकभावान्नेदमधिकरणमारम्भणीयमित्यतो ऽधिकाशङ्कां दशर्यन्पूर्वपक्षयतिएवं स्थिते ऽपीति ।
पृथगुपदेशात् । ब्ब्स्_२,३.२८ ।
एवं स्थिते ऽपि जीवैक्यं केचिदाहुः परात्मना ।
तद् यो ऽहमितिपूर्वाभिः श्रुतिभिश्चानुमाबलात् । मनुव्_२,३.२६ ।
८,५०९
न्यायसुधा-
एवमतीतग्रन्थोक्तन्यायेन जीवात्मपरमात्मनोर्भेदे निश्चिते ऽपीत्यर्थः ।
स्मृतिभिन्नेति चार्थो ऽनुमानबलाच्चेति वा सम्बन्धः ।
एतदुक्तं भवति ।
यद्यपि भेदः प्राक् समर्थितस्तथापि जीवः परमात्मनाभिन्न एव ।
‘तद्यो ऽहं सो ऽसौ यो ऽसौ सो ऽहम्’ ।
तत्त्वमसि ।
‘अहं ब्रह्मास्मि’ इत्यादिश्रुतेः ।
‘अहं हरिः सर्वमिदं जनार्दनो नान्यत्ततः कारणकार्यजातम् ।
ईदृङ्मनो यस्य न तस्य भूयो भवोद्भवा द्वन्द्वगदा भवन्ति’ इत्यादिस्मृतेश्च ।
नचैताः श्रुतयः स्मृतयश्च गौणार्था योज्याः ।
उपक्रमादिबलेन तात्पर्यावधारणात् ।
बलवद्बाधकाभावाच्च ।
उपन्यस्तानि तु प्रमाणान्याविद्यकमिथ्याभेदविषयतयापि सम्भवन्ति ।
तथा चानुमानम् ।
विमतो भेदो मिथ्या भेदत्वाच्चन्द्रभेदवदिति ।
नच’अस्मिन्नस्य च तद्योगं शास्ति’ इति मुक्तावपि भेदोक्तिर्बाधिका ।
तस्या अवान्तरविषयत्वोपपत्तेः ।
नच परममुक्तौ भेदे प्रमाणमस्ति ।
‘यत्र त्वस्य सर्वमात्मैवाभूत् ।
विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।
अविमुक्तेस्तु भेदस्स्याज्जीवस्य परमस्य च ।
ततः परं न भेदो ऽस्ति भेदहेतोरभावतः’ इत्यादिश्रुतिरमृतयो ऽपवदन्ति च परममुक्तौ जीवपरभेदमित्येवं केचिद्वादिनो वदन्ति ।
अतो युक्तस्तन्निराकरणायाधिकरणारम्भ इति ।
८,५११
एवं पूर्वपक्षयित्वा सिद्धान्तयत्सूत्रं व्याचष्टेन तदिति ।
न तद् युक्तं यतो विष्णुः पृथगेवाभिधीयते । मनुव्_२,३.२७अब् ।
न्यायसुधा-
तत् जीवस्य परमात्मैक्यम् ।
न युक्तम् ।
किन्तु पृथगेव जीवात्मपरमात्मानौ ।
कुतः ।
यतो विष्णुर्जीवाज्जीवश्च विष्णोः
‘भिन्नो ऽचिन्त्यः परमो जीवसङ्घात्’ इत्यादिश्रुति(स्मृति)भिः पृथगेव अभिधीयते तस्मादित्यर्थः ।
नन्वेताः श्रुतिस्मृतयो ऽविद्याकल्पितभेदविषयतयान्यथासिद्धाः न तात्विकभेदसिद्धयै प्रभवन्तीत्युक्तमिति चेत् ।
मा त्वरिष्ठाः ।
निराकरिष्यामः श्रुत्यादेः अतत्त्वावेदकत्वमित्याशयवानकल्पितभेदविषयां श्रुतिमुदाहरतिप्रज्ञेति ।
प्रज्ञानेत्रो ऽलोक इति मुक्तौ भेदो ऽभिधीयते । मनुव्_२,३.२७च्द् ।
न्यायसुधा-
‘एष ब्रह्मैष प्रजापतिरिन्द्रः’ इत्यादिना विश्वप्रपञ्चमनूद्य सर्वं तत्प्रज्ञानेत्रमिति तस्य प्रज्ञाख्यब्रह्मनेतृकत्वमभिधाय नेतृनेतव्यभावस्य
कल्पितत्वादित्याशङ्कानिवृत्त्यर्थं प्रज्ञानेत्रो ऽलोक इति श्रुत्या मुक्तावपि जीवपरयोर्भेदो ऽभिधीयते ऽलोको मुक्तो ऽपि प्रज्ञानेत्रो ब्रह्मनेतृक इति ।
नीयते ऽनेनेति नेत्रम् ।
दाम्नीत्यदिसूत्रात् ।
प्रज्ञा च ब्रह्म ।
‘प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म’ इति वाक्यशेषात् ।
नचात्र लोक इति पदं छेद्यम् ।
जनभुवनदेहरूपस्य लोकस्य प्रागेव ब्रह्मनेतृकत्वस्योक्तत्वेन पुनरुक्तिप्रसङ्गात् ।
नच नेतृनेतव्ययोरभेदः क्वचिदस्ति ।
नचावान्तरमुक्तिविषयेयं श्रुतिः ।
तत्र लोकातीततायोगात् ।
देहेन्द्रियादिवैकल्यं खल्वलोकत्वम् ।
परममुक्तौ चानुवर्तमानो भेदो नाविद्याकल्पितो भवितुमर्हत्यतिप्रसङ्गादिति ।
८,५१३
ननु मु(क्तौ भेदाभावेने)क्तावभेदे ऽनेकाः श्रुतयः स्मृतयश्च सन्ति ।
तत्कथमेकाकिनीयं श्रतिर्मुक्तौ भेदसाधनायालमित्यतो बह्वीः श्रुतिस्मृतीरत्रोदाहरतिएतमिति ।
८,५१४
एतमानन्दमित्यन्या परमं साम्यमित्यपि । मनुव्_२,३.२७एफ़् ।
न्यायसुधा-
‘एतमानन्दमयात्मानमुपसङ्क्रम्य’ इत्यन्या श्रुतिर्मुक्तस्य परस्माद्भेदमाह ।
सामीप्यप्राप्तेरभिधानात् ।
नचेयमवान्तरमुक्तिः ।
‘अस्माल्लोकात्प्रेत्य’ इति विदेहत्ववचनात् ।
‘तदा विद्वान्पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ इत्यपि श्रुतिर्मुक्तौ जीवस्य ब्रह्मणो भेदमाचष्टे ।
साम्यस्य भेदसमानाश्रयत्वात् ।
पुण्यपापाञ्जनाख्यविद्याविधूननाभिधानादस्यापि परममुक्तिविषयत्वं ज्ञायते ।
इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।
सर्गे ऽपि नोपजायन्ते प्रळये न व्यथन्ति च । मनुव्_२,३.२८ ।
न्यायसुधा-
इदं ज्ञानमिति भगवद्वाक्ये ऽपि मम साधर्म्यमागमा इति भेदो ज्ञायते ।
सर्गप्रलययोरप्युपजननव्यथाभावोक्त्या परममुक्तित्वं च ।
उपसम्पद्य तज्ज्योतिः स्वरूपेणाभिपद्यते ।
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी । मनुव्_२,३.२९ ।
आचक्ष्व मे मोक्षं धीरा यं प्रवदन्ति तम् ।
इत्यक्त आह वाग्देवी परं मोक्षं प्रजापतेः । मनुव्_२,३.३० ।
न्यायसुधा-
उपसम्पद्यत इत्यनेन’परञ्ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ।
स तत्र पर्येति जक्षन्क्रीडन्रममाणः’ इत्येतां श्रुतिमर्थतो ऽनुवदति ।
अत्रापि सामीप्यप्राप्त्यादिना भेदो ऽवगम्यते ।
‘अस्माच्छरीरात्समुत्थाय स्वेन रूपेणाभिनिष्पद्यते’ इत्युक्त्या परममोक्षत्वं च ।
शाखां शाखां महानद्यः संयान्ति परितःस्रवाः ।
धानापूपा मांसकामाः सदा पायसकर्दमाः । मनुव्_२,३.३१ ।
यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते । मनुव्_२,३.३२ ।
प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः । मनुव्_२,३.३३ ।
८,५१४फ़्.
न्यायसुधा-
शाखां शाखामिति महाभारतवाक्ये भेदावभासः स्फुट एव ।
तस्य च परममोक्षविषयताप्रदर्शनार्थमाचक्ष्वेत्यादिपूर्ववाक्यार्थसङ्ग्रहकथनम् ।
इत्युक्ते प्रजापतिनेति पृष्टे ।
तस्य मध्ये पुण्यगन्धः सहस्रशाखो विमलो विभाति ।
तस्य वेतसस्य शाखां शाखामाश्रित्य धानापूपवत्यः मांसकामवत्यः ।
अर्शआदिभ्यो ऽच् ।
पायसं कर्दमस्थानीयं यासां तास्तथोक्ताः ।
यस्मिन् लोके ।
ईजिरे यजन्ते च ।
तदक्षरं परमं ब्रह्म ।
तत्रैव परमेश्वरान्तर एव ।
८,५१५
भेददृष्टयाभिमानेन निःसङ्गेनापि कमर्णा ।
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम् । मनुव्_२,३.३४ ।
स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिता ।
जाते ऽगुणव्यतिकरे यथापूर्वं प्रजायते । मनुव्_२,३.३५ ।
न्यायसुधा-
भेददृष्टयेति भागवतवाक्यस्यायमर्थः ।
‘आद्यः स्थिरचराणां यो वेदगर्भः सहर्षिभिः ।
योगेश्वरैः कुमाराद्यैः सिद्धैर्योगप्रवर्तकैः ।
स जीवेश्वरादिभेदज्ञानेनाभिमानेनेश्वरबहुमानेन निवृत्तकर्मणा च जगत्कर्तृत्वात्सार्वज्ञादिगुणोपेतं परमपुरुषाख्यं परं ब्रह्म सङ्गत्यमुक्तः
सन्प्रविश्य पुनः कालाख्यपरमेश्वरमूर्त्या सृष्टिकाले जाते सत्यगुणव्यतिरेके सत्त्वादिगुणविक्रियाहीने विष्णुलोके पूर्ववत्सर्वमुक्ताधिपतिर्जायत
इति ।
अत्र तु भेदः स्फुट एव ।
हिरण्यगर्भमुक्तित्वादेव परममुक्तित्वं च सिद्धम् ।
ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा । मनुव्_२,३.३६अब् ।
न्यायसुधा-
‘ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।
ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां विमिमीत उ त्व’ इति मन्त्रस्यायमर्थः ।
मुक्तिस्थाने त्वः कश्चिद् ब्रह्मा ऋचां पोषं पुपुष्प्वानास्ते ऋचः पुष्याः कुर्वन्नास्ते ।
त्वो ब्रह्मा शक्वरीषु ऋक्ष्वारूढं गायत्रं साम गायति ।
त्वो ब्रह्मा जातविद्यां पौरुषेयविद्यां वदति ।
त्वो ब्रह्मा यज्ञस्य विष्णोर्मात्रामंशमेव विमिमीते ध्यायतीति ।
अत्रापि भेदः स्फुट एवावभासते ।
ब्रह्मबाहुल्यश्रवणात्परममोक्षत्वं च ।
नचास्य ऋत्विग्विषयत्वम् ।
ब्रह्मणो जातविद्यावादित्वस्याप्रसिद्धत्वात् ।
चतुर्णामपि पादानां होत्रादिभिन्नविषयत्वे तृतीयपादे त्व इति च व्यर्थं स्यात् ।
चशब्दो वाक्यशेषसमुच्चये ।
परेण प्रेरिताः सदेत्यनेन’स वा एष ब्रह्मनिष्ठ इदं शरीरं मर्त्यमतिमृज्य ब्रह्माभिसम्पद्य ब्रह्मणा(ऽभि)पश्यति’ इत्यादिश्रुतीः ।
‘यथेष्यं परिवर्तन्ते तस्यैवानुग्रहेरिता’ इत्यादिस्मृतीश्चोपादत्ते ।
यत्कामस्तत् सृजत्यद्धैषात्मना तत् सृजत्यपि । मनुव्_२,३.३६च्द् ।
८,५१६
न्यायसुधा-
यत्काम इत्यनेन’न हास्य कर्म क्षीयते ऽस्माद्धयेवात्मनो यद्यत्कामयते तत्तत्सृजत’ इति श्रुतिरुपादीयते ।
मुक्तो यद्यत्कामयते तत्तद्वस्तु तत्कर्म सृजते ।
कथम् ।
यत्सृजते तदस्मादात्मन एव परमेश्वरानुग्रहद्वारैवेत्यर्थः ।
अद्धैवेति ह्येवशब्दार्थः ।
अत्रेश्वराज्जीवस्य भेदः स्पष्ट एव ।
कर्माक्षयवचनात्परममुक्तित्वं च ।
सहैव ब्रह्मणा कामान् भुङ्कते निस्तीर्णतद्गुणः । मनुव्_२,३.३७अब् ।
न्यायसुधा-
सहैवेत्यनेन’सो ऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चितः’ इति श्रुतिमुपादत्ते ।
ब्रह्मणा ब्रह्मात्मकामतया सर्वान्कामान्सह यौगपद्येन भुङ्क्त इति व्याख्यानं तु श्रौताक्षराननुगुणं तत्सिद्धान्ताननुगुणं च ।
निस्तीर्णेत्यनेन’तीर्णो हि तदा सर्वान्शोकान्हृदयस्य भवति’ इति श्रुतिर्गृह्यते ।
तदा सर्वान् शोकांस्तीर्णो मुक्तो हृदयस्य ब्रह्मणः शेषभूतो भवतीत्यर्थः ।
हृदयनत्वाद् हृदयं ब्रह्म ।
तद्गुणा हृद्गुणा दुःखाद्याः ।
अत्र सर्वशोकतरणात्परममुक्तित्वमवगम्यते ।
दुःखादींश्च परित्यज्य … । मनुव्_२,३.३७च् ।
न्यायसुधा-
दुःखादींश्च परित्यज्येत्यनेन’ज्योतिर्मयेषु देहेषु स्वेच्छया विश्वमोक्षिणः ।
भुञ्जते सुसुखान्येव न दुःखादीन्कदाचन’ इत्यादि(कं) ब्रह्मवैवर्तवाक्यं गृह्यते ।
अत्र बहुवचनेन भेदो दुःखाद्यभावेन परममुक्तित्वं चाव(सीयते)भासते ।
… जगद्वयापारवर्जितः । मनुव्_२,३.३७द् ।
भुङ्क्ते भोगान् सहैवोच्चान् … । मनुव्_२,३.३८अ ।
न्यायसुधा-
जगद्वयापारेत्यनेन स्वाधिकानन्दसम्प्राप्तौ सृष्टयादिव्यापृतिष्वपि ।
मुक्तानां नैव कामः स्यादन्यान्कामांस्तु भुञ्जते’ इति वाराहवचनं गृह्यते ।
अत्र चैश्वर्यमर्यादया भेदो गम्यते ।
स्वपक्षसाधनमुपसंहरतिइत्यादीति ।
… इत्याद्यागममानतः ।
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता । मनुव्_२,३.३८ब्द् ।
जीवेशयोर् … । मनुव्_२,३.३९अ ।
न्यायसुधा-
मुक्तस्य परब्रह्मण इति शेषः ।
८,५१९
इदानीं परपक्षं निराकरिष्यन्यदुक्तं श्रुतिभिश्चानुमाबलादित श्रुतिसाचिव्येन अनुमानम्, तत्तावन्निराकर्तुमुपक्रमतेनानुमा चेति ।
… नानुमा च तदभेदं प्रमापयेत् । मनुव्_२,३.३९अब् ।
न्यायसुधा-
चशब्दः स्वपक्षसाधनपरपक्षनि(रसन)राससमुच्चयार्तः ।
प्रमापयेत् प्रमितं कुर्यात् ।
यद्वा जीवेश्वराभेदे परोपन्यस्तसमस्तप्रमाणनिरसनप्रतिज्ञेयम् ।
तथाच श्रुतिस्मृती चेति चार्थः ।
८,५२०
तत्कथमित्यतो ऽनुमानं तावदनुवदतिमिथ्यैवेति ।
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।
इति चेत् … । मनुव्_२,३.३९च्ए ।
न्यायसुधा-
भेदो मिथ्येत्येतावत्युक्ते चन्द्रभेदादिना सिद्धसाधनं स्यादित्योत विमत इत्युक्तम् ।
जीवब्रह्मणोर्भेद इति यावत् ।
स्तम्भकुम्भादिभेदस्य पक्षतुल्यत्वान्न तत्र भेदत्वहेतोर्व्यभिचारः शङ्कनीय इति ज्ञापनार्थं वा ।
यावान्कश्चिद्विमतो भेदः स सर्वो ऽपीति ।
भेदग्रहणं (वि)स्पष्टार्थम् ।
साध्यावधारणेनासिद्धयाद्याभासोद्धारं सूचयति ।
भेदमिथ्यात्वसिद्धावभेद एव वास्तवः सिद्धयतीति भावः ।
८,५२१
दूषयितुं पृच्छतिसाध्येति ।
… साध्यधर्मो ऽयं सन्नसन् वा नवोभयम् । मनुव्_२,३.३९एफ़् ।
न्यायसुधा-
अयं जीवब्रह्मभेदस्य मिथ्यात्वलक्षणः ।
सन्निति स्वमतानुसारेण ।
ननु मिथ्यात्वं सच्चेत्तद्यस्य तदपि सत्स्यात् ।
नहि सम्भवति नास्ति धर्मी धर्मश्चास्तीति ।
तथाच वैपरी(त्यमेव)त्यम् ।
मैवम् ।
मिथ्यात्वं खल्वत्यन्ताभावप्रतियोगित्वं तच्च बुद्धिद्वारेणैव ।
अत्यन्तासतो ऽपि प्रतीतिरङ्गीक्रियते ।
तथाच मिथ्यात्वमस्तीत्यस्य तत्प्रतियोगिको ऽत्यन्ताभावः सन्नित्यर्थः ।
नचात्र को ऽपि विरोधः ।
असन्वेति माध्यमिकमतानुरोधेन ।
नहि प्रतिवादिन्याश्वासो ऽस्ति ।
येनासौ स्वमतमतिप(ती)त्य न वदेदिति निश्चिनुमः ।
उभयं नवेति प्रतिवादिमतानुसारेण ।
सदादिपक्षदूषणसाम्यादिति ब्रूमः ।
यद्वोभयं (वेति) चेति तृतीयः पक्षः ।
नेति चतुर्थः ।
उभयं न वेत्यर्थः ।
८,५२४
आद्यं दूषयतियदीति ।
यदि सन्नपसिद्धान्तः … । मनुव्_२,३.४०अ ।
न्यायसुधा-
यद्ययं साध्यधर्मः सन्नित्युच्यते तदा मायावादिनो ऽपसिद्धान्तः स्यात् ।
नहि जीवब्रह्मणोर्भेदस्य मिथ्यात्वं ब्रह्म, येन तस्य सत्त्वे ऽपि सदद्वैतवादिनो नापसिद्धान्तः स्यात् ।
ब्रह्मणो निर्विकल्पकत्वात् ।
द्वितीये दोषमाहस एवेति ।
… स एवासन्नितीरिते । मनुव्_२,३.४०ब् ।
न्यायसुधा-
अपसिद्धान्त एव ।
मिथ्यात्वस्यासत्त्वे (अपि) सत्त्वमेव जीवब्रह्मभेदस्य स्यात् ।
नचासत् प्रमाणविषय इति तेषां पक्षः ।
अनेन सदसत्त्वपक्षो ऽपि निरस्तो वेदितव्यः ।
अन्तिममपाकरोतिनोभयं चेदिति ।
नोभयं चेन्न सिद्धं तद् … । मनुव्_२,३.४०च् ।
न्यायसुधा-
तदुभयविलक्षणत्वं च जीवब्रह्मभेदमिथ्यात्वे ऽन्यत्र वा क्वापि न सिद्धम् ।
८,५२५
नन्वनेन किमुक्तं स्यात् ।
अप्रसिद्धविशेषणत्वमिति चेन्न ।
सदसद्वैलक्षण्यस्य पक्षविशेषणत्वाभावात् ।
मिथ्यात्वमेव पक्षविशेषणमुपन्यस्तं तद्धर्म एव सदसद्वैलक्षण्यम् ।
नच विमतं बुद्धिमत्कर्तृपूर्वकमितिवद्विशेषणेनापि प्रसिद्धेन भाव्यमिति वाच्यम् ।
वैषम्यात् ।
यद्धि व्यापककोटिनिविष्यं विवादपदं च तस्य प्रसिद्धतावश्यम्भाविनी ।
अन्यथा व्याप्तिग्रहणपक्ष(त्व)योरसम्भवात् ।
अस्ति च बुद्धिमत्त्वस्यापि व्यापकोटि(टौ) निवेशादि न तु सदसद्वैलक्षण्यस्येति ।
उच्यते ।
यो ह्यर्थः प्रमाणसाध्यः स सम्भावितप्रकारेष्वन्यतमप्रकारवानुपलब्धः ।
इदं च जीवब्रह्मभेदस्य मिथ्यात्वं न सदादिप्रकारवदङ्गीकर्तुं शक्यं प्रकारत्रयस्यापसिद्धान्तपराहतत्वात् ।
चतुथर्स्याप्रामाणिकत्वात् ।
न ह्यप्रामाणिकेन प्रकारेण प्रकारवत्किञ्चिद्भवति ।
अतो व्यापकानुपलब्धिबाधितं जीवब्रह्मणोर्भेदस्य मिथ्यात्वं न साधयितुं शक्यमिति समुदायार्थो विवक्षित इति न काचिदनुपपत्तिः ।
अनेनैवाभिप्रायेण टीकापि नेतव्येति ।
८,५२६
दूषणान्तरमाहइति मानस्येति ।
… इति मानस्य दूषणम् । मनुव्_२,३.४०द् ।
८,५२६फ़्.
न्यायसुधा-
मीयत इति मानम् ।
कृत्यल्लुटो बहुलमिति वचनात् ।
मिथ्याशब्दार्थं विकल्प्याप्येवं दूषणमभिधानीयमित्यर्थः ।
तथाहि ।
किं मिथ्येत्यसत्त्वमुच्यते ।
किंवानिर्वाच्यत्वम् ।
आद्ये ऽपसिद्धान्तः ।
द्वितीये ऽप्रसिद्धविशेषणता पक्षस्येति ।
सत्त्वाभावो मिथ्यापदार्थ इति चेन्न ।
तस्यैवासत्त्व(शब्दार्थ)पदार्थत्वेनापसिद्धान्तानिस्तारादिति ।
८,५२८
दोषान्तरमाहइतीति ।
मानस्य लिङ्गस्य ।
भेदत्वहेतुरपि सन्नसन्वा सदसन्वा अनिर्वाच्यो वेति विकल्प्याद्ये ऽद्वैतवादिनो ऽसिद्धिः ।
दृष्टान्तस्य साधनविकलः ।
द्वितीयतृतीययोर्द्वयोरपि ।
चतुर्थे द्वैतवादिन इति दूषणमभिधातव्यमित्यर्थः ।
नच सदसदादौ भेदत्वसामान्यमस्ति ।
येन धूमवत्त्ववदयं हेतुः स्यात् ।
८,५३०
जीवो ब्रह्मणो न भिद्यते आत्मत्वाद्ब्रह्मवदित्यादावनुमानान्तरे ऽप्येवमेव विकल्प्य दूषणान्तरमभिधातव्यमित्याहइति मानस्येति ।
यद्वाद्वैतवादिप्रयुक्तेषु विरुद्धविषयेषु सर्वेष्वपि अनुमानेष्वेवं साध्यं हेतुं च विकल्प्य दोषो वक्तव्य इत्यतिदिशतिइतीति ।
८,५३१
न सिद्धं तदित्ययुक्तम् ।
पक्षीकृते भेदे वा प्रपञ्चे वाविद्यायां वा शक्तिरजतादौ वानिर्वचनीयत्वस्य प्रमाणेन साधयितुं शक्यत्वादित्यत आहनचेति ।
न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् । मनुव्_२,३.४१अब् ।
न्यायसुधा-
यदा भेदमिथ्यात्वस्य सत्त्वादिविकल्पेन दूषणाभिधानं तदान्तरशब्दो विशेषवचनः ।
यदा तु मिथ्याशब्दार्(थर्ं)थविक(ल्प्य)ल्पेन दूषणाभिधानं तदान्यन्मानं मानान्तरम् ।
एतत् अनिर्वाच्यत्वम् ।
क्वचित् इत्युक्तस्थलेषु ।
८,५३२
तत्कथमिति चेदित्थम् ।
कस्यचित्पदार्थस्यानिर्वाच्यत्वे प्रत्यक्षं वा प्रमाणमुच्यते अनुमानं वाऽगमो वार्ऽथापत्तिर्वोपमानं वाभावो वेति मनसि विकल्पान्निधाय
पराङ्गीकारप्राचुर्यानुरोधेनानुमानं तावदपाकरोतिअनुमानेन चेदिति ।
अनुमानेन चेत् सैव ह्यनवस्था भविष्यति । मनुव्_२,३.४१च्द् ।
न्यायसुधा-
विमतमनिर्वाच्यं बाध्यत्वादित्याद्यनुमानेन शुक्तिरजतादेरनिर्वाच्यत्वं साध्यते चेदनवस्था भविष्यति ।
कथम् ।
सैव हि अप्रसिद्धविशेषणतापरिहारार्थानुमानपरम्पराद्वारिका प्रसिद्धैवेत्यर्थः ।
यदत्र वक्तव्यं तत्प्रथमसूत्र एवास्माभिरभिहितम् ।
आगममपाकरोतिनचेति ।
नचागमस्तदर्थो ऽस्ति … । मनुव्_२,३.४२अ ।
न्यायसुधा-
तदर्थो ऽनिर्वचनीयार्थः ।
अनुपलम्भादिति भावः ।
ननु कथं नास्ति ।
नासदासीन्नोसदासीत्तदानीमित्यागमस्य विद्यमानत्वादित्यत आहनासदिति ।
८,५३३
… नासदासीन्न तद् वदेत् । मनुव्_२,३.४२ब् ।
न्यायसुधा-
इत्यागम इति शेषः ।
तत् अनिर्वाच्यं वस्तु ।
अयं भावः ।
पदसमन्वयबलेन प्रतीतः पदार्थसंसर्गो हि वाक्यार्थो नापरः ।
अन्यथार्ऽथापत्त्यादेरप्यागमान्तर्भावप्रसङ्गात् ।
अत्र च प्रलये सदाद्यभावमात्रं वाक्यात्प्रतीयते न पुनरनिर्वाच्यं वस्तु ।
ततो नायमागमो ऽनिर्वाच्यार्थ इति ।
मा भूदयमागमो ऽनिर्वचनीयार्थः ।
तथाप्येतद्वचनबलेनानिर्वचनीयार्थः सेत्स्यति ।
तथाहि ।
अत्र तावत्प्रलये सदसदभाव; प्रतिपाद्यते ।
तत्सामर्थ्यात्तदा विद्यमानस्यार्थस्य सत्त्वासत्त्वप्रतिषेधावगतौ परिशेषादनिर्वाच्यत्वावगतेः ।
नच तदा वस्तुमात्राभावः ।
पुनः सृष्टयनुपपत्तेः ।
अभावस्याङ्गीकार्यत्वाच्च ।
८,५३४
परिशेषश्चार्थापत्तिरनुमानं वेत्याशङ्कतेपरिशेषादिति ।
परिशेषादनिर्वाच्यं यदि सिद्धयेत् … । मनुव्_२,३.४२च्द् ।
न्यायसुधा-
परिशेषादनिर्वाच्यं वस्तु सिद्धयेदित यद्युच्यत इति सम्बन्धः ।
अत्र ब्रूमः ।
भवेदिदं यद्यत्र सदसच्छब्दौ प्रतीतार्थौ स्याताम् ।
नचैवम् ।
प्रत्यक्षाप्रत्यक्षपञ्चमहाभूतपरत्वात् ।
‘न सत्तन्नासदुच्यते’ इत्यादौ तत्र प्रयोगात् ।
कुत एतदिति चेत्प्रतीतार्थत्वे ऽनिष्यप्रसङ्गादितयाशयवानाहपरात्मन इति ।
… परात्मनः । मनुव्_२,३.४२द् ।
अनिर्वाच्यत्वमेव स्यात् … । मनुव्_२,३.४३अ ।
न्यायसुधा-
तर्हि सत्त्वेनाङ्गीकृतस्य परमात्मन एवानिर्वाच्यत्वं स्यादित्यर्थः ।
कुत इत्यत आहपरिशिष्यो हीति ।
… परिशिष्टो ह्यसौ तदा । मनुव्_२,३.४३ब् ।
न्यायसुधा-
सदसत्प्रतिषेधसामर्थ्यात्सर्वकार्य(प्र)लये ऽवशिष्यस्य खल्वनिर्वाच्यत्वमेवेष्यव्यम् ।
असौ परमात्मा यस्मात्तदा प्रलयवेलायामलीनतयावशिष्यस्तस्मात्तस्यानिर्वाच्यत्वं भवेदिति ।
नच वाच्यं यद्यपि प्रलये परमात्मा विद्यत एव ।
तथापि तम आसीदित्यदिसन्निहितवाक्यात्तमो ऽविद्याख्यं बुद्धिसन्निहितमिति तदुपक्तायां बुद्धौ परिशेषप्रमाणमपि तमस एव
अनिर्वाच्यतामाधास्यतीति ।
आनीदवातमिति वाक्येन ब्रह्मणो ऽपि बुद्धिसन्निधानात् ।
सत्यं ज्ञानमिति तस्य सत्यत्वावगमादपवाद इति चेन्न ।
आसीदिति तमसो ऽपि सत्त्वावगमादपवादः स्यात् ।
सांव्यावहारिकं सत्त्वं तदिति चेत् ।
ब्रह्मणो ऽपि तथा किन्न स्यात् ।
किञ्चास्मिन्व्याख्याने तदानीमिति व्यर्थं सदा तमसो ऽनिर्वाच्यत्वात् ।
अन्यपरं वाक्यमिति चेत् ।
तथाप्यसन्नासीदिति व्यर्थमेव ।
प्राप्त्यभावात् ।
८,५३७
‘न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव ।
नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरन्ति ।
त इमे सत्याः कामा अनृता पिधाना’ इत्याद्यागमस्तर्ह्यज्ञानस्यानिर्वाच्यत्वे प्रमाणमित्यत आहनचेति ।
नचान्य आगमस्तत्र … । मनुव्_२,३.४३च् ।
न्यायसुधा-
तत्रानिर्वाच्ये ऽर्थे मानमिति शेषः ।
अन्यानृतशब्दाभ्यामनिर्वचनीयाज्ञानाभिधानात्कथं नेत्यतो ऽनिर्वाच्यत्वं निर्वक्तिसदसदिति ।
… सदसत्प्रतियोगिनि । मनुव्_२,३.४३द् ।
न्यायसुधा-
सदसती प्रतियोगिनी यस्य तत्तथोक्तम् ।
यन्न सन्नाप्यसत्तद्धयनिर्वाच्यम् ।
नचात्र तत्प्रतिपादकः शब्दो ऽस्ति ।
अनृतादिशब्दस्य त्वन्यथा व्याख्यानादिति ।
८,५३९
प्रत्यक्षं प्रतिक्षिपतिनचेति ।
न च प्रत्यक्षमात्रास्ति … । मनुव्_२,३.४४अ ।
न्यायसुधा-
नहीदमनिर्वाच्यमिति कश्चिल्लौकिकः परीक्षको वा चक्षुरादिनेक्षते ।
बाधोत्तरकालं मिथ्यैव रजतं प्रत्यभादित्यनुवादात्कथं नेक्षत इति चेन्न ।
मिथ्याशब्दस्यासदर्थत्वात् ।
८,५४१
अर्थापत्तिमपाकरोतिनचेति ।
… नचार्थापत्तिरिष्यते । मनुव्_२,३.४४ब् ।
न्यायसुधा-
अनुमानात्पृथक् प्रामाणिकैरिति शेषः ।
अनुमानं चाप्रसिद्धविशेषणतया निरस्तमिति भावः ।
किञ्च नास्त्यसावनुपपद्यमानो ऽर्थो येन कस्यचिदर्थस्यानिर्वाच्यतापत्तिः स्यात् ।
८,५४२
अथ मतम् ।
यदि वियदादिविश्वं वा शुक्तिरजतादिकं वा सत्स्यात्तदा न बाध्येत ।
सतो बाधायोगात् ।
नहि (संश्चिदात्मा) सन्नात्मा बाध्यते ।
यदि वासत्स्यात्तर्हि न प्रतीयेत ।
असतः प्रतीत्ययोगात् ।
नहि नरि शृङ्गं भाति गवीव ।
अतो बाधप्रतीत्योरनुपपत्त्यानिर्वाच्यत्वं गम्यत इत्यत आहबाधेति ।
बाधायोगात् सत इति … । मनुव्_२,३.४४च् ।
न्यायसुधा-
अर्थापत्तिर्नेष्यत इति वर्तते ।
एकदेशोत्कीर्तनेनोक्तं सर्वमुपात्तं वेदितव्यम् ।
सतो बाधायोगादित्याद्युक्तार्थापत्तिर्नानिर्वाच्यत्वं गमयितुमलमित्यथर्ः ।
वियदादेः सत्त्वे शुक्तिरजतादेश्चासत्त्वे ऽनुपपत्त्यभावादिति भावः ।
ननु यदि वियदादिकं सत्स्यात्तदा बाधो न स्यादित्युक्तमित्यत आहबाधाभावत इति ।
… बाधाभावत एव हि ।
इष्टापत्तिः … । मनुव्_२,३.४४द्ए ।
न्यायसुधा-
वियदादेर्विश्वस्य बाधाभावत एव, सत्त्वे बाधो न स्यादितीष्यापादनमेतत् ।
नेह नानास्तीति श्रौतनिषेधात्मा बाधो ऽस्तीति चेन्न ।
तस्य प्रा(ङ्निषि)गेव निषिद्धत्वात् ।
तदिदमाह हिशब्देन ।
अनेनाक्षेपकासिद्धिश्चोक्ता भवति ।
८,५४३
विमतं बाध्यं दृश्यत्वाद् भ्रान्तिवदिति वियदादौ बाधः प्रमित इत्यत आहनहति ।
… न हि भ्रान्तावपि बाधो ऽवगम्यते । मनुव्_२,३.४४एफ़् ।
न्यायसुधा-
तस्माद्दृष्टान्तः साध्यविकल इत्यर्थः ।
कथमिति चेत् ।
वक्तव्यं (हि क) तर्हि कस्य बाध सति ।
किं ज्ञानस्योत विषयस्य ।
नाद्यः ।
अधिष्ठानज्ञाननाश्यत्वलक्षणस्य पराभिमतस्य बाधस्य तत्र स्वभावभङ्गुरे ऽभावात् ।
अन्यथा प्रमितेरपि तत्प्रसङ्गात् ।
परमते ज्ञानस्य साक्षित्वेन विनाशायोगाच्च ।
द्वितीयं प्रतिषेधतिविषयस्येति ।
विषयस्य कुतो बाधो विद्यमानं हि बाध्यते । मनुव्_२,३.४५अब् ।
न्यायसुधा-
न कुतो ऽपीत्यर्थः ।
कुतो नेति चेत् ।
विषयः को ऽभिमतः किं शुक्त्यादिः किं वा रजतादिः ।
आद्ये हेतुमाहविद्यमानं हीति ।
नहि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते । मनुव्_२,३.४५च्द् ।
न्यायसुधा-
‘न हि भ्रान्तौ’ इत्यतो मण्डूकप्लुत्या नेत्यनुवर्तते ।
विद्यमानं यथार्थज्ञानोदयानन्तरमप्यनुवर्तमानं नहि बाध्यते ।
तथा सत्यात्मनो ऽपि बाधप्रसङ्गादिति भावः ।
द्वितीये (युक्तिमा)हेतुमाहविद्यमानं हीति ।
यत्पूर्वं विद्यमानं तदेव केनचिन्नाश्यते (नत्ववि)नाविद्यमान् ।
शुक्तिरजतादिकं चाविद्यमानमिति तस्य नाश्यत्वायोगात्तद्विषयो बाधः सुतरामयुक्त इति ।
असतो नाश्यत्वं नास्ति किन्तु विद्यमानस्यैवेत्यत्र दृष्टान्तावाहनहीति ।
अयमत्र प्रयोगः ।
शुक्तिरजतं न नाश्यमसत्त्वात् ।
यदसत्तन्न नाश्यं यथा वन्ध्यासुतः ।
यद्वा यन्नाश्यं न तदसद्यथा यज्ञदत्त इति ।
८,५४५
स्यादेतत् ।
बाधानभ्युपगमे लौकिकवैदिकव्यवहारविरोधो ऽपसिद्धान्तश्च स्यादित्यतः सर्वथाङ्गीकर्तव्ये बाधे तद्दृष्टान्तेन वियदादेरपि
बाधायोगात्सत्त्वानुपपत्तिरित्यत आहबाधेति ।
बाधायोगः सत इति व्याप्तिरेषा क्व दृश्यते । मनुव्_२,३.४६अब् ।
न्यायसुधा-
क्वेत्याक्षेपे ।
इदमुक्तं भवति ।
सत्यमङ्गीक्रियत एव बाधो ऽस्माभिः ।
किन्त्वन्यथाविज्ञातस्य सम्यग्विज्ञानगोचरत्वलक्षणः ।
स तु भ्रान्ताविव वियदादावप्यस्त्येव ।
क्षणिकत्वब्रह्मपरिणामत्वादिरूपेण विज्ञातस्य स्थायित्वादिरूपेणावगमात् ।
अधिष्ठानयाथात्म्यज्ञाननाश्यत्वस्यैव प्राङ्निरस्तत्वात् ।
तत्साधने सिद्धसाधनता स्यात् ।
नच तेन वियदादौ सत्त्वप्रतिक्षेपः सम्भवति ।
यत्सत्तन्न बाध्यत इति व्याप्तेरनवगतत्वात् ।
स (तो ऽप्या)त्यस्याप्यात्मनो ऽन्याकारेण विदितस्य सम्यग्विज्ञानगोचरत्वस्योभयसिद्धत्वात् ।
नचार्थापत्तेः पृथक् प्रमाणत्वे किं व्याप्त्येति वाच्यम् ।
नहि वयमनुपपद्यमानर्स्थस्योपपादकेनार्थेन व्याप्तेरभावं चोदयामः ।
किन्तु सत्त्वस्य बाधाभावेन बाधस्य वा सत्त्वाभावेन ।
नहि बाध एवानुपपद्यरमानो ऽर्थः ।
किन्तु प्रतीतत्वे सति बाधः ।
तस्य चान्यथानुपपत्तिं व्युत्पादयता सर्वथासत्त्वे बाधो न स्यादिति प्रसङ्गो वा बाधात्सन्न भवतीत्यनुमानं वा वाच्यम् ।
तदुभयं च व्याप्त्यपेक्षमेव ।
यदा तु प्रमाणद्वयविरोधो ऽर्थापत्तिस्तदा स्पष्ट एव व्याप्त्यभावो दोष इति ।
ननु बाधायोगादिति पञ्चमी किमर्था ।
उच्यते ।
सतो बाधायोगाद्बाध्यमानमिदं न सदित्यनुमाने व्याप्तिरेषा क्व दृश्यत इति व्याख्यायते ।
यद्वास्मदभिमतबाधाभ्युपगमे बाधायोगात्सत इत्यादिकं नोपपद्यत इति नञो ऽनुवृत्त्या व्याख्या ।
कुत इत्याशङ्कायां व्याप्तिरित्यादिकं व्याख्येयम् ।
८,५४८
एवं विनाशलक्षणं बाधं सिद्धवत्कृत्य शक्तिरजतादौ वियदादौ च बाधस्यासिद्धिरभिहिता ।
इदानीं तामेव विवरितुं बाधस्वरूपं परं पृच्छतिकश्चेति ।
कश्चायं बाध उद्दिष्टो … । मनुव्_२,३.४६च् ।
न्यायसुधा-
यो ऽयं वियदादेः शुक्तिरजतादेश्च सत्त्वाभावसिद्धयर्थं बाध उद्दिष्यो ऽयं कः ।
किं (वि)ज्ञानेन विनाशः किंवा निवृत्तिर्यद्वा नासीन्नास्ति न भविष्यतीति कालत्रयसत्तानिषेध इति भावः ।
ननु विनाशनिवृत्त्योः को भेदः ।
उच्यते ।
केचित्खलु मायावादिनो वदन्ति ।
अधिष्ठानयाथात्म्यज्ञानेन सविलासाविद्या विनश्यति ।
यावन्ति ज्ञानानि तावत्यो ह्यविद्या इति ।
तन्मतरीत्या विनाश इत्युक्तम् ।
अपरे त्वेकैकाविद्या तदवस्थाविशेषा एव रजताद्युपादानानि भवन्तीति मन्वाना अधिष्ठानतत्त्वज्ञानेन, सह कार्यैरविद्या तिरोधत्त इति ।
तत्समयानुसारेण निवृत्तिरिति ।
८,५४९
यद्वाविद्याया विद्यया विनाशो भवति ।
कार्यं तु रजतादिकमुपादानविनाशे स्वयमेव विलीयत इति परेषां मतम् ।
तदुभयानुसारेणेदं कल्पद्वयम् ।
अथवालौकिकरजतोत्पादवादिनां मतमनुसृत्य विनाश इति ।
मायावादिनां तु मतमनुरुद्धय निवृत्तिरिति ।
यदि वा, विनाश इति मायावादिनां मतम् ।
विवेकाग्रहात्प्रवृत्तस्य विवेकग्रहे सति निवृत्तिरिति प्राभाकरमतमिति ।
८,५५०
आद्यं दूषयतिनहीति ।
… नहि नाशो ऽसतो भवेत् । मनुव्_२,३.४६द् ।
न्यायसुधा-
असत इत्युपलक्षणम् ।
असदेव रजतं प्रत्यभादित्युत्तरानुभवबलादसदेव तावच्छुक्तिरजतम् ।
नचासतः शशविषाणवद्विनाशः सम्भवति ।
स्वरूपनिवृत्तिर्हि विनाशः ।
नचासतः स्वरूपमस्ति ।
व्याघातात् ।
नापि वियदादेर्विनाशः सम्भवति ।
नित्यत्वात् ।
घटादेरपि मुद्गराभिघातादिनैव विनाशो नाधिष्ठानतत्त्वज्ञानेनेति पूर्वोक्तं स्मारयितुमेतदुक्तमिति हिशब्दः ।
जोस्हि९
८,५५१
द्वितीयं निराकरोतिनिवृत्तिश्चेति ।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते । मनुव्_२,३.४६एफ़् ।
न्यायसुधा-
तिरोभावादिरूपा निवृत्तिः खल्वाविर्भावादिरूपप्रवृत्तिमतो भवेत् ।
सद्धर्मश्चाविर्भावः ।
शुक्तिरजतादिकं चासदित्युक्तम् ।
अतः अप्रवृत्तस्य तस्य निवृत्तिश्च कथमेवोपपद्यते ।
यद्वा अविद्याया प्रवृत्तस्य तदुपादानकस्य हि विद्यया निवृत्तिरुक्तरूपोपपद्यते ।
नच शक्तिरजतादिकमविद्योपादानकम् ।
असत्त्वात् ।
अतः अप्रवृत्तस्य निवृत्तिश्च कथमेवोपपद्यते ।
एतेन वियदादावपि बाधासिद्धिरुक्ता वेदितव्या ।
प्राभाकरं प्रति रजतार्थिताभावादिनाप्रवृत्तस्य पुरुषस्य निवृत्तिर्नोपपद्यत इति तत्राव्याप्तेर्नेदं बाधलक्षणमिति व्याख्येयम् ।
८,५५२
तृतीयं दूषयितुमनुवदतिनासीदिति ।
नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।
यदि बाधस् … । मनुव्_२,३.४७अच् ।
न्यायसुधा-
यदेतावन्तं कालं प्रत्यभात्तन्नासीन्नास्ति न भविष्यतीति त्रैकालिकसत्त्वनिषेधरूपज्ञानविषयता (यदि) बाध इत्यर्थः ।
यद्यप्येवंविधं ज्ञानं बाध इति वक्तव्यं तथापि तस्य रजतादिसम्बन्धिताज्ञापनार्थं ज्ञानमेयतेत्युक्तम् ।
दूषयतितदेति ।
८,५५३
… तदासत्त्वं तेनैवाङ्गीकृतं पुनः । मनुव्_२,३.४७च्द् ।
न्यायसुधा-
यद्येवं त्रैकालिकसत्त्वनिषेधलक्षणो बाधो वियदादेः शुक्तिरजतादेश्चाङ्गीक्रियते ।
तदा असद्वैलक्षण्यमुररीकुर्वता तेनैव पुनरसत्त्वमङ्गीकृतं स्यात् ।
सत्ताविरहव्यतिरेकेण शशविषाणादीनामप्यसत्त्वस्यानिरूपणात् ।
अपसिद्धान्तप्रसङ्गान्नायं बाधः परेणाङ्गीकर्तुं शक्यत इत्याशयः ।
असिद्धश्चायं बाधो वियदादाविति प्रागेवोक्तम् ।
(ननु) यदुक्तं शुक्तिरजतादेरसत्त्वान्न विनाशादिलक्षणो बाधः सम्भवतीति ।
तद(सत्)सिद्धम् ।
विमतं नासत् प्रतीयमानत्वात्, यत्प्रतीयते तन्नासद्यथा पटः, यच्चासन्न तत्प्रतीयते यथा शशविषाणमिति प्रमाणेनासत्त्वविरहस्य निश्चितत्वात् ।
अत एवासत्त्वे ऽनुपपत्त्यभावादर्थापत्तेरन्यथैवोपपत्तिरित्यपि प्रत्युक्तम् ।
प्रतीतेरेवानुपपत्तेः ।
यच्चोक्तं त्रैकालिकसत्त्वनिषेधे ऽसत्त्वाङ्गीकारप्रसङ्ग इति तदप्यसत् ।
प्रतीतत्वेनासत्त्वानुपपत्तौ निषेधस्य सत्त्वोत्सारणमात्र एव पर्यवसानोपपत्तेः ।
यदप्यत्रोक्तं सत्ताविरहव्यतिरेकेणासत्त्वं नाम दुर्निरूपमिति, तच्चायुक्तम् ।
निरुपाख्यत्वमसत्त्वमिति निरूपणात् इति चेन्न ।
असतः प्रतीत्यभावे खल्विदं सर्वं स्यात् ।
नचैवम् ।
असतः प्रतीतिं निराकुर्वता त्वयैव तस्या अङ्गीकार्यत्वादित्याशयवानाहप्रतीतिरिति ।
प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् । मनुव्_२,३.४८अब् ।
न्यायसुधा-
वदन्नित्युपलक्षणम् ।
जानन्नित्यपि द्रष्टव्यम् ।
असतः प्रतीतिर्नास्तीति निषेधं कुर्वता कुतो ऽसतः प्रतीतिरङ्गीकार्येत्यत आहनिषेधो हीति ।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते । मनुव्_२,३.४८च्द् ।
८,५५३फ़्.
न्यायसुधा-
प्रतीतिर्नासत इति किमसतः प्रतीतिर्निषिध्यते किंवा प्रतीतेरसद्विषयत्वम् ।
आद्ये प्रतिषेधविषयतया, द्वितीये प्रतिषेध्यनिविष्यतयावश्यमसतः प्रतीतिरङ्गीकरणीया ।
तस्मात्कथञ्चिदुक्तप्रकारद्वयेनाप्रतीतस्य सम्बन्धी निषेधो नोपपद्यते ।
न ह्यप्रतीते भूतले घटे वा भूतले घटो नास्तीति प्रतिषेधो दृष्टः ।
तदनेन विमतो ऽसत्प्रतीतिमांस्तत्सम्बन्धिनिषेधकर्तृत्वात्तद्वयवहर्तृत्वाद्वा सम्मतवदिति प्रमाणं सूचितं भवति ।
अवश्यं च प्रामाणिकं परीक्षकेणाभ्युपगन्तव्यम् ।
मनस्यभ्युपगमो वाचि निषेध इति स्वक्रियाविरोधो वानेन सूचित इति ।
८,५५५
एवमर्थापत्तिं निरस्योपमानं च निरस्यतिनचेति ।
न चोपमा भवेदत्र … । मनुव्_२,३.४९अ ।
न्यायसुधा-
अत्र अनिर्वचनीयार्थसद्भावे ।
प्रमाणमिति शेषः ।
तस्याः सादृश्यादिनियतविषयत्वादिति भावः ।
अभावमपाकरोति प्रत्यक्षदिति
… प्रत्यक्षात् सत्त्वमेव च । मनुव्_२,३.४९ब् ।
न्यायसुधा-
वियदादौ शुक्तिरजतादौ वा प्रत्यक्षेणानुपलम्भेन वा सत्त्वासत्त्वयोरभावसिद्धावनिर्वचनीयार्थसिद्धिरिति वक्तव्यम् ।
नच तद्युक्तम् ।
यतो वियदादौ प्रत्यक्षात्सत्त्वमेव निश्चीयते ।
चशब्दाच्छुक्तिरजतादावसत्त्वं च निश्चीयत इति गृह्यते ।
प्रत्यक्षं विपरीतमनुपलम्भश्चासिद्ध इत्यर्थः ।
८,५५६
एवमनुमानादीनां प्रत्येकं दूषणमभिधाय साधारणं दूषणमाहप्रत्यक्षादिति ।
प्रत्यक्षेण गगनादौ सत्त्वमेव शुक्तिरजतादौ त्वसत्त्वमेव निश्चीयते ।
सद्गगनम्, अस्ति मे ऽज्ञानम्, असदेव रजतं प्रत्यभादिति सर्वलोकसाक्षिणः साक्षात्कारिप्रत्यक्षस्य दुरपह्नवत्वात् ।
अतस्तदनिर्वाच्यतायामाशङ्कयमानान्यनुमानादीनि प्रत्यक्षापहृतविषयाणीति’नोभयं चेन्न सिद्धं तत्’ इति युक्तम् ।
यद्वा जीवेश्वरयोर्भेदो मिथ्या भेदत्वादित्याद्यनुमानस्य दूषणान्तरमाहप्रत्यक्षादिति ।
जीवेश्वरभेदस्यावधार्यत इति शेषः ।
ततः प्रत्यक्षविरुद्धत्वेन कालात्ययापदिष्टत्वं जीवेश्वरभेदमिथ्यात्वादिसाधकानुमानस्येति भावः ।
८,५५७
स्यादेतत् ।
ईश्वरस्तावन्न प्रत्यक्षसिद्धः ।
शास्त्रयोनित्वस्याभ्युपगतत्वात् ।
नापि सर्वे जीवाः ।
परात्मनां परात्मानं प्रति प्रत्यक्षत्वस्यानभ्युपगमात् ।
नचाप्रत्यक्षवस्तुभेदः प्रत्यक्षसिद्धो दूरे तत्सत्यत्वमित्यत आहशास्त्रेति ।
शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते । मनुव्_२,३.४९च्द् ।
न्यायसुधा-
ईयते प्रत्यक्षेणेति शेषः ।
उक्तं तावन्नैक एव भेदो ऽनेकत्र व्यासज्य वर्तते किन्त्वेकप्रतियोगिको ऽपरधर्मिक इति ।
तत्प्रत्यक्षतायां च धर्मिण एव प्रत्यक्षतोपयुज्यते ।
प्रतियोगिनस्त्ववगममात्रं, तथा लोके दर्शनात् ।
तत्रेश्वरस्यात्मान्तराणां चाप्रत्यक्षत्वेन तद्धर्मिकस्य भेदस्य प्रत्यक्षेण ज्ञातुमशक्यत्वे ऽपि परमेश्वरप्रतियोगिकः स्वात्मधर्मिको भेदः प्रत्यक्षेण
ज्ञातुं शक्यत एव ।
स्वात्मनः प्रत्यक्षत्वात् ।
परेशानस्य च शास्त्रेणावगतत्वात् ।
यस्तु शास्त्रेणेश्वरं न जानाति तेन मा विमायि तत्प्रतियोगिकः स्वात्मनो भेदः ।
शास्त्राद्विदितेश्वरस्यैव प्रत्यक्षं ततः स्वात्मनो भेदे प्रमाणमुक्तमिति ।
तथापि कथमनुमानस्य कालात्ययापदिष्टत्वं भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादित्यत आहअनुभूतीति ।
८,५५९
ततापि कथमनुमानस्य कालात्ययापदिष्टत्वं भेदग्राहकस्य प्रत्यक्षस्य प्राबल्यानिरूपणादित्यत आह अनुभूतीति ।
अनुभूतिविरोधेन कथमेकत्वमुच्यते । मनुव्_२,३.५०अब् ।
न्यायसुधा-
अत्रानुभूतिशब्देन साक्षी गृह्यते ।
उच्यते अनुमीयते ।
परार्थानुमानप्रयोगस्य वचनात्मकत्वादुच्यत इत्युक्तम् ।
अनुमानेनेत्यध्याहारो वा ।
एतदुक्तं भवति ।
साक्षिप्रत्यक्षं खलु स्वात्मनः परमात्मभेदग्राहकमिष्यम् ।
तच्चानुमानतः प्रबलमेव ।
तत्स्वरूपप्रामाण्ययोर्धर्मिकोटिनिविष्यस्य जीवस्य च ग्राहकत्वेनोपजीव्यत्वात् ।
अतस्तद्विरोधेन कारणेन जीवब्रह्मणोरेकत्वं नानुमातुं शक्यत इति ।
अस्तु साक्षिप्रत्यक्षमनुमानात्प्रबलं तस्येश्वरात्स्वात्मनो भेदग्राहकत्वं तु कुतो निश्चितं येनानुमानं बाधितविषयं स्यादित्यत आहकिञ्चिदिति ।
किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते । मनुव्_२,३.५०च्द् ।
सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः । मनुव्_२,३.५१अब् ।
८,५५९फ़्.
न्यायसुधा-
उपलक्षणमेतत् ।
अल्पज्ञो ऽल्पशक्तिश्चेत्यपि पूर्वार्धे ग्राह्यम् ।
तथा सर्वकर्ता निर्दुःख इत्यपरार्धे ।
अनुभूयते स्वात्मेति शेषः ।
श्रुतः’यः सर्वज्ञःऽ,’परास्य शक्तिःऽ,’स हि सर्वस्य कर्ताऽ,’निरनिष्यः’ इत्यादाविति शेषः ।
अयमभिसन्धिः ।
यो हि यमर्थमव(धि)गम्य तद्विरुद्धधर्माणं यमध्यक्षीकरोति स तस्मात्तस्य भेदं प्रत्यक्षतः पश्यत्येवेति सर्वसाक्षिकम् ।
यद्यपि भेदः प्रत्यक्षसिद्धस्तथापि प्रतियोगिनो वैधर्म्यदशर्नं प्रत्यक्षसाचिव्यमाचरतीति न दोषः ।
दृष्टं हि रत्नतत्त्वसाक्षात्कारे शास्त्रीयलक्षणज्ञानस्य साचिव्यम् ।
तदिहापि शास्त्रावगतसार्वज्ञादिमदीश्वरः पुरुषः स्वात्मनं तद्विरुद्धाल्पज्ञत्वादिधर्मवन्तं साक्षिणानुभवंस्ततः स्वात्मनो भेदं कथं
नाध्यक्षीकुर्यादिति ।
अस्त्वेकस्य जीवस्येश्वराद्भेदः साक्षिसिद्धः ।
तथापि तं विहायान्यत्रेश्वराभेदानुमाने न प्रत्यक्षबाध इत्यत उक्तम्सर्वैरेवेति ।
एकप्रत्यक्षबाधाभावे ऽपि तत्तत्प्रत्यक्षबाधो दुष्परिहर इति भावः ।
८,५६०
ननु जीवं पक्षीकृत्येश्वराभेदसाधने भवेदेयं प्रत्यक्षविरोधः ।
नचैवमनुमीयते ।
किन्त्वीश्वरं पक्षीकृत्य जीवाभेद इत्यत आहअनुभूताद्धीति ।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम् । मनुव्_२,३.५१च्द् ।
८,५६०फ़्.
न्यायसुधा-
ईश्वरं पक्षीकुर्वता हि तत्सिद्धिरवश्यं वक्तव्या ।
नच प्रत्यक्षादिना स सिद्धयतीति श्रुतिरेव तद्ग्राहिका ग्राह्या ।
एषा(हि) च धर्मिप्रमाणभूता’यः सर्वज्ञः’ सत्यादिका श्रुतिः अनुमीश्वरमल्पज्ञत्वादिनानुभूताज्जीवाद्भेदेनवदति ।
तस्मात्प्रत्यक्षबाधाभावे ऽप्युपजीव्यश्रुतिविरोधेन कालात्ययापदिष्यता दुष्परिहरैव ।
सदावगताल्पज्ञत्वादिमञ्जीरस्वरूपं प्रति सार्वज्ञादिमदीश्वरस्वरूपं प्रतिपादयन्ती श्रुतिस्ततस्तं भिन्नमेव प्रतिपादयति ।
अनुभवस्यापलपितुमशक्यत्वात् ।
अनेनैवोभयपक्षीकारो ऽपि परास्तः ।
उपजीव्यप्रत्यक्षश्रुतिबाधितत्वादिति ।
८,५६१
एवमनुमानं निराकृत्येदानीं तद्यो ऽहमित्यादिश्रुतिं निराकरोतिउपजीव्येति ।
उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् । मनुव्_२,३.५२अब् ।
न्यायसुधा-
तुशब्दो विशेषार्थः ।
दुष्यं ह्यनुमानमप्रा(णमेव भ)णं भवति ।
श्रुतेस्तु प्रतीतार्थप्रच्यावनमात्रमिति ।
ऐक्यं जीवेश्वरयोः ।
श्रुत्या हि यदि जीवमनूद्य तस्येश्वरैक्यं बोध्यते तदा जीवग्राहकं साक्षिप्रत्यक्षमुपजीव्यं स्यात् ।
तच्च भेदग्राहकमित्युक्तमित्युपजीव्यविरोधः ।
यदि चेश्वरानुवादेन तस्य जीवाभेदो विधीयते तदा यः सर्वज्ञ इत्यादिकं श्रुत्यन्तरमेवोपजीव्यं भवेत् ।
तच्च भेदग्राहकमित्युक्तत्वादुपजीव्यविरोध एव ।
यदि चोभयानुवादेनाभेदमात्रबोध्यं तदोभयमुपजीव्यमित्युपजीव्यप्रमाणविरोधः स्फुट एव ।
यद्यप्येतत्सर्वं प्रथमसूत्र एवोक्तम् ।
तथापि प्रपञ्चनार्थं पुनरारभ्यत इत्यदोषः ।
८,५६२
ननूपजीव्यविरोधेनोपजीवकं बाध्यत इत्यत्र किं नियामकम् ।
येन प्रत्यक्षागमविरोधादनुमानागमयोरप्रामाण्यमुक्तम् ।
उच्यते ।
इह हि भेदाभेदविषयोरुपजीव्योपजीवकयोरुभयोरपि प्रामाण्यमेव वाप्रामाण्यमेव वा ।
एकस्य प्रामाण्यमपरस्याप्रामाण्यं वा ।
तत्राप्युपजीवकस्य प्रामाण्यमुपजीव्यस्याप्रामाण्यं वा ।
उपजीव्यस्य प्रामाण्यमुपजीवकस्याप्रामाण्यमिति पक्षाः सम्भवति ।
तत्र न तावत्प्रथमः ।
विरुद्धयोः प्रामाण्यानुपपत्तेः ।
उपपत्तौ वा वस्तुनो द्वरूप्यापत्तेः ।
भ्रान्तिबाधव्यवस्थाभावप्रसङ्गाच्च ।
नच भेदाभेदाभ्यामुपपत्तिः ।
निराकरिष्यमाणत्वात् ।
असार्वत्रिकत्वाच्च ।
नचानैकान्तवादेन निस्तारः ।
द्वयोरपि सावधारणत्वासम्भवात् ।
नापि द्वितीयः वस्तुनो निस्स्वभावत्वापत्तेः ।
नचानिर्वाच्यतास्वीकारेण निर्वाहः ।
ब्रह्मण्यपि सम्भवादिति पक्षद्वयमतिस्फुटदोषत्वादनिराकृत्य तृतीयं दूषयतिअप्रामाण्यमिति ।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति । मनुव्_२,३.५२च्द् ।
स एव धर्मिणो ग्राही तदभेदः कथं भवेत् । मनुव्_२,३.५३अब् ।
न्यायसुधा-
भेदवाचकस्यागमस्येत्युपलक्षणम् ।
भेदग्राहिणः प्रत्यक्षस्येत्यपि द्रष्टव्यम् ।
एवं तदा स एवेत्यत्रापि व्याख्यातत्वात् ।
धर्मिणो जीवस्येश्वरस्य च ।
इतिशब्दो ऽध्याहार्यः ।
कथं बोध्य इति शेषः ।
इदमुक्तं भवति ।
यद्यज्ञानादिविशिष्यस्य जीवस्य सार्वज्ञादिविशिष्यस्य परमात्मनो ग्राहकं प्रत्यक्षमागमवाक्यं वाप्रामाण्यं स्यात् ।
तदा जीवेश्वरयोरसिद्धौ तत्त्वमस्याद्यागमैरनुमानैश्च तदभेदबोधनं न स्यात् ।
निर्विषयत्वात् ।
तथाच कस्य विरोधात्प्रत्यक्षादेरप्रामाण्यं स्यात् ।
ज्ञापकश्चायमर्थो न कारकः ।
अखण्डार्थबोधनमपि लौकिकवाक्यन्यायमनुसृत्य पश्चाल्लक्षणया परेणाभ्युपगतम् ।
न पुनरेवमेव ।
अलौकिकप्रकारस्य बोधानङ्गत्वात् ।
तस्मादुपजीवकविरोधेनोपजीव्यस्याप्रामाण्यायोगात्परिशेषतश्चतुर्थप्रकार एव च सिद्धयतीति ।
८,५६७फ़्.
भवेदेवोपजीवकादुपजीव्यं बलवत्तद्विरोधे चोपजीवकस्याप्रामाण्यम् ।
किन्नामास्ति तत्र विशेषः ।
अनेकप्रकारो ह्युपजीव्योपजीवकभावः ।
क्वचिद्धर्मिग्राहक(तयेति)त्वेन ।
क्वचित्साध्यग्राहकतया ।
क्वचित्तद्ग्रहणोपयुक्ततया ।
क्वापि स्वरूपग्रहणेन ।
कुत्रचित्प्रामाण्योपपादनेन ।
क्वचिद्वयाप्त्याद्यङ्गप्रतिपादकत्वेनेति ।
तत्र सर्वत्रोपजीव्यविरुद्धमुपजीवकं बाध्यत एव ।
आश्रयादिहीनस्योत्थानविरहापत्तेः ।
यत्र पुनः प्रतिषेधकस्योपजीवकस्य प्रतिषेध्यसमर्पकमुपजीव्यं भवति ।
तदा नायं न्यायः ।
चोपजीवकेनैवोपजीव्यस्य बाधः ।
निषेधार्थमेव तेन तदुपजीवनात् ।
दृष्टं हीदं रजतमिति ज्ञानस्य नेदं रजतमिति ज्ञानेन बाध्यत्वात् ।
तदिहापि यदुक्तमभेदप्रमाणयोरनुमानागमयोरुपजीव्याभ्यां प्रत्यक्षागमाभ्यां विरोधादप्रामाण्यमिति तदयुक्तम् ।
प्रत्यक्षागमयोरनुमानागमौ प्रति निषेध्यसमर्पकतयोपजीव्यत्वात् ।
भेदनिषेधो हि न तत्प्राप्तिं सम्भवति ।
तेनात्रोपजीवकविरोधिनोरुपजीव्ययोः प्रत्यक्षागमयोरेवाप्रामाण्यमुचितमित्यतो यः सर्वज्ञ इत्यादेरागमस्य
तावदप्रामाण्यमपाकरोतिअप्रामाण्यमिति ।
८,५६८
भेदवाचकस्य भेदकसार्वज्ञादिविशिष्यपरमात्मप्रतिपादकस्यागमस्य ।
एतदुक्तं भवति ।
समुत्थानवता खल्वनुमानेनागमेन वा विरोधिना यः सर्वज्ञ इत्याद्यागमस्याप्रामाण्यस्येष्यव्यम् ।
अस्याप्रामाण्ये त्वनुमानादेरुत्थानमेव दुर्लभम् ।
दूरे तद्बाधनम् ।
परमात्मलक्षणस्य धर्मिणस्तदेकगम्यत्वात् ।
निराश्रयस्यानुमानादेः प्रवृत्त्यनुपपत्तिरिति ।
नन्वेवं तर्हि नेदं रजतमिति ज्ञानविरोधेन इदं रजतमित ज्ञानस्याप्रामाण्यं न स्यात् ।
न न स्यात् ।
नहि नेदं रजतमिति ज्ञानं
रजताविशिष्यं वस्तु धर्मीकृत्योत्पद्यते किन्तु स्वरूपमात्रम् ।
सर्वमपि हि, ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्ययः (धर्मिण्यभ्रान्तमखिलं ज्ञानमिच्छन्ति वादिनः ।
विपर्ययं प्रकारे तु वदन्ति रजतादिके’ इति सायणशिक्षाभाष्ये वार्तिकसारवचनम् ।
अत्रापि तृतीयाध्याये चतुथर्पादे’तथान्येप्याहुः सर्वं ज्ञानं धर्मिणि प्रमाणं प्रकारे तु विपर्यय इति) ।
तदत्रापीदं रजतमिति ज्ञानमिदमंशे प्रमाणमिति तत्सिद्धमिदमाकारमाश्रित्य प्रवृत्तेन बाधकप्रत्ययेन विरोधाद्रजतांशे पूर्वज्ञानस्याप्रामाण्यं
युज्यत एव ।
८,५७०
नन्वनेनैव न्यायेनाभेदानुमानागमविरोधेन यः सर्वज्ञ इत्यादिश्रुतेरप्रामाण्यं शक्योपपादनम् ।
इयमपि श्रुतिर्ब्रह्मस्वरूपमात्रे प्रमाणमिति तन्मात्रमुपजीव्यानुमानागमाभ्यां सार्वज्ञादिभेदकधर्मवैशिष्ययांशे ऽप्रमाणीकरिष्यते ।
तथाच यद्धर्मिग्राहकं न तद्विरोधो ऽनुमानादेः ।
यच्च विरोधि न तद्धर्मिप्रमारमित्यत आहयदिति ।
यत् स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत् । मनुव्_२,३.५३च्द् ।
न्यायसुधा-
यच्छतिवाक्यं ब्रह्मस्वरूपग्रहणार्थं मानमङ्गीक्रियते ।
तद्धर्मे सार्वज्ञादिधर्मवैशिष्ययाकारे कथं न मानं भवेत् ।
८,५७०फ़्.
अयमभिसन्धिः ।
शुक्तिरजतादिज्ञानं हीदमंशे प्रमाणं रजतवैशिष्ययांशे त्वप्रमाणमिति युक्तम् ।
वैशिष्ययांशस्य बाधकप्रमाणविरुद्धत्वात् ।
इदमाकारस्योत्तरत्राप्यनुवृत्तेः ।
इदं न रजतमिति बाधकज्ञानमुत्पद्यते न पुनर्नेदं रजतं चेति ।
नचायमत्र न्यायः ।
स्वरूपवद्विशिष्यांशे ऽपि बाधकाभावात् ।
नचाभेदानुमानागमौ बाधकौ ।
अन्योन्याश्रयत्वात् ।
बाधितत्वेन श्रुतेरप्रामाण्ये सत्युपजीव्यविरोधरहितस्यानुमानादेर्बाधकत्वं सति च तस्मिंस्तद्विरोधिन्याः श्रुतेरप्रामाण्यमिति ।
कथं चानुमानादेः श्रुतिबाधकत्वम् ।
नतावद्विरोधित्वमात्रेण ।
वैपरीत्यस्यापि सुवचत्वात् ।
नापि विरोध्युत्तरज्ञानत्वेन शुक्तिरूप्यमिति ज्ञानानन्तरं रजतमिदमिति ज्ञानस्य दर्शनात् ।
अनुत्तरविरोधिज्ञानं बाधकमिदं तु सोत्तरमित्यपि न ।
कदाचिदनुत्तरस्यापि रजतज्ञानस्य सम्भवात् ।
किन्तु यावच्छक्ति परीक्षितमुत्तरं विरोध्यपरीक्षितस्य पूर्वस्य बाधकं भवति ।
नचैवमत्रास्तीति ।
८,५७२
न केवलं बाधकाभावसाम्यादयं विभागो न युक्तः किं तर्हीत्यत आहएकेति ।
एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।
न चेदेकममानं तद् द्वयमप्यत्र नो भवेत् । मनुव्_२,३.५४ ।
न्यायसुधा-
एकविधमेवेदं यः सर्वज्ञ इत्यादिश्रुतिजनितं विज्ञानं, न पुनः शुक्तिरजतादिज्ञानमिव स्वरूपमात्रे प्रमाणं विशिष्याकारे
त्वप्रमाणमित्यनेकविधमित्येवं परीक्षासहकृतसाक्षिरूपविज्ञप्त्यापीदं ज्ञानद्वयं धर्मधर्मिद्वयगर्भं विशिष्याकारं प्रत्यपि मानं भवत्येव ।
वक्ष्यते चायमर्थः प्रपञ्चेन ।
यद्वा द्वयं प्रतीतिद्वयं स्वरूपवद्धर्मे ऽपीति योज्यम् ।
८,५७३फ़्.
अथवा यः सर्वज्ञ इत्यादिश्रुतेर्ब्रह्मस्वरूपमात्रे प्रामाण्यमप्रामाण्यं तु सार्वज्ञादिविशिष्याकार इति वदतः को ऽभिप्रायः ।
किं शुक्तिरजतादिज्ञानमिवैकमेवेदं ज्ञानं विषयभेदेन प्रमाणमप्रमाणं चेति ।
किंवा ज्ञानद्वयमेतत् तत्रैकं प्रमाणमपरं चाप्रमाणमिति ।
आद्यं दूषयतियदिति ।
पूर्व एवाभिप्रायः ।
द्वितीयं निराकरोतिएकेति ।
एकमेवेदं विज्ञानमिति साक्षिविज्ञप्त्या नानेकत्वं कल्प्यमिति शेषः ।
अन्यथा स्तम्भो ऽयमित्यादावपि ज्ञानद्वयकल्पनापत्तिः ।
तथाच सामानाधिकरण्यं न केनापि ज्ञायेत ।
८,५७४
अस्तु वेदं ज्ञानद्वयं तथापि नैकस्याप्रामाण्यं वक्तुं शक्यते ।
स्वरूपज्ञानस्येव धर्मज्ञानस्याप्यबाधितत्वादित्याहद्वयमिति ।
ज्ञानद्वयमपीत्यर्थः ।
धर्मज्ञानमपीति(च) वक्तव्ये द्वयमिति वचनं न्यायसाम्यसूचनार्थम् ।
एवं बाधाभावपरीक्षितत्वसाम्ये ऽपि श्रौतमेकं ज्ञानद्वयं वाङ्गीकृत्यांशतः प्रामाण्यप्रामाण्ये वदतो ऽतिप्रसङ्गमाहनचेदिति ।
तच्छ्रौतं ज्ञानं द्वयं विशिष्याकारं प्रति प्रमाणं न चेत्तदात्र विषये एकं स्वरूपांशं प्रत्यपि प्रमाणं न भवेत् ।
अविशेषात् ।
तथाच पुनरनाश्रययोरनुमानागामयोरनुत्थानमेव ।
यद्वा तद्विज्ञानमत्र विषये एकं विशिष्याकारं प्रति प्रमाणं चेत्तदा द्वयं प्रत्यपि नो भवेत् ।
विशिष्याकारवत्स्वरूपे ऽपि प्रमाणं न भवेत् ।
अविशेषादिति यावत् ।
ज्ञानद्वयाङ्गीकारवादे त्वत्र ज्ञानद्वये तद्विशिष्यविषयं ज्ञानं प्रमाणं न चेत्तर्हि ज्ञानद्वयमपि प्रमाणं न भवेत् ।
विशिष्यज्ञानमिव स्वरूपज्ञानमप्यप्रमाणं स्यादविशेषादिति ।
८,५७५
एवमभेदानुमानागमौ प्रति यः सर्वज्ञ इति श्रुतेर्निषेध्यसमर्पकत्वेनोपजीव्यत्वं प्रत्युक्तम् ।
तथापि नानुमानागमयोरुपजीव्यप्रमाणविरोधो ऽस्ति ।
यः सर्वज्ञ इत्यादिश्रुतिसिद्धब्रह्मस्वरूपमात्राश्रयणेन प्रवृत्तत्वात् ।
नहि सार्वज्ञादिविशिष्याकारमवलम्ब्यानुमानादिना प्रवर्तितव्यमित्यत्र नियामकमस्ति ।
ततो विरुद्धाकारस्यानुपयोगितयानुपजीवनादुपजीव्यस्य च स्वरूपमात्रस्याविरोधित्वान्नोपजीव्यप्रमाणविरोधो ऽनुमानादेः प्रमाणविरोधस्तु
कथञ्चित्स्यादित्याशङ्कां परिहरन्नुपसंहरतिधर्मीति ।
धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् । मनुव्_२,३.५५अब् ।
न्यायसुधा-
तुशब्दो विशेषार्थः, प्रमाणमात्रविरोधाद्वयवच्छिनत्ति ।
धर्मिग्राहिण्या श्रुत्या विरोधः ।
मानस्य अभेदप्रमाणस्यानुमानागमरूपस्य ।
अयमाशयः ।
परमाणवः सावयवा इत्यादेरनुमानस्य वाक्यस्य च कथमुपजीव्यविरोधः इति वक्तव्यम् ।
परमाणुत्वस्यानुपयोगिनो ऽनुपजीव्यत्वं किन्तु स्वरूपमात्रस्येति वक्तुं शक्यत्वात् ।
नैवं युक्तम् ।
निरवयत्वादिना विना परमाणोर्धर्मीकरणासम्भवात् ।
स्वरूपमात्रधर्मीकरणे सिद्धार्थतापत्तिरिति चेत् ।
समं प्रकृते ऽपि ।
नहि ब्रह्मापि सार्वज्ञादिना विना शक्यं धर्मीकर्तुम् ।
स्वरूपमात्रधर्मीकरणे सिद्धसाधनात् ।
आरोपितेन सार्वज्ञादिना व्यावृत्तस्य धर्मीकरणे को दोषः ।
यो ऽयं स्थाणुः स पुरुष इतिवदिति चेन्न ।
आरोपितेन निरवयवत्वादिना व्यावृत्तस्य तत्रापि धर्मीकरणसम्भवात् ।
निरवयवत्वादिग्राहकं प्रमाणतयावधृतम् ।
नारोपितं इति चेत् ।
तुल्यमत्रापि ।
श्रुतेरपि प्रामाण्यनिश्चयात् ।
तदेवं प्रमाणसिद्धेन निरवयवत्वादिना विशिष्यस्यैव यथा धर्मीकरणं तथात्रापि सावर्ज्ञादिना पारमार्थिकेनैव विशिष्यस्यैव धर्मीकरणमित्यतो
धर्मिग्राहकविरोधो दुष्परिहर इति ।
८,५७६फ़्.
स्यादेतत् ।
यथा खल्वभेदप्रमाणयोरनुमानागमयोरुपजीव्यविरोधान्नाभेदसाधकत्वं तथोदाहृताया भिन्नो ऽचिन्त्य इत्यादिभेदश्रुतेरप्युपजीव्यविरोधान्न
भेदसाधकत्वं सम्भवति ।
तादात्म्यप्रतियोगिकः प्रतिषेधो हि भेदो नाम ।
नचाप्राप्ते तादात्म्ये तत्प्रतिषेधबोधनं युक्तमित्यभेदप्रापकं प्रमाणमुपजीव्य प्रवृत्ता भेदश्रुतिः कथं नोपजीव्यविरुद्धा ।
किञ्च निर्भेदं स्वरूपमाश्रित्य तस्य भेदो बोधनीयः ।
तथाच कथं नोपजीव्यविरोधः ।
यथोक्तम्’अभेदं नोल्लिखन्ती धीर्न भेदोल्लेखनक्षमा ।
तथाचाद्ये प्रमा सा स्यान्नान्त्ये स्वापेक्ष्यवैशसात्’ इत्यत आहनेति ।
८,५७७
नोपजीव्यो ह्यभेदो ऽत्र क्वचिद् भेदश्रुतेर्बलात् । मनुव्_२,३.५५च्द् ।
न्यायसुधा-
हिशब्दो युक्तिसूचकः ।
अभेद इति तद्ग्राहकम् ।
अत्र क्वचिदिति ।
धर्मित्वादावित्यर्थः ।
तदयमर्थः ।
भेदश्रुतेर्हि न धर्मिसमर्पकत्वेनाभेदज्ञानोपजीवकत्वं तावत् ।
जीवेश्वरस्वरूपस्यैव धर्मित्वात् ।
नापि स्वरूपप्रामाण्यग्राहकत्वेन ।
प्रत्यक्षेणैव तत्सिद्धेः ।
अतो निषेध्यप्रापकतयैवेति वक्तव्यम् ।
नच तद्विरोधो ऽप्रामाण्यमावहति ।
निषेधशास्त्रापलापप्रसङ्गात् ।
नच प्रमाणप्राप्तस्यायं प्रतिषेधः ।
किन्तु तत्त्वमस्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तस्यैव ।
यदपि निर्भेदं स्वरूपमादाय भेदो बोद्धव्य इति तत्रापि न ययोर्भेदो बोधनीयस्तयोरभेद आश्रयणीयः ।
किन्तु स्वगतभेदं वस्तु धर्मितयोपादाय तस्यान्ततो भेदो बोध्यते ।
अतो जीवेशभेदश्रुतेस्तदभेदोपजीवनाभावादनपेक्षत्वलक्षणाद्बलाद्युक्तं भेदसाधकत्वमिति शेषः ।
८,५८१
किञ्च तिष्ठतु तावद्यः सर्वज्ञ इत्यादिश्रुतेरुपजीव्यत्वम् ।
तथाप्यभेदानुमानागमबाधकत्वं भवेदेव ।
इयं खलु श्रुतिः सार्वज्ञादिविशिष्यमीश्वरं प्रतिपादयन्ती न किञ्चिदपेक्षते ।
अनुमानागमौ तु सापेक्षौ ।
सापेक्षनिरपेक्षयोश्च निरपेक्षस्य प्राबल्यादित्याशयवानाहनोपजीव्यो हीति ।
अत्र भेदाभेदप्रमाणयोर्मध्ये ।
भेदश्रुतेः भेदकधर्मविशिष्यधर्मिश्रुतेः ।
अभेद इत्यभेदप्रमाणम् ।
अनपेक्षत्वोपलक्षणमेतत् ।
अतो बलादभेदप्रमाणबाधकत्वमिति शेषः ।
८,५८२
स्यादेतत् ।
यः सर्वज्ञ इत्यादिश्रुतिर्न जीवभेदकधर्मविशिष्यं ब्रह्म प्रतिपादयति ।
किन्त्वनुवदत्येव ।
अतो नानुमानादेस्तद्बाध इत्यत आहनचेति ।
न च मानान्तरोपेयं ब्रह्म तद् भवति क्वचित् । मनुव्_२,३.५६अब् ।
न्यायसुधा-
उपेयं ज्ञेयम् ।
तदिति सार्वज्ञाद्युपेतम् ।
क्वचिदिति भ्रान्तिप्रतिपन्नमपि न भवतीति सूचयति ।
न तावत्सार्वज्ञादिविशिष्यं ब्रह्म श्रीतिव्यतिरिक्तप्रमाणगम्यम् ।
शास्त्रैकयोनित्वस्य समर्थितत्वात् ।
नापि भ्रान्तिप्रतिपन्नम् ।
क्वचित्प्रमितस्यैवान्यत्रारोपात् ।
नच प्रमाणेन भ्रान्त्या वाप्राप्तस्यानुवादः सम्भवति ।
अतो नेयं श्रुतिरनुवादिनी ।
किन्नाम प्रतिपादयत्येवोक्तरूपं ब्रह्मेति ।
ननु तथापि नोपजीव्यप्रमाणविरोधो ऽनुमानादेः ।
श्रुत्युपजीवने हि सः स्यात् ।
न चैवम् ।
तद्वयतिरिक्तप्रमाणोपजीवनादित्यत आहनचेति ।
वस्तुव्यवहितो वह्निरधूमस्थले प्रत्यक्षाद्यवेद्यो ऽपि क्वचिद्देशे प्रत्यक्षेणानुमानेन वावगम्यते ।
प्राक् पतनोत्पत्तेरगम्यमपि गुरुत्वं क्वचित्काले ऽनुमानेन गम्यते ।
नचैवं ब्रह्म क्वचिन्मानान्तरोपेयम् ।
येन तदुपजीव्यानुमानादिप्रवृत्तिः स्यात् ।
८,५८३
अस्तु वा ब्रह्म प्रमाणान्तरवेद्यम् ।
तथाप्यभेदानुमानादेरुपजीव्यप्रमाणविरोधो दुष्परिहरः ।
श्रुतिवत्तस्यापि प्रमाणस्य भेदप्रत्यायकत्वादित्यभिप्रायवानाहयेनेति ।
येन मानेन चापेयं भेदस्तेनावगम्यते । मनुव्_२,३.५६च्द् ।
न्यायसुधा-
उपेयं ब्रह्मेति शेषः ।
तत्कथमित्यत आहस(सार्)वज्ञेति ।
सर्वज्ञानमयैवेशो यद्युपेयः कथञ्चन ।
सर्वज्ञथ्वगुणेनैव तया भेदो ऽवगम्यते । मनुव्_२,३.५७ ।
न्यायसुधा-
धर्मादिकं कस्यचित्प्रत्यक्षं प्रमेयत्वाद्घटवदित्यादिकया सा(सर्)वज्ञसाधकतयानुमया ।
सर्वकर्तृत्वाद्यनुमानोपलक्षणं चैतत् ।
एवेति प्रत्यक्षं व्यावर्तयति ।
कथञ्चनेत्यभ्युपगमवादो ऽयमिति सूचयति ।
सर्वज्ञत्वेत्युपलक्षणम् ।
तयैवेत्यन्वयः ।
ईश्वरे तावत्प्रत्यक्षं शङ्कार्हमेव न भवति ।
अतो ऽनुमानमेव वक्तव्यम् ।
प्रतिपक्षादिना पराहतस्यापि तस्य कथञ्चिच्छङ्कार्हत्वात् ।
अनुमानं च किञ्चित्केनचिद्विशिष्यमेव प्रतिपादयति ।
नतु निष्कृष्टं वस्तु ।
नच जीवादिसाधारणधर्मविशिष्याथर्सिद्धावीश्वरः सिध्यति ।
तस्माद्भेदकधर्मवैशिष्ययेनैव तत्सिद्धिवर्क्तव्या ।
तथाचानुमानादेरुपजीव्यविरोधो वज्रलेपायितः ।
यद्यप्यनुमानं स्वतः श्रुतितो दुर्बलं तथापि उपजीव्यतया बाधकं भवत्येवेति ।
८,५८४
तदनेनेश्वरग्राहिकायाः श्रुतेर्भेदकधर्मविश्टि तस्मिन्प्रामाण्यमुपपादितम् ।
इदानीं जीवग्राहकस्य प्रत्यक्षस्येश्वरभेदक(वि)धर्मिणि जीवे प्रामाण्यं समर्थ्यते ।
तथाहि ।
भवतु श्रुतिरदुःखित्वसार्वज्ञादिमदीश्वरे प्रमाणम् ।
तथापि नाभेदानुमानागमयोरुपजीव्यप्रमाणविरोधेनाप्रामाण्यम् ।
दुःखित्वादिरूपे हि जीवस्य तात्त्विके सति तथा स्यान्न चैवम् ।
अहं दुःखीत्यादेरनुभवस्य मिथ्यानुभवत्वात् ।
अन्तःकरणगतो हि दुःखादिरनर्थः स्वरूपतो मिथ्याभूतो जपाकुसुमारुणिमेव स्फटिके चैतन्ये चकास्ति ।
नच भ्रान्तिप्रतिपन्नेन(न्नभे)भेदकेन वस्तु भिद्यत इति अत आहनेति ।
न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् । मनुव्_२,३.५८अब् ।
न्यायसुधा-
क्वापीति ।
सर्वथेत्यर्थः ।
भवेदेतद्यद्यहं दुःखीत्याद्यनुभवो मिथ्यानुभवः स्यान्न च तथा ।
अपि तु प्रमाणमेव ।
यद्यपि दुःखादिकमन्तःकरणगतं, तथापि स्वरूपेण सदेव ।
जीवात्मनश्च तद्भोक्तृत्वेन तद्वत्त्वं तात्त्विकमेव ।
अल्पशक्तित्वपारतन्त्र्यादिकं तु स्वरूपगतमेवेत्याशयः ।
८,५८५
कुत इत्यत आहनहीति ।
न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु । मनुव्_२,३.५८च्द् ।
न्यायसुधा-
तुशब्दो ऽवधारणे नैवेति सम्बन्धः ।
असञ्जातबाधभ्रमेषु व्यभिचारपरिहाराय क्वचिदित्युक्तम् ।
नहि कदाचित्कुत्रचित्कश्चिन्नाहं दुःखी किन्त्वन्तःकरणगतेनैव मिथ्यादुःखेन दुःखितयाऽत्मानममनि(षी)षमिति बाधकप्रत्ययवान्दृश्यत इत्यर्थः ।
ननु’विमुक्तश्च विमुच्यतेऽ‘तत्त्वमसि’ इत्यादिश्रुतिरेवास्यानुभवस्य बाधिकास्तीति कथं न दुःखानुभूतिर्भ्रान्तिः ।
अत्र हि दुःखाद्युपप्लवरहितमेवास्यात्मनस्तात्त्विकं रूपमिति प्रतिपाद्यत इत्यत आहयदीति ।
यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते । मनुव्_२,३.५९ ।
८,५८५फ़्.
न्यायसुधा-
अवसीयते श्रुतिमाश्रित्येति शेषः ।
केन कारणेन ।
भ्रान्तिः स्वरूपतो ऽर्थतश्च ।
गम्यते अभ्युपगम्यते ।
अनुभवमाश्रित्येति शेषः ।
इदमुक्तं भवति ।
भवेदेषा श्रुतिरस्यानुभवस्य बाधिका ।
यदि निश्चितप्रमाणभावा भवेत् ।
नच तथा ।
धर्मिग्राहकानुभवविरोधेनास्माभिःतदप्रामाण्यस्य प्रतिपाद्यमानत्वात् ।
परस्य च तत्परिहारायाद्यापि समुद्यतत्वात् ।
तथाच सति श्रुतिप्रामाण्यनिश्चये ऽनुभवस्य भ्रान्तित्वं तस्मिंश्च सति श्रुतिप्रामाण्यनिश्चय इति परस्पराश्रयत्वप्रसङ्गः ।
नन्वनुभवविरोधेन श्रुत्यप्रामाण्याभिधाने ऽपि समानमेतत् ।
न समानम् ।
अनुभवस्यानपेक्षत्वात् श्रुतेस्तदपेक्षत्वात् ।
अन्यथा सर्वत्र धर्मिग्राहकविरोधोच्छेदाप(त्ते)त्तिरिति ।
८,५८६
ननु तर्हि नेदं रजतमित्यस्यापि रजतमिदमिति ज्ञानं प्रति बाधकत्वमयुक्तं स्यात् ।
न स्यात् ।
नेदं रजतमिति ज्ञानप्रामाण्यस्य साक्षिणा परीक्षया निश्चितत्वात् ।
इदं रजतमिति ज्ञानस्य तदभावात् ।
परीक्षितप्रामाण्येनोपजीवकेनोपजीव्यस्यातथाभूतस्य बाधोपगमात् ।
उपजीव्योपजीवकन्यायस्य तदन्यविषयत्वात् ।
प्रामाण्यसन्देहे खलु न्यायानुसरणम् ।
निश्चिते तु प्रामाण्ये किमनेन ।
वक्ष्यति चैतदाचार्यः ।
एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कतेश्रुतीति ।
८,५८८
एवं तर्हि श्रुतेरपि प्रामाण्यं परीक्षासहकृतेन साक्षिणा निश्चितमित्यनुभवबाधकत्वमुपपत्स्यत इत्याशयवानाशङ्कते श्रुतीति ।
८,५८९
श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते । मनुव्_२,३.६०अब् ।
न्यायसुधा-
स्वरूपमर्थश्चेति विवक्षाभेदेन प्रामाण्यमेवोक्तम् ।
जीवस्य निर्दुःखब्रह्मात्मताप्रतिपादकश्रुतिस्वरूपमस्याः श्रुतेः सो ऽर्थ इत्युभयत्र फलतो ऽर्थभेदाभावात् ।
एतदेव हि प्रामाण्यमपि ।
मानेन साक्षिणा ।
परिहरतितच्चेदिति ।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः । मनुव्_२,३.६०च्द् ।
न्यायसुधा-
त इत्यव्ययं तृतीयार्थे ।
ते मत इत्यध्याहारो वा ।
किं किन्निमित्तम् ।
दुःखानुभवे भ्रम इति ।
दुःखानुभवस्य भ्रमत्वमिति(इति) यावत् ।
अङ्गीक्रियत इति शेषः ।
तत् साक्षिलक्षणं मानं दुःखानुभवविषये भ्रमः कुतो ऽङ्गीक्रियत इति वा ।
एतदुक्तं भवति ।
साक्षिणा श्रुतिप्रामाण्यं निश्चितमिति न परेणाङ्गीकर्तुं शक्यते ।
तथा सति तत्प्रामाण्यस्याङ्गीकर्तव्यत्वप्रसङ्गात् ।
इष्यते तदिति चेन्न ।
तथा सत्यहं दुःखीति दुःखादिविषयो ऽपि स एवेति तत्रापि तस्य प्रामाण्यमेव ग्राह्यं स्यान्न भ्रमत्वम् ।
नचेत् श्रुतिप्रामाण्यग्रहणे ऽपि भ्रमः स्यादिति ।
जोस्हि१०
८,५९१
नन्वेकत्र प्रामाण्ये विषयान्तरे ऽपि प्रामाण्येन भाव्यं तत्राप्रामाण्ये चान्यत्रापि अप्रामाण्येन भवितव्यमिति कुत एतत् ।
मा हि भूदेकस्य चक्षुरादेरयं नियम इत्यत आहनचेति ।
न च बाधविशेषो ऽस्ति यदबाधितमेव तत् । मनुव्_२,३.६१अब् ।
८,५९१फ़्.
न्यायसुधा-
भेदेदेवैकस्यापि क्वचित्प्रामाण्ये परत्राप्रामाण्यम् ।
कारणविशेषात् ।
स चोत्पत्तौ दोषो ज्ञप्तौ बाधः ।
दोषो ऽपि बाधोन्नेय एव ।
यथोक्तम् ।
‘बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा’ इति ।
ततो बाध एव विशेषः ।
नच दुःखादिविषयस्य साक्ष्यनुभवस्य बाधरूपो विशेषो ऽस्ति ।
येनासौ श्रुतिप्रामाण्ये प्रमाणभूतो ऽपि दुःखादौ भ्रमः स्यात् ।
यत् यस्मादेवं तत् तस्मात् श्रुतिप्रामाण्यमिव तत् आत्मनो दुःखित्वादिकमप्यबाधितमेव सत्यमेवाङ्गीकायर्मिति ।
यद्वा यद्यस्मादेवं त(त्त)स्मात्किं दुःखानुभवे भ्रम इति पूर्वे(णैव)ण सम्बन्धः ।
८,५९३
नन्वेतत् श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव ।
नचोभयत्र प्रामाण्यं साक्षिणो युक्तम् ।
परस्परविरोधात् ।
तत एकत्राप्रामाण्यावश्यम्भावे दुःखादावेव तदिति ग्राह्यम् ।
श्रुतिप्रामाण्यस्यापौरुषेयत्वादिपरीक्षासहकृतेन गृहीतत्वात् ।
अतो मिथ्यैव दुःखित्वादिकमित चेन्न ।
दुःखादावपि सजातीयविजातीयसंवादरूपपरीक्षासद्भावात् ।
एवं तर्हि सन्देहान्न दुःखादिसत्यतानिश्चयो भवतां युक्त इति न श्रुतेरनुभवबाधो वक्तुं शक्यत इत्यत आहअबाधितमेवेति ।
तद् दुःखं सत्यमेवेत्यवधारयतो ऽयमभिसन्धिः ।
सत्यम् ।
श्रुतिप्रामाण्यं दुःखादिकं च साक्षिगृहीतमेव ।
नचैकत्रापि बाधकमस्तीत्युभयमपि प्रमाणं साक्षी ।
नच विरोधः ।
अद्वैतसत्तामन्तरेणापि श्रुतिप्रामाण्यसत्तायाः सम्भवात् ।
नह्यपौरुषेयत्वादियुक्तयो विषयविशेषनियतप्रामाण्यनिश्चये (साक्षिणः) साचिव्यमाचरन्ति ।
किन्तु प्रामाण्यमात्रनिश्चये ।
उपक्रमाद्यास्तु तत्र तत्राभासीकृता एव ।
नच दुःखसत्तामन्तरेण तत्र प्रामाण्यस्य सम्भवो ऽस्ति ।
नच दुःखसत्तया श्रुतिप्रामाण्यमात्रस्य विरोधो ऽस्ति ।
विषयान्तरे ऽपि तस्य सम्भवात् ।
अतः सत्यमेव दुःखादिकमिति ।
८,५९४
श्रुतिरनुभवस्य बाधिका न भवति ।
किन्तु धर्मिग्राहकतया प्रबलेनानुभवेनैव बाध्यत इत्युक्तम् ।
न केवलं धमिर्ग्राहकतयानुभव(स्य)प्राबल्यम् ।
किन्नाम श्रुतिस्वरूपप्रामाण्यग्राहकत्वेनापीत्याशयवानाहश्रुतीति ।
अर्थ इत्यर्थवत्त्वं प्रामाण्यमिति यावत् ।
स्वरूपतः प्रामाण्यतश्चावसिता हि श्रुतिरभिप्रेतसिद्धये प्रयोक्तव्या नान्यथा ।
श्रतिस्वरूपं तत्प्रामाण्यं च मानेनैव साक्षिलक्षणेनावसीयते नान्येन ।
यद्यपि श्रतिस्वरूपं श्रोत्रवेद्यं तथापि श्रोत्रजनिततद्वृत्तिप्रामाण्यं यावन्न साक्षिणा गृह्यते तावन्न तत् सिद्धयतीत्यतः श्रुतिस्वरूपावसायो ऽपि
साक्षिण्येवायतते ।
यद्वा श्रुतिशब्दे(नै)न तज्जनितं ज्ञानमुच्यते ।
तत्र पृच्छामः ।
तस्य साक्षिणः प्रामाण्यं भवताप्यभ्युपगतं न वेति ।
नेति पक्षे श्रुतिस्वरूपाद्यसिद्धेर्न तद्विरोधेन दुःखाद्यनुभवस्य भ्रमत्वं वक्तुं युक्तम् ।
आद्यं दूषयतितच्चेदिति ।
तत् साक्षि(स्व)रूपं प्रमाणं त्वया गृहीतं चेत्तदा दुःखानुभवस्य भ्रमत्वं किं (कथं) न कथञ्चित् ।
श्रुतिविरोधेन खलु तदुच्यते ।
सा तु स्वरूपप्रामाण्यग्राहकतयोपजीव्येनानुभवेन बाधिता कथं तद्बाधनाय प्रभवतीति ।
स्यादेतत् ।
श्रुतिस्वरूपप्रामाण्ययोः साक्षिणः प्रामाण्यमङ्गीक्रियते ।
दुःखादौ तु विषयान्तरे श्रुतिविरोधेनाप्रामाण्यमाश्रीयते ।
तत्कथमुक्तदोष इत्यत आहनचेति ।
बाधस्य बाधकत्वेन अभिमतायाः श्रुतेः विशेषो बाध्यतयाभिमतात्साक्षिणो ऽतिशयो नास्ति ।
अस्ति चोक्तवक्ष्यमाणरीत्या साक्षिण एव विशेष इति ।
शिष्यं स्पष्टम् ।
८,५९५
किञ्चाहं दुःखीत्यादिसाक्षिणो भ्रमत्वं वदन्प्रष्टव्यः ।
किं सर्वत्रापि साक्षिणो भ्रमत्वमङ्गीक्रियते ।
उत क्वचित्प्रामाण्यमपि ।
आद्ये दोषमाहश्रुतिस्वरूपमिति ।
मानेन साक्षिणैव ।
तथाच तस्य भ्रान्तित्वे तन्न सिद्धयेदिति भावः ।
परमार्थतो मा सैत्सीदिति च न वाच्यम् ।
तत्त्वावेदकत्वस्याङ्गीकृतत्वात् ।
अथ श्रुतिस्वरूपादिविषये तन्मानत्वं स्वीक्रियत इति द्वितीयमनूद्योत्तरमाहतच्चेदिति ।
एकत्र प्रामाण्ये परत्रापि प्रामाण्यमङ्गीकर्तव्यमित्येतत्कुत इत्यतो ऽविशेषादित्याहनचेति ।
पूर्ववद्वयाख्यानम् ।
एवं साक्षिणः प्रमाणान्तरसाधारणरूपता(त्व)मुपेत्य बाधकाभावेनाहं दुःखीत्यादेभ्रम्मत्वं नोपपद्यत इत्युक्तम् ।
इदानीं साक्षिणो यथार्थत्वनियमाच्च न दुःखादिविषये भ्रमत्वशङ्कोपपद्यते ।
किं बाधकगवेषणादिनेत्याशयवान्साक्षिणो यथार्थत्वनियमं विपक्षे बाधकेन समर्थयतेबाध इति ।
८,५९६
अनुभूते साक्षिप्रतीते ऽर्थे यदि बाधः प्रवर्तेत साक्षी यदि कुत्रचिदयथार्थः स्यादिति यावत् ।
अयथात्वर्थस्य बाधोन्नेयत्वादेवमुक्तम् ।
तदा कथं स्तम्भो ऽयं कुम्भो ऽयमिति पदार्थानां निर्णय ईयते उपेयते ।
एतदेव प्रपञ्चयतिको ऽपीति ।
को ऽपि ह्य् अर्थो न निश्चेतुं शक्यते भ्रमवादिना । मनुव्_२,३.६२अब् ।
न्यायसुधा-
भ्रमवादिना साक्षिणः क्वचिद्भ्रमत्वं वदता ।
(यदि) साक्षी क्वचिदयथार्थः स्यात्तदा पदार्थनिर्णयो न स्यादित्यर्थः ।
यथाऽहुरन्ये ऽपि ।
‘ज्ञानस्य व्यभिचारित्वे विश्वासः किन्निबन्धनः’ इति ।
८,५९७
ननु च निर्णयो निश्चय इति चावधारणात्मकं ज्ञानमुच्यते ।
तच्च स्तम्भकुम्भादिष्वर्थेषु तत्तत्कारणसामग्रीवशादेवोत्पद्यते ।
निर्णायकाभावसहकृतसमानधर्मदर्शनादिना ह्यनवधारणात्मकं ज्ञानं संशयपदवेदनीयं जन्यते ।
तद्विलक्षणया च सामग्षा अवधारणज्ञानम् ।
तत्र कः साक्षिणो याथार्थ्यनियमस्योपयोगः ।
किञ्च तदभावेनापनेष्यते ।
उच्यते ।
न स्तम्भो ऽयमित्येकाकारप्रतिनियतं ज्ञानं इह(हि) निर्णयादिशब्दैरभिधीयते ।
अपि तर्हि तदनन्तरभावी वस्तुतथात्वाश्वासः ।
तथाहि ।
वक्तारो भवन्ति ।
स्तम्भ इति (च) प्रतीयते भवति चायं स्तम्भ इति वा वस्तुतत्त्वं तु न विद्म इति वेति ।
तत्कस्य हेतोः ।
एकाकारप्रतिनियतेष्वपि ज्ञानेष केषाञ्चिद्भ्रमत्वस्य केषाञ्चिदभ्रमत्वस्य बहुलमुपलब्धत्वेनेदानीं जायमानेप्ये(ष्वे)काकारनियते ज्ञाने
वस्तुतथात्वविश्वासायोगात् ।
८,५९९
भवतु वस्तुतथात्वाश्वासो वस्तुदर्शनपृष्ठभावी निर्णयः ।
सो ऽपि तस्य दशर्नस्य भ्रमत्वाभ्रमत्वनिर्णयमेवापेक्षते ।
यदि ज्ञानं भ्रमः स्यात्तदा वस्त्वतथाभूतमित्यवसीयते ।
यदि त्वभ्रमस्तदा तथाभूतमिति ।
एवञ्च किं साक्षिणो याथार्थ्यनियमेनोपनीयते, किञ्च तस्य भ्रमत्वेनापनीयत इत्यत आहभ्रमत्वमिति ।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ।
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः । मनुव्_२,३.६२च्फ़् ।
न्यायसुधा-
सत्यं प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयायत्तो वस्तुनिर्णय इति ।
सैव तत्र प्रत्ययेष्वेकस्य स्तम्भादौ पुरुषादिप्रत्ययस्य भ्रमतापरस्य स्तम्भादिप्रत्ययस्याभ्रमता च कुतो निर्णेतव्या न कुतो ऽपि ।
कुतो यदा यतः ।
प्रत्ययानां भ्रमत्वमभ्रमत्व च अनुभवोपगं साक्षिणैवाध्यवसेयमिति ।
स्यादेतत् ।
करणदोषबाधकप्रत्ययाधीनं प्रत्ययानां भ्रमत्वमभ्रमत्वं च संवादायत्तं भविष्यति ।
तत्कथं तदनवधारणमित्याशङ्कां परिहरन्नुक्तमर्थं स्पष्टमाचष्टेभ्रमत्वमिति ।
८,६००
भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ।
स चेत् साक्षी क्वचिद् दुष्यः कथं निर्णय ईयते । मनुव्_२,३.६३ ।
न्यायसुधा-
प्रत्ययानां भ्रमत्वमभ्रमत्वं तदवधारणोपयुक्तं च सर्वं करणदोषादिकं साक्षिणा निश्चेयम् ।
अनिश्चितस्य भ्रमत्वाद्यवधारणाप्रसङ्गात् ।
स चेत्साक्षी क्वचित् दुष्यः अयथार्थः स्यात्तदा कथं कारणदोषादेर्भ्रमत्वादेर्वस्तुतथात्वादेर्वा निणर्य ईयते ।
एतदुक्तं भवति ।
प्रत्ययानां भ्रमत्वावधारणं का(क)रणदोषाद्यायत्तं तथापि साक्षिणो याथार्थ्यनियमाभावे न सिद्धयेत् ।
नहि तत्स्वरूपेणोपयुक्तम् ।
अतिप्रसङ्गात् ।
किन्तु निश्चितमेव तन्निश्चयश्च साक्षात्कारपरम्परया वा साक्षिण्यायतते ।
स हि का(क)रणदोषादिकं स्वयमेव (वा) तद्ग्राहकप्रामाण्यग्रहणेन वा निश्चित्य भ्रमत्वं निश्चिनोति ।
ततश्च तस्य क्वचिदयथार्थत्वे ऽविश्वसनीयत्वापत्त्या न निर्णयः स्यात् ।
अभ्रमत्वनिश्चयस्तु न संवादाधीनः ।
तथा सत्यनवस्थादिदोषाः प्रादुष्युरित्युक्तम् ।
किन्तु केवलसाक्षिण्यायत्तः ।
विपर्ययशङ्कानिरासे तु संवादस्यानुप्रवेशः ।
नच संवादो ऽप्यनिश्चितो ऽङ्गम् ।
तन्निश्चयश्च साक्ष्यधीन एव ।
तस्य च क्वचिदयथार्थत्वे तदुभयनिर्णयो ऽपि न भवेदिति ।
८,६०२
ननु साक्षिणो यथार्थत्वनियमे ऽपि प्रत्ययानां भ्रमत्वाभ्रमत्वनिर्णयो नोपपद्यते ।
नहि याथार्थ्यं स्वरूपेणैवोपयुक्तम् ।
अतिप्रसङ्गात् ।
किन्तु निश्चितमेव ।
नच तन्निश्चयोपायो ऽस्ति ।
अतस्तदनिश्चयात्का(क)रणदोषादेर्भ्रमत्वादेः स्तम्भत्वादेरनिश्चय एवेत्यत आहविशेषा इति ।
विशेषा सर्व एवैते साक्षिप्रत्ययगोचराः । मनुव्_२,३.६४अब् ।
न्यायसुधा-
विशिष्यन्ते एतैरिति विशेषाः का(क)रणदोषोपादयः ।
साक्षिप्रत्यक्षगोचरा एवेति सम्बन्धः ।
साक्षियाथार्थ्यस्य साक्षिणैव उ(निश्चयो)पपत्तेः ।
अस्यार्थस्य च वक्ष्यमाणव्यवहारान्यथानुपपत्तिसिद्धत्वादिति भावः ।
८,६०३
यदि साक्षी क्वचिद्वयभिचरेत्तदा तेनाविश्वसनीयेन का(क)रणदोषादिनिश्चयो न स्यात् ।
तदभावे च प्रत्ययानां भ्रमत्वादि न निश्चीयेत ।
तथाच वस्तुनिर्णयो न स्यात् ।
कारणाभावे कार्या(कार्योदया)योगादित्युक्तम् ।
तत्र मा भूदेतत्सर्वमिति चेन्न ।
तथा सति हानोपादानादिसर्वव्यवहाविलोपप्रसङ्गात् ।
कथम् ।
सर्वव्यवहाराणामतत्कार्यत्वादित्याहऊरीकृत्य चेति ।
ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते । मनुव्_२,३.६४च्द् ।
न्यायसुधा-
निश्चित्येत्यर्थः ।
चो ऽवधारणे ।
तान्सर्वान्का(क)रणदोषा(दी)न् ऊरीकृत्य व्यवहार प्रवर्तत इति गौणं समानकर्तृकत्वम् ।
यद्वोरीकृत्य कारणतयोपादाय कारणीकृत्वेति व्याख्येयम् ।
तथाहि ।
इदं रजतमिति भ्रान्त्या प्रवृत्तः का(क)रणदोषं बाधकप्रत्ययं (चा)वावधार्य तस्य ज्ञानस्य भ्रमत्वं निश्चित्य नेदं रजतं किन्तु शुक्तिरेवेति वस्तु
व्यवस्थाप्य जहाति ।
तथा जलमेददिति प्रतीत्य तस्य प्रत्ययस्यापातत एवान्यथात्वशङ्कायां संवादं निवेश्य तत्स्वरूपप्रामाण्ये गृहीत्वा(च) अभ्रमत्वं निश्चित्य
जलमेतद्भवत्येवेत्यवधार्य तदुपादत्त इति ।
८,६०४
ननु नायमस्ति नियमो यदुक्तरीत्यार्ऽथतथात्वाध्यवसायपूर्वक एव व्यवहार इति ।
तत्सन्देहादिनापि(दपि) व्यवहारदर्शनादित्यत आहसाक्षिण इति ।
साक्षिणो व्यवसायी तु व्यवहारो ऽभिधीयते । मनुव्_२,३.६४एफ़् ।
न्यायसुधा-
व्यवसायी निरशङ्को ऽविसंवा(दिव्य)दी च व्यवहारो ऽस्माभिरुक्तरीत्या साक्षिणः कार्यो ऽभिधीयते न तु व्यवहारमात्रम् ।
नच विशिष्यो व्यवहारो ऽर्थतथात्वाध्यवसायपूर्वकतां व्यभिचरतीति ।
अस्तु व्यवहारविलोपः किन्नश्छिन्नमित्याशङ्कां परिहरन्नुक्ताप्रसङ्गानां विपर्ययपर्यवसानमाहतस्मादिति ।
तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।
साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव नः । मनुव्_२,३.६५ ।
न्यायसुधा-
यस्मात्साक्षिणः क्वचिदयथार्थत्वे ऽविश्वसनीयत्वापत्त्या का(क)रणदोषाद्यनिश्चयप्रसङ्गेन ज्ञानानां
भ्रमत्वाभ्रमत्वनिर्धारणाभावसक्त्यार्ऽथतथात्वनिर्णयाभावानुषङ्गेण निश्शङ्को ऽविसंवादी व्यवहारो लुप्येत ।
नच तल्लोपो ऽङ्गीकर्तुं शक्यः ।
सवर्लोकप्रसिद्धत्वात् ।
तथाविधस्य (च) लौकिकैः परीक्षकैश्लोल्लङ्घनायोगात् ।
प्रमितार्थाननुमतावुन्मत्तत्वप्रसङ्गात् ।
तस्मात्सर्वलोकप्रसिद्धस्य निश्शङ्कस्याविसंवादिनो व्यवहारस्य कायर्भूतस्य सिद्धये वस्तुतथात्वातथात्वनिश्चयः कारण(करणी)भूतो ऽङ्गीकार्यः ।
तत्सिद्धये का(क)रणदोषादिनिश्चयद्वारा साक्षिणा ज्ञानानां भ्रमत्वाभ्रमत्वनिर्णयो ऽङ्गीकार्यः ।
तत्सिद्धये (च) साक्षिणो विश्वसनीयत्वं तत्सिद्धये च साक्षी सदा निर्देषो यथार्थ एव न परीक्षकाणामङ्गीकार्य इति ।
नन्वेवं तर्हि प्राभाकरादिदिशा सर्वेषामपि प्रत्ययानां यथार्थत्वनियमो ऽस्त्वित्यत आहएक एवेति ।
एकस्यैव याथार्थ्यनियमेन सर्वस्योपपत्तौ किमप्रामाणिकेन प्रमाणविरुद्धेन सर्वप्रत्यययाथार्थ्यनियमेनेति भावः ।
८,६०५
किमतो यद्येवं साक्षी नियमेनार्थाव्यभिचारीत्यत आहशुद्ध इति ।
शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् । मनुव्_२,३.६६अब् ।
न्यायसुधा-
दुःखित्वं तेन प्रतीतं जीवस्येति शेषः ।
ततश्च किमित्यत आहउपजीव्येति ।
उपजीव्यप्रमाणं तद् भेदग्राहकमेव हि । मनुव्_२,३.६६च्द् ।
न्यायसुधा-
श्रुत्यनुमानयोरुपजीव्यप्रमाणं तत् तस्मात् भेदग्राहकं भेदप्रमापकम् ।
तथा चोपजीव्यविरोधादभेदश्रुत्यादेरप्रामाण्यमिति भावः ।
ततो ऽपि किमित्यतः सूत्रार्थमुपसंहरतिअत इति ।
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः । मनुव्_२,३.६६एफ़् ।
न्यायसुधा-
श्रुतिः’भिन्नो ऽचिन्त्यः’ इत्यादिका ।
सामर्थ्यमप्रति(सत्प्रति)पक्षत्वम् ।
। ओं तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवत् ओं ।
यद्येवं जीवेश्वरयोर्भेद एव पारमार्थिको व्यवस्थितस्तदा तत्त्वमसीत्याद्यद्वैतश्रुतीनामहं हरिरित्यादिस्मृतीनां च का गतिः ।
नहि तासामनुमानवत्सर्वथाप्रामाण्यं युक्तम् ।
अपौरुषेयत्वेनाप्तोक्तत्वेन च तत्कारणाभावादित्याशङ्कापरिहाराय सूत्रम् ।
तद्गुणसारत्वात्तु तद्वयपदेशः प्राज्ञवदिति ।
तद्वयाचष्टेतथापीति ।
तद्गुणसारत्वात् तु तद्व्यपदेशः प्राज्ञवत् । ब्ब्स्_२,३.२९ ।
तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।
सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते । मनुव्_२,३.६७ ।
अतो ऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात् । मनुव्_२,३.६८ ।
८,६०६
न्यायसुधा-
यद्यपि जीवब्रह्मणोर्भेद एव तथाप्यभेदवदिति सम्बन्धः ।
तुशब्दो विशेषार्थः ।
तं च वक्ष्यामः ।
तत्सदृशः परमात्मगुणसदृशाः ।
सार इत्यनुवादेन स्वरूपमिति व्याख्यानम् ।
अस्य जीवस्य ।
कुतः ।
मुक्तावपि कैवल्ये ऽप्यवशिष्यते यतः ।
अभेदवत् अभेदमिव’तत्र तस्येव’ इत्यत्रोपसङ्खयेयमेतत् ।
शिष्यप्रयोगात् ।
यद्वाभेद इति तत्प्रतिपादकमुपलक्ष्यते ।
अत एवेति सम्बन्धः ।
एताः परोदाहृताः ।
हीति मुख्ये बाधकं सूचयति ।
अत एवेत्यस्यैव विवरणं सादृश्येति ।
सादृश्यमेवाभेदः सादृश्याभेदः ।
सिंहो देवदत्त इत्यादिवद्गौणो ऽयं व्यपदेश इति वाक्यार्थः ।
अद्वैतवादिभिः खलु तत्त्वम्पदयोर्विरुद्धस्वार्थैकदेशत्यागेनैकदेशलक्षणया सामानाधिकरण्यमात्रं मुख्यमङ्गीकृतम् ।
ततो वरं पदद्वयस्य मुख्यार्थत्वमभ्युपगम्य सामानाधिकरण्यमात्रस्य गौणत्वमभ्युपगन्तुम् ।
तात्पर्यलिङ्गानि च तत्र तत्रान्यथा नीतानि ।
८,६१०
उपलक्षणं चैतत् सौत्रमभेदागमव्याख्यानमित्याशयवानुक्तानुवादेनार्थान्तरमप्याहसादृश्याच्चेति ।
सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपिचाभिदाम् ।
आहुरीशेन जीवस्य … । मनुव्_२,३.६९अच् ।
८,६११
न्यायसुधा-
प्रधानत्वादपीत्यन्वयः ।
आहुः श्रुतयः ।
पौराणानि (च) वाक्यानीति वर्तते ।
उक्तानुवादः प्रतिपत्तिसौकर्यार्थः ।
प्रधानत्वं वैशिष्ययम् ।
तत्त्वमसीत्यादिव्यपदेशः सादृश्याद्गौण इत्युक्तम् ।
नान्यो ऽतो ऽस्ति द्रष्टेत्यादि निर्देशस्तु स्वातन्त्र्यप्राधान्याभ्यां लाक्षणिकः ।
द्रष्टृपदेन तत्रारोपितवैशिष्ययं स्वातन्त्र्यं चोपलक्ष्यते ।
तथाच द्रष्टा विशिष्यः स्वातन्त्र्यश्चान्यो नास्ति इत्यर्थः सम्पद्यते ।
यद्वा तत्त्वमसीत्यादिनिर्देशो ऽपि प्राधान्यस्वातन्त्र्याभ्यां लाक्षणिको व्याख्यायते ।
तथाहि ।
तच्छब्देन तदीये स्वातन्त्र्यप्राधान्ये लक्ष्येते ।
पुनस्ताभ्यां तद्विषयता लक्ष्यते ।
ततश्च तत्प्रधानकस्तत्तन्त्रश्चेति वाक्यार्थो भवति ।
एतदप्युपलक्षणम् ।
अतत्त्वमसीत्यादिव्याख्यानान्तरमप्यत्र द्रष्टव्यम् ।
स्यादेतत् ।
तुशब्दो हि सौत्रो ऽवधारणार्थस्तेन च सादृश्यातिरिक्तो ऽर्थो निवर्त्यते ।
तत्कथमर्थान्तरवर्णनमित्यतो ऽन्यथा व्याचष्टेनेति ।
… न स्वरूपाभिदां क्वचित् । मनुव्_२,३.६९द् ।
न्यायसुधा-
क्वचित् प्रदेशे ।
स्वरूपाभिदां नाहुरिति तुशब्दार्थः ।
नतु प्राधान्यादिनिवृत्तिरिति ।
अस्त्वेवं जीवस्य ब्रह्मैक्यं मुक्तस्य तत्कथं व्याख्येयम् ।
नच तदप्युक्तन्यायेनेति युक्तम् ।
तथा सति यत्र त्वस्येत्यादिविशेषोक्त्यनुपपत्तेरित्यत आहस्थानैक्यमिति ।
स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्टते । मनुव्_२,३.७०अब् ।
न्यायसुधा-
ईशेनेति वर्तते ।
न केवलमुक्तनिमित्तत्रयं किन्नामैतन्निमित्तद्वयं विशिष्यते ।
अतो विशेषणाभेदोक्तिरुपपद्यते ।
तत्र स्थानैक्येनैक्यव्यपदेशो लाक्षणिकः ।
स्थानगतस्यैकस्य स्थानिषु प्रयोगात् ।
ऐकमत्यनिमित्ते तु प्रयोगे लक्षितलक्षणा ।
विषयैक्यान्मत्यैक्यं ततश्च मतिमतामिति ।
८,६१६
किञ्च यत्सादृश्यं सज्जीवमात्रसाधारणतयोक्तं तत्संसारिण्यनभिव्यक्तं मुक्ते तु व्यक्तमिति तदभिप्रायेणापि विशेषतो
ऽभेदोक्तिर्युक्तेत्याशयवानाहसादृश्यं चेति ।
सादृश्यं च विशेषेण … । मनुव्_२,३.७०च् ।
न्यायसुधा-
मुक्तस्येशेनेति वर्तते ।
ननु सादृयादिकं जडेष्वपि विद्यते ।
तत्कथं तेषां’सर्वं खल्विदं ब्रह्म’ ।
‘भूतानि विष्णुर्भुवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशश्च’ इत्यादौ क्वचिदेव परमात्मैक्यव्यपदेशो न पुनर्जीवत्प्राचुर्येणेत्यत आहजडानामिति ।
… जडानां द्वयमेव तु । मनुव्_२,३.७०द् ।
न्यायसुधा-
तत्प्रधानकं तत्तन्त्रत्वमेव ।
जडानां त्विति सम्बन्धः ।
सादृश्यस्यापि तृतीयस्य विद्यमानत्वात्कथं द्वयमेवेत्यत आहभवेदिति ।
भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना । मनुव्_२,३.७०एफ़् ।
८,६१६फ़्.
न्यायसुधा-
जडानामिति वर्तते ।
सत्यमस्ति सादृश्यं किन्तु तत्सत्वा(त्ता)दिनैव ।
नतु जीववदानन्दादिना ।
अतो द्वयस्यैव सत्त्वादुपपन्नाप्रचुरोक्तिः ।
नन्वानन्दादिना सादृश्यं जीवेष्वपि नास्ति ।
केषाञ्चिज्जीवानामतद्रूपताभ्युपगमादिति चेन्मा भूत् ।
नहि जीवमात्रं प्रति तत्त्वमसीत्युच्यते ।
तस्य वेदानधिकारित्वात् ।
किन्तु भोक्षयोग्यं पतीत्यदोषः ।
अत्र स्थानैक्यं च क्षीराब्ध्यादिस्थितभगवद्रूपापेक्षयोक्तमिति न जीवजडसाधारणम् ।
जडाभेदव्याख्यानेन प्राज्ञवदिति दृष्टान्तो ऽपि व्याख्यातो भवति ।
८,६१७
सूत्रे प्राज्ञवदित्युक्तम् ।
तस्या(यमर्)थः ।
प्राज्ञे यथाभेदव्यपदेशो ऽमुख्यस्तथेति ।
तत्र प्रतियोगिविशेषानुक्तेर्विज्ञानमानन्दं ब्रह्मेत्यादिरखिलो ऽप्यभेदव्यपदेशो नित्यत्वादिसादृश्येनामुख्य इति ज्ञायेत ।
तन्मा विज्ञायीत्याशयवानाहईशेति ।
८,६१८
ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः । मनुव्_२,३.७१ ।
न्यायसुधा-
रूपाणि मत्स्यादीनि ।
क्रियाः सृष्टयाद्याः ।
गुणा ज्ञानादयः ।
सवर्श इति प्रत्येकं सम्बन्धः ।
तथाशब्दः समुच्चये ।
एवशब्दस्य मुख्यत इत्येनान्वयः ।
अवयवा हस्ताद्याः ।
तत्स्वरूपैक्यम् ईश्वरस्वरूपेणै(पै)क्यं तत्प्रतिपादकं वाक्यमिति यावत् ।
मुख्यत एव व्याख्येयमिति शेषः ।
तुशब्दो जडव्यावृत्त्यर्थः ।
तथाच जडविशेष एवायं दृष्टान्त इति भावः ।
नचैवं साध्यसमत्वदोषः ।
जीवमात्राभेदवादिनं प्रत्यक्षस्याधिकरणस्यारब्धत्वादिति ।
कुत एतदिति चेत्(न) ।
तत्र भेददर्शने प्रत्यवायस्योक्तत्वादित्याहयथेति ।
यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।
इति श्रुतेर् … । मनुव्_२,३.७२अए ।
न्यायसुधा-
पर्वतेषु दुर्गे शिखरे वृष्टमुदकं यथाधो (वि)धावत्येवं पारमेश्वरान्धर्मास्ततः पृथक् पश्यंस्तानेव तद्दर्शनमन्वेवाविलम्बेन नरकं विधावतीत्यर्थः ।
८,६२०
नन्वीश्वरधर्माणां भेदाभेदौ भवताम् ।
तथा चात्यन्ताभेदोक्तिरमुख्येति सौत्रो दृष्टान्तो ऽसङ्कुचितवृत्तिर्भविष्यति ।
इयं च श्रुतिरत्यन्तभेददर्शननिन्दापरा भवत्वित्यत आहनोभयं चेति ।
… नोभयं च भेदाभेदाख्यमिष्यते । मनुव्_२,३.७२एफ़् ।
न्यायसुधा-
इष्यते सूत्रकृतेति शेषः ।
भेदाभेदौ नेष्यते इति वक्तव्ये भेदाभेदाख्यमुभयमिति वचनं वक्ष्यमाणश्रुतिव्याख्यानानुसारेणेति ज्ञातव्यम् ।
कुतो नेष्यत इत्यत आहएकमेवेति ।
एकमेवाद्वितीयं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति । मनुव्_२,३.७३ ।
इति श्रुताविवेत्यस्माद् भेदाभेदनिराकृतिः । मनुव्_२,३.७४अब् ।
न्यायसुधा-
एकम् अभिन्नम् ।
एकमपि घटादिकमवयवभेदवदुपलब्धमत एवेत्युक्तम् ।
अद्वितीयं समाधिकरहितम् ।
इह ब्रह्मणि किञ्चन गुणादिकमिति नानाभूतं नास्ति ।
यस्त्विह ब्रह्मणि विद्यमानं गुणादिकं नाना भिन्नं, इव शब्दादभिन्नं च पश्यति ।
स मृत्योरनन्तरं मृत्युं नरकमाप्नोति ।
इति श्रुताविवेत्यस्माच्छब्दात् ।
उपलक्षणं चैतत् ।
एवशब्दाच्च भेदाभेदनिराकृतिः कृता ज्ञायते ।
अतो नेष्यत इति योजना ।
इवशब्दप्रयोगात्कथमेतल्लभ्यत इत्यत आहइवेति ।
इवोभये च सादृश्य इति वाक् शब्दनिर्णये । मनुव्_२,३.७४च्द् ।
न्यायसुधा-
उभये यदुक्तं पूर्वपदेन तत्प्रतियोगिनि द्वितीये वर्तत इत्यर्थः ।
अत्र च नानो(क्त्वा)क्त्या प्रयुक्त इवशब्दो ऽनाना (सं)गृह्णातीति भेदाभेदाख्यमुख्यं निराकृतं भवति ।
वागस्तीति शेषः ।
शब्दनिर्णयो नाम ग्रन्थविशेषः ।
। इति श्रीमन्न्यायसुधायां पृथगुपदेशाधिकरणम् ।


__
८,६२२