२६ व्यतिरेखाधिकरण

। अथ श्रीमन्न्यायसुधायां व्यतिरेकाधिकरणम् ।
। ओं व्यतिरेको गन्धवत्तथा च दर्शयति ओं ।
अत्र योगिनां स्वरूपेणैवानेकत्वमुपपद्यते ।
तस्य च अविरोधश्चन्दनवदित्युक्तार्थोपपादकतया सङ्गतौ स्थितायां असम्भवस्तु सतो ऽनुपपत्तेरिति यदीश्वरस्य सर्वस्वातन्त्र्यमुक्तं
तदुपपादकत्वेनापि सङ्गतिं ज्ञापयंस्तथा सूत्रं व्याचष्टेअच्छेद्यस्यापीति ।
व्यतिरेको गन्धवत् । ब्ब्स्_२,३.२६ ।
तथा च दर्शयति । ब्ब्स्_२,३.२७ ।
अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ।
कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः । मनुव्_२,३.२४ ।
अत ईशवशं सर्वं चेतनाचेतनं जगत् । मनुव्_२,३.२५अब् ।
न्यायसुधा-
भोगांश्चेति सम्बन्धः ।
ऐक्यमेवेत्येवशब्दान्वयः ।
ऐक्यं एकरूपत्वम् ।
स्वरूपैक्यस्य विभागे ऽपि सत्त्वात् ।
सर्वमीशवशम् ।
तथाच स एव स्वतन्त्र इति वाक्यशेषः ।
८,५०७
नन्वन्यैश्छैत्तुमशक्यं छित्वा तेषामपि भागानां भोगशक्तिं प्रदाय यदि पुनरेकतामापादयति हरिस्तर्हि तत्र तस्य सामर्थ्यं ज्ञायताम् ।
कार्यस्य कारणशक्तिं विनानुपपत्तेः ।
सर्वं जगदीशवशमिति तु कथमित्यत आहअविभागमिति ।
अविभागं विभागाय यदा नयति केशवः ।
किमशक्यं परेशस्य तदेति ह्यभिधीयते । मनुव्_२,३.२५च्फ़् ।
८,५०७फ़्.
न्यायसुधा-
यथा लोके किञ्चिदद्भतं कार्यं कृतवतस्तथाभूते ऽन्यत्रापि कार्यशक्तिः सम्भाव्यते ।
तथात्यन्ताघटितमिदं घटयतो जगन्नाथस्य सर्वत्रापि शक्तिसम्भावना युक्तैवेति भावः ।
नन्वत्र सूत्रे जीवस्यानेकत्वापत्तिमात्रमुच्यते नतु तस्याः परमेश्वरायत्तत्वम् ।
तत्कथमनेन तस्य सर्वैश्वर्यावगतिरित्यत आहइति हीति ।
‘तं यथा यथेश्वरः प्रकुरुते तथा तथा भवति ।
सो ऽचिन्त्यः पमरो गरीयान्ऽ‘अचिन्त्ययेशशक्त्यैव ह्येको ऽवयवविवर्जितः ।
आत्मानं बहुधा कृत्वा क्रीडते योगसम्पदः’ इति सूत्रोपात्ताभ्यां श्रुतिभ्यां यस्मादेवमभिधीयते तस्मात्सूत्रेणाप्येवमेवमभिधीयते ।
प्रतिज्ञाप्रमाणयोरेकार्थताया आवश्यकत्वादिति ।
। इति श्रीमन्न्यायसुधायां व्यतिरेकाधिकरणम् ।


__
८,५०८