२५ असम्भावाधिकरण

। अथ श्रीमन्न्यायसुधायां असम्भवाधिकरणम् ।
। ओं असम्भवस्तु सतो ऽनुपपत्तेः ओं ।
असम्भाव्यमानजन्मनोर्गगनपवनयोरुत्पत्तावुक्तायामिदमाशङ्कयते ।
सदजायतेत्यादिश्रुतेर्ब्रह्मणो ऽपि जन्मास्ति ।
नच श्रुत्यादिविरोधः ।
स्वरूपोत्पत्त्यभावे ऽपि परायत्तविशेषावाप्तिरूपोत्पत्तिसम्भवाद्गगनपवनवदिति ।
तन्निवृत्त्यर्थमिदमधिकरणमारब्धम् ।
एतच्चायुक्तमिवाभाति ।
असम्भव इत्यनुत्पत्तिमात्रप्रतिज्ञानात् ।
तस्य च परेणाप्यङ्गीकृतत्वात् ।
नन्ववधारणार्थस्य तुशब्दस्य प्रयोगान्नायं दोषः ।
सत्यम् ।
तथापि तत्र हेतोरनभिधानादयुक्तमेव ।
नन्वनुपपत्तेरित्युक्तम् ।
सत्यम् ।
किं तस्यार्थो न ह्यसतः सदुत्पत्तेरदृष्टत्वादनुपपत्तेरिति ।
नचैतत्सर्वथाप्युत्पत्त्यभावमुपपादयितुमलम् ।
कारणविशेषप्रतिषेधात् ।
मैवम् ।
प्रसक्तकारणनिरासादन्यस्याप्रसङ्गात्कारणाभावस्यैव सिद्धेरिति स्थिते विभवादनुपपत्तेरित हेतुं प्रकारान्तरेण व्याचक्षाणाः
सूत्रार्थमाहस्वतन्त्रत्वादिति ।
असम्भवस् तु सतो ऽनुपपत्तेः । ब्ब्स्_२,३.९ ।
… स्वतन्त्रत्वात् परात्मनः ।
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततो ऽपरम् । मनुव्_२,३.२३ब्द् ।
न्यायसुधा-
कथमपीति ।
स्वरूपतो विशेषतश्चेत्यर्थः ।
कुतः परमात्मनः स्वातन्त्र्यमिति चेन्मैवम् ।
किं स्वतन्त्रमेव वस्तु नाङ्गीक्रियते किंवातो ऽन्यत्स्वतन्त्रमङ्गीकृत्य तस्य स्वातन्त्र्यं निराक्रियते ।
नाद्यः ।
अनवस्थितेरसम्भवाच्च ।
द्वितीयं प्रत्याहनेति ।
प्रमाणाभावात् ।
भावे वा तदेवास्माभिः परमात्मतयाङ्गीकरिष्यत इति भावः ।
८,५०३
केचिदिदं सूत्रमन्यथा व्याचक्षते ।
प्राग्गुणिनां वियदादीनामुत्पत्तिरुक्ता ।
इदानीं रूपादीनां गुणानां दिक्कालादेश्चोत्पत्तिरुच्यते ।
सतो गुणादेरसम्भवो नोपपद्यते ।
प्रतिज्ञाहान्यादिनानुपपत्तेरिति ।
तदसत् ।
वियत्पदेनैव सर्वस्योपलक्षणात् ।
अभ्यधिकाशङ्काभावाच्च ।
वियत्पदस्य सजातीयभूतमात्रोपलक्षकत्वं न्याय्यम् ।
विजातीयगुणाद्युपलक्षकत्वमयुक्तमिति चेन्न ।
सङ्गतिरेषा नाभ्यधिका शङ्का ।
रूपादीनामुत्पत्त्यश्रवणादिति चेन्न ।
प्रतिज्ञादिभ्यस्तदवगतेः ।
सङ्कोचस्तत्र कल्प्यत इति चेन्न ।
बाधकानुपन्यासादिति ।
८,५०५
अन्ये त्वेवं व्याकुर्वते ।
ब्रह्मण एवासम्भवो न तु तद्वयतिरिक्तस्य ।
प्रतिज्ञाहान्यादिप्रसङ्गेनानुपपत्तेरिति ।
एतदप्यसत् ।
पूर्वेणैवास्यार्थस्य लब्धत्वात् ।
वियन्मातरिश्वनोरुत्पत्तिप्रतिपादनमुपलक्षणार्थमिति ज्ञापयितुमेतदिति चेन्न ।
प्रतिज्ञाहान्याद्युपन्यासेनैव तज्ज्ञापनसिद्धेः ।
समानन्यायोपलक्षणस्य मीमांसायां सर्वत्र प्रसिद्धत्वात् ।
अन्यथातिदेशे ऽभ्यधिकाशङ्काभ्यूहनवैयर्थ्यादित्युक्त एव सूत्रार्थः ।
एतदेव ज्ञापयितुं भगवताऽचार्येण प्रागेव’नैव किञ्चिद्’ इत्युपसंहृतम् ।
। इति श्रीमन्न्यायसुधायां असम्भवाधिकरणम् ।


__
८,५०६