। अथ श्रीमन्न्यायसुधायां मातरिश्वाधिकरणम् ।
। ओं एतेन मातरिश्वा व्याख्यातः ओं ।
अतीताधिकरणे वियदादिविषयाणां उत्पत्त्यनुत्पत्तिश्रुतीनां व्यवस्थया विरोधः परिहृतः ।
इदानीं’तेजोबन्नान्याकाश इति तान्यनित्यानि वायुर्वाव नित्यः’ इति श्रुतौ व्यवस्थितनित्यत्वानित्यत्ववन्तमप्याकाशमनित्यपक्षे निक्षिप्य
वायोनिर्त्यत्वाभिधानादाकाशदेवताया विनायकस्येव वायुदेवतायाः स्वरूपेण नित्यत्वं देहोत्पत्त्यादिना जन्मादिमत्त्वमिति
व्यवस्थानुपपत्तेर्मुख्यैवानुत्पत्तिरित्यधिकाशङ्कया पूर्वपक्षिते व्यवस्थातिदेशेनैव सिद्धान्तितम् ।
तत्र कीदृशी वायौ श्रुतीनां व्यवस्था ।
ययाधिकाशङ्कापरिहारः स्यादित्यतस्तां दशर्यति
एवमिति ।
८,४९५
एतेन मातरिश्वा व्याख्यातः । ब्ब्स्_२,३.८ ।
एवं प्रळयकाले ऽपि प्रतिभातपरावरः । मनुव्_२,३.१८च्द् ।
मुख्यावायुर्नित्यसमः शरीरोत्पत्तिकारणात् ।
पराधीनविशेषेण जनिमानेव शब्दितः । मनुव्_२,३.१९ ।
न्यायसुधा-
यथा वियदनादि जन्मवच्चोक्तमेवमित्यथर्ः ।
प्रतिभातपरावरः शरीराभावे ऽपि प्रतिभेनैव ज्ञानेन विषयीकृतातीतानागतो यतस्तस्मान्नित्यसम इति शब्दितः ।
शरीरोत्पत्तिकारणात्पराधीनविशेषेणेत्येतयोर्हेतुहेतुमद्भावः ।
एवशब्दस्य पराधीनविशेषेणैवेत्यन्वयः ।
मुख्यवायुरित्यनेन भूतप्रकरणे ऽपि न भूतवायुविषयमिदं सूत्रम् ।
तत्राधिकाशङ्काभावात् ।
अत एव नावान्तराभिमानिविषयम् ।
किन्नाम तत्परमाभिमानिविषयमेवेति सूचयति ।
स्वरूपातिरिक्तस्य प्रतिभज्ञानस्याप्यनुपप्लवादाकाशदेवतातो विशेषो युज्यत इति भावः ।
८,४९६
यदुक्तमत्र प्रकरणे पराधीनविशेषावाप्तिरेव जनिर्नाभूत्वाभवनमिति तदुपपत्त्यन्तरेणोपपादयन्नधिकरणार्थमुपसंहरतिनैवेति ।
नैव किञ्चित् ततो जन्मवर्जितं परमादृते ।
पराधीनविशेषत्वे जन्मनः स्थूलताभवः । मनुव्_२,३.२० ।
पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ।
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम् । मनुव्_२,३.२१ ।
प्रधनस्य च वेदस्य … । मनुव्_२,३.२२अ ।
८,४९६फ़्.
न्यायसुधा-
इति सिद्धमिति शेषः ।
एतच्च जन्मनः पराधीनविशेषलाभ(स्वरूप)त्व एवाङ्गीकृते सिद्धयति न त्वभूत्वाभवनरूपत्व इत्यर्थः ।
नन्वव्याकृताकाशस्याभूत्वाभवनानुपपत्तेरस्तु तत्र पराधीनविशेषावाप्तिजर्न्मशब्दार्थः ।
अन्यत्र त्वभूत्वाभवनमेवाङ्गीक्रियते चेत्को दोषः ।
बाधकभावाभावाभ्यामनेकार्थत्वकल्पनाविरोधादित्यत आहस्थूलतेति ।
उपादानधर्मिणो धर्म्यन्तरात्मना परिवर्तः स्थूलताभावः ।
अत एव पूर्वशब्दविलोपश्च पूर्वशब्दनिवृत्तौ शब्दान्तरप्रवृत्तिश्चेत्यर्थः ।
उदाहृतं चैतत्प्रकृत्यधिकरणे ।
अभूत्वाभवनं यदि जन्मेति कीर्त्यत इत्युक्ते ऽसदनुवादः स्यात् ।
परिणामवादिभिः क्वाप्यभूत्वाभवनानभ्युपगमात् ।
अतो विमतिपदं दर्शयितुं स्थूलतेत्याद्युक्तम् ।
तर्हि रमाया जीवचैतन्यस्यापि प्रधानस्य वेदस्य चैवंविधं जन्म नैवास्तीत्यतः परमेश्वरादृते सर्वं जनिमदिति न सिद्धयेत् ।
तथाच’इदं सर्वमसृजत’ इत्यादिप्रतिज्ञाहानिः’आत्मा वा’ इत्यादिशब्दविरोधो विभक्तत्वहेतोरनैकान्त्यं च स्यात् इति वाक्यशेषः ।
‘एष चेतनया युक्तो जीव इत्यभिधीयते’ इत्यादिवचनाज्जीवशब्दो भूतादिसङ्घाते वर्तते ।
तस्य चोक्तविधोत्पत्तिरस्त्येवेत्यतः केवलं चैतन्यस्येत्युक्तम् ।
नहि क्षीरं दधिजातमितिवदिदं द्रव्यं रमादित्वेन परि(णतमि)वृत्तमित्यत्र प्रमाणमस्ति ।
किन्तु’द्वावेतौ नित्यमुक्तौ नित्यौ सर्वगतौऽ,’अजो नित्यःऽ,’अजामेकाम्ऽ,’यावद्ब्रह्म विष्ठितं तावती वाक्’ इत्यादिश्रुतिभ्यो
ऽनादित्वमेवावगतम् ।
८,४९८
ननु वेदस्य कीदृशी पराधीनविशेषाप्तिर्येन भवत्पक्षे प्रतिज्ञाहान्यादिकं न स्यादित्यत आहवेदस्यापीति ।
… वेदस्यापीश्वरेच्छया ।
व्यक्तिर्नाम विशेषो ऽस्ति … । मनुव्_२,३.२२ब्च् ।
न्यायसुधा-
नियतविशिष्यानुपूर्वीकत्वेनार्थबोधकत्वशक्त्याविर्भावो व्यक्तिः ।
कालप्रवाहस्य नास्तित्वे दोषो वक्ष्यते ।
महदादिसूक्ष्मरूपनित्यता च श्रुत्या(दिप्र)पि प्रसिद्धा ।
अतो ऽपि प्रतिज्ञाहान्याद्यनिस्तार इत्याशयवानुपसंहरतितस्मादिति ।
… तस्मात् तद्वशतैव हि । मनुव्_२,३.२२द् ।
उत्पत्तिरत्र कथिता … । मनुव्_२,३.२३अ ।
न्यायसुधा-
तद्वशता परमेश्वरवशत्वविशेषलाभः ।
अत्र श्रुतिसूत्रयोः ।
। इति श्रीमन्न्यायसुधायां मातरिश्वाधिकरणम् ।
जोस्हि८
__
८,५०१