२३ आधिकरण

। अथ द्वितीयाध्यायस्य तृतीयः पादः ।
। अथ श्रीमन्न्यायसुधायां वियदधिकरणम् ।
‘न वियदश्रुतेः’ इत्यादि पादप्रतिपाद्यं ससङ्गतिकं दर्शयतिअथेति ।
अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।
करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम् । मनुव्_२,३.१ ।
न्यायसुधा-
प्रभुः सूत्रकारः, अनेन व्याचिख्यासिततया बुद्धिसन्निहितेन तृतीयेन पादेन वैदिकानां वचनानां परस्परं अविरोधं विरोधाभावं, दर्शयतीति
प्रतिपाद्यकथनम् ।
अस्यान्तर्भावलक्षणां सङ्गतिं दर्शयितुमुक्तम्अशेषेति ।
अशेषाश्च ते समाम्नायविरोधाश्चेति विग्रहः ।
करिष्यन् इत्यध्यायोपक्रमसमयापेक्षया ।
सूत्रकृता खलु सर्वानपि वेदविरोधान्परिहर्तुं द्वितीयो ऽयमध्याय आरब्धः ।
वैदिकानां वचनानां परस्परविरोधो ऽपि तदन्तर्भूत एवेत्यतस्तदपाकरणमिह सङ्गतमेवेति ।
आनन्तर्यलक्षणां सङ्गतिं दर्शयितुमथेत्युक्तम् ।
अवसरप्राप्तौ प्राधान्याद्युक्तिविरोधपरिहारस्य प्राथम्ये तत्प्रपञ्चात्मकत्वेन समयविरोधपरिहारस्य तदानन्तर्ये सति श्रुतीनां
परस्परविरोधपरिहारस्य भवत्ययमवसर इति ।
नन्वेवं तर्ह्यस्य पादस्य चतुर्थपादाद्भेदो न स्यात् ।
तत्रापि वेदवचसां परस्परविरोधस्य अपाक्रियमाणत्वादित्यत उक्तम्अधिदैवेति ।
अधिदैवानि अव्यक्ताद्यभिमानिदेवताः ।
अधिभूतानि कार्यकारणोपेतानि वियदादिभूतानि ।
८,४७४
इदमुक्तं भवति ।
यद्यपि पादद्वये वेदवाक्यानां परस्परविरोध एव निरस्यते ।
तथापि विषयभेदाद्भेदो भविष्यति ।
इहाधिदैवादिविषयवाक्यानां चतुर्थे त्वध्यात्मविषयाणामिति ।
नचैवमस्य पादस्यानेकविषयत्वेनानेकत्वापत्तिः ।
अध्यात्मेतरविषयत्वेनैकत्वोपपत्तेः इति ।
अत्रापि क्रमनियमे हेतुमाचार्य एव वक्ष्यति ।
८,४७५
ननु च वेदवाक्यानां परस्परविरोधपरिहारः किमर्थः ।
मिथो विरुद्धानां प्रामाण्यानिश्चयात्तत्प्रामाण्यनिश्चयार्थ इति चेन्न ।
एवं सत्यस्य तर्कशास्त्रत्वप्रसङ्गेन मीमांसात्वव्याघातादिति ।
उच्यते ।
ब्रह्मणो ऽशेषजगत्कारणत्वनिश्चयो ह्यशेषजगत्स्वरूपनिर्णये तस्य कार्यत्वादिनिर्णये च सति स्यान्नान्यथा ।
नच तद्विषयाणां वाक्यानां मिथो व्याघाते तत्स्वरूपनिर्णयो भवति ।
अतो ऽधिदैवादिवस्तुतत्त्वावधारणार्थ एवायं मिथो विरोधपरिहारः ।
तदिदमप्युक्तम्स्वरूपनिर्णयायैवेति ।
स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः । मनुव्_२,३.२ ।
न्यायसुधा-
ननु किं कतिपयवचनानामन्योन्यविरोधः परिह्रियते उत सर्वेषाम् ।
नाद्यः ।
वैयर्थ्यात् ।
तत्रैव वचनान्तरविरोधसद्भावेनानिर्णयतादवस्थ्यात् ।
न द्वितीयः ।
वेदवाक्यानामनन्तत्वेन ज्ञातुमशक्यत्वादित्यत उक्तम्अमितद्युतिरिति ।
सर्वज्ञ इत्यर्थः ।
८,४७६
एतत्पादाधिकरणपूर्वपक्षसिद्धान्तयुक्तीः सङ्गृह्याहअनुभूतीति ।
अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततो ऽधिकम् ।
एतत् सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च । मनुव्_२,३.३ ।
दृष्टयुक्तयनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारे बहुवाक्यानुवतिर्ता । मनुव्_२,३.४ ।
लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा । मनुव्_२,३.५ ।
उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचितृयं युक्तयः पूर्वपक्षगाः । मनुव्_२,३.६ ।
व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः । मनुव्_२,३.७ ।
गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्यासिद्धिसुव्यक्ती शास्त्रसिद्धिविर्पर्ययः ।
विशेषकारणं चेति सिद्धान्तस्यैव साधकाः । मनुव्_२,३.८ ।
८,४७७
न्यायसुधा-
। ओं न वियदश्रुतेः ओं ।
अत्राधिकरणे ऽनादिर्वायमाकाश इत्यादिश्रुतीनां गौणत्वमात्मन आकाशः सम्भूत इत्यादिश्रुतीनां मुख्यत्वमुपादाय वियत उत्पत्तिः समर्थिता ।
तत्र वियत्पदं नाकाशमात्रपरं किन्नाम ।
अथ ह वाव नित्यानि पुरुषः प्रकृतिरात्मा काल इत्यादिश्रुतिविगानविषयाणां परमात्मातिरिक्तानां प्रकृत्यादीनामुपलक्षणार्थं
ज्ञातव्यमित्याशयवानाहप्रकृतिरिति ।
न वियदश्रुतेः । ब्ब्स्_२,३.१ ।
प्रकृतिः पुरुषः कालो देवास्तदभिमानिनः ।
महदाद्याश्च जायन्ते … । मनुव्_२,३.९अच् ।
न्यायसुधा-
प्रकृतिः अचेतना पुरुषो जीवः तदभिमानिनः प्रकृत्याद्यभिमानिनः ।
महदाद्या इति महदहङ्कारमनोबुद्धीन्द्रियभूतसूक्ष्मतन्मात्राण्युच्यन्ते ।
प्रकृतस्योत्पत्त्यसम्भवस्य नेति प्रतिषेधे लब्धमर्थमाहजायन्त इति ।
अयमभिसन्धिः ।
न तावत्प्रकृत्यादयो जन्मरहिता एवाभ्युपग(म्यत)ता इति युक्तम् ।
‘प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यःऽ‘यावद्विकारस्तु विभागो लोकवत्’ इत्युक्तानां प्रतिज्ञाहान्यादीनामत्रापि साम्यात् ।
अन्यथा तेषामनैकान्तिकत्वापातात् ।
नाप्यविगीतजन्मानः ।
श्रुतिविगानस्य दर्शितत्वात् ।
नचाधिकरणान्तरं तत्परमस्ति ।
तस्मादत्रैव वियत्पदेन तेषामुपलक्षणं युक्तम् ।
मातरिश्वप्रभृतिषु पुनरधिकाशङ्कानिरासायायधिकरणान्तरारम्भ इति ।
८,४७९
इहाकाशस्योक्तं जन्म घटादेरिवाभूत्वाभवनलक्षणमिति केचिदास्थिताः ।
तत् निराकरिष्यन्स्वमतं तावदाहपराधीनेति ।
… पराधीनविशेषिता ।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम् । मनुव्_२,३.९द्फ़् ।
न्यायसुधा-
‘आत्मन आकाशः सम्भूतःऽ‘स इदं सर्वमसृजत’ इत्यादिश्रुतिं, विभक्तत्वादियुक्तिं चाश्रित्य यदिहाधिकरणे वियतो जनिमत्त्वमुदितं
तत्पराधीनातिशयलाभलक्षणं प्रतिपत्तव्यम् ।
अपूर्वविशेषोपजनने हि विशिष्याकारोपजनो ऽवश्यम्भावी विशिष्याकारश्च वस्तुस्वरूपाभिन्न इति तस्यैवासावुपजनो भवति ।
देवदत्तः शरीरी जातो विद्वान् जात इति, घटः संयुक्तो जातो विभक्तो जात इति चावस्थितस्वरूप एव वस्तुनि विशेषावाप्तिमात्रेण
जननव्यवहारो दृश्यत एव ।
ननु परिणामवादे घटादेरप्येषैवोत्पत्तिर्यदवस्थितस्वरूपस्यैव मृदादेरप्याकारान्त(रावाप्तिः)रतापत्तिः ।
परैरपि परिणामवाद एवाङ्गीकृतो नारम्भवादः ।
अतो विवादाभावाद्वयर्थो ऽयमारम्भः ।
यथा न व्यर्थस्तथाऽचार्य एव विवादविषयं स्पष्टयिष्यति ।
अत्र’इदं सर्वं ससर्ज’ इति श्रु(त्याद्युदा)त्युदाहरणं श्रुत्यादावप्येवमेव जन्म व्याख्येयमिति ज्ञापनार्थम् ।
यच्च वियत्पदं प्रकृत्याद्युपलक्षणपरमित्याभिप्रेतं तत्रोक्तरीत्योपपत्तिसूचनार्थं चेति ।
८,४८१
परोक्तरीत्या घटादिवदभूत्वाभवनलक्षणैवोत्पत्तिर्वियतः श्रुतिसूत्रविवक्षिता किन्न स्यादिति चेदत्र पृच्छामः ।
आकाशशब्देन किं विवक्षितं परेषां (किं) वैशेषिकादिवदवकाशमात्रमुत बाह्यानामिव मूर्ताभावः ।
आद्यं दूषयतिअवकाशमात्रमिति ।
अवकाशमात्रमाकाशः कथमुत्पद्यते ऽन्यथा । मनुव्_२,३.१०अब् ।
न्यायसुधा-
अन्यथा पराधीनविशेषाप्तिर्जन्मेत्यनङ्गीकृत्याभूत्वाभवनं जन्मेत्यङ्गीकारे ऽवकाशमात्रमाकाश इति चाङ्गीकारे कथमसावुत्पद्यते ।
तस्योत्पत्तिर्नोपपद्यत इति यावत् ।
सोपादाना हि सर्(वार्)वसृष्टिर्दृष्टा न चाकाशोत्पत्तावुपादानमस्ति ।
नच ब्रह्मण उपादानत्वमुपपद्यत इति प्रकृत्यधिकरणे (निष्ठङ्कितम्) निर्दिष्यम् ।
यस्य चोत्पत्तिस्तस्य प्रागभावेन भाव्यम् ।
न चाकाशस्य प्रागभावः सम्भवति ।
अनुपपन्नप्रतीतिकत्वात् ।
अभावो हि प्रतीयमानो ऽस्यात्रेति प्रतीयते न तु निराश्रयः ।
नचाकाशाभावस्याश्रयप्रतीतिरुपपद्यते ।
यदेवेहेति निर्दिश्यते तस्यैवाकाशत्वात् ।
उपादानाश्रिताभाववादे ऽपि तदभावान्नाभावप्रतीत्युपपत्तिः ।
तथाच श्रुतिः ।
‘अभावो हि प्रदेशस्य न ह्यत्राभाव इत्यपि’ इति ।
अनवकाशरूपं ब्रह्मैवाकाशस्य पूर्वावस्था प्रागभावश्चोच्यत इत्यपि ब्रह्मणो ऽनुपादानत्वेन प्रत्युक्तम् ।
प्रतियोग्याश्रय एवाभावाश्रयः ।
नचाकाशस्याश्रयो ऽस्तीति तदभावो ऽपि निराश्रयो ऽस्त्विति चेन्न ।
निराश्रयत्वे कार्यत्वानुपपत्तेः ।
किञ्च प्रतीतावाकाशः स्वाश्रय इत्यतस्तदभावो ऽप्याकाशाश्रयः प्रतीयेतेति विरुद्धमापद्यते ।
प्रकृतिराकाशस्य कारणमिति कश्चित् ।
तन्मते प्रकृतेरजन्मप्रसङ्गः ।
अथ तत्र पराधीनविशेषावाप्तिर्जन्माङ्गीक्रियते ।
तदासम्भावितोत्पत्तिके वियदादावप्येवमेवाङ्गीकरणीयमिति ।
८,४८३
द्वितीये ऽपि किं प्रदेशरूपमाकाशमङ्गीकृत्येदमुच्यते उतानङ्गीकृत्य ।
प्रथमे यस्य कस्यचिन्मूर्तद्रव्याभावस्योत्पत्तिर्वा सर्वस्य वा विवक्षिता ।
नाद्यः ।
तस्याः प्रत्यक्षादिसिद्धत्वेनाधिकरणानारम्भकत्वात् ।
द्वितीयं दूषयतियदीति ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत् । मनुव्_२,३.१०च्द् ।
८,४८४
न्यायसुधा-
सर्वस्यापि मूर्ताभावस्य सृष्टावुत्पत्त्यङ्गीकारे प्रलये ऽवश्यं तदभावो ऽभ्युपगमः स्यात् ।
अत्यन्तासतो जन्मासम्भवात् ।
यदि च सृष्टेः पूर्वं प्रलये ऽनाकाशता सर्वस्य मूर्तद्रव्याभावस्याभावः अङ्गीक्रियते ।
तर्हि किं तदा मूर्तनिबिडं जगदङ्गीक्रियते ।
एतदेव स्पष्टयतिमूर्तेति ।
मूतर्सम्पूर्णता चैव यद्यनाकाशता भवेत् । मनुव्_२,३.११अब् ।
न्यायसुधा-
यद्युक्तलक्षणाकाशाभावः प्रलये भवेत्तदा मूर्तसम्पूर्णता भवेदेव ।
अभावाभावस्य भावानतिरेकात् ।
तद्वयाप्तत्वाद्वा ।
चशब्दो ऽनुक्तसमुच्चयार्थः ।
सृष्टयुत्तरकालं मूर्तमात्रं च न स्यात् ।
एवं च सर्गप्रलयविपरिवर्तः स्यात् ।
अधिका च प्रलये मूर्तसम्पूर्तेरापत्तिः ।
मूर्तद्रव्याभाव एवाकाशो न ततो ऽतिरिक्तो ऽस्तीति द्वितीयं निराकरोतिमूर्तद्रव्याणीति ।
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा । मनुव्_२,३.११च्द् ।
न्यायसुधा-
तदभावश्चेति चार्थः ।
यो मूर्तद्रव्याणि तदभावांश्चाङ्गीकरोति तेनावश्यं तदतिरिक्ताकाशो ऽङ्गीकर्तव्य एव ।
यस्मात्तानि सर्वदाऽकाशे स्थितानि तेनेति योजना ।
८,४८५फ़्.
इदमुक्तं भवति ।
एकस्मिन् पतत्रिणि पतति द्वितीयेन पतत्रिणा कुत्र पतितव्यमिति वाच्यम् ।
यत्रासौ नास्ति तत्रेति चेत्तर्हि येनाधिकरणेनैक्य पतत्रिणो ऽभावः परस्य च भावो विशिष्यते तदर्थान्तरमङ्गीकरणीयम् ।
स एव प्रदेशरूप आकाश इति कथं तदनभ्युपगमः ।
किञ्चेह पक्षी नेह पक्षीति मूर्ततदभावाश्रयतया प्रदेशः साक्षिसिद्धः कथमपह्नोतुं शक्यते ।
अपि च किं मूर्तद्रव्यस्य प्रागभाव आकाशः किंवा प्रध्वंसो यद्वात्यन्ताभावः अथवान्योन्याभावः ।
न प्रथमद्वितीयौ ।
सृष्टयुत्तरकाले निराकाशत्वप्रसङ्गात् ।
प्रागभावप्रध्वंसाभावयोरुपादाननिष्ठत्वेन तत्राकाशबुद्धेरन्यत्र तदभावस्य चापत्तेः ।
न तृतीयः ।
क्वचित्कदाचिन्मूर्तसद्भावे तदत्यन्ताभावानुपपत्तेः ।
नचतुर्थः ।
घटान्योन्याभावो हि पटस्तन्निष्ठो वेति तत्राकाशबुद्धिप्रसङ्गात् ।
मूर्तद्रव्यसंसर्गाभावमात्रमाकाश इति चेत्तर्हि उत्पततः पतत्रिणः केन संसर्गो येन तदभावस्याकाशत्वं स्यादित्यवश्याश्रयणीयः प्रदेश इति ।
तदेवमाकाशस्याभूत्वाभवनरूपोत्पत्तिरुयक्तेति सिद्धम् ।
८,४८७
अस्त्वेवं परकृतमपव्याख्यानम् ।
कस्तर्ह्याकाशशब्दार्थः का च तस्य पराधीनविशेषाप्तिरित्यत आहअत इति ।
अत आकाशशब्दोक्तस्तद्देवो ऽत्र विनायकः ।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते । मनुव्_२,३.१२ ।
न्यायसुधा-
परकीयव्याख्यानस्यायुक्तत्वादित्यर्थः ।
तद्देवो भूताकाशाभिमानीति विनायकस्याकाशशब्दवाच्यत्वोपपादनम् ।
अत्रात्मन आकाश इत्यादिश्रुतौ ।
देहोत्पत्त्येति पराधीनविशेषा(वा)प्तेर्विवरणम् ।
वाक्यद्वयमेतदित्यतो ऽत्रेति श्रुत्येति च युज्यते ।
श्रुतेर्विषयान्तरं चाहभूतमपीति ।
८,४८७फ़्.
भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यते … । मनुव्_२,३.१३अच् ।
न्यायसुधा-
भूतमप्याकाशशब्दोक्तं तच्च घटादिवदुत्पद्यत इति श्रुत्याभिधीयत इति सम्बन्धः ।
कुतो भूताकाशस्योत्पत्तिमत्त्वमित्यत उक्तम्असितमिति ।
रूपित्वादित्यर्थः ।
तथाच श्रुतिः ।
‘आकाशो नीलिमोदेति’ इति ।
तथा सति चाक्षुषत्वप्रसङ्ग इत्यत
उक्तम्दिव्येति ।
तुशब्देनानुद्भूतत्वविशेषं सूचयति ।
इदमुक्तं भवति ।
किं चाक्षुषत्वमात्रमापाद्यमुतास्मदादीन्प्रति ।
आद्ये त्विष्यापादनम् ।
दिव्यदृष्टिगोचरत्वाभ्युपगमात् ।
द्वितीये तु भूतादिशरीरेषु व्याप्तिभङ्गः ।
तत्रानुद्भूतादिकल्पने ऽत्रापि तत्समानं श्रुतिप्रामाण्यादिति ।
८,४८९
नन्वाकाशस्याभूत्वाभवनलक्षणामुत्पत्तिमधुनैव निराकृत्यात्र पुनस्तदङ्गीकारे कथं पूर्वोत्तरव्याघातो न भवेदित्यत आहअव्याकृतमिति ।
… अव्याकृतं हि गगनं साक्षिगोचरम् । मनुव्_२,३.१३च्द् ।
न्यायसुधा-
यतो ऽव्याकृतमेव गगनं नोत्पद्यत इत्युक्तं न तु भूतमतो न विरोधः ।
तस्यानुत्पत्तौ हेत्वन्तरमप्याहनित्यं हि तदिति ।
नचैतदसिद्धम् ।
विनाशकारणाभावात् ।
नहि कारणान्तरमनपेक्ष्येश्चरेच्छा विनाशहेतुर्दृष्टा ।
उत्पत्तिश्रुतेस्तदपि कल्पनीयमिति चेन्न ।
तस्या भूततदभिमानिविषयत्वेन सावकाशत्वात् ।
अवश्यं चैतदेवम् ।
आत्मन आकाशः सम्भूत इत्यादेर्भूतप्रकरणत्वात् ।
नन्वव्याकृताकाशे प्रमाणमेव नास्ति ।
कस्यानुत्पत्तिरुच्यत इत्यत उक्तम्साक्षीति ।
तत्कथमित्यत आहप्रदेश इति ।
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत् । मनुव्_२,३.१३एफ़् ।
न्यायसुधा-
नन्वेतदेव भूताकाशमिति चेन्न ।
रूपित्वारूपित्वव्याकृतत्वाव्याकृतत्वपरिच्छिन्नत्वापरिच्छिन्नत्वश्रुतीनां सत्त्वात् ।
किञ्चोत्पत्त्यनुत्पत्तिश्रुत्योर्विरोधो ऽप्याकाशद्वैतमवगमयति ।
व्यवस्थयाविरोधोपपत्तावनुत्पत्तिश्रुतेरौपचारिकत्वकल्पनायोगात् ।
नच प्रदेशस्योत्पत्तिरुपपद्यत इत्युक्तं प्राक् ।
ननु सूत्रकृतैव गौण्यसम्भवादित्युक्तम् ।
व्याख्यातं तद्भाष्यकृता ।
विवृतं चास्माभिः ।
८,४९१
नन्वव्याकृताकाशस्योत्पत्त्यभावे मा भूदाकाशः सम्भूत इति विरोधः ।
इदं सर्वमसृजतेत्यादिश्रुतिविरोधस्तु भविष्यतीति चेन्न ।
तस्याभूत्वाभवनलक्षणोत्पत्त्यसम्भवे ऽपि पराधीनविशेषाप्तिरूपोत्पत्तिसद्भावादित्याहतथापीति ।
तथापि पूर्वसम्बन्धपरतन्त्रविशेषयुक् ।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम् । मनुव्_२,३.१४ ।
न्यायसुधा-
मूर्तसम्बन्धश्चासौ परतन्त्रविशेषश्चेति विग्रहः ।
यदनादित्वेनोक्तं तदेव स्वमित्यर्थः ।
इदं सर्वमसृजतेति श्रुतिवाक्यं श्रुतिशब्दः ।
८,४९२
एवं श्रौता(सौत्रा)काशोत्पत्तिं व्याख्यायोपलक्षितप्रकृत्याद्युत्पत्तिं व्याख्यातिप्रकृतिरिति ।
प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः । मनुव्_२,३.१५ ।
न्यायसुधा-
इत्येते च एतदादयश्च ।
ईश्वराधीनविशेषेणैव नाभूत्वाभावित्वेनेत्यर्थः ।
कालस्य त्वभूत्वाभवनमप्यस्तीत्याशयेनाहकालेति ।
कालप्रवाह एवैको नित्यो नतु विशेषवान् । मनुव्_२,३.१६अब् ।
न्यायसुधा-
विशेषवान् क्षणलवादिरूपः ।
उपपादितं चैतत्प्रागेव ।
८,४९३
प्राक् परिगणितानां प्रकृत्यादीनामीश्वराधीनविशेषावाप्तिरेव जन्मेत्युक्तम् ।
तत्र कस्य कीदृशी विशेषावाप्तिरित्यतः प्रकृत्यादित्रयाभिमानिदेवतायाः पराधीनविशेषावाप्तिं विशदयतिपुरुषेति ।
पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी । मनुव्_२,३.१६च्द् ।
सिसृक्षुत्वविशेषं तत् साक्षाद् भगवदिच्छया ।
प्राप्तैव सृष्टेत्युदिता … । मनुव्_२,३.१७अच् ।
न्यायसुधा-
यस्मात्पुरुषादीनां रमाभिमानिनी ।
सा चैकैव देहदेह्यादिभेदरहिता ।
तत्तस्मात्साक्षाद्भगवदिच्छया सिसृक्षुत्वविशेषं प्राप्तैव सृष्टेत्युदिता ।
नतु विनायकाद्यभिमानिवद्देहोत्पत्तिमतीत्यर्थः ।
यद्यपि भगवत्या इच्छानि नित्या तथापि (तदीय)व्यक्तिरूपस्येश्वरा(परा)धीनत्वाभिप्रायेणेदमुक्तमिति ज्ञातव्यम् ।
प्रकृतेः पराधीनविशेषावाप्तिं विवृणोतिप्रधानमिति ।
… प्रधानं विकृतेरपि । मनुव्_२,३.१७द् ।
न्यायसुधा-
प्रधानमपि विकृतेरीश्वराधीनायाः कारणादिदं सर्वमसृजतेत्यादौ सृष्टमित्युदितमित्यर्थः ।
यथोक्तम् ।
‘विकारो ऽव्यक्तजन्म हि’ इति ।
८,४९४
पुरुषाणां पराधीनविशेषावाप्तिं स्पष्टयतिपुमांस इति ।
पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः । मनुव्_२,३.१८अब् ।
न्यायसुधा-
कालप्रवाहस्य प्रवाहिजन्म महदादीनां चोपचयावाप्तिर्विशेषलाभ इति स्पष्टत्वा(न्नात्रो)न्नोक्तम् ।
एतेन’ज्ञो ऽत एवऽ‘तथा प्राणाः’ इत्यदिकमपि व्याख्यातं वेदितव्यम् ।
। इति श्रीमन्न्यायसुधायां वियदधिकरणम् ।


__
८,४९४