। अथ श्रीमन्न्यायसुधायां उत्पत्त्य(शक्त्य)धिकरणम् ।
। ओं उत्पत्त्यसम्भवात् ओं ।
शाक्तं मतमत्रापाक्रियते ।
न निराकर्तव्यमेवैतत् ।
स्कान्दादिमतवदस्यापि पूर्वन्यायेनैव निरस्तत्वात् ।
यथा हि ।
पत्युरित्यस्य स्थाने स्कन्दस्येत्यादि पठित्वासामञ्जस्ये तदनुसारिण्यः श्रुतय उदाह्रियन्ते ।
सम्बन्धानुपपत्त्यादिकं च तद्विषयं योज्यते ।
तथा शक्तावपि वक्तुं शक्यमेव(ते) ।
अन्यथा स्कन्दादिशर्नमपि पृथगपाकरणीयं स्यात् ।
अथोच्येत ।
शाक्तमते पाशुपतादाचारभेदादेर्विद्यमानत्वात्तत्सिद्धान्ताविशेषो नास्तीति ।
तन्न ।
सौरादिमतेष्वपि तस्य विद्यमानत्वात् ।
अथ किं तेन ।
देवताविशेषपरिग्रहमन्तरेणोक्तार्थविरुद्धो दूष्यो ऽथर्ः सर्वत्र समान एवेति ब्रूषे ।
तच्छाक्ते ऽपि समानमित्यतो नैतदपि पृथगपाकरणीयमित्यत आहनिराकृताविति ।
उत्पत्त्यसम्भवात् । ब्ब्स्_२,२.४२ ।
निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते … । मनुव्_२,२.२७७अच् ।
न्यायसुधा-
सत्यम् ।
स्कन्दादिवच्छाक्तस्यापि मतस्य न पाशुपताद्विशेषः ।
अत एवोक्तदोषग्रामविषयत्वमपि ।
तथापि तत्रासाधारणस्य दूषण(स्यापि वि)स्य विद्यमानत्वात्तद्विवक्षया शक्तिमतं पृथग्भङ्गया दूष्यते सूत्रकारेण ।
उत्पत्त्यसम्भवो हि शाक्तस्यैवासाधारणदोषो न तु पुरुषदैवतानाम् ।
एतच्च वक्ष्याम इति ।
८,४३६
एवमधिकरणारम्भमुपपाद्येदानीं शाक्तमत(स्थिति)मुपन्यस्यतिमहतीति ।
… महती देवी ह्रीङ्करी सर्वकारणम् ।
त्रिपुराभैरवीत्यादिनामभिः साभिधीयते । मनुव्_२,२.२७७च्फ़् ।
न्यायसुधा-
शक्तिमतमिति वर्तते ।
सर्वस्यागामिना इतिशब्देन सम्बन्धः ।
देवी महती सर्वोत्कृष्टेति शक्तिमतमिति ।
कथं महतीत्यत उक्तम्सर्वकारणमिति ।
सकलजगत्सृष्टयादिकारणत्वात् सार्वज्ञादिसर्वगुणवती समस्तदोषदूरा भ(ग)वतीत्यतः सर्वोत्कृष्टेति ।
नन्विदं शास्त्रमन्योन्यव्याहतं कथं प्रमाणं स्यात् ।
भुवनेश्वरीतन्त्रे हि सैव महती सर्वकारणमिति चोच्यते ।
त्रिपुरातन्त्रे तु त्रिपुरैव ।
तथा भैवरीतन्त्रे भैरवी ।
एवं कुब्जिकादितन्त्रेष्वन्या चान्या च ।
नच बह्वीनां सर्वोत्तमत्वमुपपद्यत इत्यत उक्तम् ।
ह्रीङ्कारी त्रिपुरा भैरवीत्यादिनामभिः सा भगवत्येकैवाभिधीयते ।
अतो न (नान्योन्य) व्याघात इति ।
शाक्ताश्च त्रिविधाः ।
महावामा मध्यवामा अणुवामाश्चेति ।
एत एव क्वचिच्छाक्तशाम्भवाऽणशब्दैरुच्यन्ते ।
तत्राद्यानां मतविशेषं दर्शयतितस्या इति ।
तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः ।
भूतभौतिकमप्येतदिति … । मनुव्_२,२.२७८अद् ।
न्यायसुधा-
तस्याः केवलाया एव शक्तेः ।
सदाशिवग्रहणेन मतान्तराद्भेदो दर्शितः ।
तत्र सदाशिवस्य शक्तितो जन्मानभ्युपगमात् ।
एवमुपन्यस्तं महावाममतं तावदयुक्तमित्याहतदिति ।
… तन्नोपपद्यते । मनुव्_२,२.२७८द् ।
८,४३७
न्यायसुधा-
निरन्तरोपन्यस्तं महावाममतं तदिति परामृशति ।
कुत इत्याकाङ्क्षायां सूत्रम् उत्पत्त्यसम्भवादिति ।
तद्वयाख्यातुं तावद्वयाप्तिमुपपादयतिदृष्टेति ।
दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ।
केवलाभ्यो नहि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात् । मनुव्_२,२.२७९ ।
नार्च्यं महावाममतं … । मनुव्_२,२.२८०अ ।
८,४३८
न्यायसुधा-
अत्र सृष्टिशब्देनापत्त्योत्पत्तिर्विवक्षिता न सृष्टिमात्रम् ।
तस्य केवलाभ्यो ऽपि स्त्रीभ्यो दर्शनात् ।
सदेति व्यभिचाराभावं सूचयति ।
वाशब्दस्तुशब्दार्थः ।
विशेषतः प्राचुर्येण ।
केषाञ्चिदेव हि द्रोणादीनां सृष्टिः केवलेभ्यः पुरुषेभ्यो दृष्टा ।
नन्वचतुरादिसूत्रेण स्त्रीपुंसेभ्य इति भवितव्यम् ।
स्त्रीपुम्भ्य इति कथम् ।
‘समासान्तो विधिरनित्यः’ इति भविष्यति ।
यद्वा द्वन्द्वात्परः समासान्तो ऽसौ निपातितः ।
अत्र तु स्त्रीभिः सहिताः पुमांसः (स्त्रीमुमांसस्ते)तेभ्य इति न द्वन्द्व इति न भविष्यति ।
केवलाभ्यः पुरु(षानुग्रहहीनाभ्यः)षाननुगृहीताभ्यः ।
ततः किमित्यतः सूत्रं व्याख्यातितत इति ।
यत एवं व्याप्तिर्यतश्च प्रकृता(तिः) केवला ।
शिवादीनां ततो जन्माङ्गीकारात् ।
ततः कारणात्ततः शक्तेरपत्योत्पत्त्यसम्भवात् इत्यर्थः ।
८,४३९
अयमत्र प्रयोगः ।
आदिकालीनापत्त्योत्पत्तिर्न केवलस्त्रीकृता(कर्तृका) अपत्योत्पत्तित्वात् ।
यापत्त्योत्पत्तिः सा न केवलस्त्रीकर्तृका ।
यथा सम्प्रतिपन्ना ।
सा हि कदाचित् पुरुषमात्रात्क्वचित्पुरुषानुगृहीताभ्यः स्त्रीभ्यो दृष्टा ।
न पुनः क्वापि केवलाभ्यः स्त्रीभ्यो दृष्टा ।
येनोक्तव्याप्तेर्व्यभिचारः स्यादिति ।
यद्वा शक्तिर्नापत्त्यप्रसवित्री केवलस्त्रीत्वात्सम्प्रतिपन्नकेवलस्त्रीवत् ।
अत्र केवलाभ्यो न हि स्त्रीभ्य इत्यन्वयकथनं दृष्टेत्यादि तद्वयभिचारपरिहारार्थमिति ज्ञातव्यम् ।
यदि वा केवलस्त्रीत्वान्नापत्यप्रसवित्री चेच्छक्तिः स्यात्तदा केवलपु(लात्पु)रुषत्वात् पुरुषोत्तमो ऽपि तथा न स्यादित्याक्षेपमपाकर्तुं प्रागेव
दृष्टेत्याद्युक्तम् ।
असिद्धं च केवलत्वं तस्य लक्ष्मीपतेरित्याशयेन स्त्रीपुम्भ्य इत्युक्तम् ।
केवलाभ्य इति तु व्याप्त्युपपादकम् ।
अथवा यत्’निराकृतौ विशेषस्य भावात्’ इत्यनेनास्य दोषस्यासाधारणत्वमुक्तम् तदुपपादनाय दृष्टेत्याद्युपन्यासः ।
८,४४१
इदानीमधिकाशङ्कया मतान्तरमुत्थापयतिवामैरिति ।
… वामैरन्यदुदीर्यते । मनुव्_२,२.२८०ब् ।
न्यायसुधा-
मध्यवामैरित्यर्थः ।
अन्यत् महावामसिद्धान्तात् ।
किं तदित्यत आहशिवेति ।
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः । मनुव्_२,२.२८० ।
इति … । मनुव्_२,२.२८१अ ।
न्यायसुधा-
शिव उपसर्जनं यस्याः सा शिवोपसर्जना ।
इदमित्यस्यैव व्याख्यानं समन्ततो देशे काले च वर्तमानं कार्यमिति ।
एतदुक्तं भवति ।
नोत्पत्त्यसम्भवो ऽस्मन्मते ऽस्ति ।
अस्माभिः शिवसहितायाः शक्तेर्विश्वप्रस(भ)वस्याङ्गीकृतत्वात् ।
नचैवं (त)द्वयोः सर्वोत्कृष्टत्वं विरुद्धमापद्यते ।
शिवस्य शक्तिं पत्युपसर्जनत्वाङ्गीकारादिति ।
एतत्प्रतिषेधतितच्चेति ।
… तच्चोपपन्नं न … । मनुव्_२,२.२८१अब् ।
न्यायसुधा-
अत्राप्युत्पत्त्यसम्भवस्यापरिहारादिति भावः ।
न च कर्तुः करणम् । ब्ब्स्_२,२.४३ ।
… शिवस्याकरणत्वतः ।
अदेहत्वाद् … । मनुव्_२,२.२८१ब्च् ।
८,४४१फ़्.
न्यायसुधा-
अकरणत्वत इत्यस्यैव स्वपदस्य वर्णनमदेहत्वादिति ।
यद्वाकरणत्वतो ज्ञानादिकारणाभावादित्यर्थः ।
तदेव कथमित्यतो ऽकरणत्वतो निरिन्द्रियत्वादित्युक्तम् ।
तदपि कुत इत्यत उक्तमदेहत्वादिति ।
एतदुक्तं भवति ।
देहवता हि शिवेनापत्योत्पत्तौ शक्तेः साचिव्यमाचरणीयम् ।
न विदेहेन ।
तस्य प्र(वि)लीनवदिन्द्रियादिविज्ञानादिविकलस्य तदनुपपत्तेः ।
नच शिवदेहोत्पत्तौ केवलायाः शक्तेः शक्तिरस्ति ।
प्रागुक्तदोषात् ।
अन्यथात्रापि तथोपपत्तौ शिवाङ्गीकारवैयर्थ्यापत्तेश्च ।
नच शिवसहितायाः ।
विदेहस्य साहाय्यकरणानुपपत्तेः ।
अतः अङ्गीकृतस्यापि शिवस्याजागलस्तनायितत्वेनात्राप्युत्पत्त्यसम्भव एवेति ।
मतान्तरमुत्थापयतिअपि हीति ।
… अपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम् । मनुव्_२,२.२८१च्द् ।
अणुवामा … । मनुव्_२,२.२८२अ ।
८,४४३
न्यायसुधा-
अन्ये ऽपीत्यन्वयः ।
तानेव विशेषनाम्नाऽहअणुवामा इति ।
अस्य मतस्य लोके प्रचुरतां सूचयितुं हिशब्दः ।
सर्वज्ञमित्युपलक्षणम् ।
जगत्सृष्टयाद्युपयुक्तसकलकारणोपेतम् ।
इदमुक्तं भवति ।
शिवसहिता शक्तिर्जगज्जननीत्यभ्युपच्छतो मम नोक्तदोषः ।
शिवस्य स्वाभाविकसार्वज्ञादिमत्त्वेन देहेन्द्रियानपेक्षणात् ।
लीलाविग्रहग्रहणेन शक्तिसाहाय्यकरणस्या(सम्भोगस्या)प्युपपत्तेरिति ।
तदिदं दूषयतिन तदिति ।
… न तद्युक्तम् … । मनुव्_२,२.२८२अ ।
न्यायसुधा-
कुत इत्यत्र सूत्रम् ओं विज्ञानादिभावे वा तदप्रतिषेधः ओं ।
इति ।
तस्यार्थः ।
शिवस्य विज्ञानादिभावे अङ्गीकृते तस्य मतस्य प्रतिषेधो न क्रियत इति ।
नन्विदं मतमनुमानं न वा ।
नाद्यः ।
उक्तार्थविरुद्धत्वात् ।
न तद्युक्तमित्यस्य चायोगात् ।
द्वितीये कथं तदप्रतिषेध इत्युक्तम् ।
कथं च न तद्युक्तमित्यत्रास्य हेतुत्वमित्यतस्तदप्रतिषेध इति निवेशयितुमुत्सूत्रं तावद्धेतुमाहईशेति ।
विज्ञानादिभावे वा तदप्रतिषेधः । ब्ब्स्_२,२.४४ ।
… ईशवादप्रवेशनात् । मनुव्_२,२.२८२ब् ।
न्यायसुधा-
शैवमतप्रवेशापत्तेरित्यर्थः ।
८,४४४
ननु शैवाः सार्वज्ञादिगुणोपेतं शिवमेकमेवाभ्युपयन्ति ।
शाक्तास्तु शिवं शक्तिं चेत्यस्ति महान्सिद्धान्तभेदः ।
तत्कथं शाक्तानां शैवमतानुप्रवेश इत्यत आपादितदोषो ऽयमित्याशयवानाहसार्वज्ञादीति ।
सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम् । मनुव्_२,२.२८२च्द् ।
न युज्यते … । मनुव्_२,२.२८३अ ।
न्यायसुधा-
सत्यं शाक्तैः सार्वज्ञादिगुणैर्युक्तं शिवशक्त्याख्यं द्वयमभ्युपगतमिति ।
तत्तु न युज्यते ।
कल्पनागौरवात् ।
तथाहि ।
न तावत्सार्वज्ञाद्युपेतं प्रत्यक्षेण सिद्धम् ।
परचित्तवृत्तीनां परं प्रत्यतीन्द्रियत्वात् ।
नाप्यागमेन ।
शक्तागमस्य प्रामाण्यसन्देहात् ।
अपौरुषेयागमस्य परेण प्रामाण्यानादरणात् ।
आदरणे वा तत एव स्वमतहानेः ।
ततः प्रपञ्चरचनानुपपत्त्यैव तथाविधं वस्तु कल्पनीयम् ।
एकेनैव सार्वज्ञादिमता सर्वं निर्वहत्येव ।
तथाच वृथा तथाभूत(वस्तु)द्वयकल्पने कल्पनागौरवमेव ।
अत एकमेव तादृशं वस्त्वङ्गीकार्यमिति ।
ततः किमित्यत आहतत इति ।
… ततस्त्वीश एक एव प्रयोजकः । मनुव्_२,२.२८३ब् ।
न्यायसुधा-
उक्तहेतोरेकस्यैव सार्वज्ञादिमतो ऽङ्गीकार्यत्वे केवलशक्तेरङ्गीकृतावुत्पत्त्यसम्भवप्रसङ्गादीश एव सार्वज्ञाद्युपेतः प्रपञ्चरचनायाः प्रयोजकः
शाक्तैरङ्गीकर्तव्यः स्यात् ।
एवञ्च कथं न शैवमतप्रवेशः शाक्तमतस्येति ।
८,४४५
किमतो यद्येवम् ।
शाक्तस्यापसिद्धान्तेन पराजयः स्यादिति चेत्सत्यम् ।
तावतापि भगवत्सिद्धान्तानवक्ळ्प्तिरेव ।
शैवमतस्यापि भवत्सिद्धान्तविरोधित्वेन निराकतर्व्यत्वादित्यतस्तदप्रतिषेध इति सूत्रांशं सोपपत्तिकं निवेशयतिउक्तेति ।
उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते । मनुव्_२,२.२८३ ।
न्यायसुधा-
यतः शैवपक्षो निरन्तरातीताधिकरण एवोक्तदोषो ऽतो ऽत्र न पुनर्दूष्यते पुनरुक्तिदोषभयादिति ।
एवं प्रत्येकमपाकृतानि त्रीण्यपि मतानि साधारणदूषणेन निराकर्तुं सूत्रम् ।
ओं विप्रतिषेधाच्च ओं इति ।
तद्व्याचष्टेश्रुतीति ।
विप्रतिषेधाच् च । ब्ब्स्_२,२.४५ ।
श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ।
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम् । मनुव्_२,२.२८४ ।
न्यायसुधा-
सतां मध्ये जुगुप्सितत्वात् गोप्तुमिष्टत्वात् ।
यद्वा कर्तृकर्मणोः कृतीति कर्तरि षष्ठी ।
सद्भिर्निन्दितत्वादित्यर्थः ।
हिशब्देन श्रुत्यादीनां प्रसिद्धतां द्योतयति ।
८,४४७
केचिदिमां चतुःसूत्रीं भागवतमतनिराकरणपरतया व्याचक्षते ।
तथाहि ।
पाञ्चरात्रिका वासुदेवात्सङ्कर्षणो नाम जीवो जायते सङ्कर्षणात्प्रद्युम्नसञ्ज्ञकं मनो जायते ।
प्रद्युम्नादनिरुद्धसञ्ज्ञको ऽहङ्कारो जायत इति प्रक्रियामाहुः ।
तत्र सूत्रम्उत्पत्त्यसम्भवादिति ।
वासुदेवात्सङ्कर्षणो नाम जीवो जायत इति तावदयुक्तम् ।
जीवभ्योत्पत्त्यसम्भवात् ।
उत्पत्तिमतो हि जीवस्यानित्यत्वादयो दोषाः प्रसज्येरन् ।
ततश्च नैवास्य भगवत्प्राप्तिर्मोक्षः स्यात् ।
न जायते(न)म्रियत इत्यादिश्रुतिस्मृतिविरोधाच्च ।
नच कर्तुः करणम् ।
सङ्कर्षणसञ्ज्ञकाज्जीवात्प्रद्युम्नसञ्ज्ञकस्य मनसो जन्मापि पञ्चरोत्रोक्तं नोपपद्यते ।
नहि लोके कर्तुर्देवदत्तादेः (करणं) परश्वधाद्युत्पद्यमानं करणं दृश्यते ।
यदा चोत्पद्यते तदा कर्मैव न करणम् ।
जीवस्य कर्ता मनश्च करणम् ।
ततस्तन्न ततो जनिमद्भवितुमर्हति ।
एतस्माज्जायते प्राणो मनःसर्वेन्द्रियाणि चेतांश्वरादेव मनोजननश्रवणाच्च ।
एतेन प्रद्युम्नादनिरुद्धसञ्ज्ञको ऽहङ्कारो जायत इत्यपि प्रत्युक्तम् ।
अथापि स्यात् ।
नैवैते सङ्कषर्णादयो जीवादिभावेनाभिप्रेयन्ते ।
किं तर्हीश्वरा एवैते सर्वे ज्ञानैश्वर्यशक्तिबलवीर्यतेजोभिरैश्वरैर्धर्मैरन्विता अभ्युपगम्यन्ते ।
तस्मान्नायं दोष इति ।
अत्र परिहारं पठति विज्ञानादिभावे वा तदप्रतिषेधः ।
परमात्मनो वासुदेवस्येव सङ्कर्षणादीनामपि विज्ञानादिषाड्गुण्यसद्भावे तत एव चेश्वरत्वे ऽभ्युपगम्यमाने ऽपि
तस्योत्पत्त्यसम्भवदोषस्याप्रतिषेधः ।
प्रकारान्तरेण प्राप्नोत्येवायमुत्पत्त्यसम्भवदोषः ।
तथाहि ।
न तावदेते चत्वारः परस्परं भिन्नाः ।
अनेकेश्वरकल्पनायां गौरवादिदोषापत्तेः ।
अभेदे तु कथं स्वत एव स्वस्योत्पत्तिः सम्भवेत् ।
निरतिशयत्वात् ।
नचैते भगवद्व्यूहाश्चतुःसङ्खयायामेवावतिष्ठेरन् ।
तद्व्यूहानामनन्तत्वाभ्युपगमात् ।
विप्रतिषेधाच्च ।
परस्परविरोधश्च पञ्चरात्रे भवति ।
ज्ञानैश्वर्यबलवीर्यशक्तितेज्सां भगवतो गुणा इति क्वचिदुच्यते ।
आत्मान एवैते भग(वतो)वन्तो वासुदे(वा इ)वस्येति क्वचिद्भगवत्स्वरूपत्वमित्यदि ।
वेदप्रतिषेधश्चात्र भवति ।
भगवाञ्छाण्डिल्यः षडङ्गं वेदमधीत्य तस्मिन्महत्याम्नाये निष्ठामनधिगच्छन्यः सर्वपरो धर्मो यस्मान्न भूयो ऽस्ति कथं तं विद्यामित्येवं
बलवद्विवेकमातिष्ठमानो बभूव ।
तत्र भगवते शाण्डिल्याय भगवता सङ्कर्षणेन व्यक्तेन शब्दवच्छास्त्रं प्रोक्तमिति वेदनिन्दादर्शनात् ।
तथा चान्यत्र ।
‘अधीता भगवन्वेदाः साङ्गोपाङ्गाः सविस्तराः ।
श्रुतानि च मयाङ्गानि वाको वाक्ययुतानि च ।
‘न चैतेषु समस्तेषु संशयेन विना क्वचित् ।
श्रेयोमार्गं प्रपश्यामि येन सिद्धिर्भविष्यति’ इति ।
तस्मादयुक्तं पञ्चरात्रशास्त्रमिति ।
८,४४८
तामिमामपव्याख्यां प्रत्याख्यातिपञ्चरात्रेति ।
पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ।
सूत्राण्यतिविरुद्धं तद् … । मनुव्_२,२.२८५अच् ।
न्यायसुधा-
आचक्षते व्याचक्षते ।
यदित्यस्यार्थे यदिशब्दः ।
तद्वयाख्यानमति(अति)शयेन विरुद्धं स्वव्याहतं प्रमाणान्तरप्रतिहतं चेत्यर्थः ।
तत्कथमित्यतः स्वव्याहतिं तावदुपपादयतियत इति ।
… यत आह स भारते । मनुव्_२,२.२८५द् ।
न्यायसुधा-
यस्मात्सूत्रकार एव भारते पञ्चरात्रस्य प्रामाण्यमाह ।
तस्मादत्र तन्निराकरणे सूत्रकारस्य स्ववचनव्याहतिः स्यादित्यर्थः ।
८,४४९फ़्.
तद्भारतवचनमुदाहरतिपञ्चरात्रस्येति ।
पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद् विशिष्टते । मनुव्_२,२.२८६ ।
पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते । मनुव्_२,२.२८७ ।
इति … । मनुव्_२,२.२८८अ ।
८,४५०
न्यायसुधा-
‘साङ्खयं योगः पाशुपतं वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नान्युताहो नेति चोच्यताम्’ इति ।
ज्ञानकारणत्वज्ज्ञानशब्दवाच्यानि साङ्खयादीनि शास्त्राण्यन्योन्यविरुद्धान्युताविरुद्धानीति प्रश्नस्य’साङ्खयं योगः पाशुपतं
वेदारण्यकमेव च ।
ज्ञानान्येतानि भिन्नानि नात्र कार्या विचारणा’ इति परिहारो ऽभिहितः ।
ततः पुनर्वस्तुविकल्पानुपपत्तेः परस्परविरुद्धानां सर्वेषां प्रामाण्ययोगादेतेषु किं प्रमाणमिति जिज्ञासायां,’साङ्खयस्य वक्ता कपिलः’
इत्यादिना साङ्खयादीनामनाप्तकर्तृत्वमभिधाय प्राग्वेदारण्यकपदोपलक्षितस्य पञ्चरात्रस्य परमाप्तत्वेन नारायणेन
प्रणीतत्त्वात्प्रामाण्यमित्यनेन वाक्येनोच्यते ।
वेदानां त्वपौरुषेयतया स्वत एव प्रामाण्यं सिद्धमेवेति नोक्तम् ।
फलवत्प्रवृत्तिजनकत्वादपि पञ्चरात्रस्य प्रामाण्यमिति ।
पञ्चरात्रविद इत्यनेन वाक्येनोच्यते ।
यथाक्रमपरा देवतातारतम्यपराः ।
एकान्तभावोपगताः अव्यभिचारिणीं भक्तिं प्राप्ताः ।
प्रकारान्तरेण स्वव्याहतिमाहगीता चेति ।
… गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् । मनुव्_२,२.२८८अब् ।
न्यायसुधा-
तच्छास्त्रसङ्क्षेपः पञ्चरात्रसङ्क्षेप इति हीरितम् ।
‘ब्रह्मरुद्रेन्द्रसूर्याणां यद्दत्तं विष्णुना पुरा ।
पञ्चरात्रात्मकं ज्ञानं व्यासो ऽदात्पाण्डवेषु तत् ।
तेषामेवावतारेषु सेनामध्ये ऽर्जुनाय च ।
प्रादाद्गीतेति
विनिर्दिष्यं(विज्ञातं)(विख्यातं) सङ्क्षेपेणायुयुत्सवे’ (ते) इत्यादिना पुराणवाक्येनेति शेषः ।
ततः प्रमाणतया पञ्चरात्रसङ्क्षेपरूपां गीतां प्रणीतवतो बादरायणस्य पञ्चरात्रप्रामाण्यमनुमतमेवेति पुनरत्र तन्निराकरणे कथं स्वव्याहतिर्न
भवेदिति ।
स्वव्याहतिं प्रकारान्तरेण दर्शयतिवेदेनेति ।
वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि । मनुव्_२,२.२८८च्द् ।
दृश्यो ऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।
इति वाराहवचनं … । मनुव्_२,२.२८९अच् ।
८,४५१
न्यायसुधा-
एवं वराहपुराणे भगवद्दर्शनसाधनत्वेन वेदवत्पञ्चरात्रस्य प्रामाण्यमभ्युपगम्येह पुनस्तन्निराकरणे व्याघात एवेति ।
८,४५२
एवं स्वव्याहतिमुपपाद्य प्रमाणान्तरविरोधं दर्शयतिश्लोका इति ।
… श्लोका इति वचः श्रुतौ । मनुव्_२,२.२८९द् ।
८,४५२फ़्.
न्यायसुधा-
वचः अस्तीति शेषः ।
‘ऋग्वेदो यजुर्वेदः सामवेदो ऽथर्वाङ्गिरस इतिहासपु(सःपु)राणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानानि’ इत्यस्यां
श्रुतौ ऋग्वेदादिप्रमाणोद्देशप्रसङ्गे श्लोका इति पञ्चरात्रमुपात्तम् ।
‘पञ्चरात्रविदो मुख्याः’ इति प्रकृतपञ्चरात्रविषयत्वेन’ऋषीनुवाच तान्सर्वानदृश्यः पुरुषोत्तमः ।
कृतं शतसहस्रं हि श्लोकानां हितमुत्तमम्’ इति श्लोकशब्दस्य भारते प्रयोगात् ।
छन्दोगश्रुतौ ऋग्वेदो यजुर्वेद इत्यारभ्यैकायनमिति पञ्चरात्रमुच्यते ।
तत्समाख्यया श्लोकशब्दः पञ्चरात्रविषयो ऽशेषो(ऽवगम्यते)ज्ञायते ।
अतः श्रुत्या पञ्चरात्रप्रामाण्यं सिद्धमिति तदप्रामाण्यवादः श्रुतिविरुद्धः ।
स्पष्टश्रुतिविरोधं च दर्शयतिवेदैश्चेति ।
८,४५३
वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः । मनुव्_२,२.२९०अब् ।
न्यायसुधा-
वेदपञ्चरात्रोक्तप्रकारेणणेत्यर्थः ।
संहिताभेदात्पञ्चरात्रैरिति बहुवचनम् ।
परस्परविरुद्धशास्त्रद्वयानुसारेण कथं ध्यानमित्यत उक्तम्पञ्चरात्रं चेति ।
इत्यादिवेदवचनैश्च पञ्चरात्राप्रामाण्यकथनं विरुद्धमिति शेषः ।
ततः किमित्यत आहपञ्चरात्रमिति ।
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते । मनुव्_२,२.२९०च्द् ।
इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ।
कथमेव … । मनुव्_२,२.२९१अच् ।
न्यायसुधा-
यत एवं पञ्चरात्रनिराकरणं स्वव्याहतं प्रमाणान्तरव्याहतं च ।
अतो ऽत्र सूत्रकारेण पञ्चरात्रं अपोद्यते दूष्यत इति कथमे(वं)व वक्तुं शक्यते ।
नहि व्याहतभाषी भगवानिति ।
८,४५४
स्यान्मतम् ।
नास्त्ययं व्याघातः ।
‘यो ऽसौ नारायणः परो ऽवक्तात् प्रसिद्धः परमात्मा स आत्मनाऽत्मानमनेकधा व्यूह्य व्यवस्थितः ।
तमित्थम्भूतं षाड्गुण्यविग्रहं भगवन्तमभिगमनोपादानेज्यास्वाध्याययोगैः पञ्चकालाभि(धैर)धानैरनेककालमिष्ट्वा क्षीणक्लेशो भगवन्तमेव
प्रतिपाद्यते’ इत्यादेः पञ्चरात्रादितस्यार्थस्य स्वीकृतत्वात् ।
तत्परतैव भारतादिवाक्यानामुपपत्तेरिति ।
मैवम् ।
एवं सति साङ्खयादिशास्त्रेष्वप्युपादेयांशस्य विद्यमानत्वेन विशेषतः पञ्चरात्रप्रामाण्याभिधानानुपपत्तेः ।
कृत्स्नस्येति विशेषणानुपपत्तेश्च ।
‘ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् ।
वेदार्थपूरकं ज्ञेयं पञ्चरात्रं यतो ऽखिलम्’ इत्यखिलशब्दविरोधाच्चेति ।
८,४५५
इतश्च न पञ्चरात्रदूषणं युक्तमित्याहअत्रेति ।
… अत्र दोषः कः … । मनुव्_२,२.२९१च् ।
न्यायसुधा-
अत्र पञ्चरात्रे को दोषो येन तन्निराक्रियेत न को ऽपीत्यर्थः ।
ननु कथं दोषो नास्ति जीवोत्पत्तेरसम्भावितायास्तत्रोक्तत्वादित्यतो ऽङ्गीकारवादेनाहउत्पत्तिरिति ।
… उत्पत्तिर्ज्ञो ऽत इत्यपि । मनुव्_२,२.२९१द् ।
इहैवोक्ता … । मनुव्_२,२.२९२अ ।
न्यायसुधा-
किं जीवोत्पत्यभिधानमात्रं पञ्चरात्राप्रामाण्यहेतुतयोपादीयते ।
उताभूतभवनरूपजीवोत्पत्त्यभिधानम् ।
आद्ये तूत्पत्तिमात्रं इहैव, प्रमाणतयाभ्युपगते मीमांसाशास्त्रे,’ज्ञो ऽत एव’ इति सूत्रेणोक्तम् ।
अपिपदेन’सर्व एव (वै) त आत्मानो व्युच्चरन्ति’ इति श्रुतावुक्तेति समुच्चिनोति ।
ततो वेदतन्मीमांसयोरप्यप्रामाण्यं स्यात् ।
अन्यथा हेतोरनैकान्त्यापत्तेरिति भावः ।
‘ज्ञो ऽत एव’ इति सूत्रार्थे विप्रतिपन्नं प्रति श्रुतिरेवोदाहतर्व्या ।
स्यादेतत् ।
द्वितीय एव हेतुरुपादीयते ।
नचासौ श्रुतिसूत्रयोर्वर्तते ।
तत्र हि प्राग्विद्यमानस्यैव जीवस्य देहाद्युपाध्यपेक्षयैवोत्पत्तिरुच्यते ।
नत्वभूतभावलक्षणेत्यत आहनचेति ।
… नचाभूतभावस्तत्रापि कथ्यते । मनुव्_२,२.२९२अब् ।
८,४५६
न्यायसुधा-
तत्रापि पञ्चरात्रे ऽपि ।
यथा हि श्रुतिसूत्रयोः प्रतीतमपि जीवजननमभूतभवनं विहाय उपाधिविषयं व्याख्यायते ।
तथा पञ्चरात्रोक्तमपि तत्तथा व्याख्यायताम् ।
ततश्च स्वरूपासिद्धो हेतुरिति भावः ।
जोस्हि७
८,४५७
नु विषमो ऽयमुपन्यासः ।
श्रुतिसूत्रयोः खलु’अनादिमायया सुप्तः’ ।
‘नानादित्वात्’ इत्यादिनानादिकर्म(कर्मादि)सम्बन्धो ऽभिधीयते ।
न ह्यभूत्वा (भवतो)भाववतो जीवस्यासावुपपद्यते ।
अतस्तदनुरोधात्तत्र प्रतीतमपि जीवजननमन्यथा नेतव्यमेव ।
नच तथाविधं बाधकमिहास्ति ।
येन मुख्यार्थं परित्याज्यामुख्यार्थं प्रतिपद्येमहि ।
ततो मुख्यार्थे ग्राह्ये न हेतोरसिद्धिरित्यत आहअनादीति ।
अनादिकर्मणा बद्धो जीवः संसारमण्डले । मनुव्_२,२.२९२च्द् ।
वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः । मनुव्_२,२.२९३अब् ।
न्यायसुधा-
तद्वचः पञ्चरात्रवाक्यम् ।
श्रुतिसूत्रवत्पञ्चरात्रे ऽपि जीवस्यानादिकर्मसम्बन्धाभिधानात्तदनुरोधेन तत्रोक्तं जीवजननमप्यन्यथाव्याख्यातव्यमेव ।
पक्षपाते कारणाभावात् ।
तथाच हेतोरसिद्धिस्तदवस्थेत्यर्थः ।
अथापि स्यात् ।
न कुत्रापि वेदादौ संसारसादित्वादिकं जीवानामभूत्वाभवनज्ञापकं स्पष्टमुक्तम् ।
अतः सावकाशमिदमन्यथा योज्यमेवेति चेत् ।
एतदपि समानमत्रेति भावेनाहनहीति ।
८,४५८
न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित् । मनुव्_२,२.२९३च्द् ।
न्यायसुधा-
अनेनैव न्यायेन’नच कर्तुः करणम्’ इत्येतदप्यपाकरणीयम् इति ।
तथाहि ।
किं करणं कर्तुर्न जायत इति व्याप्तिः किं वा यस्यां क्रियायां यत्करणं तत्तत्क्रियाकर्तुर्न जायत इति ।
नाद्यः ।
व्यभिचारात् ।
अन्यथा करणानामनुत्पत्तिप्रसङ्गात् ।
न द्वितीयः ।
प्रकृते ऽपि तथाभावासिद्धेः ।
एतस्माज्जायत इति श्रुतिविरोधो ऽपि किं जीवान्मनसो जननमात्राभ्युपगमे स्यात् ।
उत जननविशेषाभ्युपगमे ।
नाद्यः ।
‘अन्नमशितं त्रेधा विधीयते’ इत्यादिश्रुतेः प्रत्यहं मनसो जीवादुत्पत्तेः ।
न द्वितीयः ।
तथात्वस्य प्रकृते ऽप्यसम्मतेः ।
एवं मनसो ऽप्यहङ्कारजन्मनि दोषः परिहरणीयः ।
८,४६०
एवं जीवादिपदानां यथाश्रुतार्थाभ्युपगमेन सूत्रद्वयारोपितदोषपरिहारो ऽ(वि)भिहितः ।
इदानीं वासुदेवात्सङ्कषर्णो नाम जीवो जायत इत्यादिवाक्यस्य परकल्पितादर्थादर्थान्तरमाहजीवेति ।
जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ।
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा । मनुव्_२,२.२९४ ।
मनो ऽभिमानिनः कामस्यैवं … । मनुव्_२,२.२९५अब् ।
न्यायसुधा-
जीवशब्दस्य प्रवृत्तिनिमित्तमुपपादयितुं जीवाभिमानीत्युक्तम् ।
सङ्कर्षणस्य भगवतो जनेरभावात्तद्व्युदासाय नाम्ना सङ्कर्षणस्य शेषस्येत्युक्तम् ।
प्रोक्ता वासुदेवादित्यादिना वाक्येन ।
ततः सङ्कर्षणात् ।
तथाशब्दः समुच्चये ।
जनिः प्रोक्तेत्यर्थः ।
मनोभिमानिनः कामस्येत्यस्य पूर्ववदेव प्रयोजनम् ।
एवंशब्देन प्रद्युम्नादनिरुद्धसञ्ज्ञको ऽहङ्कारो जायत इत्यत्राप्युक्तव्याख्यानन्यायमतिदिशति ।
प्रद्युम्नादहङ्काराभिमानिनः कामपुत्रस्यानिरुद्धस्य जनिः प्रोक्तेति ।
८,४६१
नन्वेवमप्युत्पत्त्यसम्भवदोषस्तदवस्थः शेषादीनामपि जीवत्वादिति ।
मैवम् ।
न ह्यत्र सङ्कर्षणादीनामुत्पत्तिरुच्यते ।
किन्तु जायत इत्रत जनिरुच्यते ।
जनिश्च प्रादुर्भावः ।
जनी प्रादुर्भाव इति पठन्ति ।
प्रादुर्भावश्च शरीरोत्पत्तौ जीवस्य सुप्रसिद्धः ।
तदिदमुक्तं जनिः प्रोक्तेति ।
अत एव पूर्वो ऽभ्युपगमवादः ।
अर्थान्तरमप्याहसाक्षादिति ।
… साक्षाद्धरेः क्वचित् ।
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तो … । मनुव्_२,२.२९५ब्ए ।
न्यायसुधा-
शेषादयो ऽपि (हि) भगवदंशत्वाद्धरित्वेनोच्यते ।
तद्व्युदासाय साक्षादित्युक्तम् ।
साक्षाद्धरेरेव सङ्कर्षणादिनाम्ना व्यूह उक्त इत्यन्वयः ।
नन्वत्रोक्तं तदप्रतिषेधो हरेरुत्पत्त्यभावादित्यत उक्तं व्यूहो विभाग एवोक्तो न तूत्पत्तिरिति ।
यदप्युक्तं किमेते ऽन्योन्यं भिन्ना उत नेति ।
तस्योत्तरं हरेः एकस्यैवेति ।
नन्वेवं तर्हि निरतिशयत्वात्कथं स्वस्मादेव स्वस्य विभाग इत्यत उक्तम्नित्येति ।
किन्नाम दुर्विभाव्यं भगवति यत्प्रमितमित्यर्थः ।
यदप्युक्तं नैवेते भगवद्व्यूहाश्चतुःसङ्खयामेव परिनिष्ठिताः अनन्तत्वादिति ।
तत्रोत्तरं क्वचिदिति ।
कालविशेषे प्रयोजनविशेषे चेत्यर्थः ।
अनभिज्ञो भ(ग)वान्भागवतसम्प्रदायस्य ।
आदिकाले हि भगवान्नारायणो निजमुक्तिपदप्रदानाद्यर्थं वासुदेवादिचतुर्व्यूहो बभूव ।
ततः कालान्तरे प्रयोजनान्तरार्थं दशद्वादशादिव्यूहो जातः ।
सेयं शुद्धसृष्टिरिति पाञ्चरात्रिकैरभिधीयते ।
तदपेक्षया चतुर्व्यूहवर्णनं कथं नामानुपपन्नमिति ।
एवमधिकारिविशेषाराधनार्थमियमुक्तिर्युक्तैव ।
यथोक्तम् ‘एकमूर्तिश्चतुर्मूतिरथवा पञ्चमूर्तिकः ।
द्वादशादिप्रभेदो वा पूज्यते सज्जनैर्हरिः’ इति ।
८,४६३
अर्थान्तरकथनस्य प्रयोजनमाहअन्यथेति ।
… ऽन्यथानूद्य कथं दुष्टत्वमुच्यते । मनुव्_२,२.२९५एफ़् ।
न्यायसुधा-
एवमर्थान्तरविवक्षया प्रयुक्तस्य वाक्यस्यान्यथानुवादं विधाय दूषणाभिधानं कथं क्रियते ।
छलप्रसङ्गादिति ।
नच जीवादिशब्दानामनुपपत्तिः ।
भगवत एव मुख्यतः प्राणधारणादिमतस्तदथर्त्वात् यच्च विप्रतिषेधाच्चेति सूत्रार्थतया कल्पितं परस्परव्याघातो ऽस्ति पञ्चरात्र इति ।
तदपि नित्याचिन्त्योरुशक्तित इत्यनेनैव परिहृतम् ।
भगवच्छक्त्यैव गुणगुण्यादिव्यवहारोपपत्तिरिति ।
समर्थितश्च भेदपदे ऽभिषिक्तः प्रमितसर्वनिर्वाहहेतुर्विशेषः ।
यदप्युक्तं शाण्डिल्यवृत्तान्तकथने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति ।
तत् निराकरोतियदीति ।
यदि विद्याच्चतुर्वेदानितिवद् वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने । मनुव्_२,२.२९६ ।
८,४६३फ़्.
न्यायसुधा-
‘यदि विद्याच्चतुर्वेदान्साङ्गोपनिषदान्द्विजः ।
नचेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः’ इत्यत्र वाक्ये यथेतिहासपुराणादितो वेदपूरणमभिप्रेयते ।
तथात्रापि पञ्चरात्राद्वेदपूरणमेवाभिप्रेतं इति व्याख्याने सति, शाण्डिल्यवर्तने ऽभिधीयमाने पञ्चरात्रस्य वेदविद्वेषः प्रतीयत इति कुतः ।
न प्रतीयत इत्यर्थः ।
यद्वैवं वाक्यद्वये समाने सति शाण्डिल्यवर्तनाभिधायिन्येव वाक्ये भवतो द्वेषः कुतो येन यदि
विद्यादित्येतदितिहासपुराणयोर्वेदपूरकत्वाभिप्रायमादाय’भगवान् शाण्डिल्यः’ इत्यादिकं पञ्चरात्रस्य वेदविरोधित्वाभिप्रायमिति
व्याख्यायत इति ।
८,४६४
अयमत्रोत्तरक्रमः ।
यद्येतद्वाक्यबलात्पञ्चरात्रस्य चेदविरोधित्वं कल्प्यते ।
तदा यदि विद्यादिति वाक्यबलादितिहासपुराणयोरपि तत्कल्प्यतां विशेषाभावात्(मविशेषात्) ।
अथ तत्र इतिहासादेर्वेदपूरकत्वमभिप्रायः ।
अत्रापि स एव कल्प्यताम् ।
विशेषाभावात् ।
‘इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्’ इत्युत्तरवा(क्यविरो)क्यानुरोधात्तथा कल्पनं युक्तमिति चेत् ।
अत्रापि’वेदार्थपूरकं ज्ञेय पञ्चरात्रम्’ इत्यादिवाक्यानुरोधात्तथा कल्पनमिति न कश्चिद्विशेषः ।
अन्यत्र विद्वेषादिति परमसंहितावाक्यमप्येवमेव व्याख्यातव्यम् ।
अपव्याख्याननिराकरणमुपसंहरतिअतः परमेति ।
अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम् । मनुव्_२,२.२९७ ।
८,४६५
न्यायसुधा-
वीक्षायामपि न क्षमं व्यधिकरणमित्यर्थः ।
तर्हि कस्मादुदितमित्यत उक्तम्परमेति ।
परमशास्त्रं पञ्चरात्रम् ।
द्वेष एव किं निबन्धन इत्यत उक्तम्आसुरैरिति ।
भागवतशास्त्रे हि स्वाभाविक एव हि विद्वेषो ऽसुराणाम् ।
नतु दोषदर्शननिमित्तः ।
एते चासुरसम्बन्धिनस्तत्स्वभावाश्च वृत्तिकाराः ।
आसुरैरेवोक्तं नतु सूत्रकारेणेत्यनेन तस्मान्नायं सूत्रार्थः, किन्तु शाक्तमतनिरास एवेत्युक्तं भवति ।
एतेनैतदपि प्रत्युक्तम् ।
यत्केचिदिदमधिकरणं साङ्खयादिवत्पञ्चरात्रस्याप्यप्रामाण्यमाशङ्कय तन्निरासार्थमिति वर्णयन्ति ।
तथाहि ।
उक्तरीत्या’उत्पत्त्यसम्भवात्ऽ‘नच कर्तुः करणम्’ इति सूत्रद्वयेन पञ्चरात्राप्रामाण्यं पूर्वपक्षयित्वा विज्ञानादिभावे वा तदप्रतिषेध इति
सिद्धान्तितम् ।
वाशब्दात्पक्षो विपरिवर्तते ।
विज्ञानं चादि चेति परम्ब्रह्म विज्ञानादि, सङ्कर्षणप्रद्युम्नानिरुद्धानामपि परब्रह्मभावे सति तत्प्रतिपाद(कस्य)नस्य शास्त्रस्य प्रामाण्यं न
प्रतिषिद्धयते ।
विप्रतिषेधाच्च प्रतिषिद्धा हि जीवोत्पत्तिरस्मिन्नपि तन्त्रे ।
यथोक्तं परमसंहितायां ।
‘अचेतना परार्था च नित्या सततविक्रिया ।
त्रिगुणा कर्मणां क्षेत्रं प्रकृते रूपमुच्यते ।
प्राप्तिरूपेण सम्बन्धस्तस्याश्च पुरुषस्य च ।
स ह्यनादिरनन्तश्च परमार्थेन निश्चितः’ इति ।
८,४६५फ़्.
पञ्चरात्राप्रामाण्यशङ्कायां प्राप्तायामेव हि तन्निरासाय प्रयासः साथर्कः स्यात् ।
नच व्यधिकरणानि दूषणानि तच्छङ्कां प्रापयितुमीशते ।
नहि छलोत्तराण्येतावदधिकरणं प्रयोजयन्ति ।
अतिप्रसङ्गात् ।
प्रकरणाननुगुरं चैतत् ।
परमतनिरासो ह्यत्र प्रकृतो न तु स्वमतसमर्थनम् ।
कृतं च तत्’न विलक्षणत्वात्’ इत्यादिना ।
सूत्राक्षराननुरूपं चैतद्वयाख्यानम् ।
नह्यत्र विज्ञानादिपदं ब्रह्मणि क्वचित्प्रयुक्तम् ।
तदप्रतिषेध इति च व्यर्थम् ।
न प्राज्ञत्वादित्येव वक्तव्यम् ।
लघु चैवं सूत्रं व्यक्तं च स्यात् ।
तस्मादुक्त एव सूत्रार्थ इति स्थितम् ।
८,४६७
पादार्थमुपसंहरतिअतो ऽशेषेति ।
अतो ऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते । मनुव्_२,२.२९८ ।
न्यायसुधा-
साङ्खयादिविरोधिसमयानां निरस्तत्वात्प्रथमाध्याये यत्सकलश्रुतिसमन्वयेन भगवतो लक्षणद्वयं साधितं तन्निर्णीतमेवेत्यर्थः ।
८,४६७फ़्.
स्यादेतत् ।
‘न निगृह्य कथां कुर्यात्’ इत्यादिस्मृतिनिषिद्धं परनिराकरणमिदं न कार्यमेव ।
तत्कुतः साङ्खयादिनिराकरणं कृतमिति चेन्न ।
अस्य निषेधस्य सद्विषयत्वात् ।
कुतः सङ्कोच इति चेत् ।
श्रुतिस्मृत्योः श्रुतेर्बलवत्त्वात् ।
श्रुतौ च परनिराकरणस्य कर्तव्यतया अवगतत्वादित्याशयवान्’अन्धन्तमः प्रविशन्ति ये ऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ।
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ इति मन्त्रद्वयमर्थतो ऽनुवदतिअन्धमिति ।
८,४६८
अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः । मनुव्_२,२.२९९ ।
ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतान् विद्ययामृतमश्नुते । मनुव्_२,२.३०० ।
न्यायसुधा-
अविद्याम् अविद्यकल्पितमविद्यमानार्थम् ।
आयान्ति तमः ।
इवशब्दः किञ्चिदर्थः ।
उशब्दो ऽवधारणार्थः ।
ये केवलं विद्यायामेव रता इत्युक्त्या लब्धस्यार्थस्य कथनम् ,तस्या नैव निन्दका इति ।
अन्यथा विद्ययामृतमश्नुत इत्यनेन विरोधः स्यात् ।
ततः अविद्यानिराकरणाभावे दोषसद्भावात् ।
सहेति समुच्चयनियमं द्योतयति ।
दोषज्ञानादतीत्यैताम् इत्यनेन अविद्यया दुष्टत्वेन ज्ञातया मृत्युं तामेवाविद्यां तत्कार्यं दुःखादिकं चातीत्य तीर्त्वा
इत्यर्थो ज्ञायते ।
यद्यपि तत्त्वज्ञानं न स्वपक्षप्रमाणमात्रेण भवति, यावत्परपक्षप्रमाणं न निराक्रियते ।
सत्प्रतिपक्षस्य प्रमाणस्य निर्णयानङ्गत्वात् ।
अतस्तत्त्वज्ञानं कामयमानेनावश्यं स्वपक्षसाधनमिव परपक्षनिरसो ऽपि विधेय एवेत्युपपत्तिसिद्धो ऽयमर्थः ।
तथाप्यागमावष्टम्भेन प्रत्यवतिष्ठमानस्तथैव बोधनीय इत्याशयवता मन्त्रावुदाहृताविति सर्वमनवद्यम् ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्याथर्विवृतौ द्वितीये ऽध्याये ऽयं समयचरणः पर्यवसितः ।
अध्यय २, पद ३
८,४७१