। इति श्रीमन्न्यायसुधायां पत्यरधिकरणम् ।
। ओं पत्युरसामञ्जस्यात् ओं ।
इह महादेवं पुरस्कृत्य प्रवर्तमानानां मतमपाक्रियते ।
ते चतुर्विधाः शैवाः पाशुपताः कालामुखा महाव्रताश्चेति ।
तेषां सत्यप्यवान्तरभेदे साधारणमेव प्रमेयं वेदवादस्यातिविरुद्धत्वादपाकर्तुमनुवदतिसर्वज्ञत्वादिकैरिति ।
पत्युर् असामञ्जस्यात् । ब्ब्स्_२,२.३७ ।
सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ।
जगद्विचित्ररचनाकर्तारं दोषवर्जितम् । मनुव्_२,२.२५२ ।
आहुः पाशुपतास् … । मनुव्_२,२.२५३अ ।
८,३९९
न्यायसुधा-
पशुपतेरिमे पाशुपता इति चतुर्विधा अपि गृह्यन्ते ।
ते सदाशिवं जगद्विचित्ररचनाकर्तारमाहुः ।
ततो जन्माद्यस्य यत इत्युक्तमसदिति ।
अज्ञानादिदोषयुक्तं कथं जगत्कर्तारमाहुरित्यत उक्तम्दोषवर्जितमिति ।
सार्वज्ञाद्यभावे ऽज्ञानादिवर्जनं चेतनस्य नोपपद्यत इत्यतः सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तमित्युक्तम् ।
यद्वा सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं दोषवर्जितमिति प्रधानलक्षणविरुद्धार्थोपन्यासः ।
जगद्विचित्ररचनाकर्तारमिति श्रौतब्रह्मलक्षणविरुद्धार्थोक्तिः इत्यवगन्तव्यम् ।
८,४०१
तदेतद्दूषयितुं पत्युरसामञ्जस्यादिति सूत्रतात्पर्यमाहतच्चेति ।
… तच्च बहुश्रुतिविरोधतः ।
नोपादेयं मतं ह्य् … । मनुव्_२,२.२५३अच् ।
न्यायसुधा-
चशब्दः पूर्वतनैः(मतैः) सह समुच्चयार्थः ।
हिशब्दो हेतौ ।
तत् पशुपतेः सर्वजगत्काणत्वादिकं मतं नोपादेयम् ।
कुतः ।
पत्युः पशुपतेः ।
असामञ्जस्यात् दोषित्वात् ।
तदनङ्गीकारे च बहुश्रुतिविरोध इति योजना ।
कास्ताः श्रुतय इत्यतस्ता उदाहरतिअस्येति ।
… अस्य देवस्य स्तुहि गर्तगम् । मनुव्_२,२.२५३च्द् ।
उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।
यद् विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया । मनुव्_२,२.२५४ ।
धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ।
घ्नञ्छिश्नदेवानेको ऽसावासीन्नारायणः परः । मनुव्_२,२.२५५ ।
तस्माद् रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।
यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम् । मनुव्_२,२.२५६ ।
यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा । मनुव्_२,२.२५७अब् ।
न्यायसुधा-
अनेन’अस्य देवस्य मीळ्हुषो वया विष्णोरेषस्य प्रभुथे हविर्भिः ।
विदे हि रुद्रो रुद्रियं महित्वं यासिष्यं वर्तिरश्चिवाविरावत्’ इति ।
(ऋ.७४०५) श्रुतिमुपादत्ते ।
८,४०१फ़्.
‘स्तुहि गर्तगम्’ इत्यनेन’स्तुहि श्रुतं गर्तमदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
मृळा जरित्रे रुद्र स्तवानो ऽन्यं ते अस्मान्निवपन्तु सेना’ इति (ऋ.२३३११) ।
‘उत्पिपेष’ इत्यनेन’रुद्रस्य त्वेव धनुरार्त्निः रि उत्पिपेष’ इति ।
‘गृणीषः’ इत्यनेन’कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्म’ इति (ऋ.२३३१२) ।
‘पदम्’ इत्यनेन’तव श्रिये मरुतो मर्जयन्त रुद्र यत्ते जनिम चारु चित्रम् ।
पदं यद्विष्णोरुपमं निधायि तेन पासि गुह्यं नाम गोनाम्’ इति (ऋ.५३३) ।
‘यं कामये’ इत्यनेन’यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम्’ इति (ऋ.१०१२५५) ।
‘मा’ इत्यनेन’मा शिश्नदेवा अपि गुरृतं न’ इति ।
‘घ्नन्’ इत्यनेन’घ्नञ्च्छिश्नदेवां अभिवर्पसा भूद्’ इति ।
‘एकोसौ’ इत्यनेन’एको नारायण आसीन्न ब्रह्मा नच शङ्करः’ इति ।
‘तस्मात्’ इत्यनेन’स रुष्यः स प्रसन्नो यद्रुष्यो यत्प्रसन्नस्तस्माद्रुद्रसम्प्रसादावभूताम्’ इति ।
‘वैष्णवम्’ इत्यनेन’तेषां मखं वैष्णवं यश आर्छत्’ इति ।
यज्ञेनेति, अबध्नन्निति, यो भूतानामिति प्रसिद्धम् ।
८,४०२
कथमेताभिः श्रुतिभिः पशुपतेनिर्र्देषत्वं विरुद्धमित्यतस्तासां तात्पर्यमाहइत्यादीति ।
इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः । मनुव्_२,२.२५७च्द् ।
पराधीनपरप्राप्तिरज्ञत्वं प्रळये ऽभवः ।
प्रतीयन्ते … । मनुव्_२,२.२५८अच् ।
न्यायसुधा-
अभवः अभावः ।
प्रतीयन्ते पशुपतेरिति शेषः ।
८,४०३
‘अस्य देवस्य’ इत्यनेन पराधीनपदप्राप्तिः प्रतीयते ।
मीळ्हुषः सेचकस्य, एषस्य इच्छारूपस्य, अस्य विष्णोर्देवस्य, प्रमृथे प्रभरणे पूजायामिति यावत् ।
हविर्भिः कृते सति वया बन्धको रुद्रो, रुद्रियं महित्वं रौद्रं पदं, विदे विविदे लेभे, हि यथा तथा हे अश्विनौ युवामपि इरावत् अन्नवत्, वर्ति वर्तनं,
यासिष्यं अयासिष्य प्राप्तवन्तौ स्थ इति ।
‘स्तुहि’ इत्यनेन स्तावकतया पारतन्त्र्यम् ।
हे रुद्र त्वं श्रुतं प्रसिद्धं, गर्तसदं हृदयगुहानिवासं, युवानं, मृगं न भीमं सिंहमिव भीषणम्, उग्रम् उग्राणां दैत्यानाम्, उपहन्तुनम् उपहन्तारं,
नृहरिं, स्तुहि स्तौषि ।
स एवं स्तवान स्तुवंस्त्वं, जरित्रे स्तोत्रे, त्वां स्तुवन्तं माम् ।
मृळ मृडय सुखस्य ।
ते सेनाश्चास्मदन्यमेव निवपन्तु घ्नन्त्विति ।
‘रुद्रस्य’ इत्यनेनाज्ञत्वं पारतन्त्र्यं मृतिश्च ।
आरोपितं धनुर्हनाववष्टभ्यावस्थितस्य रुद्रस्य शिरो ज्यायां (वभ्रिरू)कामरूपेणेन्द्रेण छिन्नायामुत्क्षिप्ता धनुरार्त्निरुत्पिपेष चिच्छेदेति ।
‘कुमारः’ इत्यनेनापि पारतन्त्र्यं जनिश्च ।
हे रुद्र कुमारः पुत्रो भवान् जगद्वयामोहनाय कैलासमुपयन्तं, त्वां वन्दमानं पितरं कृष्णं प्रति ननाम ।
तेन स्तुतस्त्वं भूरेः पुरुषार्थस्य दातारं सत्पतिं गृणीषे स्तौषि स्तुतवानसि ।
एवम्भूतस्त्वमस्माभिः स्तुतः अस्मे ऽस्मभ्यं भेषजा भेषजानि संसारव्याधिनिरसनानि ज्ञानानि रासि ददासि देहीति ।
‘तव श्रियः’ इत्यनेन पराधीनपदप्राप्तिर्जनिः पारतन्त्र्यं च ।
हे रुद्र यत् येभ्यस्ते जनिम जन्माभूत्ते मरुतो ब्रह्मणो ऽतीतवर्तमानास्तव श्रिये सम्पदे चारु सुन्दरं चित्रमाश्चर्यं उपमं उप समीपे मा लक्ष्मीर्यस्य
संवहनकर्त्री तत्तथोक्तम् ।
यद्विष्णोः पदं मर्जयन्तः शोधितवन्तः क्षालितवन्तः ।
तत्त्वया हृदि निधायि न्यधायि ।
तेन कारणेन त्वं गोनां गवां (वाचां) मध्ये गुह्यं नाम नारायणादिकं पासि जपोपदेशादिना पालयसीति ।
‘अहम्’ इत्यनेन मृतिः ।
अहं ब्रह्मद्विषे ब्रह्मद्विषां दैत्यानां शरवे हिंसकं रुद्राय रुद्रं हन्तवै हन्तुमेव प्रलये धनुरातनोमि विस्तारयामीति ।
८,४०४
‘यम्’ इत्यनेन पराधीनपदप्राप्तिः ।
अहं यं यं रुद्रं कर्तुं कामये तं तमुग्रं रुद्रं कृणोमि करोमि एवं तं ब्रह्माणं तमृषिं तं सुमेधां सुमेधसं करोमीति ।
‘मा’ इत्यनेनाज्ञत्वम् ।
अतीतानागतवर्तमाना गुह्याभिमानिनो देवा रुद्रा अपि नो ऽस्माकमुपास्यमृतं ज्ञानरूपं ब्रह्म मागुर्न ज्ञातवन्त इति ।
घ्नन्नित्यनेन मृतिः ।
गुह्याभिमानिदेवान्घ्नन्नीश्वरो वर्पसा बलेन सर्वमभ्यभूदभिभूतवानिति ।
‘एकः’ इत्यनेन प्रलये ऽभावो जनिश्च ।
‘तस्मात्’ इत्यनेन जनिः ।
परमेश्वररोषजो रुद्र इत्यर्थः ।
सम्प्रसादो ब्रह्मा ।
‘तेषाम्’ इत्यादिवाक्यैः पारतन्त्र्यम् ।
तेषां देवानां यशो, वैष्णवं मखं विष्णुमखे पशुत्वेन नियुक्तं रुद्रमार्छत्प्राप्तवदिति ।
देवा यज्ञेन रुद्रेण पशुना यज्ञं विष्णुमयजन्तेति ।
देवाः पुरुषं रुद्रं पशुमबध्नन्निति ।
यो भूतानामधिपती रुद्रः स विष्णोराज्ञारूपायां तन्त्यां चरति वृषा प्रसिद्धतन्त्यामिवेति ।
८,४०८
एतासां श्रुतीनामेतदर्थत्वोपपादनं त्वचार्येणैवान्यत्रोदाहृतेभ्यो वाक्येभ्यष्टीकातश्चावगन्तव्यम् ।
अत एव सामर्थ्यादित्युक्तम् ।
८,४०९
सूत्रार्थमुपसंहरतिसदोषत्वादिति ।
… सदोषत्वान्नेशः पशुपतिस्ततः । मनुव्_२,२.२५८च्द् ।
न्यायसुधा-
ततः श्रुतिबलेन सदोषत्वात्पशुपतिः ईशो जगत्कर्ता न भवति ।
दोषि(णो)यज्ञदत्तस्येव जगत्कर्तृत्वानुपपत्तेरिति ।
८,४१०
युक्त्यन्तरेण शिवस्य जगत्कर्तृत्वमपाकर्तुं सूत्रम् ओं सम्बन्धानुपपत्तेश्च ओं ।
इति ।
तस्यार्थमाहअशरीरत्वत इति ।
सम्बन्धानुपपत्तेश् च । ब्ब्स्_२,२.३८ ।
अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ।
कर्तृत्वेन न युज्येत … । मनुव्_२,२.२५९अच् ।
न्यायसुधा-
तस्य शिवस्य ।
अशरीरस्यापि गगनादेर्जगता सम्बन्धदर्शनात्कथमेतदित्यत सम्बन्धमेवे व्याख्याति ।
क्वचित् कार्ये ।
कर्तृत्वेनेति ।
कायर्कर्तृत्वलक्षणः सम्बन्धो न युज्यत इत्यर्थः ।
क्वचिदित्यनेन कुतः सर्वकर्तृत्वमिति सूचयति ।
अयमत्र प्रयोगः ।
शिवो न कर्ताशरीरत्वात् सुप्तप्रलीनवदिति ।
ननु शिवः सिद्धो न वा ।
न द्वितीयः ।
आश्रयासिद्धेः ।
आद्ये तु कर्तृत्वेनैव सिद्ध इति धर्मिग्राहकमानविरोधः ।
किञ्च भवन्मते(ऽपि) शिवस्य कर्तृत्वं शरीरित्वं चाङ्गीक्रियत एव ।
तथा चापसिद्धान्तान्यतरासिद्धी स्यातामिति ।
उच्यते ।
इदमत्राकूतम् ।
पशुपतेर्जगत्कारणत्वं वदन्प्रष्टव्यः ।
किं पाशुपतादिशास्त्राण्यनुमानानि (चा)वाऽश्रित्येदमुच्यते, उत श्रुत्यादिकम् ।
आद्ये त्वतिप्रसङ्गो ऽयमुच्यते ।
यदि पाशुपताद्याश्रित्येदमुच्यते तर्हि तस्याशरीरत्वमपि ततः सिद्धमिति तदप्यङ्गीकार्यं स्यात् ।
तथाच कर्तृत्वानुपपत्तिरिति ।
अत एव न युज्यतेति लिङ्प्रयोगः ।
द्वितीये तु वक्ष्यत इति ।
एवञ्च न कश्चिद्दोषः ।
शिवस्वरूपस्य अस्माकं श्रुत्यादितः सिद्धेराश्रयासिद्धयभावात् ।
परसिद्धेनाशरीरत्वेन कर्तृत्वाभावापादनाद्धर्मिग्राहकविरोधाद्यभावात् ।
एतेन पाशुपतादिविरोधात् श्रुतयो ऽन्यथा योज्या इति निरस्तम् ।
८,४१२
नन्वशरीरस्यापि कर्तृत्वे बाधकाभावाद्वयाप्तिविधुरो ऽयं प्रसङ्गः ।
कारकप्रयोक्तृत्वं हि कर्तृत्वं न शरीरित्वमित्यत आहदेहिन इति ।
… देहिनो ज्ञानदृष्टितः । मनुव्_२,२.२५९द् ।
न्यायसुधा-
सत्यं कारकप्रयोक्तृत्वमेव कर्तृत्वं न शरीरित्वमिति ।
तच्च न प्रयत्नेन विना सम्भवति ।
न चेच्छामन्तरेण प्रयत्नः ।
नच ज्ञानाद्विनेच्छा ।
नच शरीरादृते ज्ञानम् ।
देहिनामेव जाग्रतां ज्ञानदर्शनात् ।
अदेहिनां सुप्तप्रलीनानां चादर्शनात् ।
ततः कर्तृत्वस्य व्यापकं शरीरं शिवाद्वयावर्तमानं तदपि व्यावर्तयतीति ।
८,४१३
ननु ज्ञानजन्मन्येव शरीरस्योपयोगः ।
ज्ञानस्येन्द्रियजन्यत्वात् ।
इन्द्रियाणां च शरीरसंयोगनियमात् ।
नित्यज्ञानश्च भगवाञ्छिव इति किं तस्य शरीरेणेति ।
एवं तर्हि प्रयत्नजन्मन्येवेच्छोपयोगिनीति नित्यप्रयत्नस्येच्छापि न स्यात् ।
तथेच्छोत्पत्तावेव ज्ञानमुपयुज्यत इति नित्येच्छस्य ज्ञानमपि न स्यात् ।
८,४१३फ़्.
अथ न प्रयत्नमात्रं कर्तृत्वम्, अपि तर्हि ज्ञानेच्छे अपि ।
परिदृष्टसामर्थ्यकारकप्रयोक्तृत्वं कर्तृत्वमिति हि वृद्धा इति चेत् ।
तथापीच्छात्यागे बाधकाभावात् ।
कुतश्चैवं कल्पनीयम् ।
कुलालादौ तथा दर्शनादिति चेत् ।
किं तत्र शरीरं न दृष्टम् ।
दृष्टमप्यनुपयुक्तमिति चेत् ।
किन्नियमाभावादेवमाश्रीयते, अन्यत्रोपक्षयाद्वा ।
नाद्यः ।
व्यभिचाराभावात् ।
शरीरप्रेरणे ऽपरं शरीरं नास्तीति चेन्न ।
तेनैव सशरीरत्वात् ।
न द्वितीयः ।
निरस्तत्वात् ।
अन्यथा ज्ञानादीनामप्यनुपयोगप्रसङ्गः ।
कुतश्चास्य नित्यज्ञानत्वसिद्धिः ।
आगमादिति चेन्न ।
परस्पराश्रयप्रसङ्गात् ।
सिद्धे ह्यागमप्रामाण्ये नित्यज्ञानेश्वरसिद्धिस्तत्सिद्धौ चागमस्य तत्प्रणीतत्वेन प्रामाण्यसिद्धिरिति ।
८,४१६
उक्तदोषपरिहारमाशङ्कय तन्निरासाय सूत्रम् ओं करणवच्चेन्न भोगादिभ्यः ओं ।
इति ।
तन्नेत्यन्तं तावद्वयाचष्टेनचेति ।
करणवच् चेन् न भोगादिभ्यः । ब्ब्स्_२,२.४० ।
न च देहादिवद् विश्वमस्य स्याद् … । मनुव्_२,२.२६०अब् ।
न्यायसुधा-
यदुक्तमशरीरत्वाच्छिवस्य कर्तृत्वानुपपत्तिरिति ।
तदसत् ।
कुलालादयो हि कर्तारो दण्डादिकं साक्षात्प्रयत्नेनाधिष्ठातुमनीशानास्तदधिष्ठानाय साक्षात्प्रयत्नाधिष्ठेयं स्यात् ।
ततः किमपरेण शरीरेण ।
अत एव भगवान्विश्वमूर्तिरिति गीयते ।
न चादिसृष्टेः प्राक् कारकाभावः ।
मायादेरनादेर्विद्यमानत्वात् ।
अन्यथा सृष्टयनुपपत्तेरिति ।
आदिपदेनेन्द्रियाणां वक्ष्यमाणस्याधिष्ठानस्य च सङ्ग्रहः ।
तदिदं नोपपद्यत इत्यर्थः ।
कुतो नेत्यतः सौत्रहेतुं व्याख्यातिभोगेति ।
… भोगसम्भवात् । मनुव्_२,२.२६०ब् ।
८,४१७
न्यायसुधा-
यदि शिवस्य कारकग्रामः साक्षात्प्रयत्नाधिष्ठेयः स्यात्तदा स तस्य सुखदुःखानुभवलक्षणभोगहेतुः स्यात् ।
साक्षात्प्रयत्नाधिष्ठेये ऽस्मदादिशरीरे तथा दर्शनात् ।
कर्मार्जितस्यैव तथात्वमिति चेन्न ।
साक्षात्प्रयत्नाधिष्ठेयत्वेन तथाभावस्याप्यापत्तेर्भोगादिमतश्च नेश्वरत्वम् ।
अतः शिवस्य भोगादिप्रसङ्गान्नेयं कल्पना युक्तेति ।
जोस्हि६
हेत्वन्तरेण शिवस्य विश्वकर्तृत्वं निराकुर्वत् ओं अधिष्ठानानुपपत्तेश्च ओं ।
इति सूत्रं व्याचष्टेअधिष्ठान इति ।
अधिष्ठानानुपपत्तेश् च । ब्ब्स्_२,२.३९ ।
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते । मनुव्_२,२.२६०च्द् ।
न्यायसुधा-
यः कर्ता कुलालादिः स पृथिव्यादावधिष्ठाने स्थित एव घटादिकार्यं कुर्वन्प्रतीयते ।
नतु निरधिष्ठानः कश्चित्किञ्चित्कुर्वाणः ।
अनेन व्यतिरेकाविनाभावेन निरधिष्ठानत्वस्याकर्तृत्वेन व्याप्तिरुपपादिता भवति ।
ततः किमित्यत आहनास्येति ।
८,४१८
नास्याधिष्ठानयोगो ऽस्ति भूतानां प्रळये तदा । मनुव्_२,२.२६०एफ़् ।
न्यायसुधा-
अस्य शिवस्य ।
तदा आदिसृष्टिसमये ।
कुतो नास्ति ।
प्रागुत्पन्नानां पृथिव्यादीनां महाभूतानां प्रलये सति ।
तस्मात्कर्तृत्वमपि तस्य नोपपद्यत इति शेषः ।
ननु कारकाणामेव अधिष्ठानत्वं भविष्यति ।
मैवम् ।
साधिष्ठानस्य चेतनस्य भोगादिप्रसक्तेरुक्तत्वात् ।
नन्वयं निरधिष्ठानत्वहेतुः कर्तुर्विपक्षात्कुलालादिर्वाकर्तुः सपक्षाद्घटादेरपि व्यावृत्तत्वादसाधारणः ।
मैवम् ।
गगनादौ सपक्षे वृत्तेः ।
नन्विदं सूत्रद्वयं व्युत्क्रमेण कुतो व्याख्यातम् ।
सम्बन्धानुपपत्त्यधिष्ठानानानुपपत्त्योरुभयोरपि परिहारः करणवच्चेदित्यनेन निरस्यत इति ज्ञापनार्थम् ।
यदि खलु यथाक्रममेव व्याख्यायेत ।
तदा सन्निहिताधिष्ठानानुपपत्तिपरिहारनिरासकमेवेदं ज्ञायेत ।
व्युत्क्रमेण तु उभयमध्ये व्याख्याने सत्युभयसम्बन्धि विज्ञायत इति ।
अत एव भाष्ये ऽधिष्ठानादिरूपमित्युक्तमत्र तु देहादिवदिति ।
८,४१९
ननु युक्तं कुलालस्याधिष्ठानसापेक्षत्वं शरीरित्वम् ।
शरीरं हि गुरुत्वात्प्रसक्तपतनं तत्प्रतिबन्धाय स्पर्शवदधिष्ठानमपेक्षते ।
अनवस्थितशरीरस्य कर्तृत्वायोगात् ।
ईश्वरस्य तु शरीरविधुरस्य किमधिष्ठानमेव ।
इहेदं जातमित्यदिव्यवहारस्तु गगनादिकमाश्रित्योपपत्स्यत इत्यत आहअदेहश्चेदिति ।
अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत् सदा । मनुव्_२,२.२६१अब् ।
न्यायसुधा-
सदेत्यनेन व्याप्तिमुपपादयति ।
अत एव शिलाकाष्ठादिवदित्यनेकदृष्टान्तोपादानम् ।
तथाच कुतः सावर्ज्ञम् ।
कुतश्च सर्वकर्तृत्वमिति भावः ।
स्यादेतत् ।
न सर्वथा सदाशिवः अशरीरः ।
किन्तु लीलया शरीराण्यपि गृह्णाति ।
ततो नायं दोषः ।
नच भोगादिप्राप्तिः ।
लीलया गृहीतस्य विग्रहस्य तदहेतुत्वादित्यत आहदेही चेदिति ।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात् । मनुव्_२,२.२६१च्द् ।
८,४२०
न्यायसुधा-
अन्तवान्मरणवान्स्यात् ।
उपलक्षणं चैतत् ।
दुःखादिमांश्च स्यादित्यपि द्रष्टव्यम् ।
नन्वसौ विग्रहो न तद्धेतुरित्युक्तम् ।
मैवम् ।
शरीरं न भोगायतनं चेत्यस्य व्याहतत्वात् ।
शरीरत्वेनैव तदनुमानाच्च ।
तदिदमाहएवेति ।
एतेन’अन्तवत्त्मसर्वज्ञता वा’ इति सूत्रं व्याख्यातं भवति ।
पाठक्रमादर्थक्रमो गरीयानित्यतो व्युत्क्रमेण व्याख्यानम् ।
८,४२१
नन्वेवं शिवस्य जगत्कारणत्वमपाकुर्वतां को ऽभिप्रायः ।
किमकर्तृकमेवेदं विश्वमिति ।
किंवा विष्णुकर्तृकमिति ।
नाद्यः ।
कार्यस्याकर्तृकत्वे विरोधात् ।
अपसिद्धान्तप्रसक्तेश्च ।
न द्वितीयः ।
विष्णावपि कर्तर्यभ्युपगम्यमाने दोषाणामेषां समानत्वेन (स्व)व्याहतत्वात् ।
तथाहि यदुक्तमसामञ्जस्यं शिवस्य तत्तावद्विष्णावपि समम् ।
‘जनितोत विष्णोः’ इत्यादौ जन्मादिदोषश्रवणात् ।
सम्बन्धानुपपत्त्यादिकं तु स्फुटमेवेत्यत आहनचेति ।
नचैतदखिलं विष्णौ … । मनुव्_२,२.२६२अ ।
न्यायसुधा-
एतदखिलं दोषजातं, विष्णावपि विश्वस्य कर्तर्यभ्युपगते समानमिति न वाच्यम् ।
कुतः ।
श्रुत्यैव सकलदोषपरिहारेण विष्णोर्विश्वकारणत्वस्य प्रतिपादितत्वात् ।
ननु पशुपतेरप्येवमागमैरनुमानैश्च जगत्कारणता प्रतिपादितैव ।
ततः को विशेष इत्यत आहश्रुतीति ।
… श्रुतिप्रामाण्यगौरवात् । मनुव्_२,२.२६२ब् ।
न्यायसुधा-
पाशुपतादितो ऽपि श्रुतीनां प्रामाण्यस्य गुरुत्वात् ।
एतदुक्तं भवति ।
पाशुपतादिकं हि शिवे जगत्कर्तरि सर्वज्ञे सिद्धे तत्प्रणीतत्वेन प्रमाणत्वेन निश्चीयेत ।
निश्चिते च तत्प्रामाण्ये शिवस्यैवंविधस्य सिद्धिरित्यन्योन्याश्रयता दुरवधारणप्रामाण्यम् ।
अन्यतः शिवस्यैवंविधतासिद्धावलमनेन ।
न चान्यत्तादृशं प्रमाणमस्ति ।
अनुमानानां दूषितत्वात् ।
नचैवं श्रुतिप्रामाण्यम् ।
अपौरुषेयत्वेन करणदोषाणां बाधकप्रत्ययस्य चाभावे सति तस्य निष्कम्पमेव स्वतो निश्चितत्वात् ।
अतो निश्चितप्रमाणभावया श्रुत्या विधूतावद्यगन्धं विष्णोर्जगत्कारणत्वं सिद्धयत्येवेति ।
८,४२३फ़्.
कास्ताः श्रुतय इत्यतस्ता उदाहरतिमन इति ।
मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः । मनुव्_२,२.२६२च्द् ।
स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवो ऽग्रतो ऽभवत् । मनुव्_२,२.२६३ ।
एको नारायणस्त्वासीन्न ब्रह्मा नच शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः । मनुव्_२,२.२६४ ।
सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः । मनुव्_२,२.२६५ ।
आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः । मनुव्_२,२.२६६ ।
आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित् ।
मनसो ऽस्याभवद् ब्रह्मा ललाटादपि शङ्करः । मनुव्_२,२.२६७ ।
पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । मनुव्_२,२.२६८ ।
८,४२४
न्यायसुधा-
अनेन’बुद्धिमनो ऽङ्गप्रत्यङ्गवत्तां भगवतो लक्षयामाह ।
बुद्धिमान्मनोवानङ्गवान्प्रत्यङ्गवान्’ इति श्रुतिमुपादत्ते ।
‘य एव’ इत्यनेन’यदात्मको भगवांस्तदात्मिका व्यक्तिः किमात्मको भगवान्ज्ञानात्मक ऐश्वर्यात्मकः शक्त्यात्मकः’ इति ।
ऊर्जिता बलवती ।
सर्वत्राप्रतिबद्धा ।
एतदातमको भगवांस्ततस्तस्य देहो ऽप्येतदात्मक इति श्रुतिलब्धो ऽर्थः ।
‘न ते विष्णौ’ इत्यनेन’न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप’ इति ।
‘वासुदेवः’ इत्यनेन’वासुदेवो वा इदमग्र आसीत्’ इति ।
‘मात्रया’ इत्यनेन’परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति’ इति ।
कथमेताभिः श्रुतिभिरभिप्रेतार्थसिद्धिरित्यतस्तासां तात्पर्यमाहइत्यादीति ।
इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत् सर्वमाविरासीदितीयते । मनुव्_२,२.२६९ ।
न्यायसुधा-
नित्यश्चासौ गुणात्मा चेति तथोक्तः ।
तस्मात् ।
तत्र’बुद्धिः’ इति श्रुत्या विष्णोर्देहवत्त्वमवगम्यते ।
अङ्गं देहः, प्रत्यङ्गानि हस्तादीनि, लक्षयामहे ज्ञापयामः ।
कथं बुद्धिमानित्यादि ।
‘यदात्मको भगवान्’ इत्यनया भगवतो देहस्य ज्ञानादिगुणात्मकत्वात् ।
व्यक्तिः देहः ।
‘न ते विष्णौ’ इत्यना भगवो देहस्य ज्ञानादिगुणात्मकत्वमनादिनित्यत्वम् ।
जातादिभिरप्राप्यमहित्वस्यान्यथानुपपत्तेः ।
‘वासुदेवः’ इति श्रुतिद्वयेनानादिनित्यदेहत्वम् ।
‘अजस्य’ इत्यनया देहवत्त्वं तस्याप्यजत्वम् ।
‘परो मात्रया’ इत्यनया देशकालगुणैरपरिच्छिन्नतनुत्वम् ।
‘सद्देहः’ इत्यादिश्रुतिद्वयेन जन्मादिदोषरहितगुणात्मदेहवत्त्वम् ।
सद्देहो जन्मादिदोषरहितदेहः ।
सुखगन्धः सुगन्धः ।
ज्ञानभा न तु तैजसभाः ।
ज्ञानज्ञान इत्यादेरतिशयितज्ञान इत्यादिरित्यर्थः ।
प्रियादिशब्दाः सुखविशेषवाचिनः ।
अन्यत् प्राकृतादिकम् ।
‘मनसः’ इत्यादिश्रुतिद्वयेन देहवत्त्वं ततो जगतो जन्म च ।
‘ब्राह्मणो ऽस्य’ इत्यादिवाक्यशेषात् ।
पक्षयोः पार्श्वयोः ।
८,४२४फ़्.
अत्र कासुचित् श्रुतिषु विवक्षितार्थो न स्फुटं प्रतीयते ।
किन्तूपपत्तिसाध्य इत्याशयवतोक्तम्बलादिति ।
आविरासीदित्यनेन सत्कार्यवादं सूचयति ।
ईयते ज्ञायते ।
अत्र सकलजगत्कारणत्वस्यैव श्रुतिसिद्धत्वे सर्वदोषपरिहारः सिध्यत्येव ।
नहि दोषेषु सत्सु तत्सम्भवति ।
तथापि देहाभावप्रयुक्तानि दूषणानि प्रयुक्तानि ।
तस्य च देहस्य ज्ञानानन्दादिगुणात्मकत्वेन जननादिदोषपरिहारो ऽपि सिद्धः ।
जनितोतेत्यादिवाक्यं तु बह्वीभिर्निरवकाशादिभिः श्रुतिभिः विरुद्धमन्यथाव्याख्येयम् ।
तदिदमुक्तम्सन्दर्भबलादिति ।
८,४२८
स्यादेतत् ।
देहो ज्ञानानन्दादिगुणात्मानादिनित्यश्चेत्येतच्छशो विषाणवानितिवद्विरुद्धम् ।
यो देहः स भौतिको जन्मादिमानिति नियमदर्शनात् ।
ततो विष्णोर्देहमङ्गीकृत्य तस्याभौतिकत्वाद्यङ्गीकारे शशस्यापि विषाणित्वमङ्गीकार्यमित्यतो देहस्याभौतिकत्वादिना विरोधं
तावदपाकरोतिमानसत्त्वादिति ।
मानवत्त्वाद् विरोधः को … । मनुव्_२,२.२७०अ ।
न्यायसुधा-
क इत्याक्षेपे ।
नास्ति विरोध इत्यर्थः ।
इदानीं शशविषाणप्रतिबन्दीं मोचयतिनेति ।
… नामानं क्वचिदिष्यते । मनुव्_२,२.२७०ब् ।
न्यायसुधा-
अङ्गीकुर्मः शशविषाणमपि ।
यदि परमेश्वरविग्रहस्यानन्दाद्यात्मकत्वमस्ति प्रामाणिकं स्यात् ।
नचैवम् ।
नह्यप्रामाणिकं केनापि कदापि क्वचिदप्येष्युं शक्यत इति ।
ननु प्रामाणिकत्वे ऽपि विरोधाभावः कथमित्यत आहअविरोध इति ।
अविरोधो विरोधश्च मानेनैव हि गम्यते । मनुव्_२,२.२७०च्द् ।
न्यायसुधा-
ययोः क्वचित्सहदर्शनं तयोरविरोधः ।
ययोस्तु नियमेन व्यधिकरणतयैव दशर्नं तयोः विरोध इत्येवं सहदर्शनासहदर्शनलक्षणेन मानेन (हि) वस्तूनामविरोधविरोधाववगन्तव्यौ ।
तन्नियमाकस्यान्यस्याभावात् ।
अतः प्रमाणेन सहदृष्टे ऽर्थे विरोधः कथं स्याद्वयाघातादिति ।
उपसंहरतिअत इति ।
८,४२९
अत उक्तं समस्तं च वासुदेवस्य युज्यते । मनुव्_२,२.२७१अब् ।
न्यायसुधा-
प्रमाणैः सहदृष्टे ऽर्थे विरोधस्यानाशङ्कनीयत्वात् ।
उक्तम् उदाहृताभिः श्रुतिभिः ।
समस्तं चिदानन्दाद्यात्मकनिरवद्यविग्रहेण जगत्कारणत्वम् ।
एतच्चारूपवदेवेत्यादिना वक्ष्यमाणं शिष्यहितैषिणाऽचार्येणात्रोक्तमिति ज्ञातव्यम् ।
नन्वेतदस्माकमपि समानम् ।
तथाहि ।
यद्यपि पाशुपतादिकमशक्यावधारणप्रमाणभावम् ।
तथापि’ज्ञात्वा शिवं शान्तिमत्यन्तमेति ।
ऽ‘एको रुद्रो न द्वितीयाय तस्थे ।
ऽ‘स इमान् लोकानीशत ईशनीभिः’ इत्याद्याः श्रुतयस्तावच्छिवस्य जगज्जन्मादिहेतुतामाचक्षते ।
शिवादिनामोपेतत्वात् ।
नच तथाविधस्यासमञ्जसत्वं सम्भवतीत्युदाहृताः श्रुतयो ऽन्यथा योज्याः ।
अतः सम्बन्धानुपपत्त्यादिकं श्रुतिरेवाभासयिष्यति ।
तद्घटकं वा किमपि कल्पयिष्यतीत्यत आहशिवादीति ।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः । मनुव्_२,२.२७१च्द् ।
न्यायसुधा-
भवेदेवं यद्येताः श्रुतयः शिवपराः स्युः ।
नचैवम् ।
किन्तु शिवादिनामयुक्ता अपि विष्णुविषया एव ।
नन्वेतत्कुतः ।
एवं सत्यस्माभिरपि वक्तुं शक्यत एव ।
एको नारायण इत्याद्या अपि श्रुतयः शिवपरा इति ।
मैवम् ।
शिवादिनाम्नां विष्णौ शक्तिमत्त्वात् ।
नारायणादिनाम्नां शिवे शक्त्यभवात् ।
अत्रापि किं मानमित्यत आहनामानीति ।
८,४३०
नामानि सर्वाणि च यमेको यो देवनामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम् । मनुव्_२,२.२७२ ।
न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः । मनुव्_२,२.२७३ ।
न्यायसुधा-
अनेन’नामानि विश्वाभि न सन्ति लोके’ इत्यादिकां श्रुतिमुपादत्ते ।
‘एकः’ इत्यनेन ।
‘यो देवानां नामधा एक एवेति ।
नामानि धत्त इति नामधाः ।
नान्यस्य वाचकानि ।
न तदन्येषु वर्तन्ते ।
अपरे शिवादिशब्दाः ।
उक्तः समन्वयश्च तत्र मानमिति सम्बन्धः ।
समन्वयग्रहणेनैतदपि परिहृतम् ।
एता अपि श्रुतीरहं शिवादिवि(ववि)षयतया व्याख्यास्यामीति ।
उपक्रमादिभिर्लिङ्गादिभिश्च भगवत्परतया निश्चितत्वादिति ।
८,४३१
मा भूच्छतिभिः शिवस्य जगत्कारणत्वावधारणं शैवपुराणैस्तु भविष्यति ।
नच तान्यपि विष्णुपराणि ।
उपक्रमादिबलेन शिवविषयतया निश्चितत्वादित्यत आहपुराणानीति ।
पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत् प्रमा । मनुव्_२,२.२७४अब् ।
न्यायसुधा-
पुराणाद्यैः वैष्णवैः ।
विरुद्धत्वात् प्राक् प्राबल्यचिन्तायाः सत्प्रतिपक्षत्वात् ।
तदुत्तरं बाधितत्वाच्च ।
तत् तत्र, शिवस्य जगत्कारणत्वे ।
न केवलं वैष्णवादिपुराणादिविरुद्धत्वादप्रमाणं शैवपुराणम् ।
किन्तु शैवप्रमाण(पुराण)विरुद्धत्वादपीत्याहतदिति ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः । मनुव्_२,२.२७४च्द् ।
न्यायसुधा-
तद्विरुद्धेषु शैवपुराणादिविरुद्धेषु शिवजगत्कारणादिषु नो मानम् ।
शैवपुराणमिति शेषः ।
कथं शैवपुराणस्य शैवपुराणविरोध इत्यत आहपूर्वेति ।
एतच्चान्यत्र दर्शितम् ।
किञ्च शैववैष्णवपक्षपातशून्यब्राह्मपुराणविरुद्धत्वाच्च शैवपुराणं विमते ऽर्थे न मानमित्याहसमेति ।
समब्राह्मविरोधाच्च … । मनुव्_२,२.२७५ब् ।
न्यायसुधा-
इदमप्यन्यत्र दर्शितम् ।
एवं तर्हि वैष्णवानामपि पुराणादीनामप्रामाण्यं स्यात् ।
तेषामपि शैवब्राह्मपुराणविरुद्धत्वात्पूर्वापरविरोधाच्चेत्यत आहनियमादिति ।
८,४३२
… नियमाद् वैष्णवेष्वपि । मनुव्_२,२.२७५ब् ।
न्यायसुधा-
एकप्रकारत्वात् ।
पूर्वापरविरोधाभावात् ।
शैवादिपुराणानामेतत्प्रतिबन्धकत्वाद्यसामर्थ्यादित्यपेरर्थः ।
तेषां नाप्रामाण्यमिति शेषः ।
ननु वैष्णवेष्वपि पुराणादिषु शिवादीनां जगत्कारणत्वादिकं विष्णुना तदीयस्तुत्यादिकारणं च प्रतीयत एव ।
तत्कथं नियम उच्यत इत्यत आहमोहार्थमिति ।
मोहार्थमुक्तितश्चैव … । मनुव्_२,२.२७५च् ।
न्यायसुधा-
शिवादीनां जगत्कारणत्वादेरयोग्यजनव्यामोहनार्थमेवोक्तिः, चशब्दाद्विष्णुना शिवस्तुत्यादेर्मोहार्थं कृतस्यानुवादतश्च नियमो न विरुद्ध इति ।
कथं शैवपुराणादीनां प्रतिरोधकत्वाद्यसामथ्यर्मित्यत आहमोहार्थमिति ।
शैवपुराणादीनां मोहार्थमेव उक्तितः कृतत्वात् ।
चशब्देन वैष्णवानां तत्त्वज्ञानाथर्मेव कृतत्वात् ।
अत्र चार्थे ऽन्यत्र प्रमाणान्युक्तानि ।
८,४३३
अधिकरणार्थमुपसंहरतिविष्णुरिति ।
… विष्णुरेको गुणार्णवः । मनुव्_२,२.२७५द् ।
न्यायसुधा-
तस्मादिति सिद्धमिति शेषः ।
ननु स्कन्दादिमतान्यप्युक्तार्थविरोधीनि सन्ति तानि कुतो ऽत्र न निराक्रियन्त इत्यत आहस्कन्देति ।
स्कन्दसूर्यगणेशादिमतानि न्यायतो ऽमुतः ।
निराकृतान्य् … । मनुव्_२,२.२७६अच् ।
न्यायसुधा-
अमुतो न्यायतः पाशुपतमतनिराकरणन्यायतः ।
अतो न निराक्रियन्त इति शेषः ।
कथमनेन न्यायेन तन्निराकरणमित्यत आहअशेषेणेति ।
… अशेषेण सिद्धान्तस्याविशेषतः । मनुव्_२,२.२७६च्द् ।
न्यायसुधा-
कात्स्नर्येन तदीयसिद्धान्तानां पाशुपतसिद्धान्तस्य चाविशेषतः ।
केवलदेवतान्तरपरिग्रहेणैव सिद्धान्तभेदः ।
प्रक्रिया तु सर्वत्र समानैव ।
अतः पूर्वनिराकरणन्यायेनैव तन्निराकरणं युक्तमेवेति भावः ।
। इति श्रीमन्न्यायसुधायां पत्युरधिकरणम् ।
__
८,४३४