। अथ श्रीमन्न्यायसुधायां नैकस्मिन्नधिकरणम् ।
। ओं नैकस्मिन्नसम्भवात् ओं ।
जैनमतमत्र निराक्रियते ।
निराकार्यांशज्ञापनाय तदुपन्यस्यतिआहेति ।
नैकस्मिन्न् असम्भवात् । ब्ब्स्_२,२.३३ ।
आह क्षपणको विश्वं सदसद् द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम् । मनुव्_२,२.२३६ ।
न्यायसुधा-
द्विविधं तावद्विश्वं, जीवाजीवात्मकं निरीश्वरम् ।
तत्पुनः षड्द्रव्यात्मकम् ।
तानि च द्रव्याणि जीवधर्माधमर्पुद्गलकालाकाशनामानि ।
तत्र जीवास्त्रिविधाः ।
बद्धा योगसिद्धा मुक्ताश्चेति ।
धर्मो गतिहेतुर्जगद्वयापी ।
अधर्मः स्थितिहेतुर्व्यापक एव ।
पुद्गलो रूपरसगन्धस्पर्शवत् द्रव्यम् ।
तत् द्विविधम् ।
परमाणुरूपं सङ्घातरूपं च ।
कालः, अभूद्भवति भविष्यतीति व्यवहारहेतुरप्यणुरूपः ।
आकाश एको ऽनन्तप्रदेशश्च ।
स द्विविधो लोकाकाशो ऽलोकाकाशश्चेति ।
(ए)तेष्वणुव्यतिरिक्तान्यस्तिकायशब्दानि ।
अनेकदेशवर्तिनि द्रव्ये ऽस्तिकायशब्द(प्र)वृत्तेः ।
ते च जीवास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च ।
अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः ।
जीवो ज्ञानदर्शनसुखवीर्यगुणः ।
अजीवो जीवोपभोग्यं वस्तुजातम् ।
अस्रवः तद्भोगोपकरणमिन्द्रियादिकम् ।
बन्धो द्विविधः ।
घातिकाघातिकचतुष्ययभेदात् ।
आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम् ।
द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् ।
निर्जरो मोक्षसाधनं तपः ।
संवर इन्द्रिय(निरोधः) निग्रहः ।
मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः ।
मोक्षग्रहणेनैव मोक्षमार्गो ऽपि सङ्गृहीतः ।
स च सम्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः ।
तदेतद्विश्वं सप्तभङ्गि प्रत्येकं सप्तप्रकारकमा(मित्या)ह क्षपणकः ।
कथम् ।
सदित्येकप्रकारः ।
असदिति द्वितीयः ।
द्वयं सदसदात्मकमिति तृतीयः ।
अद्वयम् अवक्तव्यमिति चतुर्थः ।
द्वयाद्वयमिति पञ्चमषष्ठौ ।
तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः ।
अतत्सर्वमिति सप्तमः ।
सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम् ।
८,३६२
अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टेनैतदिति ।
नैतत् पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः । मनुव्_२,२.२३७अब् ।
८,३६३
न्यायसुधा-
एतत्सप्तप्रकारत्वं कुतः ।
असम्भवात् ।
सो ऽपि कथं, दृष्टिविरोधतः ।
सर्वं हि स्वोपाधौ सत् परोपाधावसत् ।
स्वरूपेण भावो ऽन्यात्मत्वादिनाभावः ।
द्रव्यरूपेण नित्यमवस्थाभेदेन अनित्यम् ।
स्वरूपादिनाभिन्नं स्वगुणादिना भिन्नाभिन्नमित्येव प्रतीयते ।
नातो ऽन्येन प्रकारेण ।
अतो व्यवस्थया नियमग्राहकप्रत्यक्षादिविरोधेनासम्भवादयुक्तमेवानेकान्तमतमिति ।
नन्वेकान्तदर्शनस्य मिथ्यादृष्टित्वेन न तद्विरोधो ऽसम्भवमाहवतीत्यत आहभावेति ।
भावाभावतया विश्वं येन रूपेण मीयते ।
तद्रूपमेव तदिति नियमः केन वार्यते । मनुव्_२,२.२३७च्फ़् ।
न्यायसुधा-
येन रूपेणेत्यस्यैव विवरणं भावाभावतयेति ।
तच्च व्यवस्थितसदसत्त्वाद्युपलक्षणं बोद्धव्यम् ।
यद्वा भावाभावतयान्येन च येन सत्त्वादि(ना)रूपेणेति योजना ।
अथवा येन भावाभावतया रूपेणेति सामानाधिकरण्येन योज्यम् ।
यदि वा भावाभावतयेत्यस्य विशेषणमेतत् ।
येन व्यवस्थितेन रूपेणेति ।
केन प्रमाणेनेत्याक्षेपः ।
भवेदेतन्नियमदर्शनस्य मिथ्यादृष्टित्वम् ।
यदि दृष्टस्य नियमस्य निवारकमनेकान्तसाधकं प्रबलप्रमाणं स्यात् ।
न चैतदस्ति ।
नच बाधकेन विना प्रत्ययानां मिथ्यात्वं कल्पयितुं युक्तमतिप्रसङ्गादिति ।
नियमस्य बाधकमाशङ्कतेतत्तदिति ।
तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना ।
यदि … । मनुव्_२,२.२३८अच् ।
न्यायसुधा-
सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपस्तदनङ्गीकारे दोषांश्च न्यरूपयन् ।
एवमसद्वादिनो ऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः ।
तथान्ये ऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः ।
तथाच यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्येत ।
एवमसत्त्वाद्यनङ्गीकारे ऽपि ।
अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता ।
तथाचानेकान्ते प्रबलप्रमाणसद्भावात्कथं नियमे बाधकाभाव इति ।
परिहरतितैरिति ।
८,३६५
… तैरखिलैर्देषैर्लिप्यते चलदर्शनः । मनुव्_२,२.२३८च्द् ।
न्यायसुधा-
तर्हीति शेषः ।
इदमत्र वक्तव्यम् ।
सद्वादिमतानुसरणसमये ऽसत्त्वादिभङ्गीरङ्गीकरोषि (वा) न वेति ।
एवमसद्वादिचरणशरणप्रवेशवेलायां सत्त्वादिप्रकारानूरीकरोषि वा न वेति ।
एवमन्येष्वपि पक्षेषु विकल्पः ।
यद्याद्यस्तदासौ अचलदर्शनः सदा सकलपक्षाङ्गीकारवान् तैर्देषैरखिलै(तैरखिलैर्देषै)र्लिप्यते ।
तथाहि ।
सद्वादिनो हि न केवलं सत्त्वे प्रमाणं तदनङ्गीकारे च दूषणं च व्युत्पाद्य निवृत्ताः ।
किन्त्वसत्त्वादिपक्षेषु दोषानपि व्युत्पादितवन्तः ।
एवमसद्वादिनो ऽपि नासत्त्वे प्रमाणं तदनभ्युपगमे बाधकं चाभिधायैवोपरता, किन्नाम सत्त्वादिपक्षेषु दोषानपि उपपादितवन्तः ।
एवमन्ये ऽपि ।
तथाच सकलपक्षकक्षीकारे (तु) तत्तद्वाद्युक्तपक्षान्तरदोषलेपः कथं न स्यात् ।
अथ मन्यसे ।
न ते दोषाः किन्त्वाभासाः ।
ते च नानेकान्तवादं बाधन्त इति ।
तदा कथं तानि प्रमाणानि ।
अनङ्गीकारे दोषाश्च नाभासाः ।
(ये नानुम)येनानुसरणीयाः ।
तसम्त्तत्तद्वादिव्युत्पादितप्रमाणाद्यनुसारेण सप्तभङ्गीरङ्गीकुर्वाणेन तदुक्तविपक्षदोषानुसारेण तत्परित्यागो ऽपि कार्यः स्यात् ।
तथा चाङ्गीकारपरित्यागाभ्यामुभयत आकृष्टो ऽयं कष्टां दशामाविष्यः स्यात् ।
नन्वेकान्तो द्वेधा ।
क्रमाक्रमभेदात् ।
तत्र क्रमानेकान्ते तावन्नाङ्गीकारपरित्यागौ विरुद्धौ ।
अक्रमानेकान्ते ऽपि येन रूपेण नित्यत्वं तेनैवानित्यत्वमित्याद्यनङ्गीकारान्न विरोधः ।
तथाच सप्तभङ्गयङ्गीकारिणा मया तानि प्रमाणानि दूषणानि च व्यवस्थापितानि भवन्तीति नोक्तदोषः ।
मैवम् ।
तत्तत्प्रमाणादीनां व्यवस्थानर्हत्वात् ।
न खलु तत्त(त्प्रमाणवा)द्वादिभिस्तानि तानि प्रमाणादीनि सावकाशान्युपन्यस्तानि ।
तस्मात्सर्वेष्वपि (वादिषु) वादेषु परमास्तिकस्य कथितैव गतिः ।
८,३६६
अपि चैवमपि सप्तभङ्गयङ्गीकारो निर्मूल एव ।
न ह्येवंवादिनो वादिनः प्रसिद्धाः ।
सम्भावनया तदङ्गीकारे च न सप्तत्वपरिनिष्ठा ।
सम्भावनावका(को)शस्य निःसीमत्वात् ।
किञ्च सर्वाङ्गीकारपक्षे स्यादस्ति च नास्ति चेति पक्षात्स्यादस्ति स्यान्नास्तीति पक्षद्वयं न भिद्यते ।
द्वितीयपक्षे तु चलदर्शन इत्येव दूषणम् ।
अपसिद्धान्ती स्यादिति ।
तदेवं सप्तभङ्गयङ्गीकारः प्रमाणविरुद्धो ऽप्रामाणिकश्चेत्युक्तम् ।
अखिलैर्देषैर्लिप्यत इत्यनेन परस्परव्याहतिश्चेत्यपि सूचितम् ।
जोस्हि५
८,३६८
एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारे ऽतिप्रसङ्गं चाहअतिहायेति ।
अतिहाय प्रमाणाप्तं नियमं सदसत्तया ।
अशेषमाविरुद्धं च निर्मानं व्याहतं सदा । मनुव्_२,२.२३९ ।
सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ।
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि । मनुव्_२,२.२४० ।
न्यायसुधा-
अशेषमाविरुद्धं वदत इत्यस्योपपादनं व्यवस्थितया सदसत्तया प्रमाणाप्तनियममतिहायेति ।
सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम् ।
ततश्चासौ प्रकारश्चेति वा ।
ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः ।
अक्रमानेकान्ते ऽपि रूपभेदेनेत्यत उक्तम्सदा सर्वप्रकारं वदत इति ।
सदेति रूपाभेदस्याप्युपलक्षणम् ।
८,३६९
अयमाशयः ।
यदि क्रमेण वा रूपभेदेन वानेप्रकारत्वम् तदा नायमनेकान्तवादः समर्थनीयः ।
सर्वैरपि वादिभिरङ्गीकृतत्वात् ।
नहि को ऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणो ऽस्ति ।
यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत ।
केवलं क्षणभङ्गो वात्यन्तसत्कार्यवादो वावस्थावतोरत्यन्तभेदो वापाकरणीयः ।
अतः अनेकान्तवादमवतारयता क्षपणकेन सदा रूपाभेदेनैव च सर्वप्रकार(क)त्वमित्येव वक्तव्यम् ।
तथाच न व्याघातनिस्तार इति ।
८,३७०
अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः स्यात् ।
निर्मान च सदा सर्वप्रकारं वदतो अमग्रहो अप्रामाणिकस्वीकारः स्यात् ।
व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं स्यादिति योजना ।
दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थमित्याद्या इत्युक्तम् ।
हिशब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः ।
अयमर्थः ।
यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)ऽङ्गीकार्यं स्यात् ।
प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् ।
किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात् ।
अविशेषात् ।
यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात् ।
प्रमाणाभावेन परमतनिरासो ऽपि न कार्यः स्यात् ।
तद(प्य)भ्युपगमनीयमेव भवेदविशेषात् ।
तथाच दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् ।
यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यत्वं, जिनोपदेशस्य प्रमाणतयाभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं,
मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमित्यादिसर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात् ।
अन्यथानेकान्तभङ्गप्रसङ्गात् ।
एवञ्च न शास्त्रप्रणयनप्रयासः कार्यः ।
मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति ।
८,३७१
एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदतिवक्तीति ।
वक्ति स्वप्रभमात्मानं देहमानं … । मनुव्_२,२.२४१अब् ।
८,३७१फ़्.
न्यायसुधा-
क्षपणक इति वर्तते ।
स्वप्रभं स्वप्रकाशं, देहस्य मानं परिमाणमिव मानं यस्यासौ तथोक्तः ।
अत्र देहमानत्वमेव विप्रतिपन्नो ऽर्थः ।
स्वप्रभत्वं तु सम्मतमेवास्माकम् ।
यद्वा स्वप्रभमिति क्रियाविशेषणम् ।
विना प्रमाणेन स्वीयया प्रभयोत्प्रेक्ष्यैव वक्तीति ।
अथवानेन देहपरिमाणत्वे जैनोक्तं प्रमाणाभावसमनुवदति ।
तत्र स्वशब्देन स्वीयो देह उच्यते ।
तत्र प्रभा यस्यासौ तथोक्तः ।
तथाच प्रयोगः ।
देवदत्तात्मा, तद्देह एव, तत्र सर्वत्रैव च विद्यते ।
तत्रैव तत्र सर्वत्रैव च स्वासाधारणगुणाधारतयोपलम्भात् ।
यो यत्रैव, यत्र सवर्त्रैव स्वासाधारणगुणाधारतयोपलभ्यते, स तत्रैव, तत्र सर्वत्र च विद्यते ।
यथा देवदत्तगृह एव तत्र सर्वत्रैव चोपलभ्यमानस्वासाधारणभास्वरत्वादिगुणः प्रदीपः ।
तथाचायं तस्मात्तथेति ।
अन्यथा कमनीयतनयालिङ्गनेन सर्वत्राह्ला(दाक)दकरस्य (स्व)सुखस्याननुभवप्रसङ्गः ।
तथाच सर्वाङ्गीणरोमाञ्चादिकार्यानुदयः स्यादिति ।
यद्वा प्रदीपस्येव स्वानपायिनी प्रभा यस्यासौ स्वप्रभ इति ।
८,३७४
अत्रात्मनः कायपरिमाणत्वनिरासार्थं सूत्रम् ।
ओं एवञ्चात्माकात्स्नर्यम् ओं ।
इति ।
तस्य तात्पर्यमाहतदपीति ।
एवं चात्माकार्त्स्न्यम् । ब्ब्स्_२,२.३४ ।
न च पर्यायाद् अप्य् अविरोधो विकारादिभ्यः । ब्ब्स्_२,२.३५ ।
… तदप्यलम् ।
दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात् । मनुव्_२,२.२४१ब्द् ।
न्यायसुधा-
कुतः ।
अकात्स्नर्यादिप्रसङ्गादिति शेषः ।
पिपीलिकादिदेहस्थस्य तत्परिमाणस्यात्मनः कर्मविपाकवशाद्गजगवयादिदेहप्राप्तौ तत्राकात्स्नर्यं स्यात् ।
गजादिदेहगतस्य च तत्परिमाणस्य पिपीलिकादिदेहे ऽतिरेकः स्यादित्युभयथा कायपरिमाणत्वानुपपत्तिरेवेति ।
एतदर्थत्वेन (वा) च नानाशरीरेष्विति वाक्यं योज्यम् ।
तत्रान्यथाभावादिति कायपरिमाणत्वाभावापत्तेरित्यर्थः ।
८,३७५
स्यादेतत् ।
यं यं देहं प्राप्नोत्यात्मा तत्तत्परिमाणो भवत्यतो नोक्तदोष इत्याशङ्कानिरासार्थं सूत्रम् ओं नच पर्यायादप्यविरोधो विकारादिभ्यः ओं ।
इति ।
तस्य तात्पर्यमाहतदप्यलमिति ।
चित्तस्थं परिमाणपर्यायं तच्छब्देन परामृशति ।
‘नानाशरीरेषु प्रवेशादन्यथाभावात्’ इति स्थूलसूक्ष्मशरीरेषु प्रवेशात्स्थूलसूक्ष्मपरिमाणोपज(न)ने सति
परिमाणतद्वतोरत्यन्तभेदानभ्युपगमादात्मन एवान्यथाभावप्रसङ्गादित्यर्थः ।
८,३७६
अस्त्वात्मन एवान्यथाभावास्ततः को दोष इत्यत आहअन्यथेति ।
अन्यथाभावि यद् वस्तु तदनित्यमिति स्थितिः ।
तन्मते … । मनुव्_२,२.२४२अच् ।
न्यायसुधा-
स्थितिः व्याप्तिः ।
तन्मत जैनदर्शने ।
अङ्गीकृतेति शेषः ।
ततो ऽपि किमित्यत आहतदिति ।
… तदनित्यत्वं … । मनुव्_२,२.२४२च् ।
न्यायसुधा-
यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं तत् तस्मादात्मनो ऽनित्यत्वमापततीति शेषः ।
अत्र दृष्टान्तःपुद्गलेति ।
… पुद्गलस्यानिवारितम् । मनुव्_२,२.२४२द् ।
८,३७७
न्यायसुधा-
इवशब्दो ऽध्याहार्यः ।
पुद्गलस्य देहस्येवेति ।
यद्वा पुद्गलशब्दो जरज्जैनैरात्मवाचित्वेन स्वीकृत इत्यत्रात्मवाची ।
(यद्वा) यदि वा स्वमतेनायमात्मनि प्रयुक्तः ।
यथाऽहुः ।
‘पुद्गलो निरययं गिरन्’ इति ।
नन्ववस्थापर्यायरूपेणा(प्या)त्मनो ऽप्यनित्यत्वमङ्गीक्रियत एव ।
तत्कथमनित्यत्वापादनमित्यतो वा पुद्गलस्य देहस्येवेत्युक्तम् ।
यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमातम्नो ऽप्यापाद्यत इति ।
ननु अन्यथाभावस्यैवं विधानित्यत्वेन व्याप्तिर्नास्ति परमाण्वादौ व्यभिचारात् ।
तत्कथमापादनम् ।
मैवम् ।
परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतो ऽप्यात्मनस्तथाविधानित्यत्वस्य
निवारयितुमशक्यत्वात् ।
तदिदमुक्तम्अनिवारितमिति ।
८,३७८
नन्वस्मन्मतवद्भवन्मते ऽप्यात्मनो ऽन्यथाभावो ऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् ।
अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा ।
तस्माद्भवन्मते ऽप्यात्मनो ऽनित्यता दुर्वारेत्यत आहनेति ।
नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित् । मनुव्_२,२.२४३ ।
८,३७८फ़्.
न्यायसुधा-
अन्यथाभाववतो ऽप्यात्मनः प्रसज्यत इति शेषः ।
तत्कथमित्यत आहचैतन्यादेरिति ।
अस्मन्मत इति वर्तते ।
अनित्यतेति च ।
तुशब्दो ऽवधारणे ।
अस्मन्मते चैतन्यादेर्लक्षणस्य निवृत्तावेव विशेषिणो लक्षणवतो ऽर्थस्यानित्यता स्यात् ।
नतु जैनानामिवान्यथाभावमात्रेण ।
एतदुक्तं भवति ।
यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपो ऽन्यथाभाव एव तदनित्यतानिबन्धनं नान्यथाभावमात्रमिति ।
एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात् ।
चेष्याश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तम्विशेषिणो लक्षणस्येति ।
विशेषवतो लक्षणस्य न तु लक्षणमात्रस्येत्यर्थः ।
८,३७९
किमतो यद्येवमित्यत आहनेति ।
तदिति सामान्येन वाक्यार्थं परामृशति ।
अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं चेतने क्वचिदपि न स्यात् ।
अतस्तस्यानित्यतापि न स्यात् ।
यद्वा तदिति लक्षणपरामशर्ः ।
चेतने वर्तमानं क्वचिन्न निवर्तत इति शेषः ।
८,३८०
विशेषिणो लक्षणस्य निवृत्तौ लक्षस्यानित्यता स्यादित्युक्तम् ।
तद्विशदयतिओतेति ।
ओतप्रोतात्मकत्वं तु पटे देहे ऽङ्गसंस्थितिः ।
इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता । मनुव्_२,२.२४४ ।
न्यायसुधा-
ओतप्रोतात्मकत्वं नाम तन्तूनां संयोगविशेषः पटे लक्षणमिति शेषः ।
अङ्गसंस्थितिः करचरणाद्यङ्गानां सन्निवेशविशेषः ।
आदिशब्दः प्रकारवचनः ।
अनित्यता लक्ष्यस्येति शेषः ।
यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम् ।
तादृशं चात्मनश्चैतन्यम् ।
तच्च कदापि न निवर्तते इति कथं तस्य विनाशप्रसङ्ग इति ।
यदुक्तमात्मा स्वप्रभ इति तदप्यसत् ।
स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः ।
रूपादिमत्वाच्च विनाशित्वापत्तेः ।
यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति ।
८,३८१
ननु सिद्धान्ते ऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव ।
रूपादिमतो ऽनित्यत्वमिति व्याप्तिश्च ।
‘रूपादिमत्त्वाच्च विपर्ययो दर्शनात्’ इत्युक्तत्वात् ।
तत्कथमनित्यत्वपरिहार इत्यत आहभौतिकं त्विति ।
भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते । मनुव्_२,२.२४५अब् ।
८,३८२
न्यायसुधा-
तुशब्दो विशेषार्थः ।
स एव भौतिकमिति विवृतः ।
न रूपादिमात्रमित्येवार्थः ।
नच भौतिकं रूपादिकमात्मन्यस्ति ।
तस्मान्नानित्यताप्रसङ्ग इति भावः ।
यथा भवद्भिरन्यथाभावो विशेष्यते ।
यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपो ऽन्यथाभावो ऽनित्यत्वव्याप्त इति ।
रूपादिमत्त्वं च भौतिकत्वेन ।
तथास्मन्मते ऽपि विशेषणप्रक्षेपे नोक्तदोष इत्यत आहनैवमिति ।
नैवं तस्य … । मनुव्_२,२.२४५च् ।
न्यायसुधा-
तस्य क्षपणकस्य मते नैवमन्यथाभावो रूपादिमत्त्वं च विशेष्यते ।
किन्तु सामान्यमेवानित्यत्वव्याप्ततयाङ्गीक्रियते ततो नोक्तदोषपरिहार इत्यर्थः ।
तत्कथमित्यत आहअन्यथेति ।
… अन्यथाभावो यस्यानित्यत्वमीरितम् । मनुव्_२,२.२४५च्द् ।
रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये । मनुव्_२,२.२४६अब् ।
न्यायसुधा-
भूभूधरादेजर्गतो नाशित्वसिद्धये यस्यान्यथाभावस्तस्यानित्यत्वमीरितं क्षपणकेन ।
तथाशब्दः समुच्चये ।
रूपादियुक्तस्याप्यनित्यत्वमीरितमिति ।
यद्वा यत् रूपादियु(क्तं तत्त)क् तत्तथानित्यमीरितमित योजना ।
तस्येत्यत यस्येत्यनेनान्वयः ।
अन्यथा तु यच्छब्दश्रवणात्तच्छब्दाध्याहारः ।
पूर्ववाक्यात्तस्येत्यनुवर्तते वा ।
एतच्चोपपादयिष्यते ।
८,३८३
उक्तमुपसंहरतिव्याप्त्येति ।
व्याप्त्या तयान्यथाभावादात्मनो ऽनित्यता भवेत् । मनुव्_२,२.२४६च्द् ।
न्यायसुधा-
यदन्यथाभावि तदनित्यं यच्च रूपादिमत्तदनित्यमिति व्याप्त्या ।
अन्यथाभावादित्युपलक्षणम् ।
रूपादिमत्त्वाच्चेत्यपि द्रष्टव्यम् ।
स्यादेतत् ।
सम्प्रतिपन्नव्याप्तिकव्याप्यारोपो(ण) अनिष्यव्यापकारो(पः)पणं तर्कः ।
अत्र च न चेद्वयाप्तिः सम्मता कथं तर्हि तर्कत्वम् ।
मैवम् ।
व्याप्यवद्वयाप्तेरपि पराभ्युपगतत्वे ऽपि तर्कत्वाविरोधात् ।
एवमेव क्वचिदाश्रयस्योभयासम्मतावपि न दोषः ।
वक्ष्यति चैतत्’परन्यायैस्तु दूषणम्’ इति ।
८,३८५
क्षपणोक्तं प्रमेयान्तरं निराकर्तुं सूत्रम् ओं अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषात् ओं ।
इति ।
तत्रान्त्यावस्थितेश्चेत्येतावत्तावद्वयाख्यातिनित्येति ।
अन्त्यावस्थितेश् चोभयनित्यत्वाद् अविशेषः । ब्ब्स्_२,२.३६ ।
नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ।
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा । मनुव्_२,२.२४७ ।
८,३८६
न्यायसुधा-
अपिशब्दः प्रमेयान्तरनिराकरणसमुच्चयार्थः ।
चशब्दः परिमाणपर्यायेण सह समुच्चये ।
या एषा नित्योर्ध्वगतिर्मुक्तिरिति जैनैः कथ्यते सा च कथमात्मनो विकृतिर्नो भवेत् ।
भेवेदेव ।
तत्कथम् ।
अलोकाकाशमाप्तस्य ।
प्राक् लोकाकाशस्थो ह्ययमात्मा निरन्तरोर्ध्वगत्यालोकाकाशमाप्नोति ।
तथाचान्यथाभावादात्मनो ऽनित्यत्वापत्तिरिति भावः ।
अनेनान्त्या (या)अवस्थितिः सन्ततोर्ध्वगतिलक्षणा ।
ततश्चात्मनो ऽनित्यत्वापत्तिरिति सूत्रखण्डस्यार्थ उक्तो भवति ।
नन्वन्यथाभावमात्रमनित्यत्वस्य प्रयोजकमिति न तावद्भवदीयः पक्ष इत्युक्तम् ।
नापि मदीयः पक्षः ।
तत्कथं प्रदेशविशेषसंयोगमात्ररूपान्यथात्वेन मुक्तात्मनो ऽनित्यत्वप्रसञ्जनमित्यतो जैनपक्षो ऽयमिति समर्थयितुं तावत्पृच्छतिकीदृशश्चेति ।
८,३८७
कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते । मनुव्_२,२.२४८अब् ।
न्यायसुधा-
क्षपणकेन हि क्षित्यादेः सर्वस्य नित्यत्वाद्यनेकान्तं समर्थयमानेन द्रव्यपर्यायाभ्यां नित्यत्वमनित्यत्वं चेत्युक्तम् ।
द्रव्याकारस्य कदाप्यनपायान्नित्यत्वम् ।
पर्यायो ऽन्यथाभावः तस्मादनित्यत्वमिति ।
तत्र वक्तव्यम् ।
कीदृशो ऽत्रान्यथाभावो नाशं प्रति हेतुतयेष्यते ।
किं संस्थानादिलक्षणापगमरूपो वा, सधारणो वेति भावः ।
आद्यं शङ्कतेसंस्थानेति ।
संस्थानापगमश्चेत् … । मनुव्_२,२.२४८च् ।
न्यायसुधा-
संस्थानग्रहणं लक्षणोपलक्षणम् ।
नाशहेतुतयेष्यत इति सम्बन्धः ।
प्रतिषेधतिस नेति ।
… स नहि भूसागरादिषु । मनुव्_२,२.२४८द् ।
न्यायसुधा-
वक्तुं शक्यत इति शेषः ।
कुतो नेत्यत आहस न हीति ।
यावल्लक्ष्यभाविलक्षणापगमलक्षणो ऽन्यथाभावो भूसागरादिषु पक्षैकदेशभूतेषु न हीदानीं प्रमितस्ततो हेतोः सन्दिग्धासिद्धत्वं स्यादित्यर्थः ।
प्रमितत्वे तु तस्यानित्यत्वे ऽपि संशयो नास्तीत्यनुमानं व्यर्थमापद्यते ।
८,३८८
तर्हि द्वितीयो ऽस्त्विति शङ्कतेयः कश्चिदिति ।
यः कश्चिदन्यथाभावो यदि … । मनुव्_२,२.२४९अब् ।
न्यायसुधा-
पूर्ववदेव सम्बन्धः ।
अविवक्षितविशेष इत्यर्थः ।
एवं तर्हि मुक्तात्मनो ऽप्यनित्यत्वापादनं सुस्थितमिति भावेनाहमुक्तिश्चेति ।
… मुक्तिश्च तादृशी । मनुव्_२,२.२४९ब् ।
न्यायसुधा-
तादृशी अन्यथाभावस्वरूपा ।
एवमप्यात्मनो नित्यत्वे भूभूधरादीनामपि नित्यत्वं स्यात् ।
अन्यथा हेतोरनैकान्त्यात् ।
तदिदमुक्तं सूत्रकृता ।
‘उभयनित्यत्वात्’ इति ।
अवयवोपचयापचयलक्षणो ऽन्यथाभावो ऽनित्यत्वे हेतुरिति चेत् (न) ।
स्फटिकादौ पक्षैकदेशे सन्दिग्धत्वात् ।
रूपादिमत्त्वं सविशेषणमुपादीयते चेत्को दोष इति चेन्न ।
परस्य वैयर्थ्यप्रसङ्गात् ।
नहि परो रूपादिमत्किञ्चिन्नित्यमभ्युपैति ।
आत्मनस्तु प्रभया रूपादिमत्त्वमापादितमेव ।
यद्वा आत्मनो रूपादिमत्त्वं स्वसिद्धान्त एव ।
रूपादिमतो ऽनित्यत्वमिति व्याप्त्यङ्गीकारे पूर्वोक्तानित्यत्वप्रसङ्गो व्याख्यातव्यः ।
८,३९१
क्षपणकोक्तमर्थान्तरं दूषयितुमनुवदतिदेहेति ।
देहमाने विकारः स्यादिति स्थास्नूननात्मनः । मनुव्_२,२.२४९च्द् ।
आह … । मनुव्_२,२.२५०अ ।
८,३९१फ़्.
न्यायसुधा-
देहमाने देहमानत्वे ।
प्रमिते (सती)ति शेषः ।
विकारः स्यात् स्थावराणां सात्मकत्वाङ्गीकृतावात्मन इति शेषः ।
इति स मा भूदित्येवमर्थम् ।
स्थास्नून् वृक्षादीन् ।
अनात्मनः आत्मानधिष्ठितान् ।
आह क्षपणकः ।
अत्र क्षपणकः स्थावराननात्मन आहेत्येतावत्येव वक्तव्ये यदात्मनो देहपरिमाणत्वस्य प्रमितत्वात् वृक्षादीनामपि सात्मकत्वे
तत्परिमाणत्वापत्तावङ्कुरावस्थायामणुमात्रस्य महावृक्षावस्थायां च महतो विकारित्वं विकारित्वादनित्यत्वं च प्रसज्येत ।
तन्मा प्रासाङ्क्षीदित्येतद(प्रसञ्जीत्येवमर्)थति हेतुकथनं, तत्पूर्वोक्तप्रमेयदृढीकरणार्थम् ।
यदि विकारित्वमात्रमनित्यत्वे प्रयोजकं जैनो नाभ्युपेयात् ।
तदा विकारित्वेनानित्यत्वप्रसङ्गाद्बिभ्यता स्थावराणामनात्मत्वं यत्तेनाभ्युपगतं तदनुपपन्नं स्यात् ।
नहि स्थावराणां सात्मकतायामात्मनो लक्षणापगमो भवति ।
किन्त्वन्यथाभावमात्रमिति ।
यद्वा दूषणसौकर्यार्थं हेत्वनुवादः ।
८,३९३
तदिदं विकारित्वापत्तिभयात्स्थावराणामनात्मत्वाङ्गीकरणमयुक्तम् ।
तथा सति हस्त्यादिशरीराणामप्यनात्मत्वस्याङ्गीकायर्त्वप्रसङ्गात् ।
तत्कथमित्यत आहहस्त्यादीति ।
… हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः । मनुव्_२,२.२५०अब् ।
न्यायसुधा-
पिपीलिकादिदेहस्थस्य तत्परिमाणस्य हस्त्यादिदेहेषु प्राप्तेष्वन्यथाभावः स्यात् हि तस्मात् इति ।
अथवा शरीरमात्रस्यानात्म(क)त्वमापाद्य तदुपपादनमिदं क्रियते ।
हस्त्यादिसर्वदेहेष्वपि आत्मनो ऽन्यथाभावः स्यात् ।
उत्पत्तिसमये
देहानां हस्तवित(स्त्यादिमा)स्तिमात्रपरिमाणत्वात् यौवने तूत्कृष्टपरिमाणत्वादिति ।
अनेनाविशेषादिति सूत्रखण्डस्यार्थ उक्तो भवति ।
८,३९४
ननु च विषमो ऽयमुपन्यासः ।
अल्पैव हि हस्त्यादिदेहेष्वात्मनो विकृतिः ।
वृक्षादौ तु महती ।
ततो वृक्षादीनामनात्मत्वे हस्त्यादीनामपि त(दुप)दापादनमनुचितमित्यत आहअणुदेहस्येति ।
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः । मनुव्_२,२.२५०च्फ़् ।
८,३९४फ़्.
न्यायसुधा-
अणुदेहस्य पिपीलिकादिदेहस्य जीवस्य गजत्वे प्राप्ते ।
यद्वोत्पत्तिसमये अणुदेहस्य हस्तवितस्त्यादिपरिमितदेहस्य, महागजत्वे प्राप्ते देहव्याप्तौ (या) यावती विकृतिः, स्थास्नुतनौ च नुः पुरुषस्य, या
विकृतिस्तस्यास्तस्याश्च परस्परं को विशेषः ।
न को ऽपि ।
अयमर्थः ।
आत्मनः किं महती विकृतिरनित्यत्वहेतुत्वादनभ्युपगन्तव्या ।
किंवा विकृतिमात्रम् ।
नाद्यः ।
महत्त्वस्यापरिनिष्ठितत्वात्परिनिष्ठाकल्पने केषुचिद्वृक्षादिषु तदभावात् ।
तदनुरोधेनापि परिनिष्ठाङ्गीकारे हस्त्यादावपि तद्भावात् ।
द्वितीये तूभयोर्विकारित्वेनाविशेषाद्वृक्षादिवत् हस्त्यादावपि अनात्मत्वमङ्गीकार्यम् ।
हस्त्यादिवद्वृक्षादीनामपि सात्मकत्वं न परित्याज्यमिति ।
एतेन अविशेषादित्यस्यार्थान्तरमुक्तं वेदितव्यम् ।
८,३९६
स्यादेतत् ।
न वयं विकारित्वापत्तिभयाद्वृक्षादीनामनात्मकत्वमाचक्ष्महे ।
किन्तु सात्मकत्वे प्रमाणाभावात् बाधकप्रमाणसद्भावाच्च ।
वृक्षादीनां देहत्वे तद्वयापकमिन्द्रियवत्त्वमपि स्यात् ।
नच तदस्ति ।
तत्कार्यस्य श्रवणादेरभावात् ।
सो ऽपि तज्ज्ञापकस्याभावात् ।
अदेहत्वे च न सात्मकत्वं शिलादिवदित्यत आहगीतादिति ।
गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् । मनुव्_२,२.२५१अद् ।
न्यायसुधा-
गीतात्तावद्वृक्षस्यापि पुष्पफलावाप्तिर्दृश्यते ।
तया श्रवणमनुमीयते ।
विमतः श्रवणवान् गीतसान्निध्ये सति लब्धविकासत्वाद्राजादिवदिति ।
न चायं स्वभाव एव ।
राजादेरपि तत्प्रसङ्गात् ।
श्रवणेन च श्रोत्रसद्भावो ऽनुमीयते ।
एवं शीतोष्णस्पर्शविशेषात्कार्श्यं दृश्यते ।
तेन सुकुमारशरीरवत्स्पर्शज्ञानमनुमीयते ।
तेन च त्वगिन्द्रियसत्त्वम् ।
तथोदकादिरसात्स्थितिरशुष्यतो ऽवस्थानं दृश्यते ।
तेन सम्मतदेहवद्रसज्ञानं ततो रसनेन्द्रियसद्भावो ऽनुमीयते ।
एवं कमनीयकान्तावलोकनेनोत्कोरकत्वं तिलवृक्षस्योपलभ्यते ।
तेन दर्शनकामौ ।
ततो नयनमनसी सिद्धयतः ।
धूपोपयागेन चातिशयदर्शनाद्घ्राणसिद्धिरिति प्रसिद्धशरीराविशेषात्स्थावराणामनात्मता न सिद्धयेत् ।
केचिन्मूले निषिक्तानामपामुपरि सर्पणादाध्यात्मिकवायुसम्बन्धमनुमाय सात्मकत्वमनुमियते ।
तदसत् ।
भस्मगुलिकादौ व्यभिचारात् ।
एतेनाविशेषादित्येतत्प्रकारान्तरेण व्याख्यातं भवति ।
८,३९७
‘वक्ति स्वप्रभम्’ इत्यादिकमुत्सूत्रितं कस्माद्वर्णितमिति मन्दाशङ्कां निवारयितुं सूत्रारूढं करोतिएवञ्चेति ।
एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित् । मनुव्_२,२.२५१एफ़् ।
८,३९८
न्यायसुधा-
इति त्रिसूतीमिति शेषः ।
तत एव तदर्थमेव ।
उक्तस्यार्थस्य प्रतिपादनार्थमेव ।
एवमन्यत्रापि सूत्रानुपन्यासेन व्याख्याने ऽपि नैवमाशङ्कनीयमिति ज्ञापयितुमिदमभिहितमिति ।
। इति श्रीमन्न्यायसुधायां नैकस्मिन्नधिकरणम् ।
__
८,३९९