। अथ श्रीमन्न्यायसुधायां अनुपलब्ध्यधिकरणम् ।
। ओं न भावो ऽनुपलब्धेः ओं ।
अत्र योगाचाराणां मतमपाक्रियते ।
तदर्थं तदुपन्यस्यतिज्ञानमेवेति ।
न भावो ऽनुपलब्धेः । ब्ब्स्_२,२.३० ।
ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते । मनुव्_२,२.२३३अब् ।
न्यायसुधा-
विज्ञानमेव तत्त्वं, न रूपादयश्चत्वारः स्कन्धाः, इति योगाचारा मन्यन्त इत्यथर्ः ।
विज्ञानाङ्गीकारे ऽपि विशेषमाहएकमिति ।
अद्वितीयमित्यर्थः ।
ननु ज्ञेयमपि रूपादिकं प्रत्यक्षादिसिद्धं तत्कथं विज्ञानमेव तत्त्वमित्यत आहअखिलेति ।
ज्ञानमेव ज्ञेयकारम् ।
न ज्ञेयं नाम ज्ञानाद्भिन्नमस्तीत्यर्थः ।
कुतो ज्ञेयस्य ज्ञानात्मकत्वमित्यत आहप्रभासत इति ।
ज्ञानं हि प्रकाशते ।
तेन प्रकाशमानत्वस्य ज्ञानत्वेन व्याप्तौ सिद्धायां नीलादेरपि प्रकाशमानस्य ज्ञानत्वं सिद्धमित्यर्थः ।
यद्वा प्रभासते नीलादिना सहैवेति शेषः ।
तेन’सहोपलम्भनियमादभेदो नीलतद्धियोः’ इत्युक्तं भवति ।
८,३४६
नन्वयुक्तो ज्ञानज्ञेययोरभेदः ।
भेदस्य प्रतिभासनात् ।
एकमिति चायुक्तम् ।
विज्ञानसन्ततीनां भेदस्य एकैकस्यापि सन्ततौ विज्ञानभेदस्य च विद्यमानत्वात् ।
किञ्च आस्तामन्यो भेदः ।
भेदाभावस्तावदभ्युपगम्यते ।
तेनैव विज्ञानस्य सद्वितीयत्वाप्राप्तेर्नैकत्वमुपपद्यत इत्यत आहतत्रेति ।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु । मनुव्_२,२.२३३च्फ़् ।
न्यायसुधा-
तत्र ज्ञानज्ञेययोः भेद इति सम्बन्धः ।
सन्ततिभेदः सन्ततीनां परस्परं भेदः ।
स्वभेदः एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः ।
कल्पिता एवेति सम्बन्धः ।
नानासंवृतिभूमिषु अनेकाज्ञानस्थानेष्वन्तःकरणेषु ।
यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी ।
तदुक्तम्’भेदस्तु भ्रन्तिबुद्धयैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वयः’ इति ।
८,३४७
एवमनूदितं मतमपाकरोतिइत्येतदपीति ।
इत्येतदपि नो युक्तं … । मनुव्_२,२.२३४अ ।
८,३४८
न्यायसुधा-
पूर्वमतसमुच्चयार्थो ऽपिशब्दः ।
अनेन’न भावे’ इति सूत्रांशो व्याख्यातः ।
जगत् भावो ज्ञानं न भवतीत्यर्थः ।
भवतेरनुभवार्थत्वात् ।
उपसर्गा हि धातुलीनास्यार्थस्य व्यञ्जका एव ।
८,३५०फ़्.
कुतो न युक्तमिति चेत् ।
किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मक(मित्यु)मुच्यते, किं वा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं
त्वसदिति ।
आद्यस्त्वतीताधिकरणरीत्या निरस्तः ।
न द्वितीयः ।
जगतो ज्ञानाभेदे प्रमाणाभावात् ।
न तावत्तत्र प्रत्यक्षमस्तीत्याहन हीति ।
… न हि ज्ञानतया जगत् ।
भासते … । मनुव्_२,२.२३४ब्च् ।
न्यायसुधा-
अनेनानुपलब्धेरित्येतद्वयाख्यातं भवति ।
मा भूत्प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः ।
प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आहअनुभवस्यैवेति ।
… अनुभवस्यैव विरुद्धत्वादपेशलम् । मनुव्_२,२.२३४च्द् ।
तन्मतं … । मनुव्_२,२.२३५अ ।
न्यायसुधा-
सम्बन्धमात्रे षष्ठी ।
एवशब्देनानुभवस्यानुमानतः प्राबल्यं सूचयति ।
तन्मतं तदभिमतमनुमानमिति शेषः ।
ज्ञानज्ञेययोरैक्यमिति (च) वा ।
ज्ञानज्ञेययोः स्फुटं भेदस्यैव साक्षिसिद्धत्वात्कालात्ययापदिष्टत्वमनुमानस्येत्यर्थः ।
अनेनानुपलब्धेरित्येतदुपलब्धिविरोधादिति च व्याख्यातम् ।
ननु भेदग्राहकं प्रत्यक्षं भ्रान्तमिति चेन्न ।
बाधकाभावात् ।
अनुमानं बाधकमिति तु न वाच्यम् ।
प्रत्यक्षस्यानुमानतो बलवत्त्वात् ।
अन्यथा कालातीततोच्छेदप्रसङ्गात् ।
प्रत्यक्षस्य भ्रा(न्ति)न्तत्वे ऽनुमानप्रामाण्यं तस्मिंश्च प्रत्यक्षस्य भ्रान्तत्वमित्यन्योन्याश्रयत्वाच्चेति ।
८,३५३
अनुमानविरोधं चानुमानस्य प्रतिपादयितुं सूत्रम् ओं क्षणिकत्वाच्च ओं ।
इति ।
तद्वयाचष्टेक्षणिकत्वाच्चेति ।
क्षणिकत्वाच् च । ब्ब्स्_२,२.३१ ।
… क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ।
ज्ञेयस्योक्तप्रकारेण … । मनुव्_२,२.२३५अच् ।
न्यायसुधा-
आशुतरविनाशित्वादित्यर्थः ।
नच ज्ञानस्य क्षणिकत्वं भ्रान्तम् ।
अबाधितप्र(तीति)त्ययसिद्धत्वात् ।
स्थिररूपतः आशुतरविनाशितारहित(त्वात्)त्वतः ।
अनुस्मृतेश्चेत्याद्युक्तप्रकारेण ।
अत्र क्षणिकत्वाक्षणिकत्वलक्षणविरुद्धधर्माध्यासं भेदहेतुं वदताऽन्तरबाह्यत्वादिरनेको विरुद्धधर्मसंसर्ग उपलक्षितो बोद्धव्यः ।
८,३५४
एवं प्रत्येकं निराकृतानि बौद्धमतानि साधारणदोषेण दूषयितुं सूत्रम्ओं सवर्थानुपपत्तेश्च ओं ।
इति ।
तद्वयाख्यातिसर्वेति ।
सर्वथानुपपत्तेश् च । ब्ब्स्_२,२.३२ ।
… सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमे ऽशिवाः । मनुव्_२,२.२३५द्फ़् ।
न्यायसुधा-
श्रुतिप्रामाण्यस्य समर्थितत्वादवैदिकं प्रत्यपि श्रुतिविरोधकथनं युक्तमेव ।
अभ्युपगतश्रुतिप्रामाण्यं (शिष्यं) प्रति वा ।
तेषां पक्षाणामशिवत्वमनेन ज्ञाप्यत इति ।
नन्वनुभूतिविरोधः प्रागुक्त एव पुनः कस्मादुच्यते ।
उपसंहारार्थमित्यदोषः ।
यद्वा तदीयप्रमेयान्तरे ऽपीति ।
। इति श्रीमन्न्यायसुधायां अनुपलब्ध्यधिकरणम् ।
__
८,३५५