१८ असदधिकरण

। अथ श्रीमन्न्यायसुधायां शून्यवादापाकरणम् ।
। ओं नासतो ऽदृष्टत्वात् ओं ।
माध्यमिकमतमत्रापाक्रियते ।
तस्योक्तार्थविरुद्धतां दर्शयितुं तत्तावदुपन्यस्यतिअपर इति ।
नासतो ऽदृष्टत्वात् । ब्ब्स्_२,२.२६ ।
अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम् । मनुव्_२,२.२०३ ।
अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च … । मनुव्_२,२.२०४अच् ।
न्यायसुधा-
अपरो माध्यमिकः, ‘इति ब्रूमः’ इति वक्ष्यमाणेन सम्बन्धः ।
शून्यमेव तत्त्वं न ततो ऽन्यदस्तीति शेषः ।
ननु पञ्चस्कन्धास्ततो ऽतिरिक्ताः सन्तीत्यत उक्तम्अखिलमिति ।
पञ्चस्कन्धात्मकमखिलं जगच्छून्यमेव, न ततो ऽन्यदित्यथर्ः ।
तच्छून्यं कुतः सिद्धमित्यत उक्तम्स्वयम्भातमिति ।
स्वयम्भातत्वं च न स्वकर्मकप्रकाशत्वम् ।
किन्त्वपराप्रकाश्य(श)त्वमेवेत्याशयेनोक्तम्मन इति ।
प्रमाणमात्रोपलक्षणमेतत् ।
कुतः प्रमाणाविषयत्वं शून्यस्य, निर्धर्मकत्वात् ।
सधर्मक एव प्रमाणप्रवृत्तिरित्युक्तम्निर्विशेषमिति ।
निखिलजगदात्मकं चेच्छून्यम्, तर्हि तद्धर्मा लेपजरामरणदुःखपरिच्छेदादयस्तस्यैव स्युरिति कथं निर्विशेषत्वादिकमित्यत आहनिर्लेपमिति ।
लेपो धर्माधर्मसम्बन्धः ।
दोषा दुःखादयः ।
वस्तुतश्चानन्तं वस्त्वन्तरप्रतियोगिकान्योन्याभावरहितम् ।
यद्वा शुद्धं सर्वगतं नित्यं सर्वात्मकं शून्यमभिलप्यते ।
तत्कथं निर्विशेष(मु)मित्युच्यत इत्यत एतदुक्तम् ।
लेपादिदोषाभावमात्रेण शुद्धमुच्यते ।
देशादिपरिच्छेदाभावमादाय सर्वगतत्वादिवादो, नतु कमपि धर्ममाश्रित्येति ।
८,२६०
उपायोपेयभावावस्थितपदार्थख्यापनं शास्त्रधर्मः ।
अतस्तत्त्वविषयां विप्रतिपत्तिं दर्शयित्वा विप्रतिपन्ने उपायोपेये दर्शयतितदस्मीति ।
… तदस्मीति नित्योपासापरोक्षितम् ।
रागादिदोषरहितं तद्भावं योगिनं नयेत् । मनुव्_२,२.२०४च्फ़् ।
न्यायसुधा-
तच्छून्यमहमस्मीति नित्योपासयापरोक्षीकृतम् ।
तच्छून्यं रागादिदोषरहितं योगिनं तद्भावं शून्यत्वलक्षणं मोक्षं नयेदिति सम्बन्धः ।
यथोक्तम् ।
‘प्रदीपस्येव निर्वाणं विमोक्षस्तस्य तायिनः(तापिनः) (भाविनः)’ इति ।
८,२६१
यदि शून्यमुक्तरूपं कथं तर्ह्यखिलं शून्य(मित्युक्त)मित्यत आहतस्यैवेति ।
तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् ।
सदिवाभाति … । मनुव्_२,२.२०५अच् ।
८,२६१फ़्.
न्यायसुधा-
शून्यस्यैव ।
संव्रियते ऽनयेति संवृतिरविद्या ।
संवृतेः सत्यत्वे ऽद्वैतहानिरारोपितत्वे तु संवृत्यन्तरापेक्षेत्यतो ऽनादीत्युक्तम् ।
नानाभेदात्मकं पञ्चस्कन्धात्मकम् ।
शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते ।
न पुनस्तदेव तदिति ।
तत्किमसदेवेदम् ।
तथात्वे वा कथं सदिति प्रतिभासः ।
सत्त्वारोपात् ।
८,२६३
पक्षान्तरमाहसत्यत्वमिति ।
… सत्यत्वं सांवृतं तस्य चेष्यते । मनुव्_२,२.२०५च्द् ।
न्यायसुधा-
तस्य आरोपितस्य अपि जगतः, सांवृतं सत्यत्वमिष्यते ऽतो न सत्प्रत्ययविरोधः ।
अस्ति चेत् जगतः सत्त्वं कथं तर्ह्यसत् ।
येन सदिवाभातीत्युक्तमित्यत आहपारमार्थिकेति ।
पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् । मनुव्_२,२.२०६अब् ।
न्यायसुधा-
सर्वथाबाध्यत्वं पारमाथिर्क(स)त्त्वं तदभावादसदिदं जगदुद्गीयत इति ।
पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आहसांवृतेनैवेति ।
सांवृतेनैव सत्येन व्यवहारो ऽखिलो भवेत् । मनुव्_२,२.२०६च्द् ।
न्यायसुधा-
अखिलो हानोपादानोपेक्षाभिज्ञाभिवादनार्थक्रियालक्षणः ।
व्यवहारस्याप्यसत्त्वात् ।
स्वप्न इवेति शेषः ।
पारमार्थिकसत्त्वमेव व्यवहारविरोधि ।
तस्य सर्वक्रियारहितत्वात् ।
नतु तदभाव इति भावेनोक्तम्सांवृतेनैव सत्त्वेनेति ।
८,२६५
सृष्टिप्रलयविष(यं)ये विगानं दर्शयतिशून्यादिति ।
शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ।
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते … । मनुव्_२,२.२०७अए ।
८,२६६
न्यायसुधा-
सृष्टिकाले प्रवर्तत जायते ।
शून्यस्य निष्क्रियत्वात्कथं विश्वकर्तृत्वमित्यत उक्तम्संवृतियोगेनेति ।
अन्ते प्रलयकाले ।
स्तिमितं निष्क्रियम् ।
अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते ।
स्वाप्नगजादिरिवेति शेषः ।
एवमुपन्यस्तमतनिरासाथर्त्वेनाधिकरणमवतारयतितमुद्दिश्येति ।
… तमुद्दिश्य जगाद जगतां गुरुः । मनुव्_२,२.२०७एफ़् ।
न्यायसुधा-
यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् ओं नासतो ऽदृष्टत्वात् ओं इति ।
तद्वयाचष्टेनासत इति ।
८,२६७
नासतो ऽदृष्टत्वात् । ब्ब्स्_२,२.२६ । [सेचोन्द् तिमे!]
नासतो जगतो भावो … । मनुव्_२,२.२०८अ ।
न्यायसुधा-
असतः सर्वविशेषनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्याज्जगतो भावो जन्म नोपपद्यते ।
कुत इत्यत आहन हीति ।
… नहि दृष्टासतो जनिः ।
सतः क्वचित् … । मनुव्_२,२.२०८ब्च् ।
न्यायसुधा-
सतो भवतः कार्यस्येति यावत् ।
क्वचित् ।
असतो जनिर्न दृष्टा यतः ।
अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य
दूषणाभिधानमिति ज्ञातव्यम् ।
८,२६८
स्यादेतत् ।
प्रमाणाभावः प्रमेयाभावं साधयति ।
न पुनः प्रमाणविशेषाभावः ।
मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः ।
तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः ।
‘अदृष्टत्वादिति’ प्रत्यक्षाभावकथनं तु कथम् ।
अनैकान्तिकत्वादित्यत आहप्रमाणं चेति ।
… प्रमाणं च दृष्टिरेवाखिलाद् वरम् । मनुव्_२,२.२०८च्द् ।
न्यायसुधा-
दृष्टिः प्रत्यक्षमेव अखिलात् अनुमानादगमाच्च वरं प्रमाणम् ।
अयमभिसन्धिः ।
नासतो जगतो भाव इति प्रतिज्ञाय कुत इत्याकाङ्क्षायां तत्र प्रमाणाभावादिति हेतुं मनसि निधाय कतं तत्र प्रमाणाभाव इति
जिज्ञासायामनुमानागमयोः प्रत्यक्षमूलत्वेन ततः प्रत्यक्षमेव वरं प्रमाणमिति, आदावदृष्टत्वादिति तदभावो ऽयं दर्शितो नतु प्रधानप्रतिज्ञायां
हेतुत्वेन, येनोक्तदोषः स्यादिति ।
तर्ह्यनुमानाद्यभावो (ऽपि) वक्तव्य इत्यत आहप्रमाणं चेति ।
अयमाशयः ।
वेदादेः शून्यवादिना प्रामाण्यं नाङ्गीक्रियते ।
तदीयागमस्य त्वस्माभिरित्यतो नास्त्यत्रागमः सम्प्रतिपन्न इति शिष्यैरेव शक्यते ज्ञातुम् ।
प्रत्यक्षाभावेनानुमानस्याप्यभावः सिद्ध एव ।
प्रत्यक्षस्यानुमानोपजीव्यत्वात् ।
प्रत्यक्षेण क्वचिदुपलब्धमेव ह्यनुमानेन (क्वचित्सा)साधनीयम् ।
अतो ऽनुमाना(द्य)भावस्यानुक्तावपि लाभाददृष्टत्वादित्येवोक्तं सूत्रकृतेति ।
अत एव प्रागुक्तङ्क्वचिदिति ।
८,२७०
मा भूच्छून्याज्जगदुत्पत्तौ प्रत्यक्षं प्रमाणम् ।
मा च भूदागमः ।
तथाप्यनुमानं भविष्यति ।
असतः सदुत्पत्तौ प्रत्यक्षाभावेन दृष्टानुमानानुपपत्तावपि सामान्यतो दृष्टस्योपपत्तेः ।
कारणस्य हि सत्त्वे निषिद्धे ऽसत एव जन्म सेत्स्यतीत्याशङ्कयानुमानानां तर्कप्रतिघातं वक्तुं सूत्रम्ओं उदासीनानामपि चैवं सिद्धिः ओं इति ।
तद्वयाचष्टेयद्येवमिति ।
उदासीनानाम् अपि चैवं सिद्धिः । ब्ब्स्_२,२.२७ ।
यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम् । मनुव्_२,२.२०९ ।
न्यायसुधा-
यद्यसत एव यत्किञ्चित्कार्यं जायेत तदा मधुरादिव सप्तमरसाञ्जनस्य पीनता स्यात् ।
गोः शृङ्गमिव मार्जारृङ्गमपि जनस्य घातकं भवेदविशेषादित्यनेन एवं सत्युदासीनानां हेयो(पादेयो)पेक्षणीयबुद्धयविषयाणां
सप्तमरसादीनामपि सकाशात् पीनत्वादिकार्यस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति ।
८,२७३
प्रकारान्तरेण व्याख्यातिकार्यार्थीति ।
कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन । मनुव्_२,२.२१०अब् ।
न्यायसुधा-
यद्यसत एव कार्यमुत्पद्यते तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत ।
असत एव पटाद्युत्पत्तेः ।
अतिप्रसङ्गान्तरमाहनेति ।
न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात् । मनुव्_२,२.२१०च्द् ।
न्यायसुधा-
न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः ।
किन्त्विष्याय पटाद्युत्पादाय न प्रवर्तेत ।
न प्रयतेत च ।
कुतः ।
शून्यादेवेष्यसम्भवात् ।
एतेन तन्त्वाद्युपादानादु(द्यु)दासीनानां चिकीर्षादिरहितानां च पुंसां पटादिसिद्धिः स्यादिति सूत्रं व्याख्यातं भवति ।
८,२७४
प्रकारान्तरेण व्याख्यातिदेशेति ।
देशकालादिनियमो निंह शून्यात् सतो भवेत् । मनुव्_२,२.२११अब् ।
न्यायसुधा-
शून्यात्सतः शून्यादेव भवतः कार्यस्य देशकालावस्थानियमो न भवेत् ।
तथाहि ।
यदि जगच्छून्यादेव भवेत् तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते न पाण्डुभूमौ ।
वसन्ते किंशुकाः पुष्पिता भवन्ति ।
न वर्षासु ।
त्रिहायिण्येव गौर्गर्भं धत्ते नान्यथा ।
सतुषा एव व्रीहयो ऽङ्कुरानुत्पादयन्ति नेतरथेत्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात् ।
शून्यस्य सर्वत्राविशिष्टत्वात् ।
अनेनोदासीनानां देशकालादिनियमानपेक्षाणामपि कार्याणां सिद्धिरुत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति ।
शून्यादेव कार्योत्पत्तौ कुर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः ।
८,२७५
नन्वादिसृष्टावेव शून्यात्कार्योत्पादं ब्रूमो न सर्वदा ।
अन्यदा तु कर्त्रादिकाणगणादेव ।
अतो नातिप्रसङ्ग इत्यत आहपुरुषेति ।
पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते । मनुव्_२,२.२११च्द् ।
किं नानुमीयते तद्वद् वस्तुत्वात् पुरुषाद् भवः ।
सर्वस्यापि … । मनुव्_२,२.२१२अच् ।
न्यायसुधा-
किञ्चिदित्यधुनातनं कार्यम् ।
वस्तुत्वात् कार्यत्वात् ।
सर्वस्यापीति ।
आदिकालीनस्यापि कार्यस्येत्यर्थः ।
अनने ना पुरुषः, सतः आदिकालीनस्य कार्यस्य कर्तानुमातव्यः ।
कुतः ।
दृष्टत्वात् अधुनातनानां कार्याणां पुरुषकर्तृत्वस्य निश्चितत्वादिति प्रथमसूत्रं प्रकारान्तरेण व्याख्यातं भवति ।
सूत्रभाष्ययोः पुरुषग्रहणं तु उपादानाद्युपलक्षणम् ।
८,२७६
नन्विदं सर्वमपि स्वव्याहतम् ।
तथाहि ।
यदुक्तं नासतो ऽदृष्टत्वादिति ।
तत्सतः कारणत्वे ऽपि समानम् ।
नहि सतः कारणत्वमपि क्वाप्यावयोः सम्मतम् ।
ननु च मधुरादिव गोः शृङ्गमिवेत्यादिना सतः सृष्टिसंहारकारित्वं निदर्शितम् ।
मैवम् ।
सर्वस्यापि जगतो ऽसत्त्वेन तदन्तःपातिनो मधुरादेरपि सत्त्वाभावात् ।
यश्चायमतिप्रसङ्गः’असतः कारणत्वे सप्तमरसादेरपि मधुरादि(वत्) कार्यकारित्वप्रसङ्गः’ इति ।
सो ऽपि सतः कारणत्वे तन्त्वादीनां मृदादिकार्यकारित्वप्रसङ्गेन तुल्यः ।
तथापि कारणत्वमात्रं सतो ऽस्तीति चेत् (न) ।
तत्सत्त्वासम्मतेरुक्तत्वात् ।
नहि सकलविक्रियातीतस्य कारणत्वं शक्यसम्भावनम् ।
मधुरादीनां सप्तमरसादीनां चासत्त्वाविशेषे ऽपि सद्बुद्धिभावाभावाभ्यां विशेषात् ।
यदपि कार्यार्थीत्यादि ।
तदीश्वरस्य सर्वकारणत्वे तत एव पटादिसम्भवात्तन्त्वाद्युपादानं न स्यात् ।
कुविन्दादेरिच्छादिकं च व्यर्थं स्यादिति समानम् ।
एतेन देशकालादीति प्रसङ्गो ऽपि समीकृतो वेदितव्यः ।
यच्च पुरुषेच्छानुसारेणेत्युक्तम् ।
(तदपि) तन्महदादिकार्यस्य कुलालादिजन्यतासाधनसमानयोगक्षेममिति ।
८,२७८
अत्र यद्विश्वस्यासत्त्वमुक्तं तत्तावन्निराकर्तुं सूत्रम् ओं नाभाव उपलब्धेः ओं ।
इति ।
तद्वयाचष्टेनचेति ।
नाभाव उपलब्धेः । ब्ब्स्_२,२.२८ ।
… नचाभावो विश्वं सदिति गम्यते । मनुव्_२,२.२१२च्द् ।
यतो … । मनुव्_२,२.२१३अ ।
न्यायसुधा-
भवतीति भावः ।
न भावो ऽभावः ।
असदिति यावत् ।
सदिति गम्यते यत इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम् ।
प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत्को दोष इत्यत आहअनुभवेति ।
… ऽनुभवरोधे तु वचनं वादिनः कुतः । मनुव्_२,२.२१३अब् ।
न्यायसुधा-
अनुभव(वि)रोधे तु क्रियमाण इति शेषः ।
(तत्र) यदि सत्त्वेनोपलभ्यमानमप्यसत्स्यात्तदोत्तरं वदत्यपि शून्यवादिति नोक्तं त्वयेत्यतस्ते ऽप्रतिभेति ब्रुवाणं परं प्रति शून्यवादिनः
स्ववचनसाध(नो)कोपायाभावात्पराजय एवापद्येत ।
यदि च प्राश्निकाद्यवगतं कथं मद्वचनं नास्तीति ब्रूयात् तदाङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमिति सत्त्वेन तदवगतं विश्वं कतमसत्स्यादिति ।
८,२७९
उक्तदोषपरिहारं शङ्कतेस्वप्नेति ।
स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते । मनुव्_२,२.२१३च्द् ।
यदि सत्त्वेन … । मनुव्_२,२.२१४अ ।
न्यायसुधा-
स्वप्नश्च भ्रान्तिश्च तयोरिव स्वप्नभ्रान्तिवत् ।
यद्यपि परस्य स्वप्नो ऽपि भ्रन्तिरेव ।
तथापि गोबलीवर्दन्यायेन लोकव्यवहारमपेक्ष्य पृथगुक्तिः ।
यथा स्वप्ने भ्रान्तौ चासदेव गजादिकं सपादिकं च सदित्युपलभ्यते तथासदेवेदं विश्वं स(त्यत्वे)त्त्वेनोपलभ्यते ।
एतदेव विश्वस्य शून्यकारणत्वं नाम ।
नापरम् ।
तत्र कथं सदित्युपलम्भेन विश्वस्य स(त्य)त्वसिद्धिः ।
नचैवमधिष्ठानस्य द्रष्टुः करणानां तद्दोषाणां च सत्त्वमङ्गीकार्यम् ।
अन्यथा भ्रान्तिवैचित्र्याद्यनुपपत्तिरिति वाच्यम् ।
असत्प्रकाशनशक्त्या संवृत्यैव सर्वस्योपपत्तौ तदङ्गीकारवैयथ्र्यात् ।
एवञ्च न वचनासिद्धिः ।
सांवृतसत्त्वस्य वचनस्य प्रत्यक्षेणैव सिद्धेः ।
तावतैव व्यवहारोपपत्तौ पारमार्थिकसत्त्वस्योपयोगाभावादिति ।
८,२८२
एतत्परिहाराय ओं वैधर्म्याच्च न स्वप्नादिवत् ओं ।
इति सूत्रम् ।
तद्वयाचष्टेकिञ्चेति ।
वैधर्म्याच् च न स्वप्नादिवत् । ब्ब्स्_२,२.२९ ।
… किञ्चात्र भ्रमो नैव निवर्तते । मनुव्_२,२.२१४अब् ।
न्यायसुधा-
भवेदेवं यदि प्रपञ्चे रज्जुसर्पादाविव सत्त्वप्रत्ययो भ्रमः स्यात् ।
नचैवम् ।
तथात्वे अत्र प्रपञ्चे सत्वभ्रमः किमिति नैव निवर्तते ।
ज्ञानानां भ्रमत्वावधारणं हि बाधबोधाधीनम् ।
सम्प्रतिपन्नस्थले तथा दर्शनात् ।
प्रत्ययत्वमात्राधीनत्वे प्रागपि बाधबोधोदयाद्रज्जुसर्पादिज्ञाने लौकिकपरीक्षकाणां भ्रमत्वावधारणं स्यात् ।
नचैवं क्वचिद्दृष्टम् ।
नच प्रपञ्चसत्तावगमस्य बाधकं पश्यामः ।
ततो न भ्रमत्वावधारणं युक्तमिति ।
स्वप्नस्य भ्रान्तित्वाभावो, भ्रमस्य चाधिष्ठानाद्यपेक्षानियमः, सांवृतसत्त्वस्य व्यवहारनिर्वाहकत्वस्याभावश्चान्यत्र समर्थितो ऽत्रानुसन्धेयः ।
८,२८४
स्यादेतत् ।
किं प्रपञ्चप्रत्ययस्येदानीं बाधो नास्तीत्युच्यते ।
उतोत्तरकाले ऽपि ।
आद्ये न तावता भवतो ऽपि विश्वसत्यत्वावधारणं, शुक्तिरजतादौ तदयोगात् ।
द्वितीयस्तु नास्ति ।
प्रपञ्चप्रत्ययो बाधिष्यते प्रत्ययत्वात्सम्प्रतिपन्नवत् ।
इत्यागामिबाधसिद्धेरित्यत आहअनादेरिति ।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ।
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात् । मनुव्_२,२.२१४च्फ़् ।
न्यायसुधा-
अनादितो ऽनुवृत्तस्येत्यर्थः ।
विश्वस्य तत्प्रत्ययस्य, निवृत्तिः बाधः ।
निवर्तेत बाध्येत ।
यदि प्रत्ययत्वात्प्रपञ्चप्रत्ययस्य बाधो ऽनुमीयते, तदावश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम् ।
अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः ।
बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः ।
तिष्ठतु तावत्परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव ।
न केवलमिदमापादनं किन्तु सम्भावितं चैतत् ।
यत्प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वात् ।
अनादितो ऽनुवृत्तस्यानेकसजातीयविजातीयसंवाद(व)तो याथार्थ्यसम्भवात् ।
कादाचित्कस्य संवादविधुर(रुद्ध)त्वेन भ्रमत्वसम्भवादिति ।
८,२८५
ननु च प्रपञ्चनिवृत्तिर्नाम शून्यमेव ।
तच्च परमार्थरूपं न कल्पितमदृष्टत्वात् ।
तत्कथं तत्प्रत्ययस्य बाध्यता स्यात् ।
किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात्तत्प्रत्यय एव बाध्यः ।
हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आहदृष्टस्येति ।
दृष्टस्य भ्रान्तिता चेत् स्याददृष्टे न भ्रमः कुतः । मनुव्_२,२.२१५अब् ।
न्यायसुधा-
भ्रान्तिताभ्रमशब्दाभ्यां कल्पितत्वमुच्यते ।
इदमुक्तं भवति ।
विपरतीमेतदुक्तं यत्सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम् ।
केनापि प्रमाणेनादृष्टस्य शून्यस्याकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम् ।
प्रामाणिकमकल्पितम् अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति ।
८,२८६
एतदेव दृष्टान्तेन दर्शयतिगवामिति ।
गवामशृङ्गिभावेन नहि स्याच्छशशृङ्गिता । मनुव्_२,२.२१५च्द् ।
न्यायसुधा-
अशृङ्गिभावेन सहितेति शेषः ।
कश्चिद्गवां शृङ्गितवमस्तीत्याहकश्चिच्छशस्येति ।
तत्र परोक्तरीत्या गवां शृङ्गिता कल्पिता, दृष्टत्वात् ।
शशशृङ्गिता त्वकल्पितादृष्टत्वादिति स्यात् ।
न ह्येवं लोके प्रतीतिः लोकानुसारेणैव च परमार्थो बोद्धव्यो नान्यथा ।
लोकन्यायस्यैव तद्बोधोपायत्वादिति ।
तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता ।
तद्बाधकशङ्का च परिहृता ।
ततः किं सिद्धमित्यतो यदुक्तं पूर्वपक्षिणा सतो ऽपि कारणत्वे प्रमाणाभाव इति तत्परिहृतमिति वदन्समीकरणान्तरमपि परिहरतिअस्माकं
त्विति ।
अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।
उक्तभङ्गयाऽगमानां च प्रामाण्याद् युज्यते ऽखिलम् । मनुव्_२,२.२१६ ।
८,२८६फ़्.
न्यायसुधा-
सत्कारणत्ववादिनाम् अखिलं परेणाक्षिप्तं युज्यते ।
कथम् ।
बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ययादिकारणानां सत्त्वसिद्धेः ।
तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः ।
नहि सत इवासतो ऽपि स्वभावभेदो ऽसत्त्वव्याघातात् ।
प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव ।
प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्ययुक्तैव ।
अन्यथा सद्बुद्धयावगतात्सप्तमरसादपि पीनता सती स्यात् ।
ईश्वरस्य सर्वकारणत्वे ऽपि तन्त्वाद्यपेक्षा पुरुषप्रयत्नाद्यपेक्षा देशकालादिनियमश्च युज्यत एव ।
तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य प्रसादात् सङ्कल्पात् ।
नचैवं निर्विशेषस्य शून्यस्य सङ्कल्पो युज्यते ।
नचैतदप्रामाणिकम् ।
आरम्भणाधिकरणोक्तरीत्यात्रागमानुमानादीनां प्रमारत्वात् ।
नच वेदाद्यागमप्रामाण्यमसिद्धम् ।
प्रथमसूत्रोक्तरीत्याऽगमप्रामाण्यस्य सिद्धत्वात् ।
अनुमाने ऽतिप्रसङ्गो ऽप्यागमप्रामाण्येनैवापास्त इति ।
ब्रह्मादीन्सृष्टयादावीश्वरस्तेषु कृपयापेक्षते परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादिति ज्ञापयितुं प्रसादादित्युक्तम् ।
८,२८९
प्राग्विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्कय तत्परिहारत्वेन वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं व्याख्यातम् ।
इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्वया)व्याख्यातुं मिथ्यात्वे ऽनुमानं तावच्छङ्कतेदृश्यत्वादिति ।
दृश्यत्वाद् विमन्त मिथ्या स्वप्नवच्चेद् … । मनुव्_२,२.२१७अब् ।
न्यायसुधा-
सर्वं मिथ्येत्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात् ।
अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् ।
विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदित्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्स)सत्यत्वमङ्गीक्रियत इत्यर्थः
८,२९१
दूषयितुं पृच्छतिइयं चेति ।
… इयं च मा । मनुव्_२,२.२१७ब् ।
न्यायसुधा-
तिष्ठतु तावद्विश्वम् ।
इयं च मा इदमेव दृश्यत्वानुमानम् ।
मिथ्या सत्यं (त्या वे) वेति शेषः ।
आद्यं दूषयतिमिथ्येति ।
मिथ्या चेत् साध्यसिद्धिर् न … । मनुव्_२,२.२१७च् ।
न्यायसुधा-
नहि शब्दे ऽविद्यमानेन चाक्षुषत्वेन शब्दानित्यत्वं सिद्धयतीति भावः ।
द्वितीये दृश्यत्वं दृश्यमदृश्यं वा ।
प्रथमं दूषयतिव्यभिचार इति ।
… व्यभिचारो न चेद् भवेत् । मनुव्_२,२.२१७द् ।
न्यायसुधा-
दृश्यत्वं मिथ्या न चेदथ च दृश्यम् ।
तदा (दृश्यत्वस्य) दृश्यत्व एव व्यभिचारो भवेत् ।
द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः ।
८,२९२
स्यादेतत् ।
मिथ्यैव दृश्यत्वमिति ब्रूमः ।
नचैवं साध्यासाधकत्वम् ।
वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात् ।
चाक्षुषत्वादीनां त्वारोपाभावात् ।
आरोपे ऽप्यसांव्यावहारिकत्वादसाधकत्वं, न तु मिथ्यात्वादित्यत आहसाधकत्वमिति ।
साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः । मनुव्_२,२.२१८अब् ।
न्यायसुधा-
यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं सम्मतं तत्र मिथ्यात्वे विप्रतिपत्तितो ऽसत्यस्य साधकत्वं साध्यमेव, न
पुनरस्माकं सिद्धमिति ।
८,२९३
विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिष्यामीति चेत् ।
किं सत्येन प्रमाणेनोत मिथ्याभूतेन ।
आद्ये तूक्तमेवोत्तरम् ।
द्वितीये दोषमाहतस्य चेति ।
तस्य च… । मनुव्_२,२.२१८च् ।
न्यायसुधा-
नहि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम् ।
अतस्तस्यापि साधकत्वं साध्यमेव ।
तस्यापि साधकत्वं साधयिष्यामीत्यत आहइतीति ।
… इत्यनवस्था स्यात् … । मनुव्_२,२.२१८च् ।
न्यायसुधा-
पूर्वोक्तप्रकारेणेत्यर्थः ।
नहि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति ।
नापि सद्वादी कदापि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात् ।
येनानवस्थाशान्तिर्भवेदिति ।
८,२९४
एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाहसत्त्वं चेति ।
… सत्त्वं चास्यानुभूतितः । मनुव्_२,२.२१८द् ।
न्यायसुधा-
अस्य प्रपञ्चस्य ।
अनुभूतितः सिद्धमतो बाधितविषयं चानुमानमिति शेषः ।
न केवलं दृश्यत्वानुमानस्यानेन दोषेणाभासत्त्वं, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वे ऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते
तस्यापीत्याहअनुभूतीति ।
अनुभूतिविरोधेन मिथ्यात्वे मा न काचन । मनुव्_२,२.२१९अब् ।
न्यायसुधा-
उपलक्षणमेतत् ।
पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम् ।
तथाहि ।
जडत्वादिकं सत्यं मिथ्या वा ।
आद्ये जडत्वादिमन्न वा ।
प्रथमे व्यभिचारः ।
द्वितीये ऽपसिद्धान्तः ।
मिथ्या चेत्साध्यसिद्धिर्नेति ।
८,२९५
भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत् ।
न चासावस्ति, मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम् ।
नच तदभावः प्रत्यक्षेण वेद्यः ।
तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद्वर्तमानकालीनाबाधाभावविषयत्वे ऽपि कालान्तर(गत)भाविबाधाभावविषयत्वायोगादित्यत
आहअतीतेति ।
८,२९६
अतीतानागतौ कालावपि नः साक्षिगोचरौ । मनुव्_२,२.२१९च्द् ।
न्यायसुधा-
अत्रातीतग्रहणं प्रासङ्गिकम् ।
न केवलं वर्तमान इत्यपेरर्थः ।
नः सर्वेषाम् ।
अन्यथा तद्विशिष्टव्यवहारानुपप(त्ते)त्तिरिति भावः ।
८,२९७
किमतो यद्येवमवर्तमानो ऽपि कालः साक्षिगोचर इत्यत आहतदिति ।
तत्सम्बन्धितया सत्त्वमपि … । मनुव्_२,२.२१९एफ़् ।
न्यायसुधा-
कालान्तरसम्बन्धितया सत्त्वमबाध्यत्वम् ।
न केवलं वर्तमानकालीनबाधाभावो ऽनुभववेद्यः ।
किन्तु सर्वकालगतो ऽपीत्यर्थः ।
तत्कथमित्यत उक्तम्दृष्टस्येति ।
… दृष्टस्य साक्षिगम् । मनुव्_२,२.२१९फ़् ।
न्यायसुधा-
प्रत्यक्षादिप्रतीतिविषयस्य ।
प्रत्यक्षादिप्रतीतीनां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः ।
८,२९८
नहि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम् ।
यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात्तद्गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तदा शुक्तिरजतादिप्रतीतेरपि स एव
ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात् ।
तथाच तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्धयेदित्यतो दृष्टशब्दं व्याख्यातिदृढेति ।
दृढदृष्टं तु यद् दृष्टं दृष्टाभासस्ततो ऽपरम् । मनुव्_२,२.२२०अब् ।
न्यायसुधा-
यन्निर्देषत्वेनावधृतया प्रतीत्या विषयीकृतं, तदेव दृष्टमित्युक्तम् ।
कुतः ।
इतरस्य सम्मुग्ध(स्य)दृष्टस्य दृष्टाभासत्वात् ।
मुख्यामुख्ययोश्च मुख्यग्रहणस्य न्याय्यत्वात् ।
कृतव्युत्पादनं चैतत्प्राक् ।
८,२९९
सत्प्रतिपक्षाणि च दृश्यत्वाद्यनुमानानीत्याशयवानाहभ्रान्तेरिति ।
भ्रान्तेः संवृतिसत्यस्य विशेषो ऽव्यभिचारवान् ।
तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि । मनुव्_२,२.२२०द्फ़् ।
८,२९९फ़्.
न्यायसुधा-
भ्रान्तिविषयत्वेन सम्प्रतिपन्नाच्छुक्तिरजतादिकादित्यर्थः ।
संवृतिसत्यस्य तथात्वेनाभ्युपगतस्य विश्वस्य विशेषो वैलक्षण्यम् अव्यभिचारवान् कदाचित्क्वचिदपि सम्प्रतिपन्नमिथ्याभावे अवर्तमानः ।
तेन शून्यवादिनापि, सम्यगिति असन्देहेन ।
स एव विशेषो, नः अस्माकं मते विश्वस्य सत्यत्वं साधयिष्यतीति शेषः ।
ततः सत्प्रतिपक्षाणि दृश्यत्वाद्यनुमानानीति ।
अत्र तेनापि सम्यगङ्गीकृत इत्यनेन पक्षधर्मता समर्थिता ।
अव्यभिचारवानित्यनेन तु व्याप्तिः ।
अयमत्र प्रयोगः ।
विश्वं कालत्राबाध्यम्, प्रातीतिकविलक्षणत्वात् ।
व्यतिरेकेण शुक्तिरजत(तादि)वदिति ।
८,३००
ननु च शुक्तिरजतादीनां प्राक् शून्यतत्त्वज्ञानाच्छुक्त्यादिज्ञानेनैव निवृत्तिः भवति ।
प्रपञ्चस्य तु शून्यज्ञानेन कदाचिन्निवृत्तिर्भविष्यतीत्येवं मया प्रातीतिकसांवृतयोः वैलक्षण्यमङ्गीकृतम् ।
नचेदं विश्वसत्यत्वे भवता हेतूकर्तुं शक्यम्, विरोधादित्यत आहविज्ञानादिति ।
विज्ञानाद् व्यभिचारो ऽस्य कदाचित् स्यादिति प्रमा ।
नैव दृष्टा … । मनुव्_२,२.२२१अच् ।
न्यायसुधा-
व्यभिचारो निवृत्तिः ।
नायं विशेषो ऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात् ।
न ह्यप्रामाणिकेन शृङ्गेणाश्वो ऽन्यतो वि(शि)शेष्यमाणो दृश्यत इति ।
नन्विदं कदाचिद्बाधिष्यते दृश्यत्वाच्छुक्तिरजतादिवदित्यनुमानस्य सत्त्वात्कथमत्र प्रमाणाभाव इत्यतः (तस्यो)स्वोक्तं दोषं स्मारयतिप्रमेति ।
… प्रमा सा च न भवेत् स्वविरोधतः । मनुव्_२,२.२२१च्द् ।
न्यायसुधा-
या च शङ्कयते सेत्यर्थः ।
स्वविरोधत इति ।
स्वविषयस्य स्वस्य च बाध्यत्वापादकत्वादित्यर्थः ।
अन्यथा व्यभिचारापत्तेः ।
यस्य विषयो ऽसन्(यत्)स्वयं च बाध्यं, कथं तत्प्रमाणं भवेत् ।
अतो ऽस्य विशेषस्याप्रामाणिकत्वेनाङ्गीकर्तुमशक्यत्वे यो ऽन्यो विशेषः प्रामाणिकः प्रमाणाविरोधी चाङ्गीकर्तव्यः, सो ऽस्माकं सत्यत्वे
हेतुर्भविष्यतीति ।
स च प्रमाणगम्यत्वमर्थक्रियाकारित्वं चेति हृदयम् ।
८,३०१
ननु तर्ह्येवमेव कुतो नोच्यते ।
तथोच्यमाने प्रमाणानां तत्त्वावेदकत्वमथर्क्रियायाः सत्त्वमसति तदभाव इत्यादि बहु संविधेयं स्यात् ।
लाघवार्थं त्वेवमुक्तं, तदपि यथावसरमुपपादितमेव ।
८,३०३
यद्वा प्रपञ्चस्याबाध्यत्वे परिशेषप्रमाणमनेनोक्तम् ।
तथाहि ।
जगतो बाध्यत्वमबाध्यत्वं च प्रसक्तम् ।
तृतीयप्रकाराभावात् ।
बाध्यत्वं च प्रसिद्धपदार्थतत्त्वज्ञानेन, अन्येन वा ।
तत्राद्यं वादिप्रतिवादिभ्यामनभ्युपगमात् ।
द्वितीयं तु प्रमाणाभावनिरस्तम् ।
परिशेषादबाध्यत्वमेव सिद्धयतीति ।
अथवा व्यापकानुपलब्धिलिङ्गकमनुमानम्(अनेन)एतेन श्लोकद्वयेनोक्तम् ।
बाध्यत्वं हि प्रसिद्धपदार्थतदितरतत्त्वज्ञाननिवत्यर्त्वेन व्याप्तम् ।
तच्च व्यापकमनभ्युपगमप्रमाणाभावाभ्यां जगतो व्यावर्तमानं स्वव्याप्यं बाध्यत्वमिति व्यावर्तयति ।
जोस्हि४
८,३०४
एवं प्रपञ्चमिथ्यात्वानुमानानि निराकृत्येदानीं तदनुग्राहकत्वेन, सत्यत्वप्रत्यक्षस्य प्रतिकूलत्वेन च परोत्प्रेक्षितं तर्कमपि निराकर्तुमाशङ्कतेभेद
इति ।
भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ।
अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन् … । मनुव्_२,२.२२२अद् ।
न्यायसुधा-
आदिपदेन विशेषणप्रतियागिनोर्ग्रहणम् ।
यदि गृह्यत इति शेषः ।
तर्हीति च ।
अयमर्थः ।
यदि प्रपञ्चो सांवृतो न स्यात्तदा प्रत्यक्षो ऽप्यसौ न स्यात् ।
तथाहि ।
अनेकमेदभिन्नो हि प्रपञ्च इष्यते ।
भेदस्य चाप्रत्यक्षतायां सो ऽप्यप्रत्यक्ष एव ।
विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः ।
नच भेदप्रतीतिरुपपद्यते ।
भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोविर्शेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः ।
भेद इत्येव प्रतीतेरभावात् ।
यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्यव्यम् ।
तत्रोभयत्राप्यन्योन्याश्रयत्वं, विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः ।
नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते ।
विशेष्यज्ञानं च भेदापेक्षम् ।
नहि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति ।
एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् ।
तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानम् तन्निरूप्यत्वात् ।
भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् ।
नहि भेदाग्रहे धर्मिप्रतियोगिभावो ऽवगन्तुं शक्यते ।
तथात्वे घटाद्घटस्य भेद(इत्यपि) प्रतीतिः स्यात् ।
नच परस्पराश्रयाणि कार्याणि सम्भवन्ति ।
८,३०५
अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिभय एवायमङ्गीकरणीय इति ।
निराकरोतिनेति ।
… न तत् । मनुव्_२,२.२२२ ।
८,३१०
न्यायसुधा-
यदुक्तं भेदस्य दुर्ग्राह्यत्वं तन्नास्तीत्यर्थः ।
तत्कथमित्यत आहस्वरूपमिति ।
स्वरूपं वस्तुनो भेदो … । मनुव्_२,२.२२३अ ।
न्यायसुधा-
यत् यस्माद्भेदो वस्तुनः स्वरूपं तस्मात् तस्य वस्तुनो ग्र(हे)हणे सति पश्चाद्भेदग्रह इति नास्ति ।
किन्तु वस्तुग्रह एव भेदग्रहः ।
तथाच क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति ।
… यन्न तस्य ग्रहे ग्रहः । मनुव्_२,२.२२३ब् ।
न्यायसुधा-
यस्माद्वस्तुनो ग्रहे तस्य भेदस्याग्रहो नास्ति तस्माद्भेदो वस्तुनः स्वरूपमिति सम्बन्धः ।
अयमत्र प्रयोगः ।
विमतो भेदो घटस्वरूपं भवितुमर्हति घटग्रहे ऽगृह्यमाणत्वरहितत्वात् घटस्वरूपवदेवेति ।
यदि अत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात् ।
तदर्थं’तस्य ग्रहे ऽग्रहो न’ इत्युक्तम् ।
नहि घटग्रहे गृह्यमाणो ऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमो ऽस्ति ।
यज्ज्ञाने यत्सर्वथोपलभ्यते तत्तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डो ऽप्यवश्यं स्फुरत्येव ।
नचासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या ।
८,३११
किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याकारभेद इति पी न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति ।
किन्नाम विशेषणज्ञानं विशिष्टज्ञानकारणम् ।
आशुभावाच्च न क्रमो लक्ष्यते ।
यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम् ।
नहि दण्डिप्रतीतौ दण्ड(स्य)स्फुरणे ऽपि, दण्डप्रतीतौ सर्वथा दण्डि(नः)स्फुरणमस्तीति ।
८,३१४
भवेदेतद्यदि भेदो वस्तुग्रह एव गृह्येत ।
नचैवम् ।
किन्नाम वस्तुप्रतीत्युत्तरकालमेव ।
निर्विकल्पके (हि) च प्रत्यये वस्तुमात्रमवभासते ।
भेदस्त वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते ।
यथा सादृश्यमभावश्चेत्यत आहअन्यथेति ।
अन्यथास्यामुना भेद इति वक्तुं न युज्यते । मनुव्_२,२.२२३च्द् ।
न्यायसुधा-
यदि भेदो वस्तुप्रतीतौ न प्रतीयेत तदास्यामुना भेद इत्युत्तरकालं सविकल्पक(वि)ज्ञानमपि न जायेत ।
तथाच तथा व्यवहारो ऽपि न स्यात् ।
अस्यामुनेति (हि) धर्मिप्रतियोगितया वस्तुद्वयमुद्दिश्य भेदो ज्ञायते ।
न चागृहीतभेदं तथोद्देष्युं शक्यते ।
एकस्मिन्नपि तत्प्रसङ्गात् ।
भेदसत्तामात्रेण तदुपपत्तिरिति चेत्(न) ।
दूरस्थवनस्पत्योरभेदप्रत्ययाभावप्रसङ्गात् ।
दोषात्तत्र तथेति चेन्न ।
भेदस्य स्वरूपसत्तयैवोपयोगे दोषस्याकिञ्चित्करत्वादिति ।
८,३१६
न केवलं वस्तुदर्शने भेदस्फुरणमनभ्युपगच्छतो ऽस्यामुना भेद इति पश्चात्कालीनं सविकल्पकज्ञानं तथा व्यवहारश्च नोपपद्यते ।
किं तर्हीत्यत आहअगृहीत इति ।
अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ।
स्यात् … । मनुव्_२,२.२२४अच् ।
न्यायसुधा-
यदि घटदर्शने ऽपि तद्भेदो न दृष्टस्तद(दा)नन्तरं स्मर्यमाणरो गृह्यमाणो वा प्रतियोगी पटो ऽपि विना भेदेनोपलब्धव्यः ।
भेदादर्शने चावश्यमभेदज्ञानं स्यात् ।
तथा चोत्तरकालं स्वस्मात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति ।
अस्वेवमित्यत आहप्रतीतीति ।
… प्रतीतिविरोधाच्च … । मनुव्_२,२.२२४च् ।
न्यायसुधा-
चशब्दस्योत्तरत्र सम्बन्धः ।
पटाद्घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते ।
न जातु स्वस्मात्स्वयं भिन्न इति ।
अतः प्रतीतिविरोधादेवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः ।
किञ्च यदि स्वस्वात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात् ।
तदा कदाचित्तथाविधो वाग्व्यवहारो ऽपि स्यात् ।
नचैवमित्याहनहीति ।
… नहि कश्चित् तथा वदेत् । मनुव्_२,२.२२४द् ।
८,३१७
न्यायसुधा-
एतेन किमिकप्रतीतिविरोधः उत सर्वप्रतीतिविरोधः ।
नाद्यो व्यभिचारात् ।
न द्वितीयः ।
असिद्धेरित्यपि परास्तम् ।
कदापि कस्यचिदपि तथा व्यवहाराभावेन विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति ।
अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात्तत्स्वरूपत्वमेवेति ।
८,३१८
नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम् ।
तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनो ऽपि ।
न तावद्द्वितीयः ।
एकस्यैव भेदस्योभयस्वरूपत्वे ऽद्वैतप्रसङ्गात् ।
आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वम् ।
तथापि प्रतियोगिज्ञानापेक्षयान्योन्याश्रयत्वं कथं परिहरणीयम् ।
मैवम् ।
भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात् ।
प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात् ।
अस्तु तर्हि विशेषज्ञाने ऽन्योन्याश्रयत्वम् ।
तद्धि घटात्पटो भिन्न इत्युत्पद्यते ।
तत्र धमिर्णो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा ।
नतावद्द्वितीयः ।
स्वतो ऽपि भेदप्रतीत्यापत्तेः ।
आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः ।
तथाच पटाद्घटस्य भेदप्रतीतौ घटात्पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति ।
मैवम् ।
वस्तुतो ऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धके ऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ
बाधकाभावादिति ।
८,३२१
एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाहधर्मित्वेति ।
धर्मित्वप्रतियोगित्वतद्भेदा युगपद् यदि ।
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते । मनुव्_२,२.२२५ ।
न्यायसुधा-
उपलक्षणं चैतत् ।
धर्मिप्रतियोगिनौ चे(त्यपि)ति द्रष्टव्यम् ।
तद्भावो विशेषणत्वं विशेष्यत्वं च ।
अत्र विशेषणविशेष्ययोरन्यतरत्वाद्भेदस्य पृथग्ग्रहणाभावः ।
अयमर्थः ।
किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते उत सविकल्पकप्रतीतौ ।
नाद्यः ।
तत्र धर्मिप्रतियोगिस्वरूपयोस्तद्भावयोस्तद्भेदस्य भेदयोर्वा युगप(दुभय)दवभासनात् ।
तथा विशेषण(विशेष्य)भूत(भाव)योर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत्प्रतीतेः ।
युगपदेव
सर्वस्येन्द्रियसन्निकृष्टत्वात् ।
दर्शनयोग्यत्वाच्च ।
ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययो(श्च)ः तद्भावो ऽपरो भिन्नभेदवादिभिर्नेष्यते ।
तत्कथमेतत् ।
मैवम् ।
भूषणकारादिभिस्तस्याङ्गीकृतत्वात् ।
तेषामेव चायं परिहार इति ।
ननु यत्र प्रतियोगी पश्चात्प्रतीयते तत्र युगपदवभासो नास्तीति तद्दृष्टान्तेन सर्वत्राप्येवमनुमीयत इति चेन्न ।
असन्निहितवत्सन्निहितस्याप्यज्ञानसाधने प्रतितिविरोधात् ।
यत्र(च)प्रतियोगी न सन्निहितस्तत्रापि धर्मिधर्मित्वभेदानां तावद्युगपत्प्रतीतिर्नानुपपन्ना ।
तदिदमुक्तङ्को विरोध इति ।
को विरोधः … । मनुव्_२,२.२२६अ ।
न्यायसुधा-
द्वितीयं निराकरोतिस्वरूपेणेति ।
… स्वरूपेण गृहीतो भेद एव तु ।
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते । मनुव्_२,२.२२६ ।
८,३२१फ़्.
न्यायसुधा-
अस्यामुष्मादित्युपलक्षणम् ।
अनयोर्भेदो भिन्नाविमावित्यपि ग्राह्यम् ।
निविर्कल्पकप्रतीतार्थानामन्योन्यवैशिष्ययमात्रं सविकल्पकज्ञाने ऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति ।
तथा(चा)हुर्भिन्नभेदवादिनः ।
एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासने सति तत्रैकं भेदिनमव(धिं कृत्वै)धीकृत्यैतस्मादयं भिन्न इति
सविकल्पकबोधोदया(त्कथम)न्न व्यतिरिक्तभेदपक्षे ऽन्योन्याश्रयत्वमिति ।
८,३२४
ननु किमर्थमयं परमतोपन्यासः ।
भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकम(प्येवमे)प्ययमेव परिहार इति ज्ञापनार्थम् ।
तर्हीदमेव वाक्यं तथा व्याख्यायताम् ।
नै(चै)वं (शं)शक्यम् ।
तद्भेदश्चेति पृथग्भेदग्रहणविरोधात् ।
विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकाराद्भिद्यत इति वैशेषिकपरीक्षायामुक्तम् ।
अतो नात्र व्युत्पादनमपि कृतमिति ।
८,३२७
एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीतेकिञ्चेति ।
किञ्च … । मनुव्_२,२.२२७अ ।
न्यायसुधा-
अन्यच्चेत्यर्थः ।
कथमिति चेत् ।
किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादि(त्या)त्येवापाद्यते, किंवा यदि भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादिति ।
आद्ये दोषमाहभेद इति ।
… भेदः कथं ग्राह्य इति यः परिपृच्छति ।
धर्म्यादिभेदग्रहणात् तेनोक्तो ऽन्योन्यसंश्रयः । मनुव्_२,२.२२७ ।
न्यायसुधा-
कथमित्याक्षेपे ।
परिपृच्छतीति मृदूक्तिः ।
आक्षिपतीति यावत् ।
धर्म्यादिभेदग्रहणात् धर्म्यादिग्रहणसापेक्षभेदग्रहणात् ।
कथमिदं लभ्यते ।
धर्म्यादिपदस्य तद्ग्रहणोपलक्षणत्वात् ।
आदिपदस्य च कारणार्थस्याऽवृत्तेः ।
तदेतत्परस्परं व्याहतमिति शेषः ।
तथाहि ।
भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते ।
अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत तदान्योन्याश्रयत्वं स्यात् ।
तथाच न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धर्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत् ।
तथाच’भेदो दुर्ग्रहःऽ‘प्रतीयते च’ इत्येतयोः कथं न पूर्वोत्तरविरोध इति ।
८,३२९
द्वितीये पृच्छामः ।
किं परेण क्वापि भेदो न गृहीतः किंवा क्वचिद्गृहीत इति ।
आद्यं दूषयतिअन्यत्वेति ।
अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः । मनुव्_२,२.२२८अब् ।
न्यायसुधा-
यद्यन्यत्वं क्वापि न गृहीतं तदान्योन्याश्रयत्वापादनमेव न शक्यम् ।
निराश्रयत्वात् ।
तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापद्यते ।
अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहे ऽनुत्थानमेवापादनस्य ।
द्वितीयं दूषयतिअन्यत्वमिति ।
अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः । मनुव्_२,२.२२८च्द् ।
न्यायसुधा-
सिद्धं प्रतीतम् ।
अन्योन्याश्रयत्वे हि भेदप्रतीतिरेव न स्यात् ।
नह्यन्योन्याश्रयाणि कार्याणि क्वापि दृष्टानि प्रकल्प्यन्ते ।
तथाचास्ति चेद्भेदप्रतीतिः नूनमाभासभूतमेवेदमन्योन्याश्रयत्वमप्रतिबन्धकत्वादिति ।
अस्ति भेदप्रतीतिः सा न प्रमेति तु तात्पर्यमिति चेन्न किमन्योन्याश्रयत्वमन्योन्योत्पादं प्रतिबधनातीति मतं, किंवा तद्धर्मम् ।
आद्ये कथमप्रमापि भेदप्रतीतिरुत्पद्यते ।
न द्वितीयः ।
अन्ययोरन्योन्याश्रयत्वमन्यत्तु लुप्यत इत्यस्यान्यायत्वात् ।
सांवृती प्र(तीति)तिपत्तिरिति चेत् ।
तत्किं पट; सांवृत इति येभ्यस्तन्तुभ्यो जातस्तेषामेव कारणं भ(व)विष्यतीति ।
८,३३१
नन्वनेनास्य तर्कस्य किं दूषणमुक्तं स्यादित्यत आहएतादृशस्येति ।
एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ।
मायी माध्यमिकश्चैव … । मनुव्_२,२.२२९अच् ।
न्यायसुधा-
न केवलमेतज्जात्युत्तरं किन्तु यदन्यदपि तदीयं वचनम् ।
तथाहि ।
भेदस्यापि भेदान्तरभेद्यत्वे ऽनवस्थेति ।
तथा भिन्ने भेदनिवेशश्चेत्तेनैव भेदेन भिन्नतायामात्माश्रयत्वं, भेदान्तराङ्गीकारे त्वनवस्था ।
अभिन्ने भेदनिवेशश्चेत्स्वतो ऽपि पटस्य भेदापत्तिरिति ।
तथा न तावत्प्रत्यक्षेण भेद एव दृश्यते ।
भेद इत्येव प्रतीतेरनुभवात् ।
वस्तुनो ऽपि प्रतीतौ न तावद्भेदपूर्वं वस्तुप्रतीतिः ।
उक्तदोषात् ।
नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः ।
अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः ।
नच युगपत् ।
भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात् ।
नच प्रकारान्तरमस्तीति ।
तथा सत्तावत्कारणं वा कारणे सत्ता वा ।
आद्ये कारणस्यासत्त्वम् ।
द्वितीये ऽसत एव कारणत्वमित्यादि ।
तत्सर्वं जात्युत्तरमिति ज्ञापयितुमेतादृशस्येत्युक्तम् ।
सर्वस्यापि स्वव्याघातकत्वात् ।
भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोः (क्तायाः) (क्ततायाः) अयुक्तायाः) एवाङ्गीकरणाच्च ।
कतमेयं जातिरिति चेन्न ।
सामान्यलक्षणसद्भावे ऽस्य निर्बन्धस्य व्यर्थत्वात् ।
अहेतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च ।
मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः ।
शून्यवादिनिरासे(नैव)न मायावादो ऽपि निरस्तो वेदितव्य इत्यतिदेशज्ञापनाय मायी चेत्युक्तम् ।
एवशब्दस्योत्तरत्रत सम्बन्धः ।
८,३३९
नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आहतदिति ।
… तदुपेक्ष्यौ बुभूषुभिः । मनुव्_२,२.२२९द् ।
न्यायसुधा-
तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव ।
नतु परिहाराय प्रतिवादीकर्तव्यौ ।
एतदुक्तं भवति ।
सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति न निर्दलम् ।
अन्यथातिप्रसङ्गात् ।
एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता ।
अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति ।
स्यादेतत् ।
शून्यावादी शून्यं जगत्कारणं मन्यते ।
मायावादी तु ब्रह्म ।
तत्कथं नासतो ऽदृष्टत्वादित्यादिशून्यवादनिरासाय मायावादे ऽतिदेशः ।
मतवैषम्ये ऽतिदेशासम्भवादित्यत आहयदीति ।
यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः । मनुव्_२,२.२३०अब् ।
न्यायसुधा-
तस्मादतिदेशो युक्त इति शेषः ।
तत्कथमित्यत आहनहीति ।
नहि लक्षणभेदो ऽस्ति निर्विशेषत्वतस्तयोः । मनुव्_२,२.२३०च्द् ।
८,३४०
न्यायसुधा-
लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः ।
ना(चा)सौ शून्यब्रह्मणोः सम्भवति ।
द्वयोरपि निर्विशेषत्वाङ्गीकारात् ।
ननु निर्विशेषत्वेन बाह्यलक्षणभेदाभावे ऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाङ्गीकृतम् ।
न शून्यस्य शून्यवादिना ।
तेन ब्रह्मशून्ययोर्भेदो भविष्यतीत्यत आहअनृतादीति ।
अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् । मनुव्_२,२.२३१अब् ।
न्यायसुधा-
ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरोधित्वमेवाभिमतं मायावादिनो
ऽन्यस्यासम्भवात्,’अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्’ इति तद् व्याख्यानाच्च ।
अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते ।
‘जाड्यसंवृतिदुःखान्तपूवर्देषविरोधि यत्’ इति वचनात् ।
ततो नैतदपि भेदकमिति युक्त एवातिदेशः ।
८,३४१
स्यादेतत् ।
प्रपञ्चमिथ्यात्वानुमाननिरासार्थं वैधर्म्याच्च न स्वप्नादिवदिति सूत्रम् ।
तत्र यत्’भ्रान्तेः संवृविसत्यस्य’ इति दूषणमुक्तम् ।
तदेव वैधर्म्यादिति सूत्रे प्रतीयते ।
यत्पुनरुक्तं दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात्तस्य मिथ्यात्वं वाच्यम् ।
तथाचासाधकत्वमिति तत्सूत्रे न दृश्यते ।
तत्कथमेतद्वयाख्यानमित्यत आहस्ववाक्येति ।
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः । मनुव्_२,२.२३१च्द् ।
तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ।
अप्रयत्नान्निराचक्रे … । मनुव्_२,२.२३२अच् ।
न्यायसुधा-
अत्र वाक्यमिति हेतुवाक्यार्थो दृश्यत्वं लक्ष्यते ।
तत्पक्ष इति विषयसप्तमी ।
तन्मिथ्यात्वसाधनविषय इति यावत् ।
इति शब्दो हेतौ ।
अप्रयत्नात् प्रयत्नमविधाय,’वैधर्म्याच्च न स्वप्नादिवत्’ इत्यनेन निराचक्र इति सम्बन्धः ।
एतदुक्तं भवति ।
दृश्यत्वस्य मिथ्यात्वं शून्यवादिनैवाभ्युपगतम् ।
मिथ्याभूतस्या(चा)साधकत्वं सुप्रसिद्धमेव ।
अत ए(वै)तद्विषये सद्वादिनः किमपि कृत्यं नास्त्येव ।
स्फुटदूणव्युत्पादने सूत्रत्वव्याघातात् ।
तस्मादेतद्दूषणव्युत्पादने सूत्रकृता प्रयत्नो न विहितः ।
अस्माभिस्तु तदभिप्रायः स्फुटीकृत इति ।
८,३४२
तथापि’सत्त्वं चास्यानुभूषितः’ इति यत्प्रपञ्चमिथ्यात्वस्य प्रत्यक्षविरुद्धत्वमुक्तम् ।
यच्च’मिथ्यात्वे मा न काचन’ इति निष्प्रमाणत्वं, तदुभयं सूत्रे न दृश्यत इत्यत आहचेति ।
… चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत् । मनुव्_२,२.२३२द्फ़् ।
न्यायसुधा-
अस्य मिथ्यात्वस्य ।
नन्वनुक्तसमुच्चयार्थेन चशब्देनेदं दूषणद्वयं सूचितमिति यथा व्याख्यायते ।
तथा तदपि चाशब्दार्थतया व्याख्यायताम् ।
किमनुक्तत्वाङ्गीकारेण ।
मैवम् ।
‘न कृत्यं प्रतिवादिनः’ इत्युक्त्वात् ।
सूत्रे हेतुविशेषस्यानुपादानान्निष्प्रमाणकत्वं ज्ञापितमित्यस्तु ।
किं चाशब्दस्योभयसूचकत्वग्रहणेन ।
न ।
सति शब्दे सावकाशज्ञापकादरणानुपपत्तेः ।
स्वप्नादिवदिति सूत्रं स्वप्नवदिति व्याख्यातम् ।
को ऽत्राभिप्रायः ।
उच्यते ।
बहुस्थलेषु गृहीतेयं व्याप्तिरित्यतो न व्यभिचारमर्हतीति पूर्वपक्षिणो ऽभिमानं सूचयितुं सूत्रकारेणादिपदं प्रयुक्तम् ।
तथापि प्रयोगवेलायामेक एव दृष्टान्त उपादेयो ऽन्यथाऽधिक्यं प्रस(ज्यते)ज्येतेति ।
यथाऽह ।
हेतूदाहरणादिकम् अधिकमिति ।
एतज्ज्ञापनाय भाष्यकारेण स्वप्नवदित्येवोक्तमिति सर्वं सुस्थम् ।
। इति श्रीमन्न्यायसुधायां असदधिकरणम् ।


__
८,३४४