। अथ श्रीमन्न्यायसुधायां समुदायाधिकरणम् ।
समुदाय उभयहेतुके ऽपि तदप्राप्तिः । ब्ब्स्_२,२.१८ ।
। ओं समुदाय उभयहेतुके ऽपि तदप्राप्तिः ओं ।
अथेदानीं सौगतमतमपाक्रियते ।
ते च चतुर्विधाः ।
वैभाषिकाः सौत्रान्तिका माध्यमिका योगाचाराश्चेति ।
तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते ।
विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यतिवैभाषिकाश्चेति ।
वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् । मनुव्_२,२.१७२अब् ।
न्यायसुधा-
आहुरिति वक्ष्यमाणेन सम्बन्धः ।
क्षणिकं क्षणमात्रावस्थायि ।
मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात्कथं क्षणभङ्गित्वमित्यत उक्तम्स्वरसेति ।
स्वभावेनैव क्षणिकं स्वभाव एवायं वस्तुनो यद्विनाशित्वम् ।
तत्र का कारणापेक्षा ।
मुद्गरादयो ऽपि न वस्तुविनाशहेतवः ।
किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति ।
८,१६९
ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम् ।
तत्कार्येणाप्येवमिति कथं क्षणिकत्वं जगत इत्यत आहअणूनामिति ।
अणूनां समुदायं च … । मनुव्_२,२.१७२च् ।
न्यायसुधा-
जगदाहुः ।
अणुसमुदाया एव गोघटादिबोधबोध्याः ।
नतु तदतिरिक्तो ऽवयवी नामास्ति ।
येन क्षणिकता विरुध्येत ।
अणुमात्रमिति वक्तव्ये समुदायग्रहणमेको महानिति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम् ।
प्रत्येकमणूनामप्रत्यक्षत्वे ऽनेकत्वे ऽमहत्त्वे ऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः ।
समुदायो हि मेलकेन (केनचित्) पुंसा भवति ।
नचास्मदादिस्तथेतीश्वरो ऽभ्युपगन्तव्यः स्यात् ।
तथावयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादित्यत आहकालेति ।
… च कालकर्मनिमित्ततः । मनुव्_२,२.१७२द् ।
उत्पत्तिकाले युक्तानाम् … । मनुव्_२,२.१७३अ ।
८,१७०
न्यायसुधा-
कालकर्मणी च ते निमित्ते च ततः ।
उत्पत्तिकाले आदिसृष्टौ ।
अन्यदा तु निमित्तान्तरमस्तीति भावः ।
युक्तानां सन्निकृष्टतयोत्पन्नानामणूनां समुदायमिति सम्बन्धः ।
कर्मादिवशादेव तथा तथा सन्निकृष्टाः परमाणवो जायन्ते ।
यता यथा गोघटादिविचित्राकारावभासः स्यात् ।
तत्र किमीश्वरेण ।
किं वावयविना ।
सिद्धान्तिनापि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम् ।
संयोगश्चावयव्युत्पादानुगुणः ।
तावतैव सर्वमुपपद्यत इत्रत ।
८,१७१
किमनात्मप्रपञ्च एव क्षणिको नेत्याहआत्मानमिति ।
… आत्मानं च क्षणस्थितिम् । मनुव्_२,२.१७३ब् ।
न्यायसुधा-
क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः ।
क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आहनित्यमिति ।
नित्यं सन्तानमेतेषां … । मनुव्_२,२.१७३च् ।
न्यायसुधा-
एतेषां अणूनाम् ।
सन्ताविषया प्रत्यभिज्ञेति भावः ।
नचैवं सत्त्वस्यानैकान्त्यात् ।
सन्तानस्य सत्त्वाभावात् ।
८,१७२
एवं सामान्यतो निरूप्य विभागमाहपञ्चेति ।
…. पञ्चस्कन्धात्मना स्थितम् । मनुव्_२,२.१७३द् ।
न्यायसुधा-
जगद्वृक्षं पञ्चस्कन्धात्मना स्थितमाहुः ।
पञ्चस्कन्धानाहसंस्कारेति ।
संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः । मनुव्_२,२.१७४अब् ।
न्यायसुधा-
स्थितिः स्कन्धानामिति शेषः ।
समनन्तरप्रत्ययः संस्कारस्कन्धः ।
रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः ।
निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः ।
सविकल्पकं ज्ञानं सञ्ज्ञास्कन्धः ।
वेदनापरपर्यायं दुःखं चैकस्कन्धः ।
अत्र रूपस्कन्धो बाह्यः ।
अन्ये चत्वार आभ्यन्तरा इत्याहुरिति सम्बन्धः ।
८,१७३
सुखादीनां पदार्थान्तरेण विद्यमानत्वात्कथं पञ्चैव स्कन्धा इत्यत आहदुःखाभावादिति ।
दुःखाभावं सुखं चाहुर् … । मनुव्_२,२.१७४च् ।
८,१७४
न्यायसुधा-
चशब्देन केचित्सुखं वेदनास्कन्धे ऽन्तर्भावयन्तीति सूचितं भवति ।
यद्वानुक्तसमुच्चयार्थश्चशब्दः ।
यथा मूर्ताभाव एवाकाशं, रूपादय एव पृथिव्याद्याः, सङ्खयादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव ।
देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनम् ।
क्षणिकस्य वास्तवकर्मायोगात् ।
सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः ।
अतद्वयावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्येत्यादि ।
… अरूपज्ञानसन्ततिम् । मनुव्_२,२.१७४द् ।
मोक्षं … । मनुव्_२,२.१७५अ ।
न्यायसुधा-
अरूपेति ।
सन्तन्यमानं ज्ञानमेवात्मा तस्य विषयोपप्लवः संसारः ।
अरूपा निर्विषया या ज्ञानसन्ततिस्तामेवे मोक्षमाहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति ।
८,१७५
एवं वैभाषिकसौत्रान्तिकयोः साधारणं मतमुपन्यस्यावान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुर्यत्तावदुक्तं परमाणुसमुदाय एव
गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्तीति तन्निराकर्तुं समुदाय उभयहेतुके ऽपि तदप्राप्तिरिति सूत्रं व्याचष्टेस इति ।
… स समुदायो हि नैकस्मादेव युज्यते । मनुव्_२,२.१७५अब् ।
न्यायसुधा-
यो ऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः ।
नाद्यः ।
एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः ।
न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते ।
समुदायकल्पनं वानर्थकमापद्येत ।
महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात् ।
अनेन अपिशब्दलब्धो ऽर्थो दर्शितः ।
द्वितीयं निराकरोतिनेति ।
नोभयोश्चो… । मनुव्_२,२.१७५च् ।
न्यायसुधा-
उभयग्रहणमनेकमात्रोपलक्षणम् ।
सकाशादिति शेषः ।
चशब्देन समुदायो युज्यत इत्यनुकृष्टते ।
कुतो न युज्यत इति चेत् ।
अनेकहेतुकत्वे ऽपि किमसमुदितानेकहेतुको ऽथ समुदितानेकहेतुक इति वक्तव्यम् ।
आद्ये सर्वत्र(त्रापि)गोघटादिबुद्धिप्रसक्तिः ।
असमुदितपरमाणूनां सर्वत्र भावात् ।
समुदायस्य च तन्मात्रहेतुकत्वात् ।
समुदायाङ्गीकारवैयथ्यर्प्रसङ्गश्च ।
द्वितीयानुपपत्तौ हेतुमाहउभयत्वमिति ।
… श्चोभयत्वं यत् समुदायव्यपेक्षया । मनुव्_२,२.१७५च्द् ।
न्यायसुधा-
यद्यस्मादुभयत्वं समुदितानेकत्वं समुदायसापेक्षम् ।
जाते हि समुदाये ऽनेकेषां समुदितत्वं (सं)भवति ।
तस्मान्नेति सम्बन्धः ।
८,१७७
समुदितानेकत्वस्य समुदायसापेक्षत्वे ऽपि कुतस्ततः समुदायोत्पादो न युज्यत इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरतिअत इति ।
अतो ऽन्योन्याश्रयत्वेन समुदायो न युज्यते । मनुव्_२,२.१७६अब् ।
न्यायसुधा-
समुदायस्य समुदितानेकेषां चेतरेतरापेक्षोत्पत्तिकत्वेनेत्यर्थः ।
समुदायानु(त्पत्तौ) चाणूनां महानेक इति प्रत्यक्षबुद्धिगोचरतायोगादवश्यमङ्गीकरणीयो ऽवयवीति ।
किञ्चायं समुदायः किं परमाणूनां संयोगः किंवानेकत्वसङ्खया ।
उत द्रव्यान्तरम् ।
नाद्यद्वितीयौ ।
अनङ्गीकारात् ।
अङ्गीकारे ऽप्यतीन्द्रियाश्रितयोस्तयोरैन्द्रियकत्वानुपपत्तिः ।
तृतीये स एवावयवी ।
सांवृतो ऽसाविति चेत् ।
तर्हि पुनर्महानित्यादिप्रमानुपपत्तिस्तदवस्थैव ।
भ्रान्तिरियमिति चेत्(न) ।
भ्रान्तेरभ्रान्तिपूर्वकत्वेन क्वचिन्महत्त्वादेर्वास्तवत्त्वप्रसङ्गात् ।
अनादिवासनावशादानादिरेवेयं भ्रान्तिरिति चेन्न ।
नीलादिज्ञानस्यापि तथात्वप्रसङ्गात् ।
८,१७९
ननु विषममिदमुच्यते ।
अवयविनि बाधकसद्भावात् ।
तथाहि ।
अवयवी किमवयवेषु प्रत्येकं कार्त्स्येन वर्तते ।
किं वैकदेशेन ।
आद्ये ऽनेकत्वप्रसङ्गः ।
न द्वितीयः ।
तस्यावयवान्विहायैकदेशाभावात् ।
भावे वा(त) अत्रापि वृत्तिविकल्पप्रसङ्गात् ।
किञ्च केषुचित्तन्तुषु चलत्सु तद्गतो ऽवयवी चलति न वा ।
नेति पक्षे युतसिद्धिप्रसङ्गः ।
आद्ये तु निश्चलावयवाश्रितो न चलतीति चलाचलत्वलक्षणो विरुद्धधर्माध्यासः ।
एवमावृत्तानावृतत्वरक्तारक्तत्वलक्षणावपि विरुद्धधर्माध्यासौ द्रष्टव्याविति ।
उच्यते ।
नास्माभिरवयवेभ्यो ऽत्यन्तभिन्नो ऽवयवी गृह्यते ।
किन्तु तत्परिणामविशेष एव ।
तत्र कुतो वृत्तिविकल्पावकाशः ।
चलाचलत्वादिविरोधस्तु भेदाभेद(दादि)विरोधवदपाक्रियत इति नावयविनि बाधकसद्भावः ।
नच वाच्यं समुदायो भवद्भिरङ्गी(क्रिय)कृत एव त(तश्च)त्राक्षेपसमाधानसाम्यमिति ।
यतो ऽनेकेषामेककालदेशकार्याद्यवच्छेदेन मेलनं समुदायो ऽभ्युपगम्यते ।
स चामिलितेभ्य एव भव(ती)ति ।
स्थायितानां च तत्सम्भवो न क्षणभङ्गवाद इति वक्ष्यति ।
८,१८१
उक्तमर्थमाक्षिप्य समादधत्सूत्रम् ओं इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ओं ।
इति ।
तत्राक्षेपांशं तावद्वयाचष्टेअन्योन्येति ।
इतरेतरप्रत्ययत्वाद् इति चेन् नोत्पत्तिमात्रनिमित्तत्वात् । ब्ब्स्_२,२.१९ ।
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम् । मनुव्_२,२.१७६च्द् ।
स्यात् तत्सदातनत्वे ऽपि तच्च सामीप्यहेतुकम् ।
इति चेत् … । मनुव्_२,२.१७७अच् ।
न्यायसुधा-
भवेदिदमन्योन्याश्रयत्वं यद्ययं समुदायः कादाचित्कः स्यात् ।
नचैवम् ।
सदातनं त्विममभ्युपगच्छामः ।
एवं तर्हि सृष्टिप्रलयव्यवस्था न स्यादिति चेन्न ।
यतस्तस्य समुदायस्य सदातनत्वे ऽपि पुंसः समुदायत्ववेदनं स्यात् ।
कदाचिदिति शेषः ।
ततस्तदपेक्षया सृष्टयादिव्वयस्थोपपद्यत इति भावः ।
समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तम्तच्चेति ।
तत्समुदायत्ववेदनं परमाणुसामीप्यहेतुकम् ।
नच सामीप्यं सदास्तीति वेदनस्य कादाचित्कत्वमिति ।
समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत (उक्तं) आहअन्योन्येति ।
अन्योन्यपरमाणुज्ञानापेक्षया हि तद्भवति ।
नचान्योन्यज्ञानं सामीप्येन विना भवतीति ।
ननु वेदनमेव पुमानिति सौगता मन्यन्ते ।
तत्कथं पुंसो वेदनमिति ।
उच्यते ।
ज्ञानं हि द्विविधं भवति ।
प्रवृत्तिज्ञानमालयज्ञानं चेति ।
तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते ।
प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः ।
एतदुक्तं भवति ।
अनेके परमाणव एव समुदायः ।
तदनेकत्वं च समुदायत्वम् ।
तन्मिलितेष्विव विरलेष्वपि विद्यते ।
किन्तु न सदा समुदायत्ववेदनं भवति ।
इतरपरमाणुसहितेतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति ।
अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् ।
नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति ।
अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् ।
नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति ।
म(थु)धुरापाटलीपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः ।
किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः ।
अधिपतिरिन्द्रियम् ।
नच विरलानां परमाणूनामिन्द्रियालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते ।
अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि ।
अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुत्पद्यते ।
तेन नान्योन्याश्रयत्वम् ।
नापि सृष्टयाद्यनुपपत्तिरिति ।
एतेन पक्षान्तरमपि सूचितम् ।
विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते ।
तदेव तेषां समुदायत्वम् ।
अतो न कश्चिद्दोष इति ।
८,१८५
समाधानांशं व्याचष्टेकार्येति ।
… कार्यसम्भूतिमात्रव्यापृतिकारणम् । मनुव्_२,२.१७७च्द् ।
नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् । मनुव्_२,२.१७८अब् ।
न्यायसुधा-
कार्यसम्भूतिमात्रे व्यापृतिर्यस्य तत्तथोक्तं कारणं कार्यसम्भूतिमात्रव्यापृतिः यतस्ततो नेति शेषः ।
यथानुतमेतन्न परिहारक्षमम् अतो ऽभिप्रायमाहन त्विति ।
विशिष्टन्त इति विशेषाः ।
कार्याण्येव विशेषाः कार्यविशेषाः ।
कारणमिति जातावेकवचनम् ।
कारणानि खलु स्वसदृशकार्यजननव्यापाराणि ।
नतु विसदृशकार्यजनने व्यापृतानीत्यर्थः ।
किमतो यद्येवमित्यत आहअत इति ।
८,१८६
अतो ऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।
संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि । मनुव्_२,२.१७८च्फ़् ।
न्यायसुधा-
सदृशकार्यजनकत्वनियमादित्यर्थः ।
संयोगिरूपे ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता ।
अर्थेन्द्रिययोः संयोगिरूपकारणता (अर्थेन्द्रियसंयोगिरूपकारणता । ) सा नैवोपपद्यते ।
कुतः ।
हि यस्मात्कारणस्यात्मनो नैव तज्ज्ञानतास्तीति योजना ।
इदमुक्तं भवति ।
कारणं हि सदृशकार्यजननस्वभावं (वा) स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभय(जनन)स्वभावं वा ।
८,१८६फ़्.
तत्र यत्राद्यः कल्पो ऽङ्गीक्रियते तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यस्तथाभूता एव परमाणवो जायेरन् ।
न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः ।
इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन् ।
न जात्वर्थाधिपतीन्द्रियाणि ।
आत्मानश्चासमुदायज्ञानात्तादृश एवात्मा जायेत ।
न कदाचित्तज्ज्ञानवान् ।
अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात् ।
इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः ।
उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति ।
८,१८८
द्वितीयमाशङ्कतेविशेषेति ।
विशषषकार्यजनकं यदि कारणमिष्यते । मनुव्_२,२.१७९अब् ।
न्यायसुधा-
तथाचेन्द्रियानालम्बनविलपरमाण्वादिभ्यस्तदालम्बनमिलितपरमाण्वादिजनिरुपपद्यत इति भावः ।
निराकरोतिकुत इति ।
कुतः समानरूपत्वं कार्याणामपि सर्वशः । मनुव्_२,२.१७९च्द् ।
न्यायसुधा-
तर्हीति शेषः ।
सर्वशो ऽपि कार्याणामिति सम्बन्धः ।
अत्र कार्यग्रहणं परमतानुसारेण ।
कारणस्य विसदृशकायर्जननस्वभावतायामाकपालभावात्सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात् ।
किन्तु घटक्षणाद्गजक्षणस्ततो गर्दभक्षण उत्पद्यते ।
तथा नीलक्षणात्पीतक्षणस्ततः कपोतक्षणो जायेत ।
नीलानुवृत्तिस्तु न स्यादिति ।
८,१९०
अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेन्न ।
विरोधेनैकस्याप्यजननप्रसङ्गात् ।
अविरोधे त्वाहअत इति ।
अतो ऽनियत्या यत्किञ्चिद् यस्य कस्यापि कारणम् । मनुव्_२,२.१८०अब् ।
न्यायसुधा-
प्रकृतपक्षद्वयं समाहृत्यात इति परामृशति ।
अनियत्या घटो घटस्यैव नीलोनीलस्यैवेति नियतिं विना ।
यत्किञ्चित् घटादिकं नीलादिकं वा ।
यस्य कस्यापि घटादेरघटादेर्नीलादेरनीलादेश्च ।
कारणं स्यात् ।
घटक्षणस्योभयविधकार्यजननस्वभावत्वे ऽसौ तदुभयं जनयेत् ।
तथा चोपलभ्येतेति यावत् ।
केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते ।
सर्वशो ऽपि कार्याणां समानरूपत्वं न स्यात् ।
किन्तु विसदृशकार्यजननस्वभावत्वाद्घटादिकं गजादेः कारणं स्यादिति ।
न चतुर्थः ।
अर्थक्रियारहितस्यासत्त्वप्राप्तेः ।
अर्थक्रियाकारित्वं सत्त्वमिति (हि)सौगताः ।
ननु च कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मो न तूक्तेषु कमपि पक्षमित्यत आहअत इति ।
बुद्धिस्थमिमं कल्पमत इति परामृशति ।
अतिप्रसङ्गस्तु न तिरोहितः ।
८,१९२
स्यादेतत् ।
यथा भवन्मते प्रमाजननस्वभावत्वे ऽपीन्द्रियादेर्देषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वे
ऽप्यदृष्टादिसहकारिसामर्थ्यात्कदाचिद्विसदृशकार्यजननं भविष्यति ।
यद्वा यथा साङ्खयानामिन्द्रियादीनि प्रमाप्रमाजननस्वभावानि ।
तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वे
ऽप्यदृष्टादिवशात्तदन्यतरजन्मोपपत्स्यते ।
अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि ।
गुणादिसहकार्युपनिपातेन प्रमाद्यु(त्प)पपत्तिः, तथा कारणं कार्यजननस्वभावमेव ।
अदृष्टादिसहकारिसमवधानात् (तु) तत्सदृशं विसदृशं वा जनयिष्यतीत्यत आहअदृष्टमपीति ।
अदृष्टमपि तस्यैव विशेषापादकं कुतः । मनुव्_२,२.१८०च्द् ।
न्यायसुधा-
अत्रादृष्टग्रहणमुपलक्षणम् (सहकारिमात्रस्य) ।
८,१९३
अदृष्टमपि विशेषस्य, आद्ये विसदृशकार्यजनकत्वस्य द्वितीयऽन्यतरप्रतिबन्धस्य, तृतीये तूभयजनकत्वस्यापादं कुत इत्येकं वाक्यम् ।
तथाहि ।
पूर्वपूर्वतराद्यदृष्टक्षणाविशेषानापादकास्तदापादका वा ।
आद्ये त्वस्यादृष्टक्षणस्य विशेषापादकत्वं न सिद्धयति ।
कारणाभावात् ।
विशेषानापादकादृष्टक्षणाजन्यो ऽप्य(यम)दृष्टक्षणः सहकारिवशाद्विशेषमापादयिष्यतीति चेन्न ।
तत्सहकारिण्यप्यस्य साम्यात् ।
(अ)तत्रापि सहकार्यनत्रानुसरणे गौरवमिति ।
तस्यैव कारणस्य विशेषापादकं कुत इत्यपरं वाक्यम् ।
तथाहि ।
विशेषापवादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा ।
नाद्यः ।
नियामकयोः कारणज्ञापकयोरभावादिति ।
येभ्य इन्द्रियानालमबनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते ।
यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य ।
यस्माच्च समुदायज्ञानरहितादात्मनस्तद्वदात्मोत्पादः ।
तदिदं तस्यैवेत्युच्यते ।
८,१९५
उभय(त्रापि द्वि)त्र द्वितीयौ कल्पौ दूषयतियस्येति ।
यस्य कस्यापि यत्किञ्चिद् विशेषमुपपादयेत् । मनुव्_२,२.१८१अब् ।
न्यायसुधा-
अत्रापि यत्किञ्चिददृष्टं विशषमुपपादयेदित्येकं वाक्यम् ।
यदि पूवर्पूर्वतराद्यदृष्टस्याप्यस्ति विशेषापादकत्वं तर्हि तदपि पूवर्पूर्वतरादिपरमाण्वादौ विशेषमापादयेदेव ।
समर्थस्य क्षेपानभ्युपगमात् ।
तथाच समुदायप्रतीतेः समयनियमो न स्यादिति ।
यस्य कस्यापि विशेषमुपपादयेदिति द्वितीयम् ।
यदि कारणमात्रस्य विशेषापादकमदृष्टमङ्गीक्रियते तदा सर्वेषामपि कारणानां विशेषमुपपादितम् ।
तथाच घटपरमाणुमेलने सर्वेषामपि मेलनं स्यात् ।
नतु कुत्राप्यभिलषितपरमाण्ववस्थानं भवेत् ।
नच युगपत्सर्वसमुदायो दृश्यत इति ।
जोस्हि२
८,१९६
अथ मतम् ।
सर्वमिदं स्वव्याहतम् ।
तथाहि ।
तन्तवो यदि सदृशकार्यजननस्वभावास्तदा तन्त्वन्तरमेव जनयेयुर्न तु पटम् ।
यदि च विसदृशकार्यजननस्वभावास्तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात् ।
किन्तु पाथसीयं किमपि जायेत ।
उभयस्वभावत्वं तु विरुद्धम् ।
अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः ।
सहकारिवशाद्वयवस्थाङ्गीकारे सहकारिष्वपीदं समानम् ।
अथोच्येत ।
अस्ति(स्तु)तावत्तन्तुपटयोः कार्यकारणभावः ।
प्रमितस्यापन्हवानर्हत्वात् ।
स च यथा यथोपपद्यते तथा तथा कल्पयिष्यत इति ।
सममेतत्समापीत्यत आहकार्यं चेति ।
कार्यं च कारणं चैव यत्किञ्चिद् यस्य कस्यचित् । मनुव्_२,२.१८१च्द् ।
भवेन्नियामकाभावाद् … । मनुव्_२,२.१८२अब् ।
८,१९७
न्यायसुधा-
नित्यविनाशित्व इतयेतद्वक्ष्यमाणमत्रापि सम्बद्धयते ।
यत्किञ्चिन्नीलादिकं यस्य कस्यचिदेव पीतादेः कार्यं स्यात् ।
यत्किञ्चित्पीतादिकं यस्य कस्यचिदेव नीलादेः कारणं स्यात् ।
कुतः ।
नीला नीलस्यैव कार्यं स्यात् न पीतस्य ।
नीलमेव नीलस्य कारणं न पीतमि(त्यत्र)तिनियामकाभावादिति योजना ।
चशब्दौ मिथः समुच्चये ।
एतदुक्तं भवति ।
सम्भवति स्थिरवादे परिहारो ऽयम् ।
यद्यत्र समवेतं यद्येनाकारेण परिणतं वा तत्तस्य कारणं कार्यं चेति नियामकसद्भावेन कायर्कारणभावावधारणे सति तदुपपादककल्पनोपपत्तेः ।
क्षणभङ्गुनये तु पूर्वोत्तरक्षणयोर्निरन्वयविनाशोत्पादयोः कायर्कारणभावावधारणोपाय एव नास्ति ।
समवायपरिणामयोरभावात् ।
तथाच कस्य बलादुपपादकं कल्पयिष्यत इति ।
८,१९८
समवायपरिणामयारभावे ऽपि यद्यदपेक्षया पूर्वभावि तदेव तस्य कारणम् ।
यच्च यदपेक्षया पश्चाद्भावि तदेव तस्य कार्यमित्यवधारणोपपत्तेर्नियामकाभावो ऽसिद्ध इत्यतः कार्यनियमं तावन्निराकरोतिइदमस्यैवेति ।
८,१९७
… इदमस्यैव कारणम् ।
इति नित्यविनाशित्वे केन मानेन गम्यते । मनुव्_२,२.१८२ब्द् ।
न्यायसुधा-
इदं नीलम(स्य नील) स्यैव कारणम्, न तु पीतस्य, इत्येवं नीलस्य नीलकार्यत्वं, नित्यविनाशित्वे निरन्वयविनाशोत्पादपक्षे, केन मानेन न
केनापि ।
पश्चाद्भावमात्रस्य नी(लस्येव पीतस्यापि)लापेक्षयेव पीतापेक्षयापि सत्त्वादिति भावः ।
सादेश्यं सारूप्यं वा नियामकमिति चेन्न ।
विरलपरमाणुभ्यो मिलितानां मिलितेभ्यश्च विरलानामुत्पत्त्यङ्गीकारात् ।
कारणनियममप्यपाकरोतिइदं नेति ।
इदं न जायते ऽमुष्मादित्यत्रापि न कारणम् । मनुव्_२,२.१८३अब् ।
न्यायसुधा-
इदं नीलममुष्मात्पीतान्न जायते किन्तु नीलादेवेत्यत्र नीलस्य कारणत्वावधारणे ऽपि, कारणं प्रमाणं, नास्ति ।
नीलस्येव पीतस्यपि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः ।
८,१९९फ़्.
ननु यथा भवतां समवायपरिणामयोरभावे ऽपि कुविन्दपटयोः कार्यकारणभावावधारणं तथा ममापि भविष्यतीत्यत आहइदमस्येति ।
नित्यविनाशित्वे आत्मन इति शेषः ।
युज्यते ऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणमन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम् ।
नतु परस्य ।
अस्माभिरन्वयव्यतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात् ।
परेण(च) क्षणिकतास्वीकारात् ।
नहि तथाविधो ऽन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्य इति भावः ।
योजना तु पूर्ववदेव ।
८,२००
एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेन चापाकर्तुमुत्तरो ग्रन्थः ।
तथाहि ।
न केवलं समुदायो नोपपद्यते ।
किन्नाम सर्वस्य क्षणिकता च ।
तत्र प्रमाणाभावात् ।
ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति ।
तद्धि वर्तमानमात्रगोचरमर्थस्य वतर्मानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते ।
न पूर्वोत्तरक्षणसम्बन्धनीमपि ।
तत्कथं क्षणिकत्वमर्थानामप्रामाणिकमिति ।
उच्यते ।
किमिदं क्षणिकत्वं नाम ।
किं क्षणसम्बन्धिसत्त्वम् ।
किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम् ।
यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम् ।
आद्यस्त्विष्य एव ।
स्थायिनो ऽप्यर्थस्यैकक्षणसत्तास्वीकारात् ।
द्वितीयतृतीयौ दूषयतिविनाशेति ।
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः । मनुव्_२,२.१८३च्द् ।
न्यायसुधा-
अनेकपदार्थसम्बन्धित्वेन बहुवचनम् ।
चशब्दस्तृतीयपक्षसमुच्चयार्थः ।
एवशब्दस्य नैवेति सम्बन्धः ।
सदातनाः प्रतिक्षणभाविन्यः ।
प्रत्यक्षं खल्वर्थानां वतर्मानकालसत्तामवगाहते न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि ।
नापि क्षणान्तरसम्बन्धित्वम् ।
तथाच कथं तेन क्षणिकता सिद्धयेदिति ।
८,२०२
ननु च प्रत्यक्षं पूर्वोत्तरक्षणवतिर्त्वमप्यर्थस्य गृह्णाति न वा ।
नाद्यः ।
वर्तमानमात्रग्राहित्वात् ।
द्वितीये तु प्रत्यक्षानुपलम्भेन पर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सि(ध्येदिति)द्धेति चेत् ।
द्वितीयं तावदुररीकुमर्ः ।
नचैवं क्षणिकतासिद्धिः ।
योग्यानुपलम्भस्यैवासत्त्वगमकत्वात् ।
नच पूर्वोत्तरकालवर्तिना प्रत्यक्षयोग्या ।
वतर्मानमात्रग्राहितायाः परेणैवोक्तत्वात् ।
अस्तु वाऽद्यः पक्षः ।
कस्याचित्प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे ऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादित्याशयेनाहदृश्यत इति ।
दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु । मनुव्_२,२.१८४अब् ।
न्यायसुधा-
विषयीक्रियत इत्यर्थः ।
तृतीयार्थे तसिः ।
एकस्यैवानेकक्षणसम्बन्धित्वं स्थिरत्वम् ।
एतेन न केवलं प्रत्यक्षं क्षणिकतां न गोचरयति ।
किन्तु स्थायि(तां)त्वमपि गोचरयतीत्यपीति वदता परपक्षे प्रमाणविरोधः स्वपक्षे प्रमाणसद्भावश्चोदितो भवति ।
८,२०३
अनेन’अनुस्मृतेश्च’ इति सूत्रं कृतव्याख्यानं वेदितव्यम् ।
सर्ववस्तुष्वित्यनेन सौगतानां प्रत्यभिज्ञानिराकरणं वैशेषिकादिमतमेव स्पृशति न त्वस्मन्मतमिति सूचयति ।
तथाहि ।
किमनया प्रत्यभिज्ञया नित्यत्वेनाभ्युपगतेषु परमाण्वादिषु स्थिरत्वं साध्यते किंवा घटादिषु ।
नाद्यः ।
तेषामतीन्द्रियत्वेन प्रत्यभिज्ञाप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात् ।
न द्वितीयः ।
घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात् ।
यदा हि घटादौ सूच्यग्रादिनैको ऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्वयणुकेन ।
विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात् ।
द्वयणुकनाशे समवायिकारणनाशात्त्र्यणुकनाश इत्यनेन क्रमेण घटनाशो ऽप्यवश्यम्भावी ।
नच परमाणुः प्रत्यक्षो येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ ।
नच वाच्यं निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति ।
तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात् ।
निबिडावयवत्वं च न विभागायोग्यावयवत्वम् ।
विभागस्य प्रत्यक्षसिद्धत्वात् ।
किन्तु घटादितो ऽप्युत्कृष्टकारणापेक्षत्वम् ।
नच तद्विशेषाभावः शक्यो ऽस्माभिरवगन्तुम् ।
दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः ।
नचावयवानपगमे स सम्भवतीति ।
नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्धयति ।
तस्यापि कस्यचिदतीन्द्रियत्वात् ।
कस्यचिद्घटादितुल्यत्वात् सामान्यादिकं तु स्वरूपतो नास्त्येव ।
सत्त्वे ऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति ।
८,२०६
अत्रोच्यते ।
स्यादयं दोषः परमाण्वारम्भवादिनाम् ।
न परिणामवादिनामस्माकम् ।
तदेव (हि) वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते ।
न पुनरन्यदेव भवतीति हि परिणामवादिनो मन्यन्ते अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति ।
ननु भवन्मते ऽपि प्रत्यभिज्ञा (भ्रम एव) भ्रान्तिरेव ।
परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात् ।
तदेवेदमिति च प्रत्यभिज्ञयात्यन्ताभेदस्यावगाहनात् ।
उच्यते ।
यदा तु (यदि हि) पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयो ऽङ्गीक्रियते ।
तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वे ऽपि तदिदमिति तु न भ्रमः ।
तेनैव च स्थायित्वसि(द्धि)द्धेः ।
यदा तु कालादिद्वयसम्बन्धो विषयस्तदा सावधारणमपि न भ्रम इति ।
नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलापादाविव भ्रान्तं किन्न स्यादिति चेत् (न) ।
बाधकाभावात् ।
एवमेव भ्रा(न्त)न्तित्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्ते(त्वप्राप्ते)ः ।
नच प्रत्यक्षं बाधकमित्युक्तम् ।
८,२११
प्रत्यक्षस्याबाधकत्वे ऽप्यनुमानं बाधकं भविष्यतीति शङ्कतेफलादीनामिति ।
फलादीनां विशेषेण सर्वत्राप्यनुमीयते । मनुव्_२,२.१८४च्द् ।
[नोते- जुम्प् इन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ।
अविशेषो ऽखिलस्यापि सत्त्वात् किं नानुमीयते । मनुव्_२,२.१८६ ।
८,२११फ़्.
न्यायसुधा-
आदिपदेन देहदीपादिग्रहणम् ।
विशेषेण परिमाणभेदेन, क्षणिकत्वं (तावत्)अनुमीयत इति सम्बन्धः ।
ततस्तद्दृष्टान्तेन सर्वत्र फलादिव्यतिरिक्ते ऽपि वस्तुनि सत्त्वेन हेतुना पञ्चस्कन्धा इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति ।
नच फलादिदृष्टान्तः साध्यविकलः ।
यद्विरुद्धपरिमाणं तन्नाना दृष्टं यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोः, इत्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति ।
परिहरतिआकाशस्येति ।
अविशेषतः पूर्वोत्तर(क्षण)योर्भेदरहितत्वतः, अविशेषः पूर्वोत्तरक्षणयोर्भेदराहित्यम् ।
अखिलस्यापि विप्रतिपन्नस्य ।
इदमुक्तं भवति ।
यत्सत्तदक्षणिकम् यथाऽकाशम् ।
सच्च नीलादीति प्रत्यनुमानप्रतिरुद्धत्वेनानुमानस्याभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति ।
नचाकाशदृष्टान्तः साध्यविकलः ।
‘आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्’ इत्रत परेणैवाङ्गीकृतत्वात् क्षणिकतासाधकस्य परिमाणभेदादेराकाशे ऽभावाच्च ।
तदिदमु(मप्यु)क्तं अविशेषतः परिमाणभेदादिरहितत्वत इति ।
८,२१३
यद्वाऽकाशस्याविशेषतः परिमाणभेदरहितत्वतः ।
तद्दृष्टान्तेनाखिलस्यापि फलादेरविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः सत्त्वात् किं नानुमीयत इति योजना ।
एतदुक्तं भवति ।
नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति ।
अनुमानस्य प्रत्यक्षतो दुबर्लत्वेन तद्बाध्यत्वात् ।
अन्यथा फलादिकं परिमाणभेदरहितं सत्त्वादाकाशवदित्यप्यनुमानप्रसङ्गात् ।
नह्यत्र प्रत्यक्षादिबाधं विना कश्चिद्दोषो ऽस्ति ।
तथाच तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात्साध्यविकलता स्यात् ।
ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम् ।
अन्यथान्योन्याश्रय(ता)प्रसङ्ग इत्येव वक्तव्यम् ।
तच्च समं प्रकृते ऽपीति ।
एतेन’आकाशे चाविशेषात्’ इति सूत्रं व्याख्यातं भवति ।
तदनेन क्षणिकत्व(ता)साधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽकाशे ऽ(ना)नैकान्त्यमपि सूचितम् ।
भवदनुमानस्यापि फलादिनानैकान्त्यमिति चेन्न ।
तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वात् (इति) ।
८,२१४
भवेदिदं यद्याकाशस्य सत्त्वं स्यात् ।
नचैतदस्ति ।
मूर्ताभावत्वादाकाशस्य ।
भावत्वं हि सत्त्वमत्र विवक्षितम् ।
सस्वरूपत्वे ऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमित्याशङ्कयाहयदीति ।
यद्याकाशस्य सत्त्वं न कुत एव नरादिषु । मनुव्_२,२.१८७अब् ।
न्यायसुधा-
यद्याकाशस्य सत्त्वं नास्तीत्यङ्गीकृत्य प्रत्यनुमाने ऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं स्वानुमानस्यानैकान्तिकत्वाभावश्चोच्यते ।
तदा देहादिषु सत्त्वं कुत एव सिद्धमिति ब्रूमः ।
तथाच परकीयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात् ।
यदि च विधिमुखप्रत्ययवेद्यत्वाद्देहादीनां भावत्वं प्रमाविषयत्वात्सत्त्वं चोच्यते ।
तदाऽकाशे ऽपि समानमिति ।
प्रमाणान्तरेणाकाशस्याभावत्वं वारयितुमुपोद्घातमाहस धर्मीति ।
सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते । मनुव्_२,२.१८७च्द् ।
८,२१६
न्यायसुधा-
यत्राभावः स धर्मी ।
यस्याभावः स प्रतियोगी ।
तदुभयवत्त्वमभावस्य नियामकं व्यापकम् ।
यो ऽभावः स सर्वो ऽपि धर्मिप्रतियोगिसहित एव ।
यथा घटाद्यभावः ।
स हि भूतलादिधर्मिणा घटादिप्रतियोगिना चोपेत एवेति ।
नन्विदमनुपपन्नम् ।
अभावस्य हि धर्मिप्रतियोगिसाहित्यनियमः किं देशतः स्यात्, किंवा कालतः ।
आद्ये धर्मिणा सादेश्यं तावन्नास्ति ।
भूतलस्य स्वाश्रये, अभावस्य तु भूतले वृत्तेः ।
प्रतियोगिना तु विरुद्धमेव ।
द्वितीयस्तु यद्यपि धर्मिणा कथञ्चित्स्यात् ।
तथापि प्रतियोगिना नास्त्येव ।
प्रागभावप्रध्वंसाभावयोः प्रतियोगिभिन्नकालत्वनियमादित्याशङ्कां परिहरन्नभावस्य धर्मिप्रतियोगिसाहित्यव्याप्तत्वमुपपादयतितौ विनेति ।
तौ विना न ह्य् अभावश् च क्वचिद्दृष्टः कदाचन । मनुव्_२,२.१८७अब् ।
न्यायसुधा-
अत्र दृष्ट इति प्रकरणात्तौ विनेति तज्ज्ञानं विनेत्यथर्ः ।
चशब्दो ऽभावो दृश्यमानो धर्मिप्रतियोगिप्रतीतावेव दृश्यत इत्यन्वयसमुच्चयार्थः ।
हिशब्देनान्वयव्यतिरेकयोः प्रसिद्धत्वं सूचयति ।
तदनेनान्वयव्यतिरेकाभ्यामभावप्रतीतेर्धर्मिप्रतियोगिप्रतीतिपूर्वकतया व्याप्तिरुपपादिता भवति ।
यद्वा तावि(ति)त्यनेन न ज्ञानमुपलक्षणीयम् ।
अभावः प्रतीयमानो धर्मिप्रतियोगिघटित एवात्रेदं नास्तीत्यादिरूपेण प्रतीयते ।
नतु तौ विना केवल इत्यन्वयव्यतिरेकाभ्यामेकज्ञानसम्बन्धेन व्याप्यव्यापकभावोपपादनमेतदित्यवगन्तव्यम् ।
प्रातर्गजाद्यभावज्ञानं त्वन्यथोपपादयिष्यामः ।
८,२१९
किमतो यद्येवमभावस्य यद्येवमभावस्य धर्मिप्रतियोगिसाहित्यं प्रतीतौ व्यापकमित्यत आह अधर्मीति
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते । मनुव्_२,२.१८७च्द् ।
न्यायसुधा-
प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात्तावद्वयावर्तर्(त्य)ते ।
यस्मादाकाश इत्येवावगम्यते न त्वत्रेदं नास्तीति ।
इयमपि (च) वस्तुतो मूर्ताभावगोचरैव प्रतीतिः प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धादतादृशीव प्रकाशत इति चेन्न ।
नीलादिप्रतितेरपि तथात्वप्रसङ्गात् ।
अनानुभाविकत्वस्योभयत्रापि साम्यात् ।
तथाच परस्याप्यसिद्धयाद्यापातः ।
व्यापकनिवृत्त्या(च) व्याप्यनिवृत्तिरवश्यम्भाविनीत्याकाशस्य नाभावत्वमिति ।
तदयं प्रयोगः ।
आकाशो नाभावः धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वाद्रूपवदिति ।
किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते स एवास्माकमाकाश इति नाम्नयेव विवादो ऽवशिष्यते ।
वक्ष्यते चैतद्वियदधिकरण इति ।
८,२२०
सूत्रद्वयार्थमुपसंहरतिस्वीकारेति ।
स्वीकारत्यागतो ऽदृष्टदृष्टयोः सर्ववस्तुषु ।
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः । मनुव्_२,२.१८८ ।
न्यायसुधा-
अदृष्टस्य क्षणिकत्वादेः स्वीकृति(कार)तो दृष्टस्य स्थिरत्वादेस्त्यागतः ।
असौ सौगतः ।
अधिकं स्वत इति शेषः ।
उन्मत्तमपि स्वस्मादधिकविवेकवन्तं (स्था)ख्यापयतीत्यर्थः ।
न ह्युन्मत्तः सर्वत्राप्रमितं स्वीकरोति नापि प्रमितं त्यजतीति ।
८,२२०फ़्.
ननु (च) यदि नीलादिकं न स्यात्तदा सन्न स्यात् ।
अर्थक्रियाकारित्वं हि सत्त्वम् ।
व्याप्तं च क्रमयौगपद्याभ्याम् ।
तृतीयप्रकाराभावात् ।
नच स्थिरे तत्सम्भवः प्रसङ्गतद्विपर्ययाभ्याम् ।
तथाहि ।
स्थायीभावः किं (स्वी)स्वकीयामर्थक्रियां क्रमेण कुर्याद्युगपद्वा ।
आद्ये कालान्तरभाविनीमर्थक्रियां प्रतीदानीं समर्थो न वा ।
प्रथमे तामपीदानीं(नीमेव) कुर्यात् ।
समर्थस्य क्षेपायोगात् ।
द्वितीये तदापि न कुर्यात् ।
इदानीमसमर्थो ऽपि तदानीं समर्थत्वात्करिष्यतीति चेत् ।
तदा सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासो भावं भिन्द्यात् ।
द्वितीये त्वाद्यक्षण एव कर्तव्यस्य सर्वस्य कृतत्वात् द्वितीयादिक्षणे ऽसत्त्वमवर्जनीयमेव ।
तदेवमनुकूलतर्कबललब्धप्रतिबन्धस्य क्षणिकत्वानुमानस्य बलवत्त्वात्प्रत्यभिज्ञाप्रत्यनुमाने तद्बाधिते न स्थैर्यसाधनायालमिति ।
मैवम् ।
एषां तर्काणां प्रतितर्कपराहतत्वादिनाऽभासत्वात् ।
८,२२३
तथाहि ।
यद्यात्मानात्मप्रपञ्चः सर्वो ऽपि क्षणिकः स्यात्तदा प्रमाप्रमारूपः सर्वो(कलो)ऽप्यनुमानागमप्रत्यभिज्ञालक्षणो व्यवहारो लुप्येत ।
तर्कस्याप्यस्य नोत्थानं स्यात् ।
तस्य तज्जातीयस्य वा तेन तज्जातीयेन वा सह भूयः सम्बन्धावगमे (न)त तादात्म्यतदुत्पत्त्यवधारणेन (वा) चोपाध्यभावा(द्य)वधारणेन वा
व्यभिचाराभावनिश्चये सति व्याप्त्यवधारणम् ।
अवधृतव्याप्तेश्च पक्षदर्शनं लिङ्गदर्शनं च ।
ततो ऽनुभूतव्याप्तिस्मरणम् ।
अथ यन्मया व्याप्तत्वेन ज्ञातं लिङ्गं तदत्र पक्षे ऽस्तीत्यनुसन्धानम् ।
अथेदानीमनुमितिरित्यनुमानप्रक्रिया ।
न ह्येतत्सर्वं क्षणिकस्यात्मनः सम्भवति ।
येन हि सकृत् धूमो दृष्टो नष्ट एवासौ ।
कस्य भूयोदर्शनं कस्य च व्याप्त्यवधारणादि ।
यस्मिंश्च पर्वते धूमो दृष्टो नष्ट एवासौ ।
कुत्र पुनर्व्याप्तिलिङ्गानुसन्धानम् ।
कुत्र च साध्याध्यवसायः ।
८,२२४
एवमागमे ऽप्येकैकवर्णश्रवणानि, पदानुसन्धानम्, समयग्रहः, पुनः पदश्रवणम्, समयस्मरणम्, वाक्यार्थज्ञानमित्यनेकसंवि(कानुसन्धा)न्धानम्,
नात्मनः क्षणिकतायामुपपद्यते ।
प्रत्यभिज्ञानमपि येन पूर्वावस्थो ऽर्थो ज्ञातस्तेनैव तस्य वा तत्सदृशस्य वा दर्शने भवति ।
तत्कथं क्षणिकस्यात्मनः स्यात् ।
८,२२५
अनुमानेन तर्को ऽपि व्याख्यातः ।
प्रतिक्षणमात्मनो ऽनात्मनश्च भेदे ऽप्यनुमा(ना)द्यङ्गीकारे ऽतिप्रसङ्गः स्यात् ।
यस्य कस्यचिद्वयाप्तिज्ञाने नारिकेलद्वीपवासिनो ऽप्यग्निप्रमा (भवेत्) स्यात् ।
पर्वते लिङ्गदर्शनेन ह्रदे ऽप्यग्निरनुमीयेतेत्यादि ।
पूर्वोत्तरक्षणवर्तिनामात्मनां पर्वतादीनां च कार्यकारणभावादुपपन्नो ऽनुमानादिव्यवहार इति चेत्(न) ।
अन्यत्वस्यानपायात् ।
अन्यथोपाध्यायशिष्यबुद्धयादावपि प्रसङ्गात् ।
८,२२६
अथ मतम् ।
कारणक्षणाः कार्यक्षणेषु संस्कारानपर्यन्ति ।
अतः पूर्वपूर्वात्मसंस्कारयोगिनामुत्तरोत्तरेषामात्मनामनुमानादिव्यवहारो युज्यते ।
पर्वतादयो ऽपि (पूर्व)पूर्वसंस्कारभाजः पक्षादित्वमश्नुवते इति ।
एतन्निराकरणाय सूत्रम् ।
ओं उत्तरोत्पादे च पूर्वनिरोधात् ओं ।
इति ।
तद्वयाचष्टेउत्तरेति ।
उत्तरोत्पादे च पूर्वनिरोधात् । ब्ब्स्_२,२.२० ।
उत्तरोत्पत्तिमात्रेण विनाशात् पूवर्वस्तुनः ।
न संस्कारार्पकत्वं च युज्यते कस्यचित् क्वचित् । मनुव्_२,२.१८९ ।
८,२२७
न्यायसुधा-
कस्यचित् कारणस्य, कचित् कार्ये ।
ततः किमित्यत आहअत इति ।
अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः । मनुव्_२,२.१९०अब् ।
न्यायसुधा-
आत्मनः क्षणिकत्वात्संस्कारापर्णस्य चा(वा)सम्भवादित्यर्थः ।
यन्मया व्याप्तत्वेन ज्ञातं तदत्र विद्यत इत्यादि यथा भवति तथा न ज्ञेयं ज्ञातुमशक्यम् ।
ततश्चानुमा कुतः ।
आगमादेरप्युपलक्षणमेतत् ।
नन्वस्ति तावदनुमानादिव्यवहारः, सर्वलोकसिद्धस्यापह्नवायोगात् ।
तद्बलेनालौकिकमप्यसहभाविनः संस्कारार्पकत्वं कल्पयिष्यत इत्यत आहएकत्वमिति ।
एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा ।
कुत आत्मादिकेषु स्याद् … । मनुव्_२,२.१९०च्ए ।
न्यायसुधा-
किमनुमानादिव्यवहारान्यथानुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽत्मादेः क्षणिकत्वे ऽपि सति ।
नाद्यः ।
आत्मादेः स्थायित्वेनैव तदुपपत्तेः ।
द्वितीयस्तु स्यात् ।
यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात् ।
नच तदस्ति ।
प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः ।
एकत्वं भिदेत्यत्र पूर्वोत्तरकालयोरिति शेषः ।
अनुभूतिस्थं प्रत्यभिज्ञासिद्धम् ।
कुतो ऽङ्गीकार्येत्यध्याहारात्समानकर्तृतासिद्धिः ।
८,२२९
ननु च प्रत्यभिज्ञानं भ्रान्तमित्युक्तम् ।
तत्कथमात्मादेरैक्यं ततः सिद्धयेदित्यत आहवल्येवेति ।
… बल्येवानुभवो यतः । मनुव्_२,२.१९०फ़् ।
न्यायसुधा-
तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात्प्रत्यभिज्ञानं भ्रान्तं स्यात् ।
यदा तु तर्कस्योक्तविधयाऽभासत्वं, तदा कुतः क्षणिकत्वानुमानप्राबल्यम् ।
कुतश्च प्रत्यभिज्ञायास्तद्बाधः ।
अबाधितश्च प्रत्यभिज्ञानुभवो यतो बल्येव ।
अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः ।
एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम् ।
तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात् ।
८,२३०
नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधस्तथापि कुतः पूर्वस्योत्तरस्मिन्संस्कारानाधायकत्वमित्यत आहकार्यकारणयोश्चेति ।
कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च । मनुव्_२,२.१९१ ।
न्यायसुधा-
उत्तरोत्पाद एव पूर्वस्य निरोधात्कायर्कारणयोरेककालीनत्वं तावन्नास्तीति लभ्यते ।
एककालीनत्वं च विना पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते ।
नियमेन चेत्यनेन क्वचिदपि न युज्यते कुतः सर्वत्रेति सूचयति ।
यद्वैककालीनस्य एव संस्कारार्पकत्वं दृष्टं न भिन्नकालत्व इति व्याप्तेरित्यर्थः ।
नन्वेककालीनत्वाभावे ऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आहसम्बद्धा एवेति ।
सम्बद्ध एव संस्कारमन्यत्रादत्तते ऽखिलाः ।
असम्बद्धः कथं पूर्व उत्तरे वासनाकरः । मनुव्_२,२.१९२ ।
८,२३१
न्यायसुधा-
यस्मात् अखिलाः संस्काराधायकाश्चाम्पककुसुमादयः पदार्थास्तैलादिभिः सम्बद्धा एव अन्यत्र तैलादौ संस्कारमादधते, नासम्बद्धा इत्यस्ति
नियमः ।
नच भिन्नकालीन(ल)योः सम्बन्धो युज्यते ।
तस्मादुत्तरेणशसम्बद्धः पूर्वस्तस्मिन्नुत्तरे वासनां न कुर्यादिति ।
उक्तमर्थं बुद्धयारोहार्थं सङ्कलय्याहएककालतयेति ।
एककालतया योगं विना संस्कारतः कथम् । मनुव्_२,२.१९३अब् ।
न्यायसुधा-
अत्रैककालतया विना कार्यकारणयोर्योगो न युज्यते ।
योगं विना कारणस्य कार्ये संस्कारार्पकत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना ।
संस्कारापर्कत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना ।
यदीदं सङ्कलनं न क्रियेत तदा पूर्वो(क्तहेतूनां)क्तानां प्रत्येकं संस्कारानाधयकत्वे हेतुत्वं ज्ञायेत ।
सर्वत्र साध्यनिर्देशात् तत्र को दोषः ।
उक्ताकाङ्क्षाकुण्ठितत्वमेवेति ।
अत्रैते प्रयोगाः ।
पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात् ।
यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः ।
यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टो यथा सम्मतः ।
असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेदविशेषात् ।
असम्बद्धश्च पूर्व उत्तरेण ।
ततो भिन्नकालीनत्वात् ।
सम्प्रतिपन्नवत् ।
भिन्नकालीनयोरपि सम्बन्धे ऽतिप्रसङ्गः ।
भिन्नकालीनश्च पूर्वं उत्तरेण ।
तदुत्पाद एव विनष्टत्वात् ।
सम्मतवत् ।
प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति ।
ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत्किन्न स्यादिति चेत्(न) ।
तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात् ।
अत्र च परसिद्धन्यायेन परस्य बोधनान्नाश्रयासिद्धयादि शङ्कनीयमिति ।
८,२३६
भवेदेतद्यदि कारणस्य कार्योत्पाद एव विनाशः स्यात् ।
स एव कुतः सिद्ध इत्यत आहक्षणमात्रमिति ।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु । मनुव्_२,२.१९३च्द् ।
न्यायसुधा-
कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम् ।
यौगपद्ये कायर्कारणभावव्याघातात् ।
ततः पूर्वक्षणवर्ति कारणं यदि कायर्क्षणे ऽपि स्यात्तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत ।
अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति ।
स्यादेतत् ।
कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्यङ्गीकारे न को ऽपि दोष इत्यत
आहपूर्वेति ।
पूर्वमध्यापरकलारहितः क्षण इष्यते । मनुव्_२,२.१९४अब् ।
न्यायसुधा-
अत्र विभागमात्रं कलोच्यते ।
पूर्वापरयोरभावे तन्निरूप्यमध्याभावः सिद्धः ।
इष्यते सौगतैः ।
८,२३७
एवं तर्कस्य प्रतितर्कपराहतिमभिधायेदानीं यथा स्थायिनः सत्त्वानुपपत्तिरेवं क्षणिकस्यापि तदनुपपत्तेरनुकूलता नाम तर्कदोष इति
प्रतिपादयितुं सूत्रम् ओं असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ओं ।
इति ।
तद्वयाचक्षाणस्तावद्विकल्पेन तत्पृच्छतिपूर्वेति ।
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा । ब्ब्स्_२,२.२१ ।
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम् । मनुव्_२,२.१९४च्द् ।
८,२३७फ़्.
न्यायसुधा-
अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम् ।
तच्च वक्ष्यमाण(वि)कल्पद्वय(येन)व्याप्तम् ।
तृतीयप्रकारानिरूपणात् ।
नच तत्क्षणिके सम्भवति ।
तथाहि क्षणिकाद्भावाद्भवत्कार्यं किं पूर्वस्य कारणस्य भावे भवति ।
कारणसत्तासमानकालीनसत्तमिति यावत् ।
उत तस्य कारणस्य नाशे सति सम्भवतीति ।
८,२३८
आद्ये दोषमाहयौगपद्यमिति ।
यौगपद्यं सति भवेदुत्पाद्यानामशेषतः । मनुव्_२,२.१९५अब् ।
न्यायसुधा-
सति कारणे ।
कार्यं भवति चेत् तर्हीति शेषः ।
क्षणिकं हि कारणम् ।
कार्यं च तत्सत्तासमानकालीनसत्तं चेत्कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात् ।
क्षणे विभागाभावस्योक्तत्वात् तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविना(प्य)मशेषकार्याणां यौगपद्यं स्यात् ।
तच्च प्रत्यक्षादिविरुद्धमिति ।
अत्र यद्यपि युगपद्भवतोः कार्यकारणभावानुपपत्तिरपि दूषणम् ।
तथापि तच्छिष्यैरेव ज्ञातुं शक्यत इति,’उभयथा च दोषात्’ इति सूत्रे कथितमिति वा(चा)त्र नोक्तम् ।
द्वितीयं निराकरोतिविनाशे चेदिति ।
विनाशे चेन्न तत्कार्यं … । मनुव्_२,२.१९५च् ।
न्यायसुधा-
कारणस्य कार्यं भवेत्तर्हीति शेषः ।
तत्तस्य कार्यं न भवतीत्यापन्नम् ।
अन्यथा सर्वस्य सर्वं कार्यं स्यात् ।
न ह्यानन्तर्यमात्रेण कार्यकारणभावः ।
तथात्वे विनाशकार्यत्वप्रसङ्गात् ।
आनन्तर्यस्यान्यापेक्षयापि सत्त्वात् ।
सादेश्यादेरपाकृतत्वात् ।
एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा ।
उभयथापि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति ।
सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम् ।
भाष्यकृता त्वभावस्य भावसापेक्षत्वात्तेन क्रमेणातो ऽर्थविरोधाभावः ।
८,२४१
नन्वस्ति तावत्प्रतिक्षणं कार्योत्पत्तिः ।
नच कार्यं कारणेन विनोत्पत्तुमलम् ।
तथा सति नित्यं सत्त्वमसत्त्वं वे(चे)त्यापत्तेः ।
अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति ।
पक्षान्तरं वा ग्राहयिष्यतीत्यत आहकार्योत्पत्तौ चेति ।
… कार्योत्पत्तौ च का प्रमा । मनुव्_२,२.१९५द् ।
न्यायसुधा-
स्यादेतद्यदि प्रतिक्षणं कार्योत्पत्तिः प्रमाणवती स्यात् ।
न चैतदस्ति ।
नच स्वाङ्गीकारमात्रेणार्थान्तराक्षेपसामर्थ्यमतिप्रसङ्गादिति ।
नन्वस्ति, यत्सत्तत्क्षणिकं यथा देहादि, सच्च विवादपदमिति प्रतिक्षणं कार्योत्पत्तौ प्रमाणमिति चेन्न ।
अस्यैव निराक्रियमाणत्वात् ।
देहादीनाम(देह)पि क्षणिकत्वाभावेन दृष्टान्तस्य साध्यविकलत्वाच्च ।
ननु देहादेः पूर्वोत्तरक्षणयोः परिमाणभेदेन भेदसिद्धौ क्षणिकत्वसिद्धिरित्युक्तमित्यस्य आहअभेदे ऽपीति ।
अभेदेन विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकम् … । मनुव्_२,२.१९६अद् ।
८,२४१फ़्.
न्यायसुधा-
पूर्वोत्तरक्षणयोरिति शेषः ।
विशेषेण आरम्भवादद्वैलक्षण्येन ।
आदिपदेनाङ्कुरादि ।
विशेषदर्शनं परिमाणभेददर्शनम् ।
अस्माकं परिणामवादिनां मते ।
अयमथर्ः ।
आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति ।
अवयवसङ्खयातिशयानतिशयायत्तत्वात्परिमाणभेदस्य ।
अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात् ।
अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव ।
अस्माकं त्ववस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां त(त्त)त्परिमाणकतया विक्रियत इति दर्शनम् ।
तत्र परिमाणभेदो न भेदमाक्षिपतीति ।
८,२४२
किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः ।
आद्ये सिद्धसाधनम् ।
भेदस्यास्माभिरप्यङ्गीकृतत्वात् ।
तावता क्षणभङ्गासिद्धेः ।
द्वितीये दोषमाहअनुभूतित इति ।
… अनुभूतितः । मनुव्_२,२.१९६द् ।
विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः । मनुव्_२,२.१९७अब् ।
न्यायसुधा-
तदिदं फलमिति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमिति शेषः ।
भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत् ।
तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः ।
परिमाणभेददर्शनं बाधकाभावात्प्रमाणमेवेति चेत्तत्राहविशेषेति ।
८,२४३
तर्हि स्थैर्यदृक्कुतो न मानम् ।
तस्या अपि बाधकरहितत्वात् ।
विशेषदर्शनं बाधकमिति चेत् ।
तर्हि स्थैर्यदर्शनं कुतो न बाधकम् ।
अतो ऽनुपलभ्यमानविशेषयो(रनयोर्)बाध्यबाधकभावायोगादन्योन्यप्रतिपक्षताननुभवाच्चान्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव
व्यवस्थापनं युक्तम् ।
अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्यं स्यादिति ।
एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम् ।
८,२४४
नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण(मतो)व्याख्यातानि ।
उच्यते ।
उपोद्घातप्रक्रियया सूत्रकारेणैवादौ बाधकानि निराकृत्यान्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता ।
भाष्यकारेण तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेणादौ प्रत्यभिज्ञामभिधायानन्तरं तद्बाधकानि परिहृतानीति ।
८,२४५
दुःखाभावं सुखं चाहुरिति यदनूदितं तन्निराकरोतिदिगिति ।
दिक्सुखे च खदृष्टान्ताद् भावौ सच्चेत् क्वचिद् भवेद् । मनुव्_२,२.१९७च्द् ।
न्यायसुधा-
स्वदृष्टान्तादित्याकाशस्य भावत्वे यो न्यायो ऽभिहितस्तस्मादिति हेत्वतिदेशः ।
धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः ।
सद्भावः क्वचिद्भवेच्चेत्तद्दृष्टान्तेनेति शेषः ।
अनेनान्यथा रूपादिनामपि भावत्वं न स्यादविशेषादिति बाधकं सूचयति ।
यद्यपि दिशो नाकाशाद्भिद्यन्ते ।
तथाप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम् ।
एकवचनं तु जात्यभिप्रायम् ।
एतेनाकाशे चाविशेषादिति सूत्रं प्रकारान्तरेण व्याख्यातं भवति ।
आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमिति निरस्तम् ।
आत्मनो ज्ञानात्मकत्वं तु नास्माकं अनिष्यम्(विरुद्धम्) ।
क्षणभङ्गिताया निरस्तत्वात् ।
ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात् ।
मोक्षस्तु चतुर्थे परीक्षिष्यते ।
८,२४७
स्यादेतत् ।
वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः स एव निराकृतः ।
यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः’प्रमाणं तावद्विविधम् ।
प्रमेयद्वैविध्यात् ।
तत्र ज्ञानातिरिक्तः सर्वे ऽपि रूपादिप्रपञ्चो ऽनुमेय एव न तु प्रत्यक्षः ।
ज्ञानं (तु) नीलाद्याकारं प्रत्यक्षवेद्यम्’ इति ।
स कस्मान्न निराकृत इत्यत आहविश्वमिति ।
विश्वं प्रत्यक्षगं त्यक्तवा तयोर्यो ऽनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता । मनुव्_२,२.१९८ ।
न्यायसुधा-
तयोः वैभाषिकसौत्रान्तिकयोर्मध्ये यः सौत्रान्तिको विश्वं रूपादिकं प्रत्यक्षगं त्यक्त्वा रूपादेर्विश्वस्य प्रत्यक्षवेद्यतां
वैभाषिकादिभिरभ्युपगतामनभ्युपगम्येति यावत् ।
अनुमितं वदेत् रूपादेर्विश्वस्यानुमानवेद्यतामङ्गीकुर्यात् ।
मायावादिना तुल्यं वर्तत इति मायावादिवत् ।
एतदुक्तं भवति ।
यथा सर्वान्दुःसमयानपाकुर्वता(ऽपि) सूत्रकृता न मायावादो ऽत्र पादे निराकृतः ।
तस्यात्यन्तनिर्दलस्योपेक्षैव कार्या ।
न त्वीषत्सदलैः साङ्खयादिसमयैः सह निरास इति ज्ञापनार्थम् ।
तथा बाह्यानुमेयतावादो ऽपीति ।
ननु मायावादः सूत्रोत्पत्त्युत्तरकालभावी ।
तस्य कथं निरासप्रसक्तिः ।
मैवम् ।
‘अनादिकालतो वृत्ताः’ इत्यक्तत्वात् ।
अन्यथा साङ्खयादिनिरासस्याप्यप्रसक्तेरिति ।
व्यास३
८,२४९
नन्वप्रतिषिद्धमनुमानं भवतीति न्यायेन नीलादेर्विश्वस्याप्रत्यक्षत्वं सूत्रकारस्याभिमतमेवेति कुतो न कल्प्यते ।
(नैवं) नचैवं शक्यम् ।
प्रमाणाविरुद्धः प्रमाणानुसारी च सूत्रकारस्याभिप्रायः कल्पनीयः ।
नचायमर्थस्तथेत्याशवानाहसर्वेति ।
सर्वप्रमाणसिद्धं यद् बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं … । मनुव्_२,२.१९९अच् ।
न्यायसुधा-
अयमत्रोत्तरक्रमः ।
नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते ।
नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात् ।
इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च ।
अथ मतम् ।
येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति ।
तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते ।
अतो ऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद्दोष इति ।
अत्रेदमुपतिष्ठते ।
यदपरोक्षतयावभासमानं नीलाद्याकारचक्रं बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धम् ।
तस्य कथं नु बुद्धित्वमङ्गीक्रियते ।
बहिर्मुखतयेदन्तेन ह्ययं नीलाद्याकारो ऽपरोक्षमवभासते ।
न जात्वन्तर्मुखतयाहं नीलमिति ।
तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते ।
तेनानुमीयते ऽनेन बहिरर्थ एव साक्षात्कृत इति ।
न ह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते ।
अतिप्रसङ्गात् ।
मध्ये ऽनुमानं तु निरसिष्यते ।
एवमाप्तो ऽपि किमपरोक्षतया पश्यसीति पृष्टो ऽङ्गुलिं प्रसार्येदमिति बाह्यमेव ब्रवीत्यतस्त्रिभिरपि प्रमाणैरपरोक्षतयावभासमानस्य
नीलाद्याकारस्य बुद्धितो भेद एवावसीयते ।
न चेदं सर्वं भ्रान्तम् ।
कदाप्यन्यथाप्रतीत्यभावात् ।
विनैव बाधकेन भ्रान्तित्वाभ्युपगमे ऽतिप्रसङ्गात् ।
अतो ऽपरोक्षतयावभासमानो नीलाद्याकारो बाह्य एव, नतु बुद्धिगत इति ।
८,२५१
किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात् ।
प्रमाणाभावात् ।
तथाच बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याहविश्वमिति ।
… विश्वमन्यच्च किम्प्रमम् । मनुव्_२,२.१९९द् ।
न्यायसुधा-
अन्यत् ज्ञानमिति शेषः ।
का प्रमा यस्य तत् किम्प्रमम् ।
अनुमेयो बाह्याकार इति चेत्(न) ।
सर्वथासिद्धस्य पक्षीकरणायोगात् ।
लिङ्गाभावाद्वयाप्त्यसिद्धेश्च ।
स्यादेतत् ।
बुद्धिगतस्तावदाकारो ऽपरोक्षमवभासते ।
स कादाचित्कत्वात्किमपि कारणमेपक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति ।
मैवम् ।
बाह्यतयैव नीलाद्याकारस्य स्फुरणात् ।
कुत्र चेदमुलब्धम्, यत्कादाचित्कं तत्कारणवदिति ।
ज्ञान एवेति चेत्(न) ।
बाह्याप्रत्यक्षत्ववादे तत्रापि कारणत्वानवधारणात् ।
ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत् ।
तर्ह्याकारो ऽपि पूर्वाकारजन्यः कल्प्यताम् ।
किं बाह्यार्थव्यसनेन ।
नीलज्ञानानं(नोत्पादान)न्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत्(न) ।
सदृशजन्यत्वस्य परेण क्वाप्यनुप(गन्तव्य)लब्धत्वात् ।
८,२५३
किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृश(मेव)मपि ज्ञानं जनयतीति कल्पनीयम् ।
न बाह्यम् ।
दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः ।
अतो बाह्यो ऽ(प्यर्)थः प्रत्यक्षसिद्ध इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम् ।
यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाहसर्वेति ।
सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः । मनुव्_२,२.२०० ।
न्यायसुधा-
माध्यमिकादयो ऽपि बाह्यार्था(द्वय)नपह्नुवाना अपि ह्यनुभवाद्बिभ्यतः सांवृवसत्त्वाद्यभ्युपयन्ति ।
ततः सर्वैरनुसरणीय एवायमनुभवः ।
तमपि यः सौत्रान्तिको ऽपलपति, अनुभवसिद्धाया अपरोक्षस्य नीला(द्या)कारस्य बाह्यताया अपाकरणात् ।
तथा निष्प्रमाणकं वदति, नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात् ।
तस्य(स्याप्य) अनुभवस्य अपलापिनः निष्प्रमाणकवादिनस्तस्य सौत्रान्तिकस्य किं दूषणं न भवेत् ।
सर्वमपि भवेदिति ।
८,२५४
‘एकत्वमनुभूतिस्थम्ऽ‘खदृष्टान्तात्ऽ‘तस्यापलापिनः’ इति परपक्षे तत्र तत्रानुभवविरोधो ऽभिहितः ।
स कथमित्यतो ऽभिनयेन तं दर्शयतिसो ऽहमिति ।
८,२५५
सो ऽहं तदिदमेवाहं सुखी सद् गगनं दिशः ।
सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः । मनुव्_२,२.२०१ ।
न्यायसुधा-
अत्र स एवाहमित्यात्मैकत्वाग्राही प्रत्यभिज्ञानुभवो दर्शितः ।
तदिदमित्यनात्मन ।
अहं सुखीति सुखस्य विधित्वानुभवः ।
सत् भावरूपं गगनं, दिशः सत्या भावरूपा इति गगनस्य (च) दिशां च भावत्वानुभवः ।
आदिपदादिदं नीलं नाहं नीलमित्यादेः (परिग्रहः) ग्रहणम् ।
तत्प्रतिपक्षगाः तदभ्युपगताथर्विरुद्धविषयाः ।
वैभाषिकसौत्रान्तिक(मत)समयनिराकरणमुपसंहरतिअत इति ।
अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।
दुर्मतं को नु गृह्णीयाद् विनासुरततिं क्वचित् । मनुव्_२,२.२०२ ।
न्यायसुधा-
अखिलप्रमाणप्रतिपक्षगं सर्वप्रमाणविरुद्धार्थविषयम् ।
अत एव दुर्मतम् ।
दिङ्नागप्रभृतिभिर्बहुभिर्गृहीतत्वात्कथं को नु गृह्णीयादित्याक्षेप इत्यत उक्तम्विनेति ।
सत्पुरुषविषय एवायमाक्षेप इति भावः ।
नचैवं निराकरणवैयर्थ्यम् ।
उक्तार्थानुसन्धाने को नु गृह्णीयादिति व्याख्यानादिति ।
। इति श्रीमन्न्यायसुधायां समुदायाधिकरणम् ।
__
८,२५७