१६ वैशेषिकाधिकरणम्

। अथ श्रीमन्न्यायसुधायां वैशेषिकाधिकरणम् ।
महद्दीर्घवद् वा ह्रस्वपरिमण्डलाभ्याम् । ब्ब्स्_२,२.११ ।
। ओं महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ओं ।
नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः ।
युक्तमीशं वदन्त्यन्ये … । मनुव्_२,२.५१अच् ।
न्यायसुधा-
अत्र परमाण्वारम्भवादिनां वैशेषिकादीनां मतमपाक्रियते ।
ननु वैशेषिकादयः परमेश्वरमङ्गीकुर्वन्त्येव ।
तत्कथं तन्निरासायाधिकरणारम्भ इत्याशङ्कय यद्यपीश्वरं स्वरूपेणाङ्गीकुवर्न्ति तथापि तद्धर्मेषु सुखादिषु विप्रतिपद्यन्त एव ।
तथा सृष्टिप्रलयादिविधिं चान्यथा मन्यन्त इत्यतो युक्तस्तन्निरासायाधिकरणारम्भ इत्याशयवांस्तन्मतमुपन्यस्यतिनित्येति ।
ईशं वदन्तो ऽन्ये इत्याहुरिति वक्ष्यमाणेनान्वयः ।
नित्या ज्ञानप्रयत्नेच्छा यस्यासौ तथोक्तः ।
सङ्खयाद्यैः सङ्खयापरिमाणपृथक्तवसंयोगविभागैः ।
सावधारणं चैतत् ।
एवमष्टगुणकमेव वदन्त इति ।
नित्यद्रव्याश्रितान्येकत्वैकपृथक्तवपरिमाणानि नित्यान्येव द्वित्वद्विपृथक्तवादीनि संयोगविभागौ च सवर्त्रानित्या एवेति सिद्धत्वात्सङ्खयादौ
विद्यमानो ऽपि नित्यानित्यविभागो नाभिहितः ।
ज्ञानादीनां तु जीवाश्रितानामनित्यत्वादत्र नित्यत्वसङ्कीर्तनम् ।
यद्यपि केचिदीश्वरं षड्गुणमाचक्षते ।
तथापि न तत्परमं मतमित्यष्टगुणत्वमेवोपन्यस्तम् ।
एवमात्रेयस्य ज्ञानानित्यत्वमपि नोपन्यस्तम् ।
यद्वा नित्यत्वसङ्कीर्तनं गुणान्तराभावे युक्तित्वेन कृतम् ।
तथाहि ।
जीवात्मानो बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनाभिर्नवभिर्विशेषगुणैर्युक्ताः ।
तत्र नित्ययथार्थज्ञानस्य मोहाभावात्तत्प्रभवस्य द्वेषस्याभावः ।
तदभावे तन्मूलयोर्धर्माद्ययोरभावः ।
इच्छाया अपि मोहाभावेनारागरूपत्वान्न धर्मादिकारणत्वम् ।
धर्माद्यभावे च तत्कार्ययोः सुखदुःखयोरभाव एव ।
नित्यज्ञानत्वादेव स्मृत्यसम्भवेन कल्पकाभावाद्भावनाया अप्यभाव इति ।
अथवा नित्यत्वेन ज्ञानादीनामखण्डत्वं सूचयति ।
७,२४२
एवमपीश्वरविषयां विप्रतिपत्तिमुपन्यस्य सृष्टिविषयामुपन्यस्यतितदिच्छेति ।
… तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशो ऽखिलाः । मनुव्_२,२.५१द्फ़् ।
न्यायसुधा-
महाप्रलये हि वक्ष्यमाणो नित्यवर्गो ऽनित्याश्च धर्माधर्मसंस्कारादयो ऽवतिष्ठन्ते ।
ततो ब्रह्मवर्षशतान्ते प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षा सञ्जायते ।
तया च सर्वात्मगता धर्माधर्मलक्षणादृष्टादयो लब्धवृत्तयो भवन्ति ।
ततस्तदिच्छया सिसृक्षालक्षणेश्वरेच्छयादृष्टैरदृष्टवदात्मसंयोगैश्चेति यावत् ।
चोदिताः प्रेरिताः ।
क्रियावन्त इति यावत् ।
प्राक् प्रविभक्ततयावस्थिताः परमाणवश्चतुर्गुणाः पाथिर्वाः पाथसीयास्तैजसा वायवीयाश्च द्विशः संयुज्यन्ते ।
अत्र परमाणव इत्येवोक्ते मनसामपि ग्रहणं स्यात् ।
तेषां संयोगसद्भावे ऽपि वक्ष्यमाणं द्रव्यारम्भकत्वं गगनवदस्पर्शवत्त्वादयुक्तम् ।
अतस्तद्वयावृत्तये चतुर्वर्गा इत्युक्तम् ।
यद्वा सजातीयसंयोग एव द्रव्यारम्भको न त्वन्य इति अनेन सूचयति ।
अखिला इति ।
द्विशः संयोगे नियमवचनात् ।
ये परमाणवो द्रव्यारम्भाय संयुज्यन्ते ते ऽखिला द्विशो द्वौ द्वावेवेति ।
७,२४९
ततः किमित्यत आहपरमाण्विति ।
परमाणुद्वयेनैव द्वयणुकं नाम जायते ।
द्वयणुकत्रयेण त्र्यणुकं तैश्चतुर्भिस्तदात्मकम् । मनुव्_२,२.५२ ।
ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः । मनुव्_२,२.५३ ।
न्यायसुधा-
परमाणुपुञ्जवादं परिणामवादमनियमवादं चैवशब्देन व्यावर्तयति ।
परमाणुद्वयेनैव, नतु निरन्तरतयोत्पन्नपरमाणुद्वयं, नापि परमाणुद्वयमेव संयुक्तमासादितपरिणामविशेषं, नच त्रयादिनेति ।
जायते इत्यसत्कार्यवादं सूचयति ।
जात्यपेक्षयैकवचनम् ।
ततश्च संयुक्तसजातीयपरमाणुद्वयैस्ततो ऽत्यन्तभिन्नानि तत्समवेतानि प्रागसन्त्येव द्वयणुकनामकानि द्रव्याण्युत्पद्यन्त इत्यर्थः ।
द्वयणुकत्रयेण त्र्यणुकं जायते इत्यनुर्वते ।
एवेति च ।
अत्रापि पूर्ववद्वयाख्यानम् ।
अणुत्वपरिमाणस्य परमाणौ द्वयणुके च साम्याद्द्वयणुकसञ्ज्ञावत्त्र्यणुकसञ्ज्ञाप्युपपद्यत एव ।
तैः सजातीयैः संयुक्तैश्चतुर्भिस्त्र्यणुकैः तदात्मकं द्रव्यं जायते ।
त्र्यणुकेष्वणुसञ्ज्ञोपचारात् ।
केचित् द्वयणुकैरेव चतुरणुकारम्भमभ्युपयन्ति ।
तन्मतानुसारेण तैद्वर्यणुकैरिति व्याख्येयम् ।
द्वयणुकानि त्रीणि (द्रव्यं) यत्कायर्मारभन्ते तत्त्र्यणुकम् ।
चतुर्भिरारब्धं चतुरणुकमिति ।
अत्र च सञ्ज्ञा मुख्यैव ।
ततः त्र्यणुकेभ्यश्चतुरणेकेभ्यो वा ।
तुशब्दो विशेषार्थः ।
तमेवाह ।
अनियमेनैवैतावद्भिरेवेति सङ्खयानियमं विनेत्यर्थः ।
द्रव्यसमवायिकारणानि कायर्द्रव्याणि खण्डावयविनः ।
त्र्यणुकादेरन्त्यावयविनश्च मध्ये नैकमेव खण्डावयवि किन्तु अनियमेनानेकान्यपि भवन्तीति सूचयितुं बहुवचनम् ।
ततः तैः खण्डावयविभिश्चानियमेनैव सङ्खयानियमं विनैव सर्वावयविनामन्त्यावयविनां शरीरेन्द्रियविषयाणां सम्भवः ।
तदनेन द्रव्योत्पत्तिरभिहिता ।
गुणानां कर्मणां च स्वाश्रयद्रव्येषूत्पादो द्रष्टव्यः ।
७,२५३
सर्वमपि कार्यं भावरूपं कारणत्रितयजन्यम् ।
कारणानि च समवाय्यसमवायिनिमित्तानामानि ।
तत्र य(त्सम)त्र समवेतं कायर्मुत्पद्यते तत्समवायिकारणम् ।
तत्स्वरूपेण दर्शयतिकारणमिति ।
कारणं समवाय्याख्यं परमाण्वादि तत्र हि । मनुव्_२,२.५४अब् ।
न्यायसुधा-
अत्र द्वयणुकादिकार्योत्पत्तौ परमाण्वादिद्रव्यपदार्थः समवायिकारणम् ।
कुतः ।
अत्र परमाण्वादौ द्रव्ये हि यस्मात्सर्वकार्यं समवेतमुत्पद्यते तस्मादिति शेषः ।
७,२५४
समवाय्यसमवायिव्यतिरिक्तं कारणं निमित्तम् ।
तदुदाहरतिईशेति ।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम् । मनुव्_२,२.५४च्द् ।
न्यायसुधा-
निमित्तं त्वित्यन्वयः ।
इदं च सर्वकार्यसाधारणं निमित्तं दर्शितम् ।
एवमन्यदपि द्रष्टव्यम् ।
यथा तुरीवेमादिकं पटस्येत्यादि ।
७,२५५फ़्.
समवायिकारणप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् ।
समवायिकारणतत्समवायिकारणयोरन्यतरसमवेतत्वं समवायिकारणप्रत्यासन्नत्वम् ।
सामर्थ्यावधारणं चानन्यथासिद्धनियतपूर्वभावित्वेन भवति ।
तच्चासमवायिकारणं द्रव्यं समवायिकारणमितिवन्नैकोक्तया वक्तुं शक्यम् ।
प्रतिकार्यं पृथक्तवात् ।
अतस्तद्विवेकेन दर्शयितुं तज्ज्ञानस्य कायर्ज्ञानसापेक्षत्वात्कार्याकार्यविभागं तावदाहसामान्येति ।
७,२५६
सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके । मनुव्_२,२.५५ ।
न्यायसुधा-
कार्यत्वानित्यत्वयोः समनियमान्नित्यानित्यविभागोक्तया कार्याकार्यविभाग एव सिद्धयति ।
७,२५७
षडिमे द्रव्यगुणकर्मसामान्यविशेषसमवायाः भावरूपाः पदार्थाः ।
अभावः सप्तमः ।
विधिरूपो भावः ।
निषेधरूपो अभावः ।
गुणाश्रयो द्रव्यम् ।
समवायिकारणं वा ।
सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः ।
चलनात्मकं कर्म ।
नित्यमेकमने(कानुगतं)कसमवेतं सामान्यम् ।
नित्येष्वेव द्रव्येष्वेव वर्तन्त एव ये ते (अन्त्य)विशेषाः ।
अत्यन्तव्यावृत्तिहेतवो वा ।
अयुतसिद्धयोः सम्बन्धः समवायः ।
अवश्यमाश्रयाश्रयिभावेनावस्थितावयुतसिद्धौ ।
नित्यः सम्बन्धो वा ।
७,२६६
तत्र सामान्यमन्त्यविशेषश्च समवायश्चेत्येतत्त्रयं नित्यमकार्यं च ।
विशेष इत्येवोक्ते द्रव्यगुणकर्मसामान्यानामपि ग्रहणं स्यात् ।
विशिष्टते ऽनेनेति हि विशेषः ।
द्रव्यं च दण्डादिकमदण्ड्यादिभ्यो देवदत्तादिकं व्यावर्तयति ।
गुणश्च निर्गुणाद्द्रव्यम् ।
कर्मापि निष्क्रियान्मूर्तम् ।
सामान्यं द्विविधं परमपरं च ।
परं सत्ता प्रचुराश्रयत्वात् ।
अपरं द्रव्यत्वादि अल्पाश्रयत्वात् ।
तत्र परसामान्यस्यानुवृत्तिमात्रहेतुत्वेन सामान्यमात्रत्वे ऽप्यपरसामान्यं व्यावृत्तेरपि हेतुत्वाद्विशेषो ऽपि ये व्यावर्तका भवन्ति ते ऽन्त्याः ।
अत्यन्तव्यावृत्तिहेतव इति यावत् ।
नहि दण्डादिकं तथा ।
दण्ड्यन्तरादिभ्यो ऽव्यावर्तकत्वात् ।
७,२६९
क्रिया उत्क्षेपणापक्षेपणाकुञ्चनप्रसरणगमनरूपा अनित्याश्च ।
चशब्दो ऽवधारणे ।
न द्रव्यादिवदुभयरूपा इत्यर्थः ।
गुणा द्रव्याणि च नित्यानित्यभेदेन द्विविधानीति ।
तथाहि ।
द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालादिगात्ममनांसि ।
तत्र परमाणुरूपाणि पृथिव्यादीनि चत्वारि, गगनादीनि पञ्च नित्यानि ।
द्वयणुकादिरूपाणि पृथिव्यादीनि चत्वार्यनित्यानीति ।
गुणाश्चानित्यद्रव्यगता अनित्या एव ।
पार्थिवपरमाणावैकत्वैकपृथक्तवपरिमाणगुरुत्वानि नित्यानि ।
रूपरसगन्धस्पर्शानेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
(आप्ये च) पाथसीये च रूपरसस्पर्शैकत्वैकपृथक्तवपरिमाणगुरुत्वद्रव्यत्वस्नेहा नित्याः ।
अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
तैजसे च रूपस्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्त्वसंयोगविभागपरत्वद्रव्यत्वसंस्कारा अनित्याः ।
वायवीये च स्पर्शैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
आकाशे चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अकेत्वानेकपृथक्तवसंयोगविभागशब्दा अनित्याः ।
काले दिशि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागा अनित्याः ।
आत्मनि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागा बुद्धयादयश्च नव अनित्याः ।
ईश्वरस्यापि विशेषो ऽभिहितः ।
मनसि चैकत्वैकपृथक्तवपरिमाणानि नित्यानि ।
अनेकत्वानेकपृथक्तवसंयोगविभागपरत्वापरत्वसंस्कारा अनित्याः ।
इति विवेकः ।
७,२७१
एवं कार्याकार्यविभागमुक्तवा यस्य यदसमवायिकारणं तदाहकार्य इति ।
कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम् । मनुव्_२,२.५६ ।
न्यायसुधा-
कार्यकारणग्रहणमुपलक्षणम् ।
ततश्च कार्ये ऽकार्ये च द्रव्ये जायमानानां गुणानां समवायिकारणसमवायिकारणस्थाः समवायिकारणस्थाश्च गुणाः समवायिकारणस्थं कर्म च
समवाय्यन्यकारणं असमवायिकारणम् ।
कर्मणश्च असमवायिकारणस्था गुणा एवासमवायिकारणमिति योज्यम् ।
आद्यस्तुशब्दो द्रव्याद्विशेषं द्योतयति ।
द्वितीयस्य द्रव्यकारणं त्वित्यन्वयः ।
यद्वा द्वावप्यनुक्तसमुच्चयार्थौ ।
तच्चोक्तम् ।
तथाहि ।
कार्यगतानां रूपरसगन्धस्पर्शपरिमाणैकत्वैकपृथक्तवोत्तरसंयोगविभागगुरुत्वद्रवत्वस्नेहवेगानां कारणगता रूपादयो ऽसमवायिकारणम् ।
पार्थिवपरमाणुगतानां रूपरसगन्धस्पर्शानां पार्थिवतैजसपरमाणुगतद्रव्यस्य तद्गत एव तेजः संयोगः ।
सर्वत्रानेकत्वानेकपृथक्तवयोराश्रयगतैकत्वैकपृथक्तवानि ।
संयोगविभागवेगानामाश्रयगतं कर्म ।
परत्वापरत्वयोराश्रयगतौ दिक्कालसंयोगौ ।
आत्मविशेषगुणानामात्मगतो मनः संयोगः ।
शब्दस्याकाशगताः संयोगविभागशब्दाः ।
कर्मणश्चाश्रयगता गुरुत्वद्रवत्ववेगसंयोगा इति ।
द्रव्यस्य तु समवायिकारणानामवयवानां संयोगो ऽसमवायिकारणमिति ।
७,२७५
उक्तस्य क्वचिदपवादमाहएवमिति ।
एवं स्थिते ऽपि सिद्धान्ते विशेषस्तत्र कल्पितः । मनुव्_२,२.५७अब् ।
न्यायसुधा-
कारणगतं परिमाणं कार्यगतस्य परिमाणस्यासमवायिकारणमित्येवं सामान्यतः सिद्धान्ते स्थिते ऽपि, तत्र परिमाणविशेषे विशेषो ऽन्यथाभावः
कल्पितो वैशेषिकैः ।
कथमित्यत आहद्वयणुक इति ।
द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम् । मनुव्_२,२.५७च्द् ।
न कारणं कार्यगुणे … । मनुव्_२,२.५८अ ।
न्यायसुधा-
चतुर्विधं परिमाणम् ।
अणुत्वं महत्त्वं ह्रस्वत्वं दीर्घत्वं च ।
तत्राणुत्वं द्विविधं, नित्यमनित्यं च ।
नित्यं चतुर्विधपरमाणौ मनसि च ।
पारिमाण्डल्यमिति चोच्यते ।
अनित्यं द्वयणुक एव ।
महत्त्वमपि द्विविधं नित्यानित्यभेदात् ।
नित्यमाकाशकालदिगात्मसु परममहत्त्वम् ।
अनित्यं त्र्यणुकादौ कायर्द्रव्ये ।
ह्रस्वत्वं द्वयणुक एव ।
दीर्घत्वं त्र्यणुकादिकार्यद्रव्य एव ।
केचित्परमाणावपि ह्रस्वत्वं गगनादावपि दीर्घत्वमभ्युपयन्ति ।
तत्र द्वयणुके वर्तमानं ह्रस्वत्वम् ।
उपलक्षणमेतत् ।
अणुत्वं च कार्यगुणे द्वयणुककार्यत्र्यणुकपरिमाणे ।
विषयसप्तमीयम् ।
त्र्यणुकमहद्दीर्घत्वयोरसमवायिकारणं न भवति ।
तथा परमाणौ वर्तमानं परिमण्डलं पारिमाण्डल्यं परमाणुकार्यद्वयणुकगुणस्य ह्रस्वत्वस्याणुत्वस्य चासमवायिकारणं न भवति ।
त्र्यणुकादिगतं तु महत्त्वं दीर्घत्वं च चतुरणुकादिपरिमाणं प्रत्यसमवायिकारणं भवत्येवेति ।
७,२७६
कस्मादेवं कल्पितमित्यत आहवैरूप्यमिति ।
… वैरूप्यं तत्र कारणम् ।
इत्याहुस् … । मनुव्_२,२.५८ब्च् ।
७,२७६फ़्.
न्यायसुधा-
तत्र द्वयणुकपरमाणुपरिमाणानां त्र्यणुकद्वयणुकपरिमाणानि प्रति कारणत्वाभावे वैरूप्यं विजातीयत्वं कारणम् ।
सजातीययोरेव हि तन्तुपटपरिमाणयोः कार्यकारणभावो दृष्टः ।
तथाच प्रयोगः ।
द्वयणुकत्र्यणुकपरिमाणे न कार्यकारणभाववती विजातीयपरिमाणत्वात् ।
व्यतिरेकेण तन्तुपटपरिमाणवत् ।
एवं परमाणुद्वयणुकपरिमाणयोरपि द्रष्टव्यम् ।
परमाणोरणुत्वं द्वयणुकाणुत्वस्य कारणमस्त्विति चेन्न ।
तत्रापि नित्यपरिमाणत्वस्य परमाणुत्वस्य च वैरूप्यस्य सत्त्वात् ।
एवञ्चेद्वयणुकत्र्यणुकपरिमाणानां किमसमवायिकारणमित्यत आहवैरूप्यमिति ।
अनेकत्वमित्यर्थः ।
ईश्वरबुद्धिमपेक्ष्योत्पन्ना परमाण्वोर्द्वित्वसङ्खया द्वयणुके ऽणुत्वं ह्रस्वत्वं च करोति ।
द्वयणुकेषु चोत्पन्ना त्रित्वसङ्खया त्र्यणुके महत्त्वं दीर्घत्वं च करोतीति ।
७,२७८
एवमुपन्यस्तं मतमपाकर्तुमधिकरण(सूत्र)मवतारयतितानिति ।
… तानथोवाच विद्याधीशः स्वयं प्रभुः । मनुव्_२,२.५८च्द् ।
न्यायसुधा-
उवाच महद्दीर्घवद्वेत्यादीति शेषः ।
प्रबलतर्कोपबृंहितमतनिरासे सामर्थ्यं सूत्रकृतः कथमित्यत उक्तम्स्वयं साक्षात्सर्वविद्यानामधीशस्तस्मात्प्रभुरिति ।
७,२७९
न वैशेषिकादिमतविरोधेनोक्तार्थस्यान्यथात्वं शङ्कनीयम् ।
तस्योपपत्तिविरुद्धत्वात् ।
तथाहि ।
यत्तावदुक्तं द्वयणुकादिपरिमाणं न त्र्यणुकादिपरिमाणस्यासमवायिकारणमिति, तदुपपत्तिविरुद्धमिति दर्शयन्’महद्दीर्घवद्वा
ह्रस्वपरिमण्डलाभ्याम्’ इति सूत्रं व्याचष्टेमहत्त्वं चेति ।
महत्त्वं चैव दीर्घत्वं त्र्यणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते । मनुव्_२,२.५९ ।
यथा तथैव ह्रस्वत्वात् पारिमाण्डल्यतो ऽपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः । मनुव्_२,२.६० ।
न्यायसुधा-
एवशब्दस्य त्र्यणुकाद्येष्वेवेति कल्पितमेवेति वा सम्बन्धः ।
त्र्यणुकाद्येषु द्रव्येषु ।
तस्मात् त्र्यणुकादौ कार्ये ऽन्त्यावयविव्यतिरिक्ते वर्तमानान्महत्त्वाद्दीर्घत्वात् ।
चशब्दो वाक्यार्थसमुच्चये ।
कार्यं परिमाणम् ।
तत्कार्येषु त्र्यणुकादिकार्येषु चतुरणुकादिषु ।
तथैवेत्येवशब्देन दृष्टान्तदार्ष्यान्तिकवैषम्यशङ्कामपाकरोति ।
कार्ये त्र्यणुके द्वयणुके च समत्वतः कार्यपरिमाणत्वादिसाम्यादिति हेतुवचनम् ।
हिशब्दो व्याप्तिद्योतकः ।
७,२८१
यद्यपि महदादिशब्दा द्रव्यवचनास्तथापि भावप्रधानत्वात्परिमाणवाचिनो(पि) भवन्तीत्यायेन महत्त्वमित्याद्युक्तम् ।
सूत्रकृतस्य भावप्राधान्येनोक्तिः कणादसूत्रानुसारेण ।
‘कारणबहुत्वात्कारणमहत्त्वात्प्रचयविशेषाच्च महत्’ इत्यादि हि तत् ।
महद्दीर्घवदिति षष्ठयर्थे वतिः ।
विभक्तिविपरिणामेन वा सकाशादित्यध्याहारेण वा तस्मादित्युक्तम् ।
अत्रैतावदादौ वक्तव्यम् ।
यथा तस्मात्कार्येषु कायर्मुपजायते तथैव ह्रस्वत्वात्पारिमाण्डल्यतो ऽपि कार्ये परिमाणं जायेत समत्वतो हीति ।
७,२८५
एतदुक्तं भवति ।
त्र्यणुकाद्वयणुकपरिमाणं स्वाश्रयाश्रयसमवायिकारणपरिमाणजम् कार्यपरिमाणत्त्वाच्चतुरणुकादिपरिमाणवत्, द्वयणुकपरमाणुपरिमाणं
परिमाणारम्भकं द्रव्यसमवायिकारणपरिमाणत्वात्, त्र्यणुकपरिमाणवत् त्र्यणुकद्वयणुके वा परिमाणारभ्यपरिमाणवती
कार्यद्रव्यत्वाच्चतुरणुकादिवत्, द्वयणुकपरमाणू परिमाणासमवायिकारणपरिमाणवन्तौ द्रव्यसमवायिकारणत्वात् त्र्यणुकवदिति ।
नच विवक्षितार्थासिद्धिः, अन्यथानुपपत्त्या तत्सिद्धेः ।
नच यत्र केवलेन प्रचयेन परिमाणमारभ्यते तत्र व्यभिचार इति वाच्यम्, तस्यापि पक्षतुल्यत्वात् ।
नचैवं सति बाधः, प्रचयकारणताया अनिवारणात् ।
नचोभयकारणत्वकल्पने गौरवदोषः, द्वयोरपि क्ळ्प्तशक्तित्वात् ।
द्वयणुकपरिमाणं त्र्यणुकपरिमाणाजनकम्, परमाणुपरिमाणं च द्वयणुकपरिमाणाजनकम्, परिमाणत्वात् पटपरिमाणवत्, इत्यादिना
सत्प्रतिपक्षतेति चेन्न, तत्समवायिकाणपरिमाणत्वाभावस्योपाधित्वात्, त्र्यणुकपरिमाणं चतुरणुकपरिमाणाजनकम्
परिमाणत्वात्पटपरिमाणवत्, इत्याद्याभाससमानयोगक्षेमत्वाच्च ।
परमाणुपरिमाणं परिमाणानारम्भकं नित्यपरिमाणत्वात् गगनपरिमाणवदित्यपि न, द्रव्यसमवायिकारणपरिमाणत्वाभावस्योपाधित्वात् ।
अप्यपरमाणुरूपं रूपानारम्भकं नित्यत्वात् गगनपरिमाणवत्, परमाणवो द्रव्यानारम्भका नित्यत्वाद्गगनवत्, इत्याद्याभासतुल्यत्वाच्च ।
७,२९०
एतेन परमाणुद्वयणुकपरिमाणे परिमाणानारम्भके अणुत्वान्मनःपरिमाणवदित्यपि परास्तम् ।
न चानणुत्वमुपाधिः ।
वक्ष्यमाणन्यायेन परिमाणावान्तरजातेरपाकरणात् ।
पक्षीकृताद्घ्रस्वत्वादव्यावृत्तेश्च ।
७,२९३
ननु च त्र्यणुकादिपरिमाणं चतुरणुकादिपरिमाणं च सजातीयमिति युक्तस्तत्र कार्यकरणभावः ।
द्वयणुकत्र्यणुकपरिमाणयोस्तु विजातीयत्वात्कथं तथात्वमित्यतो दृष्टान्तदार्ष्यान्तिकयोः सदृशमित्युक्तम् ।
यथा त्र्यणुकादिपरिमाणाच्चतुरणुकादौ सजातीयं परिमाणमुत्पद्यते ।
तथा द्वयणुकपरमाणुपरिमाणादपि त्र्यणुकादौ सजातीयपरिमाणोत्पादस्यैव सिसाधयिषितत्वान्न दोष इत्यर्थः ।
७,२९४
ननु च त्र्यणुकादौ महत्त्वदीर्घत्वे द्वयणुकादौ त्वणुत्वह्रस्वत्वे प्रमाणसिद्धे ।
तत्कथं साजात्यसाधने बाधो न भवेदित्यत उक्तम्महत्त्वं चेति ।
कल्पनैवैषा वैशेषिकाणां नतु परिमाणावान्तरजातिभेदे प्रमाणमस्ति ।
किन्नाम परिमाणमेकजातीयमेवोत्कर्षापकषर्वदिति भावः ।
अनेन वैरूप्यस्यासिद्धिरुक्ता वेदितव्या ।
७,२९४फ़्.
ननु च द्वयणुकादिपरिमाणस्य परमाण्वादिपरिमाणाजन्यत्वे बाधकाभावादप्रयोजकत्वमनुमानानाम् ।
द्वयणुकादिपरिमाणस्य सङ्खयैव जन्मसम्भवादित्याशङ्कां परिहरन् वाशब्दं व्याख्यातिनचेदिति ।
न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत् । मनुव्_२,२.६१अब् ।
न्यायसुधा-
चापिशब्दावितरेतरयोगे ।
एवशब्दो नो भवेदेवेति सम्बद्धयते ।
७,२९६फ़्.
इदमिह वक्तव्यम् ।
द्वयणुकादिपरिमाणे ऽसमवायिकारणलक्षणमस्ति न वेति ।
आद्ये ऽसमवायिकारणलक्षणसद्भावे ऽपि त्र्यणुकादिपरिमाणं द्वयणुकादिपरिमाणजं च चेद्भवेत्तदा त्र्यणुकादिगतान्महत्त्वतो दीर्घत्वाच्च नो
भवेदेव, चतुरणुकादिपरिमाणमिति शेषः ।
इदमुक्तं भवति ।
यदि समवायिकारणप्रत्यासन्नत्वादिसद्भावे ऽपि नासमवायिकारणत्वं तदेदमतिव्यापकत्वादलक्षणं स्यात् ।
तथाच न तथाभूतस्यापि महत्त्वादेरसमवायिकारणत्वं स्यादिति ।
द्वितीये किं समवायिकारणप्रत्यासत्तिर्नास्ति उत सामर्थ्यावधारणम् ।
नाद्यः ।
द्वयणुकादिपरिमाणस्य त्र्यणुकादिपरिमाणसमवायिकारणसमवायिकारणे द्वयणुकादौ समवेतत्वस्य प्रमितत्वात् ।
समवायिकारणसमवेतत्वाभावान्न चेत् द्वयणुकादिपरिमाणात्त्र्यणुकादिपरिमाणस्योत्पादस्तदा त्र्यणुकादिगताभ्यां महत्त्वदीर्घत्वाभ्यां
चतुरणुकादिपरिमाणमपि नो भवेत् तस्यापि समवायिकारणसमवेतत्वाभावात् ।
न द्वितीयः ।
अनन्यथासिद्धिनियतपूर्वभावित्वेन हि सामर्थ्यमवधारणीयम् ।
तच्चास्ति द्वयणुकादिपरिमाणे ।
एवमपि न चेत्ततस्त्र्यणुकादिपरिमाणादिजन्म, तदोक्तप्रसङ्ग एव ।
७,२९७फ़्.
सदृशपरिमाणस्यैव कारणत्वावधारणाद्विसदृशमेतदकारणमवर्जनीयसन्निधीति चेत् ।
किमिदं विसदृशत्वम् ।
किं जातिभेदः ।
उत वैलक्षण्यमात्रम् ।
नाद्यः ।
परमाणुद्वयणुकादिपरिमाणानामनुमानेनैकजातीयत्वस्यापि साधितत्वात् ।
द्वितीये वैलक्षण्यमात्रेण न चेत्कारणत्वं तदा महत्त्वादेरपि न स्यात् ।
नहि त्र्यणुकचतुरणुकमहत्त्वे न विलक्षणे ।
सोत्कर्षत्वस्यानुभवसिद्धत्वात् ।
७,२९८
अथ सङ्खयात एव जन्मसम्भवे परिमाणस्यापि कारणत्वं न कल्पनीयमिति चेत् ।
तथाप्युक्त एवातिप्रसङ्गः ।
चतुरणुकादिपरिमाणस्यापि सङ्खयात एव जननोपपत्तेः ।
यत्र तु नियामकविशेषस्तत्र परिमाणमप्याद्रियतामिति ।
यद्यपि परिणामवादिनां नायं पन्थाः ।
किन्तूपादानानि स्वगुणयुक्तानि तथाविधकार्यतामापद्यन्त इति ।
तथापि परमतमाश्रित्य प(रेषामेवेदं)रस्येदं दूषणाभिधानमिति न काचित्क्षतिः ।
७,२९९फ़्.
एवं परमाणुपरिमाणाद्द्वयणुकपरिमाणस्योत्पादः ततस्त्र्यणुकपरिमाणस्य जन्म तेषां चैकजातीयत्वमित्यनुमानेन साधितम् ।
तदसत् ।
प्रतितर्कपराहतत्वात् ।
तथाहि ।
किं परमाणुपरिमाणाद्वयणुके द्वयणुकपरिमाणाच्च त्र्यणुके सजातीयपरिमाणस्याणुत्वस्योत्पत्तिः साध्यते उत महत्त्वस्य अथ ह्रस्वत्वस्य यद्वा
दीर्घत्वस्य ।
सर्वेषामपि पक्षाणां दुष्टत्वं प्रतिजानीतेसदृशस्य हीति ।
७,३००
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन । मनुव्_२,२.६१च्द् ।
न्यायसुधा-
योगो घटना ।
कथञ्चन उक्तप्रकारेषु केनापि प्रकारेण ।
कुत इत्यतः प्रथमपक्षे ऽनिष्यमाहअप्रत्यक्षत्वमिति ।
अप्रत्यक्षत्वमेवं स्याद् यतः कार्येष्वणुत्वतः ।
इति चेन् … । मनुव्_२,२.६२अच् ।
न्यायसुधा-
यदि परमाणुपरिमाणादणुत्वेन सजातीयं द्वयणुके, द्वयणुकपरिमाणाच्च त्र्यणुके परिमाणमुत्पद्यते ।
तदा सर्वकार्येष्वणुत्वप्रसङ्गेनास्मदाद्यप्रत्यक्षत्वमेव स्याद्यतस्तस्मान्नेति ।
द्व्यणुकस्याप्रत्यक्षत्वमिष्यमेवेत्यतो ऽवधारणम् ।
सर्वेषामपि कार्याणामप्रत्यक्षत्वमेव स्यात् ।
नतु (यस्य) कस्यचित्प्रत्यक्षत्वमिति ।
द्रव्यस्य ह्यस्मदादिप्रत्यक्षत्वं महत्त्वे सत्युद्भूतरूपस्पर्शवत्त्वेन व्याप्तम् ।
तथाच त्र्यणुकादीनामणुत्वे महत्त्वाभावादप्रत्यक्षत्वं स्यात् ।
एतेन तृतीयो ऽपि परास्तः ।
त्र्यणुकादेरपि ह्रस्वत्वे महत्वाभावेनाप्रत्यक्षत्वप्रसङ्गस्य दुर्निवारत्वात् ।
७,३०६
द्वितीये तु परमाणुद्वयणुकयोरपि महत्त्वे प्रत्यक्षत्वापत्तिः ।
न चोद्भूतरूपस्पर्शयोरन्यतराभावेन तदभावः ।
त्र्यणुकादावपि तदा(दभावा)पत्तेः ।
अत एव चतुर्थो ऽपि परास्तः ।
दीर्घत्वे महत्वस्यावर्जनीयत्वादिति पक्षद्वयदूषणं स्पष्टत्वान्नोक्तम् ।
यद्यपीदं परिमाणावान्तरजातीनामणुत्वादीनामप्रामाणिकत्वोक्तया परिहृतमेव ।
तथापि तस्यैवार्थस्य स्फुटीकरणार्थं पुनराशङ्कितमित्यदोषः ।
अत्र तावद्विकल्पितेषु महत्त्वपक्षं गृह्णातिन महत्त्वं चेति ।
… न महत्त्वं च परमाणावणावपि । मनुव्_२,२.६२च्द् ।
न्यायसुधा-
चशब्दो दीर्घत्वसमुच्चयार्थः ।
अणौ द्वयणुके ।
कथं न कथ्यत इति वक्ष्यमाणमत्राप सम्बध्यते ।
यदुक्तं किमणुत्वस्योत्पत्तिः साध्यत इत्यादि, तत्र परमाणुमहत्त्वाद्द्वयणुके महत्त्वम् ।
द्वयणुकमहत्त्वात्त्र्यणुकमहत्त्वमुत्पद्यते इत्येष पक्षस्तावत्परिगृह्यत इत्यर्थः ।
यद्यप्यत्र परिमाणावान्तरजात्यभावान्नैवं विकल्प एव युज्यत इति वक्तव्यम्, तथापि तदभावमेवोपपादयितुं गूढाभिसन्धिना पक्षपरिग्रहः कृत
इति ज्ञातव्यम् ।
७,३०९
अत एव पक्षान्तरमपि गृह्णातिकथमेवेति ।
कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते । मनुव्_२,२.६२एफ़् ।
न्यायसुधा-
परमाणोरणुत्वाद्द्वयणुके ऽणुत्वं द्वयणुकाणुत्वात्त्र्यणुके ऽणुत्वं ततश्च चतुरणुके ऽणुत्वमिति वा पक्षः परिगृह्यत इति भावः ।
नन्वेवं सति पक्षद्वयोक्तदोषापत्तिर्व्याघातश्चाधिकः ।
तथा हि ।
परमाणुमारभ्यान्त्यावयविपर्यन्तस्योद्भूत(रूप)स्पर्शवतो महत्त्वे सर्वस्यापि प्रत्यक्षत्वं स्यात् ।
अणुत्वे चाप्रत्यक्षत्वं स्यात् ।
नच परमाण्वादेः प्रत्यक्षत्वं त्र्यणुकादेरप्रत्यक्षत्वं युक्तम् ।
प्रत्यक्षत्वाप्रत्यक्षत्वे च परस्परव्याहते ।
यत्प्रत्यक्षं घटादि न तदप्रत्यक्षम् ।
यच्चाप्रत्यक्षं गगनादि न तत्प्रत्यक्षमिति तयोः परस्परपरिहारेणैव वृत्तेः ।
किञ्च महत्त्वाणुत्वे परस्परविरुद्धे कथमेकैकत्राङ्गीकर्तुमुचिते ।
(तदाह) यथा आह सूत्रकारः’दृष्टान्ताच्च’ इति ।
नच कालभेदेन विरोधपरिहारः, परिमाणस्य यावद्द्रव्यभावित्वादित्याशङ्कय प्रत्यक्षत्वाप्रत्यक्षत्वप्रसङ्गयोस्तावदिष्यापादनत्वं वदन्व्याहतिं
परिहरतिप्रत्यक्षत्वेति ।
प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले । मनुव्_२,२.६३अब् ।
न्यायसुधा-
परमाण्वादावखिले ऽपि द्रव्ये प्रत्यक्षत्वाप्रत्यक्षत्वे स्त एवेति नैतौ प्रसङ्गौ युक्तौ ।
नच व्याहतिः ।
पुरुषभेदापेक्षया व्यवस्थोपपत्तेरिति ।
एतच्चोत्तरत्र स्फुटीभविष्यति ।
७,३१२
इदानीमणुत्वमहत्त्वव्याघातं परिहरतिअणुत्वं चेति ।
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया । मनुव्_२,२.६३च्द् ।
न्यायसुधा-
अखिलेत्यनुवर्तते ।
अणुत्वं च महत्त्वं चाखिले वस्तुनि विद्येते ।
नतु विरुद्धे ।
कथम् ।
यतो वस्तुव्यपेक्षयाणुत्वं च महत्त्वं च तदेवोच्यत इति योजना ।
७,३१२फ़्.
एतदुक्तं भवति ।
स्यादयं परमाण्वादिष्वखिलद्रव्येष्वणुत्वमहत्त्वाङ्गीकारे विरोधो यदि रूपे नीलत्वपीतत्ववत्परिमाणे ऽणुत्वमहत्त्वादिजातियोगः स्यात् ।
नचैवम् ।
प्रमाणाभावात् ।
किन्तु यथा त्र्यणुकादिषु महत्त्वमेकजातीयमेव, उत्कर्षापकर्षवत्परेणाङ्गीकृतम् ।
यथाचाणुत्वं परमाणुद्वयणुकयोः ।
एवं परिमाणमवान्तरजातिरहितमेव सर्वद्रव्येषूत्कर्षापकर्षवद्वर्तते ।
तथा चैकत्र द्रव्ये वर्तमानं परिमाणं द्रव्यान्तरवर्त्युत्कृष्टपरिमाणापेक्षयाणुत्वमित्युच्यते ।
तदेव द्रव्यान्तवर्तिनो ऽपकृष्टपरिमाणस्यापेक्षया महत्त्वमित्युच्यते ।
एवञ्च कुतो विरोधः ।
यथा खल्वेकमेव द्रव्यं द्रव्यभेदापेक्षया सन्निकृष्टं विप्रकृष्टं चोच्यमानं
न विरोधास्पदम् ।
अत एव प्रत्यक्षत्वाप्रत्यक्षत्वविरोधो ऽप्यपास्तः ।
तयोर्महत्त्वादिमात्रनिमित्तत्वे हि स स्यात् ।
न चैवम् ।
किन्तु पुरुषाणामिन्द्रियपाटवनिमित्तत्वमेव ।
अन्यथा मन्दविलोचनेनापि त्र्यणुकमुपलभ्येत ।
तर्हि गगनादेरपि कदाचित्प्रत्यक्षत्वं स्यादिति चेन्न ।
उद्भूतरूपाभावात् ।
द्वयणुकानुपलम्भो गुणविशेषविपर्ययाधीनः आलोकेन्द्रियसन्निकृष्टचाक्षुषद्रव्यानुपलम्भत्वात् ।
पवनानुपलम्भवदित्यादिकं त्वपकृष्टमहत्त्वादिनैवान्यथासिद्धम् ।
तर्हि पर्वतादेरप्रत्यक्षता स्यात् इति चेन्न ।
अपकर्षविशेषस्य विवक्षितत्वात् ।
नासौ व्यवस्थितो ऽस्तीति चेत् ।
सत्यम् ।
अत एव पुरुषापेक्षयेत्युक्तमिति ।
७,३१८फ़्.
अस्त्वेवं परिमाणे ऽवान्तरजात्यभावस्तथापि न सर्वत्र महत्त्वाणुत्वभ्युपगमो युज्यते ।
उत्कृष्टापकृष्टपरिमाणापेक्षया हि मध्यवर्ति परिमाणमणुत्वं महत्त्वं चोच्यत इत्युक्तम् ।
तच्च द्वयणुकादिपरिमाणे सम्भवति ।
नच परमाणुपरिमाणे ।
नहि परमाणुपरिमाणादपकृष्टं परिमाणमस्ति ।
यदपेक्षया तन्महत्त्वं स्यात् ।
अतः परमाणोरणुत्वमेव ।
तथाच न महत्त्वं चेत्यसदित्यत आहतारतम्येति ।
७,३१९
तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च । मनुव्_२,२.६४अब् ।
न्यायसुधा-
यस्मात्सर्वे ऽपि पदार्थाः परिमाणतारतम्येनैव स्थिताः ।
स्वपरिमाणापेक्षयोत्कृष्टापकृष्टपरिमाणवन्तः ।
सर्वाण्यपि द्रव्याणि कुतश्चित्परिमाणादुत्कृष्टेन परिमाणेन उपेतानीति वा ।
तस्मात्परमाणोरपि महत्त्वं युज्यते इति सम्बन्धः ।
अयमत्र प्रयोगः ।
परमाणुः कुतश्चिदुत्कृष्टेन परिमाणेन युक्तः, स्वपरिमाणापेक्षयापकृष्टपरिमाणवानिति वा, द्रव्यत्वात्तन्तुवदिति ।
नच परमाणोरपकृष्टद्रव्याभावाद्बाधितविषयत्वम् ।
तद्भागानां वक्ष्यमाणत्वात् ।
नच तेष्वेव व्यभिचारः ।
तेषामपि भागवत्त्वात् ।
७,३२१
तदेवं परमाणुद्वयणुकादिपरिमाणानां वैजात्यस्याभावाद्युक्तं सौत्रमनुमानमिति सिद्धम् ।
यद्यपि वैजात्यमङ्गीकृत्यापि कार्यकारणभावः शक्योपपादनः ।
अन्यथा सङ्खयाया अप्यकारणत्वापत्तेः ।
परिमाणस्यैवमिति नियमस्य निर्मूलत्वात् ।
तथापि वस्तुस्थितिरेव वक्तव्येति ।
परिमाणत्वावान्तरजात्यपाकरणेन सजातीयतामुपपाद्यानुमानं समाहितमिति ज्ञातव्यम् ।
७,३२२
परमाणोरप्युत्कृष्टपरिमाणाश्रयत्वमुक्तं तदाक्षिपतियथेति ।
यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते । मनुव्_२,२.६४च्द् ।
परिमाणत्वतश्चेन् … । मनुव्_२,२.६५अ ।
न्यायसुधा-
यथा महत्त्वस्य विश्रान्तिस्तथा परिमाणत्व(तो)हेतोरणुत्वस्य च विश्रान्तिरिष्यते चेदिति योजना ।
अत्र महत्त्वाणुत्वशब्दाभ्यां परिमाणोत्कर्षापकर्षावुच्येते ।
ताभ्यां च तत्तारतम्यमुपलक्ष्यते ।
परिमाणत्वत इति ।
परिमारतारतम्यत्वादित्यर्थः ।
तताचाणौ सिद्धे ऽणुत्वसिद्धिस्तत्सिद्धौ च तत्(अणुत्व)सिद्धिरिति परस्पराश्रयदोषः परास्तः ।
तदयमर्थः ।
परिमाणापकर्षतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदित्यनुमानेन परिमाणापकर्षतारतम्यस्य
क्वचिद्विश्रान्तिसिद्धौ यत्रेदं विश्रान्तं यतः परमाणुर्नास्ति स परमाणुरिति परिमाणापकर्षकाष्ठाश्रयतया सिद्धस्य परमाणोः
कथमुत्कृष्टपरिमाणाख्यमपि महत्त्वं साधयितुं शक्यम् ।
धर्मिग्राहकप्रमाणेन स्ववचनेन (च) व्याघातादिति ।
७,३२३
अत्र वक्तव्यम् ।
केयं क्वचिद्विश्रान्तिर्नाम ।
किमियत्तापरिच्छेदः, त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणं, न ततो ऽपकृष्टमस्तीति, किंवा क्वचिद्द्रव्ये वृत्तिः,
अपकर्षतारतम्यमियत्तावच्छेदरहितमेव किन्त्वनन्तांशोपेतमपि तत्सर्वं क्वचिदाश्रितमेवेति ।
तत्राद्ये साध्ये दृष्टान्तः साध्यविकल इत्याहनेति ।
… न महत्त्वस्यापि विश्रमः । मनुव्_२,२.६५अब् ।
७,३२४
न्यायसुधा-
दृष्टान्तीकृतस्य महत्त्वस्य परिमाणोत्कर्षतारतम्यस्यापि विश्रमः उक्तरूपो नास्ति ।
न केवलं पक्षस्येत्यपेरर्थः ।
कुतो नास्तीत्यत आहदृश्यत इति ।
दृश्यते ऽनन्त इत्येव … । मनुव्_२,२.६५च् ।
न्यायसुधा-
परिमाणोत्कर्षतरतमभावो ऽनन्तो ऽनवधिक इत्येव दृश्यते ।
न त्वियत्तापरिच्छेदवानिति ।
बाधकप्रमाणसद्भावात्साधकाभावाच्चेत्यर्थः ।
कालात्ययापदिष्यं चास्मिन्पक्षे ऽनुमानमित्याहतथेति ।
… तथानन्त्यमणावपि । मनुव्_२,२.६५द् ।
न्यायसुधा-
तथाशब्दो दूषणसमुच्चये ।
न केवलं परिमाणोत्कर्षतरतमभावो ऽनन्त इति दृश्यते ।
किन्त्वसावणौ परिमाणापकर्षतारतम्ये ऽप्यानन्त्यमनवधिकत्वं दृश्यत इत्यर्थः ।
७,३२६
दृश्यते ऽनन्त इत्येव’ इतीयत्तापरिच्छेदो न दृष्टान्ते दृश्यत इति एवशब्देन उक्तम् ।
तद्विशदयतिनेति ।
न महत्तत्वगुणत एतावानिति हीश्वरः ।
परिच्छिन्नस् … । मनुव्_२,२.६६अच् ।
न्यायसुधा-
महत्त्वमिति द्रव्यविशेषस्येवं (स्यैव) सञ्ज्ञा ।
तेन आन्महत इत्येष विधिर्न भवति ।
‘दृष्टानुगतिर्हि सञ्ज्ञाछन्दसोः’ इष्यते ।
यथाऽह’बहुलं तणि’ इति ।
गुणशब्दो ऽत्र तन्त्रेण द्विः उपात्तः ।
तत्राद्यस्य परिमाणाख्यो गुणविशेषो ऽर्थः ।
द्वितीयस्य गुणनम् ईश्वर इति परममहत्त्वाश्रयद्रव्योपलक्षणम् ।
परिमाणोत्कर्षतारतम्यस्येयत्तापरिच्छेदो हि तथा सति दृष्टः स्यात् ।
यदि महत्तत्त्वादिपरिमाणगणनयेश्वरादिः एतावान्पञ्चगुणपरिमाणवान् षड्गुणपरिमाणवान्वेति परिच्छिन्नः स्यात् ।
नचैवम् ।
तथा सति परममहत्त्वानुपपत्तेरिति हिशब्दार्थः ।
७,३२७
अत्र महत्तत्त्वग्रहणेनेदं सूचयति ।
यदुक्तं वैशेषिकादिभिः पृथिव्यादीनि नवैव द्रव्याणि इति तदसत् ।
महदहङ्कारादीनामपि सत्त्वात् ।
नच तत्र प्रमाणाभावः ।
श्रुत्यादेः प्रमाणस्य विद्यमानत्वात् ।
नच त्र्यणुकादिकमेव तथोच्यते ।
अव्यक्तत्वादिश्रवणात् ।
नच बाधकं किञ्चित् विद्यते ।
येनोपचारकल्पनेति ।
ईश्वरग्रहणेन जीवात्मनामपि यत्परैषः परममहत्त्वमुक्तं तदसदिति सूचयति ।
उपपादयिष्यते खल्वणुत्वं जीवस्येति ।
७,३२९
दृष्टान्ते विश्रमाभावोपपादनस्य प्रयोजनमाहतथेति ।
… तथाणोश्च नैतावद्भागता क्वचित् । मनुव्_२,२.६६च्द् ।
न्यायसुधा-
यतो दृष्टान्त एतावद्गुणमेव परिमाणमुत्कृष्टते नातो ऽधिकमिति वाक्यं नास्ति ।
अतस्तथा तद्दृष्टान्तेन अणोः अणुत्वस्य परिमाणापकर्षस्य चैतावद्भागता त्र्यणुकपरिमाणात् षष्ठभाग एव परिमाणमपकृष्टते नातो
ऽधिकमितीयत्ता क्वचिद्द्रव्ये न सिद्धयति ।
नहि महाह्रदं सपक्षीकृत्य पर्वते ऽग्निमत्वं शक्यसाधनम् ।
तदसिद्धौ च न विवक्षितार्थलाभः ।
अस्मादेतावद्भागमेव परिमाणमपाकृष्टते नातो ऽधिकमित्यस्यार्थस्य हि सिद्धावपकर्षकाष्ठाश्रयभूतं कुतश्चिदप्यनुत्कृष्टमाणं द्रव्यं सिद्धयतीति ।
यद्वानेन वाक्येन प्रतिपक्षमाह ।
तथाहि ।
समर्थितं तावत्परिमाणोत्कर्षतारतम्यं न क्वचिद्विश्रान्तमस्मादेतावद्गुणमेव परिमाणमुत्कृष्टत इतीयत्ताभावादिति ।
तथा तद्दृष्टान्तेनाणोश्चैतावद्भागता क्वचिन्नास्तीति साध्यत इति ।
अत्रायं प्रयोगः ।
परिमाणापकर्षतारतम्यं क्वचिन्न विश्रान्तम् परिमाणतारतम्यत्वात् परिमाणोत्कर्षतारतम्यवदिति ।
७,३३०
द्वितीयं शङ्कतेविश्रान्त इति ।
विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते । मनुव्_२,२.६७अब् ।
न्यायसुधा-
विश्रान्त इत्यस्य त्र्यणुकाद्यपेक्षया परिमाणतो ऽनन्तांशो द्रव्यविशेषः कश्चिदस्तीत्यर्थ इति द्वितीयपक्षो गम्यते ऽभ्युपगम्यते यदीत्यर्थः ।
इदमु(एतदु)क्तं भवति ।
परिमाणापकर्षतारतम्यमियत्तानवच्छिन्नमेव ।
किन्त्वनन्तांशरूपमपि तत्क्वचिदाश्रितमिति ।
निराकरोतिनेति ।
७,३३१
नावसाययितुं शक्यो विरोधादेव केवलम् । मनुव्_२,२.६७च्द् ।
न्यायसुधा-
तर्हीति शेषः ।
कश्चिदिति वर्तते ।
एवं साधने कश्चिदपि द्रव्यविशेषो नावसाययितुं शक्यः ।
अयमेव सर्वतो ऽपकृष्टपरिमाणवान्नातो ऽपकृष्टपरिमाणो ऽस्तीति सर्वान्तिमतया न प्रतिपत्तुं कश्चिच्छक्यते ।
कुतः केवलं साक्षाद्विरोधात् ।
परिमाणापकर्षो ऽनन्तश्च पर्यवसितश्चेति हि विप्रतिषिद्धमेतत् ।
भवितव्यं चावसानेन ।
अन्यथा सर्वस्याप्युत्कृष्टापकृष्टपरिमाणसम्भवेन परमाणोर्महत्त्वनिराकरणासम्भवात् ।
एवशब्देन विरोधस्यापरिहार्यत्वं सूचयति ।
तदनेनापसिद्धान्तो ऽभिहितो भवति ।
७,३३२
यदि चानन्त्यमवधीर्य परिमाणापकर्षतारतम्यं क्वचिदाश्रितमित्येव प्रतिज्ञार्थः स्यात् ।
तथापि न सिसा(षा)धयिषितमवसानं लभ्यत इत्यर्थान्तरता स्यात् ।
यथाऽकाशादेरुत्कृष्टपरिमाणं द्रव्यं नास्ति तथा परमाणोरपकृष्टपरिमाणं द्रव्यं नास्तीति तात्पर्यार्थं इति चेत् ।
सत्यम् ।
नायमितो लभ्यत इति उच्यते ।
परिमाणापकषर्तारतम्यं क्वचिन्निरतिशयम् परिमाणतारतम्यत्वात्परिमाणोत्कषर्तारतम्यवदिति विवक्षितमिति चेत् ।
को ऽयमतिशयो नाम ।
किमाधिक्यमुत न्यूनता ।
अथ साधारणं किञ्चित् ।
आद्ये बाधः ।
द्वितीये दृष्टान्तस्य साध्यविकलता ।
न तृतीयः ।
तदभावात् ।
शब्दसाम्यमात्रेणानुमानाप्रवृत्तेः ।
यथाऽकाशादिपरिमाणमुभयावधिमन्न भवति ।
तथा त्र्यणुकावयवावयवपरिमाणमपि साध्यमिति चेन्न ।
हेत्वभावात् ।
परिमाणत्वस्य घटादिपरिमाणे व्यभिचारात् ।
नित्यपरिमाणत्वस्याश्रयानित्यताया वक्ष्यमाणत्वेनासिद्धेः ।
परिमाणकाष्ठत्वस्य च साध्यत्वात् ।
एवं तात्पर्यान्तराण्यपि निराकार्याणीति ।
७,३३७
परिमाणोत्कर्षतारतम्यस्यानन्तत्वं दृश्यत इत्युक्तम् ।
तत्केन प्रमाणेनेत्याशङ्कय कालाकाशेश्वरादीनि हि द्रव्याणि परममहत्त्वयन्तीष्यन्ते ।
तत्र कालाकाशयोस्तावत्परिमाणोत्कर्षस्यानन्त्यं साक्षिसिद्धमित्याहकेवलमिति ।
केवलं साक्षिमानेन कालो देशो ऽपि नान्तवान् । मनुव्_२,२.६८अब् ।
न्यायसुधा-
केवलशब्देन प्रमाणान्तराभावं प्रतिजानीते ।
देश इत्याकाश उच्यते ।
नान्तवानित्यनवधिकपरिमाणोत्कर्षवान् ।
दृश्यत इति वक्ष्यमाणमत्रापि सम्बद्धयते ।
कालाकाशौ हि केवलं साक्षि(वेद्य)सिद्धावित्युपपादितं प्रथमाध्याये ।
अतस्तत्परिमाणोत्कषर्स्यानवधिकत्वमपि तेनैव गम्यत इति ।
७,३३८
परिमाणापकर्षतारतम्यस्याप्यानन्त्यं दृश्यत इत्युक्तम् ।
तत्केन प्रमाणेनेत्याशङ्कय कालाकाशयोस्तावत्साक्षिणैवेत्याहअपर्यवसितश्चेति ।
अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः । मनुव्_२,२.६८च्द् ।
न्यायसुधा-
द्वयोः काले गगने च ।
अणोश्च परिमाणापकर्षतारतम्यस्य चेत्यर्थः ।
अपर्यवसितिः आनन्त्यम् ।
नन्वेतदनुपयुक्तम् ।
परमाणुपरिमाणतो ऽपकृष्टपरिमाणसद्भावे प्रमाणोपन्यासस्य कार्यत्वे कालावकाशयोः परिमाणोत्कर्षानन्त्ये प्रमाणोपन्यासस्य
प्रयोजनाभावादिति ।
मैवम् ।
नहि परेण साक्षादेवमुक्तम् ।
किन्तु परिमाणोत्कर्षपरम्परावत्तदपकषर्परम्परापि पर्यवसानवतीति ।
तथाच कालाकाशयोः परिमाणोत्कर्षापकर्षपरम्परायाः पर्यवसानाभावे साक्षिप्रमाणोपन्यासः कथमसङ्गतः ।
नन्वस्तु कालाकाशयोः परिमाणप्रकर्षो ऽनवधिकः ।
तदपकर्षानन्त्यं तु कथम् ।
व्याहतत्वात् ।
मैवम् ।
साक्षिसिद्धत्वात् ।
प्रमिते ऽर्थे विरोधानवकाशात् ।
७,३४०
कालादावनवधिकः परिमाणापकर्षः साक्षिसिद्ध इत्येव नेष्यत इति चेत् ।
किं साक्षिणा नावगम्यते, उतावगतो ऽपि न सत्यः, अथवा साक्षी नाम प्रमाणं नास्ति ।
आद्यं शङ्कतेयदीति ।
यदि नो साक्षिगम्यं तन् … । मनुव्_२,२.६९अ ।
न्यायसुधा-
तदिति कालादेः परिमाणापकर्षस्यानन्त्यं सामान्येन परामृशति ।
दूषयतिमहत्त्वमिति ।
… महत्त्वं केन गम्यते । मनुव्_२,२.६९ब् ।
न्यायसुधा-
कालाकाशयोरिति वर्तते ।
महत्त्वम् अनवधिकः परिमाणोत्कषर्ः ।
तर्हीति शेषः ।
अयमभिसन्धिः ।
कालादौ परिमाणोत्कषर्स्यानन्त्यमुपेत्य हि परेण तदपकर्षानन्त्यं नेष्यते ।
तत्र वक्तव्यम् ।
प्रकर्षानन्त्यं केन प्रमाणेनावगम्यत इति ।
साक्षिणेति चेत् ।
अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकृतम् ।
तत्तेन नावगम्यत इति ।
साक्षिणेति चेत् ।
अपकर्षानन्त्यमपि तद्बलेन कुतो नाङ्गीकार्यम् ।
तत्तेन नावगम्यत इत्युक्तमिति चेत् ।
इदमपि (तदपि)तेन नावगम्यत इति वदन्तं प्रति किमुत्तरम् ।
अनुभवापलापो न युक्त इति चेत् ।
समं प्रकृते ऽपि ।
यथा हि कालादेरुत्कर्षानवधिकत्वमनुभवे चकास्ति ।
तथापकर्षानन्त्यमपीति किमेकत्र पक्षपातेन ।
अन्यथैकापलापे द्वितीयस्याप्यपलापो दुरुत्तरः स्यादिति ।
७,३४१
स्यादेतत् ।
न कालादेः परिमाणोत्कर्षानन्त्यं साक्षिसिद्धमिति ब्रूमः ।
किन्तु अनुमानगम्यम् ।
तथाच न प्रतिबन्दीग्रह इत्यत आहविश्रान्तिरिति ।
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः । मनुव्_२,२.६९च्द् ।
न्यायसुधा-
परिमाणोत्कर्षपरम्परया इति शेषः ।
अनुमानत इति तृतीयार्थे तसिः ।
नानुमानेन कालादावनवधिकपरिमारोत्कषर्सिद्धिः ।
हि यस्मात्तारतम्येनानुमानेन तद्विश्रान्तिर्दृश्यते ।
परिमाणोत्कर्षतारतम्यं इयत्तावत्परिमाणतारतम्यत्वात्तदपकषर्तारतम्यवदिति प्रत्यनुमानप्रतिरुद्धत्वादिति यावत् ।
नच दृष्टान्तो ऽस्माकं साध्यविकल इति वाच्यम् ।
अपकर्षतारतम्यस्य अन्तवत्त्वमुपेत्योत्कर्षतारतम्यस्यानन्त्यमनुमिमानस्य परस्यैवं प्रतिपक्षोत्प्रेक्षा स्यादित्युच्यमानत्वात् ।
तथाच साक्षिविरुद्धं प्रत्यनुमानमिति वक्तव्यम् ।
कथं तर्हि स एव कालादावनवधिकप्रकृष्टपरिमाणं न साधयेदिति ।
७,३४३
अस्तु तर्ह्यागमात्कालादावनवधिकोत्कृष्टपरिमाणसिद्धिरितयाशङ्कयाहयदीति ।
यद्यागमादनन्तं तन्महत्त्वमवगम्यते ।
अनन्तमेव चाणुत्वं कुतो नैवावसीयते । मनुव्_२,२.७० ।
न्यायसुधा-
आगमात् स एषो ऽनन्त इत्यादेः ।
तन्महत्वं कालादिपरिमाणोत्कर्षः ।
अणुत्वं परिमाणापकर्षः ।
एतदु(इदमु)क्तं भवति ।
नागमः कालाद्यनन्तानां स्वयं प्रतिपादयति ।
तत्प्रवृत्तेः प्रागेव साक्षिणा तत्प्रतिभासात् ।
किन्त्वनुवाद एवायम् ।
प्रतिपादकत्वे वा नास्मत्प्रयोजनपरिक्षयः ।
यस्मादागमात्कालाद्युत्कर्षो ऽनवधिकः प्रतीयते तस्मादेवापर्षानन्त्यप्रतीतेः ।
अनन्तशब्दो ह्यनवच्छेदमात्रमाचष्टे ।
स च यथा परिमाणोत्कर्षविषयो व्याख्यायते ।
तथा तदपकर्षविषयो ऽपि शक्यते व्याख्यातुमिति ।
७,३४५
परिमाणोत्कर्षवत्तदपकर्षस्यापि कालादावानन्त्यं साक्षिणाऽगमेन वा प्रतीयत एव ।
तथापि न तत्सत्यम् ।
नहि प्रतीतत्व(ति)मात्रेण सत्यतानिश्चयो ऽतिप्रसङ्गादिति द्वितीयं निराकरोतिमहत्त्वेति ।
महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते । मनुव्_२,२.७१अब् ।
न्यायसुधा-
कालादौ परिमाणोत्कर्षापकर्षयोर्विश्रान्तिरियत्तावच्छेदो बलवत्प्रमाणेन नैवोपलभ्यते ।
अत्र महत्त्वग्रहणं दृष्टान्ताथर्म् ।
इदमुक्तं भवति ।
यथा कालादौ परिमाणोत्कर्षस्यानन्त्यं साक्ष्याद्यवगतं विपरीतग्राहकप्रमाणाभावात्सत्यमेव ।
तथा तदपकर्षस्यापि ।
विना बाधकेन साक्ष्यादिसिद्धं परिमाणापकर्षानन्त्य कालादावसत्यं चेत्तदुत्कर्षानन्त्यमप्य(कालादाव)सत्यं स्यात् ।
अविशेषात् ।
ततश्चापरिच्छिन्नपरिमाणताङ्गीकारो (भज्येत) नङ्क्षयेत ।
अतिप्रसङ्गस्तु बाधकाभावेनापास्त इति ।
७,३४७
नन्वस्त्येव परिमाणापकर्षस्यानन्त्याभ्युपगमे बाधकम् ।
तथाहि ।
अपकर्षो नामाल्पता ।
आनन्त्यं चानल्पता ।
नच विरुद्धयोर्विशेष्यभावः सम्भवति ।
न हि भवति पीतो ऽपीत इति ।
अतो बाधकसद्भावात्प्रतीतमप्यपकर्षानन्त्यं त्यज्यत इत्यत आहअन्यदेवेति ।
अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम् । मनुव्_२,२.७१च्द् ।
न्यायसुधा-
नानन्तत्वं नामानल्पत्वम् ।
किन्त्वन्यदेव परिच्छेदाभावरूपम् ।
तस्मात्परिमाणोत्कर्षापकर्षयोः समानो धर्म इति युज्यते ।
अत्रापि महत्त्वग्रहणं दृष्टान्तमेव ।
यथा महत्त्वस्य विशेषणं तथाणुत्वस्यापीति ।
यद्यनन्तत्वं नामानल्पत्वं स्यात्तदोत्कर्षस्यापि विशेषणं न स्यात् ।
नहि तदेव तस्य विशेषणं भवति ।
पीतः पीत इत्यदर्शनात् ।
अतस्तत्रानन्त्यं नाम परिच्छेदाभाव इति स्वीकृत्य विशेषणविशेष्यभावः समर्थनीयः ।
तथा प्रकृते ऽपीति ।
यथा हि परिमाणोत्कर्षो गगनादावनधिकस्तथा तदपकर्षो ऽप्यनवधिक एवेति विशेषणविशेष्यभावाभ्युपगमे न को ऽपि दोष इति ।
७,३५५
आनन्त्यं नामानल्पत्वादन्यदित्येतत्प्रत्यययितुं दृष्टान्तान्तरमाहबहुत्वेति ।
बहुत्वाल्पत्वयोर्यद्वत् साङ्खयायामुपलभ्यते ।
आनन्त्यम् … । मनुव्_२,२.७२अच् ।
न्यायसुधा-
यद्वत् यथा सङ्खयायां बहुत्वाल्पत्वयोर्विशेषणतयाऽनन्त्यमुपलभ्यते ।
बहुत्वमनन्तमल्पत्वं चानन्तमिति ।
तथा प्रकृते ऽपीति ।
यद्यनन्त्वं नामानल्पत्वं स्यात् तदा न बहुत्वस्य विशेषणं स्यात् ।
तस्यैव तद्विशेषणत्वायोगात् ।
नाप्यल्पत्वस्य, विरोधात् ।
अतः अवच्छेदाभाव एवानन्तत्वमित्यङ्गीकृत्य बहुत्वमल्पत्व(चानन्त)चापर्यवसितमिति विशेषणविशेष्यभावो बोद्धव्यः ।
तथा परिमाणोत्कर्षापकर्षयोरपीति ।
ननु च नास्त्येव सङ्खयायां बहुत्वाल्पत्वयोरानन्त्यम् ।
बहुत्वस्य परार्ध एव पर्यवसितत्वात् ।
अल्पत्वस्य चैक(आ)त्वावधित्वम् ।
यथोक्तम् ।
‘सा चैकत्वादिपरार्धपर्यन्ता’ इति ।
अतः कथमयं दृष्टान्त इत्यत आहएकेति ।
… एकभागानां तावत्त्वं ह्येव गण्यते । मनुव्_२,२.७२च्द् ।
७,३५६
न्यायसुधा-
सङ्खयामधिकृत्य हि गणितशास्त्रं प्रवृत्तम् ।
तत्र च कलासवणर्नप्रभागभागानुबन्धभागापवाहभागभागादिप्रकरणेष्वेकभागानां तावत्त्वमनवधिकत्वं गम्यते हि यस्मात्तस्मादवगम्यते
अस्त्येकत्वादप्यपकृष्टानवधिका सङ्खयेति ।
परार्धात्परतो ऽपि सङ्खयासद्भावः स्फुट एवेति नोपपादितः ।
सम्भवति हि परेषामपीश्वरापेक्षाबुद्धया परमाण्वादौ परार्धात्परतो ऽपि सङ्खयोत्पत्तिः ।
ततः परं सञ्ज्ञाकरणं तु गणकानां प्रयोजनाभावात् ।
एतामेव विप्रतिपत्तिमपनेतं सङ्खयादृष्टान्तोपादानं कृतमिति ।
७,३५७
एवं कालाकाशयोः परिमाणोत्कर्षापकर्षानन्त्यं साक्षिणा प्रसाध्येश्वरे तदागमेन साधयतिअणीयांश्चेति ।
अणीयांश्च महीयांश्च भगवानागमोदितः । मनुव्_२,२.७३अब् ।
७,३५८
न्यायसुधा-
‘अणोरणीयान्महतो महीयानात्मा’ इत्यागमेन भगवानीश्वरो ऽणोरप्यणीयान्महतो ऽपि महीयानुदितः ।
नच तत्राणुमहच्छब्दाभ्यां किञ्चिद्वयवस्थितमुच्यते ।
विशेषणाभावात् ।
ततो यद्यपकृष्टपरिमाणं ततस्ततो ऽप्यपकृष्टपरिमाणो यद्यच्चोत्कृष्टपरिमाणं ततस्ततो ऽप्युत्कृष्टपरिमाण इत्युक्तं स्यात् ।
तथा चेश्वरगतयो परिमाणोत्कर्षापकर्षयोरनवधिकत्वमेव लभ्यते ।
नन्वणीयान्महीयानित्युक्त एव भगवति परिमाणोत्कर्षापकर्षयोः पर्यवसानात्कथं तयोः अनवधिकत्वमित्यत आहअणीयानिति ।
अणीयान्महीयानित्युक्तयोरप्यणोर्महतश्चेति शब्दविषयत्वादिति ।
७,३५९
नन्वेवं सति स्वस्मादपि स्वयमपकृष्ट उत्कृष्टश्चेत्यागतम् ।
को नेत्याह ।
यथा चैतत्तथा वक्ष्यते ।
श्रुत्यन्तरं चेश्वरे परिमाणोत्कर्षापकर्षयोरानन्त्यं प्रतिपादयदस्तीत्याहआनन्त्येति ।
आनन्त्यवाचकः शब्दो द्विधानन्त्ये ऽपि मानताम् । मनुव्_२,२.७३च्द् ।
याति … । मनुव्_२,२.७४अ ।
न्यायसुधा-
‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति ब्रह्मण आनन्त्यस्य वाचको ऽनन्तशब्दस्तावद्देशतः कालतो वस्तुतश्चानन्त्यमाह ।
तत्र देशानन्त्यं नामानवधिकपरिमाणवत्त्वम् ।
कालानन्त्यं नामानवच्छिन्नसत्ताकत्वम् ।
वस्त्वानन्त्यं नामापरिच्छिन्नसङ्खयागुणकर्मविग्रहवत्त्वम् ।
तत्र यदा परिमाणानन्त्यस्य वाचकस्तदा द्विधानन्त्ये ऽपि उत्कर्षापकर्षाभ्यामनन्त्ये ऽपि मानतां याति ।
न तूत्कर्षानन्त्यमात्रे विशेषाभावादिति ।
नन्वनेकार्थत्वमन्यायः ।
को ऽत्र न्यायविरोधः ।
निरर्थकशब्दप्रयोगायोगात्तावदेको ऽर्थो ऽङ्गीकार्यः ।
द्वितीयाङ्गीकारे तु न किञ्चिद्बीजमिति कल्पनागौरवम् ।
उच्यते ।
यत्र ह्येकस्मिन्नर्थे व्यवस्थिते सति वृथैवार्थान्तराङ्गीकारस्तत्रैवमेतत् ।
नचैवं प्रकृते ।
अनन्तशब्दो हि परिच्छेदाभावमाह ।
परिच्छे(दश्च)दो हि देशतः कालतो वस्तुतश्च भवन्युपगपदेव प्राप्नोति ।
नच तत्र कस्यचिन्प्राथम्यमस्ति ।
नाप्यन्यतमपरित्यागे कारणम् ।
एवं परिमाणान्त्ये ऽप्युत्कर्षपरिग्रहो द्रष्टव्य इति ।
७,३६२
नन्वेवं कालतो गुणतश्चानन्त्यवाचकस्यानन्तशब्दस्याल्पकालत्वमल्पगुणत्वं चार्थः स्यात् ।
अन्यथाल्पपरिमाणवत्त्वमपि न स्यात् ।
अविशेषादिति चेत् ।
किमिदं कालतो गुणतश्चाल्पत्वमापाद्यं किमल्पा एव गुणाः सन्ति ब्रह्मणो न बहुतराः ।
तथा अल्पकालीनैव सत्ता न प्रचुरकालीनेति ।
किंवा सर्वकालगतस्याल्पकाले ऽप्यवस्थितिः स्यात् ।
महागुणस्य चाल्पो ऽपि गुणः स्यादिति ।
आद्यं दूषयतिनैवेति ।
… नैव गुणाल्पत्वं कालात्पत्वं च मानगम् । मनुव्_२,२.७४अब् ।
न्यायसुधा-
गुणाल्पत्वं कालाल्पत्वं च मानगम् ।
अनन्तं ब्रह्मेति श्रुतिप्रतिपाद्यं नैव भवेदिति गूढाभिसन्धेः प्रतिज्ञा ।
हेतुमुत्तरत्र वक्ष्यति ।
द्वितीयमाशङ्कयाङ्गीकरोतिसर्वेति ।
सर्वकालगतस्याल्पकाले ऽपि स्यादवस्थितिः । मनुव्_२,२.७४च्द् ।
महागुणस्य चाल्पो ऽपि गुणः स्यादिति चेद् भवेत् । मनुव्_२,२.७५अब् ।
न्यायसुधा-
इतिचेदापाद्यते ।
तद्भवेदेत्यर्थः ।
अत्र गुणग्रहणं क्रियादेरप्युपलक्षणम् ।
गुणकालयोर्यथेष्यमुपादानं प्राथम्यनिरासाथर्म् ।
तेनोक्तकल्पनागौरवपरिहारं सूचयति ।
७,३६४
ननु यदि कालाल्पत्वं गुणाल्पत्वं चाङ्गीक्रियते ।
कथं तर्हि नैव गुणाल्पत्वमिति निराकरणमित्यतो ऽभिसन्धिमुद्घाटयतितावत्त्वमेवेति ।
तावत्त्वमेव नैव स्याद् … । मनुव्_२,२.७५च् ।
न्यायसुधा-
अल्पत्वमेवेत्यर्थः ।
इत्युक्तं प्रागिति शेषः ।
कुतो न स्यादिति चेत् ।
आपादकाभावादित्याहदेशे ऽपीति ।
… देशे ऽप्येतन्न नो मतम् । मनुव्_२,२.७५च् ।
न्यायसुधा-
परिमाणे ऽपीत्यर्थः ।
एतत् तावत्त्वमेव ।
नः अस्माकम् ।
एतदुक्तं भवति ।
परिमाणविषये ऽस्मदीयं श्रुतिव्याख्यानमुपलभ्य हि गुणकालयोरप्येतदापाद्यते ।
आपादकान्तराभावात् ।
नच परिमाणे ऽस्माभिरेवं व्याख्यायते ।
अपकृष्टमेव परिमाणमनवधिकमस्ति नोत्कृष्टमिति ।
द्विधानन्त्ये ऽपीत्युक्तत्वात् ।
अतो निर्मूलमेतदापादनमिति ।
७,३६५
नन्वेतदीश्वरादेरनवधिकोत्कृष्टापकृष्टपरिमाणसमर्थनमयुक्तम् ।
सूत्रकारेण क्वाप्यनुक्तत्वात् ।
महद्दीर्घवद्वेति सूत्रस्य विजातीययोरपि कार्यकारणभावोपपादनेन व्यधिकरणयोरप्यपरिच्छिन्नपरिमाणोत्कर्षापकर्षयोरुपपादनेन वा
समर्थयितुं शक्यत्वादित्यत आहमहत इति ।
महतो ऽल्पत्वमपि हि व्योमवत् प्राह वेदवित् । मनुव्_२,२.७६अब् ।
न्यायसुधा-
निरवधिकपरिमाणोत्कर्षवतो(ऽपि) ब्रह्मणो ऽल्पपरिमारवत्त्वं च व्योमं दृष्टान्तीकृत्य व्योमवच्चेति सूत्रखण्डेन प्राहसूत्रकारः ।
अतो ब्रह्मणो गगनस्य वानवधिकपरिमाणरोत्कर्षापकर्षसद्भावस्तत्सिद्धान्तो भवत्येवेति ।
७,३६८
किञ्च यो ऽर्थो निरवकाशप्रमाणसिद्धो यद्विपर्यये चानिष्यं स सर्वो ऽपि सिद्धान्त एव ।
तत्र कालाकाशयोरी(रपी)श्वरे चानवधिकपरिमाणोत्कर्षापकर्षसद्भावः साक्षिणाऽगमेन च सिद्ध इत्युक्तम् ।
तद्विपर्यये बाधकमाहयदीति ।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत् । मनुव्_२,२.७६च्द् ।
न्यायसुधा-
कालादेरिति वर्तते ।
सर्वत्रापि संस्थानमिति च ।
कालादीनां सर्वगतत्वं परेणाप्यङ्गीकृतम् ।
सर्वगतत्वं च सर्व(त्र)देशे संस्थानम् ।
तथाच यदि कालादेरल्पाल्पतरदेशेषु संस्थानं न स्यात् ।
तदा सर्वत्रावस्थानमपि नो भवेत् ।
कुत इत्यत आहस्थितस्य हीति ।
स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् ।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता । मनुव्_२,२.७७ ।
न्यायसुधा-
ध्रुवमित्यवधारणे ।
अल्पदेशेषु स्थितस्यैवेति ।
यथा खल्वेकैकं वर्णमुच्चारयत एव सवर्देवोच्चारणम् ।
नत्वेकमपि वर्णमनुच्चारयतः, तथाल्पाल्पतरदेशेषु स्थितस्यैव हि सर्वदेशगतत्वं भवेत् ।
एकैकत्रापि देशे ऽनवस्थितस्याखिलदेशस्थता कुत एव भवेत् ।
अनेन यो यत्समुदायं व्याप्नोति स तदेकदेशानपि व्याप्नोति(त्येव), यश्चैकदेशान्न व्याप्नोति नासौ तत्समुदायमित्यन्वयव्यतिरेकौ दर्शितौ ।
७,३७०
न केवलमल्पाल्पतरदेशस्थत्वाभावे सर्वगत्वाभावप्रसङ्गः ।
किन्तु शशविषाणादिवत्सत्तापि न स्यादित्याहशून्यत्वमेवेति ।
शून्यत्वमेव तस्य स्याद् यस्यैकत्रापि न स्थितिः । मनुव्_२,२.७८अब् ।
न्यायसुधा-
एवञ्च कालादीनामल्पाल्पतरदेशावस्थाने ऽल्पाल्पतरपरिमाणवत्त्वमप्यवर्जनीयमित्यनवधिकपरिमाणापकर्षसिद्धिः ।
अनवधिकोत्कर्षस्तु परेणाप्यङ्गीकृत एवेति न तद्विपर्यये बाधकमुक्तम् ।
सर्वत्रापि नो भवेदित्येव वा द्रष्टव्यम् ।
नहि परममहत्त्वाभावे सर्वगतत्वं सम्भवति ।
तथाचाह’विभुत्वान्महानाकाशः’ इत्यादि ।
अल्पाल्पतरदेशपर्यवसितस्याल्पाल्पतरपरिमाणत्वम् ।
न चैवमाकाशादीति चेत् ।
तत्किमाकाशादि समुदितरूपं येन पर्यवसानापर्यवसानविषयत्वमश्नुवीत ।
किन्त्वेकमेव ।
तच्च यद्यल्पाल्पतरदेशेषु तिष्ठेत्तदा तत्तत्परिमाणं भवत्येव (भवेदेव) ।
यदि तव तत्र स्थितस्य तत्तत्परिमाणत्वं तदा घटादावपि तत्प्रसङ्ग इति चेन्न ।
तस्य सांशत्वेनान्यथासिद्धत्वात् ।
७,३७२फ़्.
ननु च सर्वमूर्त(द्रव्य)संयोगित्वमेव सर्वगतत्वं, न सर्वत्र संस्थानम् ।
आकाशादेरनाश्रितत्वात् ।
संयोगश्च तत्तत्परिमाणाभावे(ऽपि भवेदेव ।
नहि घटो गगनेन संयुज्यमानो भवति परममहान्नापि परमाणुना संयुज्यमानः परमाणुः ।
तत्कस्य हेतोः ।
संयोगस्य प्रदेशवृत्तित्वादिति ।
मैवम् ।
सर्वपरिमाणानामप्याकाशे सत्त्वात्परमाणुना च घटांशस्यैव संयोगात् ।
तथाहि ।
विशेषशक्तया, निर्भेदमप्याकाशमनन्तांशोपेतम् ।
तत्र अनवधिकौ परिमाणोत्कर्षापकर्षौ व्यवस्थया वर्तेते ।
ततश्च घटो वितस्तिपरिमाणेनैवाकाशेन संयुज्यते ।
स्वयं च तत्परिमाण इति को दोषः ।
घटांश एव परमाणुसंयोगो वर्तते, न घट इति कथं घटस्य परमाणुता ।
तर्ह्याकाशप्रदेशा एवाल्पाल्पतरप्रदेशसंयोगिन इति, त एव तत्तत्परिमाणाः स्युर्नाकाशमिति चेन्न ।
तेषामप्याकाशात्मकत्वात् ।
अन्यथा संयोगस्य प्रदेशवृत्तित्वं न स्याद्वयाघातादिति ।
७,३७८
कालादौ परिमाणोत्कर्षापकर्षयोरानन्त्यमुपपाद्योपसंहरतिअत इति ।
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित् । मनुव्_२,२.७८च्द् ।
न्यायसुधा-
क्वचित् कालादौ त्रये ।
यद्वानुमानदूषणोपसंहारो ऽयम् ।
ततश्च कालातीतत्वदृष्टान्तदोषावपरिहार्याविति ।
कालाकाशेश्वरेषु परिमाणोत्कर्षापकर्षयोरानन्त्यमस्तीत्युक्तम् ।
न केवलं तेष्वेव ।
किन्तु प्रकृत्यादौ सर्वगते परममहति द्रव्यान्तरे ऽपीत्याहउभयेति ।
उभयानन्त्ययुक् तस्माद् यदि मुख्यमहद् भवेत् । मनुव्_२,२.७९अब् ।
७,३७९
न्यायसुधा-
तस्मादिषूक्तन्यायात् ।
मुख्यं महत् परममहत् ।
यदि कालादेरप्यानन्त्यं स्यात् ।
कथं तर्हि सत्यं ज्ञानमनन्तं ब्रह्मेत्यानन्त्यं ब्रह्मणो लक्षणत्वेनोच्यते ।
न ह्यतिव्याप्तं लक्षणं भवतीत्यत आहतच्चेति ।
तच्च ब्रह्म परं साक्षात् सर्वानन्त्ययुतं सदा । मनुव्_२,२.७९च् ।
न्यायसुधा-
परमिति केवलार्थे ।
यद्यपि कालादिकमप्यनन्तं, तथापि ब्रह्मैव तदनन्तमित्युच्यते ।
कुतः ।
साक्षात् परानपेक्षयानन्तत्वात् ।
अपराधीनत्वापेक्षयेति यावत् ।
पक्षान्तरमाहसर्वेति ।
… सर्वानन्त्ययुतं सदा । मनुव्_२,२.७९द् ।
न्यायसुधा-
नास्यां श्रुतावानन्त्यमात्रं लक्षणत्वेनोच्यते ।
किन्तु देशतः कालतो गुणादितश्च ।
तादृशं च ब्रह्मैवेति न दोषः ।
यथोक्तम्’देशतः कालतश्चैव गुणतश्च त्रिधा ततिः ।
सा समस्ता हरेरेव न ह्यन्ये पूर्णसद्गुणाः’ इति ।
पक्षान्तरमन्वाचिनोतिसदेति ।
पूर्वेणैव सम्बन्धः ।
तथाच कालक्षणेषु देशतो ऽनन्तेष्वपि नातिव्याप्तिरिति ।
७,३८२फ़्.
परमाणावपि परिमाणापकर्षतारतम्यविश्रान्तिर्नास्तीत्युक्तम् ।
तदसत् ।
परिमाणस्य द्रव्याश्रयत्वात् ।
परमाणुतो ऽप्यपकृष्टपरिमाणाश्रयस्य द्रव्यस्याभावात् ।
मैवम् ।
परमाणुभागानां सत्त्वात् ।
नच तेषु विश्रान्तिः ।
तेषामपि (भागसत्त्वात्) सभागत्वात् ।
अविश्रान्तभागपरम्परा कुतः सिद्धेत्यतः साक्षिणेति वक्तुं साक्षी नाम प्रमाणमेव नास्तीति वदतो बाधकं तावदाहयदीति ।
७,३८३
यदि साक्षी स्वयम्भातो न मानं केन गम्यते ।
अक्षजादेश्च मानत्वम् … । मनुव्_२,२.८०अच् ।
न्यायसुधा-
साक्षी नाम मानं यदि नेष्यते तदाक्षजादेर्ज्ञानस्य मानत्वम् ।
चशब्दाद्बहिः कालाकाशादिकमन्तःसुखादिकं च केन प्रमाणेन गम्यते ।
न केनापि ।
तद्ग्राहकस्य प्रमाणान्तरस्य अभावात् ।
नच तन्मा भूदिति वाच्यम् ।
तद्वयवहारविलयप्रसङ्गादिति ।
नन्वस्तु साक्षिणमनङ्गीकुर्वाणस्येदं बाधकम् ।
साधकं (तु) किमित्यत आहस्वयम्भात इति ।
यस्तु स्वयं प्रकाशमाने ऽपि साक्षिणि विप्रतिपद्यते सो ऽक्षजादेर्मानत्वं सप्रमाणकं वस्तुत्वाद्घटवदिति प्रसङ्गसूचितेनानुमानेन बोधनीयः ।
प्रसक्तप्रतिषेधश्च वक्ष्यमाणन्यायेन भविष्यति ।
धमिर्ग्राहकप्रमाणेनैव सिद्धेर्न तत्प्रामाण्ये पृथक् प्रमाणं वक्तव्यम् ।
अत एव मानमित्युक्तम् ।
७,३८५
न साक्षिणो ऽनभ्युपगमे ऽप्यक्षजादिज्ञानप्रामाण्यमप्रामाणिकं प्रसज्यते ।
प्रवृत्तिसामर्थ्येन तज्जातीयत्वेन वानुमानेन तत्सिद्धेरित्यत आहअनवस्थेति ।
… अनवस्थाथवा भवेत् । मनुव्_२,२.८०द् ।
न्यायसुधा-
अन्यथा साक्षीतरप्रमाणवेद्यत्वाङ्गीकारे ।
तर्हि साक्षिप्रामाण्यमप्यन्येन ग्राह्यमित्यनवस्थैवेति चेन्न ।
तस्य स्वप्रकाशत्वादिति ।
तदिदमुक्तं स्वयम्भात इति ।
७,३८६
किमतो यद्येवं साक्षी नाम प्रमाणमस्तीत्यत आहअत इति ।
अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
सर्वदिक्ष्वपि सम्बन्धाद् … । मनुव्_२,२.८१अच् ।
न्यायसुधा-
साक्षित इत्यर्थः ।
सर्वपदार्थानां परमाणोस्तद्भागानां चेत्यर्थः ।
सन्त्येव इति सिद्धमिति शेषः ।
यद्वा सर्वपदार्थानामित्यनेनानुमानमपि सूचयति ।
परमाणुः सभागः पदार्थत्वाद्घटवत् इति ।
नचाश्रयासिद्धिर्धर्मिग्राहकविरोधो वा ।
साक्षिणा परमाणुसिद्धेरुक्तत्वात् ।
तेन च सभागतयैव सिद्धेः ।
न चैवमनुमानवैयर्थ्यम् ।
प्रमाणसम्प्लवाङ्गीकारात् ।
सभागत्वमात्रे विप्रतिपन्नं प्रति सार्थक्याच्च ।
अनुमानान्तरमाहसर्वदेति ।
युगपदित्यर्थः ।
सर्वदिक्षु स्थितैर्द्रव्यैः सम्बन्धात्संयोगादपि भागाः सन्तीत्यवगम्यते ।
यद्यपि सभागत्वमात्रसाधने संयोगित्वमात्रं प्रयोजकम् ।
गगनादीनामपि भागाङ्गीकारेण व्यभिचाराभवात् ।
तथापि बहुभागसाधनाय विशेषणोपादानम् ।
तथाहि ।
परमाणुर्दशभागवान्युगपद्दशमूर्तसंयोगित्वात् (प)घटवदिति ।
७,३९०
ननु द्रव्यत्वेनैवालं किं संयोगित्वेन ।
(हेतूच्छित्तिरूप) विपक्षे बाधकसूचनार्थमिति ब्रूमः ।
तथाहि ।
अस्ति तावत्परमाणोः परमाण्वन्तरसंयोगः ।
अन्यथा द्वयणुकाद्यारम्भानुपपत्तेः ।
न चैकेनैवेति नियमः ।
कारणाकारणसंयोगजसंयोगप्रक्रियायामेकैकस्य परमाणोः सजातीयविजातीयपरमाणुद्वयेन युगपत्संयोगस्योररीकृतत्वात् ।
पाषाणादिमध्यवर्तिनः परमाणोः परितो ऽस्थितैः परमाणुभिः संयोगाभावाद्यनुपपत्तेश्च ।
नच मूर्तानां युगपदेकदेशावस्थानं सम्भवति ।
प्रदेशवर्तिनश्च संयोगाः ।
साक्षिसिद्धत्वात् ।
घटादौ तद्दर्शनेन च परमाणौ(णावप्य०तदनुमानाच्च ।
तथाच यदि परमाणुरनेकांशो न स्यात्, तदा युगपदनेकैर्न संयुज्यतेति ।
ननु संयोगस्य प्रदेशवृत्तित्वं नाम स्वात्यन्ताभावसमानदेशत्वमेव ।
नतु घटसंयोगो घटावयवे वर्तत इति ।
तत्कथं भागाभावे संयोगानुपपत्तिरिति ।
मैवम् ।
प्रत्यक्षादिसिद्धस्य अवयवृत्तित्वस्य परित्यागेनाप्रामाणिकव्याहताङ्गीकारस्यानुचितत्वात् ।
वक्ष्यते चैतत् ।
७,३९९
ननु परमाणुः सावयव इति स्वव्याघातस्य मुख्यमुदाहरणम् ।
यो हि सर्वतः अपकृष्टो यतः परमाणुर्नास्ति तं परमाणुमाचते ।
तस्य सावयवत्वे ऽवयविनो ऽवयवानामपकृष्टपरिमाणत्वावश्यम्भावात्कथं न व्याहतिरित्यत आहअविभाग इति ।
… अविभागः पराणुता । मनुव्_२,२.८१द् ।
न्यायसुधा-
स्यादयं विरोधो यदीदं परमाणुपदप्रवृत्तिनिमित्तं स्यात् ।
नचैवम् ।
सावयवतया साक्षिसिद्धे तदसम्भवात् ।
किन्तु अविभागः पराणुता परमाणुशब्दप्रवृत्तिनिमित्तम् ।
तथाच कुतो व्याघात इति ।
नन्वविभाग इति कथमिदं विज्ञायते ।
सर्वथा विभागलक्षणगुणाभाव इति चेन्न ।
गुणादेरपि परमाणुत्वप्रसङ्गात् ।
द्रव्यत्वे सतीति विशेषणाददोष इति चेन्न ।
असम्भवात् ।
यत्किञ्चिद्विभागाभावाभिप्राये मेरुमन्दरयोरप्यणुत्वप्रसङ्गात् ।
अवयवविभागाभावो ऽभिमत इति चेन्न ।
मैवम् ।
यस्य विभिन्नावयवेषु सत्स्वपि तेषां विभागो न कदापि भवितुमर्हति स परमाणुरिति व्याख्यानात् ।
एतेनावयवपरम्परावि(श्रान्त्यभा)श्रमाभावे ऽनवस्थेत्यपि परास्तम् ।
मूलक्षयाभावस्य सूचितत्वात् ।
७,४०७
यद्वा विभिद्यते विभज्यते इति विभागः ।
तदभावः परमाणुतेति ।
यतः स्वावयवं विना स्वतन्त्रमनवयवरूपमपकृष्टपरिमाणं (वस्तु)नास्ति स परमाणुरिति यावत् ।
७,४१३
नन्वेवमवयवपरम्पराविश्रान्त्यभावे ऽनन्तावयवारब्धत्वाविशेषात्सर्षपमहीधरयोः परिमाणाविशेषः स्यात् ।
नच कारणसङ्खयाविशेषे ऽपि तत्परिमाणप्रचयविशेषात्सर्षपमहीधरयोः परिमाणविशेष इति वाच्यम् ।
अवयवानन्त्यसाम्ये तयोरप्यनुपपत्तेरिति ।
उच्यते ।
किमयं प्रसङ्गः, उतानुमानम् ।
आद्ये ह्ययमर्थः ।
यदि सर्षपमहीधरावविश्रान्तावयवपरस्परौ स्यातां तदा अनन्तावयवारब्धौ प्रसज्येयातात् ।
तथाच समपरिमाणौ भवेतामिति ।
तत्रोभयत्रापि व्याप्त्यभावः ।
यदविश्रान्तावयवपरस्परं तदनन्तावयवारब्धम् ।
यच्चैवं तत्तुल्यपरिमाणमिति ।
किन्नाम भवतोपलब्धम् ।
किञ्चावयवपरम्पराविश्रान्त्यभाव ते सर्वे ऽपि सम्भूयानन्ताः स्युः ।
सषर्पमहीधरारम्भकाणामानन्त्यं तु कुतः ।
अत एव द्वितीयप्रसङ्गस्यापादकासिद्धिः ।
एतेनावयवपरम्पराविश्रान्त्यभावे समसङ्खयावयवारब्धत्वं ततश्चावयवपरिमाणादिविशेषाभावे परिमाणाविशेषः स्यादितीत्यपि परास्तम् ।
व्याप्त्यसिद्धेः ।
समसङ्खयावयवारब्धत्वासिद्धेश्च ।
द्वितीये त्विदमुक्तं स्यात् ।
सर्षपमहीधरौ नानन्तावयवारब्धौ विसदृशपरिमाणत्वात् ।
विमतौ नाविश्रान्तावयवपरम्परौ अनन्तावयवानारब्धत्वादिति ।
आद्ये सिद्धसाधनम् ।
नहि सर्षपादेरवयवपरम्पराविश्रान्त्यभावादिनानन्तावयवारब्धत्वमङ्गीकृतम् ।
किन्तु सम्भूतानामनन्तत्वम् ।
तदभावसाधने मां प्रति दृष्टान्ताभावः ।
गुणादौ साधनाभावात् ।
द्वितीयस्य त्वप्रयोजकतेति ।
७,४१७
स्यादेतत् ।
सर्षपावयवपरम्पराया निरवधिकत्वे मूर्तानां समानदेशत्वानुपपत्तौ सर्षपावयवैर्जगति व्याप्ते विश्वव्यापी सर्षपः स्यादिति महीधरस्यानवकाश
एवेत्यापादनार्थं इति चेन्न ।
पार्थिवपरमाणूनामनन्तत्वे ऽपिस मूर्तान्तरावकाशदर्शनात् ।
सर्षपो यावन्तं देशमवष्टभ्य वर्तमानो दृश्यते तावत्येवानवधिकाया अपि तदवयवपरम्पराया अवस्थानाच्च ।
अत एव हि आकाशादीनामप्यनवधिकमंशपरम्परामुपेत्य तत्र परिमाणापकर्षानन्त्यमुपपादितम् ।
७,४१८
ननु मा भूत्साक्षात्सर्षपमहीधरारम्भकाणां समसङ्खयत्वम् , तथाप्यवयवपरम्पराया विश्रान्त्यभावे सम्भूतावयवानां
समसङ्खयत्वात्परिमाणभेदो न स्यादि(त्युच्यत इति)ति चेन्न ।
आनन्त्ये ऽपि तारतम्यसम्भवात् ।
अनन्ता हि पार्थिवपरमाणवो ऽनन्ताश्चान्त्यविशेषाः ।
नच ते समसङ्खयाः ।
तथा सत्याप्यपरमाणुषु तदभावापातात् ।
तथा सर्वकल्पेषु संसारिणो ऽनन्ताः ।
तथाप्यपवर्गवशात्तारतम्यमुपेयमेव ।
एवमनेकमुदाहरणमिति ।
७,४२१
यदेतत्सूत्रकृता परिमाणासमवायिकारणविषये दूषणमुक्तम् ।
तदुपलक्षणमात्रम् ।
अन्यत्राप्यसमवायिकारणे स्वयं दूषणान्यूहनीयानीत्याशयवान्द्रव्यासमवायिकारणसंयोगविषये अन्यथाप्रतिपत्तिं निराकरोतितत्संयोगादिति ।
तत्संयोगादनियतात् पदार्थानां जनिर्भवेत् । मनुव्_२,२.८२अब् ।
न्यायसुधा-
अवयवसंयोगो द्रव्यासमवायिकारणमिति वदन्तो ऽपि वैशेषिकादयः परमाणुकार्योत्पत्तौ द्वयोरेव सजातीययोरेव परमाण्वोरेव
संयोग(स्यासमवायिका)स्य कारणत्वमित्याद्यचक्षते ।
तदश्रद्धेयम् किन्नाम तेषां कारणानामनियतादुक्तनियमरहितात्संयोगात्पदार्थानां द्रव्याणां जनिर्भवेत् ।
किञ्चित्कार्यं द्वयोः परमाण्वोः संयोगादुपजायते ।
तद्द्वयणुकमुच्यते ।
कदाचित् त्रयाणां तत्त्र्यणुकं चतुर्भिः परमाणुभिरारब्धं च(तच्च)तुरुणुकम् ।
एवमन्यदपि ।
तथा किञ्चित्सजातीययोः परमाण्वोः संयोगात्किञ्चिद्विजातीययोः ।
एवं किञ्चित्परमाण्वोरेव संयोगात्किञ्चित्परमाणुद्वयणुकयोरित्यादि ।
एवं द्वयणुककार्योत्पत्तशवप्यनियमो द्रष्टव्यः ।
७,४२२
कुत इति चेत् उक्तनियमे प्रमाणाभावादित्याहद्वयोरेवेति ।
द्वयोरेव तु संयोग इति केनावसीयते । मनुव्_२,२.८२च्द् ।
न्यायसुधा-
तुशब्दो विशेषार्थः ।
तेन सजातीययोः परमाण्वोरिति नियमो लभ्यते ।
संयोगः आदिकार्यस्यासमवायिकारणमिति शेषः ।
केन प्रमाणेनेत्याक्षेपे ।
उपलक्षणमेतत् ।
त्रयाणामेव द्वयणुकानामित्यपि द्रष्टव्यम् ।
ननु सावयवस्यानेकसंयोगः सम्भवति ।
परमाणुस्तु निरवयव इति द्वयोरेवेति नियमसिद्धिरित्युक्तोत्तरम् ।
निरवयवत्वे द्वयोरपि संयोगो न सम्भवति ।
संयोगस्यांशवृत्तित्वात् ।
७,४२३
ननु सजातीयसंयोग एवारम्भक इति नियमो न निष्प्रमाणकः ।
परमाणुकार्ये गन्धाद्युत्पत्तेरेव तत्र प्रमाणत्वात् ।
तथा हि ।
पार्थिवाप्यपरमाणुभ्यां यद्येकं कार्यमुत्पद्यते तदा तदगन्धमस्नेहमापद्येत ।
पार्थिवतैजसाभ्यामुत्पन्नमगन्धरूपमुत्पद्येत ।
एकस्य गन्धादेरनारम्भकत्वात् ।
अतो गन्धाद्युत्पत्त्यैव सजातीयसंयोगस्यारम्भकत्वसिद्धिरित्यत आहकारणस्येति ।
कारणस्य गुणास्तेन भवेयुः कार्यगा अपि । मनुव्_२,२.८३अब् ।
न्यायसुधा-
तेनेति ।
द्वयोरेवेति नियमाभावेनेत्यर्थः ।
स्यादेतद्विजातीयारम्भकत्वे बाधकम् ।
यदि द्वयोरेव परमाण्वोः संयोगः कार्यारम्भक इति नियमः प्रमाणवान्स्यात् ।
न चैवम् ।
तथाच बहूनां परमाणूनां विजातीयानां संयोगातकार्यारम्भे कारणगता गन्धादयो गुणाः (सद्वितीयाः) सजातीयाः सन्तः (कार्यगाः)
कार्यगतगन्धाद्यारम्भका अपि भवेयुः, को दोषः ।
७,४३०
नन्वनियमवादिना द्वयसंयोगस्यारम्भकत्वं तावदिष्यते ।
तत्र विजातीययोरारम्भकत्वे कार्ये गन्धाद्यनुत्पत्तिः प्रसज्यत इति चेन्न ।
एकैकस्यापि गन्धादेरारम्भकत्वे बाधकाभावात् ।
अपेक्षणीयान्तराभावात्सन्तोत्पत्तिप्रसङ्गो बाधक इति चेन्न ।
कार्यद्रव्योत्पत्तेरपेक्षणीयत्वात् ।
समवायिकारणाभावे कार्यानुत्पादात् ।
अन्यथानेकगन्धाद्यभ्युपगमे ऽपि समानो दोषः ।
एतच्च परमतरीत्योक्तम् ।
वस्तुतस्तु यतः कारणान्येव कार्याकारेणोत्पद्यन्ते तेन कारणगुणा एव कार्यगा भवेयुः ।
ततश्च विजातीयारम्भकत्वे को दोषः ।
एवं तर्हि पृथिवीत्वादिजातिसङ्करः स्यादिति चेत् ।
ततः किम् ।
व्यवहारविलोपः स्यादिति चेन्न ।
‘वैशेष्यात्तु तद्वादे’ इति परिहरिष्यमाणत्वात् ।
तथापि सम्प्रतिपन्नसजातीयारब्ध(कार्य)दृष्टान्तेन विप्रतिपन्नानामपि सजातीयारब्धत्वमनुमास्यत इति चेन्न ।
विजातीयारम्भकत्वस्य साक्ष्यादिप्रमाणसिद्धत्वेन बाधात् ।
७,४३२
स्यादेतत् ।
यदि बहूनां परमाणूनां संयोगस्यारम्भकत्वं स्यात् ।
नचैवम् ।
आरम्भकसङ्खयापकर्षतारतम्यं क्वचिद्विश्रान्तम् ।
तारतम्यत्वात् परिमाणतारतम्यादित्यनुमानेनारम्भकसङ्खयापकर्षस्य क्वचिद्विश्रान्तिसिद्धावेकस्यारम्भकत्वे
सन्ततोत्पत्त्यादिप्रसङ्गात्त्र्यादिकल्पने गौरवाद् द्वयोरेव परमाण्वोः संयोगो द्रव्यारम्भक इति नियमसिद्धेरित्यत आहतारतम्येति ।
तारतम्येन सर्वे ऽपि महान्तश्चाणवो यतः । मनुव्_२,२.८३च्द् ।
७,४३२फ़्.
न्यायसुधा-
यतः कारणात्तारतम्येन सर्वे ऽप्यर्था महान्तश्चाणवश्च समथिर्ताः ततः परिमाणतारतम्यवदिति दृष्टान्तस्य साध्यविकलत्वात् द्वयोरेव तु संयोग
इत्रत केनावसीयत इति सम्बन्धः ।
किञ्चानेनैव न्यायेन द्वयणुकद्वयसंयोगस्याप्यारम्भकत्वं किं नेष्यते ।
बहुत्वाभावे कार्यमहत्त्वानुपपत्तिप्रसङ्गादिति चेन्न ।
यतस्तारतम्येन सर्वे ऽपि महान्तश्चाणवश्च समर्थिताः तेन द्वयणुकमहत्त्वात्तदुत्पत्त्युपपत्तेः ।
परमाणुद्वयारब्धकार्यदृष्टान्तेन सर्वत्रानुमाने त्वतिप्रसङ्ग इति ।
७,४३४फ़्.
अस्त्वेवमुक्तनियमेषु प्रमाणाभावस्तथाप्यनियमसृष्टौ किं मानमिति चेत् ।
साक्षी तावत् ।
लोष्ठादिकार्याणामनियतसङ्खयैर्विजातीयैविर्सदृशैश्चारम्भदर्शनेनानुमानं च ।
आगमाश्चात्र बहुलं भवन्ति ।
तद्दर्शनं भ्रान्तिरिति चेत् ।
किं नियमग्राहकप्रमाणविरोधादेवमुच्यते ।
उत केवलया वैशेषिकादिकल्पनया विरोधात् ।
७,४३५
आद्यं दूषयतिनचेति ।
नच तत्प्रोक्तसृष्टौ तु मानं … । मनुव्_२,२.८४अब् ।
न्यायसुधा-
सजातीयाभ्यामेव द्वाभ्यामेव परमाणुभ्यामेवेत्यादिनियमवत्यां तत्प्रोक्तसृष्टौ तु मानं नास्ति तत् साक्ष्यादिसिद्धस्यास्मदभिमतसृष्टिप्रकारस्य
बाधकं स्यात् ।
तथाचोक्तम् (प्राक्) ।
द्वितीयं दूषयतिकेवलेति ।
… केवलकल्पना ।
कथं साक्षिमितस्यास्य शक्नुयाद् वारणे क्वचित् । मनुव्_२,२.८४ब्द् ।
न्यायसुधा-
निर्मूलेत्यर्थः ।
साक्षीत्युपलक्षणम् ।
अस्य अनियमारम्भस्य ।
कल्पनामात्रस्य प्रामाणिकनिवारकत्वे ऽतिप्रस(ङ्ग इति)ङ्गादिति भावः ।
७,४३७
अत्र तत्प्रोक्तसृष्टाविति सामान्यतो वदतान्यदपि तत्कल्पितमप्रामाणिकमिति सूचितम् ।
तथाहि’प्रकृतेमर्हान्महतो ऽहङ्कारो ऽहङ्कारात्क्रमेणाकाशादीनि महाभूतानि’ इत्येतां श्रुत्यादिप्रसिद्धां प्रक्रियामपहाय वाय्वादीनां
चतुर्णामन्योन्यानपेक्षैव सृष्टिर्व्युत्क्रमेण चाभिहिता ।
विनैव बाधकेन’आकाशाद्वायुर्वायोरग्निः’ इत्यादिपञ्चमी भाक्ती स्वीकृता ।
अत्यन्तासत एव च जनिरङ्गीकृता ।
सर्वापि सृष्टिः समवाय्यादिकारणत्रयाधीनाभ्युपगता ।
तत्र समवायिकारणं समवायाप्रामाणिकत्वस्य वक्ष्यमाणत्वादयुक्तम् ।
अत एवासमवायिकारणमपि ।
तदधीननिरूपणत्वाच्च तल्लक्षणस्य ।
समवायिनिमित्तयोरतिव्याप्तेश्च ।
तथाहि ।
तन्तुपटयोः उत्पन्नस्य द्वित्वस्य पटः समवायिकारणम् ।
स च द्वित्वसमवायिकारणे तन्तौ समवेतत्वात् समवायिकारणप्रत्यासन्नः ।
समवायिकारणतयावधृतसामर्थ्यश्च ।
शरीरात्मनोरुत्पन्नस्य द्वित्वस्यापेक्षाबुद्धिर्निमित्तम् ।
सा च द्वित्वसमवायिकारणात्समवेतत्वान्निमित्तत्वाच्चोक्तलक्षणसम्पन्ना ।
समवायिकारणप्रत्यासन्नतया सामर्थ्यावधारणमभि(हि)मतम् ।
नच तथा प्रकृत इति चेत् ।
तथापि व्याप्यबुद्धेर्व्यापकबुद्धिं प्रति विषयबुद्धेर्धर्माधर्मयोश्च सुखदुःखे प्रत्यसमवायिकारणत्वापत्तेः ।
नह्यन्यगतं व्याप्यबुद्धयाद्यन्यगतस्य व्यापकबुद्धयादेर्निमित्तं भवति ।
आत्मनि प्रदेशभेदान्नेति चेन्न ।
आद्यादिशब्दानां द्वितीयादिशब्दसमवायिकारणत्वाभावापत्तेः ।
एकाकाशगतत्वेन तत्सम्भवे प्रकृते ऽपि समानम् ।
७,४४०
एवमन्यत्राप्यतिव्याप्तिरूहनीया ।
सङ्केतो ऽयमाचार्यस्य ।
अतो नातीवात्र निर्बन्धः करणीय इति चेत् ।
एवं तर्हि निमूलैवेयं प्रक्रियेति सिद्धमेव ।
७,४४७
पाकजप्रक्रियां चाप्रामाणिकमङ्गीकुर्वन्ति ।
त(त्र)च्च वक्ष्यत इत्यलम् ।
७,४४८
ननु परमाणुद्वयणुके एव तावन्न साक्षिसिद्धे कुतस्तदीयारम्भप्रकारः ।
तत्कथमुक्तं साक्षिमितस्येति ।
तत्राहयदीति ।
यदि साक्षिमितं नैतन् … । मनुव्_२,२.८५अ ।
न्यायसुधा-
एतदिति ।
परमाण्वादिकम् ।
तर्हि तदप्रामाणिकमेवापद्यत इति शेषः ।
स्यादेतत् ।
यद्यपि महत्त्वाभावान्न परमाण्वादिकं चक्षुरादेर्गोचरः ।
बहिस्स्वातन्त्र्यान्मनसो ऽपि ।
आगमादि तु नानुमानाद्भिद्यते ।
भेदे ऽप्यतीन्द्रिये सङ्केतानुपपत्तेर्नागमस्य विषयः ।
तथाप्यनुमानं तत्र (प्रमाणं) भविष्यति ।
तत्कथं परमाण्वादेः साक्षिवेद्यत्वाभावे ऽप्रामाणिकत्वापत्तिरित्यत आहनेति ।
… नानुमा तत्र वर्तते । मनुव्_२,२.८५ब् ।
न्यायसुधा-
कथमिति चेत् ।
किं परमाण्वादिकमेव पक्षीकृत्य तत्साध्यते ।
उतान्यत् ।
७,४५१
आद्ये तत्प्रमाणान्तरतः सिद्धं न वा ।
पक्षद्वये दोषमाहपक्षीकर्तुमिति ।
पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत् । मनुव्_२,२.८५च्द् ।
न्यायसुधा-
सिद्धत्वे पक्षलक्षणाभावादसिद्धत्वे न्यायाविषयत्वात्परमाण्वादेः पक्षीकर्तुमशक्यत्वात् तत्पक्षीकारेणानुमा दूरनिरस्तेति ।
ननु पक्षीकरणासम्भवे कथमनुमानानुपपत्तिरित्यत आहयत्रेति ।
यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् । मनुव्_२,२.८६अब् ।
न्यायसुधा-
यथा तथेत्यध्याहर्तव्यम् ।
यत्र यद्विषये ।
विषयं देशम् ।
यथा हि विषयप्राप्तेः पदन्यासः कारणम् ।
स्थाण्वस्थाणुसंयोगस्यास्थाणुक्रियाहेतु(क)त्वात् ।
अतः पदन्यासाभावे विषयप्राप्तिरपि नास्ति ।
तथानुमोत्पत्तौ पक्षीकरणं कारणम् ।
नहि पर्वतादिर्वा वह्नयादिर्वा अनुमानस्य विषयः ।
किन्तु तत्सम्बन्धः ।
नच सम्बन्धिज्ञानेन विना सम्बन्धज्ञानं सम्भवति ।
अतः पक्षीकरणाभावे नानुमानोत्पत्तिः सम्भवतीति ।
७,४५२
द्वितीयमपि निराकरोतिपक्षीकर्तुमिति ।
द्वयणुकं हि पक्षीकृत्य परमाणुरनुमातव्यः ।
कार्यमेवात्र प्रमाणमित्युक्तत्वात् ।
तच्चेदानीमप्यसिद्धमिति पक्षीकर्तुमशक्यत्वात्कुत एव तत्कारणपरमाण्वनुमा भवेत् ।
अनुमितं द्वयणुकं पक्षीकृत्य परमाणुरनुमास्यत इति चेन्न ।
तदपि हि परमाणुं पक्षीकृत्य यदि साध्यते तदोक्त एव दोष इत्याहपक्षीकर्तुमिति ।
अद्याप्यसिद्धस्य परमाणोः पक्षीकर्तुमशक्यत्वात्कुत एव तत्कायर्द्वयणुकानुमा भवेत् ।
नन्वणुपरिमाणतारतम्यं क्वचिद्विश्रान्तं परिमाणतारतम्यत्वान्महत्परिमाणतारतम्यवदित्यनुमानेन परमाणुसिद्धिर्भविष्यतीति चेन्न ।
विकल्पानुपपत्तेः ।
अणुपरिमाणशब्देन किं परिमाणापकर्षो ऽभिधीयते, किंवा परमाणुपरिमाणम्, यद्वा द्वयणुकपरिमाणम्, यदि वोभयपरिमाणम् ।
नाद्यः ।
दूषितत्वात् ।
उत्तरपक्षत्रयं दूषयतिपक्षीकर्तुमिति ।
परमाणुद्वयणुकयोरसिद्धौ तत्परिमाणस्याप्यसिद्धेः ।
एकैकत्र तारतम्यस्याभावाच्चेति भावः ।
७,४५२फ़्.
यदिदं जालसूर्यमरीचिस्थं सर्वतः सूक्ष्मतमं रज उपलभ्यते तत्त्र्यणुकमित्युच्यते ।
तदिदं महत्, चाक्षुषद्रव्यत्वात्, घटवत् ।
कार्यं च महत्त्वे सति चाक्षुषत्वात् महत्वे सति क्रियावत्वाद्वा ।
सावयवं च कार्यद्रव्यत्वात् ।
तदवयवाश्च द्वयणुकनामानः ।
ते ऽपि कार्याः सावयवाश्च, महद्द्रव्यारम्भकत्वात् तन्तुवत् ।
यश्च तदवयवः स एव परमाणुः तदवयवकल्पनायां प्रमाणाभावाद्बाधकसद्भावाच्च ।
अतो ऽनुमानेनैव परमाणुद्वयणुकसिद्धिरित्यत आहपक्षीकर्तुमिति ।
प्रत्यक्षस्य त्र्यणुकस्यैव परमाणुत्वसम्भवेन तत्कार्यत्वसावयवत्वसाधानाय पक्षीकर्तुमशक्यत्वात्कुत एव द्वयणुकपरमाण्वोरनुमा भवेत् ।
७,४५५
महत्त्वात्कथमसौ परमाणुरिति चेन्न ।
महत्त्वासिद्धेः ।
चाक्षुषद्रव्यत्वात्तत्सिद्धिरिति चेन्न ।
कस्यचिदमहतो ऽपि चाक्षुषत्वे बाधकाभावात् ।
महत्त्वं च द्रव्यचाक्षुषतायां कारणमिति चेत् ।
सत्यम् ।
क्वचिदन्यदपि कारणं कल्पयिष्यते ।
गौरवं तथा सति स्यादिति चेन्न ।
धर्मिकल्पनातो धर्ममात्रकल्पनायाः लघुत्वात् ।
अस्तु वा महत्त्वम् ।
तथाप्यणुत्वेन तस्य समावेशे को विरोधः ।
कार्यत्वसाधनं चाप्रयोजकम् ।
महतो ऽप्यात्मनः प्रत्यक्षवच्चाक्षुषत्वोपपत्तेः ।
परममहत्त्वाभावेन क्रियासम्भवाच्च ।
महत्त्वस्य कारणबहुत्वं कारणमिति चेन्न ।
नित्यत्वोपपत्तेः ।
चाक्षुषमहत्त्वान्नेति चेन्न ।
बाधकाभावात् ।
अत एव कार्यद्रव्यत्वमसिद्धम् ।
सन्तु वा तदवयवास्त एव परमाणव इति तेषां पुनरवयवसाधनाय पक्षीकर्तुमशक्यत्वात्कुत एवानुमा भवेत् ।
ननु महद्द्रव्यारम्भकत्वात्ते ऽपि सावयवा एवेति चेन्न ।
निरवयवस्य म(हा)हद्द्रव्यारम्भकत्वे बाधकाभावात् ।
बहुत्वेनैव महत्त्वारम्भोपपत्तेः ।
द्रव्यारम्भे सावयवत्स्यानुपयोगात् ।
सन्तु वा द्वयणुकावयवास्ते ऽपि कुतः परमाणवः ।
महद्द्रव्यारम्भकत्वेन तेषामपि सावयवत्वानुमानात् ।
अनवस्था बाधिकेति चेन्न ।
तदवयवानां तदवयवावयवानां वा निरवयवत्वेन तद्विश्रान्तेः ।
कथं चेयमनवस्था दूषणम् ।
मेरुसर्षपादीनां समपरिमाणत्वापत्तिस्तु दूषिता ।
घटादिकार्यानुत्पत्तिरिति चेन्न ।
सावयवस्यैव नित्यत्वोपपत्तेः ।
यथोक्तम् ।
अविभागः प(रणु)रमाणुतेति ।
७,४६०
एवं परमाणुद्वयणुकयोरनुमानतः सिद्धिमपाकृत्य प्रसङ्गादाकाशादिपरिमाणोत्कर्षानन्त्यस्यानुमानिकत्वं न युज्यत इति यदुक्तं
तत्प्रपञ्चयतिदेशान्तरेति ।
देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत् । मनुव्_२,२.८६च्द् ।
न्यायसुधा-
यो ऽयं योजनादिपरिच्छिन्नो देशः सम्प्रतिपन्नः, स स्वतः स्थूलेन देशान्तरेण युक्तो देशत्वाद्धस्तादिदेशवदित्याद्यनुमानैः
खल्वाकाशादिपरिमाणोत्कर्षानन्त्यं साधनीयम् ।
त एते देशान्तरादिशब्दाः ।
देशान्तरादिसाधकानुमानप्रयोगाः ।
शशशृङ्गादिशब्दवत् शशशृङ्गादिसाधकानुमानप्रयोगैस्तुल्यं वर्तन्ते ।
अनेनैव प्रकारेण शशशृङ्गादिकमप्यनुमातुं शक्यत इति यावत् ।
शब्दमात्रमेवैतत् ।
न त्वनुमानमिति सूचयितुं शब्दा इत्युक्तम् ।
न केवलमाकाशादीनां परिमाणोत्कर्षानन्त्यानुमानं प्रतिपक्षपराहतम् ।
अपि तु सम्प्रतिपन्नानि सर्वशृङ्ग्विशृङ्गान्तरवन्ति शृङ्गत्वाद्गोशृङ्गवत् ।
विमताः सर्वे पुत्राः पुत्रान्तरोपेताः पुत्रत्वाद्देवदत्तपुत्रवदिति शशशृङ्गादिसाधकानुमानाभाससमानयोगक्षेमं चेत्यर्थः ।
७,४६१फ़्.
न वयमेवमाकाशादिपरिमाणोत्कर्षानन्त्यमनुमिमीमहे ।
येनातिप्रसङ्गः स्यात् ।
किन्तु विप्रतिपन्नो देशः स्वतः स्थूलेन सदृशेन सजातीयेन वा द्रव्यान्तरेण युक्तो देशत्वाद्धस्तादिदेशवत् ।
सो ऽप्येवं सो ऽप्येवम् ।
एवं काले ऽप्यनुमातव्यम् ।
नचैवं शशशृङ्गानुमानं शक्यम् ।
तस्यात्यन्तासतो ऽनुपलभ्यमानस्य गवादिशृङ्गेः सादृश्यसाजात्ययोरभावात् ।
नच आकाशादेरप्येकैकत्वात्सादृश्याद्यभावः ।
औपाधिकभेदेन तदुपपत्तेरित्यत आहसदृशं चेति ।
७,४६२
सदृशं च सजातीयं नास्मत्पक्षे किमेव हि । मनुव्_२,२.८७अब् ।
न्यायसुधा-
सम्प्रतिपन्नदेशादिना सदृशं सजातीयं (चा)वास्मत्पक्षे गगनादिपरिमाणोत्कर्षानन्त्यमनभ्युपगच्छतां पक्षे किमेव न भवति ।
किन्तु भवत्येवेति ।
तथाच सम्प्रतिपन्नदेशस्य ततः स्थूलेनात्मना सदृशेन सजातीयेन वोपेतत्वस्य सिद्धत्वात्सिद्धसाधनता स्यात् ।
आकाशादिपरिमाणोत्कर्षानन्त्यासिद्धेरर्थान्तरता चेति ।
सम्प्रतिपन्नदेशस्येश्वरादिमत्त्वं बाधितं सम्बन्धाभावादिति चेन्न ।
देशान्तरेणापि सम्बन्धाभावात् ।
एतेन शशविषाणादिसाधकानुमाने ऽपि बाधाभिधानं परास्तम् ।
देशान्तरानुमाने ऽपि साम्यात् ।
तदेवं परमाणुद्वयणुकयोराकाशादिपरिमाणोत्कर्षान्त्यस्य च साक्षिसिद्धतामनङ्गीकृत्य केवलानुमानवेद्यत्वस्वीकरणमनुपपन्नमित्युक्तम् ।
७,४६४
एवमागममनादृत्येश्वरधर्माद्यनुमानमप्ययुक्तमिति प्रसङ्गादाहयेनैवेति ।
येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशशृङ्गादेः शक्यमस्तित्वकल्पनम् । मनुव्_२,२.८७च्फ़् ।
न्यायसुधा-
अत्यसिद्धमित्यनेनागमानादरं दर्शयति ।
शशशृङ्गादेरित्यप्रामाणिकस्योपलक्षणम् ।
एतच्च तत्र तत्र लेशतो दर्शितम् ।
७,४७१
न(च) शशशृङ्गाद्यनुमानप्रतिबन्दीग्रस्तत्वमात्रेणैतेषामनुमानानामप्रामाण्यं युक्तम् ।
तथा सति धूमानुमानस्याप्यप्रामाण्यप्रसङ्गात् ।
तत्रापि हि शक्यते वक्तुं यदि धूमवत्त्वात्पवर्तो ऽग्निमांस्तदा पशुत्वाच्छशो ऽपि विषाणवान्यस्यादिति ।
अथोच्येत ।
तुल्ययोगक्षेमत्वे हि प्रतिबन्दीग्रहः ।
अन्यथातिप्रसङ्गात् ।
नचात्र तुल्ययोगक्षेमता धूमानुमानस्य व्याप्त्यादिसामर्थ्यसहितत्वात् ।
शशशृङ्गाद्यनुमानस्य तदभावादिति ।
सममेतत्प्रकृते ऽपि ।
प्रस्तुतानुमानानामपि व्याप्त्यादिमत्त्वादित्यत आहप्रत्यक्षमिति ।
प्रत्यक्षमागमो वापि भवेद् यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः । मनुव्_२,२.८८ ।
७,४७१फ़्.
न्यायसुधा-
वाशब्दः समुच्चये ।
अपिरनुमानस्य समुच्चयार्थः ।
नियामको ग्राहकः ।
मानम् अनुमानमानत्वोपयोगिनी ।
अन्या प्रत्यक्षाद्यगृहीता ।
सन्दिग्धमूलतः सन्दिग्ध(ग्धा)व्यभिचारत्वतः ।
अव्यभिचारो हि साहित्यस्य व्याप्तित्वे मूलम् ।
तत्र प्रत्यक्षगृहीता व्याप्तिर्यथा धूमस्याग्निना ।
आगमगृहीता यथा ।
ब्राह्मणो न हन्तव्य इति ।
अनुमानगृहीता यथा ।
व्यतिरेकिप्रयोगे ।
एतदुक्तं भवति ।
प्रत्यक्षाद्यवधृतं हि व्याप्त्यादि अनुमानमाना(नता)ङ्गम् ।
न स्वयमात्रसिद्धम् ।
सन्दिग्ध(ग्धा)व्यभिचा(र)रित्वात् ।
समयानां सन्दिग्धमूलत्वाच्च ।
विद्यते च धूमाद्यनुमानानां प्रमाणावधृतं व्याप्त्यादीति न प्रतिबन्दीग्रहमात्रेण तद्भङ्गः ।
न परमाण्वाद्यनुमानानामिति प्रतिबन्दीग्रस्तत्वादप्रामाण्यमेव ।
ननु व्याप्त्याद्यभावे किं प्रतिबन्दीग्रहेण ।
तत एवाप्रामाण्यसिद्धेरिति ।
सत्यम् ।
प्रत्यक्षाद्यनवधृतव्याप्त्यादेरपि प्रामाण्ये ऽतिप्रसङ्गो वा तदप्रामाण्ये दृष्टान्तो वा प्रतिबन्दीग्रहेण द्योत्यत इत्यदोष इति ।
७,४७४
सत्यमेतत्प्रत्यक्षाद्यवधृतैव व्याप्तिरनुमानप्रामाण्योपयोगिनीति ।
सा च धूमानुमावत्परमाण्वाद्यनुमानेष्वप्यस्त्येव ।
धूमस्याग्निनेव महदारम्भकत्वादीनामपि सावयवत्वादिना साहित्यदर्शनादित्यत आहसहेति ।
सहदर्शनमात्रेण न व्याप्तिरवसीयते । मनुव्_२,२.८९अब् ।
न्यायसुधा-
न धूमादीमाप्यग्न्यादिभिः सहदर्शनमात्रेण व्याप्तिरवसीयते ।
येन महदारम्भकत्वादीनामपि सावयवत्वादिभिस्ततो ऽवसीयेत ।
तथा सत्यग्न्यादीनां धूमादिभिरपि व्याप्त्यध्यवसायप्रसङ्गात् ।
सहदर्शनमात्रस्य तत्रापि सत्त्वात् ।
व्यभिचारानुपलम्भे सति साहित्यदर्शनं व्याप्त्यध्यवसायहेतुरिति चेत् ।
किं सकलदेशकालनिष्ठो ऽनुपलम्भः, किं वा तद्विशेषनिष्ठः ।
नाद्यः ।
अस्मदाद्यशक्यत्वात् ।
न द्वितीयः ।
अतिप्रसङ्गादिति ।
७,४७५
कथं तर्हि व्याप्त्यध्यवसायः स्यादित्यत आहयदैवेति ।
यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् ।
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा नहि । मनुव्_२,२.८९च्फ़् ।
न्यायसुधा-
अव्यतिरेके साध्याभिमतव्यतिरेकेणासत्त्वे ।
अस्य साधनाभिमतस्य धर्मस्य युक्तेर्व्याप्तिनिश्चयहेतुत्वे ऽनवस्था (स्या)नात् ।
तद्वयाप्तेरपि युक्त्यन्तरेण निश्चेतव्यत्वादित्यत उक्तम्
तन्निर्धारितेति ।
व्याप्तिशब्दो ऽध्याहार्यः ।
तेन प्रत्यक्षेणागमेन वा निर्धारितव्याप्तिकेत्यर्थः ।
अपरा साहित्यदर्शनमात्रनिबन्धना न हि ।
अयमर्थः ।
नियतः सम्बन्धो हि व्याप्तिर्न सम्बन्धमात्रम् ।
नियमश्च व्यभिचाराभावः ।
अतः साहित्य इव व्यभिचाराभावे ऽपि प्रमाणप्रवृत्तौ व्याप्तिसिद्धिः ।
नचैतदशक्यम् ।
अनुमित्यनुदये सर्वव्यवहारविलोपप्रसङ्गेन कार्यदर्शनादेव तत्सिद्धेः ।
प्रकारस्तु चिन्त्यते ।
तत्र धूमस्याग्निना सम्बन्धस्तावत्प्रत्यक्षेणावगम्यते ।
परिचितदेशकालयोर्व्यभिचारश्च नावगम्यते ।
देशान्तरादिगते तु व्यभिचारे सन्देहो ऽवशिष्यते ।
स च न तावद्वयभिचारचिह्नदर्शनजन्यः ।
किन्तु भूयःसहचरिततया दृष्टा अदृष्टव्यभिचारा अपि धर्मा व्यभिचारिणो दृष्टाः ।
धर्मश्चायमित्येवमुत्पद्यते ।
तत्र यद्ययमेतत्सहवृत्तिस्वभावस्तदान्यत्रापि सहैव वर्तेत ।
स्वभावस्यानपायात् ।
यदि चासहवृत्तिस्वभावस्तदात्रापि न सह वर्तेत ।
असहवृत्तिस्वभावस्यापि सहवृत्तिर्निमित्तान्तरायत्ता चेदत्रोपलभ्येत ।
सहवृत्तिस्वभावस्यापि निमित्तान्तराद्वयभिचारो भविष्यतीति तु निर्बीजा शङ्कां नोदेत्येव ।
सर्वव्यवहाराभावप्रसङ्गात् ।
तदेवं मीमांसासहकृतं प्रत्यक्षं धूमस्याग्निसम्बन्धं गृह्णद्वयभिचाराभावमप्याकलयतीति व्याप्तिमवधारयत्येव ।
अनुमानागमाभ्यां तु व्याप्तिग्रहप्रकारः सु(गम)ग्रह एवेति ।
७,४७९
नन्वनेनैव न्यायेन महदारम्भकत्वादीनामपि व्याप्तिनिश्चयसम्भवात्कथं परमाण्वादावनुमानाप्रवृत्तिरिति चेन्न ।
पक्षेतरत्वस्योपाधित्वसम्भवेन व्यभिचाराभावानिश्चयात् ।
अथ तस्योपाधित्वं नास्तीत्युच्येत दात बाधकमाह
अन्यथेति ।
अन्यथा सप्तमरसभवो ऽप्यनुमयाऽपतेत् ।
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी । मनुव्_२,२.९० ।
७,४७९फ़्.
न्यायसुधा-
पक्षेतरत्वस्योपाधितामनादृत्य प्रमाणान्तरासहकृतेनैवानुमानेन परमाण्वादिसिद्धयभ्युपगम इत्यर्थः ।
मधुरो रसो लवणादिरसपञ्चकव्यतिरिक्तरसान्योन्याभाववान् रसत्वाल्लवणादित्याद्यनुमया ।
अनिष्यानि च सर्वाणि दहनशैत्यादीन्यापतेयुः ।
कुतः ।
यस्मादेवंविधानुमा कामचारिणी ।
ननु च सप्तमरसादेरनुपलम्भादिबाधितत्वात्पक्षेतरत्वोपाधिदुष्टत्वमनुमानानामिति चेत्समं प्रकृते ऽपि ।
परमाण्वादेरप्यनुपलम्भबाधितत्वात् ।
अयोग्यं तदिति चेत् ।
तुल्यं सप्तमरसादावपि ।
अनुमानप्रामाण्ये सप्तमरसादिसिद्धावयोग्यत्वं कल्प्यम् ।
कल्पिते च तस्मिन्ननुमानप्रामाण्यसिद्धिरित्यन्योन्याश्रयत्वमिति चेत् ।
एतदपि तादृगेव ।
अनुपभोग्यस्य सप्तमरसादेः कल्पने गौरवमिति चेत् ।
समाधिसाम्यम् ।
प्रमिते न गौरवं दोष इत्येतदपि समानम् ।
तस्मात्परमाण्वादेः साक्षिवेद्यत्वमङ्गीकृत्य प्रतिबन्दी मोचनीयेति कथं न तस्य साक्षिवेद्यत्वमिति ।
७,४८२
समवायाभ्युपगमाच् च साम्याद् अनवस्थितेः । ब्ब्स्_२,२.१३ ।
। ओं समवायाभ्युपगमाच्च साम्यादनवस्थितेः ओं ।
ओं उभयथापि न कर्मातस्तदभावः ओं ।
इति सूत्रम् ।
तत्’नित्यमेव च भावात्’ इत्यागामिसूत्रव्याख्यानेनैव व्याख्यातं भविष्यतीति मन्वानस्तदपहाय हेत्वन्तरेण
वैशेषिकादिसमयमपाकुर्वन्(त्)’समवायाभ्युपगमाच्च साम्यादनवस्थितेः’ इत्येतत्सूत्रं व्याचष्टेकार्येति ।
कार्यकारणयोश्चैव … । मनुव्_२,२.९१अ ।
न्यायसुधा-
समवाय ईर्यत इति वक्ष्यमाणमत्रापि सम्बद्धयते ।
अनेन समवायप्रतिपादकं परेषां’इहेति यतः कार्यकारणयोः स समवायः’ इति सूत्रमर्थतो ऽनुवदति ।
अत्र कार्यकारणशब्दावयवावयविवाचकौ ।
तौ चोपलक्षणपराविति सूचनार्थश्चशब्दः ।
एवशब्दः समवायस्येहप्रत्यसिद्धत्वं सूचयति ।
७,४८४
तदेतत्स्वयमेव विवृणोतिगुणादेरिति ।
… गुणादेः पञ्चकस्य च ।
भिन्नस्यैव तु सम्बन्धः समवायो ऽन्य ईर्यते । मनुव्_२,२.९१ब्द् ।
न्यायसुधा-
गुणादेः पञ्चकस्येति गुणावयविक्रियासामान्यविशेषणामित्यर्थः ।
चशब्देन गुण्यादिपञ्चकस्य चेति समुच्चिनोति ।
ननु गुणगुण्यादिकमभिन्नं भिन्नाभिन्नं वा तत्किं समवायेनेत्यत उक्तम्भिन्नस्यैवेति ।
तुशब्दो विशेषार्थः ।
न ययोः कयोश्चिद्गुणगुणिनोः समवायः किन्त्वयुतसिद्धयोरेवेति ।
स गुणगुण्यादिस्वभाव एव चेन्न पदार्थान्तरसिद्धिरित्यत उक्तम्अन्य इति ।
ईर्यते वैशेषिकादिभिः, अतो ऽपि तद्दर्शनमयुक्तमिति शेषः ।
अयमर्थः ।
वैशेषिकादयो ऽवयवावयविनोर्गुणगुणिनोः क्रियाक्रियावतोर्जातिव्यक्तयोः विशेषनित्यद्रव्ययोरत्यन्तभेदमभ्युपगम्यात्यन्तभिन्नमेव समवायाख्यं
सम्बन्धमभ्युपगच्छन्ति ।
ततो ऽप्यनुपपन्नभाषिण इति ।
७,४८६
ननु च गुणगुण्यादीनामत्यन्तभेदस्तावद्वयपदेशभेदादिप्रमाणसिद्धः ।
अन्यथा स्तम्भकुम्भादीनामप्यत्यन्तभेदो न स्यात् ।
अस्ति चेह तन्तुषु पटः, इह पटे रूपमिह मूर्ते कर्मेह गवि गोत्वमिह नित्यद्रव्ये विशेष इत्यबाधितः प्रत्ययः ।
न चेहेदमिति प्रत्ययो विनातिरिक्तेन सम्बन्धेनोपपद्यते ।
इह कुण्डे बदराणीति प्रत्ययस्य संयोगपूर्वकत्वदर्शनात् ।
स चायमयुतसिद्धयोः सम्बन्ध इति संयोगाद्भिद्यते ।
युतसिद्धयोर्हि सम्बन्धः संयोगः ।
द्रव्यमात्रवृत्तिश्च ।
तदेवं प्रमितस्य समवायस्याभ्युपगमे कथमयुक्तवादित्वं वैशेषिकादीनामित्यत आहभिन्नत्वेति ।
भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्रुवम् । मनुव्_२,२.९२अब् ।
न्यायसुधा-
भिन्नत्वसाम्यत इत्युपलक्षणम् ।
इहप्रत्ययसाम्यतश्चेत्यपि द्रष्टव्यम् ।
तस्य समवायस्य ।
ताभ्याम् अवयवावयव्यादिसम्बन्धिभ्यां सह ।
योगः सम्बन्धः ।
एतदुक्तं भवति ।
इह तन्तुषु पट इत्यादिप्रत्ययः सम्बन्धपूर्वको ऽबाधितेहप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवदिति समवायमनुमिमानेन यो ऽबाधितेहप्रत्ययः
स सम्बन्धपूर्वक इति व्याप्तिरवश्यमङ्गीकरणीया ।
विद्यते चेह तन्तुपटयोः समवाय इत्यबाधितेहप्रत्ययः ।
तेन समवायस्यापि तन्तुपटाभ्यां समवायो ऽभ्युपगन्तव्य एव स्यात् ।
न चाभ्युपगम्यते ।
अतस्तत्र अनैकान्तिकमनुमानमिति ।
ननु तन्तुपटयोः समवायः सिद्धो न वा ।
सिद्धश्चेत्किमुत्तरकालभाविनानैकान्त्येन ।
नचेत्क्वनैकान्त्यम् ।
मैवम् ।
आपाततः प्रतीते सम्बन्धे व्यभिचारं दृष्ट्वा परावृत्तेरावश्यकत्वस्य विवक्षितत्वात् ।
७,४८७
नन्वत्र भिन्नत्वसाम्यं किमर्थमुपन्यस्तम् ।
नहि भिन्नत्वं हेतूकृतमिति ।
सत्यम् ।
अबाधितत्वद्योतनार्थं भिन्नत्वग्रहणम् ।
विभिन्नवस्त्वभावे खल्विह प्रत्ययो बाधितः स्यात् ।
इह तन्तुपटयोः समवाय इति प्रत्ययो ऽपि सम्बन्धपूर्वक एव तन्तुपटसमवायस्यैतत्कारणत्वादिति चेन्न ।
आधाराधेयतया प्रतीयमानयोः सम्बन्धस्य परेण सिसाधयिषितत्वात् ।
अन्यथा स्थाणुश्येनयोः संयोग इत्यत्र समवायासिद्धिप्रसङ्गात् ।
इन्द्रियार्थसन्निकर्षादिना सिद्धसाधनतापत्तेश्च ।
७,४८९
नन्वनवस्थितेरिति सूत्रं कथम् ।
इत्थम् ।
यदि व्यभिचारपरिहाराय समवायस्यापि समवायान्तरमुपेयते ।
तदानवस्थितिरिति ।
इह केचित्समवायं प्रत्यक्षमाचक्षाणाः, यत इति च विषयसप्तमीं व्याचक्षाणाः तत्स्थेम्ने अनुमानमाचक्षते ।
तेषामिहप्रत्ययस्य सम्बन्धपूर्वकत्वं नाम तत्प्रतीतिपूर्वकत्वमेव ।
तन्मते स्फुटैवानवस्था ।
ये तु प्रत्यक्षतां नाभ्युपगच्छन्ति ।
सम्बन्धस्य सत्तामात्रेणेहप्रत्ययकारणवत्वमाहुस्तेषाम्, अवस्थितिः सिद्धान्तः तद्विरोधो ऽनवस्थितिः इत्यनवस्थितिशब्दो ऽपसिद्धान्तवाची
व्याख्यायते ।
यद्वेह कुण्डे बदराणीतिवत्सम्बन्धस्य प्रतीत्यैवेहप्रत्ययकारणत्वादत्रापि प्रतीतिमापाद्यानवस्थैव वक्तव्या ।
कुण्डबदरसंयोगस्य योग्यतया अवर्जनीयतया प्रतीतिर्नेहप्रत्ययकारणमिति कुत एषा कल्पना ।
सत्तामात्रेणेहप्रत्ययकारणत्वोपपत्तौ प्रतीतेरपि कारणत्वकल्पकाभावादिति चेन्न ।
सत्यपि संयोगे कुतश्चिद्वयवधानादप्रतीयमाने नेहबुद्धिर्भवति ।
भवति चासत्यपि संयोगे तद्विपर्ययादित्यन्वयव्यतिरेकयोः कल्पकाभावात् ।
स्वस्वामिभावादयो ऽपि हि ज्ञाता एव सम्बन्धनिमित्तव्यवहारहेतवो दृष्टा नान्यथा ।
न ते सम्बन्धा अद्विष्ठत्वादिति चेन्न ।
संयोगस्याप्यद्विष्ठताया वक्ष्यमाणत्वात् ।
किञ्चैवं समवायो ऽपि न सम्बन्धः स्यात् ।
तस्यानाश्रितत्वाभ्युपगमात् ।
नन्वेवं तर्हि नानैकान्त्यात् अनवस्थैव बाधितत्वेनाबाधितेहप्रत्ययत्वस्य तत्रावृत्तेरिति चेन्न ।
अनवस्थायाः साध्यबाधकत्वेन साधनाबाधकत्वात् ।
साध्यबाधेनैव साधनबाधनाभ्युपगमस्य व्याप्तिनिश्चयोत्तरकालीनत्वात् ।
तन्तुपटयोः समवाय इति प्रतीतिरपि सम्बन्धपूर्विकैव ।
किन्त्वरोपित एवासौ सम्बन्ध इति चेन्न ।
अनवस्थानिस्तारात् ।
आरोपितसम्बन्धपूर्वकत्वं हि सम्बन्धारोपपूर्वकत्वमेव, प्रतीतौ चेयमनवस्थोक्तेति कथं (तन्निरस्ता)निस्तारः ।
किञ्चैवं वदता सत्तयैव सम्बन्धस्य कारणत्वमिति मतं त्यक्तं स्यात् ।
७,४९०
अपि चाबाधितो ऽपीहप्रत्ययो यदि सम्बन्धारोपमात्रेण भवेत्तदा तन्तुपटादावपि किन्न भवेदिति समवायासिद्धिः ।
क्वचित्सिद्धस्य क्वचिदारोपः कुत्राप्यभावे तदसिद्धिरिति चेन्न ।
स्थाणुश्येनयोः सम्बन्धस्य सत्त्वात् ।
अन्यथा समवाये ऽपि समवायान्तरारोपे न स्यात्समवायान्तरस्य क्वाप्य(सत्त्वात्)सम्भवात् ।
समवाये भेद एवारोप्यते न समवायान्तरमिति चेन्न ।
तावन्मात्रेणेहप्रत्ययायोगात् ।
सम्बन्धिसम्बन्धभावो ऽप्यारोप्यत इति चेन्न ।
तर्हि तन्तुपटादावपि तदारोपमात्रेणेहप्रत्ययोपपत्तौ किं समवायेनेति ।
७,४९७
ननु समवाये ऽपीहेदमिति प्रत्ययः समवायाधीन एव ।
नचापसिद्धान्तो ऽनवस्था वा ।
तस्यैव समवायस्य स्वनिर्वाहकत्वात् ।
य एव हि समवायो ऽवयवादिष्ववयव्यादीनां सम्बन्धः, स एवावयवावव्यादिष्वात्मना सम्बन्ध इत्याशङ्कतेस इति ।
स स्वनिर्वाहकश्चेत् स्याद् … । मनुव्_२,२.९२च् ।
न्यायसुधा-
सः अवयवावयव्यादिसमवायः ।
एवं तर्हि किं समवायेन, द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेरिति परिहरतिद्रव्यमेवेति ।
… द्रव्यमेव तथा न किम् । मनुव्_२,२.९२द् ।
न्यायसुधा-
तर्हीति शेषः ।
तथा स्वनिर्वाहकत्वात् ।
७,४९८
किं कस्मात् ।
अयमाशयः ।
यदीहेदमिति बुद्धिर्नावश्यं स्वातिरिक्तसम्बन्धसापेक्षा ।
क्वचित्स्वनिर्वाहकत्वात् ।
तर्हि द्रव्यगुणादीनामिहेदमिति प्रत्ययो ऽपि नातिरिक्तसम्बन्धाधीनो ऽङ्गीकार्यः ।
द्रव्यस्यैव स्वनिर्वाहकतयापि तदुपपत्तेरिति ।
समवायः सम्बन्धात्मकत्वात् स्वनिर्वाहकः, न द्रव्यमिति चेन्न ।
तदसिद्धौ सम्बन्धत्वस्याप्यसिद्धेः ।
संयोगस्यापि स्वनिर्वाहकतापत्तेश्च ।
तस्यानित्यत्वान्नेति चेन्न ।
समवायनित्यत्वस्यासिद्धेरिति ।
एवं द्रव्याद्गुणादीनामत्यन्तभेदे ऽपि न तत्सम्बन्धः समवायलक्षणो ऽपरः सिद्धयति ।
समवायवद्द्रव्यस्यैव स्वनिर्वाहकत्वोपपत्तेः कल्पनालाघवा(त्व)च्चेत्युक्तम् ।
इदानीं गुणादीनां द्रव्यादत्यन्तभेदाभावाच्च न समवायसिद्धिरित्याशयवांस्तदत्यन्तभेदे परोपन्यस्तान्हेतूनपाकर्तुं तावदुपोद्घातमाहविशेष
इति ।
७,४९९
विशेषस्तद्गतत्वादिर्यद्यभिन्ने ऽवसीयते ।
गुणक्रियादिरूपस्य निषेधः केन हेतुना । मनुव्_२,२.९३ ।
न्यायसुधा-
अभिन्ने समवाय इति शेषः ।
अवसीयते अङ्गीक्रियत इति यावत् ।
गुणक्रियादिरूपस्य विशेषस्येति शेषः ।
केन हेतुना न केनापि ।
इदमुक्तं भवति ।
समवाये तावदवयवावयव्यादिगतत्वमङ्गीकृतम् ।
‘आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः’ इति वचनात् ।
नचानित्यद्रव्यगुरकर्मसामान्यविशेषणामिव समवायस्य तद्गतत्वं नाम समवायलक्षणवृत्तिः सम्भवति ।
तस्याभिन्नत्वात् ।
अतस्तद्गतत्वं (नाम) समवायस्वरूपमेवेत्यङ्गीकर्तव्यम् ।
परतन्त्रतयोपलब्धिस्तद्गतत्वमिति चेन्न ।
तस्याः समवायधर्मत्वानुपपत्तेः ।
तद्विषयत्वात्तद्धर्मत्वमिति चेन्न ।
विषयत्वस्यापि समवायस्वरूपा(त्व)नतिरेकात् ।
७,५००फ़्.
एवमस्तित्वाभिधेयत्वज्ञेयत्वसम्बन्धत्वादयो ऽपि समवाये ऽभ्युपगताः, न समवायस्वरूपाद्भिद्यन्ते ।
भेदं हि तेषां समवायेन सम्बन्धो वक्तव्यः ।
अन्यथा कथमेते तत्र स्युः ।
नच सम्बन्धो युक्तः, संयोगस्य गुणत्वेन द्रव्यमात्रवृत्तेः, समवायस्य चाभिन्नत्वात् ।
तत्र पृच्छामः ।
समवायस्य तद्गतत्वादिधर्माणां चाभेदे कथमपर्यायशब्दवाच्यत्वं, धर्मधर्मिभावः, षष्ठीप्रयोगो, ज्ञातत्वाज्ञातत्वम्, एकत्वानेकत्वमित्यादि युज्यत
इति ।
नह्य(चा)त्रोपचारादिकल्पना युक्ता ।
मुख्यप्रयोगादेरदर्शनात् ।
न तद्गतत्वादि समवायतन्मात्रं, येनानुपपात्तः स्यात् ।
किन्तु समवायाभिन्नमपि तद्विशेषात्मकत्मकम् ।
अतो व्यपदेशभेदादि युज्यते ।
विशेषस्य भेदप्रतिनिधित्वादित्येवागतिकतय तत्र समाधिरभिधानीयः ।
तथाच यद्यभिन्ने ऽपि समवाये तद्गतत्वादिविशेषो ऽङ्गीक्रियते तदा गुणक्रियादिकमपि द्रव्यस्वरूपमेव सद्विशेषात्मकं भवतु न तु तन्मात्रम् ।
समवायधर्मास्तविशेषाः, गुणादयस्तु न द्रव्यविशेषा इत्यत्र विशेषहेत्वभावाद् इति ।
७,५०४
किमतो यद्येवमित्यत आहद्रव्यमेवेति ।
द्रव्यमेव ततो ऽनन्तविशेषात्मतया सदा ।
नानाव्यवहृतेर्हेतुर् … । मनुव्_२,२.९४अच् ।
न्यायसुधा-
समवायधर्मवद्गुणादीनां द्रव्यविशेषत्वादित्यर्थः ।
अनन्तशब्दो यत्र यावन्तो व्यवहाराः तावतामुपलक्षकः ।
नानाव्यवहृतेः व्यपदेशभेदादिरित्यर्थः ।
एतदुक्तं भवति ।
गुणगुण्यादेः अत्यन्तभेदे सिद्धे हि तत्सम्बन्धः समवायः सिद्धयति ।
गुणगुण्याद्यत्यन्तभेदस्तु न प्रामाणिकः ।
तथाहि न तावत्तत्र प्रत्यक्षं प्रमाणं, गवाश्वादिवदनुपलम्भात् ।
अतो गुणगुणिनावत्यन्तभिन्नावपर्यायशब्दवाच्यत्वात् ।
घटपटवदित्याद्यनुमानमेव वक्तव्यम् ।
तच्चानैकान्तिकम् ।
समवायस्य तद्धर्माणां (च) भेदाभावे ऽप्यपर्यायशब्दवाच्यत्वादन्यथासिद्धं च ।
यथा समवाये तद्गतत्वादिधर्माणां भेदभावे ऽपि विशेषपरनामकात्स्वभावविशेषादेवापर्यायशब्दवाच्यत्वादिकमुपपादनीयम् ।
गत्यन्तराभावात् ।
तथा गुणगुण्यादीनाम(त्यन्ता)भेदे ऽपि गुणादीनां द्रव्यविशेषत्वे(न द्र)तद्द्रव्यमेव ।
विशेषशक्तयैवापर्यायशब्दवाच्यत्वादिव्यवहारहेतुर्भविष्यति ।
तथाच विपक्षे बाधकाभावादप्रयोजकत्वं हेतूनामिति ।
७,५०६
यद्वा विशेषस्तद्गतत्वादिरित्यनेनैव गुणगुण्याद्यत्यन्तभेदसाधकानां हेतूनामनैकान्त्याप्रयोजकत्वे वर्णिते ।
यदि तद्गतत्वादिधर्माभिन्ने समवाये तद्गतत्वादिविशेषो ऽभ्युपेयते ।
विशेषणैव च व्यवहारा निर्वहिष्यन्ते ।
तदा व्यपदेशभेदादिहेतूनां व्यभिचारान्यथासिद्धिभ्यां आभासत्वात्केन हेतुना द्रव्यस्य गुणक्रियादिरूपस्य गुणक्रियादिस्वरूपत्वस्य निषेधः
(करिष्यते) क्रियते ।
गुणगुण्याद्यत्यन्तभेदः केन हेतुना साधयिष्यत इति यावत् ।
अन्यथासिद्धिमेव प्रकटयन्नुपसंहरतिद्रव्यमेवेति ।
समवायवदिति वक्ष्यमाणमत्रापि सम्बद्धयते ।
यथा समवायस्य तद्गतत्वादिविशेषात्मतया व्यपदेशभेदादिव्यवहारहेतुत्वम् ।
तथा द्रव्यमेव घटादिकं गुणक्रियाद्यनन्तविशेषात्मतया नानाव्यवहृतेर्हेतुर्भवतीति ।
७,५०७
नन्वौपचारिकत्वं वा भ्रान्तिमूलत्वं वा व्यवहाराणामङ्गीकृत्य हेतूनां दूषणं शक्यम् ।
तत्किं विशेषाङ्गीकारेण ।
नैवं शक्यम् ।
औपचारिकत्वादौ हि कदाचिन्मुक्तौ व्यवहारः स्यात् ।
न हि तीरादौ सदा गङ्गादिव्यवहारो ऽस्ति ।
नचैवं प्रकृते सदैवापर्यायशब्दवाच्यत्वादेः सत्त्वात् ।
यदाप्यभेदबोधाय रूपमेव घट इति वा विज्ञानं ब्रह्मेति वा व्यवह्रियते तदापि न पर्यायतामुपेत्य, तथाननुभवात् ।
अतो वक्तव्यमेवात्र निमित्तम् ।
तदिदमुक्तम्सदेति ।
७,५०८
नन्वनन्तविशेषात्मकमेकमेव द्रव्यमिति व्याहतमिति चेत् ।
किं माता वन्ध्येतिवत्साक्षाद्विरोधः, किंवा कृतकं नित्यमितिवद्वयाप्त्या ।
नाद्यः ।
यतो ऽनन्तत्वं सङ्खयाविशेषः, एकत्वं चाभेदः ।
न द्वितीयः ।
यत्रानेकत्वं तत्रावश्यं भेद इति व्याप्तौ हि स स्यात् ।
न चैवम् ।
भेदप्रतिनिधिना विशेषेणैव अनेकत्वसङ्खयानिर्वाहादित्याहअनन्तत्वमिति ।
… अनन्तत्वं विशेषतः । मनुव्_२,२.९४द् ।
न्यायसुधा-
ईश्वराख्यद्रव्यविशेषणामनन्तत्वमन्यत्रानेकत्वमिति द्रष्टव्यम् ।
अत्रापि समवायवदिति सम्बद्धयते ।
एक एव हि समवायो ऽनेकधर्मात्मको ऽङ्गीक्रियते ।
७,५०९
नन्वयं नानाव्यवहारनिर्वाहहेतुर्विशेषो यदि द्रव्यात्मैव कथं तर्हि (तद्द्रव्य)द्रव्यस्य विशेषः स्यात् ।
तदीयताया भेदव्याप्तत्वात् ।
मैवम् ।
विनापि भेदेन तत्प्रतिनिधिना विशेषणैव विशेषस्य तदीयतोपपत्तेः ।
एवं तर्हि तस्यापि विशेषस्य विशेषत्वसिद्धये विशेषान्तरमङ्गीकर्तव्यमित्यनवस्थेत्यत आहविशेषश्चेति ।
विशेषश्च विशेषी सः स्वेनैव समवायवत् । मनुव्_२,२.९५अब् ।
न्यायसुधा-
यथा समवायः स्वेनैव समवायी, न सम्बन्धान्तरेणेत्यभ्युपगम्यानवस्था परेण पराक्रियते ।
तथा स द्रव्ये ऽनेकव्यवहारनिर्वाहेतुर्विशेषश्च स्वेनैव विशेषी न पुनर्विशेषान्तरेण ।
अतो न कश्चिद्दोष इति ।
समवायवदित्युपलक्षणम् ।
सत्तान्त्यविशेषवच्चेत्यपि द्रष्टव्यम् ।
यथा द्रव्यगुणकर्मसु सद्वयवहारहेतुः सत्ता स्वेनैव सती स्वीकृता ।
यथा च नित्यद्रव्येष्वत्यन्तव्यावृत्तिप्रत्यये हेतुरन्त्यो विशेषः स्वेनैवात्यन्तव्यावृत्तस्तथैवेति ।
७,५१०
अथापि स्यात् ।
गुणगुण्यादिभेदमभ्युपगच्छता मया इहेदमिति व्यवहारनिर्वाहाय समवायो ऽङ्गीक्रियते, तस्य चानवस्थापरिहाराय स्वनिर्वाहकत्वम् ।
अभेदं(अभ्यु)चाभ्युपगच्छता त्वयापर्यायशब्दवाच्यतादिसिद्धये विशेषो ऽङ्गीक्रियते, तस्य चानवस्थानिरासाय स्वनिर्वाहकत्वमिति पक्षद्वये
समाने को विशेषो ऽभेदपक्षे, येन स परिगृह्यते ।
समवायस्याप्रामाणिकत्वमिति चेत् ।
समं विशेषे ऽपि ।
अपर्यायव्यवहारादिना स सिद्ध इति चेत् ।
तर्हि समवायो ऽपीहेदमित्यादिना सिद्ध इति तुल्यम् ।
तदनैकान्तिकमित्युक्तमिति चेत् ।
अपर्यायव्यवहारादिकमपि घटपटावनैकान्तिकमिति समानम् ।
अस्तु तर्हि गुणगुण्यादिभेदे व्यवहारादिसकमपि घटपटादवनैकान्तिकमिति समानम् ।
अस्तु तर्हि गुणगुण्यादिभेदे प्रमाणाभावो विशेष इति चेन्न ।
अभेदे ऽपि प्रमाणाभावात् ।
गवाश्चादिवद्विवेकेनानुपलम्भो अभेदे प्रमाणमिति चेत् ।
तर्हि व्यपदेशभेदादि भेदे प्रमाणमस्तीति समाधिसाम्यम् ।
तद्वयभिचारान्यथासिद्धिभ्यां निरस्तमिति चेत् ।
अभेदप्रमाणमपि तादृगेव ।
तस्यापि क्षीरनीरादौ व्यभिचारात् ।
अयुतसिद्धत्वेनान्यथासिद्धेश्च ।
तस्मान्निमित्तो ऽयमभेदपक्षपात इत्यत आहकल्पनेति ।
कल्पनागुरुतादोषात् पदार्थान्तरता नहि । मनुव्_२,२.९५च्द् ।
न्यायसुधा-
पदार्थान्तरा गुणगुण्यादीनामिति शेषः ।
यद्यपि भेदाभेदपक्षयोः स्वनिर्वाहकसमवायविशेषाङ्गीकारेण साम्यं, तथापि भेदपक्षे कल्पनागुरुतादोषात् गुणगुण्यादीनां पदार्थान्तरता
नाङ्गीक्रियते ।
कल्पनालाघवादभेद एवोपेयत इति ।
कथं भेदवादे कल्पनागौरवमित्यत आहकल्पयित्वेति ।
कल्पयित्वा षट् पदार्थान् साभावानपि केवलम् ।
एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः । मनुव्_२,२.९६ ।
न्यायसुधा-
केवलमित्येतत् षडित्यनेनैकस्मिन्नित्यनेन च सम्बद्धयते ।
एकस्मिन् समवाये, सः विचित्रव्यवहारहेतुश्चेदङ्गीक्रियत इति शेषः ।
किं कस्मात् ।
पूर्वं द्रव्य इत्यर्थः ।
तस्य विशेषस्य ।
७,५१३
अयमभिसन्धिः ।
व्यपदेशभेदादिप्रमाणबलमवम्ब्य वैशेषिकादिभिर्द्रव्यादयो भावपदार्थाः षडेव ।
अभावो ऽपि सप्तम इति कल्पितम् ।
समवाये प्रतीतं तद्गतत्वादिकं तु न समवायातिरिक्तम् ।
किन्तु स्वभावभेदापरनाम्ना विशेषेणैव तत्र व्यपदेशभेदाद्युत्पत्तिरिति च ।
तत्रान्ततो ऽप्यङ्गीकतर्व्येन व्यपदेशभेदादिनिर्वाहकेण विशेषेणैव द्रव्ये ऽपि तन्निर्वाहो वक्तव्यः ।
सप्तपदार्थीनिरूपणं न कर्तव्यम् ।
यद्वा द्रव्यवत्समवाये ऽपि तद्गतत्वादीनां भेद एव स्वीकार्यः ।
तेषां च द्रव्यादिष्वन्तर्भावासम्भवे सप्तपदार्थनियमस्त्याज्यः ।
विशेषकारणेन विना
क्वचिद्भेदस्य क्वचिद्विशेषस्याभ्युपगमे कथं कल्पनागौरवं न स्यात् ।
तदभावे वाभेदवादे कथं कल्पनालाघवं न भवेदिति ।
भेदप्रतीत्यप्रतीतिभ्यां विशेष इत्यादि तु निराकरिष्यते ।
अत्र द्विधाकल्पनप्रदर्शनार्थेनैव पूर्वार्धेन समवाये विशेषस्याङ्गीकर्तव्यतापि समथिर्ता वेदितव्या ।
अत एव केवलशब्दसम्बन्धः ।
सप्तैव हि पदार्थाः ।
नच तेषु समवायधर्माणामन्तर्भावः सम्भवतीति विशेषा एव तैर(ते ऽ)ङ्गीकर्तव्या इति ।
७,५१६
न केवलं सर्वथाङ्गीकार्येण विशेषेणैव गुणगुण्यादिव्यपदेशभेदाद्युपपत्तौ द्रव्यभेदमङ्गीकृत्य समवाय(एव) एकस्मिन्विशेषाभ्युपगमे
कल्पनागौरवमिति भेदमतमपहायाभेदपक्षपातः क्रियते ।
किन्तु समवाये प्रमाणाभावादपि ।
७,५१७
तथा हि ।
न तावत्तत्र प्रत्यक्षं प्रमाणम् ।
कुण्डदध्नोः संयोग इतिवत्तन्तुपटयोः समवाय इत्यप्रतीतेः ।
सम्बन्धप्रतीतिरेव तत्प्रतीतिरिति चेन्न ।
तस्या असम्मतेः ।
एतेनायं तन्तुपटसम्बन्धप्रत्ययश्चक्षुर्जन्यो ऽनन्यथासिद्धतदन्वयव्यतिरेकानुविधायित्वात्पटप्रत्ययवत् ।
अयं तन्तुपटयोः सम्बन्धो योगजधर्माजन्यजन्यसाक्षात्कारविषयस्तन्तुपटसम्बन्धत्वादेतत्तन्तुपटान्तरसंयोगवदिति
समवायप्रत्यक्षतासाधनमप्यपास्तम् ।
तन्तुपटसम्बन्धतत्प्रत्यययोः असिद्धयाऽश्रयासिद्धेः ।
सम्बन्धाप्रतीतौ शुक्लः पट इति सामानाधिकरण्यप्रतीतिर्न स्यात् ।
दण्डीकुण्डलीत्यादौ तस्य तत्पूर्वकत्वदर्शनादिति चेन्न, समवायो ऽस्तीत्यादौ व्यभिचारात् ।
७,५२१फ़्.
नाप्यनुमानम् ।
इहेदमिति प्रत्ययस्य दूषितत्वात् ।
इह भूतले घटाभाव इति प्रत्यये व्यभिचाराच्च ।
भावमात्रविषयत्वेन विशेषणाददोष इति चेन्न ।
अभाववद्भावे ऽप्युपपत्तौ अन्यथासिद्धेः ।
इह घटे ज्ञानमिति प्रत्यये व्यभिचारापरिहाराच्च ।
बाधितो ऽयमिति चेन्न ।
अन्यथाप्रत्ययानुपलब्धेः ।
एतेन जात्यादिगोचरो विशिष्टव्यवहारः सम्बन्धिनियतो भावमात्रविषयाबाधितविशिष्टव्यवहारत्वात्सघटं भूतलमिति व्यवहारवदित्यपास्तम् ।
ज्ञातो घटः, अस्ति समवायः इत्यादौ व्यभिचारात् ।
७,५२२
एते तन्तव एतत्पटसम्बद्धा एतदाश्रयत्वाद्भूतलवत्, अयं पट एतत्तन्तुसम्बद्ध एतदाश्रितत्वादेतदाश्रिततृणादिवदित्यप्यसत् ।
तन्तुपटयोराश्रयाश्रयिभावासिद्धेः ।
इह तन्तुष्वयं पट इति व्यवहारसिद्धतत्प्रत्यात्तत्सिद्धिरिति चेन्न ।
इह समवाये ऽस्तित्वमित्यादौ व्यभिचारात् ।
भूतलरूपादयो भूतलसम्बद्धा भूतलविशेषणत्वात् घटवदित्यपि, भूतलविशेषणे ज्ञाने व्यभिचारादयुक्तम् ।
इह तन्तुष पट इत्यादिप्रत्यय एतञ्जनकसंयोगत्वरहितसम्बन्धजन्य इहेतिप्रत्ययत्वादिह कुण्डे बदराणीति प्रत्ययवत् ।
नचेह भूतले घटाभाव इति प्रत्यये व्यभिचारः तत्रापि चक्षुर्भूतलसंयोगादिजन्यत्वस्य सत्त्वात्, इत्यपि न युक्तम्, अयं पट
एतज्जनकतन्तुरहितोपादानजन्यः पटत्वात्पटान्तरवदित्याभाससमानयोगक्षेमत्वात् ।
रूपादयः सम्बन्धवन्तः प्रमेयत्वाद्घटवदित्यप्यनुपपन्नम्, समवायाभावयोर्व्यभिचारात् ।
तत्रापि विशेषणविशेष्यभावाभ्युपगमान्नेति चेन्न, तस्य परेण सम्बन्धत्वानङ्गीकारात् ।
अङ्गीकारे वा तेनैवार्थान्तरत्वात् ।
मतुबर्थस्याभावाद्बाधितविषयत्वाच्च ।
समवायः स्वेनैव सम्बन्धी (इत्यादि) स्यादिति निरस्तम् ।
इदं चक्षुरेतज्जन्यसंयोगज्ञानत्वरहितसम्बन्धज्ञानजनकं चक्षुष्ट्वादन्यचक्षुर्वत्, अहं
मन्निष्ठसंयोगज्ञानत्वरहितसम्बन्धज्ञानवानात्मत्वादात्मान्तरवत्, अयं काल
इदानीन्तनसंयोगज्ञानत्वरहितसम्बन्धज्ञानवान्कालत्वादन्यकालवत् इत्यादीनि, आभाससमानयोगक्षेमत्वात्,
विशेषणविशेष्यभावादिनार्थान्तरत्वाच्चापास्तानि ।
संयोगत्वं सम्बन्धव्यावृत्तम् जातित्वाद्गोत्ववदिति सिद्धसाधनम् ।
जातेः प्रतिव्यक्तिनियतत्वस्य वक्ष्यमाणत्वेनैकस्य संयोगत्वस्य संयोगान्तराद्वयावृत्तेः, विशेषणविशेष्यभावादितो व्यावृत्तेश्च ।
विवादाध्यासिता मृत् घटसम्बद्धा द्रव्यत्वादाकाशवदिति च घटान्तरसंयोगेनार्थान्तरम् ।
एतद्घटसम्बद्धेति निर्देशे ऽप्येतद्घटसम्बन्धमलब्ध्वा विनष्टद्रव्ये ऽनैकान्तिकम् ।
तत्रापि परम्परासम्बन्धो ऽस्तीति चेत् ।
तर्हि सिद्धसाधनम् ।
मृत्संयुक्तभूतलस्य घटसंयुक्तत्वात् ।
७,५२३
तन्तुपटौ नित्यसम्बद्धौ द्रव्यत्वादाकाशवदिति, दृष्टान्तस्य साध्यविकलत्वादपास्तम् ।
संयोगः स्वव्यतिरिक्तसम्बन्धाद्भिन्नः प्रमेयत्वाद्घटवदित्यत्र स्वव्यतिरिक्तपदेन स्वान्योन्याभावविवक्षायां सिद्धसाधनता ।
एकस्य संयोगस्य संयोगान्तराद्भिन्नत्वात् ।
संयोगत्वरहितत्वविवक्षायामप्रसिद्धविशेषणत्वम् ।
विशेषणविशेष्यभावादिना तत्समाधाने तेनैव सिद्धसाधनम् ।
अयं संयोग एतदन्यसंयोगत्वरहितसम्बन्धान्यो मेयत्वाद्घटवत् इत्याद्याश्च, आभाससमानयोगक्षेमत्वादुपेक्षणीयाः ।
तदेवं समवाये प्रमाणाभावान्न भेदपक्षो ऽङ्गीक्रियते ।
७,५३१
ननूक्तमत्राभेदपक्षो ऽपि तर्हि नाङ्गीकार्यो विशेषे प्रमाणाभावादिति तत्राहयेनेति ।
येन प्रत्यक्षसिद्धेन व्यवहारो ऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन ।
एतद्दृशे विशेषे ऽस्मिन् को द्वेषो वादिनां भवेत् । मनुव्_२,२.९७ ।
न्यायसुधा-
प्रत्यक्षसिद्धेनेत्यनेन प्रत्यक्षसिद्ध इति लभ्यते ।
येनाखिलो व्यवहारो भवेत् ।
यं विना न भवेदित्यन्वयव्यतिरेकाभ्यां विशेषकार्यत्वं व्यवहारस्य दर्शयता व्यवहारान्यथानुपपत्तिश्च विशेषे प्रमाणं तदनङ्गीकारे
व्यवहारोच्छेदप्रसङ्गश्चेत्युक्तं भवति ।
अखिल इत्यस्यैव विवरणं भावाभावविभागेन विधिनिषेधभेदेन(इति) ।
द्विविधस्तावदिति शेषः ।
७,५३२
ननु भेदपक्षे ऽपि समवायभ्युपगमेनाखिलो ऽपि व्यवहारो घटिष्यते ।
अत्यन्ताभेदे ऽपि व्यावृत्तिस्वीकारेण भेदाभेदाभ्यां तु सुतराम् ।
तत्किं विशेषेणेत्यत उक्तङ्कथञ्चनेति ।
एतादृशे सर्वव्यवहारनिर्वाहहेतौ को द्वेषः किन्निमित्तानुपादिता ।
प्रमाणाभावो ह्यनुपादाननिमित्तम् ।
सति प्रमाणे नानुपादाननिमित्तमस्तीत्यर्थः ।
मा भूद्वयवहार इत्यत उक्तम्वादिनामिति ।
उपलक्षणं चैतत् ।
ज्ञातृणां चेत्यपि द्रष्टव्यम् ।
विशिष्टविषयाभिज्ञाभिवदनलक्षणो ह्यत्र व्यवहारः प्रकृतः ।
७,५३४
किञ्चावयवावयव्यादिभेदे प्रमाणाभावाच्च तं परित्यज्याभेदपक्षो ऽङ्गीक्रियते ।
ननूक्तमत्राभेदे ऽपि प्रमाणं नास्तीति ।
तत्राहअभेदेनेति ।
अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थे ऽस्मिन् सविशेषावसीयते । मनुव्_२,२.९८ ।
७,५३४फ़्.
न्यायसुधा-
इहापि कार्यकारणग्रहणेनावयव्यवयवावुच्येते ।
पूर्वशब्देन गुणगुण्यादिकम् ।
अभावशब्देनान्योन्याभावो गृह्यते ।
तस्यैव धर्म्यभिन्नत्वात् ।
यद्वाभावतद्धर्मावनेनोपलक्ष्येते ।
अवसीयते साक्षिणा ।
तथाहि ।
तन्तुपटादिविषया बुद्धिरत्यन्तभिन्नघटपटादिविषयबुद्धितो विलक्षणानुव्यवसीयते उताविलक्षणा ।
न तावद्द्वितीयः ।
प्रतीत्यपलापानुपपत्तेः ।
आद्ये कथमभेदप्रतीतिर्नास्तीति शक्यं वक्तुम् ।
सम्बन्धेन वि(शे)शिष्यत इति चेन्न ।
कुण्डबदरप्रतीतितो ऽपि वैलक्षण्यानुभवात् ।
सम्बन्धिनोरयुतसिद्धत्वात्तथेति चेन्न ।
आधाराधेयभावेनावस्थानसमये तस्याकिञ्चित्करत्वात् ।
अतस्तन्तुपटयोः कुण्डबदरयोश्च भेदे सम्बन्धे च समाने कालान्तरभाविनः सम्बन्धविनाशादेः सम्बन्धिविभागादेर्वा प्रत्यक्षप्रतीतिं
प्रत्युपयोगा(योगा)भावाद्वैलक्षण्यं नानुभूयेत ।
अनुभूयते च तन्तुपटादिबुद्धिः कुण्डबदरादिबुद्धेविर्लक्षणेत्यभेदविषयैव सावसीयते ।
७,५३७
किञ्च पटोत्पत्तेः प्राग्यावन्तं देशमवष्टभ्य तन्तवस्तिष्ठन्ति पटो ऽपि तावन्तमेव ।
नच मूर्तयोः समानदेशत्वं युज्यते ।
तेन ज्ञायते तन्त्वभिन्नः पट इति ।
नचावयवावयविनो रूपरसादि(वत्)द्वैतमनुभूयत इत्याद्यभेदप्रमाणं स्वयमूहनीयम् ।
७,५३९फ़्.
नन्वभेदश्चेत्प्रत्यक्षेणैवेक्ष्यते ।
तदा कथं शुक्लः पटश्चलति(पट) इत्यादिसामानाधिकरण्यादिव्यवहारः ।
तस्य दण्डी कुण्डलीतिवद्भेदविषयत्वात् ।
नहि प्रतीतिविरोधी व्यवहारो भवतीत्यत उक्तम्सविशेषेति ।
विशेषेण विषयेण उपेता ।
अयमर्थः ।
यत्र केवलमभेदः प्रतीयते न तत्र सामानाधिकरण्यव्यवहारो भवति ।
यथा घटः कलश इति ।
अत्र त्वभेदः प्रतीयमानो विशेषेण सहित एव प्रतीयते ।
विशेषश्च भेदप्रतिनिधिः सामानाधिकरण्यव्यवहारं प्रसूत इति ।
७,५४१
नन्वभेदप्रतीतिमभिभूय विशेषप्रतीतिः स्वकार्यं कथं कुर्यात्, करोति चेदभेदप्रतीतिरपि विशेषप्रतीतिमभिभूय स्वकार्यं कथं न स्यात् ।
मैवम् ।
नहि प्रतीतिरस्तीत्येव व्यवहारः किन्तु प्रयोजने ऽपि सति ।
प्रयोजनं च सामानाधिकरण्यव्यवहारेणैव बहुलं लोकवेदयोः ।
यदा त्वभेदव्यवहारः प्रयोजनवांस्तदा सो ऽपि दृश्यत एव यथा विज्ञानमानन्दं ब्रह्मेत्यादि ।
७,५४२
यद्वा विशेषः प्रत्यक्षार्थापत्तिसिद्ध इत्युक्तम् ।
तत्कथमित्यतः प्रत्यक्षसिद्धतां तावदुपपादयतिअभेदेनेति ।
अनुक्तसमुच्चयार्थश्चशब्दः ।
पदार्थ इत्येकवचनं जातिविषयम् अस्ति यतस्तस्मात्सा सविशेषावसीयत इति योजना ।
ततश्चायमर्थः ।
अस्ति तावदवयवावयव्यादिपदार्थसार्थे ऽभेदेन प्रतीतिः ।
कुण्डबदरादिप्रतीतितो ऽस्या व्यावृत्ततयाध्यवसायात् ।
नच अभेदमन्तरेण व्यावृत्तिहेतुरस्ति ।
अतो ऽसति निमित्तान्तरे सम्मतभेदवस्त्वन्तरप्रतीतितो व्यावृत्तेयमभेद एव विश्राम्यतीति ।
अस्ति च तथापि सामानाधिकरण्यादिव्यवहारः ।
तत्र यदीयमभेदमात्रविषया स्यात्तदा न सामानाधिकरण्यादिव्यवहारं कुर्यात् ।
घटः कलश इति व्यवहारादर्शनात् ।
ततो ज्ञायते ऽधिको ऽपि विषयो ऽस्या विद्यत इति ।
नच भेदो ऽसाविति वाच्यम् ।
भेदाभेदवादे ऽप्यन्तो विशेषस्याङ्गीकार्यत्वात् ।
तथा चेयमभेदप्रतीतिरिन्द्रियजा सविशेषावसीयत इति ।
७,५४४
प्रागुक्तं समवाये विशेषो ऽङ्गी(कर्तव्य)क्रियत इति तन्न तावदेव ।
किन्तु सर्वेष्वपि पदार्थेष्विति दर्शयन्विशेषस्य व्यवहारान्यथानुपपत्तिसिद्धतां चोपपादयतिसामान्यादीति ।
सामान्यादिपदार्थेषु तन्निष्ठत्वादयो ऽखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्ये ऽपि हि वादिभिः । मनुव्_२,२.९९ ।
न्यायसुधा-
तन्निष्ठत्वादयो व्यक्तिनिष्ठत्वादयः ।
कथमित्याक्षेपे ।
वस्त्वैक्ये ऽपि धर्मैक्ये ऽपि ।
कुतो न निवार्यत इत्यत उक्तम्वादिभिरिति ।
अविसंवादिव्यवहारसिद्धत्वादिति यावत् ।
एतदेव प्रपञ्चयतिकार्यस्येति ।
कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति … । मनुव्_२,२.१००अच् ।
न्यायसुधा-
अस्ति तावदवयविनो ऽवयवनिष्ठत्वं नाम धर्मः ।
गुणानां केषाञ्चिद्रूपादीनामाश्रयव्यापित्वम् केषाञ्चित्संयोगादीनां प्रदेशवृत्तित्वम्, रूपादीनामुद्भूतत्वम्, सर्वेषां चतुर्विंशतित्वम् कर्मणश्च
आश्रयव्यापित्वमनित्यत्वं पञ्चत्वं मूर्तनिष्ठत्वम्, सामान्यस्यापि द्रव्यगुणकर्मनिष्ठत्वम्, नित्यत्वमनुगतत्वम्, द्विविधत्वमित्यतिबहुलो ऽयं
पदार्थधर्मसमूहः ।
न चायमाश्रयतो भिन्न एवेति युक्तम् ।
अस्ति च धर्मधर्म्यादिव्यवहारः ।
तन्तुषु पटः, प(घ)टो न भवति घ(प)ट इत्यादिः ।
स चायमत्यन्ताभेदे ऽनुपपद्यमानः स्वोपपादकं विशेषमवगमयतीति सर्वपदार्थेषु कथं विशेषो नैवास्ति ।
७,५४६
सत्यम् ।
सन्त्येव द्रव्यादिषु सप्तस्वपि पदार्थेषु ते ते धर्माः ।
किन्नामाश्रयतो भिन्ना एव ।
तथाच तत्सम्बन्धनिबन्धनतयैवोपपद्यमानो व्यवहारः सर्वपदार्थेषु न विशेषमाक्षेप्तुमलमित्याशयेन शङ्कतेस चेति ।
७,५४७
… स च धर्मो ऽपरो यदि । मनुव्_२,२.१००द् ।
न्यायसुधा-
न केवलं गुणादि द्रव्यादितो भिन्नम् ।
किन्तु सः तत्तन्निष्ठत्वादिधर्मश्च अपरः स्वाश्रयाद्भिन्नो यद्यङ्गीक्रियत इत्यर्थः ।
निराकरोतिषडिति ।
षट्पदार्थातिरेकः स्यात् … । मनुव्_२,२.१०१अ ।
न्यायसुधा-
तर्हि धर्माणां षड्भ्यः पदार्थेभ्यो ऽतिरेकः स्यात् ।
तथाच षडेव पदार्था सति नियमो भज्येतेति ।
ननु स्वाश्रयतो विभिन्ना अपि धर्मा न ष(ड्भ्यः)ट्पदार्थेभ्यो ऽतिरिच्यन्ते ।
किन्तु त एवान्योन्यविशेषणीभूता धर्मा इत्युच्यन्ते ।
यथाऽह’यद्यपि धर्माः षट्पदार्थेभ्यो न व्यतिरिच्यन्ते ।
किन्तु त एवान्योन्यापेक्षया धर्मधर्मिणश्च भवन्ति’ इत्रत ।
अन्यत्रापि’तेषां धर्मास्त एव परस्परं विशेषणीभूताः’ इति ।
तत्कथं नियमभङ्ग इति ।
मैवम् ।
तन्निष्ठत्वादीनां षट्सु पदार्थेष्वन्तर्भावयितुमशक्यत्वात् ।
तथाहि ।
‘आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः’ इत्यभ्युपगतं कार्यद्रव्यगुणकर्मसामान्यविशेषसमवायानामवयवादिनिष्ठत्वं न तावद्द्रव्यादिकम् ।
गुणादिवृत्त्यनुपपत्तेः ।
नापि समवायः तस्य स्ववृत्त्यनुपपत्तेः ।
किञ्चाधार्याधारभूतयोः सम्बन्धः समवाय इष्यते ।
तथाच कथं स एवाधारित्वमाधारत्वं च स्यात् ।
तथा रूपादीनामाश्रयव्यापित्वं न द्रव्यादिष्वन्तर्भवति ।
तेषां गुणवृत्त्तिवासम्भवात् ।
समवायस्तूक्तरीत्या निरस्तः ।
अपि च वृत्तित्वमात्रं समवायः ।
व्याप्यवृत्तित्वं त्वतिरिक्तं निर्वक्तव्यर्(वाच्य)म् ।
कृत्स्ने स्वाश्रये समवायस्तदिति चेन्न ।
द्रव्यस्यासमुदितत्वेन कृत्स्नत्वाद्यनवकाशात् ।
स्वभावेन सहानवस्थानं व्याप्यवृत्तित्वमिति चेन्न ।
तस्याप्यन्तर्भाव्यत्वात् ।
अभावो ऽसाविति चेन्न ।
निराकरिष्यमाणत्वात् ।
७,५५२
एवं संयोगादीनां प्रदेशवृत्तित्वं निरस्तम् ।
उद्भूतत्वं च न जातिविशेषः ।
रूपत्वादिना परापरभावानुपपत्तेः ।
यदि हि रूपत्वं परं स्यात्तदा स्पर्शस्योद्भूतत्वं न स्यात् ।
यदि चोद्भूतत्वं परं भवेत्तदा सर्वमपि रूपमुद्भूतमिति चक्षुरादेरपि प्रतीतिः स्यात् ।
७,५५३
चतुर्विंशतित्वं च न सङ्खया, गुणानां निर्गुणत्वाङ्गीकारात् ।
उपचारो ऽयमिति चेन्न ।
निमित्ताभावात् ।
न तावदेकाथर्समवायो निमित्तम् ।
द्रव्ये चतुर्विंशतित्वनियमाभावात् ।
प्रत्येकं रूपादिषु तत्प्रसङ्गाच्च ।
अपर्यायचतुर्विंशतिशब्दवाच्यत्वमिति चेन्न ।
शब्दे ऽपि चतुर्विंशतित्वाभावात् ।
चतुर्विंशतिपुरुषोच्चारितापर्यायशब्दवाच्यत्वमिति चेन्न ।
बधिरादीनां रूपादिषु सङ्खयाव्यवहाराभावप्रसङ्गात् ।
एवमन्येषामपि धर्माणामन्तर्भावो निरसनीयः ।
७,५५६
कश्चिदाह ।
धर्मपदार्थो ऽभावे ऽन्तर्भवतीति ।
तदसत् ।
निषेधबुद्धिबोध्यत्वाभावात् ।
अभावे ऽभावानङ्गीकारेण तद्धर्माणामभावत्वायोगाच्च ।
द्रव्यादिषड्लक्षणशन्यतमराहित्यमभावत्वम् ।
नतु निषेधबुद्धिबोध्यत्वमिति चेन्न ।
लोकप्रतीतिमवधूय स्वकल्पनादरणे द्रव्यमेव भावास्तल्लक्षणरहितो ऽभाव इत्यपि कल्पनाप्रसङ्गात् ।
अतस्तत्तन्निष्ठत्वादयो द्रव्यादिधर्मास्तदात्मान एवाङ्गीकार्याः ।
तथाचाह’भावस्य स्वरूपमेवावस्थाभेदेनास्तित्वं ज्ञेयत्वमभिधेयत्वं चोच्यते’ इति ।
नच विशेषमपहायावस्थाभेदः शक्यनिरूपणः ।
७,५५७
ननु धर्मा धर्मितो भिन्ना एव ।
नचोक्तदोषः ।
नैयायिकादिभिः परमाण्वारम्भवादिभिः षडेव पदार्था इति नियमस्यानङ्गीकृतत्वात् ।
धर्मपदार्थस्य पृथगङ्गीकृतत्वाच्च ।
तथाच भिन्नधर्मसंसर्गवशात्सर्वव्यवहारोपपत्तौ न तदन्यथानुपपत्त्या विशेषसिद्धिरित्यत आहपदार्थेति ।
… पदार्थानियमे ऽपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत् । मनुव्_२,२.१०१ब्द् ।
न्यायसुधा-
पदार्थानां षडेवेति नियमाभावपक्षे ऽपि हि यस्माद्धर्मस्य धर्मसन्तानादनवस्थाया आकरो भवेदयं पक्षः, तस्माद्धर्मधर्माणामाश्रयाभेदे
ऽवश्यमङ्गीकार्ये तत्र धर्मधर्म्यादिव्यवहारान्यथानुपपत्त्या विशेषो ऽङ्गीकरणीय इति योज्यम् ।
खनिः आकरः ।
७,५५८
एतदुक्तं भवति ।
धर्मपदार्थं द्रव्यादिभ्यो भिन्नमभ्युपगच्छन्प्रष्टव्यः ।
अस्तित्वादिधर्मेष्वप्यस्तित्वादिकमस्ति न वा ।
नेति पक्षे ऽनुभवविरोधः ।
अस्तित्वं न ज्ञेयं नाभिधेयमिति स्वक्रियाविरोधश्च ।
अन्यथा द्रव्यादिष्वपि तदभावापत्तिः ।
आद्ये तदाश्रयतो भिन्नमभिन्नं वा ।
आद्ये तत्राप्यस्तित्वाद्यन्तरमित्यनवस्था स्यात् ।
द्वितीये त्वस्ति तावत्तत्रापि धर्मधर्म्यादिव्यवहारः ।
स चानुपपद्यमानो विशेषं गमयतीति ।
किञ्च धर्मगता धर्मा यदि आश्रयाभिन्नास्तदा किं द्रव्यादिगतास्तित्वादिधर्मैरपराद्धम् ।
येन ते द्रव्यादितो भिद्येरन् ।
योगक्षेमसाम्यात् ।
ततस्तेषामेव द्रव्याद्यभेदे सति पुनर्व्यवहारान्यथानुपपत्त्या द्रव्यादिष्वेव विशेषसिद्धिः (इति) ।
७,५६०
नन्वस्त्येव द्रव्यादिधर्मेष्वस्तित्वादिष्वप्यस्तित्वादिकम् ।
तच्चाश्रयतो भिन्नमेव ।
नचैवं धर्मस्यानवधिकधर्मसन्तानादनवस्थादोषः ।
उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावेनादोषत्वात् ।
यथाऽहुः’मूलक्षयकरीं प्राहुरनवस्थां हि दूषणम्’ इति ।
यदर्थमुत्तरोत्तरानुसरणं तन्मूलमुत्पत्तिर्ज्ञप्तिर्वा ।
ततो भिन्ननिमित्ततयोपपद्यमानो व्यवहारो न विशेषमाक्षेप्तुमलमित्यत आहसामान्यस्यापीति ।
सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः … । मनुव्_२,२.१०२अच् ।
न्यायसुधा-
सामान्यस्य गोत्वादेः, सामान्यं सत्तालक्षणम् ।
गुणस्य च रूपादेः, सङ्खयापृथक्तवादिगुणः अत अनवस्थाभयादेव हि नाङ्गीकृतः ।
अयमाशयः ।
सामान्यस्यापि सामान्यं तावत्परेण नाङ्गीकृतम् ।
तथा गुणस्यापि गुणो नाङ्गीकृतः ।
तत्कस्मादिति वक्तव्यम् ।
न तावत्प्रतीत्यभावात् ।
सद्गोत्वं चतुर्विंशतिगुणा रूपाद्रसः पृथगिति प्रतिभासस्य दुरपह्नवत्वात् ।
नच न सद्गोत्वमित्यादि बाधकमस्ति येन प्रतीतस्यापि परित्यागः ।
गोत्वं न सत्तावदपरसामान्यशून्यत्वाद्विशेषवत्, गुणा न गुणवन्तो ऽद्रव्यत्वात्क्रियावदित्यादिबाधकमस्तीति चेन्न ।
विपक्षे बाधकाभावेनाप्रयोजकत्वात् ।
दृष्टान्तयोः(श्च)साध्यविकलत्वाच्च ।
यदि गोत्वादौ सत्ता स्यात्तदा सत्तायामपि स्यात् ।
तथा चात्माश्रयत्वमिति चेन्न ।
सत्तान्तरत्वोपपत्तेः ।
किञ्च प्रतीतेः किमात्माश्रयता करिष्यति ।
अन्यथा प्रमेयत्वादीनां केवलान्वयित्वं न स्यात् ।
आत्माश्रयभयाद्यतः प्रमेयत्वादिव्यावृत्तिः तस्यैव विपक्षत्वात् ।
उक्तं च’कथं स्ववृत्तिरिष्या चेद्यथान्यत्रेति गृह्यताम् ।
प्रमाणं शरणं वृत्तौ न भिन्नाभिन्नतेयता’ इति ।
गुणानामपि गुणवत्त्वे द्रव्यलक्षणयोगाद्द्रव्यतापत्तिरिति चेन्न ।
प्रतीतिमनुरुद्धय लक्षणान्तरस्य कर्तव्यत्वात् ।
तस्मात्सामान्ये सामान्यं गुणे च गुणः अनवस्थाभयादेव नाङ्गीक्रियत इत्येव वक्तव्यम् ।
यथाऽह’व्यक्तेरभेदस्तुल्यत्वं सङ्करो ऽथानवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसङ्ग्रहः’ इति ।
नचानवच्छिन्ना सामान्यपरम्परा गुणपरम्परा चोत्पत्तिज्ञप्तिप्रतिबन्धे हेतुः ।
तथाच यथा सा दूषणं तथा प्रकृतापि दूषणमेव ।
न चेत्सापि न स्यादिति सामान्यादेरपि सामान्याद्यङ्गीकार्यं स्यात् ।
यदि कथञ्चिज्ज्ञप्तिप्रतिबन्धकत्वं तत्र व्युत्पद्येत ।
तर्हि वयमप्यत्र तद्व्युत्पादयिष्याम इति ।
७,५६५
यदि कश्चिद्वैयात्याद्ब्रूयात् ।
अस्त्येव सामान्यस्यापि सामान्यं गुणस्यापि गुणो निर्बाधप्रतीतिसिद्धत्वात् ।
उत्पत्तिज्ञप्त्यप्रतिबन्धहेतोरनवस्थाया दोषत्वायोगात् ।
अतो नैतन्न्यायेन धर्मपरम्परानवस्थाभयान्निवारणीयेति ।
तत्राहस चेति ।
… स च यदि नानवस्था क्वचिद् भवेत् । मनुव्_२,२.१०२च्द् ।
न्यायसुधा-
स च गुणस्यापि गुणः ।
चशब्दात्सामान्यस्यापि सामान्यं यद्यङ्गीक्रियते तदा ब्रूमो नानवस्था क्वचिद्भवेदिति ।
७,५६६
अयमाशयः ।
एवं वदन्क्वचिदनवस्थादूषणमङ्गीकरोति न वेति वाच्यम् ।
नचेत् दूषणान्तरमपि नाङ्गीकुर्यात् ।
अविशेषात् ।
तथाच कथायां नाधिकारी स्यात् ।
नाद्यः ।
धर्मसामान्यगुणानवस्थाया अदूषणत्वे विमताया अपि दूषणत्वायोगात् ।
विशेषहेतोरभावात् ।
७,५६७
नन्वपर्यवसितपरम्परामात्रसाम्ये ऽपि यत्रोत्पत्त्यादिप्रतिबन्धकत्वं तत्र दूषणत्वम् ।
यत्र यदभावस्तत्रादूषणत्वमिति चेत् ।
किमर्थमुत्पत्त्यादिप्रतिबन्धकत्वमनुसरणीयम् ।
अनवस्था हि तर्कविशेषः ।
तर्कश्चानिष्यप्रसञ्जनम् ।
उत्पत्त्यादिप्रतिबन्धश्चानिष्यः ।
प्रामाणिकपरित्यागरूपत्वात् ।
उत्पत्त्यादेः प्रामाणिकत्वात् ।
अतस्तदप्रतिबन्धे तर्कत्वायोगात्कथं दूषणान्तरम् ।
एवमेव दूषणत्वे ऽतिप्रसङ्ग इत चेत् ।
किं प्रामाणिकपरित्याग एवानिष्य उताप्रामाणिकस्वीकारो ऽपि ।
नाद्यः ।
नियामकाभावात् ।
द्वितीये कथं न प्रकृतानवस्था दूषणम् ।
अत्यन्तभिन्नधर्मपरम्पराया अप्यप्रामाणिकत्वात् ।
अथाप्रामाणिकस्वीकारो न दूषणम् ।
तर्हि प्रामाणिकपरित्यागो ऽपि न (दूषणं) स्यादिति नानवस्था क्वचिद्दूषणं भवेत् ।
अथानिष्यापत्तिहेतुरनवस्थादूषणम् ।
न पुनरनिष्यरूपेति चेन्न ।
अनिष्यरूपैवानवस्था दूषणम् ।
नत्वनिष्यापत्तिहेतुरित्यपि वक्तुं शक्यत्वेन क्वचिदङ्गीकृताप्यनवस्था न दूषणं भवेत् ।
तस्मात्प्रामाणिकपरित्यागाप्रामाणिकपरिग्रहरूपा वा तद्धेतुर्वानवच्छिन्नपरम्परानवस्थेति वाच्यम् ।
अत एव नातिप्रसङ्गः ।
तथाच धर्मपरम्पराया अप्यनवस्थात्वेनाभेद एवाङ्गीकार्यः ।
एवं चोक्तन्यायेन व्यवहारान्यथानुपपत्त्या विशेषसिद्धिरिति ।
७,५७०
अपि च यो धर्मधर्मिणोर्भेदं समवायं चाङ्गीकृत्याभेदं विशेषं चावजानाति तेनानवस्थातो बिभ्यता
गुणसामान्ययोर्गुणसामान्यप्रतीतिरेवापलपनीया ।
विनैव बाधकेन भ्रान्तिर्वा वाच्या ।
प्रतीत्यपलापादितो वा बिभ्यतो ऽनवस्था स्यादित्येकं सन्धित्सतो ऽन्य(त्प्र)च्च्यवते ।
अभेदं विशेषं चाङ्गीकुर्वतां तु नेदं दूषणद्वयमतो ऽपि तत्पक्षपात इत्याशयवानाहअस्मत्पक्ष इति ।
अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।
अनन्यत्वान्नानवस्था … । मनुव्_२,२.१०३अच् ।
न्यायसुधा-
धर्मधर्मिणोः सविशेषाभेदवादिनां पक्ष इत्यर्थः ।
गुणाद्या गुणाः सामान्यानि च ।
तद्वन्तो गुणवन्तः ।
सामान्यवन्ति च ।
तेन चतुर्विंशतिगुणाः सद्गोत्वमित्यादिप्रतीतिविरोधो नास्तीति शेषः ।
अनन्यत्वात् धर्मधर्मिणोरिति शेषः ।
अप्रामाणिकापर्यवसितपरम्परारूपा ह्येषा ।
अनन्यत्वे कथं तद्वृत्तमिति तदवस्थः प्रतीतिविरोध इत्यत उक्तम्विशेषतो हि तद्वन्त इति ।
भेदसम्बन्धकार्यकारी हि विशेष इति ।
७,५७१
एवमवयवावयव्यादीनामभेदो ऽत्र निरूपितः ।
इदानीं क्वचिद्भेदाभेदावपि भवत इति तदपवादमाहभेद इति ।
… भेदो नाशे भवेत् तथा । मनुव्_२,२.१०३द् ।
न्यायसुधा-
यद्वा यद्यवयव्यादयो ऽवयवाद्यभिन्नाः ।
कथं तर्हि सत्स्वेवावयवादिषु विनश्यन्तीत्यत आहभेद इति ।
तथाशब्दः समुच्चये ।
अवयवादिषु सत्स्वेवावयव्यादीनां नाशे भेदो ऽभेदश्च भवेदित्यर्थः ।
अत्र नाश इत्युपलक्षणम् ।
यत्र सत्स्वेवावयवेष्ववयविनो ऽभावः सति गुणिनि गुणस्याभावस्तत्र भेदाभेदावित्यादि द्रष्टव्यम् ।
अन्यथा यत्रावयवावयव्यादीनां युगपद्विनाशस्तत्र भेदाभेदावुक्तौ न स्याताम् ।
इदमुक्तं भवति ।
सत्यपि तस्मिन्नसत्त्वादित्यनेन हेतुनावयव्यादीनामवयवादिभ्यो भेदमात्रं वा साध्यते ऽत्यन्तभेदो वा ।
आद्ये सिद्धसाधनता भागासिद्धिश्च ।
तथाहि ।
सत्यप्यु(त्यु)पादाने कदाचिदुपादेयमसत् ।
यथा पटः ।
एवं सत्यपि द्रव्ये केचिद्गुणा असन्तो यथा पाकजादयः ।
तथा सत्यप्या(त्येवा)श्रये काश्चित्क्रिया असत्यो यथा पटचलनादयः ।
जातिश्च काचित्सति जातिमत्यसती ।
यथा ब्राह्मणम् ।
तत्र भेदाभेदयोरङ्गीकाराद्भेदसाधनं सिद्धविषयम् ।
गगनतद्भागयोरीश्वराद्याश्रितज्ञानादिगुणक्रियाजातिष्वभावाद्भागासिद्धत्वं हेतोः इति ।
न द्वितीयः ।
कालात्ययापदिष्टत्वात् ।
अभेदस्य प्रागुपपादितत्वादुपपादयिष्यमाणत्वाच्चेति ।
७,५७३
स्यादेतत् ।
यथा भेदसाधकानां व्यपदेशभेदादीनां विशेषाश्रयेणैवान्यथासिद्धिरुक्ता ।
तथा सत्यपि तस्मिन्नसत्त्वस्यापि विशेषणैव निर्वाहः क्रियताम् ।
किं भेदाभेदाभ्युपगमेन ।
मैवम् ।
विशेषस्य भेदकार्यव्यवहारमात्रनिर्वाहकत्वेन विनाशं प्रत्यनिर्वाहकत्वात् ।
सकलभेदकायर्कारित्वे विशेषो भेद एव, न तत्प्रतिनिधिः स्यात् ।
किञ्चानेकाश्रितस्यावयविनो द्वित्वादेश्चाश्रयेणात्यान्ताभेदे सत्याश्रयणामपि परस्परमभेदः प्रसज्यते ।
तत्परिहारार्थं तावदवश्यं तत्र भेदो ऽङ्गीकरणीयः ।
नचावच्छेदकेन विना भेदाभेदभूमेः सङ्ग्रहः स्यादित्ययावदाश्रयभावित्वमेव ग्राह्यम् ।
तत्रापि विशेष एव सङ्करं वारयिष्यतीति तु निरस्तम् ।
किञ्च प्रमाणानुसारिणक्ष व्यवस्था नतु स्वेच्छानुसारिणी ।
प्रमाणं तु भेदाभेदाववगाहत इति वक्ष्यते ।
ननु अनित्यद्रव्याश्रिता एकत्वादयो ऽपि गुणाः किं भेदवन्तस्तेषामपि द्रव्यकार्यतया तदुत्तरक्षणभावित्वादिति ।
मैवम् ।
उक्तोत्तरत्वात् ।
उक्तं ह्येतत् ।
उपादानद्रव्यं गुणवदुपादेयतया परिणमत इति ।
७,५७६
ननु भेदाभेदावेकत्र विरुद्धौ ।
तत्कथमयावदाश्रयभाविनामवयविगुणकमर्सामान्यानामवयवादिभिर्भेदार्भेदाभ्युपगम इत्यत आहविशेषमेवेति ।
विशेषमेव संश्रित्य … । मनुव्_२,२.१०४अ ।
न्यायसुधा-
भेदाभेदावेकत्र भवत इति सम्बन्धः ।
अवधारणं कालादिभेदव्यावृत्त्यर्थम् ।
७,५७७
कथं विशेषाश्रयणे विरोधशान्तिरित्यत आहविरोध इति ।
… विशेषो बलवान् यतः । मनुव्_२,२.१०४ब् ।
न्यायसुधा-
बलवान्भेदकार्यकारण इति शेषः ।
ततो विशेषं समाश्रित्यैकत्र भेदाभेदौ भवत इत्यन्वयः ।
अयमर्थः ।
भेदो हि विरोधशान्तिहेतुः ।
तथाहि ।
क्वचिदाश्रयभेदो यथा मधुरायां देवदत्तसद्भावः स्रुघ्ने तदभावः ।
क्वचित्कालाभेदो यथा मधुरायामेव देवदत्तस्य भावाभावौ ।
क्वचित्प्रतियोगिभेदो यथा गवयो गोघटाभ्यां सदृशो विसदृशश्चेति ।
भेदप्रतिनिधिश्च विशेष इत्युक्तम् ।
अतः कथमसौ भेदाभेदावेकदैवैकत्रैव नावस्थापयेदिति ।
एवं तर्ह्यतिप्रसङ्गः ।
सर्वत्र विशेषमाश्रित्य विरोधस्योत्सादयितुं शक्यत्वादित्यत आहदृष्टीति ।
दृष्टिप्रमाणतश्चैव … । मनुव्_२,२.१०४च् ।
७,५७७फ़्.
न्यायसुधा-
दृष्टिश्च तत्प्रमाणं च ।
प्रमाणभूता दृष्टिरित्यर्थः ।
ततो भेदाभेदौ न विरुद्धाविति सम्बन्धः ।
चशब्दो विशेषेण सह दृष्टेः समुच्चये ।
न स्वेच्छामात्रेण भेदाभेदावित्युपेत्य विशेषेण विरोधाभावो ऽभिधीयते ।
येनातिप्रसङ्गः स्यादित्येवशब्दः ।
उक्तं तावदवयवावयव्याद्यभेदग्राहिणी दृष्टिरस्ति ।
सम्बद्धवस्तुबुद्धितो विलक्षणतयानुव्यवसायात् ।
अस्ति च भेदग्राहिणी सत्यपि तस्मिन्नसत्त्वादिति हेतुजनिता दृष्टिरिति ।
नचैते बाध्यबाधके ।
अन्यतराननुवृत्तिप्रसङ्गात् ।
नापि प्रतिपक्षभूते ।
प्रतिपत्तृणामुभयोदासीनतापत्तेः ।
चैवम् न ।
अतो द्वयोरपि प्रामाण्यतश्च भेदाभेदयोरवगतयोनर् विरोधः ।
तदिदमुक्तम्प्रमाणत इति ।
७,५७९
ननु भ(व)वेतां भेदाभेदवेकत्रैवैकदेव प्रमितौ ।
तथापि कथं विरोधशान्तिरित्यत आहविरोध इति ।
… विरोधो दर्शने कथम् । मनुव्_२,२.१०४द् ।
न्यायसुधा-
सहदर्शने सति कथं विरोधो वक्तुं शक्यते ।
सहदृष्टौ विरुद्धौ चेति विप्रतिषिद्धमिति भावः ।
एतदेव विवृणोतिविरोधो हीति ।
विरोधो ह्यविरोधश्च यतो दर्शनमानगौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम् । मनुव्_२,२.१०५ ।
७,५७९फ़्.
न्यायसुधा-
सर्वत्र परस्परपरिहारेणैव सत्त्वदर्शनं महानवस्थानलक्षणविरोधे प्रमाणम् ।
क्वचित्सहदर्शनं चाविरोधे ।
अन्यस्यानिरूपणात् ।
अतः सहदृष्टे भेदाभेदलक्षणे वस्तुद्वये विरोधः कथमुच्येत ।
सहदर्शने ह्यविरोधः स्यात् ।
पुनर्विरोधकथने व्याघातानिवारणादिति ।
हिशब्देन शीतोष्णादौ रूपरसादौ च विरोधाविरोधयोर्दर्शनैकप्रमाणत्वं निदर्शयति ।
तुशब्दस्य दृष्टे त्विति सम्बन्धः ।
सद्भिर्विद्वद्भिरित्युपहासः ।
वैशेषिकादयो हि संयोगविभागशब्दात्मविशेषगुणानां तत्रैव तदैव भावाभावावुपेत्य सहदर्शनाद्विरोधो नास्तीति वदन्तः पुनरत्र सहदर्शने ऽपि
विरोधमुद्भावयन्तः स्वव्याहतभाषिणः स्वोक्तविस्मरणशीलाः स्वदृष्टिपक्षपातिनः कथं सन्तः स्युः ।
सर्वत्रासहदृष्टयोर्यदि कश्चिदाग्रहमात्रेण सहावस्थानं मन्यते तं प्रत्येव विरोधोद्भावनं क्रियतेनान्यथेति ।
७,५८१
धर्मधर्मिणोर्भेदाभेदौ क्वचिदिति सङ्क्षेपेणोक्तम् ।
तत्किं सर्वेष्वपि द्रव्येषूत केषुचिदेवेत्यपेक्षायामाहअभिन्न इति ।
अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् । मनुव्_२,२.१०६अब् ।
न्यायसुधा-
भगवानिति चेतनमात्रोपलक्षणम् ।
स्वेन स्वावयवगुणक्रियादिभिः ।
तदन्येन प्रकृतिजीवजडात्मना प्रपञ्चेनेत्येवं व्यवस्थितावेव भेदाभेदौ न त्वेकविषयावित्यर्थः ।
अयावद्द्रव्यभाविधर्मैर्भेदाभेदौ कुतो न स्यातामित्यत आहनित्या इति ।
नित्या धर्मास्तदीयास्तु सर्वे ऽस्मान्नैव भेदिनः । मनुव्_२,२.१०६च्द् ।
न्यायसुधा-
तुशब्दो ऽवधारणे ।
अस्मात् कारणम् ।
अस्मात् भगवतः ।
द्वित्वादिसङ्खयाव्यतिरिक्ता इति शेषः ।
७,५८३
क्व तर्हि भेदाभेदावित्यत आहसामस्त्येति ।
सामस्त्योच्छेदिनो ऽन्यत्र धर्मा उभयरूपकाः ।
भावे … । मनुव्_२,२.१०७अच् ।
न्यायसुधा-
अन्यत्र परमेश्वरात् ।
जडे वस्तुनीति यावत् ।
सत्येव धमिर्णि सामस्त्येनोच्छेदवन्तो ये धर्मास्ते उभयरूपिणो भिन्नाभिन्ना इत्यर्थः ।
अभिभवव्यावृत्त्यर्थं सामस्त्येत्युक्तम् ।
यद्वा सामस्त्ये द्रव्यस्याविकलत्वे नाशाभावे ऽपि ये उच्छेदिन इति व्याख्येयम् ।
किं स्वसद्भाववेलायामभेदिनो ऽसद्भाववेलायां भेदिन इत्येवं कालभेदेन भेदाभेदावित्यत उक्तम्भाव इति ।
स्वसद्भावदशायामेवोभयरूपका इत्यर्थः ।
विनष्टस्यासत्त्वेन भेदचिन्तानवकाशात् ।
प्रागत्यन्ताभेदे विनाशासम्भवाच्च ।
कुतो भिन्नाभिन्ना इत्यत आहत एवेति ।
… त एव चोच्छेदात् तदन्ये च समस्तशः । मनुव्_२,२.१०७च्द् ।
न्यायसुधा-
प्रत्यक्षबलेन त एव धर्मिस्वरूपभूता एव उच्छेदात् सत्येव धर्मिण्यसत्त्वाद्धेतोस्तदन्ये ।
चशब्दौ मिथः समुच्चयार्थौ ।
समस्तश इत्ययावद्द्रव्यभाविविवक्षयोक्तम् ।
७,५८४
यदुक्तं यावदवयवभाविनो ऽवयविनो ऽवयवैरत्यन्ताभेदो ऽयावदवयवभाविनस्तु भेदाभेदाविति ।
तेनान्यदपि चोद्यं परिहृतमित्याहअंशांशिनोरिति ।
७,५८५
अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः । मनुव्_२,२.१०८ ।
न्यायसुधा-
तथा हि ।
सर्वदिक्ष्वपि सम्बन्धादिति यदंशतः संयोग इत्युक्तं तदयुक्तम् ।
अनवस्थापत्तेः ।
घटसंयोगो हि घटांशसंयोगपूर्वकः ।
सो ऽपि तदंशसंयोगपूर्वकः ।
नचेयं निरंशे परम्परा विश्राम्यतीति वाच्यम् ।
अंशपरम्पराया अविश्रमस्याप्यङ्गीकृतत्वात् ।
अतः पूर्वपूर्वसंयोगानुत्पत्तावुत्तरोत्तरानुत्पत्तिप्रसङ्गादंशतः संयोग इति नियमो नोपपद्यत इति ।
तदिदमसङ्गतम् ।
यद्यप्यंशत एव संयोगो यद्यपि चांशेष्वंशपरम्पराया अविश्रमस्तथाप्यंशांशिनोरभेदे नैवांशसंयोग एव हि यस्मादंशिनः संयोगो ऽतो नानवस्थेति ।
७,५८६
अयमभिसन्धिः ।
स्यादियमनवस्था यदि सर्वत्रांशत एव संयोग इति वदतामस्माकमंशिनः संयोगोंऽशसंयोगेनैव जायत इत्यभिप्रायः स्यात् ।
नचैवम् ।
किन्तु यो यस्य अंशिनः संयोगः स तदंशे वर्तते ।
निरंशस्य तु संयोगः क्व नाम वर्तताम् ।
अतः परमाण्वोः संयोगे सति तद्वृत्त्यर्थमंशो ऽङ्गीकरणीय इति ।
न ह्येवं सति काचिदनवस्थास्ति ।
अनवस्थितकार्यकारणभूतासिद्धसंयोगपरम्पराश्रयणाभावात् ।
एतावत्तु भवेत् ।
घटसंयोगः स्यात् ।
प्रमाणविरोधाच्च ।
घटसंयोगो घटवृत्तिरपि घटसंयोगः स्यात् ।
प्रमाणविरोधाच्च ।
घटसंयोगो घटवृत्तिस्तद्गुणत्वात्तद्रूपवदिति ।
घटांशवृत्तिः संयोगो न घटसंयोगः तदन्यवृत्तित्वात् ।
पटसंयोगवदिति ।
एतदप्यनवकाशम् ।
अंशांशिनोरभेदस्य साधितत्वात् ।
अतिप्रसङ्गो हि तदा स्याद्यदि पटवद्घटांशो ऽपि घटादत्यन्तभिन्नः स्यात् ।
अभेदे तु क्वातिप्रसङ्गः ।
अनुमानस्याप्याद्यस्य सिद्धसाधनता ।
अंशवृत्तेरेव घटवृत्तित्वात् ।
अंशावृत्तित्वे सति घटवृत्तित्वसाधने दृष्टान्तः साध्यविकलः स्यात् ।
द्वितीयस्तु हेतुः स्वरूपासिद्धो ऽन्यथासिद्धो वेति ।
यदि घटसंयोगो घटांशे वर्तते तर्हि घटांशसंयोगः क्व वर्तत इति चेत् ।
अनेन (एव) न्यायेन तदंशे सो ऽपि तदंश इति ब्रूमः ।
नचैवमनवस्था ।
सर्वे ऽप्यंशिसंयोगास्तत्तदंशवृत्तय इत्यत्रेतरापेक्षाया अभावात् ।
७,५८८
एवं तर्हि परमाणुवृत्तिरपि संयोगो घटसंयोगः स्यादिति चेत् ।
को नेत्याहेति ।
अंशसंयोग एव ह्यंशिनः संयोगो ऽतो नानवस्थेत्युक्तमनवस्थापरिहारं विवृणोतिएकस्मिन्निति ।
एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा । मनुव्_२,२.१०९ ।
न्यायसुधा-
अवयवपरम्पराया अविश्रममभ्युपगम्यैकैकस्मिन्नवयवसंयोगे जात एवान्यो ऽवयवसंयोगो जायत इति यद्यङ्गीकुर्मस्तदैवानवस्था स्यात् ।
संयोगैक्ये अवयविसंयोगः क्रियातो जातस्तदवयवे वर्तते, अवयववृत्तेः संयोगादपरो ऽवयविनः संयोगो नास्तीति वादे तु, क्व सानवस्थेति ।
एतेनैतदपि निरस्तम् ।
यदाहुः ।
संयोगस्त्रिविधो ऽन्यतरकर्मजोभयकर्मजसंयोगजभेदात् ।
तत्रान्यतरकर्मजो यः क्रियावता निष्क्रियस्य, यथा स्थाणोः श्येनेन ।
उभयकर्मजस्तु विरुद्धदिक्क्रिययोः सन्निपातो, यथा मल्लयोः ।
संयोगजस्तु संयोगः कारणाकारणसंयोगात्कार्याकार्यसंयोगो, यथा हस्ततरुसंयोगात्कायतरुसंयोग इति ।
नहि हस्ततरुसंयोगातिरिक्तः कायतरुसंयोगो ऽस्ति ।
येनासौ तज्जन्यः स्यात् ।
प्रमाणाभावात् ।
किन्तु हस्तकर्मणा जनितो हस्तवृत्तिः संयोग एव हस्तकाययोरभेदात्कायसंयोगो भवति ।
अत एव हस्तस्याशुचिसंयोगे कायक्षालनादिविधयो ऽप्युपपद्यते ।
७,५९१
अत एव विभागजो ऽपि विभागो निरस्तः ।
द्विविधं हि तमाचक्षते ।
कारणाकारणविभागात्कारणविभागाच्चेति ।
तत्राद्यो यथा ।
हस्ततरुविभागात्कायतरुविभागः ।
द्वितीयो यथा ।
द्वितन्तुकावयवे तन्तौ कर्मोत्पन्नं तस्य तन्त्वन्तराद्विभागं करोति ।
विभागात्तन्त्वोः संयोगो नश्यति ।
ततो द्वितन्तुकविनाशः ।
तत इदानीं तन्त्वोर्वर्तमानो विभागः सक्रियस्यावयवस्य द्वितन्तुकसंयुक्ताकाशादिदेशाद्विभागं करोतीति ।
तत्राद्यस्तावदनुपपन्नः ।
हस्ततरुविभागातिरिक्तस्य कायतरुविभागस्यानुपलम्भात् ।
हस्तकर्मणा जनितो हि विभागो हस्तकाययोरभेदाद्धस्तकायगुणो भवति ।
अत एव विवादाध्यासितो विभागो न कर्मासमवायिकारणकः कर्मैकार्थासमवेतत्वात् ।
शब्दवदितयसिद्धतया निरस्तम् ।
७,५९२
द्वितीयस्त्वनुपपन्नतरः ।
तन्तुकर्मणैव तन्तोस्तन्त्वन्तरादाकाशादिदेशाच्च विभागोत्पत्त्युपपत्तौ क्रमकल्पनानुपपत्तेः ।
अन्यथाङ्गुलिकर्मणाङ्गुलेरङ्गुल्यन्तरादेव विभागो भवति आकाशादिदेशात्तु विभागादेवेति स्यात् ।
नन्वङ्गुलिकर्म अङ्गुलिविभागमाकाशादिविभागं च करोति ।
तयोर्विभागयोरविरुद्धत्वात् ।
तन्तुकर्म तु तन्त्वन्तरविभागमाकाशादिविभागं (च) न कर्तुमर्हति ।
तयोर्विभागयोः द्रव्यारम्भकसंयोगविरोधित्वाविरोधित्वरूपविरोधात् ।
नह्यविरुद्धात्कारणाद्विरुद्धकार्योत्पत्तिः सम्भवतीति ।
मैवम् ।
एकस्मादेव कर्मणः संयोगविभागजननाभ्युपगमात् ।
तन्तुकर्मरा द्रव्यारम्भकानारम्भकतन्त्वन्तराकाशसंयोगजन्माङ्गीकाराच्च ।
अन्यथा कारणाकारणसंयोगजसंयोगवत्कारणमात्रसंयोगजो ऽपि संयोगः स्वीकार्यः स्यात् ।
७,५९५
ननु संयोगस्य न स्वरूपतो विरोधो ऽस्ति ।
यतो द्रव्यानारम्भकद्रव्यसमवेत एव संयोगो द्रव्यानारम्भकः ।
द्रव्यानारम्भकं च द्रव्यं सप्तविधम् ।
आरब्धद्रव्यमन्त्यावयविस्पर्शरहितं विनश्यदवस्थं विनश्यदवस्थसंयोगं निष्फलारम्भं विजातीयं चेति ।
ततः कर्मणैव संयोगद्वयजन्मोपपत्तिरिति ।
एयं तर्हि विभागयोरपि को विरोधः ।
द्रव्यारम्भानारम्भप्रयुक्तत्वाद्विरोधप्रतीतेः ।
तन्तुद्वयविभागजनकं तन्तुकर्म न तन्त्वाकाशविभागजनकं द्रव्यारम्भकसंयोगविरोधिविभागजनककर्मत्वात् ।
द्रव्यान्रारम्भकसंयोगविरोधिविभागजनककर्मवत् इत्याभाससमानयोगक्षेमत्वात् ।
तन्तुकर्म न तन्त्वन्तरविभागजनकं कर्मत्वात् सम्प्रतिपन्नकर्मवदित्यपि प्रयोगसम्भवात् तत्र प्रमाणबाध इति चेत् ।
सममन्यत्रापि ।
विभागद्वययौगपद्यानुभवात् ।
तन्तुकर्म आकाशविभागजनकं कर्मत्वादिति प्रतिपक्षश्च ।
आकाशविभागे विभागेन कर्तव्ये कर्मणो निमित्तत्वाभ्युपगमात्सिद्धसाधनमिति चेन्न ।
जनकशब्दस्यासमवाय्यर्थत्वात् ।
७,६००
एतेन विमतं कर्म द्रव्यारम्भकसंयोगविरोधितदविरोधिविभागजनकं न भवति कर्मत्वादिति निरस्तम् ।
विमतं कर्म द्रव्यारम्भकानारम्भकसंयोगारम्भकं न भवति कर्मत्वात् ।
श्येनकर्मवदित्याभासतुल्यत्वात्सत्प्रतिपक्षत्वाच्च ।
यदाकाशविभागजनकं कर्म न तद्द्रव्यारम्भकसंयोगविरोधिविभागजनकं यथाङ्गुलिकर्मेति व्याप्तेस्तन्तुकर्मणो गगनविभागजनकत्वे
तन्त्वन्तरविभागजनकत्वं न स्यादिति चेन्नन ।
यद्यत्प्रदेशविभागजनकं न भवति न तत्तत्प्रदेशस्थद्रव्यविभागजनकमिति व्याप्तेराकाशदेशविभागाजनकत्वे तन्त्वन्तरादपि विभागजनकं न
स्यादिति प्रतिप्रसङ्गसम्भवात् ।
७,६०१
किञ्च तन्तोराकाशविभागो यदि विभागजो न तु कर्मजस्तदा सकर्मकस्येवाकर्मकस्यापि कुतो न स्यात् ।
विभागस्योभयत्रापि साम्यात् ।
उत्तरविभागे कर्म निमित्तकारणमित्यतो नेति चेन्न ।
आद्यविभागजननेनैवोपक्षीणस्य कारणत्वानवधारणात् ।
अवधारणे वासमवायित्वस्य अनिवारणात् ।
अन्यथा तल्लक्षणस्यातिव्याप्तेरित्यलं विस्तरेण ।
७,६०४
एवं छलत्वेनानवस्थाप्रसङ्गं निराकृत्य प्रकारान्तरेण निराकरोतिअंश इति ।
अंशिसंयोगस्यांशवृत्तित्वदृष्टेश्च नानवस्थादोष इत्यर्थः ।
दृष्टत्वे कथमदोषत्वमित्यत आहदृष्ट इति ।
अंशे संयोगदृष्टेश्च … । मनुव्_२,२.११०अ ।
न्यायसुधा-
आपादके ऽर्थे दृष्टे सति सा अनवस्थितिः का न दूषणमिति यावत् ।
एतदुक्तं भवति ।
यद्यंशतः संयोगः स्यात्तदानवस्था स्यात्ततश्च संयोगाभाव एवापद्येत ।
नचासौ युक्तः ।
तस्मान्नांशतः संयोग इति हि विपर्यये पर्यवसानं कर्तव्यम् ।
अनवस्थायास्तर्कत्वात् ।
विपर्ययापर्यवसायिनश्च तर्काभासत्वनियमात् ।
… दृष्टे का सानवस्थितिः । मनुव्_२,२.११०ब् ।
न्यायसुधा-
अत्रांशतः संयोगे न भवतीति को ऽर्थो यद्यंशिसंयोगस्यांशसंयोगपूर्वकतानियमो नास्तीति ।
तर्ह्येवमिति वदामः ।
यद्यंशिसंयोगोंऽशवृत्तिर्न भवतीति ।
तन्न ।
घटाद्यंशिसंयोगस्य तदंशवृत्तितायाः प्रत्यक्षदृष्टत्वेन विपर्ययपर्यवसानस्य बाधितत्वात् ।
घटसंयोगो घट एव वर्तते ।
किन्त्वव्याप्यवृत्तित्वात्तदंशवृत्तिरिवावभासत इति चेत् ।
केयमव्याप्यवृत्तिता नाम अन्या अंशवृत्तित्वात् ।
स्वाभावसमानाधिकरणत्वमिति चेन्न ।
विरुद्धत्वात् ।
दृष्टत्वादविरोध इति चेन्न ।
किमंशभेदेन भावाभावौ दृश्येते उत घट एवेति सन्देहात् ।
न ह्यविरुद्धविषयत्वे सति विरुद्धविषयताङ्गीकर्तुमुचिता ।
उपाधिभेदादविरोध इति चेत् ।
के त उपाधयः ।
अंशा एवेति चेत् ।
त एव सन्तु तर्हि संयोगावाभावाश्रयाः किमं(शि)शवृत्तित्वेन विरुद्धेन अङ्गीकृतेन ।
अंशांशिनोरभेदेनातिप्रसङ्गस्यापास्तत्वादिति ।
७,६०९
प्रतितर्कपराहतत्वाच्चातिप्रसङ्गो ऽयमित्याहयदीति ।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम् । मनुव्_२,२.११०च्द् ।
न्यायसुधा-
यदि कारणानां संयोगस्तदंशवृत्तिर्न स्यात्तदा तदारब्धेषु कार्येषु कारणापेक्षया परिमाणोत्कर्षो न स्यादित्यर्थः ।
अयमभिसन्धिः ।
कारणपरिमाणापेक्षया कार्ये परिमाणोत्कर्षस्तावत्सर्वत्र प्रचयजन्यः ।
द्वितूलके तथा दर्शनात् ।
प्रचयहीनतूलद्वयजन्यरज्जुद्रव्ये तदभावोपलम्भाच्च ।
प्रचयश्च कारणयोः प्रशिथिलः संयोगः ।
प्रशिथिलता च संयोगस्य केषुचिदंशेषु वृत्तिः केषुचिदवृत्तिरेव ।
नान्या ।
अनिरूपणात् ।
ततः संयोगस्यांशवृत्तित्वाभावे प्रचयो ऽसौ न भवतीति कारणाभावादुत्कृष्टपरिमाणोत्पादो न स्यादिति ।
७,६१०
अस्त्वन्यस्य संयोगो यथातथा ।
प्रस्तुते परमाणौ संयोगस्यांशवृत्तित्वाभावे नातिप्रसङ्ग इति चेन्न ।
अन्वयव्यतिरेकाभ्यां कारणपरिमाणोत्कृष्टस्य कार्यपरिमाणस्य प्रचयाख्यांशवृत्तिसंयोगजत्वावधारणात्कारणाभावे च
कार्याभावनियमात्परमाणुसंयोगस्यांशवृत्तित्वाभावे तत्कार्ये द्वयणुके परमाणुपरिमाणादुत्कृष्टपरिमाणं नोत्पद्येतेत्यस्यैव बाधकस्य सत्त्वात् ।
नन्विदमिष्यापादनम् ।
परमाणुतो द्वयणुके परिमाणोत्कर्षाभावादित्यत आहपरमाणोरिति ।
परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः । मनुव्_२,२.१११अब् ।
७,६११
न्यायसुधा-
परमाणुपरिमाणादणोद्वर्यणुकस्य महत्ता परिमाणोत्कर्षो नास्तीति वचो ऽद्भुतं स्वव्याहतं प्रमाणविरुद्धं चेत्यर्थः ।
अयमाढ्यो ऽयं परमाढ्य इतिवदणुपरमाणुशब्दाभ्यामेव परिमाणतारतम्यावगतेस्तदभाववचनं स्वव्याहतं भवति ।
द्वितन्तुकपरिमाणवद(सम्मृदि)समुदितावयवजन्यद्रव्यपरिमाणत्वेन द्वयणुकपरिमाणस्य परमाणुपरिमाणादुत्कर्षस्यानुमानावगत्वाच्चेति ।
ननु यत् कारणपरिमाणजन्यमुत्कृष्टपरिमाणं तदेव प्रचयजन्मय् ।
त्र्यणुकपरिमाणवद्द्वयणुकपरिमाणमपि कारणपरिमाणजन्यं न भवति ।
किन्तु कारणसङ्ख्याजन्यमेव ।
तत्कथं परमाणोः प्रचयाभावे द्वयणुके परिमाणोत्कर्षानुत्पादापादनमित्यत आहअणूनामिति ।
अणूनां प्रथिमापेक्षां विनैव तृयणुके ऽपि सः ।
परमाणोर्महत्त्वं च विनेत्येतद् वचः कथम् । मनुव्_२,२.१११च्फ़् ।
न्यायसुधा-
द्वयणुकानां परिमाणोत्कर्षापेक्षां विनैव सङ्ख्यामात्रेण त्र्यणुके स परिमाणोत्कर्षो जायते ।
तथा परमाणोर्महत्त्वं परिमाणोत्कर्षं विना केवलसङ्ख्यया द्वयणुके परिमाणोत्कर्षो जायत इत्येतद्वचः कथं घटते ।
महद्दीर्घवद्वेति निरस्तत्वादिति भावः ।
चापिशब्दावितरेतरसमुच्चये ।
अत्र परिमाणमात्रग्रहणे कर्तव्ये प्रथिमेति महत्त्वमिति चोक्तिर्विसदृशपरिमारत्वस्यानपेक्षाहेतोः निराकरणं स्मारयितुमिति ।
७,६१३
अंशांशिनोरत्यन्ताभेदो भेदाभेदौ चेति यदुक्तं तद्विशदयतिअंशिन इति ।
अंशिनो ऽंशैरभेदो ऽयमंशेन तु भिदाभिदा । मनुव्_२,२.११२अब् ।
न्यायसुधा-
यथा गगनादेर्यावदंशभाविनोंऽशिनः स्वांशैरत्यन्ताभेदस्तथा पटादेरंशिनो ऽपि सर्वैरंशैः अत्यन्ताभेदः एकैकांशेन तु भिदाभिदा ।
अयमित्युत्तरवाक्येन सम्बद्धयते ।
नन्वेतदयुक्तम् ।
सर्वतन्तुभावे ऽपि कदाचित्पटस्याभावात् ।
खण्डिते भेदाभेदस्वीकारात् ।
अत एकेनैव सर्वैरपि पटस्य भेदाभेदावेवोपचितौ ।
तथाचोक्तं ब्रह्मतर्के ।
‘तन्तुभ्यो ऽन्यः पटः साक्षात्कस्य दृष्टिपथं गतः ।
अनन्यश्चेत्तन्तुभावे पटाभावः कुतो भवेत्’ इति ।
उच्यते ।
व्यतिषङ्गविशिष्टा हि तन्तवो ऽवगम्यते ।
नच तद्भावे कदापि पटाभावः ।
तस्माद्वयतिषङ्गविशेषविशिष्टैः सर्वतन्तुभिः पटस्यात्यन्ताभेद एव ।
अविवक्षितव्यतिषङ्गैः सर्वतन्तुभिस्तु भेदाभेदावेवेति न कश्चिद्विरोधः ।
नन्वेवं तर्हि व्यतिषक्ततन्तुव्यतिरेकेण पटाभावे परमाणुपुञ्जवादापत्तिरिति ।
मैवम् ।
यथा हि गुणानां द्रव्याभेदे(ऽपि) न द्रव्यं निर्गुणम् ।
यथा च परेषां सामान्यादावतिरिक्तसत्ताभावे(ऽपि) नासत्त्वम् ।
तथा व्यतिषक्ततन्तव एव पटस्तथापि न पटाभावः ।
किन्तु सति व्यतिषक्तास्तन्तवः पटश्च ।
स च तेभ्यो न भिद्यते इति ।
कथमेतदिति चेत् ।
विशेषशक्तयैवेति ब्रूमः ।
७,६१६
ननु व्यतिषक्तसर्वतन्तुभ्यो ऽपि पटस्य भेदो ऽङ्गीकार्यः ।
तन्तुव्यतिषङ्गानन्तरं पटस्य जायमानत्वात् ।
कथं चैकैकतन्तुनाभेदः एकैकत्र पटबुद्धयभावादित्यत आहसर्वेति ।
सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते । मनुव्_२,२.११२च्द् ।
न्यायसुधा-
उक्तो ऽयमर्थः सर्वप्रत्यक्षविषयो यस्मात्तस्मात्कथमेवापोद्यते ।
एतदुक्तं भवति ।
अस्ति तावद्वयतिषक्तसर्वतन्तूनां पटस्य चाभेदे प्रत्यक्षम् ।
तत्प्रतीतेः सम्बद्धवस्तुद्वयप्रतीतिवैलक्षण्यस्य साक्षिसिद्धत्वात् ।
नच भेदे प्रमाणमस्ति ।
येन सो ऽपि स्वीकरिष्यते ।
जायतां नाम तन्तुव्यतिषङ्गं पटमाचक्ष्महे ।
किन्तु व्यतिषङ्गे सति यत्तन्तूनां विशिष्टं रूपम् ।
नचैकैकतन्तुपरित्यागे सर्वतन्तवो नाम सन्ति ।
अतस्तत्राप्यस्त्येवाभेदप्रतीतिः ।
एकैकत्र पटबुद्धयभावस्तु भेदमाक्षिपति ।
नतु प्रत्यक्षसिद्धमभेदमपवदतीति ।
७,६२१
अथापि स्यात् ।
अवयव्यादीनामवयवादिभिरभेदो नोपपद्यते ।
एको ह्यवयव्यनेके चावयवाः ।
तदभेदे ऽवयवानामप्यभेदो ऽवयविनो वा भेदः प्रसज्येत ।
तथा गुणाश्च केचिदनेकाश्रिताः ।
एकैव हि संयोग्वयक्तिर्द्वयोर्द्वयोर्वर्तते ।
तथा विभागव्यक्तिरपि ।
सङ्खया च द्विविधा ।
एकत्वानेकत्वभेदात् ।
तत्रैकत्वस्यैकद्रव्यगतत्वे ऽपि द्वित्वादिकमेनेकाश्रितम् ।
एवं पृथक्तवमपि द्विविधम् ।
एकपृथक्तवमनेकपृथक्तवं च ।
तत्रैकपृथक्तवस्यैकद्रव्यवृत्तित्वे ऽपि द्विपृथक्तवादिकमने(कद्रव्याश्रि)काश्रितमेव ।
एवञ्च गुणानां गुणिनैक्ये संयोगाद्याश्रयानेकद्रव्याभेदो वा संयोगादिभेदो वाऽपद्येत ।
सामान्यं चैकमनेकाश्रितम् ।
तस्य व्यक्तयभेदे व्यक्तीनामप्यभेदः सामान्यस्य वा भेदः प्रसज्येतेत्यतः संयोगविभागपृथक्तवानां तावदनेकाश्रितत्वं नास्तीत्याहसंयोगश्चेति ।
संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् । मनुव्_२,२.११३अब् ।
न्यायसुधा-
भेद इति पृथक्तवमुच्यते ।
चशब्दा इतरेतरयोगे ।
पृथक्पृथगेव एकैकद्रव्याश्रिता एवेत्यर्थः ।
ततश्चैकेन गुणेनाभिन्नत्वे द्रव्ययोरप्यभेदः स्यादित्यतिप्रसङ्गस्यापादकासिद्धिः ।
अनेकद्रव्याभिन्नत्वे गुणस्यापि भेदः स्यादित्यस्येष्यापत्तिर्दूषणमित्युक्तं भवति ।
७,६२४
ननु घटपटसंयोगविभागभेदा घटपटसम्बन्धितयानुभूयते ।
तत्कथमेकैकाश्रिताः ।
तथात्वे चैकैकस्मिन्नेव संयुक्तादिप्रत्ययप्रसङ्ग इत्यत आहअन्योन्येति ।
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते । मनुव्_२,२.११३च्द् ।
न्यायसुधा-
प्रतियोगः प्रतियोगित्वम् ।
अन्योन्यस्य प्रतियोगो ऽन्योन्यप्रतियोगः ।
यत्संयोगादिरुभयोरपि दृश्यते तदन्योन्यप्रतियोगेन हि निमित्तेन ।
अत्रोभयोरपीत्यनेकोपलक्षणम् ।
भेदस्य बहुसम्बन्धितयापि प्रतीतेः ।
एतदुक्तं भवति ।
घटप्रतियोगिकः संयोगादिः पटे ऽस्ति ।
तथा पटप्रतियोगिको घटे ऽस्ति ।
तस्मादुभयसम्बन्धितया प्रतिभासो ऽतिप्रसङ्गाभावश्च युज्यत इति ।
७,६२५
स्यादेतद्यदि संयोगादीनामेकैकवृत्तित्वे प्रमाणं स्यात् ।
तदेव नास्तीत्यत आहअन्योन्येति ।
पृथक् पृथगेवेत्यनुवर्तते ।
अन्योन्यप्रतियोगेन हेतुना संयोगादिकमुभयोरपि पृथक् पृथगेव हि दृश्यते ।
अयमर्थः ।
पटो घटेन संयुक्तो घटाद्विभक्तो घटाद्भिन्न इति पटधर्मः संयोगादिघर्टप्रतियोगिकतया प्रतीयते ।
यश्च यत्प्रतियोगिको नासौ तद्धर्मः ।
यथा स्थविरप्रतियोगिकमपरत्वं न स्थविरधर्मः ।
तस्मान्नायं संयोगादिर्घटधर्मः ।
एवं घटधर्मः संयोगादिः पटप्रतियोगितयोपलभ्यमानो न पटधर्मो भवितुमर्हति ।
तथाच पृथक् पृथगेव संयोगादिरनेकधर्मो ऽवगम्यत इति ।
७,६२६
नन्वस्तु संयोगविभागयोरियं गतिः ।
नतु पृथक्तवे ।
यद्धि घटात्पटः पृथक् पटाच्च घटः पृथगित्यन्योन्यप्रतियोगिकतया प्रतीयते तदेकपृथक्तवं पृथक् पृथगेवाभ्युपगम्यते ।
यत्तु भिन्नाविमौ भिन्ना इमे इति प्रतीयते तदनेकपृथक्तवमनेकाश्रितमेव प्रतियोग्यनिरूप्यस्यैकाश्रित(श्रय)त्वे मानाभावादित्यत आहभिन्ना इति ।
भिन्ना इति तु भेदानां समुदायो हि दृश्यते ।
यथैव च पदार्थानाम् … । मनुव्_२,२.११४अच् ।
न्यायसुधा-
इमे भिन्ना इत्यादिप्रतीतौ भेदानां समुदायो ऽनेकत्वं हि दृश्यते ।
कथम् ।
यथैव च पदार्थानाम् ।
एतदुक्तं भवति ।
यथा हि शुक्ला इमे पटा इत्यादिप्रतीतावनेके पटा अनेकानि च तद्विशेषणानि शौक्लयान्यवभासन्ते ।
तथा भिन्ना इम इत्यादिप्रतीतावप्यनेके पदार्था अनेके च भेदाः प्रकाशन्ते इत्यभ्युपगन्तव्यम् ।
नच विशेषप्रमाणमस्ति ।
येनात्रान्यो विधिर्भविष्यतीति ।
एतेन संयुक्ताविमावित्यादिप्रतीतिरपि व्याख्याता वेदितव्या ।
७,६२८
नन्वनयोर्भेदो ऽमीषां भेद इति प्रतीतावनेकाश्रितं पृथक्तवमुपलभ्यते ।
तत्कथमेतदिति चेत् ।
किमत्रानेकस्य धर्मितयावभासं प्रमाणयसि, उत धर्मस्यैकत्वावभासम्, उतोभयावभासम् ।
पक्षत्रये ऽप्युत्तरमाहअनयोरिति ।
… अनयोर्भेद इत्यपि । मनुव्_२,२.११४द् ।
इतो ऽमुष्यामुतो ऽप्यस्य भेदो दृष्टो द्विधर्मिकः । मनुव्_२,२.११५अब् ।
न्यायसुधा-
अस्यामपि प्रतीतावितो घटादमुष्य पटस्यामुतः पटादमुष्य घटस्य भेद इत्येवं द्विधर्मिको भेदो दृष्टः ।
तथाचानेकस्य धर्मित्वे ऽपि धर्मस्यैकत्वावभासासम्मतेर्नानेनाभिमतार्थसिद्धिरित्युक्तं भवति ।
अनेनैवानयोः संयोग इत्यादिप्रतीतिरपि व्याख्याता द्रष्टव्या ।
ननु वचनलिङ्गा हि वक्तुरभिप्रायाः ।
भेद इति चैकवचनं प्रयुज्यते ।
तेन अनुमीयते ऽस्यां प्रतीतावेक एव भेदो द्विधर्मिको दृष्ट इति ।
तस्मादन्योन्यप्रतियोगिकानेकधर्मिकानेकभेदविषयत्वं प्रतीतेर्न वक्तुं शक्यमित्यत आहतत्रेति ।
तत्रैकवचनं यत्तद् विप्राणां भोजनं यथा । मनुव्_२,२.११५च्द् ।
७,६२९
न्यायसुधा-
तत्र अनयोर्भेद इत्यादिवाक्ये, भेदद्वये वा ।
भोजनमित्येकवचनं यथा तथेत्यर्थः ।
एतेन एकवचनेन प्रतीतेरेकार्थविषयत्वानुमाने ऽनैकान्तिकत्वं समुदायविषयत्वेनान्यथासिद्धिश्चेत्युक्तं भवति ।
अवयविनस्त्वेकत्वे ऽपि न कश्चिद्दोषः ।
आकाशस्य स्वावयवैरभेदवदवयवानामप्यभेदस्य अङ्गीकृतत्वात् ।
पटस्य च यादृशेन तन्तुसमुदायेनात्यन्ताभेदो ऽभिहितः स एक एव ।
व्यतिषक्तानां तन्तूनां विशिष्टाकारो ह्यसौ ।
स चागन्तुकत्वात्तन्तुभ्यो भिन्नाभिन्न एव ।
एकैकेन तन्तुना सर्वैश्चभेदे ऽपि भेदस्यापि विद्यमानत्वान्नान्योन्याभेदप्रसक्तिरिति स्वयमेवोह्यतामिति नोक्तम् ।
७,६३१
नन्वेवं तर्हि संयोगादेरप्येकैकाश्रितत्वं न वक्तव्यम् ।
अयावद्द्रव्यभावित्वेन भेदाभेदाभ्यामेवोक्ताक्षेपसमाधानादिति ।
सत्यम् ।
तथापि वस्तुस्थितिरियमुक्तेत्यदोषः ।
अपि चाजसंयोगे नायं समाधिः सम्भवति ।
स एव नास्ति प्रमाणाभावादिति चेन्न ।
परमाणोः आकाशादिसंयोगाङ्गीकारात् ।
सो ऽपि परमाणुकर्मज इति चेन्न ।
प्रागसयोगप्रसङ्गात् ।
अंशभेदान्नेति चेन्न ।
स्वाभाविकस्यानभ्युपगमात् ।
औपाधिकस्य च निराकरिष्यमाणत्वात् ।
किञ्चाकाशमीश्वरेण संयुज्यते द्रव्यत्वाद्घटवत् ।
नच मूर्तत्वमुपाधिर्विशेषणवैयर्थ्यात् ।
परिच्छिन्नपरिमाणवत्त्वेनैवालम् ।
परिच्छिन्नत्वविशेषणं तु व्यर्थमेव ।
आकाशमीश्वरेण न संयुज्यते अमूर्तत्वाद्रूपवदिति चेन्न ।
अद्रव्यत्वस्योपाधित्वादिति ।
८,१
इदानीं सामान्यस्यैकैकाश्रितत्वमाहनस्त्वादिकमिति ।
नरत्वादिकमप्येवं … । मनुव्_२,२.११६अ ।
न्यायसुधा-
एवं संयोगादिवदेकैकवृत्तीत्यर्थः ।
सामान्यमपीति वक्तव्ये ब्राह्मणत्वादेरयावद्द्रव्यभावित्वेनापि तत्र परिहारः सम्भवतीति ज्ञापयितुं नरत्वादिकमित्युक्तम् ।
उपपादनं च नैकप्रकारमिति योगविभागः ।
कुतो नरत्वादिकं प्रतिव्यक्तिभिन्नमित्यत आहतत्तदिति ।
… तत्तद्धर्मतयेयते । मनुव्_२,२.११६ब् ।
न्यायसुधा-
यथाहि नरेषूपलभ्यमानेषु तदीयं रूपादिकं प्रतिनियतमुपलभ्यते ।
तथा नरत्वादिकमपि तत्तन्नियतधर्मतयैवेयते दृश्यते इति प्रत्यक्षमुक्तम् ।
यद्वा यो ऽनेकाश्रितो धर्मो नासावेकैकप्रतीतौ प्रतीयते, यथा द्वित्वादि ।
प्रतीयते च नरत्वादिकमेकैकप्रतीतावतो नानुगतमित्यनुमानमनेन सूचयति ।
८,४
किञ्च नरत्वादिकं नानेकानुवृत्तं धर्मत्वाद्रूपादिवत् ।
अस्याभासोद्धारं करोतिनेति ।
न सर्वधर्म एको ऽस्ति … । मनुव्_२,२.११६च् ।
न्यायसुधा-
सर्वधर्मः अनेकवृत्तिधर्मः ।
तेन धर्मत्वं न भग्नव्याप्तिकमिति शेषः ।
पक्षधर्मता तु स्फुटैवेति ।
नन्वनेकत्वसङ्खया तावदनेकाश्रिता ।
एकैकस्मिन्द्वित्वादेः ।
शङ्कितुमप्यशक्यत्वात् ।
नहि द्वित्वादिकमेकैकप्रतीतौ प्रतीयते ।
नच प्रतियोगिनिरूप्यम् ।
धर्मितयैवानेकेषामनुभवात् ।
अतो धर्मत्वहेतोस्तत्रानैकान्त्यमित्यत आहसमुदायस्त्विति ।
… समुदायस्तु भिन्नगः । मनुव्_२,२.११६द् ।
न्यायसुधा-
समुदायो ऽनेकत्वं भिन्नगो ऽनेकाश्रितः ।
सत्यमनेकत्वसङ्खयानेकाश्रिता ।
तथापि तदन्यत्वेन हेतुविशेषणाददोष इति भावः ।
सा चापेक्षाबुद्धिजन्यत्वादयावद्द्रव्यभाविनी भिन्नाभिन्नेति नाश्रययोरभेदापत्तिः ।
८,६
प्राभाकरास्त्वाहुः ।
सादृश्यं तावदेकमनेकानुगतं, तत्र धर्मत्वहेतोव्यर्भिचारः नच वाच्यं सामान्यमेव सादृश्यमतः पक्षे व्यभिचारचोदनेयमनुपपन्नेति ।
जातिसङ्करप्रसङ्गात् ।
अस्ति हि कयोश्चिदश्वरासभवक्तयोः सादृश्यं, तत्र यदि सादृश्यमश्वत्वात्परम् तदा सर्वेषामप्यश्वानां रासभसादृश्यं स्यात् ।
यदि चापरं तदा रासभव्यक्तावप्यश्वत्वं स्यात् ।
एवं रासभत्वे ऽपि वाच्यम् ।
न सादृश्यमश्वरासभवृत्ति ब्रूमः ।
किन्तु तदवयवृत्ति ।
द्रव्यगुणावयवकर्मवृत्तीनि सामान्यादेव हि सादृश्यनामन्यभ्युपगच्छामो ऽतो न जातिसङ्करदोष इति चेन्न ।
गौर्गवयेन सदृशीत्यादिव्यवहाराणाममुख्यत्वप्रसङ्गात् ।
नच सामान्यं प्रतियोगिनिरूप्यम् ।
तन्निरूप्यं च सादृश्यमिति स्फुटो ऽनयोर्भेद इत्यत आहएतादृशं चेति ।
एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक् । मनुव्_२,२.११७अब् ।
न्यायसुधा-
भवतु सादृश्यं सामान्यतो भिन्नं तथापि तत्पदार्थेषु पृथक् पृथगेवेति न तेन धर्मत्वहेतोर्व्यभिचारः ।
एतादृशमिति तत्रोक्तहेत्वतिदेशः ।
नहि सादृश्यस्यानेकवृत्तित्वे प्रमाणस्यानेन सादृश्यमस्यानेन शुक्लाविमावित्यादिवदुपपत्तेः ।
अनयोः सादृश्यमित्यादेश्चास्यानेन सादृश्यमस्यानेन सादृश्यमित्युपपत्तेः ।
एकवचनस्या (च) विप्राणां भोजनमित्यादिवदुपपन्नत्वत्प्रतियोगिनो धर्मित्वासम्भवाच्च ।
एकाश्रितत्वे ऽपि प्रतियोगिनिरूप्यत्वेनैकैकप्रतीतावपि अप्रतीतिसम्भवाच्चेति ।
८,१०
नरत्वादिसामान्यस्य प्रतिव्यक्तिभिन्नत्वे ऽनुमानान्तरमाहएकस्मिन्निति ।
एकस्मिन् स विनष्टे ऽपि यतो ऽन्यत्रैव दृश्यते । मनुव्_२,२.११७च्द् ।
न्यायसुधा-
एकस्मिन्नरे नष्टे तदाश्रितं नरत्वं तावन्नष्टम् ।
तथापि स नरत्वलक्षणो धर्मो ऽन्यत्र नरान्तरे दृश्यत एव यतो ऽतो ऽपि नरत्वादिकमित्युक्तेन सम्बन्धः ।
यद्वा विनष्टं विनाशः सह विनष्टेन वर्तत इति सविनष्टं तस्मिन्विनाशवतीति यावत् ।
अथवाऽश्रयेण सह विनष्टं सविनष्टं तस्मिन्निति योजना ।
अयमत्र प्रयोगः ।
नष्टानष्टवर्ति नरत्वं भेदवत् विरुद्धधर्माश्रयत्वाच्छायाऽतपवत् ।
नचासिद्धो हेतुः ।
नष्टाश्रयस्य नरत्वस्य नष्टत्वात् ।
अन्यस्य तु दृश्यमानत्वेन अविनष्टत्वात् ।
यद्वेदं नरत्वं विनष्टान्नरत्वाद्भिद्यते ऽविनष्टत्वाद्घटवत् ।
यदि वा तन्नरत्वमविनष्टान्नरत्वाद्भिद्यते विनष्टत्वाद्घटवदिति ।
८,१२
भवेदेतद्यदि विनष्टनराश्रितमपि नरत्वं विनश्येत् ।
नचैतदस्ति तस्य नित्यत्वादित्यत आहकुत इति ।
कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते । मनुव्_२,२.११८अब् ।
न्यायसुधा-
नष्टनराश्रितस्यापि नरत्वस्य पुनः सत्त्वं न निष्प्रमाणकं प्रत्यक्षसिद्धत्वात् ।
नष्टानष्टनराश्रितं नरत्वं तावदेकम् ।
तच्चाविनष्टे नरे पुनरुपलभ्यते ।
अत एवानुमानमपि बाधितविषयमित्यत आहएकत्व इति ।
८,१३
एकत्वे नास्ति मानं च … । मनुव्_२,२.११८च् ।
न्यायसुधा-
स्यातेदद्यद्येतयोरेकत्वे मानं स्यात् ।
नच तदस्तीत्यर्थः ।
नच प्रत्यभिज्ञानं प्रमाणम् ।
तस्य स्वरूपतः प्रमाणत्वेन सन्दिग्धत्वात् ।
चशब्देनान्योन्याश्रयत्वं समुच्चिनोति ।
एकत्वे हि पुनः (तस्य) सत्त्वसिद्धिस्तत्सिद्धौ चैकत्वसिद्धिरिति ।
८,१३फ़्.
एवं सामान्यादीनां प्रत्याश्रयं भेदे प्रत्यक्षानुमानान्युक्तवा श्रुतिमप्याहश्रुतिरपीति ।
… श्रुतिरप्याह सादरम् । मनुव्_२,२.११८द् ।
भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ।
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः । मनुव्_२,२.११९ ।
अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ।
न केनचिदभिन्नो ऽतो भगवान् स्वगुणैर्विना । मनुव्_२,२.१२० ।
इति … । मनुव्_२,२.१२१अ ।
न्यायसुधा-
आह सामान्यादीनां प्रत्याश्रयं भेदमिति शेषः ।
भिन्नाः परस्परतो भेदवन्तः ।
अन्योन्यं भिन्ना धर्मा येषां ते भिन्नधर्माः ।
भिन्नधर्मा इत्यनेनाश्रयतो ऽपि भेदो ऽभिहित इति शङ्कानिरासार्थमुक्तम्स्वैरिति ।
स्वरूपैरपि यथा भगवान्मत्स्यादिभिः ।
स्वैः स्वैर्धर्मैरभिन्नाश्चेत्यस्यापवादो ऽनिवृत्तेति ।
अनिवृत्ते ऽप्याश्रये विनाशो येषां ते तथोक्ताः ।
यथाऽमघटश्यामतादयः ।
उभयरूपका भिन्नाभिन्नाः ।
न केनचिदिति श्रुतिः स्वप्रकृतमुपसंहरति ।
अत्र सर्वश इत्यादिवचनादुक्तविवरणाच्चादरः प्रतीयते ।
८,१५
ननु घटादेरामद्रव्यस्याग्निना सम्बद्धस्य, अग्न्यभिघातान्नोदनाद्वा तदारम्भकेषु परमाणुषु, कर्माण्युत्पद्यन्ते ।
तेभ्यो विभागाः, विभागेभ्यस्संयोगविनाशाः ।
संयोगविनाशेभ्यः कार्यद्रव्यं विनश्यति ।
तस्मिन्विचष्टे परमाणुष्वग्निसंयोगादौष्ण्यापेक्षाच्छ्यामादीनां विनाशः ।
पुनरन्यस्मादग्निसंयोगादौष्ण्यापेक्षात्पाकजा जायन्ते ।
तदनन्तरं भोगिनामदृष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद्द्वयणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते ।
तत्र च कारणगुणप्रक्रमेण रूपाद्युत्पत्तिर्भवति ।
तत्कथमामघटश्यामत्वादीनामयावद्द्रव्यभावित्वमुच्यते ।
मैवम् ।
अत्र प्रमाणाभावात् ।
८,१९
नोदनाद्युत्पत्तौ कर्मोत्पत्तिः प्रमाणम्, कर्मसु विभागाः, तेषु पूर्वसंयोगनिवृत्तिः, तत्र कार्यद्रव्यविनाशः, तत्र च पूर्वरूपादिपरावृत्तिः, तथा
रूपाद्यन्तरोत्पत्तिः स्थूलद्रव्योत्पत्तौ प्रमाणम्, सा तदवयवपरम्परायाम्, सा द्वयणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायम्, सा
तदवयवपरम्परायाम्, सा तदवयवपरम्परायाम्, सा द्वयणुके, तदुत्पत्तिः परमाणुसंयोगे, स च तत्क्रियायाम्, सादृष्टवदात्मसंयोग इति चेन्न ।
परमाणुष्विव कार्यद्रव्येषु पूर्वरूपादिनिवृत्तेरपूर्वरूपाद्युत्पत्तेरुपपत्तेः ।
पार्थिवावयविरूपादयः स्वाश्रयविनाशादेव विनश्यन्ति अवयविरूपादित्वात् दग्धपटरूपादिवत् ।
कारणगुणेभ्य एवोत्पद्यन्ते तत एव तद्वदेवेति चेन्न ।
क्वचित्सत्याश्रये ऽपि रूपा(दीनां वि)दिविनाशे ऽग्निसंयोगजत्वे च विरोधाभावात् ।
अन्यथा कार्यद्रव्यं संयोगविनाशादेव विनश्यति कार्यद्रव्यत्वात् द्वयणुकवदित्यादिकमपि स्यात् ।
८,२१फ़्.
नन्वग्निसंयोगः सर्वावयवेष्वस्ति न वा ।
नचेत्तत्र रूपादिविनाशोत्पादासम्भवः ।
तथा चावयवावयविनोर्विलक्षणरूपादिमत्त्वं स्यात् ।
आद्ये ऽग्न्यवयवानां सर्वत्र प्रवेशेन अवयविनाशस्यावर्जनीयत्वमिति चेत् ।
अवयविद्रव्याणां सच्छिद्रत्वेन प्रवेशोपपत्तेः ।
संस्थानापगमाभावेनावयविविनाशायोगात् ।
तथाविधस्यैवोदाहृतत्वादित्यलम् ।
८,२५
एवं सामान्यस्यानेकवृत्तित्वं प्रमाणैरपाकृतम् ।
तदयुक्तम् ।
तस्यानेकवृत्तित्वाभावे बाधकसद्भावात् ।
८,२६
तथाहि ।
सर्वेषु गोपिण्डेषु यद्यनुगतमेकं गोत्वसामान्यं न स्यात् तदा तत्र गोशब्दसङ्गतिग्रहणलक्षणा व्युत्पत्तिर्न स्यात् ।
वृद्धव्यवहारोपदेशादिना हि व्युत्पत्तिर्भवति ।
नच प्रतिपिण्डं व्यवहारादिकमस्ति ।
तेषामानन्त्येन व्युत्पत्तावेव पुरुषायुषपर्यवसानप्रसङ्गात् ।
अतो यत्रोपदेशादिकं तत्रैव व्युत्पत्तिर्व्यवहारश्चेति स्यात् ।
अथ विनैवैकेन निमित्तेनोपदेशाद्यभावे ऽपि गोपिण्डान्तरे गोशब्द(सङ्गतिं)सङ्केतं गृह्णीयात् ।
तदाश्वपिण्डे ऽपि किन्न गृह्णीयात् ।
अविशेषात् ।
अनुगतगोत्वे तु गोशब्दवृत्तिनिमित्ततयोपदेशादिनावगते नायं दोषः प्रादुष्यात् ।
तस्मादनेकेष्वेकशब्दसङ्गतिग्रहणान्यथानुपपत्त्यानुगतमेकमभ्युपगन्तव्यमेव ।
८,२८
ननु कथं तर्हि सामान्यरहितेषु पृथिव्यादिषु भूतमूर्तादिशब्दसङ्गतिग्रहणम् ।
उच्यते ।
तत्रापि बाह्यैकेन्द्रियग्राह्यगुणाश्रयत्वेयत्तावच्छिन्नपरिमाणत्वाद्युपाधिनिबन्धनैव व्युत्पत्तिः ।
उपाधीनां व्यावृत्तत्वे ऽप्यनुगतसामान्याश्रयत्वेन दोषाभावात् ।
८,३४
किञ्चानुगततन्तुत्वपटत्वादिसामान्याभावे कार्यकारणभावावधारणं न स्यात् ।
ततश्च कार्यार्थिनः कारणे प्रवृत्तिर्न स्यात् ।
८,३५
कायर्कारणभावे ह्यन्वयव्यतिरेकौ वोपदेशो वा प्रमाणम् ।
नच व्यावृत्तेषु वस्तुष्वन्वयव्यतिरेकग्रहणमुपपद्यते ।
नियमव्यभिचारयोदुर्ज्ञानत्वात् ।
८,३६
उपदेशश्चानन्तेषु न सम्भवत्येवेत्युक्तम् ।
८,३७
अपि च व्याप्तिज्ञानमप्यनुगतसामान्याभावे ऽनुपपन्नं स्यात् ।
व्यावृत्तवस्तूनामन्वयव्यतिरेकावगमानुपपत्तेः ।
८,३७फ़्.
सामान्यापवादन्यायश्चानुगतसामान्याभावे न भवेत् ।
द्वयोः प्रमाणयोरेकस्वरूपविषयत्वे (ह्य)त्वन्यतरस्याप्रामाण्यमेव स्यात् ।
भिन्नविषयत्वे नापवादविषयो ऽस्ति ।
अस्ति च तावद्गौरयमित्यनुगताकारप्रत्ययः ।
नचासौ व्यावृत्तेषु सम्भवति ।
भ्रान्तत्वप्रसङ्गात् ।
नचैतत्सवर्मन्यापोहनिबन्धनम् ।
तस्यापि प्रतिपिण्डं व्यावृत्तत्वात् ।
अनुगतत्वे वा किमपराद्धं सामान्येन ।
तथाच विधिरूपः प्रत्ययो ऽपि समाहितः स्यात् ।
८,४०
एवञ्चाङ्गीकार्ये गोत्वादेरनुगमे नित्यत्वमप्यनिवार्यमित्यत आहव्युत्पत्तिरपीति ।
… व्युत्पत्तिरपि हि सादृश्येनैव गम्यते । मनुव्_२,२.१२१अब् ।
न्यायसुधा-
अपिपदं कार्यकारणभावावधारणादिसमुच्चयार्थम् ।
हिशब्दो यस्मादित्यर्थे ।
गम्यते अभ्युपगम्यते ऽवगम्यत इति ।
अस्ति तावत्सादृश्यं नाम पदार्थान्तरम् ।
गोसदृशो गवय इत्याद्यध्यक्षसिद्धत्वात् ।
तेनैव चोपपद्यते
व्युत्पत्त्यादिकम् ।
तस्मान्न तदर्थं गोत्वादेरनुगतत्वं कल्पनीयम् ।
८,४१
सादृश्येन तावत् शब्दव्युत्पत्तिप्रकारं दर्शयितुमुपक्रमतेसर्वेष्विति ।
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते । मनुव्_२,२.१२१च्द् ।
८,४१फ़्.
न्यायसुधा-
बहवो हि शब्दसङ्गतिग्रहणोपायाः ।
तत्र यदोपदेशतो व्युत्पद्यते तदायं गौरित्युपदेशवाक्यं व्याप्तिग्राहकतयोपयुज्यते ।
कथम् ।
सादृश्योपधानेन सर्वेषु गोपिण्डेषु युगपदेककालमयमित्यादिशब्दः प्रवर्तते ।
अयं गौरित्यस्यायमेतत्सदृशाः सर्वे ऽपि गोशब्दवाच्य इत्यर्थो वक्त्रा अभिप्रेयते ।
श्रोत्रा चावधार्यत इति यावत् ।
द्वयोरपि सार्वत्रिकव्युत्पत्तिकामत्वेन वाक्यस्यैकपिण्डविषय(क)त्वकल्पनानुपपत्तेरिति भावः ।
८,४३
यद्ययं गौरित्यादिवाक्यं नैकपिण्डमात्रविषयम् ।
किन्त्वयं चैतत्सदृशाश्च सर्वे गोशब्दवाच्या इति व्याप्तिपरं तदा सङ्गतिग्रहणोत्तरकालं गामानयेत्युक्ते गोशब्दात्सर्वगोप्रतिपत्तिः स्यात् ।
अभीष्यगोप्रतिपत्तिस्तु जायते सा कथमिति तटस्थस्य चोद्यं परिहरतितथापीति ।
तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
अभीष्यावगतिश्च स्याच् … । मनुव्_२,२.१२२अच् ।
न्यायसुधा-
यद्यप्युपदेशो नैकपिण्डविशेषगोचरस्तथापि गामानयेत्युक्ते ऽभीष्यगोपिण्डावगतिः स्यादेव ।
कथम् ।
प्राप्तितो योग्यत्वात् ।
अतीतानागतानामत्यन्तविप्रकृष्टदेशस्थानां गवामानयनयोग्यताभावमालोच्य तत्परित्याग इत्यर्थः ।
तर्हि सन्निहितसर्वगोप्रतिपत्तिः कुतो न भवति इति चेन्न ।
गामित्येकवचनात् ।
तथापि यस्य कस्यचिदेकस्य गोपिण्डस्य प्रतिपत्तिः स्यात् ।
नाभीष्यस्यैवेति चेन्न ।
शबलं बहुलां कालाक्षीमित्यादिविशेषणात् ।
एतदुक्तं भवति ।
गोशब्दाद्भवत्येव सर्वगोप्रतिपत्तिः ।
किन्तु लिङ्गप्रकरणादिबलात्पिण्डविशेषे कार्यप्रतिपत्तिरिति ।
८,४५
अस्त्वयं गौरित्यादिवाक्यं व्याप्तिपरम् ।
ततः किमित्यत आहशक्तिरिति ।
… छक्तिः सादृश्यगा यतः । मनुव्_२,२.१२२द् ।
तादृशो ऽयं च तच्छब्द इति ज्ञापयति स्फुटम् । मनुव्_२,२.१२३अब् ।
न्यायसुधा-
यतो वाचकत्वशक्तिः शब्दस्य सादृश्यगा सादृश्यसम्बन्धिनी सादृश्य(स्य) व्यापिकेति यावत् ।
अस्माद्वाक्यादवधारितेति शेषः ।
अतस्तां शक्तिं तत्तद्विषयतया सादृश्यं स्फुटं ज्ञापयति ।
कथमित्यतः प्रयोगप्रकारं दर्शयतितादृश इति ।
चो यस्मादित्यर्थे ।
अयं परिदृश्यमानो यस्मात्तादृश उपदेशकाले सन्निहितेन पिण्डेन सदृशस्तस्मात् ।
तच्छब्दः स शब्दो यस्य वाचको ऽसौ तथोक्तः ।
इतिशब्दः प्रकारवाची ।
अयमत्र समुदायार्थः ।
व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम् ।
सादृश्येनैव तदुपपत्तेः ।
नच वाच्यं सादृश्यमप्यनुगतं चेत्किं सामान्येनापराद्धम् ।
व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति ।
नहि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते ।
किन्नाम लिङ्गतया ।
यथा हि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव ।
तथा तेते व्यावृत्तामपि तदवबोधे लिङ्गतयोपयुज्यते ।
तथा हि ।
यदायं गौरित्युपदेशपूर्विका व्युत्पत्तिस्तदा तद्वाक्यं व्याप्तिग्राहकम् ।
अयं चैतन्यसदृशाश्च सर्वे गोशब्दवाच्या इत्येवम्परत्वात् ।
व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदशर्ने सादृश्यव्याप्यतावगमो भवति ।
ततश्चैतद्वाक्यादिनावगतव्याप्तिरित्यनुमीयते’अयं गोशब्दवाच्यो भवितुमर्हति तत्सदृशत्वात् यस्तत्सदृशस्स गोशब्दवाच्यस्तथा चायं
तत्सदृशस्तस्माद्गोशब्दवाच्यः’ इति ।
८,४९
नन्वत्र को दृष्टान्तः ।
उपदेशकाले सन्निहितो गोपिण्ड इति चेन्न ।
तस्य तत्सदृशत्वाभावात् ।
मैवम् ।
दृष्टान्तनियमस्य निरस्तत्वात् ।
नच सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम् ।
तस्य गोत्ववत्प्रतिव्यक्तिव्यावृत्तत्वात् ।
सादृश्यस्य तु व्यावृत्तत्वे ऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवात् ।
सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः ।
नच वाच्यं गोसादृश्यमश्वे ऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्ग इति ।
जातिनिमित्तत्वे ऽप्येवं प्रसङ्गस्य समानत्वात् ।
जातिविशेषो निमित्ततयाङ्गीक्रियते यो ऽव्यभिचारीति चेत् ।
तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः ।
८,५२
एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम् ।
सादृश्येनैव तदुपपत्तेः ।
अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः ।
तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात् ।
तथाप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः अत्यन्तव्यावृ(त्ति)त्तबुद्धिं प्रति कारणत्वावधारणमित्यादि ।
तत्र परेणापि लक्षणरूपं सादृश्यमेवादरणीयमिति ।
८,५४
एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम् ।
यस्तु मन्यते अनुगतसामन्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाहजातितश्चेदिति ।
जातितश्चेत् कथं तासु … । मनुव्_२,२.१२३च् ।
न्यायसुधा-
यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः कार्यकारणभावावधारणादिकं च स्यात् ।
तदा तासु जातिषु कथं जात्यादिशब्दव्युत्पत्तिरनुगतबुद्धिकारणत्वावधारणं, गोत्वं नित्यं जातित्वादित्यादिव्याप्तिज्ञानमित्यादिकं स्यात् ।
जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः ।
८,५४
यदि वैयात्यात्कश्चिद्ब्रूयात्’अस्ति जातिष्वपि जातित्वं नाम जातिस्तद्वशात्तत्र सवर्मुपपद्यते’ इति, तं प्रत्याहतत्र चेदिति ।
८,५५
… तत्र चेदनवस्थितिः । मनुव्_२,२.१२३द् ।
न्यायसुधा-
यदि तत्र जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदानवस्थितिः स्यात् ।
तथाहि गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः सा न तावत्स्वरूपे वर्तते ।
स्ववृत्तेरप्रामाणिकत्वात् ।
अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम् ।
तथाच स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यान्न तु स्वरूपे ऽपि ।
अतस्तस्यां तद्वयतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम् ।
तत्राप्येवमेवेत्यनवस्थेति ।
ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः ।
जातित्वे तूपदेशाधीनो भवतु ।
तस्या एकत्वादिति ।
मैवम् ।
न ह्यस्माभिः सादृश्यमिव भवता जातिः (जाति)शब्दप्रवृत्तौ ज्ञापकतयोपेयते ।
येन क्वचिदुपदेशो निवेश्यते ।
किन्तु निमित्ततया ।
तत्रोपदेशोपन्यासस्य क्वोपयोगः ।
८,५६
स्थानान्तरे ऽपि बाधकमाहतथैवेति ।
तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् । मनुव्_२,२.१२४अब् ।
न्यायसुधा-
यथा जातिविज्ञानं जातित्वाभावेन दूषितं तथैव व्यक्तिविज्ञानं व्यक्तीनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्तव्यक्तित्वजात्यभावेन दूषितम् ।
द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते ।
नच तत्र व्यक्तित्वं नाम सामान्यमस्ति ।
सत्तया परापरभावाभावात् ।
तस्मात्तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात् ।
मा भूद्वयतिरिक्तं व्यक्तित्वं सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यतीति चेन्न ।
सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात् ।
सद्वयक्तिशब्दयोरपर्यायत्वात् ।
अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात् ।
८,५८
ननु शब्दमात्रस्य जातिनिमित्तत्वात्सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आहयदीति ।
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः । मनुव्_२,२.१२४च्द् ।
८,५८फ़्.
न्यायसुधा-
तर्हि तस्य व्यक्तित्वस्यापि विशेषेषु व्यक्तिषु प्रवेशः स्यात् ।
तथा चानवस्थितिरिति योजना ।
तथा हि ।
यः शब्दो ऽनेकवाचकः स सर्वो जातिनिमित्तक इति स्वीकृत्य द्रव्यगुणकर्मसु व्यक्तित्वं नाम जातिर्यद्यङ्गीक्रियते ।
तर्हि तस्यामन्यासु च जातिषु जातिशब्दप्रवृत्तये जातित्वं जातिरङ्गीकर्तव्या स्यात् ।
ओमिति चेत् ।
तर्हि सा व्यक्तित्वजातिरपि जातित्वजातिं प्रति व्यक्तिः स्यात् ।
नच सा स्वरूपे वर्तते ततो द्रव्यादित्रये तस्यां च व्यक्तिशब्दप्रवृत्त्यर्थमपरं व्यक्तित्वमङ्गीकरणीयम् ।
तत्र पुनर्जातिशब्दप्रवृत्तये जातित्वमभ्युपगन्तव्यमिति सापि तदाश्रयतया व्यक्तिः स्यात् ।
तस्यां पुनर्व्यक्तित्वान्तरमित्येवमनवस्थेति ।
८,६०
स्थलान्तरे बाधकमाहकथमिति ।
कथं स्वरूपत्वमपि ज्ञायते ऽनुगतं यदि ।
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् । मनुव्_२,२.१२५अद् ।
न्यायसुधा-
अत्र स्वरूपमित्यध्याहर्तव्यम् ।
ततश्चायमर्थः ।
यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिस्तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते ।
अनुगतस्य स्वरूपत्वसामान्यस्याभावात् ।
स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति ।
ननु च सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयातो नोक्तदोष इत्यत उक्तम्’स्वरूपत्वमपि यद्यनुगतमङ्गीक्रियते तदा
अनवस्थादिदूषितं भवति’ इति ।
तथाहि ।
सर्वेषु स्वरूपेषु यत्स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत्स्वरूपेण ।
नच तत्र स्वयमेव वर्तते ।
आत्माश्रयत्वस्यालौकिकत्वात् ।
अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तये ऽन्यत्स्वरूपत्वं नाम सामान्यमङ्गीकार्यम् ।
तदपि स्वरूपमेवेत्यनवस्था ।
आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्यमङ्गीकार्यम् ।
तदपि स्वरूपमेवेत्यनवस्था ।
आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारे ऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात् ।
समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम् ।
अनवस्थाद्यनिष्यप्रसङ्गस्य विपर्यये पर्यवसानं सूचयतिएकव्युत्पत्तिपर्यन्तमिति ।
एकं केवलनुगतसामान्यहीनमिति यावत् ।
तस्मिन्व्युत्पत्तिरेकव्युत्पत्तिस्तत्पर्यन्तं तावदिदं दूषणमुपप्लवत एव ।
यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीने ऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः ।
अनवस्थादिपरिहारायानुगतसामान्येन विनापि व्युत्पत्तिरङ्गीकरणीयेति भावः ।
८,६१फ़्.
नन्विदं सकलमप्यसङ्गतम् ।
तथाहि ।
यदुक्तं’जातितश्चेत्युक्तं तासु’ इति, तत्तावदसत् ।
जातिषु जात्यन्तराभावे ऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः ।
अस्तु वा जातिषु जातित्वं नाम जातिः ।
न चानवस्था ।
जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः ।
‘तथैव व्यक्तिविज्ञानम्’ इत्येतदप्यसत् ।
व्यक्तित्वाभावे ऽपि जातिव्यञ्जकत्वोपाधिना द्रव्यादिषु व्यक्तिशब्दप्रवृत्त्युपपत्तेः ।
व्यक्तित्वजात्यङ्गीकारे ऽपि नानवस्था ।
व्यक्तित्वे व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात् ।
यदपि’कथम्’ इत्यादि तदयुक्तम् ।
प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः ।
स्वरूपत्वाभ्युपगमे ऽपि नानवस्था ।
तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात् ।
अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः ।
समवायादौ स्वरूपमेव सम्बन्ध इत्यतो न कश्चिद्दोष इत्याशङ्कां परिहरन्ननुगतसमान्यदूषणमुपसंहरतिकल्पनेति ।
कल्पनागौरवात् तेन युक्ता नानुगकल्पना । मनुव्_२,२.१२५एफ़् ।
न्यायसुधा-
सर्वत्र व्यावृत्तमेव वाच्यं शब्दप्रवृत्तौ निमित्तं च ।
व्युत्पत्तिस्तु सादृश्यनिबन्धनेत्येकरूपकल्पनेन सर्वसामञ्जस्ये क्वचिदनुगतं सामान्यं निमित्तं क्वचिदुपाधिः क्वचित्स्वरूपमेवेत्यनेककल्पने
कल्पनागौरवं स्यादित्यर्थः ।
तेन बाधकसद्भावेन साधकाभावेन च ।
नन्वनुगतत्वाभावे कथं गोत्वादिकं सामान्यम् ।
अननुगतत्वे ऽपि गुणकर्मवदवान्तरभेदस्य कल्पनीयत्वादिति ।
८,६४
एवं समवायं स्वरूपतो निराकृत्येदानीं यत्समवायस्य सर्वत्रैकत्वं नित्यत्वं च’तत्त्वं भावेन’ इति सूत्रेणोक्तम्, तत्त्वं, समवायस्य सर्वत्रैकत्वं
नित्यत्वं च, भावेन, सत्तया व्याख्यातमिति ।
तदपि निरागिकीषुरादौ तावदेकत्वं निराकर्तुं पीठमारचयतिऔपाधिकेति ।
औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत् … । मनुव्_२,२.१२६अच् ।
८,६५
न्यायसुधा-
औपाधिकः पाचकयाजकादिः विशिष्टो नीलाग्निमदादिः ।
आद्यग्रहणादुपलक्षितग्रहणम् ।
अपिशब्दो दूषणान्तरसमुच्चयार्थः ।
तद्वस्तूपाध्यादित्रयम् ।
किंशब्दस्योभयतः सम्बन्धः ।
तत उपाध्यादित्रयात् ।
वस्त्वित्येतदौपाधिकविशिष्टाद्यमित्यनेनापि सम्बद्धयते ।
८,६५फ़्.
अयमर्थः ।
समवायस्य सर्वत्रैकत्वं वदतेदं तावद्विविच्यताम् ।
एक एव पुरुषः पचनयजनादिभिरुपाधिभिरवच्छेदकैर्धर्मैः पाचको याजकश्चेत्याद्यभिधीयते, स पाचकयाजकादिरौपाधिको ऽर्थः किं
पचनाद्युपाधिपुरुषतत्सम्बन्धेभ्यो ऽनन्य उतान्य इति ।
तथा समानाधिकरणं व्यावर्तकं विशेषणम् ।
यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः ।
व्यधिकरणं तु व्यावर्तकमुपलक्षणम् ।
यथा नीलरूपगतं नीलत्वमुत्पलस्य ।
८,६६
अन्ये तु कायर्प्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते ।
यथा लम्बकर्ण आनीयतां चित्रगुरानीयतामिति ।
अपरे तु शाब्दसामानाधिकरण्याभ्याम् ।
यथा दण्डी देवदत्तो जटाभिस्तापस इति ।
केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् ।
तत्र विशिष्टं नीलमग्निमान्वा विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वा ।
उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वेति ।
तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव ।
नहि पाचकादिः पचनादित्रयातिरिक्तो ऽनुभूयते ।
नच योग्यस्याननुभवे सत्त्वं सिद्धयति ।
नाप्यग्निमदादिः पर्वताद्यतिरिक्तो ऽनुभूयते ।
अतिरिक्तत्वे चौपाधिकविशिष्टादेर्द्रव्याद्यन्तर्भावासम्भवात् ।
षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् ।
यदि चौपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानयेत्युक्ते पुरुषाद्यानयनं न क्रियेतेत्याद्युपपत्तिविरोधः ।
८,७०
नन्ववच्छित्तिरौपाधिकत्वं, व्यवच्छित्तिश्च वैशिष्ययं त्रितयाद्भिन्नमेवेति चेन्न ।
अवच्छित्तेरनिरूपणात् ।
सा किमुपाधिसम्बन्धो वा पुरुषस्यैकत्वं वा स्वगतो भेदो वा ।
आद्ये न त्रयातिरेकः ।
द्वितीये त्वनौपाधिकादविशेषः ।
तृतीये त्वसत्त्वप्रसङ्गः ।
व्यवच्छित्तिर्वैशिष्यमिति चायुक्तम् ।
तस्या नीलादिपदार्थत्वाभावात् ।
सा हि वैशिष्ययप्रतीतिफलविषयतया अनुभूयते ।
८,७१फ़्.
विशेषणविशेष्यसम्बन्धावगाह्येकं वा विज्ञानमविरलमनेकं वा विशिष्टमिति कश्चित् ।
यथाऽह’विशेषणं
विशेष्यं च तत्सम्बन्धफलार्पकम् ।
ज्ञानरूपं स्वसामर्थ्याद्विशिष्टमिति कीर्तितम्’ इति ।
तन्न ।
विशिष्टस्य बाह्यार्थतयानुभवात् ।
अन्यथा साध्यधर्मविशिष्टः पक्षः ।
सो ऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात् ।
तस्मादतिरेकपक्षो ऽनुपपन्न एव ।
८,७४
अस्तु तर्ह्यैपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आहतदेवेति ।
… तदेव चेदग्निमत्त्वं किं तत्र भण्यते । मनुव्_२,२.१२६च्द् ।
८,७४फ़्.
न्यायसुधा-
प्रतिदत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्नः कृतो ऽग्निमत्त्वमिति ।
धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः ।
औपाधिकादेरप्युपलक्षणमेतत् ।
अयमर्थः ।
अग्निमदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यदङ्गीक्रियते ।
तदापि वक्तव्यम् ।
किं तत्त्रितयमपि प्रत्येकं विशिष्टमुता(तत्र)न्यतमम् ।
द्वितीये ऽपि किं विशेषणभूतो ऽग्निरेवाग्निमच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः ।
संयोगपक्षे ऽपि किं निर्विशेषणसंयोगः किंवाग्निना संयोगः ।
उत्तरत्रापि किमग्निसंयोगमात्रम् ।
उत पर्वतस्याग्निसंयोग इति ।
एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः ।
८,७६
अन्त्यपक्षातिरिक्तान्सर्वपक्षानपाकरोतिअग्नीति ।
अग्निसंयोगमात्रं चेद् भवेत् तत् सिद्धसाधनम् । मनुव्_२,२.१२७अब् ।
न्यायसुधा-
अग्निसंयोगमात्रमिति सर्वपक्षोपलक्षणम् ।
चेत् अग्निमच्छब्दार्थ इति शेषः ।
तत् धूमवत्त्वाद्यनुमानमग्निपर्वतसंयोगानां समस्तानां व्यस्तानामग्निना संयोगस्य चाग्निमच्छब्दवाच्यविशिष्टत्वे धूमानुमानं सिद्धसाधनं स्यात् ।
विशिष्टस्यानुमानसाध्यत्वात् ।
अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति ।
८,७७
अस्तु तर्हि पर्वतस्याग्निना संयोगो विशिष्टरूपो ऽग्निमच्छब्दार्थो ऽनुमानसाध्य इत्यन्तिमः पक्षः ।
तत्रोक्तदोषाभावात् ।
पर्वतमग्निसंयोगानां समस्तानां व्यस्तानामग्निसंयोगस्य च सिद्धत्वे ऽपि पर्वतस्याग्निना यः संयोगस्तस्यानुमानतः प्रागसिद्धेरिति शङ्कतेभूधरस्येति ।
भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः । मनुव्_२,२.१२७च्द् ।
न्यायसुधा-
अग्निमच्छब्दार्थो विशिष्टो ऽनुमानसाध्य इति शेषः ।
दूषयितुं पृच्छतिषष्ठयर्थ इति ।
पर्वतस्याग्निसंयोगस्य च सिद्धत्वे ऽपि पवर्तस्य यो ऽग्निसंयोगः स न सिद्ध इत्यतः स एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इति वदता
पर्वतस्येति षष्ठया निर्दिष्यः सम्बन्ध एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इत्युक्तं भवति ।
अन्यस्य सर्वस्य सिद्धत्वात् ।
षष्ठयर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः ।
अतः को ऽत्र सम्बन्धो विवक्षित इति प्रश्नार्थः ।
एवशब्दः तस्यैव प्राधान्यद्योतनार्थः ।
८,७८
उत्तरं शङ्कते समवाय इति ।
समवायो यदि ह्य् … । मनुव्_२,२.१२८अ ।
न्यायसुधा-
संयोगो हि गुणः पर्वतश्च गुणी गुणगुणिनोश्च समवायः सम्बन्ध इति प्रसिद्धमिति हिशब्दार्थः ।
षष्ठयर्थ इति वर्तते ।
निराकरोतिअस्य चेति ।
… अस्य चैकत्वात् सिद्धसाधनम् । मनुव्_२,२.१२८अब् ।
न्यायसुधा-
पर्वतादेरिवास्य समवायस्य च सिद्धत्वादिति शेषः ।
सिद्धसाधनं धूमाद्यनुमानमिति शेषः ।
कथं समवायस्य सिद्धत्वमित्यत उक्तम्एकत्वादिति ।
यस्तन्तुपटयोः समवायः स एव हि पर्वताग्निसंयोगयोः समवायः परेणाङ्गीकृतः ।
तन्तुपटयोः समवायश्च प्रत्यक्षेण वानुमानेन वा सिद्ध एवेति ।
अयमत्र समुदायार्थः ।
यद्येक एव सर्वत्र समवायः स्यात्तदा सर्वानुमानानां सिद्धसाधनता स्यात् ।
यद्यपि याथार्थ्यमेव प्रामाण्यं तथापि शब्दवत्परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात्सिद्धसाधनता दोष एव ।
८,७८फ़्.
तथा हि ।
सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम् ।
तस्यासिद्धावाश्रयासिद्धेः ।
सिद्धौ च सिद्धसाधनत्वात् ।
किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम् ।
तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम् ।
अनुपलम्भादिबाधात् ।
त्रयानन्यत्वे ऽपि न विशेषणमात्रम् ।
तस्य अनुमानात्प्राक् सिद्धत्वात् ।
असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः ।
अग्नेरेवाग्निमच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च ।
नापि धर्मिस्वरूपमात्रम् ।
उक्तदोषात् ।
पर्वतो ऽग्निमानित्येतयेरेकार्थत्वापत्तेश्च ।
नच सम्बन्धमात्रम् ।
संयोगो हि क्वचित्सम्बन्धः स्यात् यथाग्निपर्वतयोः ।
क्वचित्समवायः यथा रासद्रूपानुमाने ।
द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव ।
संयोगमात्रस्य सिद्धत्वे ऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम् ।
तस्यापि महानसादौ सिद्धत्वात् ।
अथ पर्वतादेरग्न्यादिसंयोगः साध्यः ।
अत्रापि विवेक्तव्यम् ।
कस्यात्रासिद्धया साध्यत्वमिति ।
अन्यस्यासम्भवात् ।
षष्ठयर्थस्य समवायस्येति वक्तव्यम् ।
स च सर्वत्रैक एव चेत्पुनः सिद्धसाधनतैव स्यात् ।
अतः सर्वानुमानोच्छेदप्रसङ्गात्सर्वत्र समवायैक्यमयुक्तमिति ।
८,८०
ननु तन्तुषु पटादिसमवायः पर्वताग्निसंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथापि तन्तुपटादिपर्वताग्निसंयोगाद्युपाधिनिमित्तः
समवायस्य भेदो ऽप्यस्ति ।
ततः सिद्धत्वे ऽपि साध्यत्वमुपपद्यत इत्यत आहयदीति ।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते । मनुव्_२,२.१२८च्द् ।
न्यायसुधा-
यदि अस्य समवायस्य साध्यत्वसिद्धयर्थमौपाधिको भेद इष्यते तदैकत्वं कुत इष्यते ।
समवायस्यैकत्वं हि न सङ्खयाविशेषः ।
निर्गुणत्वात् ।
किन्त्वभेदः ।
नच भेदाभेदौ क्वापि परेणाङ्गीकृतौ ।
तस्मात्समवाये भेदस्याङ्गीकृतौ तद्विरुद्धो ऽभेदो नाङ्गीकर्तुमुचित इति ।
ननु स्वाभाविकमेकत्वं स्वाभाविकेनैव भेदेन विरुद्धयते न पुनरौपाधिकेन ।
स्वभावतः अभिन्ने ऽपि गगनादावौपाधिकभेददर्शनात् ।
समवाये चौपाधिक एव भेदो ऽभ्युपगतः ।
तत्कथं स्वाभाविकैकत्वाङ्गीकारो ऽनुचित इत्यत आहनेति ।
८,८०फ़्.
नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः ।
सत्यत्वात् को विशेषः स्यान् … । मनुव्_२,२.१२९अच् ।
८,८१
न्यायसुधा-
विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति ।
यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः ।
देशभेदेन वा ।
यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः ।
व्यक्तिभेदेन वा ।
यथा तत्रैव भूतले यदैकस्य घटस्य भावस्तदैव घटान्तरस्याभावः ।
पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा ।
यथा गगने रूपतदभावयोः ।
तत्र तावत्समवाये ऽभेदभेदयोर्नाद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम् ।
नापि चतुर्थी विधा सम्भवति ।
समवायभेदस्यापारमार्थिकत्वमसत्त्वमनिर्वाच्यत्वं वा ।
आद्ये सिद्धसाधनत्वं तदवस्थमेव ।
द्वितीये त्विदमुपतिष्ठते ।
हि यस्मात्तेन वैशेषिकादिनानिर्वाच्यं वस्तु नेष्यमतो ऽसत्त्वानिर्वाच्यत्वाभावादौपाधिकस्य स्वाभाविकस्य च सत्यत्वात्को विशेषः स्यात् ।
औपाधिकस्यापि स्वाभाविकवत्सत्यत्वात्पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोः अभाववादौपाधिकत्वाद्युक्तया न
किञ्चित्कृतं स्यादिति भावः ।
८,८२
इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत्तदा को दोष इति चेदपसिद्धान्त इत्याहमायेति ।
… मायावाद्यन्यथा भवेत् । मनुव्_२,२.१२९द् ।
न्यायसुधा-
अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः ।
ननु प्रकारभेदेनापि विरोधशशन्तिर्भव(विष्य)ति ।
यथा तत्रैव तदैव नीलपटसद्भावे ऽपि पीतपटाभावः ।
तथा समवाये ऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धीत्यत आहउपाधीति ।
उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् । मनुव्_२,२.१३०अब् ।
न्यायसुधा-
उपाधिशब्दात्तृतीयासमर्थाज्जन्यगम्ययोः शेषिके ठकि कृते सति औपाधिकमिति भवति ।
ततः किमित्यत आहउभयत्रेति ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः । मनुव्_२,२.१३०च्द् ।
न्यायसुधा-
एवं सति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वोपाधिगम्यत्वं वा वक्तव्यम् ।
तथाच पक्षद्वये ऽप्यनन्ताः समवायाः स्युः ।
तत्कथमित्यत आहइतस्तत इति ।
सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादिति शेषः ।
उपाधीनामनन्तत्वे ऽपि समवायानन्त्यं कुत इत्यत आहभिन्नत्वमिति ।
भिन्नत्वं चैव तेष्वस्ति … । मनुव्_२,२.१३०ए ।
८,८२फ़्.
न्यायसुधा-
चो यस्मादित्यर्थे ।
नह्यौपाधिको भेदो नामोपाधीनामेव भेदः ।
तथा सति समवायस्येति न स्यात् ।
उक्तदोषपरिहारश्च न भवेत् ।
किन्तु तेषु समवायेष्वेवोपाधिजन्यं तदवगम्यं वा भिन्नत्वमस्ति ।
भेदहेतवश्चोपाधयो ऽनन्ता इति कथं न समवायानन्त्यम् ।
तथाप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आहक इति ।
८,८३
… को विशेष उपाधिगे । मनुव्_२,२.१३०फ़् ।
न्यायसुधा-
उपाधिगस्तत्सम्बन्धी औपाधिक इति यावत् ।
औपाधिकभेदे को विशेषो येनासावभेदं न विरुणद्धीत्यर्थः ।
८,८४
एतदुक्तं भवति ।
नीलपटसद्भावे ऽपि पीतपटाभाव इत्यत्र हि यदि विशिष्टविषयौ विधिनिषेधौ, तदा भिन्नविषयत्वेन विरोधाभावः ।
नीलपीतपटयोर्भिन्नत्वात् ।
नचैवं प्रकृते ।
भेदविशेषाभावे ऽपि भेदान्तराभ्युपगमापत्तेः ।
तथा चैकत्वोक्तिरयुक्तैव ।
नहि पार्थिवपरमाणौ रूपादयो ऽग्निसंयोगजा न त्वाप्यपरामाणुरूपादय इव स्वाभाविका इत्येतावता रूपादिरहितो ऽसौ भवति ।
यदि च विशेषणविषयौ तदा समवाये भेदो ऽस्त्येव ।
स तु सम्बन्धिभिरुपाधिभिः कृतो न त्वकृत्रिम इत्युक्तं स्यात् ।
तथाच घटादिभेदेन तुल्य इति रिक्तैवाभेदोक्तिः ।
उपाधीनां च सर्वदानपायान्न भेदस्यागन्तुकत्वं युक्तमिति ।
८,८६
उपाधिगम्यमौपाधिकमिति पक्षमङ्गीकृत्योक्तदोषाभावं शङ्कतेअविद्यमान एवेति ।
अविद्यमान एवान्यः समवायो ऽधिगम्यते ।
उपाधिना … । मनुव्_२,२.१३१अच् ।
८,८६फ़्.
न्यायसुधा-
सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदो ऽधिगमश्च न प्रमा ।
येनासौ भेदः पारमाथिर्कः स्यात् ।
किन्तु विभ्रम एव ।
नचैवं भेदस्यास्त्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम् यतो ऽविद्यमान एवान्यः समवायो ऽधिगम्यते तत्तदुपाधिनेति ब्रूमः ।
यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रो ऽधिगम्यते ।
तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते ।
त एते समवाया औपाधिकभेदाभिन्ना इत्युच्यन्ते ।
त एव चाग्निमदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः ।
तथा च न समवायैकत्वहानिः ।
चन्द्रवदारोपितानामनेकत्वे ऽप्यनारोपितस्यैकत्वाविरोधात् ।
नाप्यनुमानानां सिद्धसाधनता ।
तथाविधसमवायानां प्रागसिद्धत्वादिति ।
परिहरति तद्गमकमिति ।
८,८७
… तद्गमकमनुमानं न मा भवेत् । मनुव्_२,२.१३१च्द् ।
न्यायसुधा-
यद्यप्यस्मिन्पक्षे न सिद्धसाधनं धूमाद्यनुमानम् ।
तथापि तद्गमकमविद्यमानसमवायसत्तां प्रतिपादयदनुमानजातं दहनशैत्यानुमानमिव बाधितविषयतया न प्रमाणं भवेत् ।
उपलक्षणं चैतत् ।
उपाधीन्विना समवायावभासस्य क्वाप्यभावात्सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम् ।
तदेवं सर्वानु(धूमाद्यनु)मानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति ।
एतच्चोपलक्षणम् ।
आगमापन्हवश्च समवायैक्ये स्यात् ।
पदार्थानां तत्संसर्गाणां च सिकतावद्विशकलितानां सिद्धत्वात् ।
८,८८
इदानीं समवायस्य नित्यत्वं निराकरोतिएवमेवेति ।
एवमेवासतः सत्तसमवायो जनिर्मता । मनुव्_२,२.१३२अब् ।
न्यायसुधा-
यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम् ।
एवमेव तन्नित्यत्वाभ्युपगमे प्रागसतः सत्तासमवायो जनिर्दुष्या मता ।
समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः ।
तत्कथमित्यत आहतत्रापीति ।
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम् । मनुव्_२,२.१३२च्द् ।
८,८८फ़्.
न्यायसुधा-
उक्तदोषाणां सिद्धसाधनत्वादीनाम् ।
तथाहि ।
प्रागसतः सत्तासमवायो जनिरिति परेण जनिलक्षणमभिहितम् ।
तत्र यदि समवायो नित्यः स्यात्तदा तल्लक्षणा घटजनिः प्राक्कुलालादिव्यापारादस्तीति तदर्थस्य तस्य सिद्धसाधनता स्यात् ।
ज्ञप्तौ हि सिद्धस्यापि साधनं घटते ।
किन्तु क्वचिदनपेक्षत्वमित्येव ।
कृतौ तु प्राक्सिद्धस्य साधनमेवाशक्यमिति कुलालादिव्यापारस्य निष्फलत्वं स्यात् ।
अथ समवायस्य नित्यत्वे ऽपि प्रागसतः सत्तासमवायः साध्यः अस्तो को दोष इति चेन्न ।
समवायैक्यव्याघातात् ।
औपाधिकः समवायस्य भेद इति चेत् ।
यथासम्भवं सर्वमुक्तमनुसन्धेयम् ।
नहि प्रागसद्विषयो व्यापारः सम्भवति ।
तस्य सत्कारणातिरिक्तकर्तव्याभावात् ।
सत्कारणस्य सत्तासमवायानतिरेकात् ।
स्वरूपलाभः कुलालादिव्यापारसाध्य इति चेत् ।
एवं तर्हि किमपरेण सत्तासमवायेन ।
तदेवं समवायस्यैकत्वनित्यत्वे सर्वथाप्ययुक्ते इति ।
यद्वा समवायनिराकरणप्रसङ्गात्परोक्तं विशिष्टादेर्जनेश्च स्वरूपं तन्मतासामाञ्जस्यप्रदर्शनायौपाधिकेत्यादिना निराकृतं(च) वेदितव्यम् ।
८,९१
नन्वेतत्सर्वं व्याहतम् ।
युष्माभिरपि लोकवेदव्यवहारं परिपालयद्भिर्विशिष्टादेः अङ्गीकरणीयत्वात् ।
तत्राप्युक्तदोषानुषङ्गादित्यतो विशिष्टादिनिरूपणे तावद्दोषाभावं स्वमते दर्शयतिअस्मदिति ।
अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।
नास्ति दोषः क्वचिद् … । मनुव्_२,२.१३३अच् ।
न्यायसुधा-
विशिष्टाकारो न विशेषणं नापि सम्बन्धः ।
किन्नाम विशेष्यम् ।
नच तन्मात्रम् ।
द्विविधो हि विशिष्टाकारः ।
यावद्विशेष्यभाव्ययावद्विशेष्यभावी च ।
तत्राद्यो विशेष्येणात्यन्ताभिन्नः ।
यथेश्वरः स्वरूपेण सर्वज्ञः ।
एवं यत्र यत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्र तत्र विशिष्टप्रकारो ऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः ।
तथापि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति ।
ईश्वर एव सर्वज्ञ इत्यभेदस्तावत्प्रमितः ।
भेदे तु न निरवकाशं प्रमाणमस्तीति ।
८,९१फ़्.
द्वितीयस्तु विशेष्येण भिन्नाभिन्नः ।
यथा पवर्तेनाग्निमान् ।
यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते ।
तथाऽगन्तुकविशेषणसम्बन्धाद्विशेष्यस्वरूपं विशिष्टाकारेण परिणमते ।
तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ तथाप्यस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः ।
तदिदमुक्तङ्क्वचिदिति ।
अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः ।
८,९४
यद्वा क्वचिदित्यौपाधिकादित्रय इत्यर्थः ।
तस्याप्युक्तप्रकारत्वात् ।
एतेन भेदहीने ऽप्याकाशादावौपाधिको भेदो दृष्ट इत्य(प्य)पास्तम् ।
विशेषनिबन्धनानामेवाकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति ।
जनिनिरूपणे दोषाभावं स्वमते दर्शयतिअस्मदिति ।
विशेषस्य परिणामस्य जनित्वेनाङ्गीकृतत्वतो न कश्चिद्दोषो ऽस्तीति योजना ।
मृदादीनां घटाद्याकारापत्तिरेव घटादिजनिर्न तु समवाय इत्यर्थः ।
८,९५
स्यादेतत् ।
क्वचिद्भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते ।
यथा घटो न जानाति प्रकृतिर्न कर्त्रीति ।
क्वचिच्चाभावो विशेष्यो विशिष्टाकाराश्च भावः प्रतीयते ।
अभावो ऽस्ति ।
अभावः प्रमेय इति ।
नच विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते ।
तत्कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आहभावो हीति ।
… भावो ह्यभावश्च स एव हि । मनुव्_२,२.१३३च्द् ।
न्यायसुधा-
क्वचिदित्यनुवर्तते ।
यो भावः स एव क्वचिदभावो भवति ।
यश्चाभावः स एव क्वचिद्भावो भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः ।
वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं हिशब्दद्वयम् ।
तत्कथमित्यत आहअभावस्य चेति ।
अभावस्य च धर्माः स्युर्भावास्तेषां च ते ऽखिलाः । मनुव्_२,२.१३४अब् ।
न्यायसुधा-
अस्ति तावदिदं यदभावस्यापि भावा धर्माः स्युस्तथा तेषां च भावानां च ते ऽभावा धर्माः स्युरिति ।
अखिला इति बहुत्वोपलक्षणम् ।
एतदपि नाङ्गीकरोमीत्यत आहप्रत्यक्षेति ।
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् । मनुव्_२,२.१३४च्द् ।
न्यायसुधा-
प्रत्यक्षग्रहणमुपलक्षणार्थम् ।
यस्मादभावस्यापि भावा धर्माः सन्ति भावस्य चाभावा इत्येतत्सर्वं प्रत्यक्षादिप्रमाणतः सिद्धम् ।
अतो न वारयितुं शक्यम् ।
८,९७
अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम् ।
तथापि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्तीत्यत्र किमायातमित्यत आहसर्व इति ।
८,९८
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा । मनुव्_२,२.१३४एफ़् ।
न्यायसुधा-
यतो ऽभावाभावयोर्भावाभावधर्मवत्त्वं सिद्धम् ।
सिद्धश्च धर्मधर्मिणोरभेदत्वेन कारणत्वेन सर्वे भावाः पदार्था अभावाश्च भवन्ति ।
अभावश्च सर्वे पदार्था भावा भवन्तीत्युक्तमुपपन्नमित्यर्थः ।
यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वं तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः
कथमित्यत आहतथापीति ।
तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचर ः ।
सो ऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः । मनुव्_२,२.१३५ ।
न्यायसुधा-
निषेधस्य बुद्धेरिति सामानाधिकरण्यम् ।
परो भावः ।
यद्यप्येषो ऽर्थः प्रागेवोक्तस्तथापि प्रसङ्गात्पुनः स्मारित इत्यदोषः ।
८,९९
अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम् ।
तत्कथमित्यत आहतस्मादिति ।
तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते । मनुव्_२,२.१३६अब् ।
न्यायसुधा-
प्रध्वस्तं प्रध्वंसो भेदः पृथक्त्वम् ।
आदिपदेन प्रमेयत्वादिग्रहणम् ।
यस्मादभावस्य भावधर्मत्वमस्ति ।
तस्मादेव हि प्रध्वंसाभावादेः पृथक्त्वप्रमेयत्वादिभावधर्मजातमस्त्येवेत्यवगम्यते ।
प्रत्यक्षादिनेति योजना ।
प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक् प्रमेयो ऽभिधेयश्चेत्यवगम्यते ।
अभावस्य (च)धर्मानभ्युपगमे तद्विरोधः स्यादिति ब्रूमः ।
घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम् ।
एवमभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयतिअस्तीति ।
अस्त्यभावो ऽस्ति च ध्वंसो देहाभावश्च भस्मता । मनुव्_२,२.१३६च्द् ।
इत्यादि युज्यते सर्वं … । मनुव्_२,२.१३७अ ।
८,९९फ़्.
न्यायसुधा-
तस्मादित्यनुवर्तते ।
यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम् ।
तस्मादभावो ऽस्ति प्रध्वंसो ऽस्ति ।
देहाभावो भस्मतेत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदस्तथा घटो न जानातीति भावो विशेष्यो ऽभावश्च
विशिष्टाकारस्तयोश्चाभेद इत्युक्तं युज्यत इत्यर्थः ।
८,१००
यदि भावाभावयोरेकत्वं न विरुद्धं तदा घटो ऽपि स्वाभावात्मा किन्न स्यादित्यत आह प्रत्यक्षादिति ।
… प्रत्यक्षादिप्रमाणतः । मनुव्_२,२.१३७ब् ।
न्यायसुधा-
सिद्धमिति शेषः ।
भावाभावयोर्विशेष्यविशिष्टयोरैक्यं प्रत्यक्षादिप्रमाणसिद्धं नतु घटतदभावयोः ।
अतो नातिप्रसङ्ग इत्यर्थः ।
यद्वा भावाभावयोर्धर्मधर्मिभावो धर्मधर्मिणोश्च अभेदः प्रामाणिक इत्येतत्किं भावाभावयोर्विशेष्यविशिष्टयोरैक्यस्योपपादकं किंवा
सम्भावनाहेतुः ।
आद्ये तूक्तो ऽतिप्रसङ्गः ।
द्वितीये साधकं वाच्यमित्यत्रेदमुक्तम् ।
अनेन क्वचिदित्युक्तं विवृतं भवति ।
८,१०१
अथवा भावो हीत्यादिना परिणामवादः प्रपञ्च्यते ।
तथाहि ।
केचित्परिणामवादिनः सत एवाभिव्यक्तिं जनिमाहुः ।
तद्व्युदासार्थमाहभावो हीति ।
अत्र भावाभावशब्दौ सदसत्परौ ।
यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मनाभावः स एव तदात्मना भावश्च ।
यद्वा स घटः प्रागुत्पत्तेर्भावः सन्, स एव तदभावो ऽसंश्च ।
अथवा यः कुलालादिव्यापारात्प्रागभावो घटात्मनासन्मृत्पिण्डः स एव तदनन्तरं भावो घटात्मना सन् भवतीति ।
एतदुक्तं भवति ।
कार्यं कारणेन भिन्नाभिन्नम् ।
तत एव प्रागुत्पत्तेः सदसत् ।
अतः कारणं प्राक्कारकव्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरिति ।
नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतो यथैकस्यैव भावत्वमभावत्वं च न विरुद्धम् ।
तथैतदपीत्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं च उपपादयतिअभावस्येति सार्धश्लोकद्वयेन ।
पूर्ववदेव व्याख्यानम् ।
८,१०१फ़्.
अस्त्वियं सम्भावना ।
निश्चायकं किमित्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयतितस्मादिति ।
प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः ।
आदिपदेनानुत्पन्नस्य कारकत्वं गृह्यते ।
‘नष्टानामपि वस्तूनां भेदो नैव विनश्यति’ इति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते यच्च घटो जायते घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं
कर्मत्वं(च) वा ।
तत्तस्मात्कार्यस्य कारणाभेदात्प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते ।
नह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते ।
नाप्यत्यन्तासतः कारकत्वम् ।
नच कार्यस्य पृथगेव सत्त्वमस्ति ।
अनुपलम्भात् ।
अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः ।
नच विनैव बाधकेनोपचारत्वकल्पना युक्ता ।
अतिप्रसङ्गात् ।
तदिदमुक्तमवगम्यत एवेति ।
न केवलं व्यवह्रियत इत्यर्थः ।
अभावस्य च भावाः स्युर्धर्मास्ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद्युज्यन्त एव न तु निराकरणार्हा इत्युक्तम् ।
तद्विशदयतिअस्तीति ।
आदिपदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते ।
८,१०५
स्यादेतत् ।
अन्योन्याभावस्य भावधर्मत्वे ऽपि तस्य भावात्पृथक्त्वेन कथं भावस्याप्यभावत्वमुच्यते ।
अन्योन्याभावस्य भेदत्वाद्भेदस्य च स्वरूपत्वाङ्गीकारादिति चेन्न ।
स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात् ।
यच्चोक्तमभावे ऽपि पृथक्त्वमस्तीति तदसत् ।
प्रमाणाभावात् ।
स्वरूपभेदेनैवासङ्करोपपत्तेः ।
पृथक्त्वस्य च स्वरूपभेदातिरिक्तत्वादित्यत आहअन्योन्येति ।
अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक् । मनुव्_२,२.१३७च्द् ।
यत् कल्पयन्ति तच्चैव कल्पनागौरवाद् गतम् । मनुव्_२,२.१३८अब् ।
८,१०६
न्यायसुधा-
पृथक् पृथग्विभिन्नानीत्यर्थः ।
चशब्दो दूषणान्तरसुच्चयार्थः ।
गतं प्रागेव निराकृतम् ।
अनेन पुनरुक्तिदोषः परिहृतो भवति ।
कथं कल्पनागौरवादिकमित्यत आहपर्यायत्वेनेति ।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि । मनुव्_२,२.१३८च्द् ।
न्यायसुधा-
क्रमप्रयोज्यत्वेनेत्यर्थः ।
सर्व एव लौकिका वैदिकाश्च ।
८,१०७
अत्र मायावादिनश्चोदयन्ति ।
स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथक्त्वयोर्भावाभावधर्मत्वोपलम्भात्सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम् ।
भेदस्य वस्तुस्वरूपत्वानुपपत्तेः ।
तथाहि ।
भेदस्तावद्विदारणात्मा ।
भिदिर्विदारण इति विदारणार्थभिदिधातुरूपत्वाद्भेदशब्दस्य ।
तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात् ।
तथा तदेकदेशानामपि भेदः स्वभाव इति तत्राप विदारणं भवेदित्यनेन क्रमेण सर्वशून्यता स्यात् ।
किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात् ।
अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात् ।
एकत्वाभावे ऽनेकत्वमपि न स्यात् ।
तत्समाहररूपत्वात् तत्कार्यत्वाद्वा तस्य ।
एकत्वानेकत्वविकलं च शून्यमेवापद्यते ।
८,१०७फ़्.
अपि च यदि भेदो वस्तुस्वरूपं स्यात्तदा प्रतियोग्यनपेक्षः प्रसज्येत ।
स्वरूपस्यानपेक्षत्वात् ।
नहि घटात्पटस्य भेद इतिवत् घटात्पट इति प्रतीतिरस्ति ।
घटो भिन्नो घटस्य भेद इति विशेषणविशेष्यभावसम्बन्धप्रतिभासो ऽपि भेदस्य वस्तुस्वरूपत्वे दुघर्टः स्यात् ।
नहि स्वयमेव स्वस्य विशेषणं सम्बन्धि वा भवति ।
संशयविपर्ययौ चैवमुच्छिद्येयातम् ।
भेदाग्रहनिमित्तरौ हि तौ भवतः ।
तत्र यदि धर्मिणमवगाह्य तौ भवतस्तदा तत्स्वभावभूतो भेदो ऽपि गृहीत इति क्व तयोरवकाशः ।
न चेन्निर्विषयत्वात्सुतराम् ।
यदि चास्मदयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात् ।
तदा तस्य सपरिकरस्य भेदस्य स्वरूपे ऽन्तर्भावात्प्रतियोगिनो ऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति ।
८,१०८
तानपाकरोतिभेदस्येति ।
भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुततास्ते यतो ऽन्यस्य प्रतियोगित्वमिष्यते । मनुव्_२,२.१३९ ।
न्यायसुधा-
तुशब्दः प्रकृताद्वैशेषिकादेर्व्यवच्छिन्दन्ये त्विति सम्बद्धयते ।
स्वरूपत्वे भेद्यवस्तुस्वरूपत्वे ।
शून्यतां सर्वस्यापीति शेषः ।
चशब्दः पूर्वोक्तदूषणसमुच्चयार्थः ।
अद्भुता आश्चर्याः ।
न लौकिकेष्वेवंविधा दृश्यन्ते नापि परीक्षकेष्विति यावत् ।
तत्कथमित्यतः शून्यतापत्तिं तावन्निराकरोतियत इति ।
यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततो ऽन्यस्यैव वस्तुनः प्रतियोगित्वमिष्यते यतस्तस्मादद्भुतास्त इति सम्बन्धः ।
८,१११
अन्यस्य प्रतियोगित्वे ऽपि कथमुक्तदोषपरिहार इत्यत आहप्रतियोगिनो हीति ।
प्रतियोगिनो हि भेदो ऽयं नतु स्वस्मात् कथञ्चन । मनुव्_२,२.१४०अब् ।
न्यायसुधा-
हिशब्दः पूर्ववद्धेतौ ।
अयमित्येवम्भावस्य प्रत्यक्षादिसिद्धतां सूचयति ।
स्वस्मात् धर्मिस्वरूपात् ।
इदमुक्तं भवति ।
विदारणात्मा हि भेदो यस्य यतस्तं ततो विदारयेत् ।
नतु यं कमपि यतः कुतश्चित् ।
न(हि)च घटस्वरूपस्य भेदस्य घट एव प्रतियोगी येन स्वस्मिन्विदारणं स्यात् ।
किन्तु घटादय एव ।
ततो विदारणं तु नानिष्यम् ।
तस्य शून्यतानापादकत्वादिति ।
किञ्च भिद्यते ऽनेनेति यदि भेदशब्दः करणसाधनो भवेत् तदा भेदः कमपि विदारयेत् ।
भावसाधनत्वाङ्गीकारात् ।
अतो ऽभ्युपगम्यैव करणसाधनतामयं परिहारः अभिहित इत्याशयवानाहकथञ्चनेति ।
इदमुदितमिति शेषः ।
८,११२
किञ्च विदारणमपि लवित्रादि यत्सम्बन्धि तद्विदारयति ।
नतु स्वात्मानम् ।
अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम् ।
स्वरूपभेदवादे तु क्वास्यावकाशः ।
भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम् ।
नह्येकतानेकते स्वरूपेण विरुद्धे ।
एकस्यैव घटस्यान्यापेक्षयानेकत्वदर्शनात् ।
किन्तु यदपेक्षयानेकस्तदपेक्षयैवैक इति विरुद्धम् ।
तत्र घटस्य परस्मात्प्रतियोगिन एव भेद इति ।
तदपेक्षयैवानेकत्वं स्वापेक्षया त्वेकत्वमिति को विरोधः ।
अपि चैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धं धर्मधर्मिभावो वा ।
आद्ये नैकताया भेदेन विरोधः ।
भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात् ।
न द्वितीयः ।
एकं द्वित्वमिति दर्शनात् ।
एकत्वानेकत्वाभावे ऽपि शून्यत्वं कुतः ।
वैशेषिकादीनां गुणादिवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति ।
८,११४
ननु भेदो वस्तुस्वरूपं चेत्प्रतियोगिनिरूप्य एव न स्यात् ।
स्वरूपस्य तदभावात् ।
अतो नायं परिहारो युज्यते ।
तथाच स्वस्मिन्नेव विदारणे पुनः शून्यतैवेति चेन्न ।
स्वतः परतो ऽपि व्याप्त्यसिद्धेः ।
यथा(हि) परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपत्वं मायावादिनाङ्गीकृतम् अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम् ।
तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः ।
८,११५
किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात् ।
एतावत्तु स्यात् ।
एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम् ।
तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते ।
किन्तु प्रतीतिद्वयमेतत् ।
तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन्विदारणापत्तिः ।
८,११७
अस्तु वा स्वरूपविदारणम् ।
तथापि शून्यतापादनमयुक्तमेवेत्याशयवानाहविभागेनेति ।
विभागेनाल्पतैव स्यात् कुत एव च शून्यता । मनुव्_२,२.१४०च्द् ।
न्यायसुधा-
लोष्ठादेः खल्ववयविभागेन लोष्ठादिविनाशे सत्यल्परिमाणावयवावशेषो ऽवगतो, नतु सर्वशून्यता ।
तथा सर्वत्रापि विभागेनाल्पताल्पावयवावशेषतैव स्याच्छून्यता तु कुत एव स्यात् ।
ननु च पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषे ऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आहनेति ।
न शून्यानां हि संयोगाद् भावो वस्तुन इष्यते । मनुव्_२,२.१४१अब् ।
८,११७फ़्.
न्यायसुधा-
यत्संयोगेन हि यद्वस्तूत्पन्नं तस्मिन्विदारणे सति संयोगनाशाद्वस्तुनाशानन्तरं तदवशेषो भवति ।
यथा तन्तुसंयोगेनोत्पन्ने घटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः ।
एवञ्च यदि केषाञ्चित्परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात्तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात् ।
नचैवं प्रामाणिकैरिष्यते ।
अतो ऽसङ्गतं सर्वशून्यतापादनमिति ।
भावो जन्म ।
८,११८
ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम् ।
किन्तु सूक्ष्मतमत्वमेव ।
तच्चानिष्यमित्यत आहविदारणेति ।
विदारणार्थो धातुश्च विभागगुणवाचकः । मनुव्_२,२.१४१च्द् ।
न्यायसुधा-
स्यादेतद्यदि भेदो विदारणात्मा भवेत् ।
नचैवम् ।
प्रमाणाभावात् ।
अङ्गीकृत्यैव तु पूर्वः परिहारो ऽभिहितः ।
ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते ।
स हि भिदेर्धातो रूपम् ।
स च विदारणार्थतया व्याख्यात इति ।
अत्रोत्ररम् ।
यदा भिदिधातुर्विदारणार्थो विवक्षितस्तदा भेदशब्दो विभागाख्यगुणवाचको न त्वन्योन्याभावलक्षणभेदवाचक इति ।
एतदुक्तं भवति ।
‘क्रियावाचित्वमाख्यातुमेकैको ऽर्थः प्रदर्शितः ।
प्रयोगतो ऽनुगन्तव्या अनेकार्था हि धातवः’ इति वचनाद्भिदिर्विभागवचनो ऽन्यत्ववचनश्च ।
भिन्नो घट इत्युक्ते स्फुटित इति गम्यते ।
भिन्नं गगनं घटादित्यन्यदिति विज्ञायते ।
तत्र विभागो विदारणात्मा नान्यत्वम् ।
तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति ।
ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न ।
गुणग्रहणेनैव परिहृतत्वात् ।
विभागो हि गुणतया वैशेषिकादिभिरुपात्तः ।
अन्यता चान्योन्याभाव इति स्फुटो भेदः ।
८,१२०
यस्तु गुणादिप्रक्रियां न मायावादी मन्यते ।
तं बोधयितुमाहअविदारणे ऽपीति ।
अविदारणे ऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च । मनुव्_२,२.१४२अब् ।
न्यायसुधा-
आस्यस्येत्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् ।
तस्य च मायावादिन एव ।
यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावे ऽप्योष्ठौ भिन्नावन्योन्याभावलक्षणभेदवन्तौ भवत
एव ।
यदभावे च यदस्ति तत्ततो ऽन्यदिति च प्रसिद्धमेव ।
अतो विभागाद्भेदो ऽर्थान्तरमेवेति ज्ञायते ।
तस्य चेत्यनेन नातः परं स्वरूपभेदे काचिदनुपपत्तिः सम्भावितास्तीति सूचितम् ।
ननु कथं नास्ति ।
विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न ।
स्वरूपत्वे ऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः ।
अन्यथाऽनन्दं ब्रह्म आनन्दं ब्रह्मण इत्यादेरनुपपत्तिप्रसङ्गात् ।
संशयविपर्ययानुपपत्तिरपि नास्ति ।
सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः ।
अन्यथाऽत्मस्वरूपे स्वयम्प्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनीयमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् ।
अविद्यावशात्तत्र तथेति चेत् ।
अत्रापि सादृ(श्यादिव)श्यवशात्तथेति सन्तोष्यव्यम् ।
८,१२१
यच्चाद्वैतपर्यवसानमुक्तम् ।
तत्कुत इति वक्तव्यम् ।
यदि मन्येत यथा हि लम्बकर्ण आगतो, नीलमानीयतामित्यादौ परिकरवतो यद्भवति तत्परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य
धर्मिस्वरूपत्वे प्रतियोगिनो ऽपि त(त्र निम)न्निमज्जनं स्यादिति तत्र किं सम्भावनयेदमुच्यते उत व्याप्त्या ।
नाद्यः ।
प्रशिथिलमूलत्वात् ।
न द्वितीयः ।
चित्रगुरानीयतां काशीनिवासी समागत इत्यादौ तदभावात् ।
पारमार्थिकीं दृष्टिमवलम्बमानस्य तदपि असिद्धमिति चेत् ।
अहो पक्षपातो ऽस्य यत्परस्यानिष्यं प्रसञ्जयन्व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते व्यभिचारे तु तत्रोदास्ते ।
परसिद्धेन परस्यैवानिष्यापादनमिति चेत् ।
तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते ।
वैचित्र्यं किन्निमित्तमिति चेत् ।
व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः ।
८,१२३
तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम् ।
किन्निराकरणेनेत्याशयवानुपसंहरतिअत इति ।
अत उन्मत्तवाक्यत्वान्मायावादो ऽभ्युपेक्षितः । मनुव्_२,२.१४२च्द् ।
न्यायसुधा-
नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात्सूत्रकृता कुतो ऽत्र न निराकृतमित्येतदनेन परिह्रियते ।
उपेक्षितः सूत्रकारेणेति शेषः ।
एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्खयाविप्रतिपत्तिं निराकरोतिनचेति ।
न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरो ऽष्टगुणत्वेन प्रमेयो ऽप्रमितत्वतः । मनुव्_२,२.१४३ ।
न्यायसुधा-
ईश्वरो ऽष्टगुणत्वेन अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, न प्रमेयो न प्रतिपत्तव्यः ।
कुतः अप्रमितत्वतः अष्टगुणत्वे प्रमाणाभावात् ।
किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः ।
अर्णव इवार्णवः, क्षीरार्णवः सुधास्यन्दी भवति ।
अयञ्चानल्पविदोषानन्दसुधास्यन्दी ।
सो ऽनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयो ऽस्मिन्नित्यनन्तगुणः ।
अयमप्यानन्दादयो ऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः ।
अमन्दसदानन्दस्यन्दी चासावनन्तगुणश्चासावर्णवश्चेति विग्रहः ।
८,१२४
अष्टगुणत्ववदनन्तगुणत्वे ऽपीश्वरस्य प्रमाणं नास्तीत्यत आहमयीति ।
मय्यनन्तगुणे ऽनन्ते गुणतो ऽनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः । मनुव्_२,२.१४४ ।
नारायणः परो ऽशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते । मनुव्_२,२.१४५ ।
अनन्तगुणता विष्णोः … । मनुव्_२,२.१४६अ ।
८,१२४फ़्.
न्यायसुधा-
अनन्ता असङ्खयाता गुणा यस्यासावनन्तगुणः ।
गुणतो ऽनन्त इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते ।
अनन्तविग्रह इत्यन्तं भगवद्वाक्यम् ।
उत्तरं वेदवाक्यम् ।
गुणमाहात्म्येति सामान्यविशेषाभ्यामुक्तम् ।
माहात्म्यं परिमाणातिशयः ।
परं पदमित्युद्दिश्यान्यदुच्यत इति न लिङ्गव्यत्ययदोषः ।
नन्वेतानि वचनान्युपचरितार्थानि किन्न स्युरित्यत आहकथमेवेति ।
… कथमेव ह्यपोद्यते । मनुव्_२,२.१४६ब् ।
न्यायसुधा-
बाधकवशाद्धि मुख्यार्थो ऽपोद्यते ।
नचात्र तदस्तीत्यतो ऽनन्तगुणता विष्णोः कथमेवापोद्यते ।
८,१२६
यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तं तदप्यसत् ।
‘अनन्तं गुणतः’ इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्यागमसिद्धत्वात् ।
तदनङ्गीकारे बाधकं चाहयदीति ।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः । मनुव्_२,२.१४६च्द् ।
कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः । मनुव्_२,२.१४७ ।
८,१२६फ़्.
न्यायसुधा-
तत्तद्विषयता घटादिविषयता, विधीयते अस्तित्वेनाङ्गीक्रियते ।
मा भूत्तत्तद्विषयत्वमित्यत उक्तम्सार्वज्ञार्थमिति ।
उपलक्षणं चैतत् ।
सर्वकर्तृत्वाद्यर्थं चेत्यपि द्रष्टव्यम् ।
अत्रानन्तविशेषा इति यथागमसिद्धोक्तिः ।
वस्तुतस्तु यदि ईश्वरज्ञानादि निर्विशेषं स्यात्तदा तत्तद्विषयत्वं न स्यात् ।
तदा च तस्य सार्वज्ञादिकं न स्यात् ।
सर्वविषयज्ञानवान्हि सर्वज्ञो नाम ।
तथा सर्वकार्योत्पत्तिविषयेच्छाप्रयत्नवान्सर्वकर्ता ।
सर्वकार्यविनाशविषयेच्छादिमांश्च सर्वसंहर्ता ।
अङ्गीकृतं च सार्वज्ञादि परेण परमेश्वरस्य ।
अतस्तदर्थं ज्ञानादेस्तत्तद्विषयतया भाव्यम् ।
कथं च तथा सति निर्विशेषत्वमिति ।
८,१२७
एतनैदपि निरस्तम् ।
यदाहुः ।
‘अनित्यं हि ज्ञानादि कर्मकारकतया विषयसहितत्वमपेक्षेत ।
नित्यस्य तु किं विषयेण’ इति ।
विषयाणां चानन्त्यादनन्तविशेषतासिद्धिः ।
८,१२८
स्यादेतत् ।
निर्विशेषमेवेश्वरज्ञानं ज्ञप्तिरूपम् ।
तत्तु तैस्तैर्घटाद्युपाधिभिस्तत्तद्विषयमिति व्यपदिश्यते ।
एवमखण्डैव तस्येच्छास्त्वित्येवमाकारा ।
तथापि तैस्तैः सृष्टयाद्युपाधिभिः सिसृक्षा सज्जिहीर्षेत्याद्युच्यते ।
तथा प्रयत्नो ऽपि ।
अतः स्वतो विशेषाभावे ऽप्यौपाधिकविशेषवशात्तत्तद्विषयता सार्वज्ञादिकं च युक्तमित्यत आहऔपाधिकेति ।
औपाधिको ऽपि विशेषो ऽस्ति न वा ।
अस्ति चेत्कथं निर्विशेषत्वम् ।
न चेत्पुनः सार्वज्ञाद्यभाव इत्यादिपूर्वोक्तन्यायेनैव निरस्तमित्यर्थः ।
किञ्चोपाधिर्ज्ञानादिसम्बद्धो विशेषमापादयेदसम्बद्धो वा ।
आद्ये सम्बन्धो विषयविषयिभावातिरिक्तो नास्तीति पूर्वमेव तद्विषयतैष्यव्या ।
द्वितीये ऽतिप्रसङ्गः ।
अपि चास्त्वित्येवमाकारेणैवेच्छादिना सृष्टयादिकं भवति उत सृष्टयादिकं भवत्वित्येवमाकारेण ।
नाद्यः ।
अतिप्रसङ्गात् ।
द्वितीये स्वतः सविशेषत्वमित्येषा दिक् ।
८,१२९
वैशेषिकादयः केचिदीश्वरज्ञानं स्वप्रकाशं न भवतीत्याहुः ।
तानपाकरोतिस्वप्रकाशत्वमपीति ।
स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य … । मनुव्_२,२.१४८अच् ।
न्यायसुधा-
यैस्त्विति सम्बन्धः ।
केचिद्वैशेषिकादयः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत्सूचयितुं तुशब्दः ।
ज्ञानस्य ईश्वरज्ञानस्य ।
तेषां पक्ष इति शेषः ।
तस्य ईश्वरस्य ।
कथं स्वप्रकाशत्वाभावे सर्वज्ञताभाव इत्यत आहस्वेति ।
८,१३०
… स्वज्ञानाधिगमं विना । मनुव्_२,२.१४८द् ।
न्यायसुधा-
स्वज्ञानाधिगमाभावादित्यर्थः ।
एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति न तु स्वरूपमिति कथमीश्वरः सर्वज्ञः स्यादिति ।
स्वप्रकाशज्ञानाभावे ऽपीश्वरस्य सार्वज्ञसम्भवं शङ्कतेज्ञानमिति ।
ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः । मनुव्_२,२.१४९ ।
इति चेद् … । मनुव्_२,२.१५०अ ।
न्यायसुधा-
विश्वाधिगं स्वव्यतिरिक्तसमस्तविषयम् ।
तज्ज्ञानं विषयो यस्य तत्तथोक्तम् ।
स्यादयं दोषो यदीश्वरस्यैकमेव ज्ञानं स्यान्न चैवम् ।
द्वे खल्वीश्वरज्ञाने ।
तत्रैकं स्वव्यतिरिक्तद्वितीयज्ञानसहितसर्वविषयम् ।
द्वितीयं तु तज्ज्ञानविषयीकारि ।
एवञ्च ज्ञानस्य स्वविषयत्वाभावे ऽपीश्वरस्यैवंविधज्ञानद्वयेनैव सर्ववित्त्वमुपपद्यत इति ।
तथापीश्वरस्यासार्वज्ञं तज्ज्ञानस्य वा स्वप्रकाशत्वं दुष्परिहरमित्याशयवानुत्तरमाहएष एवेति ।
… एष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज् … । मनुव्_२,२.१५०अच् ।
न्यायसुधा-
आस्तां तावत्सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः ।
ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञो ऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयं एतच्चैतद्विषयमित्यादिरेष एवार्थ ईश्वरेण ज्ञायते न वा ।
नेति पक्षे तस्य सार्वज्ञं न स्यात् ।
आद्ये किमेतयोरन्यतरेणोत ज्ञानान्तरेण ।
प्रथमस्येदमुत्तरम् ।
एष एवार्थस्तयोरन्यतरेण ज्ञानेनावसितो विषयीकृतो यदि तदा तस्य ज्ञानस्य स्वप्रकाशत्वं स्यादेवेति ।
तत्कथमित्यत आहज्ञानं हीति ।
… ज्ञानं ह्येतद् विशेषणम् । मनुव्_२,२.१५०द् ।
न्यायसुधा-
यद्यप्येतज्ज्ञानं न निष्कृष्टं स्वस्य स्वविषयतामापद्यते ।
तथापि ज्ञानविषयस्यैतस्य ज्ञानद्वयानहमित्यादेरर्थस्य विशेषणं भवत्येव ।
तथाच विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव ।
नहि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति ।
८,१३१
द्वितीये दोषमाहज्ञानान्तरेणेति ।
ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः । मनुव्_२,२.१५१अब् ।
न्यायसुधा-
ज्ञानान्तरेण तृतीयेन ज्ञानेन ।
यद्येषो ऽर्थो विषयीक्रियते ।
अत्र अस्मिन्पक्षे अनवस्थितिः ज्ञानद्वयवानीश्वर इति नियमाभावो भवेत् ।
यस्तु ज्ञानत्रयवानिति नियमं मन्यते स प्रष्टव्यः ।
किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति न वेति ।
द्वितीये तु पुनरसार्वज्ञम् ।
आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन ।
नाद्यः ।
स्वप्रकाशतापत्तेः ।
द्वितीये पुनरनवस्थैव ।
एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात् ।
८,१३२
नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेन्न ।
कल्पनागौरवाद्वरमेकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरतिस्वप्रकाशत्वमिति ।
स्वप्रकाशत्वमेतस्माद् दुर्निवार्यं समापतेत् । मनुव्_२,२.१५१च्द् ।
न्यायसुधा-
ननु ज्ञानं न स्वप्रकाशं वस्तुत्वादित्यादेः विरुद्धं(दि) स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत् (न) ।
यत् वस्तु, न तत्स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेन्न सर्वोपसंहारवद्वयाप्तिसिद्धिः ।
विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमित्याशयवतो वोपसंहारः ।
८,१३३
यदुक्तमीश्वरो ऽनन्तगुण इति तदनुपपन्नम् ।
चतुर्विंशतेरधिकानां गुणानामभावात् ।
तत्रापि केषाञ्चिदीश्वरे ऽनुपपत्तेः ।
तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति ।
मैवम् ।
शौर्यौदायर्प्रागल्भ्यप्रभृतीनां गुणानां भावात् ।
परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च ।
तथाहि ।
सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम् ।
ईश्वरः सुखरहितो दुःखरहितत्वाद्घटवत् ।
सुखवांश्चेददुःखवान्प्रसज्यते देवदत्तवदिति विपक्षे बाधकोपपन्नादनुमानादिति चेत् ।
तत्रानुग्राहकस्य तर्कस्य तावद्दूषणमाहसुखवानिति ।
८,१३४
सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् । मनुव्_२,२.१५२अब् ।
न्यायसुधा-
कथं व्याप्त्यभाव इत्यत आहनिर्दुःखत्वमिति ।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते । मनुव्_२,२.१५२च्द् ।
८,१३४फ़्.
न्यायसुधा-
यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम् ।
तथापीश्वरे निर्दुःखे ऽपि वाच्यं प्राक् प्रसञ्जानाद्वयाप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति ।
सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिस्तारादिति ।
मैवम् ।
स्वाभ्युपगममात्रेणापादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत् ।
नचैवं प्रकृते ।
श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्व(स्य)व्यभिचारोपपादनात् ।
तदिदमुक्तम्श्रुत्यैव भण्यत इति ।
प्रत्येकं सम्बन्धादेकवचनम् ।
८,१३५
कासौ श्रुतिरित्यतो ऽर्थतस्तामुदाहरतिय इति ।
यो ऽशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा । मनुव्_२,२.१५३ ।
न्यायसुधा-
अनेन’यो ऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति’ इति श्रुतिमुपादत्ते ।
विपाप्मेत्यनेन’य आत्मापहतपाप्मा’ इत्यादिश्रुतिम् ।
सा निर्दुःखत्वाद्यभिधात्री ।
नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यत इत्यतो ऽङ्गीकृत्य
तावत्सोपाधिकत्वमाहईश्वरस्येति ।
८,१३६
ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः । मनुव्_२,२.१५४ ।
न्यायसुधा-
तथेष्टत्वं दुःखी भवत्वितीष्टत्वम् ।
दुःखित्वोपाधिः दुःखित्वप्रयोजकम् ।
अपिपदेनाधर्मादिमत्त्वं समुच्चिनोति ।
अनादरो विना बाधकेन प्रतीतार्थपरित्यागः ।
मा भूत्तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति ।
सोपाधिकसम्बन्धस्य व्यभिचारनियमादिति ।
यः सुखी स दुःखी भवत्वितीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आहन चेति ।
न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते । मनुव्_२,२.१५५अब् ।
न्यायसुधा-
ईश्वरस्य हि’आनन्दं ब्रह्मणो विद्वान्’ इत्यादिश्रुतेः सुखित्वे ऽपि नोपाधिमत्त्वम् ।
कस्याप्यात्मदुःखितेच्छाभावादत एतदुपाधेर्व्याप्याभिमतव्यापकत्वं निवायर्ते ।
यद्यप्ययं नियमो न दर्शनमात्रेण सिद्धयति ।
अतिप्रसङ्गात् ।
नियामकं तु नास्तीति वक्तुं शक्यते ।
तथापि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम् ।
भवेदेतद्यद्यानन्दश्रुतिः सुखवादिनी स्यान्न चैतदस्ति ।
तस्या दुःखाभावपरत्वादिति चेत् ।
किं बाधकादियं श्रुतिः स्वार्थात्प्रच्याव्यते उतैवमेव ।
न तावद्द्वितीयः ।
दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्यापत्तितापत्तेः ।
आद्ये न तावत्प्रत्यक्षमागमो वा बाधको ऽस्ति ।
ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम् ।
तदुभयमपि व्यप्तिबलप्रवृत्तं वा स्यात्सहदर्शनमात्रबलप्रवृत्तं वा ।
नाद्यः ।
इतरेतराश्रयत्वप्रसङ्गात् ।
सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिस्तत्सिद्धौ च श्रुतेः स्वार्थात्प्रच्यावनसिद्धिरिति ।
८,१३८
नन्वेतद्भवतामपि समानम् ।
श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमिति ।
मैवम् ।
यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते ।
न स्वार्थपरत्वं, बाधकाभावम् ।
तस्य प्रतीत्यैव सिद्धत्वात् ।
द्वितीये त्वतिप्रसङ्गः स्यादित्याहसहेति ।
सहदर्शनमात्रेण श्रुतीनामपलापकः । मनुव्_२,२.१५५च्द् ।
यज्ञादेरपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं … । मनुव्_२,२.१५६अच् ।
न्यायसुधा-
आपाद्येन साध्येन वा सहदर्शनं यस्यापादकस्य साधनस्य वा तत्सहदर्शनम् ।
श्रुतीनाम् ईश्वरस्यानन्दवादिनीनाम् अपलापकः स्वार्थप्रच्यावकः ।
यज्ञादेरित्यादिपदेन गोभ्यो यवसदानं गृह्यते ।
युतेः योगात् ।
यदि सहदर्शनमात्रेणानन्दश्रुत्यर्थालापः क्रियेत ।
तदा या हिंसा सा पापहेतुरिति सहदर्शनेन ज्योतिष्योमादिश्रुत्यर्थापलापो ऽपि क्रियतामविशेषादिति भावः ।
८,१३९
नन्वविशेषो ऽसिद्धः ।
हिंसात्वपापसाधनत्वयोः ।
साहचर्ये निषिद्धत्वस्योपाधेः विद्यमानत्वात् ।
नच सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति ।
ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गह(नं प्रवि)ननिविष्य इत्याशङ्कतेतत्रेति ।
… तत्र यद्युपाधिर्निषिद्धता । मनुव्_२,२.१५६च्द् ।
न्यायसुधा-
अस्तीत्युच्यत इति शेषः ।
केयं निषिद्धता नाम ।
अकर्तव्यतया श्रुत्युक्तत्वमिति चेत् ।
केयमकर्तव्यतापि करणानर्हता वा कर्तुरनिष्यहेतुता वा ।
नाद्यः ।
ब्रह्महिंसाया अपि क्रियमाणत्वात् ।
द्वितीये ऽपि किं साक्षादनिष्यसाधनत्वं परम्परया वा ।
नाद्यः ।
हिंसानन्तरमेव दुःखोत्पादादर्शनात् ।
द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरित्युक्तं स्यात् ।
एवञ्चात्राप्युपाधिसद्भावादविशेष एवेति परिहरतिअदुःखित्वेनेति ।
अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् । मनुव्_२,२.१५७अब् ।
न्यायसुधा-
‘अदुःखित्वेनानुक्तिरिति’ दुःखित्वेनोक्तिरित्यर्थः ।
कासौ देवदत्तादीनां श्रौती दुःखित्वोक्तिरित्यत आहअदुःखमिति ।
अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते । मनुव्_२,२.१५७च्फ़् ।
इति श्रुतिर् हि परमा … । मनुव्_२,२.१५८अ ।
न्यायसुधा-
प्रवर्तते दुःखप्रहाणसाधनं परमात्मानं प्रतिपादयतीत्यर्थः ।
८,१४१
एवमनुमानानुग्राहकं तर्कं निराकृत्येदानीमीश्वरो न सुखी निर्दुःखत्वाद्घटवदित्यनुमानमपि दूषयतिश्रुत्युक्तिरिति ।
… श्रुत्युक्तिर् यदि कारणम् ।
किं कार्यमनुमानेन गळस्तनसमेन हि । मनुव्_२,२.१५८ब्द् ।
न्यायसुधा-
कारणं प्रमायाः ।
‘आनन्दं ब्रह्मणो विद्वान्’ इत्यादिश्रुतिः प्रमाणं न वा ।
नेति पक्षे अपसिद्धान्तः ।
आद्ये तद्बाधितत्वेनाजागलस्तन इव विवक्षितार्थासाधकमनुमानमुपेक्षणीयमिति भावः ।
ननु श्रुतिः प्रमाणमेव किन्त्वनुमानविरुद्धत्वात्प्रतीतार्थं परित्यज्य दुःखाभावपरतया व्याख्यातव्येत्याशङ्कय, नैवम्, अनुमानस्य
श्रुतिबाधकत्वादर्शनात् ।
क्वचिदुपजीव्यत्वादिनैव बाधकत्वात् ।
एवमेव बाधकत्वाभ्युपगमे त्वतिप्रसङ्गः स्यादित्याहअनुमानेनेति ।
अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते ।
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात् तत्फलं च … । मनुव्_२,२.१५९अए ।
न्यायसुधा-
पूर्वोक्तेन शास्त्रयोनिसूत्रोक्तेन ।
नेश्वरः स्यात् श्रुतिदृष्टो ऽपीश्वरो ऽनुमानविरोधात्त्याज्यः स्यादिति भावः ।
धर्मश्च नैव स्यात्तत्फलं च नैव स्यादित्यत्राप्येवमेव तात्पर्यम् ।
यज्ञक्रिया नादृष्टफलहेतुः क्रियात्वान्निष्ठीवनादिक्रियावत् ।
धर्मो वा न सुखसाधनमदृष्टत्वादधर्मवदित्याद्यनुमानसम्भवात् ।
अतिप्रसङ्गस्य विपर्यये पर्यवसानमाहतेनेति ।
… तेनात्र श्रुतिरेव प्रमा भवेत् । मनुव्_२,२.१५९एफ़् ।
न्यायसुधा-
यस्मादुपजीव्यत्वादिरहितेनानुमानेनानन्दश्रुतेर्बाधाभ्युपगमे ऽनिष्यप्रसङ्गस्तेन कारणेनैषा श्रुतिरत्रेश्वरस्यानन्दवत्त्व एव प्रमा प्रमाणं भवेन्न
पुनरन्यथा योज्येति ।
जोस्हि१
८,१४३
मा भूत् श्रुतिरप्रमाणं, मा च भूदनुमानबाधयार्ऽथान्तरपरा, तथाप्यनुमानस्य बाधिका कुतः, प्रतिरोधिका तु भवेदित्यत आहईशस्येति ।
ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः । मनुव्_२,२.१६० ।
अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत् … । मनुव्_२,२.१६१अच् ।
न्यायसुधा-
अनुमयेति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम् ।
धर्मिप्रमा धर्मिग्राहकं प्रमाणम् ।
अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते नान्यथा ।
अत्र चेश्वरो धर्मी न चासावनुमानेन सिद्धयतीति समर्थितं प्राक् ।
प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम् ।
ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्यव्यम् ।
तथाचानेनानुमानेन श्रुतिप्रामाण्यमनुमतम् ।
अन्यथा स्वस्यानुत्थानप्रसङ्गात् ।
सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे ।
ततस्तद्विरोधादनुमानमप्रमाणमेव ।
अग्निस्वरूपग्राहकप्रत्यक्षविरुद्धतच्छैत्यानुमानवदिति ।
नच वाच्यं यः सर्वज्ञ इत्यादिवाक्यमनुमानस्योपजीव्यं नानन्दवादीति ।
सर्वस्यापि वेदस्यैकवाक्यत्वेनार्ध(ज)चरतीयायोगात् ।
अन्यथाग्निग्राहकमेवोपजीव्यम् ।
नतु तदौष्ण्यग्राहकमित्यपि स्यात् ।
८,१४४
अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरतितस्मादिति ।
… तस्मान्नानुमात्रोपयोगिनी । मनुव्_२,२.१६१द् ।
न्यायसुधा-
अत्र ईश्वरवाक्ये ।
अत एव सर्वगुणैः पूर्ण इत्युक्तम् अन्यथाऽनन्दवानित्यवक्ष्यत् ।
८,१४५
अनुपपत्त्यन्तरं वैशेषिकादिदर्शने दर्शयन्’नित्यमेव च भावात्’ इति सूत्रं व्याख्यातिनित्येच्छत्वादिति ।
नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत् । मनुव्_२,२.१६२ ।
८,१४५फ़्.
न्यायसुधा-
वैशेषिकादयो हि कालविशेषे द्वयणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति ।
तत्तदीयप्रक्रियापर्यालोचनायां नोपपद्यते ।
किन्तु तत्पक्षे कार्यं सदा भवेत् ।
यदाभिलष्टते ततः प्रागपि भवेत् ।
कुतः ।
कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः ।
तत्रादिसृष्टौ परमाणवः समवायिकारणभूतास्तावत्सदा विद्यन्ते ।
निमित्तकारणं चेश्वरेच्छा नित्यैव ।
तथा कालो दि(क्च)क् ।
यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यं तथापि प्रलये ऽस्तीत्यङ्गीक्रियत एव ।
वृत्तिलाभस्तदा नास्तीति चेन्न ।
तस्यापीश्वरेच्छादिकारणकस्य तद्भावे ऽभावानुपपत्तेः ।
अत एव परमाणुसंयोगस्यासमवायिकारणस्याभावान्न सदा सृ(सदादिसृ)(महदादिसृ)ष्यिरिति निरस्तम् ।
संयोगानुत्पादस्याप्यनुपपत्तेः ।
तदसमवायिकारणकर्माभावादिति चेन्न ।
तदनुत्पादस्याप्ययोगात् ।
नचातो ऽन्यद्वयणुकादेः कारणमस्ति ।
यद्वैकल्यादभिलषितसमयात्प्राक् कार्याभावो भवेत् ।
सत्यां चाभिमतसामग्षां कार्यानुदये पश्चादपि नोत्पद्येत ।
नियामकाभावादिति ।
सदात्वं सदातत्वनम् ।
भावात् प्रलये ऽपीति शेषः ।
एवशब्दस्य सदैवेति सम्बन्धः ।
कार्यं भवेदिति चाभ्युपगम्योक्तम् ।
वस्तुतस्तु तत्पक्षे कदापि द्वयणुकाद्युत्पत्तिर्न सम्भवति ।
विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात् ।
कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारे ऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति ।
अत एव सृष्टयादीति वक्ष्यति ।
८,१४७
स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात् ।
नचैवम् ।
किन्तु कालविशेष एवातस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते ।
तथा नेश्वरेच्छामात्रं सृष्टयादिहेतुः किन्तु तद्विशेष एव ततस्तद्भावाभावप्रयुक्ता सृष्टयादिव्यवस्था स्यादिति चेन्न ।
किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः ।
नाद्यः ।
निरस्तत्वात् ।
द्वितीये त्वपसिद्धान्त इत्याहनहीति ।
न हि कालविभेदो ऽस्ति तत्पक्षे … । मनुव्_२,२.१६३अब् ।
न्यायसुधा-
हिशब्देन’आकाशकालदिशामेकैकत्वात्’ इत्यादितद्वाक्यं स्मारयति ।
कालेतीश्वरेच्छाया अप्युपलक्षणम् ।
८,१४८
नन्विदं दूषणं भवतामपि समानम् ।
तथाहि ।
महदाद्युपादानकारणं प्रकृतिर्नित्यैव ।
तथा निमित्तकारणमीश्वरेच्छाकालादिकमपि ।
तदेव च प्रलयकारणम् ।
अतः सृष्टिप्रलयसमयनियमो भवतामपि दुर्घट इत्यत आहअस्मन्मत इति ।
… ऽस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्टयादीच्छा सदातना । मनुव्_२,२.१६३ब्द् ।
न्यायसुधा-
यद्यप्यस्मन्मते हरेरिच्छा सदातना ।
प्रकृत्याद्युपलक्षणमेतत् ।
तथापि विशेषकाल एवैतस्य महदादेः सृष्टयादि भवतीति योजना ।
अस्माभिः काले स्वभावत एव भेदो ऽभ्युपगम्यते ।
तथा च कालविशेषस्यैव सृष्टिं संहारं च कारणत्वात्तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्टयादिसमयनियमो युज्यत इति भावः ।
ननु कालविशेष इति वाच्यम् ।
मैवम् ।
विशिष्टत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात् ।
ननु सदातनीति भवितव्यम् ।
मैवम् ।
नायं ट्युट्युलोरन्यरतः प्रत्ययः ।
किन्तु भ(भा)वार्थे तनप्रत्ययो ऽयम् ।
अथवा तनेति तनोते रूपमेतत् ।
८,१४९
ननु ते कालभेदा यदि नित्यास्तदा स प्रसङ्गस्तदवस्थः ।
व्यर्थश्च कालभेदाभ्युपगमः ।
अनित्यत्वे तत्कारणं वाच्यमिति चेत् ।
सत्यम् ।
उपादानं तु प्रकृतिरेव ।
निमित्तमाहविशेषाश्चेति ।
८,१५०
विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा । मनुव्_२,२.१६४अब् ।
न्यायसुधा-
न केवलं महदादि किन्तु कालस्य विशेषाश्च क्षणलवादयः ।
एवशब्दस्य हरेरेवेति सम्बन्धः ।
सदेत्यनेन न युगपत्सर्वक्षणसृष्टिर्येन तेषामपि क्षणिकत्वं स्यात् ।
किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति ।
८,१५२
ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात्सिद्धमित्यत आहसर्व इति ।
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम् । मनुव्_२,२.१६४च्द् ।
न्यायसुधा-
‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि’ इति श्रुतिरेव कालविशेषाणामीश्वराज्जनिमाह हि इत्यर्थः ।
विशेषणद्योतत इति विद्युत्तस्मात्परमपुरुषात्सर्वे निमेषाः कालभेदा अधिजज्ञिरे यतास्वं जायन्त इति ।
नन्वेषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, नतु कालस्य ।
तथा सति काष्ठाकलामुहर्ताश्चेत्युत्तरवाक्यस्य पौनरुक्त्यप्रसङ्गात् ।
नहि सर्वनिमेषातिरिक्तं काष्ठाकलादिकमस्ति ।
उपाधयस्तु निमेषादिरूपाः पृथगेवेति न तत्र पुनरुक्तिदोष इत्यत उक्तम्सादरमिति ।
यत्सर्वनिमेषजन्माभिधाय पुनः काष्ठादिजन्माभिधत्ते तदादरार्थमित्यतो न पुनरुक्तिदोषः ।
उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति ।
८,१५५
ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात्कालाभिधायिनः ।
अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमित्यतो ऽत्र स्पष्टां श्रुतिं चाहउदीरयतीति ।
उदीरयति कालाख्यशक्तिमित्यस्य वागपि । मनुव्_२,२.१६५अब् ।
न्यायसुधा-
‘सो ऽन्तःशरीरे ऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः’ इति अस्य ईश्वरस्य वागपि कालस्येश्वरादुत्पत्तिमाहेत्यर्थः ।
कालात्मिकां कालाख्यां सहकारिशक्तिमुदीरयाणो जनयन्नित्यर्थः ।
अत्र कालशब्दादीश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च नार्थान्तरकल्पनावकाशः ।
८,१५६
स्यादेतत् ।
कालस्तावत्सर्वोत्पत्तिमतां निमित्तम् ।
नच कालस्योत्पत्तौ कालान्तरमस्ति ।
तत्कथं तस्योपपत्तिः ।
पूर्वकालः परकालस्य निमित्तमिति चेन्न ।
इदानीं जातस्तदानीं जात इत्यधिकरणतया कालस्य कारणतावधारणात् ।
अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातो गोष्ठे जात इत्यादौ निश्चितत्वादित्यत आहकालस्येति ।
कालस्य कालगत्वेन न विरोधो ऽपि कश्चन । मनुव्_२,२.१६५च्द् ।
न्यायसुधा-
कालस्योत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः ।
किन्तु कश्चन विरोधो ऽपि नास्तीति योजना ।
एतच्च प्रपञ्चयिष्यते ।
एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्टयादेः समयनियम इति समर्थितम् ।
प्रकारान्तरेण तं समर्थयतेअसङ्खयातेति ।
असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा । मनुव्_२,२.१६६अब् ।
८,१५६फ़्.
न्यायसुधा-
सर्वदा विद्यमानाया इति शेषः ।
सर्वदा विद्यमानाया अपीश्वरेच्छयाः शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वाद्यसङ्खयातविशेष(वत्त्वा)त्वात् तद्वयक्त्यव्यक्तिप्रयुक्तः सृष्टयादेः
समनियमो युज्यत इत्यर्थः ।
यद्यपि कालभेदमात्रेण कृतसमाधानमेतत् ।
कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते ।
तथापि वस्तुस्थितिरियं दर्शिता वेदितव्या ।
८,१५७
कालस्य कालगत्वेनेत्युक्तं, तत्र किं कालः स्वगतः किं वा कालान्तरगतः ।
नाद्यः ।
स्वस्कन्धारोहणवद्विरुद्धत्वात् ।
न द्वितीयः ।
तदभावात् ।
भावे वा कालान्तरसृष्टिवैयर्थ्यात् ।
तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गादित्यतः सप्रमाणकमुक्तं विवृणोतिईश इति ।
ईशो देशश् च कालश् च स्वगता एव सर्वदा । मनुव्_२,२.१६६च्द् ।
न्यायसुधा-
देश इत्यव्याकृताकाशाभिधानम् ।
स्वगता इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयतिईशाधीनाविति ।
८,१५८
ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु । मनुव्_२,२.१६७ ।
तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः । मनुव्_२,२.१६८ ।
न्यायसुधा-
विशेषणमात्रेण सत्ताप्रतीतिप्रवृत्तीनां परमेश्वरायत्तत्वमुच्यते ।
श्रुतिरपीति साक्षिणं समुच्चिनोति ।
यतः कालस्य स्वगतत्वं श्रुतिः प्राह साक्षिणा च सिद्धम् ।
अतः कालस्य स्वगतत्वतः ।
स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्य एव काले ।
तत्तत्कालसृष्टिमेव वाञ्छतीत्यन्वयः ।
८,१५८फ़्.
एतदुक्तं भवति ।
कालातिरिक्तकार्याणामेव कालो ऽधिकरणतया कारणं न कालस्य ।
केवलं श्वो घटं स्रष्टास्मीतिवत्कालसृष्टिं वाञ्छतः परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्नो ऽवशिष्यते ।
तत्र यः सृज्यः स एवेत्युत्तरम् ।
नहि सृज्यस्य प्राक् सत्त्वमस्ति ।
येनोद्देश्यत्वं सत्त्वमपेक्षेत ।
अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा विशेषबलाच्चोपपद्यते ।
अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिति ।
८,१६०
यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते तदा महदादिसृष्टिभर्वति ।
यदा तु सञ्जिहीर्षारूपा सम्पद्यते तदा संहारो भवतीति ।
तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम् ।
नच कालविशेषो निमित्तमिति युक्तम् ।
तस्येश्वरेच्छायत्तत्वात् ।
नापि पुरुषार्थायत्तम् ।
पारतन्त्र्यापत्तेरित्यत आहस्वभावादेवेति ।
स्वभावादेव हीच्छैषा … । मनुव्_२,२.१६९अ ।
न्यायसुधा-
एषा विचित्रा ।
तस्मात्कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः ।
कुत एतदित्यत आहदेवस्येति ।
… देवस्यैव इति श्रुतेः । मनुव्_२,२.१६९ब् ।
न्यायसुधा-
एतदवगम्यत इति शेषः ।
८,१६१
अपर आह ।
किमनया कालादिवैचित्र्यकल्पनया ।
यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः ।
अन्ततो ऽपि हि स्वभाववादो ऽभ्युपगन्तव्यः ।
ततो वरमादावेव स्वभाववादाभ्युपगम इति ।
अत आहस्वभावो ऽपीति ।
स्वभावो ऽपि परेशेच्छावश इत्युदितः पुरा । मनुव्_२,२.१६९च्द् ।
न्यायसुधा-
पुरा’चेतनानां विशेषो यः’ इत्यादौ ।
स्वभाववादमभ्युपगच्छतापि तन्नियामकतयेश्वरो अङ्गीकार्यः ।
ततस्तत्रैकत्रैव स्वभावानुसरणे प्रमाणायत्ते ऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः ।
न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम् ।
किन्तु प्रमाणान्तरमप्यस्तीत्याहनित्या इति ।
नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः । मनुव्_२,२.१७०अब् ।
न्यायसुधा-
तत इत्यस्य श्रुतावेव परामर्शविषयो द्रष्टव्यः ।
श्रुतिः सर्वस्येश्वराधीनतामाहेति शेषः ।
८,१६२
अनुपपत्त्यन्तरं वैशेषिकादिमते दर्शयन्, ।
ओं रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ओं ।
ओं उभयथा च दोषात् ओं ।
इति सूत्रद्वयं व्याचष्टेरूपेति ।
रूपादिमत्त्वाच् च विपर्ययो दर्शनात् । ब्ब्स्_२,२.१५ ।
उभयथा च दोषात् । ब्ब्स्_२,२.१६ ।
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता । मनुव्_२,२.१७०च्द् ।
अनुमेया … । मनुव्_२,२.१७१अ ।
न्यायसुधा-
परमाणोरिति जात्यपेक्षमेकवचनम् ।
पार्थिवादीनां चतुर्विधानां परमाणूनां नित्यतामुपयान्ति वैशेषिकादयः ।
तदनुपपन्नम् ।
पाथिर्वाः पाथसीयास्तैजसाश्च परमाणवो ऽनित्या रूपवत्त्वात्पटवत् ।
यद्वा चतुर्विधा अप्यनित्याः स्पर्शवत्त्वात्पटवत् ।
एवं पार्थितवा आप्याश्चानित्या रसवत्त्वात्पटवत् ।
पार्थिवा अनित्या गन्धवत्त्वात्तद्वदेवेत्याद्यनुमानविरुद्धत्वात् ।
नच सावयवत्वमुपाधिः ।
गुणादौ साध्याव्याप्तेः ।
नच द्रव्यत्वावच्छिन्ने साध्ये ऽस्योपाधित्वम् ।
यद्रूपादिमत्तत्सावयवमिति साधनव्यापकत्वात् ।
नच धर्मिग्राहकविरोधः ।
साक्षिणैव परमाणुसिद्धेरुक्तत्वात् ।
अनित्यत्वे च परमाणूनां न मूलकारणत्वसिद्धिः ।
यदि च रूपादिमन्तो ऽपि परमाणवो नानित्यास्तदा घटादयो ऽप्यनित्या न स्युरविशेषात् ।
तथा(च)पि न परमाणूनां मूलकारणत्वम् ।
नचेश्वरे हेतूनां व्यभिचारः ।
भौतिकत्वेन विशेषणात् ।
तथाच वक्ष्यति ।
‘भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते’ ।
इति ।
८,१६४
नन्वस्माभिर्भूतसूक्ष्माणां नित्यताङ्गीक्रियते ।
तत्कथमेवमनुमीयते ।
मैवम् ।
नहि परमाणवो भूतसूक्ष्माणि, किन्नामाहं(कारो)मात्रोपचितानि ।
विकृताकाराश्च अनित्या एवेति ।
८,१६५
अपरिग्रहाच् चात्यन्तम् अनपेक्षा । ब्ब्स्_२,२.१७ ।
। ओं अपरिग्रहाच्चात्यन्तमनपेक्षा ओं ।
इति सूत्रं व्याचष्टेश्रीतीनां चेति ।
… श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः । मनुव्_२,२.१७१ ।
न्यायसुधा-
सम्बन्धमात्रे षष्ठी ।
अन्यथा तृतीया स्यात् ।
श्रुतयश्च’आत्मन आकाशः’ इत्याद्यास्तत्र तत्रोदाहृता ज्ञातव्याः ।
वैशेषिकादिमतस्यानुपादेयत्वे सिद्धे किं लब्धमित्यत आहअतश्चेति ।
अयं सकलगुणपूर्णपरब्रह्मविषयः ।
अविरुद्ध इति न वैशेषिकासिदमतविरोदेनासमञ्जसो मन्तव्य इति भावः ।
। इति श्रीमन्न्यायसुधायां वैशेषिकाधिकरणम् ।


__
८,१६६