१५ अन्यतानुमित्यधिकरण

। अथ श्रीमन्न्यायसुधायां अन्यथानुमित्यधिकरणम् ।
अन्यथानुमितौ च ज्ञशक्तिवियोगात् । ब्ब्स्_२,२.९ ।
। ओं अन्यथानुमितौ च ज्ञशक्तिवियोगात् ओं ।
प्रकृत्युपसर्जनपुरुषकर्तृत्ववादिनां निरीश्वरसाङ्खयैकदेशिनां मतमत्र निराक्रियते ।
तथाहि अश्मानय(नप्र)नादिप्रवृत्तौ तावत्पुरुषस्य प्राधान्यं शरीरस्य चोपसर्जनत्वमनुभवसिद्धमित्युक्तम् ।
तथाच तद्दृष्टान्तेन महदादिकार्यमपि प्रकृत्युपसर्जनपुरुषकर्तृकमनुमीयते ।
पुरुषस्य च चेतनत्वेन न कर्तृत्वानुपपत्तिः ।
सुषुप्त्यादौ च कर्तृत्वानुपलम्भात्प्रकृतिरुपसर्जनभूताङ्गीकरणीया ।
एवञ्च किमीश्वरेणेति ।
७,२३२
अत्र वक्तव्यं किं पुरुषस्यैकाकिनः कुत्रापि स्वातन्त्र्यं नास्ति उत अस्तीति ।
आद्यं दूषयितुं सूत्रं व्याचष्टेअङ्गित्वमिति ।
अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् ।
तत्प्रेरणे ऽप्यशक्तत्वात् स्वतन्त्रो ऽन्यो ह्यपेक्षितः । मनुव्_२,२.४७ ।
न्यायसुधा-
यदि पुरुष(स्यैवाङ्गि)स्याङ्गित्वं प्राधान्यं कर्तृत्वमिति यावत् ।
प्रकृतेस्तूपसर्जनत्वमेवेति पूर्वमतादन्यथानुमीयते ।
तत्रापि च पुरुषस्याखिलं स्वातन्त्र्यं नास्तीति पक्षो यद्यङ्गीक्रियते तदा स्वतन्त्रो ऽन्यः परमेश्वरो ऽङ्गीकरणीय एव स्यात् ।
कुतः ।
प्रकृतिप्रेरणे पुरुषस्याशक्तत्वात् ।
मा भूत्तावत्कार्यान्तरार्थमीश्वरापेक्षा ।
तथापि प्रकृतिप्रेरणार्थमपेक्षणीय एवासावित्यपेरर्थः ।
एतदुक्तं भवति ।
न तावत्सत्तामात्रेण संयोगमात्रेण वा प्रधानस्य कर्तारं पुरुषं प्रत्युपसर्जनत्वम् ।
सुप्तिप्रलयादावपि प्रसङ्गात् ।
किन्तु करणत्वादिना ।
नच कर्त्राप्रयुज्यमानस्य करणत्वादिकं दृष्टम् ।
नच तदेव तत्प्रेरणे करणादि ।
स्ववृत्तिविरोधात् ।
तथाच प्रकृतिनिरपेक्षस्य पुरुषस्य क्वापि व्यापारासामर्थ्ये ऽवश्यमन्येन सहकारिणा भाव्यम् ।
नचासावप्येवंविध एव ।
तस्यापि सहकार्यन्तरापेक्षायामनवस्थाप्रसङ्गात् ।
अतः स्वतन्त्र एवासावङ्गीकरणीयः ।
स एव चेश्वर इति कथमसौ नाभ्युपगम्यत इति ।
७,२३४
द्वितीयं निषेधतिनचेति ।
न च स्वातन्त्र्यमस्यैव … । मनुव्_२,२.४८अ ।
न्यायसुधा-
तथा सति प्रकृत्यनपेक्षत्वप्रसङ्गेन (अस्य) स्वसिद्धान्तविरोधापत्तेरिति भावः ।
अनेन विप्रतिषेधाच्चेति सूत्रं व्याख्यातं भवति ।
[विप्रतिषेधाच् चासमञ्जसम् । ब्ब्स्_२,२.१० ।]
सूत्रस्यार्थान्तरमाहप्रत्यक्षादीति ।
… प्रत्यक्षादिविरोधतः । मनुव्_२,२.४८ब् ।
न्यायसुधा-
प्रत्यक्षादिप्रमाणैर्हि पुरुषस्यास्वातन्त्र्यं सर्वदा उ(सर्वत्रो)पलभ्यते ।
प्रकारान्तरेण व्याचष्टेहितेति ।
हिताकृत्यादिदोषाच्च … । मनुव्_२,२.४८च् ।
न्यायसुधा-
आदिपदेनाहितक्रियोपादीयते ।
एवं पञ्चमतानि निराकृत्योपसंहरतिभद्रमिति ।
… भद्रं नानीश्वरं मतम् । मनुव्_२,२.४८द् ।
न्यायसुधा-
पातञ्जलाभिमतस्येश्वरस्येश्वरलक्षणाभावात्तदप्यनीश्वरमेव मतमिति ।
नन्वन्यान्यपि भिन्नकसंसारमोचकादीन्यनीश्वराणि मतानि सन्ति तानि कुतो न निराक्रियन्ते ।
उक्तदोषैरेव निरस्तत्वात् अभ्यधिकाशङ्काभावाच्चेत्याहसंसारिण इति ।
७,२३५
संसारिणो ऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ।
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे । मनुव्_२,२.४९ ।
न्यायसुधा-
संसारिपदमीश्वरातिरिक्तोपलक्षणम् ।
सर्वेशमिति विशेष्यपदम् ।
तेन न पौनरुक्तयम् ।
उपमैवोपमम् ।
स्वार्थिको ऽण् ।
नास्त्यौपमं यस्यासावनौपमः ।
यद्वोपमाया अयमौपमः ।
सोपम इति यावत् ।
ततो नञ्समासः ।
अस्य प्रपञ्चस्य ।
इमे कथिता दोषा इति शेषः ।
न केवलं सर्वेशं स्वरूपेणानङ्गीर्कुर्वतामिमे दोषाः ।
किन्तु तमङ्गीकृत्यापि जीवा(द्य)न्यत्वादिविशेषणानि तस्यानङ्गीकुर्वतामपि ।
तथात्वे फलतस्तस्यानीश्वरत्वादिति ।
७,२३७
किमतो यद्येवमनीश्वरमतमसमञ्जसमित्यत आहतस्मादिति ।
तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ।
अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम् । मनुव्_२,२.५० ।
न्यायसुधा-
न परपक्षनिरासमात्रेण स्वपक्षसिद्धिरित्यतः श्रुतिप्रमाणेनेत्याद्युक्तम् ।
पर उत्कृष्ट उक्तविशेषणोपपन्नः ।
नित्य इति सामर्थ्यादङ्गीकारस्य विशेषणम् ।
सर्वदेति यावत् ।
निश्चयस्य स्वपरपक्षसाधनोपालम्भातिरिक्तानपेक्षत्वात्प्रामाणिकनिश्चयस्य चासमीचीनत्वायोगात्सुनिश्चितमित्युक्तम् ।
प्रथमाध्यायव्युत्पादितेन परपक्षोपालम्भेन च यथालक्षितं ब्रह्म सिद्धमित्याशयः ।
नन्वेवं तर्हि उत्तराधिकरणानामानरम्भ एव ।
निराकरिष्यमाणै(रु)रप्युक्तविशेषणस्येश्वरस्यानभ्युपगतत्वादिति चेत् ।
सत्यम् ।
तथापि तन्मतानामत्यन्तहेयताप्रदर्शनाय दूषणान्तराणि व्युत्पादनयितुमुत्तरो ग्रन्थः ।
। इति श्रीमन्न्यायसुधायां अन्यथानुमित्यधिकरणम् ।


__
७,२३९