। अथ श्रीमन्न्यायसुधायां पुरुषाश्माधिकरणम् ।
पुरुषाश्मवद् इति चेत् तथापि । ब्ब्स्_२,२.७ ।
। ओं पुरुषाश्मवदिति चेत्तथापि ओं ।
अ(त्रानीश्व)त्र निरीश्वरसाङ्खयैकदेशिनां पुरुषोपसर्जनप्रकृतिकर्तृकत्ववादिनां मतमपाक्रियते ।
नन्वेवं तर्हि तदनन्तरमेवेदमारम्भणीयम् ।
सत्यम् ।
तथाप्यभ्यधिकाशङ्कानुसारेणेयमुक्तिः ।
तथाहि ।
परमचेतनस्य भगवत एव सर्वकर्तृत्वं प्रागुक्तम् ।
तस्य केवलप्रकृतिकर्तृकत्ववादः साक्षाद्विरोधीति प्रथममपाकृतः ।
तत्र मा भूत्केवलस्याचेतनस्य प्रधानस्य जगत्कर्तृत्वम् ।
ईश्वरानुगृहीतस्य तु भविष्यतीत्याशङ्का द्वितीयाधिकरणे (निरस्ता)निराकृता ।
मा भूदचेतनस्य कर्तृत्वं किन्तु शरीरस्यैव चैतन्याश्रयस्य कर्तृत्वमस्त्वित्याशङ्कय शरीरस्य चैतन्याश्रयतायोगात् पुनस्तदवस्थः कर्तृत्वायोग इति
तृतीये ऽभिहितम् ।
इदानीं तु केवलस्याचेतनस्य कर्तृत्वायोगे ऽपि चेतनसन्निधानेन तदुपपत्तेः किमीश्वरे(णेत्या)णेत्येषा शङ्का निराक्रियते ।
७,२२७
तन्मतरीतिः सूत्र एवोक्तेति तदेव व्याचष्टेसन्निधानादिति ।
सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।
तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत् । मनुव्_२,२.४५ ।
७,२२७फ़्.
न्यायसुधा-
यथा खल्वचेतनमेव शरीरं चेतनस्यात्मनः सन्निधानमात्रेण अश्मानयनादिकं करोति ।
एवमचेतनापि प्रकृतिः पुरुषसन्निधानान्महदादिकार्यं करिष्यति ।
तथाच प्रयोगः ।
महदादिकं पुरुषोपसर्जनप्रकृतिकर्तृकम् कार्यत्वादश्मानयनादिवदिति ।
एवञ्च किमीश्वरेणेति शङ्कार्थः ।
यद्यप्येवमभ्यधिकमाशङ्कितं तथापि रचनानुपपत्तेरित्युक्तदोषः समो भवेत् ।
न परिहृतो भवेत् ।
कुतः ।
अबुद्धिपूर्वत्वात् ।
प्रकृतेरिति शेषः ।
बुद्धिः पूर्वा यस्य तत् बुद्धिपूर्वम् ।
ज्ञानेच्छाप्रयत्ना इत्यर्थः ।
न विद्यते बुद्धिपूर्वं यस्य तत्तथोक्तं तस्य भावस्तत्त्वम् ।
तस्मात् ।
एतदुक्तं भवति ।
ज्ञानेच्छाप्रयत्नवत्त्वं हि कर्तृत्वम् ।
नच पुरुषसन्निधाने(ऽपि) न प्रकृतेर्बुद्धिमत्त्वं सम्भवति ।
अचेतनत्वाङ्गीकारविरोधात् ।
नच बुद्धयभावे तत्कार्ययोरिच्छाप्रयत्नयोरपि सम्भवः ।
तथा चाचेतनस्य कर्तृत्वप्रतिज्ञा व्याहतैवेति ।
नन्वात्मोपसजर्नस्य शरीरस्याश्मानयनादिकर्तृत्वं निदर्शितम् ।
तत्कथ(मेतदि)मिति चेन्न ।
शरीरस्याप्युक्तरीत्या कर्तृत्वासम्मतेः ।
७,२२९
दूषणान्तरं च दृष्टान्ते दर्शयितुं सूत्रम्।
ओं अङ्गित्वानुपपत्तेः ओं ।
इति ।
तद्वयाचष्टेअङ्गित्वादिति ।
अङ्गित्वानुपपत्तेश् च । ब्ब्स्_२,२.८ ।
अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ।
तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः । मनुव्_२,२.४६अद् ।
न्यायसुधा-
चशब्दो दूषणान्तरसमुच्चयार्थः ।
एवशब्दो वक्ष्यमाणकैमुत्यस्फुटीकरणार्थः ।
अङ्गित्वं प्रधानत्वं शरीरं प्रतीति शेषः ।
तदङ्गत्वोक्तितः तस्योपसर्जनत्वाङ्गीकारात् ।
स्यात् साङ्खय इति शेषः ।
नन्वेतत्प्रकृतविरुद्धम् ।
परमेश्वरस्य हि सर्वकर्तृत्वमुपपादयितुमयमारम्भः ।
तथाच अश्मानयनादिकार्ये जीवस्य प्राधान्योपपादनं कथं न प्रकरणविरुद्धमिति चेन्न ।
जीवगतस्य अमुख्यस्य कर्तृत्वस्य निरास एव यदा प्रमाणविरोधः तदा किमु वक्तव्यं सर्वकर्तुरीश्वरस्यापलाप इत्येतत्प्रदर्शनायैव सूत्रकृता
जीवस्याङ्गित्वोपपादनादित्याशयवानाहकिम्विति ।
किमु सर्वेश्वरस्यास्य ह्यपलाषाद् यतो ऽखिलम् । मनुव्_२,२.४६एफ़् ।
न्यायसुधा-
अस्य सर्वकर्तृत्वेन प्रतिपिपादयिषितस्य ।
उत्तरसूत्रे चास्याङ्गीकारवादत्वं स्फुटीभविष्यतीति हिशब्देन सूचयति ।
कथं जीवस्य प्राधान्यनिरासादप्यतिशयेनेश्वरनिरासः प्रमाणविरुद्ध इत्यत आहयत इति ।
यतः कारणादखिलं प्रमाणं योगिप्रत्यक्षानुमानागमात्मकं सर्वकर्तारमीश्वरं प्रतिपादयति तस्मादिति पूर्वेण सम्बन्धः ।
। इति श्रीमन्न्यायसुधायां पुरुषाश्माधिकरणम् ।
__
७,२३१