१३ अभुपगमाधिकरण

। अथ श्रीमन्न्यायसुधायां अभ्युपगमाधिकरणम् ।
अभ्युपगमे ऽप्य् अर्थाभावात् । ब्ब्स्_२,२.६ ।
। ओं अभ्युपगमे ऽप्यर्थाभावात् ओं ।
केचिदिदं सत्रमेवं व्याचक्षते ।
प्राक् प्रधानस्य प्रवृत्तिर्नोपपद्यत इत्युक्तम् ।
अथेदानीं प्रवृत्तेरभ्युपगमे ऽपि तस्याः प्रयेजनाभावादिति ।
तदयुक्तम् ।
अभ्युपगमे ऽपीत्येतावतो वैयर्थ्यात् ।
अर्थाभावाच्चेत्येतावतैव पूर्णत्वात् ।
किञ्च अर्थाभावेन किं साध्यम् ।
साङ्खयमतस्यासामञ्जस्यं वा प्रकृतेः प्रवृत्त्यनुपपत्तिर्वा ।
नाद्यः ।
व्यधिकरणत्वात् ।
कथञ्चिदेकाधिकरणतापादने ऽपि स्वमतेनानैकान्त्यात् ।
न द्वितीयः ।
अभ्युपगम(वाद)विरोधात् ।
न ह्यभ्युपगमवादे ऽपि यदेवाभ्युपगम्यते तदेव निराक्रियते ।
अनास्थां खलु तात्कालिकीमभ्युपगमेन द्योतयन्ति ।
यथास्तु शब्दो नित्यो ऽनित्यो वा, अनुशासनं तावत्कर्तव्यमिति ।
तस्मान्नायं सूत्रार्थः ।
७,२०३
किन्नाम मा भूदचेतनस्य कर्तृत्वं, शरीरस्यैव चेतनावत्त्वेन कर्तृत्वोपपत्तेः ।
किमीश्वरादिनेत्यधिकाशङ्कया प्रत्यवतिष्ठमानस्य चार्वाकस्य मतमत्राधिकरणे निरस्यत इति भावेन तन्मतमुपन्यस्यतिचार्वाकैरिति ।
चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् । मनुव्_२,२.३९अब् ।
न्यायसुधा-
चार्वी बुद्धिस्तत्सम्बन्धादाचार्यो ऽपि चार्वी ।
तस्येमे छात्राश्चार्वाकाः ।
तैरक्षजं मानमुच्यते ।
नन्वेतदस्माकमपि सम्मतमित्यतः सावधारणमिदमुक्तमित्याशयेनोक्तं विवृणोतिनापरमिति ।
अनुमानमागमश्च मानं नोच्यत इत्यर्थः ।
एतदप्यस्माकमनुमतमेव ।
प्रमेयविशेषे प्रत्यक्षस्यैव मानताभ्युपगमादित्यत आहक्वचिदिति ।
एतदुक्तं भवति ।
प्रमाणाधीना हि प्रमेयसिद्धिः ।
प्रमाणं च प्रत्यक्षमेव ।
नातो ऽन्यदस्ति ।
नच प्रत्यक्षेणेश्वरं प्रतीमः ।
तस्मात्प्रमाणाभावान्नास्तीश्वर इति ।
ननु यदि प्रत्यक्षातिरिक्तं न प्रमाणं तदा धर्ममोक्षयोस्तत्साधनानां च प्रत्यक्षाविषयाणामसिद्धिः स्यादित्यत आहदेह इति ।
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना नहि । मनुव्_२,२.३९च्द् ।
न्यायसुधा-
ज्ञानवान्खल्वात्मना ।
ज्ञानं च देहधर्मः ।
यथोक्तम्’पृथिव्यापस्तेजोवायुरिति तत्त्वानि ।
तत्समुदाये शरीरेन्द्रियविषयसञ्ज्ञा ।
तेभ्यश्चैतन्यं मदशक्तिवद्विज्ञानम्’ इति ।
तस्माद्देह एवात्मा ।
स च विनाशीत्यतः कालान्तरभाविनः पुंस एवाभावाद्धर्ममोक्षाख्यपुरुषार्थाभावो नानिष्यः ।
पुरुषार्थौ तु कामार्थावेव ।
पुरुषान्वयसम्भवादिति ।
तत्रापि काम एव मुख्यो ऽर्थस्तु तत्साधनतयैव पुमर्थ इति ज्ञापयितुं कामस्यादौ सङ्कीर्तनम् ।
इति चोच्यत इति सम्बन्धः ।
७,२०८
एतन्मतनिरासार्थं सूत्रं व्याख्यातुमुपोद्घातं तावदाहयदेवमिति ।
यदेवं … । मनुव्_२,२.४०अ ।
न्यायसुधा-
यद्येवमतीन्द्रियं वस्तु न स्यात् तदा तदीयं शास्त्रं विषयप्रयोजनशून्यमापद्येतेति शेषः ।
तत्कथमिति चेत् ।
किमनेन शास्त्रेण तत्प्रणेता विषयं प्रतिपद्यते प्रयोजनं च लभते ।
उत विनेया नराः ।
आद्यं दूषयतिदर्शनेनेति ।
… दर्शनेनास्य को ऽर्थः प्रत्यक्षगोचरः ।
लब्धस्तेनैव हि … । मनुव्_२,२.४०अच् ।
न्यायसुधा-
किमाक्षेपे ।
अर्थो विषयः प्रयोजनं च ।
लब्ध उपलब्धः प्राप्तश्च ।
प्रत्यक्षगोचरो हीति ।
तत्र हेतुः ।
ततश्चायमर्थः ।
न तावदनेन शास्त्रेण शास्त्रप्रणेत्रास्तीन्द्रियो ऽर्थः उपलभ्यते ।
तदभावात् ।
नाप्यैन्द्रियकः ।
तस्य प्रत्यक्षगोचरत्वेन विषयत्वानुपपत्तेः ।
‘अप्राप्ते हि शास्त्रमर्थवत्’ ।
किञ्च प्रत्यक्षेण तमर्थमुपलभ्य खल्वसौ शास्त्रे प्रवीणवान् ।
अन्यथा (तत्प्र)प्रणयनानुपपत्तेः ।
तथाच तं प्रति तमेवार्थमुपदर्शयत्कथं सविषयं स्यात् ।
एवं प्रयोजनमपि न तावदतीन्द्रियम् ।
तदभावात् ।
नाप्यैन्द्रियकम् ।
तस्य योग्यानुपल(ब्धि)म्भबाधितत्वात् ।
ननु हितोपदेष्यरि जनो ऽनुरज्यते ।
‘जनानुरागप्रभवाश्च सम्पदः’ इति चेत् ।
कृतघ्नतानिमित्तप्रत्यवायानुसन्धाने सत्येवमेतत् ।
तत्तु परेण त्याजितमिति ।
द्वितीयं दूषयतिनरैरिति ।
… नरैः शास्त्रात् किं मोहनं विना । मनुव्_२,२.४०च्द् ।
न्यायसुधा-
लब्धमित्यनुवर्तते ।
अत्रापि पूर्ववदुत्तरम् ।
स्यादेतत् ।
धर्माद्यतीन्द्रियाभिमतार्थाभावः शास्त्रस्य विषयः ।
तस्य प्रत्यक्षत्वे ऽपि वैदिकवासनानिमित्तशङ्काकलङ्कितत्वेन विषयत्वमुपपद्यते ।
प्रयोजनं च धर्माधर्मशङ्कोपरुद्धार्थकामोपभोगः ।
तत्कथं नरैः शास्त्रात्किं लब्धमित्युच्यते ।
मैवम् ।
विषयप्रतिपत्तौ हि प्रयोजनावाप्तिः ।
विषयं च किं शास्त्रमाप्तवाक्यतया प्रतिपादयेत् उतोपपत्तिव्युत्पादनेन ।
नाद्यः ।
आगमप्रामाण्याभ्युपगमप्रसङ्गात् ।
नास्ति अतीन्द्रियं किमपीत्येतावतैव पूर्णत्वे(नैव)न वाक्यविस्तरवैयर्थ्याच्च ।
न द्वितीयः ।
उपपत्तिप्रामाण्याभ्युपगमप्रसङ्गात् ।
शास्त्रं शङ्कामेव निवारयति ।
विषयप्रतिपत्तिस्तु प्रत्यक्षेणैवेति चेन्न ।
स्वयं वोपपत्तिव्युत्पादनेन वा कमप्यर्थमनुपदर्शयतः शङ्कानिवारणासामर्थ्यात् ।
शङ्का हि संशयो वा स्याद्विपर्ययो वा ।
द्वावपि विपरीतार्थगोचरबलवत्प्रत्ययनिरसनीयौ ।
नाज्ञामात्रेण ।
तर्कव्युत्पादनं शास्त्रेण क्रियत इति चेत्(न) ।
तस्यापि प्रमाणत्वात् ।
तदिदं’दर्शनेन’ इति प्रकृतानुवृत्तौ सत्यां’शास्त्रात्किम्’ इत्रत वदता सूचितम् ।
अन्यथा नरैश्चेत्यवक्ष्यत् ।
मोहनं विनेत्युभयवाक्यशेषः परिहासः ।
शास्त्रप्रणेत्रा सुरगुरुणायोग्यजनव्यामोहनं प्रयोजनं लब्धम् ।
अन्यैश्च मिथ्याज्ञानम् ।
नातो ऽधिकमिति ।
७,२११
किमतो यद्येवमित्यत आहस्वेति ।
स्वपरार्थविहीनत्वात् … । मनुव्_२,२.४१अ ।
न्यायसुधा-
निष्फलं शास्त्रमिति वक्ष्यमाणं सिंहावलो(कनन्याये)कितेनानुवर्तते ।
तच्चोपलक्षणम् ।
निर्विषयं चेत्यपि द्रष्टव्यम् ।
विषयप्रयोजनवत्त्वं हि स्वपरविषयप्रयोजनवत्तया व्याप्तम् ।
तृतीयप्रकाराभावात् ।
सर्वप्रकारपरित्यागेन सामान्यानवस्थानात् ।
ततश्च व्यापिकायाः स्वपरविषयप्रयोजनवत्ताया अभावात्तद्वयाप्तं विषयप्रयोजनवत्त्वमपि नास्तीत्यर्थः ।
अस्त्वेवं विषयप्रयोजनशून्यमस्मदीयं शास्त्रम् ।
ततः किमित्यतः सूत्रं व्याख्यातिस्वमतेनैवेति ।
… स्वमतेनैव निष्फलम् ।
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम् । मनुव्_२,२.४१ब्द् ।
७,२११फ़्.
न्यायसुधा-
यत एवं स्वमतेनैव निष्फलं निर्विषयं च न केवलं परोपपादनमेव ।
तस्माद् वृथा विषयप्रयोजनशून्यम् ।
यस्माद्वादिना चार्वाकेण प्रतिवादिभिश्च तदितरैः सर्वैर्विषयप्रयोजनशून्यतयाभ्युपगतम् ।
तस्माद्विषयप्रयोजनशून्य(मेवे)त्यर्थः ।
यस्माद्वृथा तस्मात्तच्छास्त्रं किमिति स्वयं प्रेक्षावान्प्रलपति ।
प्रेक्षावता नारम्भणीयमिति यावत् ।
विषयप्रयोजनशून्यं चारभमाणो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः स्यादिति ।
यद्वा निष्फलमिति प्रयोजनाभावाभिधानम् ।
वृथेति विषयाभाववचनम् ।
तथाचैवं सूत्रयोजना ।
न केवलं परोपपादनेन किन्तु स्वाभ्युपगमे ऽप्यर्थाभावादनारम्भणीयं शास्त्रमिति शेष इति ।
अर्थाभावहेतोरसिद्धिपरिहारायाभ्युपगमे ऽपीत्युक्तम् ।
व्यास(२३)
७,२१३
ननु च प्रमाणानुरोधि प्रयोजनम् ।
न पुनः प्रयोजनमनुरुध्याप्रामाणिको ऽयर्थो ऽङ्गीकर्तुमुचितः ।
अतिप्रसङ्गात् ।
प्रमाणं च प्रत्यक्षमेव नान्यत् ।
नचैवं लोकव्यवहारोच्छेदः ।
सम्भावनयैव तदुपपत्तेः ।
संवादेन च प्रामाण्याभिमानात् ।
प्रत्यक्षेण च देह एवात्मोपलभ्यते ।
गौरो ऽहं जानामीति ।
तथाच कालान्तरभाविप्रयोजनान्वयिनः पुरुषस्य अभावात्कथं धर्ममोक्षाख्यं प्रयोजनमतीन्द्रियश्च विषयो ऽङ्गीकर्तुं शक्यत इत्यत आहदेहादिति ।
देहादन्यो ऽनुभवत आत्मा भाति शरीरिणाम् ।
मम देह इति व्यक्तं ममार्थ इतिवत् सदा । मनुव्_२,२.४२ ।
न्यायसुधा-
अनुभवतः पराभ्युपगतप्रामाण्येन प्रत्यक्षेणैव ।
मम देह इति ह्यहङ्कारास्पदात्मसम्बन्धी देहः प्रतीयते ।
नचान्यताप्रतीतौ सम्बन्धप्रतीतिरुपपद्यते ।
यथा ममार्थ इति प्रतीतौ भेदप्रतीतिपूर्वक एव सम्बन्धाभास इति ।
नन्वेवं प्रतिभास एव नास्ति ।
अपि तर्हि घटस्य स्वरूपमितिवद्वयवहारमात्रमिति चेन्न कल्पकाभावात् ।
विपरीतप्रती(मि)तौ खल्वेवं कल्प्यते ।
नचैवं प्रकृते ।
कस्यचित्कदाचिदपि देहो ऽहमिति प्रमाभावात् ।
तदिदमुक्तम्शरीरिणां सदेति ।
अत एव प्रतिभासो ऽपि भ्रमो ऽस्त्विति निरस्तम् ।
अस्ति गौरो ऽहमिति प्रमेति चेन्न ।
प्रतिपक्षतया बाधकत्वानुपपत्तेः ।
७,२१५
किञ्च नायं देहात्मतावभासः ।
किन्तु देहधर्मस्यात्मधर्मतावभासः ।
नच व्यधिकरणयोर्विरोधो ऽस्ति ।
तदभावे कथमसाविति चेत् ।
किमेतदनुमानमर्थापत्तिर्वा प्रश्नमात्रं वा ।
न प्रथमद्वितीयौ ।
अपसिद्धान्तात् ।
स्फटिकजपाकुसुमयोरभेदाप्रतिभासे ऽपि तद्धर्मस्य तत्र प्रतीतिदर्शनाच्च ।
तृतीये तु वक्ष्यते ।
अस्तु प्रतीतिः ।
प्रत्यक्षमिति तु कुतः ।
अबाधप्रतिभासस्य प्रत्यक्षादन्यस्य परेणानभ्युपगमात् ।
अभ्युपगमे वा प्रामाण्यापरिहारात् ।
अपरोक्षतयानुभवाच्च ।
तदिदमुक्तम्व्यक्तमिति ।
नच तदेवासिद्धम् ।
लिङ्गाद्यनुसन्धानाभावे ऽपि भावात् ।
अन्यथा देहप्रतिभासस्यापि तन्न स्यात् ।
एतदप्युक्तम्सदेति ।
केचिदाहुः ।
देहात्मभेदज्ञानं समाधिपरिपाकवतामेवेति ।
तदसत् ।
आविपालगोपालं मम देह इत्रत प्रतिभासस्यानपलपनीयत्वात् ।
अत एवाहशरीरिणां अ(शरीरा)भिमानिनामिति ।
७,२१८
नन्वस्त्वात्मा देहातिरिक्तस्तथाप्यर्थकामातिरिक्ते पुरुषार्थे तत्साधनादौ च किं मानम् ।
वेदादिरागमो ऽनुमानं चेति वदामः ।
तस्य प्रामाण्यमेव कुत इति चेत् ।
तत्राहप्रत्यक्षस्यैवेति ।
प्रत्यक्षस्यैव मानत्वमिति केनावसीयते । मनुव्_२,२.४३अब् ।
न्यायसुधा-
यत्परेणाभ्युपगतमर्थादि तत्कुतः सिद्धमिति वक्तव्यम् ।
प्रत्यक्षेणेति चेत् ।
प्रत्यक्षस्य मानत्वमित्येव केनावसीयते ।
तथाच पुरुषार्थतत्साधनमात्रासिद्धौ जगदनीहमापद्येतेति ।
प्रत्यक्षज्ञानं तावत्प्रतीयते ।
प्रामाण्यं च ज्ञानग्राहकमात्रग्राह्यम् ।
अतः कथमुक्तो दोषः ।
प्रामाण्यपरतस्त्वावादे ऽपि बाधकाभावादिना प्रत्यक्षप्रामाण्यसिद्धिरित्यत आहयदीति ।
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत् । मनुव्_२,२.४३च्द् ।
न्यायसुधा-
यदि प्रत्यक्षज्ञानप्रामाण्यस्य ज्ञानग्राहकं वा बाधकाभावादिकं वा साधकमुच्यते ।
तर्हि तदेव वेदप्रामाण्यविषये कथं साधकं न भवेत् ।
नहि वेदवाक्याज्ज्ञानं नोत्पद्यते ।
नच न प्रतीयते ।
अत्र वेदग्रहणमुपलक्षणम् ।
अत एवान्येति सामान्येन वक्ष्यति ।
७,२२०
ननु ज्ञानग्राहकस्य प्रामाण्यग्राहकत्वमित्युत्सर्गः ।
अपवादे(न त्व)सत्यप्रामाण्यमपि गृह्यते ।
तत्कथं वेदादिप्रामाण्यसिद्धिः ।
परतस्त्वे ऽपि बाधकाभावः कुत इति चेत् ।
सममेतत्प्रत्यक्षे ऽपि ।
अनुपलम्भादपवादाद्यभावः प्रत्यक्षसिद्ध इति चेत् ।
तुल्यमेतद्वेदादावित्याहन चेति ।
नचान्यामानता क्वापि प्रमाणेनावसीयते । मनुव्_२,२.४४अब् ।
न्यायसुधा-
प्रत्यक्षादन्ययोरनुमानागमयोरमानता ।
क्वापि विषये ।
७,२२१
यद्वा प्रत्यक्षप्रामाण्यमभ्युपगच्छन्प्रष्टव्यः ।
किं त्वयानुभूयमानस्यैकस्यैव प्रत्यक्षस्य मानत्वम् उत सर्वस्यापि प्रत्यक्षस्य ।
आद्ये दोषमाहप्रत्यक्षस्यैवेति ।
इतरेषामपि प्रत्यक्षाणां तत्तुल्यसामग्रीजन्यत्वे सत्येकस्यैव प्रत्यक्षस्य मानत्वमिति केनावसीयते ।
द्वितीये दोषमाहप्रत्यक्षस्यैवेति ।
प्रत्यक्षस्य मानत्वमेव सर्वमपि प्रत्यक्षं प्रमाणमिति केनावसीयते ।
अनुभूयमानप्रत्यक्षादन्यस्य प्रत्यक्षस्य, तत्प्रामाण्यस्य वा चावसायकं न किमपीत्यर्थः ।
परकीयवचनेन चेष्यया वा प्रत्यक्षमवगम्य प्रत्यक्षत्वेन तस्य प्रामाण्यमवगम्यत इत्यत आहयदीति ।
प्रत्यक्षस्य तत्प्रामाण्यस्य च साधकं वचनमनुमानं च यदि प्रमाणमिष्यते तर्हि वेदादिप्रामाण्ये कथं न भवेत् ।
अभ्युपगम इति शेषः ।
एवमनुमानागमप्रामाण्यं प्रत्यपि विकल्पः ।
आद्यस्तु पूर्ववन्निरस्तः ।
अपसिद्धान्तश्च अधिकः ।
द्वितीयं दूषयतिनचेति ।
अन्ययोः परपुरुषादिवर्तिनोरनुमानागमयोरमानता ।
पूर्ववदाश्रयाद्यसिद्धेः ।
तत्साधकाङ्गीकारे च व्याघातादिति भावः ।
७,२२२फ़्.
नन्वर्थसन्निकृष्टकरणजन्यत्वात्प्रत्यक्षं प्रमाणम् ।
अनुमानागमयोरतीतादिकमपि विषयीकुर्वतोस्तदभावात्कथं प्रामाण्यमिति ।
किं याथार्थ्यमेव प्रामाण्यं तन्नियामकश्च सन्निकर्षः अन्यथातिप्रसङ्गादित्यभिप्रायः उत विषयसन्निकृष्टकरणजन्यत्वं प्रामाण्यमिति ।
आद्ये ऽपि किं यथाकथञ्चित्सन्निकर्षो नियामकः उत संयोग एव ।
आद्यं दूषयतिनचेति ।
एवं तर्ह्यन्ययोरनुमानागमयोरमानता नास्ति ।
अविनाभावादिसन्निकर्षस्य तत्रापि सत्त्वादिति भावः ।
द्वितीये दोषमाहक्वापीति ।
क्वापि प्रमाणे चाक्षुषे श्रावणे च ।
नावसीयते नाभ्युपगम्यते ऽर्थसंयुक्तकरणजन्यता ।
परेण गोलका(द्य)तिरिक्तस्य चक्षुरादेरनभ्युपगमात् ।
तदात्मकस्य चार्थसंयोगाभावात् ।
ततः प्रत्यक्षस्यापि कस्यचित्प्रामाण्यं न स्यादिति ।
द्वितीयं दूषयतिनचेति ।
याथार्थ्यादन्या अर्थसन्निकृष्टकरणजन्यतालक्षणा मानता न वक्तव्या ।
कुत इत्यत आहक्वापीति ।
पूर्ववच्चाक्षुषादावव्याप्तेरिति भावः ।
उपलक्षणं चैतत् ।
विपर्ययादावतिव्याप्तिश्चेत्यपि द्रष्टव्यम् ।
याथार्थ्ये सतीदं लक्षणमिति चेत् ।
तर्हि तदेवास्तु किं विशेष्येण ।
अनुमानादिव्यावृत्त्यर्थमिति चेन्न ।
तदप्रामाण्यस्याद्याप्यसिद्धेरित्याहनचेति ।
ननु वेदाद्यर्थस्यानुपम्भबाधितत्वात्कथं तत्प्रामाण्यमिति चेन्न ।
वेदादिनैवोपलब्धेः ।
तदन्येन नोपलभ्यत इति चेत् ।
तत्किं प्रमाणान्तरसंवादित्वं प्रामाण्यम् ।
अद्धेति चेत्तत्राहनचेति ।
प्रमाणान्तरसंवादलक्षणा मानता नेत्यर्थः ।
कुतो नेत्यत आहक्वापीति ।
अनवस्थाप्रसङ्गात् क्वापि प्रमाणे नावसीयते ।
यतः यद्वा क्वापि स्वसुखादिज्ञाने प्रमा(ण)णे संवाद एव नावसीयते इति योज्यमित्यलम् ।
७,२२५
सूत्रार्थमुपसंहरति स्वमतेनेति ।
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः । मनुव्_२,२.४४च्द् ।
न्यायसुधा-
स्वसम्मत्यैव अर्थरहितो विषयप्रयोजनरहितः ।
ईदृशः ईश्वराद्यतीन्द्रियानभ्युपगमलक्ष्णः ।
। इति श्रीमन्न्यायसुधायां अभ्युपगमाधिकरणम् ।


__
७,२२६