। अथ श्रीमन्न्यायसुधायां अन्यत्राभावाधिकरणम् ।
अन्यत्राभावाच् च न तृणादिवत् । ब्ब्स्_२,२.५ ।
। ओं अन्यत्राभावाच्च न तृणादिवत् ओं ।
इदं सूत्रं केचिदित्थं व्याचक्षते ।
यथा तृणपल्लवादिकं गवादिनोपभुक्तं स्वयमेव क्षीरीभवति ।
एवं प्रधानं स्वयमेव महदादिरूपेण परिणमत इत्याशङ्का किलात्र निरस्यते ।
न तृणादिवत्स्वयमेव प्रधानस्य परिणामो वक्तव्यः ।
यतस्तृणादीनामपि स्वयमेव परिणामो नास्ति ।
कुतः ।
अन्यत्रानडुहोपभुक्ते तदभावादिति ।
अत्राशङ्कैव तावदनुपपन्ना ।
पयो ऽम्बुवच्चेत्तत्रापीत्यनेनैव परिहृतत्वात् ।
प्रत्युदाहरणं च सूत्रप्रणयनायोगात् ।
परिहारो ऽप्ययमनुपपन्नः ।
गवाद्युपभुक्तस्यैव क्षीरत्वं नान्यत्रेति हि वदता प्रकृतेः सहकारिसद्भावमात्रमुपपादितं स्यात् ।
न पुनरीश्वरापेक्षत्वम् ।
अतो नायं सूत्रार्थः ।
किन्तु पातञ्जलमतमत्राधिकरणे निराक्रियत इत्याशयवांस्तदुपन्यस्यतिसाङ्खयानामिति ।
साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।
अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः । मनुव्_२,२.३१ ।
न्यायसुधा-
साङ्खयमतस्य निरस्तत्वात्किं पुनरुपन्यासेनेत्यतो ऽस्य मतस्य ततो विशेषं तुशब्देन सूचयति ।
तमेव विशेषं व्यनक्तिसेश्वर इति ।
सेश्वरश्चेन्न निराकार्यो विरोधाभावादित्यत उक्तङ्क्षेत्रेति ।
तुशब्दो ऽवधारणार्थो ऽत्राप्यन्वीयते ।
यद्यपि सेश्वर इत्यनेनैवेश्वरो ऽस्तीति ब्रूत इति सिद्धम् ।
तथापि तदनुवादेन विशेषणविधानमेवैतत् ।
य ईश्वरो ऽस्ति स क्षेत्रानुग्रहशक्तिमानेवेति ब्रूत इति ।
क्षियन्त्यस्मिन्कार्याण्यव्यक्ततयेति क्षेत्रमुपादानं प्रकृतिः ।
तदनुग्रहशक्तिरेवेश्वरस्य तेनाभ्युपगम्यते ।
अतो निराकरणीय एवासाविति ।
सर्वशक्तित्वाभावे किं तस्येश्वरत्वमित्यत उक्तम्स्वयम्भात इति ।
स्वयमिन्द्रियाद्यनपेक्षमेव भातः ।
कर्तरि क्तः ।
ततश्च सर्वज्ञ इति लभ्यते ।
ईश्वरत्वोपपादकं विशेषणान्तरमाहक्लेशेति ।
क्लेशकर्मविपाकाशयवर्जित इत्यर्थः ।
तथाचाह पतञ्जलिः ।
‘क्लेशकर्मविपाकशयैरपरामृष्टः पुरुषविशेष ईश्वरः’ इति ।
तथा’निर्माणकायमधिष्ठाय सम्प्रदायप्रवर्तको ऽनुग्राहकश्च’ इति ।
तत्राविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ।
अनात्मन्यात्मबुद्धिरविद्या ।
इदं मदीयमित्यभिमानो ऽस्मिता ।
विषयेष्वासक्ती रागः ।
कोपो द्वेषः ।
भयमभिनिवेशः ।
एत एव पञ्च क्लेशास्तन्त्रान्तरे तमो मोहो महामोहाः तामिस्रो ऽन्धतामिस्र इति व्यवह्रियन्ते ।
वार्षगण्यस्त्वेनानविद्येत्येवाह ।
कर्मेति
विधिनिषेधावुच्येते ।
आशयशब्देन धर्माधर्मौ ।
विपाक इति तत्फलं सुखदुःखे तदुपायश्चेति ।
इतिशब्दस्य आगामिनः प्रतिवाक्यं सम्बन्धः ।
७,१८५
वेदवादविरोधं स्फुटीकर्तुमवधारणव्यावर्त्यमाहक्षेत्रेति ।
क्षेत्रशक्तिमती सैव प्रकृतिर् … । मनुव्_२,२.३२अब् ।
न्यायसुधा-
या जगदुपादानं सा प्रकृतिरेवोपादानत्वशक्तिमती ब्रूते ।
न पुनर्वेदवादिन इव तामपि शक्तिमीश्वरायत्ताम् ।
व्यावर्त्यान्तरमाहबीजेति ।
… बीजशक्तिमान् ।
जीवः पर्जन्यवद् … । मनुव्_२,२.३२ब्च् ।
न्यायसुधा-
अत्राप्येवेति सम्बद्धयते ।
शरीरेन्द्रियादिसम्बन्धेनोत्पत्तौ या शक्तिः सा बीजशक्तिः ।
जीव एव तद्वानिति ब्रूते ।
नतु तदीयां बीजशक्तिं तत्त्व(वादिन)विद इव भगवदधीनाम् ।
यद्युपादानत्वोत्पत्तिशक्तिमत्त्वं प्रकृतिपुरुषयोरेव तदा किमीश्वरेणानुग्राहकेणेत्यत आहपर्जन्यवदिति ।
यथा हि पृथिव्याः कलमादिबीजानां चोपादानत्वबीजत्वशक्ती यद्यपि स्वायत्ते ।
तथाप्यङ्कुरोत्पत्तौ पर्जन्यस्यास्ति पृथिव्यनु(ग्रहकारक)ग्राहकत्वम् ।
तथा प्रकृतिपुरुषयोः स्वायत्तशक्तित्वे ऽपीश्वरः प्रकृत्यनुग्रहशक्तिमानङ्गीकरणीयः ।
तत्किं पर्जन्यवदन्वयव्यतिरेकाभ्यामीश्वरस्य प्रकृत्यनुग्राहकत्वमवसेयं नेत्याहदैवेति ।
… दैवशक्तिमानीश्वरः स्मृतः । मनुव्_२,२.३२च्द् ।
न्यायसुधा-
दैवशब्दो ऽदृष्टस्वरूपत्वमाह ।
तेनान्वयव्यतिरेकाविषयत्वं लक्षयति ।
तत्किं निष्प्रमाणक एवेश्वरः प्रकृत्यनुग्राहको ऽङ्गीकरणीय इत्यत उक्तम्स्मृत इति ।
‘मायाध्यक्षेण प्रकृतिः सूयते सचराचरम्’ इत्यादाविति शेषः ।
स्मृत इत्युपलक्षणम् ।
श्रुत इत्यपि ग्राह्यम् ।
प्रकृतिपुरुषयोः स्वायत्तशक्तित्वं कुत इत्यत आहपृथिवीवदिति ।
७,१८६
पृथिवीवत् प्रधानं तज् … । मनुव्_२,२.३३अ ।
न्यायसुधा-
यथा पृथिव्याः स्वायत्तोपादनत्वशक्तिः तथा तत् तस्मादुपादानत्वात्प्रधानमपि स्वायत्तोपादानत्वशक्तिमदनुमेयमित्यर्थः ।
उपलक्षणं चैतत् ।
कलमादिबीजवद्बीजत्वाज्जीवो ऽपि स्वायत्तबीजशक्तिमाननुमातव्य इत्यपि द्रष्टव्यम् ।
७,१८७
ननु यथा लोके कलमादिबीजानां कश्चिदावपनकर्तास्ति ।
तथात्रापि तत्स्थानीयेन केनापि भाव्यम् ।
नचासावन्यो ऽस्ति परमेश्वरात् ।
तत्कथं क्षेत्रानुग्रहशक्तिमानेवेश्वर इत्यत आहजीव इति ।
… जीवः सन्निधिमात्रतः ।
बीजावपनकर्तेवेत्य् … । मनुव्_२,२.३३ब्च् ।
न्यायसुधा-
दृश्यते खल्वपत्यजीवो बीजभूतः ।
पितृजीवश्चावपनकर्तृस्थानीयः ।
तस्मात्किमीश्वरस्य तच्छक्तिकल्पनया ।
विषयोत्पत्तौ तु तदपेक्षैव नास्तीति भावः ।
नन्वेवं पितृजीवस्यापत्योत्पादकत्वाङ्गीकारे ऽपसिद्धान्तः स्यात् ।
साङ्खयैर्जीवस्य कर्तृत्वानभ्युपगमादित्यत उक्तम्सन्निधिमात्रत इति ।
शरीरादिरूपा प्रकृतिरेवापत्यो(त्पत्ति)त्पादकत्री ।
तत्सन्निधिनिमित्ताद्विवेकाग्रहाज्जीवे तत्कर्तृत्वव्यवहार एवेति ब्रूत इति ।
७,१८८
एवमुप्यस्तमतनिरासार्थं सूत्रमवतारयतिअत्रेति ।
… अत्र प्राह प्रभुः स्वयम् । मनुव्_२,२.३३द् ।
न्यायसुधा-
अत्रैतन्मतविषये दूषणं प्राहेत्यथर्ः ।
स्वयं साक्षान्नोपचारेण ।
प्रभुरिति सूत्रकृतो दूषणसामर्थ्यमाचष्टे ।
सूत्रं व्याचष्टेअन्यत्रेति ।
अन्यत्र कापि शक्तिर्न स्वातन्त्र्येण्[अ] … । मनुव्_२,२.३४अब् ।
न्यायसुधा-
अन्यत्र प्रकृतौ पुरुषे ।
तथा पृथिव्यां कलमादिबीजे च ।
कापीति क्षेत्रशक्तिर्बीजशक्तिर्बीजावपनशक्तिश्चेत्यर्थः ।
कथं तर्ह्युपादानत्वादिकमित्यत उक्तम्स्वातन्त्र्येणेति ।
कुतो नास्तीत्यत आहईशेति ।
… [ई]श एव हि ।
शक्तीस्ताः प्रेरयत्यञ्जस् … । मनुव्_२,२.३४ब्च् ।
न्यायसुधा-
यस्मादीश एव ताः प्रधानादिशक्तीः प्रेरयतीति श्रुत्यादिप्रसिद्धम् ।
तस्मादन्यत्र कापि शक्तिः स्वातन्त्र्येण नास्तीति ।
नच प्रधानादिवदीश्वरस्यापि प्रेरणाशक्तिः परायत्तेत्युक्तम्अञ्ज इति ।
क्रियाविशेषणमेतत् ।
७,१८९
तदनेन परकीयानुमानस्य बाधितविषयत्वं दृष्टान्तस्य च साध्यविकलत्वमुक्तं भवति ।
७,१९०
न केवलं प्रकृतिपुरुषयोः स्वातन्त्र्येण शक्त्यभावः परमेश्वरायत्तशक्तित्वं च ।
किं तर्हीत्यतश्चशब्दसमुच्चितमर्थमाहतदधीनाश्चेति ।
… तदधीनाश्च सर्वदा । मनुव्_२,२.३४द् ।
सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।
प्रवृत्तयश्च ताः सर्वा … । मनुव्_२,२.३५अच् ।
७,१९१
न्यायसुधा-
आद्यश्चशब्दः शक्तिप्रेरकत्वस्य सत्तादिप्रदत्वेन सह समुच्चयार्थः ।
उत्तरावन्योन्यसमुच्चये ।
प्रधानपुरुषयोस्तदीयानां शक्तीनां च, सत्ता स्वरूपं, प्रतीतयश्च प्रमाविषयत्वं चेति यावत्, तास्ताः सर्वाः प्रवृत्तयश्च सर्वदा तदधीना इति योजना ।
केचिन्मन्यन्ते स्वरूपमेव वस्तुनः सत्त्वमिति, अपरे तु प्रमाणयोग्यत्वम्, अन्ये पुनरर्थक्रियावत्त्वम् ।
तदिदं त्रयमपि प्रकृत्यादीनां भगवदधीनमेवेति ।
७,१९२
नन्वेतदयुक्तम् ।
प्रधानादिसत्तादेनिर्त्यत्वात् ।
नित्यस्य पराधीनतासम्भवादित्यत आहनित्यमिति ।
नित्यं नित्यात्मना यतः । मनुव्_२,२.३५द् ।
यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः ।
नियामयति नित्यं च … । मनुव्_२,२.३६अच् ।
न्यायसुधा-
यथानित्यं घटादिकमनित्यतया नियम्यते, तथा नित्यमपि नित्यात्मना नित्यं च सर्वदैवेश्वरो नियामयति ।
यत एवं तस्मादुक्तमुपपन्नमिति योजना ।
७,१९२फ़्.
एतदुक्तं भवति ।
यथा हि घटादयो ऽनित्य(त्त्व)स्वभावा अपि नाकस्मादनित्या भवन्ति ।
को दोषः ।
न चानित्यता पराधीनेति कदाचिद्घटादेनिर्त्यता प्राप्ता ।
विनाशकारणोपनिपातघ्रौव्यात् ।
तथा नित्यस्य नित्यतायाः पराधीनत्वे ऽत्रप न जात्वनित्यताप्रसक्तिः ।
तन्नियमननियमादिति ।
तदिदमुक्तम्नित्यं चेति ।
न चैतदलौकिकम् ।
नित्यकर्मभिर्दुरितप्रागभावानुवृत्तेः साध्यत्वेन वादिभिरभ्युपगतत्वात् ।
अनुवृत्तेर्नित्यतापादनानतिरेकात् ।
भवेदेतदे(वम)स्वरसनित्यस्य ।
न स्वरसनित्यस्येति चेन्न ।
ईश्वरातिरिक्तस्य तद्भावासम्मतेः ।
इयांस्तु विशेषः ।
किञ्चिदस्मदायत्तनित्यत्वम् ।
किञ्चिच्चेश्वरायत्तनित्यत्वमिति ।
तदप्यस्मासु कस्मान्नायतते तथाभूतं च कथमीश्वराधीनमित्यत उक्तम्नित्यशक्त्येति ।
प्रधानादिशक्तेः प्रकृतत्वात् तद्ग्रहणमिदमिति मन्दाशङ्कां वारयितुं स्वयेत्युक्तम् ।
७,१९५
यदुक्तं प्रधानादेरुपादानत्वादिशक्तिर्न स्वाधीना किन्त्वीश्वरप्रेरितैवेति ।
तत्कुत इत्यत आहनेति ।
‘न ऋते त्वत्क्रियते किञ्चनारे’ इति श्रुतेः ।
प्रागुक्तं प्रतिपत्तव्यमिति शेषः ।
शक्तिरेव हि क्रियोच्यते ।
यत्प्रधानादिसत्तादेर्भगवदधीनत्वमुक्तं तस्य सम्भावनैवोक्ता ।
प्रमाणं तु तत्र किमित्यत आहस्वभावेति ।
स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया । मनुव्_२,२.३७ ।
इति श्रुतेर्न सत्ताद्या अपि नारायणं विना । मनुव्_२,२.३८अब् ।
न्यायसुधा-
कर्मशब्देन धर्माधमर्व्यक्तयो गृह्यन्ते ।
क्रियाः परिस्पन्दाः ।
श्रुतिः वेदः ।
सन्तीति त्रिविधमपि सत्त्वं विवक्षितम् ।
सत्ताद्याः प्रधानादेः ।
नारायणं विना तत्प्रेरणां विना ।
७,१९७
तस्मादन्यत्रोपादानत्वादिशक्तेरभावात्, तत्सत्तादेरपीश्वरायत्तत्वाच्च, न, तृणादीनामुत्पत्तौ पर्जन्यस्येव पृथिव्यनुग्राहकत्वं, ईश्वरस्य
महदाद्युत्पत्तौ क्षेत्रानुग्राहकत्वमात्रम्, किन्तु सर्वस्वातन्त्र्यमेव, इति, यदन्यदभ्युपगतं पातञ्जलैर्वैदिकमतविरुद्धं, तत्सर्वं प्रथमाधिकरण एव
निरस्तम् ।
किं पुनः प्रयत्नेनेत्याशयवान्पूवर्मतेन सहैतस्य हेतामुपसंहरतितदिति ।
तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम् । मनुव्_२,२.३८च्द् ।
न्यायसुधा-
विन्ध्यो ऽनीश्वरः साङ्खयः ।
आदिपदेन तदेकदेशिनां पञ्चशिखेश्वरकृष्णादीनां ग्रहणम् ।
तदवान्तरमतयोरपि निरस्तत्वात् ।
यद्वा पतञ्जलिविन्ध्यावादी यस्य तत्तथोक्तम् ।
पतञ्जलिनाङ्गीकृतो ऽपीश्वरो अनी(निरी)श्वरकल्प एव ।
अतः पूर्वस्यास्य च साम्याभिप्रायेण वा सहोपसंहार इति ।
। इति श्रीमन्न्यायसुधायां अन्यत्राभावाधिकरणम् ।
__
७,१९९