११ रचनानुपपत्त्यधिकरण

। अथ श्रीमन्न्यायसुधायां रचनानुपपत्त्यधिकरणम् ।
७,१
सकलजगज्जन्मादिकारणे सकलगुणपरिपूर्णे समस्तावद्यगन्धविधुरे परे ब्रह्मणि विष्णौ समस्तश्रुतिसमन्वयो यः प्रथमाध्याये ऽभिहितः, तस्य
साङ्खयादिसमयविरोधेनान्यथात्वश(ङ्कायां तन्निराकरणार्थमयं)ङ्कां निवारयितुं द्वितीयपाद आरभ्यते ।
७,४
नन्वनारम्भणीय एवायं पादः ।
तथाहि साङ्खयादिमतानि किं स्मृतित्वेनोक्तार्थमन्यथमन्तीति शङ्कयते, किंवा युक्त्युपेततया, अथवा श्रुत्युपेततया, यद्वा प्रत्यक्षोपेततया ।
नाद्यः, प्रतिस्मृतिपराहतत्वेनाप्तिनिश्चायकाभावेन च तेषामपस्मृतित्वस्य प्रथमपादे समर्थितत्वात् ।
अत एव न चतुर्थः ।
न द्वितीयः ।
उक्तार्थविरुद्धानां सकलयुक्तीनामाभासत्वस्य तत्रैव व्युत्पादितत्वात् ।
प्रबलयुक्तिविरोधो ऽत्र निरस्यत इति चेन्न ।
प्राबल्यं हि युक्तीनां श्रुत्यादिप्रमाणमूलत्वेन, तत्संवादित्वेन (वा), बहुत्वेन वा स्यात् ।
सर्वथापि नाधिकाशङ्कावकाशः ।
श्रुत्यादिसंवादिनीनां तन्मूलानां बह्वीनां च युक्तीनां तत्रैव निराकृतत्वात् ।
काश्चिदेव तत्र निरस्ता न समस्ता इति चेन्न ।
सूत्राणामुपलक्षणार्थत्वात् ।
अन्यथा युक्त्याभासानामनन्तत्वेन अपर्यवसानं स्यात् ।
पादभेदश्चैवं सति न स्यात् ।
न तृतीयः, समस्तश्रुतीनां ब्रह्मणि समन्वयस्योक्तत्वात् ।
अत्र कश्चिदाह ।
स्वपक्षसादनपरपक्षप्रतिक्षेपाभ्यामेव निर्णयो भवति ।
तत्र प्रथमाध्याये स्वपक्षे प्रमाणमुक्तम् ।
तस्य युक्तिविरोधो द्वितीयस्य आद्यपादेन निरस्तः ।
एवं स्वपक्षस्थापने जाते परपक्षप्रतिक्षेपाथर्मयं वाद आरभ्यत इति ।
तदयुक्तम् ।
परपक्षप्रतिक्षेपो हि तदीयसाधननिरासादन्यो नास्ति ।
साधनानि च स्मृत्यादीन्येव ।
निरस्तानि च समस्तानि तानि प्रथमपाद इति किमस्य कृत्यम् ।
किञ्चैवं सति विरोधपरिहारो ऽध्यायार्थो न स्यादिति ।
अपर आह ।
उक्तार्थे स्मृतिन्यायविरोधो नास्तीति स्थापिते ऽप्यस्ति ब्रह्मणि समन्वयाभावशङ्का ।
कथम् ।
यद्यप्यनुमानं ब्रह्मणो जगत्कारणत्वमपबाधितुं नालम्, तथापि कारणान्तरं जगतो ऽवगमयितुमलम् ।
ततश्च वस्तुविकल्पानुपपत्तेरन्यतरपरिग्रहे हेत्वभावात् ब्रह्मैव जगत्कारणमिति न निश्चेतुं शक्यते, प्रत्युत
सर्वज्ञप्रणेतृकत्वेनानुमानस्योपबृंहितत्वात् प्रधानाद्येव जगत्कारणं न ब्रह्मेति बुद्धिः स्यात् ।
अतो न केवलं ब्रह्मणो जगत्कारणत्वमपबाधितुमनुमानं नोत्सहते ।
किन्तु कारणान्तरमप्यवगमयितुं नालमिति प्रदर्शनार्थं द्वितीयः पाद आरभ्यत इति ।
एतदप्युक्तम् ।
तथाहि ।
किमनेनोक्तं स्यात् ।
यदि, प्राक् स्वाभिमतार्थे युक्तिविरोधपरिहारेण स्वपक्षस्थपाना विहिता, इदानीं परपक्षप्रतिक्षेपो विधीयत इति ।
तदोक्तमेवोत्तरम् ।
अथ युक्तिविरोधपरिहार एव पादद्वयार्थः, किन्तु स्वपक्षविरोधियुक्तिनिराकरणं प्रथमे, द्वितीये तु परपक्षसाधकयुक्तिनिराकरणमिति, तन्न ।
न्यायसाम्येन तासामपि शक्यनिराकरणत्वात् (सार्वज्ञं) सर्वज्ञत्वं च प्रणेतॄणां प्रागेव निरस्तम् ।
७,५
अतो नायं पाद आरम्भणीय इत्यत आहस्मृतीति ।
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।
एवं चतुर्विधा नैव विरुद्धयन्ते ऽन्वयं प्रति । मनुव्_२,२.१ ।
इति प्रथमपादेन निर्णीते ऽप्यभियोगतः ।
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः । मनुव्_२,२.२ ।
न्यायसुधा-
श्रुतयो गुरा उपसर्जना(नि) यासां तास्तथोक्ताः ।
चतुर्विधा विरोधिप्रतीतयः ।
अन्वयं प्रति न विरुद्धयन्ते इति श्रुतिसमन्वयसिद्धमर्थं नान्यथयितुं शक्नुवन्तीत्यर्थः ।
अभियोग आग्रहः ।
दृश्यते प्रमेयमेभिरिति दर्शनानि साङ्खयादिशास्त्राणि ।
एतदुक्तं भवति ।
यद्यपि परमतसाधकानामस्मन्मतबाधकानां च स्मृत्यादीनामाभासत्वव्युत्पादनेन स्पपरपक्षसाधनोपालम्भौ कृतावेवेति परमार्थः ।
तथाप्युक्ते ऽर्थे पुनः पुरुषस्य आशङ्का भवत्येव, किमेतदेवमन्यथा वेति ।
कस्मात् ।
अभियोगतो (दर्शनानां) मतानां प्रवृत्तत्वात् तदुपलम्भादिति ।
७,१०
ननु च श्रुतयस्तावदपौरुषेयतयानाशङ्कितदोषाः बहुल(प्रबल)युक्तिभिश्चानुसंहितार्था निरस्तसमस्तप्रतिपक्षाश्च ।
तत्कथं तत्समन्वयसिद्धे ऽर्थे ऽभियोगप्रवृत्तदर्शनोपलम्भमात्रेणान्यथात्वशङ्का स्यात् ।
अतिप्रसङ्गात् ।
नन्वत एवोक्तं मन्द इति ।
मैवम् ।
प्राप्तिमनालोच्य शङ्कमानस्याविचिकित्सितशङ्कस्य शास्त्रे ऽनधिकारादित्यतो ऽभियोगतो दर्शनानां प्रवृत्तत्वादित्युक्तशङ्काकारणं
विवृणोतिअनादीति ।
अनादिकालतो वृत्ताः समया हि प्रवाहतः ।
नचोच्छेदो ऽस्ति कस्यापि समयस्येत् … । मनुव्_२,२.३ ।
७,११
न्यायसुधा-
कपिलकणादादीनां प्रणेतॄणां स्मरणात्कथमनादित्वमित्यत उक्तम्प्रवाहत इति ।
कपिलादयो हि पूर्वैः प्रणीतान्येव शास्त्राणि कालबलादुत्सन्नानि स्व(तपः)प्रभावादिनावगम्य प्रबन्धान्तररचनया प्रवर्तयन्ति ।
एवं पूर्वे ऽपि पूर्वतरैरित्येवं प्रवाहतो ऽनादित्वाददोषः ।
तथैव च स्मरणानीति ।
इति हेतोराशङ्कित इति पूर्वेण सम्बन्धः ।
इदमुक्तं भवति ।
करणदोषबाधकप्रत्ययवशादेव ह्यप्रामाण्यं कल्पनीयम् ।
अन्यथा अतिप्रसङ्गात् ।
तत्र यता श्रुतीनामनादित्वात्करणदोषाभावः, तथा समयानामपि ।
स्वरूपानादित्वं प्रवाहानादित्वमिति तु वैषम्यमात्रम् ।
पुरुषदोषसञ्चाराभावस्योभयत्रापि साम्यात् ।
यथा चानुच्छेदेनानुवृत्तेः श्रुतीनां बाधकाभावः, एवं समयानामपि ।
यदि करणदोषबादकप्रत्ययोपेताः स्युः तदोन्मत्तवाक्यवदिदम्प्रथमाः समुच्छेदवन्तश्च स्युः ।
नचैवम् ।
अतः कथमप्रामाण्यमश्नुवते ।
यथा च श्रुतयो बलवद्युक्त्यनुसंहितार्था एवं समया अपि ।
नच तासामाभासत्वमुक्तमिति वाच्यम् ।
सर्वेषां तदनुवर्तिनामस्माभिरनवगतत्वेन तत्परिहारसम्भावनात् ।
एवमेवाप्रतिपक्षत्वं श्रुतीनामिव समयानां सम्भावितम् ।
कथमन्यथा सूत्रकृदेकधुरीणाः शौद्धोदनिप्रभृतयो ऽभियोगतस्तान्प्रवर्तयेयुः, कथं च प्रेक्षावन्तो ऽनेके ऽभियोगेनैवोपाददीरन् ।
तदेवं श्रुतितुल्य(समान)योगक्षेमतां समयानां मन्यमानस्य स्यादेवोक्तार्थे सन्देह इति ।
७,१७
नन्वेवं सति परस्परविरुद्धानामनेकेषां प्रामाण्यं तावन्न सम्भवति, वस्तुविकल्पापत्तेः ।
तथाचावश्याश्रयणीये कस्यचिदेव प्रामाण्ये अनादिकालतो ऽनुवृत्तत्वादेः अन्येष्वन्यथासिद्धौ सर्वथा कल्पनीयायाम्’इतरेषां चानुपलब्धेः’
इत्युक्तदिशा साङ्खयादिसमयानाम् अप्रामाण्यं कल्पयितुं शक्यत एव, तत्कथं श्रुतिसमन्वयसिद्धे ऽर्थे पुनः शङ्केति ।
उच्यते ।
यो हि इतरेषां चानुपलब्धेः’ इति सङ्क्षेपेणोदितं न्यायं पर(परि)कल्पितेषु प्रमेयविशेषेषूत्प्रेक्षितुं क्षमते, तं प्रत्येवमेतत् ।
यस्त्वेवं न क्षमः स यावदयं सङ्क्षेपो न प्रपञ्च्यते तावदन्यपरित्यागेनैकग्रहणस्यानीशानः शङ्केतैव ।
नचैवं शास्त्रे नाधिक्रियेत ।
सङ्ग्रहप्रपञ्चोच्छेदप्रसङ्गात् ।
तदिदमुक्तं मन्द आशङ्कत इति ।
किमतो यद्येवमित्यत आहअत इति ।
अतो विभुः । मनुव्_२,२.३द् ।
भ्रान्तिमूलत्वमेतेषां पृथग् दर्शयति स्फुटम् । मनुव्_२,२.४अब् ।
न्यायसुधा-
भ्रान्तिपदं विप्रलम्भस्याप्युपलक्षणम् ।
पृथक् विस्तरेण ।
स्फुटम् सुबोधम् ।
तत्तत्समयोक्तार्थानामप्रामाणिकत्वं प्रमाणविरुद्धत्वं (च) प्राक् सङ्क्षेपेणास्फुटं चोक्तं, अत्र विस्तरेण स्फुटं दर्शयंस्तेषां भ्रान्त्यादिमूलत्वं
ज्ञापयतीत्यर्थः ।
एतेन पूर्वपादेनास्य पादस्य प्रपञ्च्यप्रपञ्चकभावलक्षणा सङ्गतिः, प्रपञ्चने प्रयोजनं चोक्तं भवति ।
तदिदमुक्तमितरेषामित्यादि भाष्येण ।
७,१९
नन्वेतदशक्यं तैः स्वप्रमेयाणां दृढतर्कागमसाधितत्वात् परकीयतर्कादेनिरस्तत्वादित्यत आहतर्कैरिति ।
तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम् । मनुव्_२,२.४च्द् ।
७,१९फ़्.
न्यायसुधा-
तर्कशब्दः सोपस्क(स्का)रानुमानार्थः ।
दृढतमैः परकीयतर्कबाधकैः तदबाध्यैः (च) वाक्यैश्च दृढतरै(मै)रिति सम्बद्धयते ।
पूर्वेण सम्बन्धः (अन्वयः) ।
वेदादिवाक्यानां प्रामाण्यमनभ्युपगच्छन्तं प्रति कथं तदुपन्यास इत्यत उक्तम्आगमवादिनामिति ।
आगमस्य वेदादेः प्रामाण्यमभ्युपगच्छतां पुंसां समयानामिति सम्बन्धः ।
यद्वा स्वागमप्रामाण्यवादिनामित्यर्थः ।
ततश्च स्वागमप्रामाण्याभ्युपगमन्यायेन वेदादेरपि प्रामाण्यं तैरङ्गीकार्यमिति(रयित्वेतिर् (येति) भावः ।
अथवाऽगमस्य वेदादेः प्रामाण्यवादिनां शिष्याणां व्यपेक्षयेति शेषः ।
तथाच बौद्धाधिकरणान्तेन न विरोधः ।
यद्यप्येतदनुपदमेव प्रदर्शयिष्यते, तथापि श्रोतृमनःसमाधानार्थमुक्तमिति ।
७,२१
ननु चानाद्यनन्तकाले ऽनुच्छेदेन प्रवर्तमानानां समयानां न भ्रान्त्यादिमूलत्वमुचितम् ।
नहि तथाविधस्योन्मत्तवाक्यादेरनाद्यन्तकाले ऽनुवृत्तिरस्ति ।
तदयं प्रयोगः ।
साङ्खयादिसमयाः प्रमाणभूता, न भ्रान्त्यादि(न्ति)मूला वा, सर्वदानुवर्तमानत्वात्, महाजनपरिगृहीतत्वात्(वा), वेदवदिति ।
तथाच वक्ष्यमाणस्य तर्कादेर्बाधितविषयत्वमिति ।
मैवम् ।
किमत्र सर्वेषामपि समयानां प्रामाण्यादिकं साध्यमुतैकस्य ।
नाद्यः ।
परस्परविरुद्धानां प्रामाण्यादिसाधने वस्तुविकल्पापत्त्या बाधितविषयत्वात् ।
परस्परप्रतिक्षेपरूपत्वेन सत्प्रतिपक्षत्वाच्च ।
न द्वितीयः ।
पक्षीकृतादन्यस्य प्रामाण्याद्यभ्युपगमे प्रगुक्तदोषानुषङ्गात् ।
अनभ्युपगमे तत्रैव व्यभिचारात् ।
वेदप्रामाण्याद्यभ्युपगमे प्रतिज्ञातार्थानुपपत्तिः ।
अनभ्युपगमे च दृष्टान्तदोषः ।
भवेदेवम् ।
भ्रान्त्यादिमूलत्वे समाने सत्युन्मत्तवाक्ये ऽविद्यमानां अनाद्यनन्तकालानुवृत्तिरेतेषामेव तर्हि किन्निमित्तेति सुहृद्भावेन पृच्छन्तं
प्रत्याहदौर्लभ्यादिति ।
७,२२
दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ।
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः । मनुव्_२,२.५अद् ।
न्यायसुधा-
समयप्रवर्तकानां पुंसां दुराग्रहगृहीतत्वाद्वर्तन्ते समयाः सदा ।
नैक्यमुन्मत्तवाक्ये विद्यते ।
नन्वाग्रहे ऽपि किं कारणमित्यत उक्तम्विद्वेषादिति ।
विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम् । मनुव्_२,२.५एफ़् ।
न्यायसुधा-
तर्हि द्वेषोत्पत्त्यनन्तरं प्रवर्तताम् ।
कथं सदा इत्यत उक्तम्अनिशमिति ।
ननु पुरुषार्थकामाः कथं (वि)द्वेषनिमित्तादाग्रहादन्यायं प्रवर्तयन्तीत्यत उक्तम्अनादीति ।
अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद् वर्तन्ते समयाः सदा । मनुव्_२,२.६ ।
न्यायसुधा-
वासनावशात्तेभ्यस्तदेव रोचयत इति भावः ।
नन्वनादिवासनापि बलवत्प्रयत्नेन कुतो न निवर्तत इत्यत उक्तम्असुराणामिति ।
विपरीतप्रयत्नादिप्रेरकाणां बुद्धयाद्यभिमानिनामिति शेषः ।
७,२४
ननु साधूनां विदुषां निवारणात्कुतो न निवर्तन्त इत्यत उक्तम्दौर्लभ्यादिति ।
अल्पवेदिनां भ्रमाधिष्ठानस्वरूपमात्रविदां समयप्रवर्तकानाम् ।
तर्हि राजादिर्लोको निवारयिष्यति इत्यत उक्तम्तामसत्वादिति ।
तत एव कुपण्डितनिमित्तमिथ्याज्ञानप्रसक्तिश्च ।
न चैतानि कारणानि स्वरूपतो ऽप्यनादौ वेदे सम्भवन्तीति ।
यद्यप्येतत्पादान्ते वक्तव्यम्, तथाप्यत्र प्रसङ्गा(दा)गतं बुद्धिसमाधानायोक्तमिति ।
७,२५
यद्येवं तर्ह्येतेषां सुदृढनिरूढानां समयानां सर्वथोत्सादनस्याशक्यत्वाद्वयर्थेयं निराकृतिरित्यत आहतथापीति ।
तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
युयुक्तयस्तमो हन्युरागमानुगताः सदा । मनुव्_२,२.७ ।
इति विद्यापतिः सम्यक् समयानां निराकृतिम् ।
चकार … । मनुव्_२,२.८अच् ।
न्यायसुधा-
यद्यपि कुसुमया न सर्वथा समुच्छेद्याः तथापि ।
तमः अज्ञानम् ।
सुयुक्तित्वस्य विवरणं सदाऽगमानुगता इति ।
प्रमाणगृहीतव्याप्त्यादियुक्ताः तत्संवादयुक्ताश्च ।
इति इत्येवमर्थम् ।
एतदुक्तं भवति ।
न साङ्खयादिसमयसमुच्छेदार्थो ऽयं प्रयत्नः, येनोक्तदोषः स्यात् ।
किन्नाम केषाञ्चित्पुंसां तैस्तैः समयैराहिता(न)ज्ञानसंशयविपर्ययान् आगमसहिताभिर्युक्तिभिः तत्त्वज्ञानमुत्पाद्य अपनेतुमिति ।
७,२५फ़्.
नन्वेतदप्ययुक्तम् ।
अतिनिरूढनिबिडवासनानुबद्धमनाद्यज्ञानम् इदानीमेवोत्पन्नेन तत्त्वज्ञानेनापनीयत इति ।
किन्तु तत्त्वज्ञानं परिभूय स्ववासनावशात्पुनरुद्भवति ।
प्रवर्तयति च स्वोचितं कार्यमित्यत उक्तम्शुद्धबुद्धीनामिति ।
यथार्थज्ञानस्वभावानां मोक्षयोग्यानाम् ।
अयं भावः ।
वक्ष्यते हि केचन चेतना मोक्षयोग्याः केचन नेति ।
तत्र नायोग्यानामज्ञानमपनेतुमयरम्भः, किन्तु योग्यानामेव ।
तेच विशुद्धविज्ञानस्वभावाः ।
तथाच प्रमाणैरिदानीमेवोत्पन्नमपीदं मनोवृत्तित्वं तत्त्वज्ञानमन्तरङ्गभूतेन
विशुद्धस्वरूपज्ञानेनोपोद्बलितं सत् बहिरङ्गमनाद्यपि सवासनमज्ञानं समूलघातं हन्ति ।
स्वभावस्य सर्वतो ऽपि बलवत्त्वात् ।
नचैवं प्रमाणवैयर्थ्यम् ।
स्वभावस्य बाह्यप्रयत्नसचिवस्यैव कार्यकारित्वात् ।
यथोक्तम्’विना यत्नं न हठो नापि कर्म’ इति ।
किञ्च सर्वतो ऽपि बलीयानीश्वरानुग्रह इति तावत्सुप्रसिद्धम् ।
अस्ति चासौ मोक्षयोग्येषु (जीवेषु) अनादित इति वक्ष्यते ।
तथाच तत्सचिवमिदं वृत्तिज्ञानमज्ञानमतिनिरूढनिबिडवासनानुबद्धमनाद्यपि समूलकाषं कषत्येव ।
अतो न व्यर्थेयं समयानां निराक्रियेति भावेनोक्तम्ईशानुग्रहयोगिनामिति ।
नचैवं तत एवाविद्यानिवृत्तिर्भविष्यति किं तत्त्वज्ञानेनेति वाच्यम् ।
ईश्वरानुग्रहस्य पुरुषप्रयत्नानुसारेणैव फलजननस्वाभाव्यात् ।
तथाचोक्तम्’फलप्रदो वासुदेवः अखिलस्य’ इति ।
अखिलस्य योग्यताकमर्प्रयत्नसाकल्यस्य न पुनरेकैकस्येत्यर्थः ।
७,३०
यद्येवं साधूनां कुसुमयाहितमज्ञानमपनेतुं भगवान्समयानां निराकृतिं चकार, तदेयं ब्रह्मादिभिरनादर्तव्या स्यात् ।
तेषु कुसुमयैरज्ञानस्यानाहितत्वेन प्रयोजनाभावात् ।
तथाच’एवंविधानि सूत्राणि कृत्वा’ इत्यागमविरोध इत्यत आहनिजेति ।
… निजभक्तानां बुद्धिशाणत्वसिद्धये । मनुव्_२,२.८च्द् ।
न्यायसुधा-
कुसुमयैरनाहिताज्ञानानां ब्रह्मादीनां बुद्धिं युक्तीनां शाणत्वसिद्धये युक्तिशाणेन ज्ञानासेः अतिनैशित्यसिद्धयर्थमिति यावत् ।
पूर्वेणैव सम्बन्धः ।
कुसुमया(हिता)ज्ञाननिरसनप्रयोजनाभावे ऽपि ज्ञानवैशद्यप्रयोजनस्य विद्यमानत्वात्तैरिदमादरणीयमिति भावः ।
। ओं रचनानुपपत्तेश्च नानुमानम् ओं ।
तदेवं समर्थितः पादारम्भः ।
तत्राद्याधिकरणे निरीश्वरसाङ्खयानां निराक्रियते ।
नच तत्स्वरूपाज्ञाने दूषणं सुबोधं भवति इत्यतः तन्मतस्थितिं तावद्दर्शयतिचेतनेति ।
रचनानुपपत्तेश् च नानुमानं । ब्ब्स्_२,२.१ ।
चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस् … । मनुव्_२,२.९अच् ।
७,३२
न्यायसुधा-
चेतनमचेतनं चेति द्वन्द्वैकवद्भावः ।
आहुः सङ्खया इति शेषः ।
ननु च विधान्तरासम्भवात्प्रामाणिकैस्तत्त्वद्वयमेव वक्तव्यम्, तत्किं तेषां वैषम्यमुच्यत इत्यत उक्तम्निरीश्वर इति ।
ईश्वरमनभ्युपगम्य जीवजडात्मकं तत्त्वद्वयमेवाहुरित्यर्थः ।
७,३२फ़्.
ननु साङ्खया मन्यन्ते ।
सङ्क्षेपतस्तत्त्वस्य चतस्रो विधाः ।
कश्चिदर्थः प्रकृतिरेव ।
कश्चिदर्थो विकृतिरेव ।
कश्चित्प्रकृतिविकृतिः ।
कश्चितनुभयः ।
तत्र सत्त्वरजस्तमसां साम्यावस्था प्रधानं प्रकृतिरेव ।
सा हि विश्वस्य कार्यस्य मूलम् ।
न त्वस्या मूलान्तरमस्ति ।
महदहङ्कारतन्मात्राः सप्त प्रकृतिविकृतयः ।
प्रकृतयो विकृतयश्चेति ।
तथाहि ।
महत्तत्त्वमहङ्कारस्य प्रकृतिः विकृतिश्च मूलप्रकृतेः ।
एवमहङ्कारतत्त्वं तन्मात्राणामिन्द्रियाणां च प्रकृतिः विकृतिश्च महतः ।
एवं पञ्च तन्मात्राणि (तत्त्वानि) भूतानामाकाशादीनां प्रकृतयो, विकृतयश्च अहङ्कारस्येति ।
पञ्च भूतान्येकादशेन्द्रियाणीति षोडशको गणो विकृतिरेव ।
यद्यपि पृथिव्यादीनामपि गोघटवृक्षादयो विकाराः, एवं तद्विकारभेदाः पयोबीजादयः, तेषां दध्यङ्कुरादयः ।
तथापि गवादयो बीजादयो वा न पृथिव्यादिभ्यस्तत्त्वान्तरम् ।
स्थूलतेन्द्रियग्राह्यतासाम्यात् ।
तत्त्वोपादानत्वं च प्रकृतित्वमिह विवक्षितमिति ।
पुरुषस्त्वनुभयो न प्रकृतिर्नापि विकृतिः ।
तदेवं विस्तरतः पञ्चविंशति तत्त्वानि ।
यथोक्तम् ।
‘मूलप्रकृतिविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकस्तु विकारो न पृकृतिर्न विकृतिः पुरुषः’ इति ।
तत्कथमुच्यते तत्त्वद्वयमेवाहुरिति, आहतदिति ।
… तत् पञ्चपञ्चत्वविभागस्थमचेतनम् ।
चेतनं … । मनुव्_२,२.९च्ए ।
न्यायसुधा-
पञ्च च ते पञ्चतश्च (पञ्चपञ्चतः) तेषां भावः पञ्चपञ्चत्वम् ।
स चासौ विभागश्च ।
तेनोपलक्षितं तिष्ठतीति पञ्चपञ्चत्वविभागस्थम् ।
तत् चेतनमचेतनं च तत्त्वद्वयमेव, सङ्क्षेपतः चतुर्विधम्, विस्तरतः पञ्चविंशतिप्रभेदमाहुरित्यतो न विरोधः ।
ननु चेतनमचेतनं चासङ्खयातं प्रत्यक्षादिप्रमाणैरुपलभमानाः कथमेवमाहुरित्यत आहतदिति ।
… तदसङ्खयातं … । मनुव्_२,२.९ए ।
न्यायसुधा-
तदित्युभयपरामर्शः ।
उपाधिक्रोडीकारेण पञ्चविंशतिप्रभेदं वदन्तो ऽप्यवान्तरभेदेन तत्त्वद्वयमसङ्खयातमाहुरित्यर्थः ।
७,३७
चेतनानामचेतनानां च प्रत्येकमसङ्खयातत्वसाम्ये ऽपि नोभयोर्भिन्नत्वेन साम्यम् ।
किं तर्हीत्यत आहभिन्नमिति ।
… भिन्नमन्यद् लयं भवेत् । मनुव्_२,२.९फ़् ।
७,३८
न्यायसुधा-
चेतनमिति शेषः ।
चेतनं परस्परतो भिन्नमाहुः ।
यथोक्तम् ।
‘जननमरणकारणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्च’ इति ।
अन्यत् चेतनात्, अचेतनं भिदोज्खितमाहुः ।
७,३९
नन्वीश्वरानभ्युपगमे कस्यापि प्रवृत्त्यनुपपत्तेः, सर्गाद्यसम्भवादीश्वराख्यं तृतीयं तत्त्वमङ्गीकरणीयम् ।
तत्कथं नाङ्गीकुर्वन्तीत्यत आहअचेतनस्येति ।
७,४०
अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते । मनुव्_२,२.१०अब् ।
न्यायसुधा-
निगद्यते साङ्खयैरिति शेषः ।
तथाहि ।
चेतनः सङ्घातपरार्थत्वादिहेसिद्धः ।
अचेतनं च व्यक्तं प्रत्यक्षादिसिद्धम् अव्यक्तं च कारणकार्यविभागादिहेतुसिद्धम् ।
नचैवमनन्यथासिद्धमीश्वरे प्रमाणमस्ति ।
अचेतनस्यैव प्रधानस्य कर्तृत्वेन सर्गाद्युपपत्तेरदृष्टेश्वरकल्पनानुपपत्तेरिति मन्यन्त इति ।
नन्वचेतनं चेतनानधिष्ठितं क्वपि न प्रवृत्तिमदुपलब्धम् ।
ततः प्रधानस्याधिष्ठात्रेश्वरेण भाव्यमित्यत उक्तम्स्वातन्त्र्येणेति ।
चेतनाधिष्ठानेन विनेत्यर्थः ।
त(य)थोक्तम् ।
‘वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य ।
पुरुषस्य विमोक्षनिमित्तं यथा प्रवृत्तिः प्रधानस्य’ इति ।
७,४४
अन्यद्भिदोज्खितमित्युक्तम् ।
तदसत् ।
अचेतनानामपि चेतनवत्परस्परतो भेदस्य प्रत्यक्षादिसिद्धत्वादित्यत आहपरस्परेति ।
परस्परविभेदश्च कार्याणामालयं भवेत् । मनुव्_२,२.१०च्द् ।
न्यायसुधा-
आलयं प्रलयपर्यन्तम् ।
कार्याणां परस्परविभेदश्च भवेदिति निगद्यते तैः ।
७,४५
एतदुक्तं भवति ।
कार्यं तावत्कारणव्यापारात्प्रागपि सत् ।
असदकरणात् ।
असच्चेत् कारणव्यापारात्पूर्वं नास्य सत्त्वं कर्तुं शक्यम् ।
नहि नीलं शिल्पिसहस्रेणापि पीतं शक्यं कर्तुम् ।
किञ्च कार्येण सम्बद्धं कारणं कार्यस्य जनकम्, असम्बद्धं वा ।
आद्ये त्वसता सम्बन्धानुपपत्तेः सत्त्वमङ्गीकार्यम् ।
न द्वितीयः ।
असम्बद्धत्वाविशेषेण सर्वस्मात्सर्वसम्भवापत्तेः ।
असम्बद्धत्वे ऽपि कारणं तदेवं करोति यत्र शक्तमतो नातिप्रसङ्ग इति चेत् ।
सा शक्तिः शक्यविषया वा स्यात्सवर्त्र वा ।
सर्वत्र चेत्सैवाव्यवस्था ।
आद्ये त्वसति शक्ये कथं तद्विषया स्यादिति सदेव कार्यम् ।
नच कारणादन्यत्कार्यं सदुपलभ्यत इति कार्यकारणयोरभेदो ऽङ्गीकरणीयः ।
किञ्च न पटस्तन्तुभ्यो भिद्यते तन्तुधर्मत्वात्, यद्यतो भिद्यते तत्तस्य धर्मो न भवति, यथा गौरश्वस्य ।
उपादानोपादेयभावाच्च ।
ययोरर्थान्तरत्वं न तयोरुपादानोपादेयभावो, यथा घटपटयोः ।
संयोगाप्राप्त्यभावाच्च ।
अर्थान्तरत्वे हि संयोगो दृष्टो यथा कुण्डबदरयोः ।
अप्राप्तिर्वा यथा हिमवद्विन्ध्ययोः ।
नचेह संयोगाप्राप्ती ।
तस्मान्नार्थान्तत्वम् ।
गुरुत्वान्तरकार्यस्यावनतिभेदस्याग्रहणाच्च ।
एवञ्च कार्याणां परस्परं भेदे ऽपि स्वस्वकारणैरभेदात्क्रमेण महाप्रलये मूलकारणभावं गतानामभेद एव,
इत्येनेनाभिप्रायेणान्यद्भिदोज्खितमित्युक्तमिति ।
तच्चोक्तम्’असदकरणादुपादानग्रहणात्सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात्कारणाभावाच्च सत्कार्यम्’ इति ।
७,४८
तेष्वपि मतभेदमाहभोक्तृतामिति ।
भोक्तृणां चेतनस्याहुः केचित् तामपि नापरे । मनुव्_२,२.११अब् ।
न्यायसुधा-
सर्वे ऽपि साङ्खयाः पुरुषस्य कर्तृत्वं नानुमन्यन्ते ।
क्रियावेशो हि कर्तृत्वम् ।
न चात्मनः परिस्पन्दलक्षणा क्रियोपपद्यते ।
सर्वगतत्वात् ।
नापि प्रयत्नलक्षणा ।
तस्याः अन्तःकरणवृत्तित्वात् ।
नच विक्रियालक्षणा ।
निर्विकारत्वात् ।
यथोक्तम् ।
‘तस्माच्च विपर्यासात्सिद्धं साक्षित्वमस्य पुरुषस्य ।
कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च’ इति ।
तत्र केचिच्चेतनस्य भोक्तृतामाहुः ।
यथा भोक्तृभावादिति ।
अपरे तामपि नाहुः ।
यथा’तस्मान्न बध्यते न मुच्यते नापि संसरति कश्चित् ।
बध्यते संसरति मुच्यते च नानाश्रया प्रकृतिः’ इति ।
७,५१
ननु कर्तृताभावे भोक्तृत्वमपि कथम् ।
तस्यापि क्रियावेशात्मकत्वादित्यत आहस्वरूपेति ।
स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम् । मनुव्_२,२.११च्द् ।
न्यायसुधा-
सुखदुःखाद्यनुभवितृत्वं हि भोक्तृत्वमाहुरित्यत उक्तम्स्वप्रकाशादिति ।
सुखाद्यनुभवितृत्वस्य स्वप्रतीतिसिद्धत्वादित्यर्थः ।
यथाऽह ।
भोक्तृत्वयोग्यता च पुरुषस्य चैतन्यमिति ।
नचैवं कर्तृत्वमप्यङ्गीकर्तुमुचितम् ।
उपपत्तिबाधितत्वेन कर्तृत्वप्रतीतेरध्यासरूपत्वात् ।
७,५२
नन्वेवं तर्हि प्रतीतिसिद्धं भोक्तृत्वमपरे कथं नाभ्युपयन्तीत्यत आहप्रकृतेश्चेति ।
प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।
अभोगवादिनो भोगमाहुर् … । मनुव्_२,२.१२अच् ।
न्यायसुधा-
भोगं भोगव्यवहारकारणम् ।
अयं तेषामाशयः ।
भोक्तृत्वं हि न पुरुषस्य स्वभावः ।
अपवर्गाभावप्रसङ्गात् ।
आगन्तुकं तु नोपपद्यते ।
अपरिणामित्वात् ।
अतः कर्तृत्वमिव भोक्तृत्वमप्यात्मनो न शक्यमङ्गीकर्तुम् ।
नच प्रतीतिविरोधः ।
प्रतीतेरभावात् ।
व्यवहार एव हि केवलं भोक्ताऽत्मेति ।
स च कर्तृत्वव्यवहारवत्प्रकृतिपुरुषविवेकाग्रहमात्रनिबन्धन इति ।
७,५३
स्यादेतत् ।
येषां पुरुषो भोक्ता तेषां मोक्षाभावः स्यात् ।
प्रकृतिसंयोगनिमित्तो हि पुरुषस्य भोगस्तैरङ्गीक्रियते ।
‘पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य ।
पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः’ इति वचनात् ।
नच प्रकृतिपुरुषसंयोगः कदाप्यपैति येन पुरुषस्य मोक्षः स्यादित्यत आहभेदग्रहादिति ।
… भेदग्रहात् तयोः । मनुव्_२,२.१२द् ।
भोगिनां मुक्तिरुद्दिष्टा … । मनुव्_२,२.१३अ ।
न्यायसुधा-
तयोः प्रकृतिपुरुषयोः भोगिनां पुरुषस्य भोगमभ्युपगच्छतां मते ।
अयमभिसन्धिस्तेषाम् ।
प्रकृतिसंयोगो हि पुरुषस्य न केवलं भोगार्थः ।
किन्नामापवर्गार्थश्च ।
तत्र विवेकाग्रहसचिवो भोगाय भवति ।
विवेकग्रहे चापवर्गाय ।
करोतु नाम पौनःपुन्येन शब्दाद्युपभोगं प्रकृतिः ।
अनया विवेकख्यातिरकृतेति ।
कृतविवेकख्यातिस्तु न शब्दाद्युपभोजयति ।
अविवेकख्यातिनिबन्धनो हि तदुपभोगो, निबन्धनाभावे न भवितुमर्हति ।
तच्चोक्तम्’दृष्टा मयेत्युपेक्षक एको, दृष्टाहमित्युपरमत्यन्ता ।
सति संयोगो ऽपि तयोः प्रयोजनं नास्ति सर्गस्य इति ।
तथा’रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्तात् ।
पुरुषस्य तथाऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः’ इति ।
नच निवृत्तापि पुनः प्रवत्स्यर्तीति शङ्कनीयम् ।
प्रयोजनाभावात् ।
उक्तं च’प्रकृतेः सुकुमारतरं न किञ्चिदस्तीति मे मतिर्भवति ।
तस्यापि स्वेनैव निवृत्तेः ।
७,५६
ननु च येषां मते पुरुषस्य भोग एव नास्ति तेषां कथं मोक्षः ।
बन्धाभावात् ।
तथाच योगानुशासनवैयर्थ्यमित्यत आहस एवेति ।
… स एवाभोगवादिनाम् । मनुव्_२,२.१३ब् ।
न्यायसुधा-
स भेदग्रह एव मुक्तिरुद्धिष्या ।
भेदाग्रहनिबन्धनो भ्रम एव हि बन्धः ।
स च भेदग्रहे सति निवर्तते सैव मुक्तिः ।
न त्वपरास्तीत्यतः स एवेत्युक्तम् ।
न पुनर्भेदग्रह एव मुक्तिः ।
तस्यापि निवर्तनीयत्वात् ।
नापि विवेकख्यातिमित्युक्तत्वादिति ।
७,५७
एवमुपन्यस्तं मतमधुना निरसनीयम् ।
तत्र सूत्रकृता क्रमविवक्षित्वा’रचनानुपपत्तेश्च नानुमानम्’ इति प्रथमं परपक्षोपालम्भं विधायानन्तरं’प्रवृत्तेश्च’ इति स्वपक्षसाधनं विहितम् ।
भाष्यकारस्तु साधकप्रमाणस्य तत्त्वप्रतिपत्त्यन्तरङ्गत्वेन तदुपन्यासस्य प्राथम्यं परपक्षनिरासाय तस्थैयर्हेतोर्बहिरङ्गत्वेन
तदुपन्यास्यानन्तर्यमिति क्रममपि ग्राहयिष्यन् व्यत्ययेन व्याचक्षाणः प्रवृत्तेश्चेति सूत्रस्य पातनिकार्थमाहईशस्येति ।
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि । मनुव्_२,२.१३च्द् ।
न्यायसुधा-
असङ्ग्रहात् अनभ्युपगमात् ।
एवेत्यस्य दोषस्योल्बणत्वं सूचयति ।
तावुभापि पुरुषस्य भोक्तृत्वाभोक्तृत्वपक्षौ ।
७,५८
नन्वप्रामाणिकस्येश्वरस्यानभ्युपगमे कथमयुक्तत्वमित्यतः प्रवृत्तेश्चेति सूत्रार्थतयेश्वरे प्रमाणमाहचेतनेति ।
चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ।
एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते । मनुव्_२,२.१४ ।
७,५९
न्यायसुधा-
यदा यस्मात् ।
तस्मादिति लभ्यते ।
एतादृशत्वं पटवच्चेतनेच्छानुसारेणोद्भूतत्वम् ।
अन्यस्य महदादेः, वस्तुत्वात् कार्यत्वादनुमीयमानमिति शेषः ।
केन इत्याक्षेपे ।
अयमत्र प्रयोगः ।
महदादिकं चेतनेच्छाधीनोत्पत्तिकं कार्यत्वात्पटवदिति ।
यद्वा महदाद्युद्भवः चेतनेच्छाधीन उद्भवत्वात्पटोद्भववदिति प्रयोक्तव्यम् ।
प्रयोगद्वयसूचनाय पटोद्भव दृष्टान्तमुक्त्वा वस्तुत्वादिति हेतुमाह ।
एवमुक्तावुपलक्षणत्वं हि उभयत्र ज्ञायेत ।
उपलक्षणं चैतत् ।
महदाद्युपादानं चेतनमधिष्ठितं उपादानत्वात्तन्तुवदित्याद्यपि द्रष्टव्यम् ।
नचान्यश्चेतनस्तथा भवितुमर्हतीति सर्वातिशयी पुरुष ईश्वर एव सिद्धयतीति ।
व्यास(२१)
७,६१
स्यादेतत् ।
महदादिकं न तावत्प्रत्यक्षसिद्धम् ।
अव्यक्तत्वात् ।
अतः साङ्खयाचार्यवचनात् तत्प्रयुक्तानुमानाद्वा तदवगमो ऽभ्युपगन्तव्यः ।
तैश्चानेवंविधमेव तदुक्तमनुमितं चेति बाधः ।
अन्यथाऽश्रयासिद्धिरिति ।
मैवम् ।
वेदतस्तदवगमात् ।
उक्तं हीदम्’अजामेकाम्’ इत्यादिश्रुतिः प्रधानमपि प्रतिपादयतीति ।
ननु पुरुषश्चेतनो नान्तःकरणम् ।
इच्छा चान्तःकरणधर्मो न चेतनस्याविकारस्य ।
अतः अप्रसिद्धविशेषणता बाधो वा ।
पटादेरप्येवम्भावाभावाद्दृष्टान्तस्य साध्यवैकल्यं चेति चेन्न ।
आत्मन एवेच्छावत्त्वस्य वक्ष्यमाणत्वात् ।
७,६३
तथाप्युद्भवो नामोत्पत्तिरभिव्यक्तिर्वा ।
नाद्यः ।
प्रथमप्रयोगे ऽप्रसिद्धविशेषणत्वात् ।
दृष्टान्तस्य साध्यविकलत्वाच्च ।
द्वितीये चाश्रयासिद्धेः ।
मया सत्कार्यवादस्य अभ्युपगतत्वात् ।
द्वितीये ऽप्येत एव दोषाः ।
त्वया व्यक्त्यनभ्युपगमादिति चेन्न ।
असत्कार्यवादस्य साधितत्वात् ।
सत्कार्यवादे प्रमाणाभावाच्च ।
असदकरणादित्यादिभिश्च किं कार्यस्य प्राक्करणव्यापारात्सत्त्वमात्रं साध्यम् उतात्यन्तसत्त्वम् ।
आद्ये सिद्धसाधनम् ।
सदसत्त्वाभ्युपगमात् ।
द्वितीये त्वसदकरणादितिवत्सदकरणादित्यपि समानम् ।
नहि सन्नात्मा केनचित्क्रियते ।
७,६६
नन्वसतः कथं कर्मत्वम् ।
सतः कथं कार्यत्वमित्यपि समानम् ।
अनेन घटो जायत इत्यपि प्रत्युक्तम् ।
तर्हि घटं करोतीत्यादेः को ऽर्थः ।
मृत्तिकां घटीकरोतीति ।
मृत्तिका घटीभवतीति ।
असदुत्पत्तौ खरविषाणमपि कुतो नोत्पद्यत इति चेत् ।
तदात्मकस्योपादानस्याभावादिति ब्रूमः ।
अन्यथा सत उत्पत्तावात्मापि कुतो नोत्पद्यत इति समानम् ।
७,६९
य(द)द्यपि कार्येण कारणं सम्बद्धं तदुपजनयति उतासम्बद्धमेवेति पृष्टम् ।
तत्र कारणशब्देनोपादानं वा विवक्षितं निमित्तं वा ।
आद्ये जनयतीत्येव नेष्यते ।
किन्तु निमित्तकारणानि तत् कार्यतां नयन्ति ।
द्वितीये तु कार्याकारेणासम्बद्धं कारणाकारेण सम्बद्धमित्युत्तरम् ।
अत एव नातिप्रसङ्गः ।
शक्तिश्च कारणानां सदसद्विषया ।
अन्यथा निर्विषयत्वापातात् ।
नहि सत् कर्तुं शक्यं भवति ।
७,७०
यच्च तन्तुपटयोरभेदानुमानं तत्राभेदमात्रसाधने सिद्धसाध(नम्)नत्वम् ।
भेदाभेदाङ्गीकारात् ।
अत्यन्ताभेदसाधने तन्तुधर्मत्वं तावदसिद्धम् ।
नहि स्वयमेव स्वस्य धर्मो भवति ।
नहि उपचारो ऽनुमानप्रवृत्तेरङ्गम् ।
अतिप्रसङ्गात् ।
कथं च तन्तुधर्मत्वं पटस्य ।
तन्तुविशेषणत्वमिति चेन्न ।
पुरुषादिविशेषणे दण्डादौ व्यभिचारात् ।
तदाश्रितत्वमिति चेन्न ।
अभेदेनासिद्धिप्रसङ्गात् ।
कुण्डबदरादौ व्यभिचाराच्च ।
तदात्मकत्वमिति चेन्न ।
साध्यविशिष्टत्वापत्तेः ।
अभेदेन भेदाभावः साध्यत इति चेन्न ।
भेदाभावातिरिक्तस्याभेदस्य अनभ्युपगमात् ।
अभ्युपगमो ऽपि बाधात् ।
एवमुपादानोपादेयभावो ऽप्यसिद्ध एव ।
नहि स्वयमेवोपादनमुपादेयं चेति युक्तम् ।
करणत्वकर्मत्वयोर्भेदनियतत्वात् ।
संयोगाप्राप्त्यभावश्चात्यन्तभेदाभावादुपपत्स्यते ।
गुरुत्वान्तरकार्यादर्शनं चाभेदाङ्गीकारेण भविष्यति ।
७,७३
एतेन कार्यत्वमभूत्वाभावित्वं चेदसिद्धमस्माकम् ।
अभिव्यक्तिधर्मकत्वं चेद्युष्माकमिति च निरस्तम् ।
तदिदमुक्तङ्केन वार्यत इति ।
तदेवं पटाद्युत्पत्तौ चेतनस्य कुविन्दादेः प्रवृत्तेरुपलम्भात्तद्दृष्टान्तेन महदाद्युत्पत्तेरपि चेतनेच्छाधीनत्वमित्येवं स्वपक्षं प्रसाध्य
परपक्षनिरासार्थं रचनानुपपत्तेश्च नानुमानमिति सूत्रं व्याख्यातुं पीठमारचयतिनचेति ।
नच काचित् प्रमोक्तार्थे … । मनुव्_२,२.१५अ ।
७,७४
न्यायसुधा-
न केवलमस्मन्मते प्रमाणसद्भावः ।
किन्तु साङ्खयोक्तार्थे प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वे किमपि प्रमाणं नास्ति ।
तथाहि ।
किमत्र प्रत्यक्षं प्रमाणं स्यादुत आगमो ऽथवानुमानं वा ।
नाद्यः ।
तद्धयस्मदादीनां वा योगिनां वा ।
न प्रथमः ।
अस्यार्थस्यातीन्द्रियत्वात् ।
न द्वितीयः ।
असिद्धेः ।
नहि एवं योगिनः पश्यन्तीत्यस्माकं प्रमाणमस्ति ।
नाप्यागमः ।
स ह्यपौरुषेयः पौरुषेयो वा स्यात् ।
नाद्य इत्याहश्रुतिरेवेति ।
७,७५
… श्रुतिरेव प्रमा हि नः । मनुव्_२,२.१५ब् ।
न्यायसुधा-
श्रुतिर्नो ऽस्माकमेव मते प्रमा हि ।
सर्वाऽपि हि श्रुतिरीश्वरमेव स्वातन्त्र्येण सकलजगत्कारणं सर्वज्ञं सर्वशक्तिं प्रतिपादयति ।
प्रधानं च तदायत्तसत्ताप्रतीतिप्रवृत्तिमत्तदधिष्ठितं जगदुपादानमात्रमिति ।
तथाहि ।
‘यः सर्वज्ञः सर्ववित्’ ।
‘यो योनिमधितिष्ठत्येकः’ इत्यादि ।
तथाच श्रुतिः परस्य प्रतिपक्षभूतैव ।
पौरुषेयो ऽपि किं स्मृतीतिहासपुराणलक्षणः ।
उत साङ्खयाचार्यप्रणीतः ।
नाद्यः ।
तस्याप्यस्मन्मतानुसारित्वात् ।
‘प्रकृतिं पुरुषं चैव प्रविश्य पुरुषोत्तमः ।
क्षोभयामास भगवान्सृष्टयर्थं जगतो विभुः’ इत्यादिवचनात् ।
न द्वितीयः ।
तत्प्राण्यस्यासम्मतेः ।
आप्तोक्तत्वेन तत्प्रामाण्यसिद्धिरिति चेत्तत्राहआप्तत्वमिति ।
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते । मनुव्_२,२.१५च्द् ।
७,७६
न्यायसुधा-
उक्तमार्गेण श्रुतिरेव प्रमा हि न इत्युक्तरीत्या श्रुतिविरुद्धभाषित्वादित्यर्थः ।
वक्तुः साङ्खयप्रणेतुः ।
यद्वा इतरेषां चानुपलब्धेरित्युक्तमार्गेण ।
साङ्खयशास्त्रे ऽपि ह्याख्यायिकासु योग्यानुपलब्धिबाधिता बहवो ऽर्थाः प्रतिपाद्यन्ते ।
अथवा’अविप्रलम्भस्तज्ज्ञानम्’ इत्याद्युक्तमार्गेणाप्तत्वनिश्चायकप्रमाणाभावादित्यर्थः ।
‘कपिलो वासुदेवाख्यस्तन्त्रं साङ्खयं जगाद ह ।
ब्रह्मादिभ्यश्च देवेभ्यो भृग्वादिभ्यस्तथैव च ।
तथैवासुरये सर्ववेदार्थपरिबृंहितम् ।
सर्ववेदविरुद्धं च कपिलो ऽन्यो जगाद ह ।
साङ्खयमासुरये ऽन्यस्मै कुतर्कपरिबृंहितम्’ इति पुराणोक्तमार्गेणेति वा ।
‘ऋषिं प्रसूतं कपिलम्’ इत्यादिश्रुत्युदाहरणमप्यनेनैव निरस्तम् ।
एतेनैव’आगमाद्योगिप्रत्यक्षावगमे’ इत्यपाकृतम् ।
७,७७
न केवलमुक्तमार्गेणाप्तत्वानुपपत्तिः ।
किन्नामानुपपन्नभाषित्वादपीत्याहअप्रामाण्येति ।
अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि … । मनुव्_२,२.१६अब् ।
७,७८
न्यायसुधा-
अपिशब्देन प्रामाण्यस्वतस्त्वमपि समुच्चिनोति ।
ज्ञानानां प्रामाण्यमप्रामाण्यं ज्ञानकारणमात्राधीनोत्पत्तिकमिति स्वीकरोति साङ्खयः ।
तच्चानुपपन्नमित्यतो ऽप्यसौ नाप्तः ।
कथं प्रामाण्याप्रामाण्ययोः स्वतस्त्वमनुपपन्नमित्यत आहमायिवदिति ।
… मायिवत् ।
स्वोक्ताखिलनिषेधी स्यान् … । मनुव्_२,२.१६ब्च् ।
न्यायसुधा-
प्रामाण्याप्रामाण्ययोर्ज्ञानकारणमात्रजन्यत्वे साङ्खयस्य वचनेनोत्पन्नं ज्ञानं प्रमाणमप्रमाणं चेत्युभयात्मकं वा स्यात् ।
परस्परविराधेनोभयविकलं वा ज्ञानमात्रमुत्प(द्येत)द्यते ।
निःस्वभावस्य ज्ञानस्यानुपपत्त्या नोत्प(द्यते)द्येत वा ।
आद्ये सदसद्विलक्षणं विश्वं मन्यमानो मायावादी यथा स्वोक्तनिषेधी सद्विलक्षणमित्युक्त्या प्राप्तस्यासत्त्वस्य, स्वयमेव असद्विलक्षणमिति
निषेधात् ।
असद्विलक्षणमित्युक्त्या च प्राप्तस्य सत्त्वस्य स्वयमेव सद्विलक्षणमिति निषेधात् ।
तथा साङ्खयो ऽपि स्वोक्ताखिलनिषेधी स्यात् ।
तद्वाक्यजनितज्ञानस्य याथार्थ्ये हि प्रकृतिर्जगत्कारणमित्यादिको ऽर्थो यो लब्धः, स एवार्थस्तस्यायाथार्थ्ये निषिद्धः स्यात् ।
अयाथाथ्यर्स्य विषयविपर्यासानतिरेकात् ।
उभयस्वतस्त्वे वस्तुनो विरुद्धाकारद्वयालिङ्गितत्वं प्रसज्येतेति भावः ।
मायाशब्दस्य व्रीह्यादित्वान्मायीति साधु ।
७,८०
नन्वेवमपि याथार्थ्येन प्रकृतिर्जगत्कारणमित्यादिको ऽर्थस्तावत्सिद्धयतीत्यत आहनचेति ।
… न च किञ्चित् प्रसिद्धयति । मनुव्_२,२.१६द् ।
न्यायसुधा-
नहि परस्परविरोधे किमपि सिद्धयतीति भावः ।
तर्हि प्रामाण्यस्य का गतिरिति चेत् ।
अप्रामाण्ये ऽपि दीयतां दृष्टिः ।
द्वितीये दोषमाहनचेति ।
ज्ञानं हि यथावस्थितमयथावस्थितं वार्ऽथं विषयीकुर्यात् ।
तृतीयप्रकारानिरूपणात् ।
तथाच प्रामाण्याप्रामाण्यविकलं ज्ञानम् अयःशलाकावदविषयमेव स्यात् ।
एवञ्च न साङ्खयवचनात्किञ्चित्प्रसिद्धयतीति ।
तृतीये तु जगदान्ध्यमेव स्यादित्याहनचेति ।
स्यादेतत् यदा ज्ञानकारणं गुणोपेतं तदा तदीयायामप्रामाण्यजननशक्तौ गुणेन प्रतिबद्धायां प्रमाणज्ञानमेवोत्पद्यते ।
यदा तु दोषोपेतं तदा दोषेण प्रामाण्यजननशक्तौ प्रतिबद्धायां अप्रमाणज्ञानमेवोत्पद्यते ।
नहि किमपि करणं युगपदुभयोपेतमुभयविकलं वा सम्भवति ।
येनोक्तदोषः स्यादिति ।
उच्यते ।
किमर्थमित्थं कल्प्यते ।
ज्ञानस्योभयाकारत्वप्रसक्तेरिति चेत् ।
तत्प्रसक्तिरपि कुतो नाभ्युपगन्तव्या ।
विरोधभयादिति चेत् ।
करणे ऽप्युभयशक्तिविरोधात्कुतो न बिभेषि ।
७,८१
यदपि विरुद्धकार्यद्वयजनकं करणं तत्सहकारिसाहित्याहितशक्तिकमेव ।
प्रकृते च तथाभ्युपगमे द्वयोरपि परतस्त्वापत्तिः ।
किञ्च वचने कौ गुणदोषौ ।
आप्तानाप्तत्वप्रणीतत्वे इति चेत् ।
तर्ह्युभयाभावाद्वेदवाक्येनोभयात्मकमनुभयात्मकं वा ज्ञानमुत्पद्येत ।
नोत्पद्येत वा ।
अनाप्तप्रणीतत्वं गुण इति चेत् ।
तर्ह्याप्ताप्रणीतत्वं दोषो ऽपि किन्न स्यादिति स एव प्रसङ्गः ।
७,८२
एतेन साङ्खयाचार्यवचनं स्वत एव प्रमाणं किमाप्तिनिश्चयेनेत्यपि निरस्तम् ।
अप्रामाण्यस्यापि स्वतस्त्वेनोक्तसकलदोषापत्तेः ।
अथ महाजनपरिग्रहात्तत्प्रामाण्यनिश्चय इति चेन्न ।
पूज्यार्थत्वे ऽसिद्धेः ।
बह्वर्थत्वे सव्यभिचारत्वात्सन्दिग्धासिद्धेश्चेति ।
७,८३
मा भूत्प्रकृतिकारणत्वे प्रपञ्चस्य प्रत्यक्षं प्रमाणम् ।
मा च भूदागमः ।
अनुमानं तु भविष्यति ।
यथोक्तम् ।
‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च ।
कारणकार्याविभागादविभागाद्वैश्वरूपस्य’ इति ।
७,८३फ़्.
अयमर्थः ।
कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य मूलकारणमस्त्यव्यक्तम् ।
यथा कूर्मशरीरे सन्त्येवाङ्गानि ततो विभज्यन्ते ।
तस्मिन्नेवाव्यक्तीभवन्ति ।
एवं कारणान्मृत्पिण्डाद्धेमपिण्डाद्वा कार्याणि घटमुकुटादीनि विभज्यन्ते ।
सन्त्येव च पृथिव्यादीनि कारणात्तन्मात्रात् ।
सन्त्येव च तन्मात्राण्यहङ्कारात् ।
सन्नेव चाहङ्कारो महतः ।
सदेव च महत्परमाव्यक्तादिति ।
सो ऽयं कारणात्परमाव्यक्तात्पारम्पर्येण विश्वस्य कार्यस्य विभागः प्रतिसर्गे ।
मृत्पिण्डं हेमपिण्डं वा घटमुकुटादयो विशन्तो ऽव्यक्तीभवन्तीति तत्कारणरूपमेवानभिव्यक्तघटमुकुटादिकार्यमपेक्ष्याव्यक्तं भवति ।
एवं पृथिव्यादयस्तन्मात्राणि विशन्तः स्वापेक्षया तन्मात्रमव्यक्तयन्ति ।
एवं तन्मात्राण्यहङ्कारं विशन्त्यहङ्कारमव्यक्तयन्ति ।
एवमहङ्कारो महान्तमाविशन्महान्तमव्यक्तयति ।
महान्प्रकृतिं स्वकारणं विशति ।
प्रकृतेस्तु न क्वचिन्निवेश इति सा सर्वकार्याणामव्यक्तमेव ।
सो ऽयमविभागः प्रकृतौ वैश्वरूप्यस्य नानारूपस्य कार्यस्य ।
तस्मात्कारणे कार्यस्य सत एव विभागाविभागाभ्यामव्यक्तं कारणमस्तीति ।
७,८४
इतश्च, शक्तितः प्रवृत्तेः ।
कारणशक्तितो हि कार्यं प्रवर्तते ।
अशक्तात्कारणात्कार्यस्यानुत्पत्तेः ।
शक्तिश्च कारणगता न कार्यस्याव्यक्तत्वादन्या ।
अस्तु तर्हि महत एव परमाव्यक्तत्वमित्यत उक्तं भेदानां परिमाणादिति ।
महदादीनामव्यापकत्वादव्यक्तकारणकत्वं घटादिवदित्यर्थः ।
इतश्च, समन्वयात् ।
सुखदुःखभोगसमन्वितानि हि कार्याणि ।
यानि च यदूपमनुगतानि तानि तत्स्वभावाव्यक्तकानि ।
यथा मृद्धेमरूपमनुगता घटमुकुटादयो मृद्धेमपिण्डाव्यक्तकाः ।
तस्मादस्ति सुखदुःखमहोहात्मकानां सत्त्वरजस्तमसां साम्यावस्थाव्यक्तं भेदानामिति ।
७,८९
यद्यप्येतान्यनुमानान्यव्यक्तस्वरूपं साधयन्ति ।
तथापि महदादिकारणतयैव तदेतैः सिद्धयतीति ।
अत्र वक्तव्यम् ।
किमेतैरनुमानैर्जगदुपादानतामात्रेणाव्यक्तं सिद्धयति, उत स्वातन्त्र्येणा(पीति)पि ।
आद्ये सिद्धसाधनम् ।
अस्माभिरपि विश्वोपादानस्य प्रधानस्याभ्युपगतत्वात् ।
‘शरीररूपकः’ इति ह्युक्तम् ।
द्वितीयं निराकर्तुं सूत्रम् ।
रचनानुपपत्तेश्च नानुमानमिति ।
तद्वयाचष्टेइदमिति ।
इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत् ।
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत् । मनुव्_२,२.१७ ।
न्यायसुधा-
महादादिकार्यमित्यर्थः ।
अचेतनवशं स्वतन्त्राचेतनाधीनोत्पत्तिकम् ।
प्रतिपन्नवत् ।
प्रधानवत् ।
आस्तां तावद्दूषणान्तरम् इति प्रत्यनुमानेनैव प्रतिषिद्धस्य प्रधानस्वातन्त्र्यस्य मूलानुमा साधिकानुमा केन सामर्थ्येन भवेत् प्रमाणमिति शेषः ।
मूलानुमेति वाऽवर्तनीयम् ।
किम् आक्षेपे ।
अकार्यत्वमत्रोपाधिरिति चेन्न ।
पटादौ साध्याव्याप्तेः ।
पटादेः कुविन्दाद्यधिष्ठिततन्त्वादिकायर्त्वस्यान्वयव्यतिरेकाभ्यामुपलम्भात् ।
७,९१
एवं प्रधानस्य रचनायाः स्वतन्त्रप्रवृत्तेरनुमानविरोधेनानुपपत्तेर्नानुमानं तत्र प्रमाणमिति सूत्राक्षरयोजनां मनसि निधाय सूत्रतात्पर्यमुक्तम् ।
इदानीं तामेव विवृण्वन्प्रतिपक्षान्तरमाहस्वतन्त्रेति ।
स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः । मनुव्_२,२.१८अब् ।
न्यायसुधा-
चशब्दो ऽनुमानान्तरसमुच्चये ।
कुत एवेत्यन्वयः ।
अयमत्र प्रयोगः ।
प्रधानं स्वतन्त्रप्रवृत्तिरहितम् अचेतनत्वात् ।
तन्त्वादिवदिति ।
७,९२
नन्वचेतनत्वे ऽपि प्रधानस्य स्वातन्त्र्येण प्रवृत्तिरस्तु को विरोधः ।
तथाच विपक्षे बाधकाभावादप्रयोजको ऽयं हेतुरित्यत आहअचेतनत्वमिति ।
अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम् । मनुव्_२,२.१८च्द् ।
न्यायसुधा-
तावदेव ह्यनेनाशङ्कनीयं यस्मिन्नाशङ्कयमाने स्ववचनस्वक्रियास्वन्यायप्रमाणान्तरविरोधो न प्रादुष्यात् ।
नहि कश्चिदेवं शङ्कते ।
मूको ऽपि वक्ता किन्न स्यात् ।
शब्दो ऽप्रतिपादकः किन्न भवेत् ।
अनुमानत्वात् अनुमानमात्रमप्रमाणं कुतो न स्यात् ।
अग्निरनुष्णः कुतो न भवेदिति ।
न ह्येषा शङ्कापिशाची कदाचिच्छान्तिमुपागच्छति ।
तस्मादेवामाशङ्कमानो न लौकिको नापि परीक्षक इत्युन्मत्तवदुपेक्षणीयः ।
प्रकृते चाचेतनत्वं स्वातन्त्र्यं चात्मप्रमाहतम् ।
स्वव्याहतं प्रमाणविरुद्धं च ।
तस्मादचेतनत्वे ऽपि स्वतन्त्रप्रवृत्तिरस्तु प्रधानस्येति शङ्कैव नोत्पत्तुमर्हतीति किमत्र बाधकोपन्यासेनेति ।
७,९३
नन्वचेतनस्य स्वातन्त्र्यशङ्कायां कथं स्वव्याहतिः ।
नहि स्वातन्त्र्यं नाम चैतन्यम् ।
नाप्यचेतनत्वं नामास्वातन्त्र्यम् ।
कथञ्च प्रमाणविरोधः, इत्यत स्वव्याघातं तावदुपपादयितुं स्वातन्त्र्यं व्याख्यातिस्वेच्छेति ।
स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः । मनुव्_२,२.१९अब् ।
न्यायसुधा-
प्रवृत्ताविति शेषः ।
विदो विदुरित्यनेन सकलविद्वत्सम्मतमेतदित्याह ।
अत एव हि स्वातन्त्र्याभावाद्वृक्षस्तिष्ठतीत्यादिकर्तृत्वव्यवहारो गौण इति सर्वे प्रतिपन्नाः ।
७,९७
तथापि कथं स्वव्याहतिः ।
नह्यचेतनत्वं नामेच्छाविरहः ।
किन्नाम चैतन्यविरह इत्यत आहकुत इति ।
कुत इच्छाचेतनस्य … । मनुव्_२,२.१९च् ।
न्यायसुधा-
अचेतनस्येच्छा कुतः कारणाज्जायते ।
न कुतश्चित् ।
ज्ञानमेव हीच्छाया जनकमित्यर्थः ।
तथापि किमित्यत आहसेच्छं चेदिति ।
७,९८
… सेच्छं चेत् किमचेतनम् । मनुव्_२,२.१९च्द् ।
न्यायसुधा-
सेच्छं चेदङ्गीकृतं तदा तदचेतनं किं चेतनमेवेत्यर्थः ।
एतदुक्तं भवति ।
अचेतनमपि प्रधानं स्वातन्त्र्येण प्रवृत्तिमदस्त्विति वदताचेतनमिच्छावदस्त्वित्युक्तं स्यात् ।
स्वेच्छानुसारित्वस्य स्वातन्त्र्यशब्दार्थतया सर्वसम्मतत्वात् ।
अचेतनस्येच्छावत्त्वमङ्गीकुर्वाणेन चेतनत्वमप्यङ्गीकर्तव्यं स्यात् ।
अन्वयव्यतिरेकाभ्यामिच्छायाः स्वसमानाश्रयचैतन्यकार्यत्वावधारणात् ।
कार्याङ्गीकारे कारणानङ्गीकारस्यानुचितत्वात् ।
अचेतनं चेतनमिति च स्फुटा व्याहतिरिति ।
एतेनैतदपि निरस्तम् ।
अचेतनत्वं स्वातन्त्र्यं च यदि परस्परव्याहतं तर्ह्यचेतनत्वेन स्वतन्त्रप्रवृत्तिराहित्यसाधने साध्याविशिष्टतादोषः स्यादिति ।
नह्यस्माभिरचेतनत्वस्वातन्त्र्ययोः वन्ध्या अपत्यवतीतिवत्साक्षाद्विरोधो ऽभिहितः ।
किन्तु स्वातन्त्र्यबलेन चैतन्यं परेणाङ्गी(कार्य)कारयित्वा अनेनैव स्वातन्त्र्याङ्गीकारे ऽचेतनत्वानुपपत्तिरिति बाधकं चोक्तं भवति ।
७,१०३
एवमचेतनस्य स्वातन्त्र्याङ्गीकारे स्वव्याहतिमुपपाद्य प्रमाणविरोधमप्युपपादयतिइच्छामीति ।
इच्छाम्यहमिति ह्येव निजानुभवरोधतः ।
अचेतनेच्छापगता … । मनुव्_२,२.२० ।
न्यायसुधा-
हिशब्देनास्यानुमानस्य विश्वजनप्रसिद्धत्वं सूचयति ।
एवशब्दस्यापगतैवैत्यन्वयः ।
निजानुभवः साक्ष्यनुभवः ।
अहमिच्छामीति तावदिच्छा आत्मसम्बन्धिनी साक्षिणानुभूयते ।
नच सा द्विकर्तृका सम्भवति ।
क्वाप्येकस्य व्यापारस्य द्विकर्तृकत्वानुपलम्भात् ।
ततश्चाचेतनस्येच्छाङ्गीकृता(वैतद)चे(त्त)दनुभवविरोधादचेतनस्येच्छापगता नास्तीति यावत् ।
इच्छाभावे च स्वेच्छानुसारित्वलक्षणं स्वातन्त्र्यं दूरोत्सारितमिति भावः ।
७,१०४
ननु नवमस्त्यनुभवः किन्त्वहमिच्छा(मीच्छा)मीति व्यवहारमात्रम् ।
तस्यापि निमित्तं भेदाग्रहः ।
आत्मा हि नित्यो निर्विकारश्चैतन्यमात्रवपुर्न तस्येच्छादिकर्तृत्वमागन्तुकं सम्भवति ।
किन्त्वन्तःकरणस्यैव प्रसवधर्मत्वात् ।
तयोश्चात्मान्तःकरणयोर्भेदाग्रहादितरेतरधर्मव्यवहारः प्रवर्तते ।
भेदाग्रहे च निमित्तं सन्निधानम् ।
यथोक्तम् ।
‘तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् ।
गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः’ इति ।
अतो ऽनुभवबलाच्चेतनस्यैवेच्छावत्त्वं नाचेतनस्येत्ययुक्तमित्यत आहयदीति ।
… यदि भेदाग्रहो ऽत्र च । मनुव्_२,२.२०द् ।
कथं न स घटस्य स्यान् … । मनुव्_२,२.२१अ ।
न्यायसुधा-
यदि एवमनुभव एव नास्ति किन्तु व्यवहारमात्रम्, अत्र च व्यवहारे भेदाग्रह एव निमित्तमुच्यते, तदा स भेदाग्रहो घटस्य किं (कथं) न स्यात् ।
व्यवहारहेतुरिति शेषः ।
इदमुक्तं भवति ।
स्वप्रकाशानुभवापलापदोषस्तावत् ।
व्यवहारे च निमित्तं नास्ति ।
नच भेदाग्रहः ।
विशिष्टव्यवहारस्य तादृशज्ञानकार्यतानियमात् ।
अन्यथा घटपटावपीतरेतरभेदं न गृह्णीत इतीतरेतरधर्मसंसर्गव्यवहारः स्यादिति ।
७,१०७
ननु गृह्यमाणयोर्भेदग्रहो व्यवहारहेतुर्न तु भेदाग्रहमात्रम् ।
नच घटपटौ स्वरूपं गृह्णीतस्तत्कथमतिप्रसङ्ग इति चेत् ।
किमयं विशिष्टो भेदाग्रहो ऽन्तःकरणस्य, उतात्मनः ।
नाद्यः ।
तस्याचेतनत्वेन स्वरूपग्रहानुपपत्तेः ।
उपपत्तौ वा स कथं विशिष्टो भेदाग्रहो घटस्य न स्यात् ।
तथाच व्यवहारो ऽपि स्यात् ।
नन्वन्तःकरणे ऽस्ति चैतन्यारोपो न घटे, अतो नातिप्रसङ्ग इति चेत् ।
किं तस्य निमित्तम् ।
सन्निधानमिति चेत् ।
तर्हि सर्वगतात्मसन्निधानं घटे ऽप्यस्तीति कथं स न घटस्य स्यात् ।
ननु न संयोगमात्रं निमित्तम् ।
किन्तूपकार्योपकारकभावे सति ।
स चास्त्यात्मान्तःकरणयोः ।
पुरुषस्य दर्शनार्थमित्युक्तत्वात् इति चेत् ।
तर्हि घटो ऽपि पुरुषस्योपकारक इति कथं स न घटस्य स्यात् ।
द्वितीये व्यवहारो ऽपि किमात्मन उतान्तःकरणस्य ।
नाद्यः ।
तस्य निर्विकारस्य व्यवहारक्रियानुपपत्तेः ।
उपपत्तौ वा किमिच्छयापराद्धम् ।
द्वितीये ऽन्यगतेन भेदाग्रहेणान्य(त्र)स्य व्यवहारश्चेत्कथं स न घटस्य स्यात् ।
७,१०९
किञ्च यदि भेदाग्रहादन्तःकरणधर्म एवेच्छाऽत्मनि व्यवह्रियत इत्यङ्गीक्रियते तदा घटस्याप्यात्मना भेदाग्रहात्पृथुबुध्नोदराकारो ऽहमिति
व्यवहारः कथं न स्यादिति गूढाभिसन्धेरुत्तरम् ।
यद्वात्र चात्मान्तःकरणयोश्च स्फुटं प्रतिभासमानभेदयोरपीति हृदयम् ।
यदि भेदाग्रहः स्यात्तदा कथं स भेदाग्रहो घटस्यात्मनश्च न स्यादिति योजना ।
अथवैवं वदन्प्रष्टव्यः ।
भेदाग्रहः किं भेदग्रहस्य विरोधी न वेति ।
नेति पक्षे कथं स घटस्यात्मना पटादिना वा न स्यादित्युत्तरम् ।
७,११०
ननु भेदग्रहो भेदाग्रहविरोधी ।
स चास्ति घट इति कुतस्तत्र भेदाग्रहस्तत्प्रयुक्तो व्यवहारो वेति गूढाभिसन्धिमजानतो द्वितीयपक्षमाशङ्कयाहमन इति ।
… मनो म इति भेदतः ।
मनसो ऽपि गृहीतत्वाद् … । मनुव्_२,२.२१ब्च् ।
७,११०फ़्.
न्यायसुधा-
भेदत इति तृतीयार्थो तसिः ।
यदि भेदग्रहो भेदाग्रहविरोधीति भेदेन गृह्यमाणे घटे न भेदाग्रह इत्युच्यते, तदा मे मन इति मनसो ऽपि भेदेन गृहीतत्वान्नात्मना भेदाग्रहः स्यात् ।
तथाच भेदाग्रहनिमित्तो ऽहमिच्छामीति व्यवहार इत्यसत् ।
किन्त्वनुभवनिमित्त एव ।
अत एव नान्तःकरणधर्मस्यात्मन्यारोप इत्यपि युक्तम् ।
भेदग्रहसद्भावेन आरोपहेतोर्भेदाग्रहस्यायोगात् ।
नह्यविदितभेदं सम्बन्धितया गृह्यते ।
आत्मन्यपि प्रसङ्गात् ।
केन पुनः प्रमाणेन मनो गृह्यते ।
साक्षिणेति वदामः ।
तथाहि ।
नतावच्चक्षुरादिना तदवगमः ।
अरूपिद्रव्यत्वात् ।
चक्षुराद्यव्यापारे ऽप्युपलब्धेः ।
नचानुमानेन ।
लिङ्गाभावात् ।
नन्वस्ति युगपज्ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ।
तथाहि ।
बाह्येन्द्रियेषु स्वैः स्वैर्विषयैर्युगपत्सन्निकृष्टेष्वात्मनाधिष्ठितेष्वपि न युगपज्ज्ञानानि जायन्ते ।
तेन ज्ञायते ऽस्त्येतेभ्यो ऽन्यत्सहकारि ।
यत्संयोगक्रमवशाज्ज्ञानक्रमः प्रक्रमत इति ।
७,११५फ़्.
अत्र कश्चिदाह ।
आत्मन एवैवंविधसामर्थ्यकल्पनोपपत्तावन्यथासिद्धमनुमानम् ।
मनसः प्रतीन्द्रियसंयोगव्यवहारे क्रमवति कारणान्तरशून्ये ऽनैकान्तिकं च ।
फलस्य च वृक्षशत्पततः क्रमवर्तिन्याकाशसंयोगे कुठारादिव्यापारे च ।
इन्द्रियाणां प्रतिविषयसंयोगव्यापारे चेति ।
तदयुक्तम् ।
दृष्टानुसारिणी हि कल्पना ।
कर्ता ह्यनेककरणाधिष्ठानेन युगपन्नानाकार्याणि कुर्वाणो दृष्टः ।
तथाहि ।
युगपन्माणवको गच्छति पठति पन्थानमीक्षते वहति च कमण्डलुम् ।
तस्मान्नैव कर्तृधर्मो युक्तः कल्पयितुम् ।
किन्तु दृष्टत्वाद् द्रव्यान्तरमेवाव्यापकम् ।
अनैकान्त्यं तु नास्त्येव ।
तत्रापि क्रियाक्रमादेर्निमित्तस्य विद्यमानत्वादिति ।
७,११८फ़्.
अत्रोच्यते ।
अस्ति तावदविवेकिनामपि मनःप्रतीतिः ।
मम मनो ऽन्यत्र गतमित्यादिव्यवहारात् ।
नच ते युगपज्ज्ञानानुत्पत्तिं जानन्ति ।
प्रत्युत युगपदेव ज्ञानोत्पत्तिं मन्यन्ते ।
अन्यथा व्यासङ्गे क्रमदर्शनेनान्यत्रापि क्रमानुमानं परस्य व्यर्थं स्यात् ।
तस्माल्लिङ्गदर्शनात्प्रागेव भवदिदं मनोज्ञानं न तन्निमित्तकमिति ।
अस्तु तर्हि बुद्धयादीनामसमवायिकारणस्य संयोगस्याश्रयतया मनःसिद्धिः ।
मैवम् ।
प्रत्यक्षज्ञाने तावदिन्द्रियात्मसंयोगस्यैवासमवायिकारणत्वस्योपपत्तेः ।
अनुमित्यादौ लिङ्गज्ञानादेः ।
स्मृतौ भावनायाः, सुखादाविष्यार्थोपलब्धादेरिति ।
नित्यविशेषगुणानां संयोगासमवायिकारणत्वनियमान्नैवमिति चेन्न ।
विभाग(ज)शब्दजशब्दे व्यभिचारात् ।
अश्रावणत्त्वेन हेतुविशेषणान्नेति चेत् ।
यथा तर्हि विभागादिशब्दे कारणान्तरदर्शनात्तन्निरासार्थं व्याप्तिग्रहणवेलायां प्रयत्यते तथा सुखादिनिरासाय प्रयतनीयम् ।
असमवायिकारणान्तरदर्शनस्य तुल्यत्वात् ।
निमित्तं तदिति चेन्न ।
असमवायिकारणलक्षणस्यातिव्याप्तिप्राप्तेरिति ।
नच सुखाद्युपलब्धिकरणत्वेन मनस्सिद्धिः ।
साक्षिसिद्धतयान्यथासिद्धेः ।
७,१२३
एवमनुमानान्तरमपि निरसनीयम् ।
नचागमो मनसि प्रमाणम् ।
जातिबधिराणामपि तत्प्रत्ययात् ।
तस्मात्सिद्धं साक्षिग्राह्यत्वं मनसः ।
तस्य च तेनैवात्मनो भिन्नतया ग्रहणाद्भेदाग्रहासम्भवेनेच्छाम्यहमीति न भेदाग्रहनिबन्धनो व्यवहार इति ।
७,१२५
ननु च ‘कामःसङ्कल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्भीर्हीरित्येतत्सर्वं मन एव’ इति श्रुतौ कामस्यान्तःकरणरूपत्वं तावत्प्रतीयते ।
नच श्रौतेनार्थेनान्यथा भवितुं युक्तम् ।
अतो बलवद्बाधकोपनिपातादिच्छाम्यहमिति भेदाग्रहनिमित्तं व्यवहारमात्रमेतङ्गीकरणीयम् ।
न त्वात्मन इच्छासम्बन्धानुभवः ।
नच मे मन इति भेदग्रहात्तदग्रहासम्भवः ।
मे चैतन्यमितिवद्वयवहारमात्रत्वात् ।
नचोक्तानुपपत्तिः ।
सत्त्वरजस्तमसामादिकार्यं हि बुद्धिरित्युच्यते ।
सा चांशत्रयवती ।
पुरुषोपरागो विषयोपरागो व्यापारावेशश्चेत्यंशाः ।
भवति ह्यहमिदं करोमीति ।
तत्राहमिति चेतनोपरागो दर्पणस्यैव मुखोपरागो भेदाग्रहादतात्त्विकः ।
इदमिति विषयोपराग इन्द्रियप्रनाडिकया परिणतिभेदो दर्परस्येव मलसम्बन्धः पारमार्थिकः, तथोभयायत्तो व्यापारावेशः ।
एषैव दिगहमिच्छामीत्यत्रापीत्यत आहउभयेति ।
… उभयात्मकता यतः । मनुव्_२,२.२१द् ।
कामस्य तु मनः कामः … । मनुव्_२,२.२२अ ।
न्यायसुधा-
तुशब्दो ऽवधारणे ।
तत इत्युपस्कर्तव्यम् ।
यतः कारणात्कामस्योभयात्मकतास्ति ।
आत्मधर्मता मनोधर्मता च ।
तत एव मनः काम इति श्रुतिरुपपद्यते ।
इदमुक्तं भवति ।
भवेदिदं भेदाग्रहकल्पनम् ।
यद्यात्मनः कामवत्त्वं पारमार्थिकं न स्यात् ।
नचैतदस्ति ।
बाधकाभावात् ।
द्विविधो हि कामो ऽस्ति ।
एक आत्मधर्मो ऽपरो ऽन्तःकरणधर्मः ।
तत्रान्तःकरणधर्मं काममभिप्रेत्य श्रुतिः प्रवृत्ता, नात्मनः कामवत्त्वं बाधते ।
नहि देवदत्तो गोमानिति वाक्यं यज्ञदत्तस्य गोसम्बन्धं बाधितुं शक्नोतीति ।
७,१३३
स्यादेतदेवम् ।
यदि कामद्वैविध्यं प्रमितं स्यात्, एतदेव कुत इति चेत् ।
श्रुत्यनुभवबलात्तावत् ।
प्रकारसहस्रानुसरणे ऽप्यघटनायां खल्वनुभवापलापसाहसमभ्युपेयम् ।
प्रमाणान्तरं चाहप्रियेति ।
… प्रियाप्रियविभेदतः ।
द्वैविध्यं दृश्यते चास्य … । मनुव्_२,२.२२ब्च् ।
७,१३३फ़्.
न्यायसुधा-
प्रियमित्यात्यन्तिकेष्यमुच्यते ऽप्रियमिति च तात्कालिकेष्यम् ।
विषयेण विषयिण उपलक्षणम् ।
अस्य कामस्य ।
अयमर्थः ।
अस्ति तावदास्तिककामुकस्य पुरुषस्य स्रक्चन्दवनितादौ इदं मे स्यादित्येकतः कामः ।
अन्यतस्त्यजेयमिति ।
नचैक एवायम् ।
विरुद्धरूपत्वात् ।
नच द्वावपि मनोधर्मौ, यौगपद्यात् ।
युगपत्सजातीयधर्मजननायोगात् ।
नच यौगपद्यं नास्ति ।
अनुभवसिद्धत्वात् ।
बाधकाभावाच्च ।
तत्र यो ऽप्रियविषयः सः अन्तःकरणधर्मः यस्तु प्रियविषयः स आत्मधर्म इति ।
७,१३४
यद्वा प्रियाप्रियशब्दाभ्यां मुक्तिसंसारावुच्येते ।
तत्सम्बन्धिविभेदेन कामद्वैविध्यं दृश्यत इति ।
अस्ति तावत्संसारे प्रचुरो ऽयमन्तःकरणवृत्तिरूपः कामः ।
अस्ति चासौ मुक्तौ ।
‘स यदि पितृलोककामो भवति’ इत्यादिश्रुतेः ।
नचैक एवायम् ।
मुक्तावन्तःकरणविलयात् ।
तथाचासावात्मधर्मो ऽभ्युपेयः ।
नचागन्तुकधर्मसम्बन्धो मुक्ताविति प्रागपि कामद्वैविध्यं सिद्धयतीति ।
७,१३६
श्रुतिबाधपरिहारस्य प्रयोजनमाहतस्मादिति ।
७,१३७
… तस्माद् भेदाग्रहः कुतः । मनुव्_२,२.२२द् ।
न्यायसुधा-
श्रुतिविरोधस्य परिहृतत्वाद्भेदाग्रहः कुतः प्रमाणात्कल्पनीयः ।
कुतश्चानुभवापलापेन व्यवहारस्य तन्निमित्तत्वम् ।
न कुतो ऽपीत्यर्थः ।
अनेनाचेतनस्य प्रधानस्य स्वातन्त्र्येण जगत्कारणत्वं साधयतामनुमानमपि स्ववचनविरोधः प्रमाणविरोधश्चोक्तौ भवतः ।
दृष्टान्तश्च साध्यविकलः ।
अचेतनस्वातन्त्र्यस्य क्वाप्यसम्मतेरिति ।
७,१३८
सूत्रार्थमुपसंहरन्नानुमानमित्येतत्प्रकारान्तरेण व्याचष्टेरचनेति ।
रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ।
अचेतनं जगत्कर्तृ … । मनुव्_२,२.२३अच् ।
न्यायसुधा-
तत्तस्मात् ।
सर्वज्ञानुमागतमनुमानं प्रकृत्यादिकं, कस्यचित्प्रत्यक्षं, प्रमेयत्वादिति सर्वमसाधकानुमयावगतम् ।
एतदनुमानसिद्धसर्वज्ञवाक्यावगतमिति यावत् ।
यद्वानुमानसिद्धप्रामाण्यकत्वेनानुमानप्रधानत्वेन च सर्वज्ञाभिमतस्य वाक्यमेव सर्वज्ञानुमोच्यते ।
व्याख्यानान्तरस्य चेदं प्रयोजनम् ।
यत्प्रागुक्तं न योगिप्रत्यक्षेण साङ्खयाचार्यवचनेन वायमर्थः सिद्धयतीति तदपि सूत्रसूचितमेवेति ज्ञापनम् ।
यदा तु सर्वज्ञाभिमतोत्प्रेक्षितया भेदानां परिमाणादित्यादिकयानुमयावगतमानुमानमिति योजना ।
तदा वैचि(त्र्य)त्रीप्रदर्शनं व्याख्यानान्तरप्रयोजनम् ।
जगत्कर्तृ स्वातन्त्र्येण जगत्कारणम् ।
७,१४२फ़्.
स्यादेतत् ।
परिमाणादिहेतुभिस्तावन्महदादिकार्याणां किमपि मूलकारणमस्तीत्यवगम्यते ।
तस्यापि कारणान्तरकल्पने प्रमाणाभावादनवस्थानाच्च ।
तस्य च स्वातन्त्र्यं कारकान्तराप्रयोज्यत्वमेव नतु स्वेच्छानुसारित्वम् ।
येनोक्तदोषः स्यात् ।
तच्च तत्प्रयोक्तुः कारकान्तरस्याप्रामाणिकत्वादेव सिद्धम् ।
नचाचेतनस्य तदसम्भावितम् ।
अचेतनेष्वपि पयो ऽम्बुप्रभृतिषु दर्शनात् ।
अचेतनमेव हि पयो ऽन्यानधिष्ठितमपि वत्सविवृद्धयर्थं प्रवर्तते ।
दधिभावं चापद्यते ।
घनविनिर्मुक्तं चाम्बु जम्बीरनारिकेलादिष्वनेकविधं विकारं प्राप्नोति ।
नादेयं चापसर्पति ।
तृणं च गवा जग्धं क्षीरीभवति ।
अयश्चायस्कान्तमभिसर्पति ।
नच’इदं नाचेतनवशम्’ इत्यादिप्रमाणविरोधः ।
तस्योक्तस्थानेष्वेवानैकान्त्यम् ।
नचेदं ब्रह्मवादिनां सम्मतम् ।
येन सिद्धसाधनं स्यादित्याशङ्कापरिहारार्थं सूत्रम्।
ओं पयो ऽम्बुवच्चेत्तत्रापि ओं ।
इति ।
तद्वयाचष्टेपयो ऽम्ब्वादि चेति ।
७,१४३
पयो ऽम्बुवच् चेत् तत्रापि । ब्ब्स्_२,२.३ ।
… पयो ऽम्ब्वादि च नोपमा । मनुव्_२,२.२३द् ।
एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च । मनुव्_२,२.२४अब् ।
न्यायसुधा-
उपमा स्वार्थसम्भावनायामस्मदीयहेतुव्यभिचारे चेति शेषः ।
यथात्र साध्यं व्यभिचरति तथा पक्षे ऽपि व्यभिचरतु हेतुरित्येवमर्थं हि व्यभिचारोद्भावनम् ।
तदत्र न युज्यते ।
चेतनाचेतनस्यैतत्प्रशास्तिवचनात् ।
पारमेश्वरप्रेरणाप्रतिपादकश्रुतेः ।
आद्यश्चशब्दो लौकिकानां स्वतन्त्रतया प्रतीयमानमपीत्यर्थे ।
द्वितीयस्तु न केवलमचेतनस्य ।
किन्तूभयस्यापीति ।
एतदुक्तं भवति ।
कारकान्तराप्रयोज्यत्वलक्षणमपि स्वातन्त्र्यं न प्रधानस्योपपद्यते ।
असम्भावितत्वात् ।
उक्तानुमानविरुद्धत्वाच्च ।
७,१४६
यदुक्तमत्र पयोम्ब्वादिवदिति ।
तदसत् ।
तत्रापीश्वरप्रेरणया’एतस्य वा अक्षरस्य’ इत्यदिश्रुतिसिद्धत्वात् ।
अत एव प्रधानस्य परप्रयोज्यत्वे प्रमाणाभावो ऽपि परास्त इति ।
सूत्रे पयो ऽम्बुवदित्युक्ते ऽपि नोदाहरणमादरणीयम् ।
स्थलान्तरे सम्भावना व्यभिचारश्च भविष्यत इत्याशङ्कापरिहारार्थस्य’व्यतिरेकानवस्थितेश्चानपेक्षत्वात्’ इति उत्तरसूत्रस्यापि
व्याख्यानायादिपदप्रयोगः ।
यद्वा पयो ऽम्बुग्रहणमुपलक्षणमित्यभिप्रेत्यादिपदं प्रत्युक्तम् ।
उत्तरसूत्रं तु कैमुत्यार्थम् ।
चेतनप्रवृत्तेरपीश्वरव्यतिरेकेणानवस्थितेरचेतनप्रवृत्तेस्तदधीनत्वं किमु वाच्यमिति ।
तद्वयाख्यानाय चेतनाचेतनस्य चेत्युक्तम् ।
व्यास(२२)
७,१४५
किञ्च परिमाणादिति हेतुस्तावदनैकान्तिकः ।
सत्त्वरजस्तमसां साम्यावस्था हि प्रकृतिरुच्यते ।
सत्त्वादयश्च परिमिता एव ।
यथोक्तम् ।
अबग्नीरनभो ऽहङ्कृन्महत्तत्त्वगुणत्रयैः ।
क्रमाद्दशोत्तरैः’ (आदि पु.वें.माहा.२४६) इति ।
नच प्रकृतिरव्यक्तान्तरवतीति कथं नानैकान्त्यम् ।
नच परिमितस्यापि मूलप्रकृतित्वे बाधकमस्ति ।
सार्वत्रिककार्यानुत्पत्तिपरिमितानामेव कारणत्वम् ।
तन्त्वादिषु दर्शनात् ।
अपरिमितस्य कृत्स्नैकदेशविकल्पानुपपत्तेश्च ।
अस्माकं त्वीश्वरशक्त्यैवोपपद्यते ।
समन्वयादित्यप्यसत् ।
यत्कार्यं यदनुगतिमत्तत्तादृक्कारणोपेतमित्यस्या व्याप्तेरव्यक्ताद्वयक्तजन्माङ्गीकारेणैव भग्नत्वात् ।
शक्तितः प्रवृत्तेश्चेत्येतदपि न विवक्षितार्थसाधकम् ।
अन्तर्भावितकार्यत्वमेव कारणस्य शक्तिरित्यस्य सिद्धौ हि तथा स्यात् ।
तच्च सत्कार्यवादनिर्वाह्यमिति ।
अत एव विभागाविभागावपि निरस्तौ ।
विभागाविभागयोरेव सत्कार्यवादसिद्धयधीनयोरसत्त्वात् ।
स्वप्रक्रियामात्रेणार्थसिद्धौ’स्थूलकायर्स्य लोष्ठादेः’ इत्यादिना तार्किकपरिकल्पिताभ्यां विभागाविभागाभ्यां परमाणुकारणत्वमपि
स्यादित्यास्तां प्रपञ्चः ।
७,१५१फ़्.
नन्विदं घट्टकुट्टीप्रभातन्यायमनुसरति ।
इच्छावत्त्वमात्मन एव न तु जडस्येत्यत्र हि प्रथममनुभवः प्रमाणीकृतः ।
तत्र च श्रुतिविरोधे चोदिते ऽन्तःकरणधर्म आत्मधर्मश्चेति कामस्य द्वैविध्यान्न विरोध इत्युक्तम् ।
एवञ्चात्मन एवेच्छावत्त्वं न त्वचेतनस्येति त्यक्तमेवेत्याशङ्कां सिंहावलोकनन्यायेन परिहरतिद्वैविध्ये ऽपीति ।
७,१५२
द्वैविध्ये ऽपितु कामादेः कुतः स्वामित्वमात्मनः । मनुव्_२,२.२४च्द् ।
साक्षादनुभवारूढं शक्यते ऽपोदितुं क्वचित् । मनुव्_२,२.२५अब् ।
न्यायसुधा-
कामादेर्द्वैविध्ये ऽपि साक्षादनुभवारूढमात्मनः कामादेः स्वामित्वं तु कुतः प्रमाणादपोदितुं शक्यते न कुतो ऽपीति योजना ।
श्रुत्यपेक्षयाऽदिपदग्रहणम् ।
अपोदितुमिति सम्प्रसारणं छान्दसम् ।
अयमत्रोत्तरक्रमः ।
सत्यं कामो द्विविध आत्मधर्मो मनोवृत्तिश्चेति ।
तत्र मनोवृत्तिमपि कामं प्रत्यात्मन एव स्वामित्वं न मनसः ।
अहं कामय इति साक्ष्यनुभवसिद्धत्वात् ।
मनसस्तु कामं प्रत्युपादानत्वमेव ।
यथा हि ।
क्षेत्रोपादानकानामपि सस्यानां कृषीवल एव स्वामी न क्षेत्रं तथैव ।
नच वाच्यं मनस एव कामस्वामित्वमहं कामय इत्यनुभवस्तु भ्रान्तिर्व्यवहारमात्रं वेति ।
बाधकप्रमाणाभावात् ।
नच कौटस्थ्यं बाधकम् ।
अन्तःकरणस्यैव कामोपादानत्वेनाङ्गीकृतत्वात् ।
स्वामित्वमात्रेण च कौटस्थ्याविघातात् ।
अन्यथा कृपणधनस्येवात्मनो वैयर्थ्यापत्तेरिति ।
तदिदमुक्तं क्वचिदिति ।
७,१५५
नन्वस्तु कामस्वामित्वमात्मन एव मा भूच्च मनसः ।
तथापि पूर्वोत्तरविरोधस्तदवस्थ एव ।
इच्छास्वामित्वाभावे ऽपि यादृशतादृशस्येच्छावत्त्वस्य मनस्यङ्गीकृतत्त्वादित्यत आहइच्छेति ।
इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम् । मनुव्_२,२.२५च्द् ।
न्यायसुधा-
अचेतनेच्छापगतेत्यादाविच्छास्वामित्वमेवेच्छावत्त्वमुक्तम् ।
नचापरमिच्छोपादानत्वलक्षणम् ।
एतदुक्तं भवति ।
स्यादत्र पूर्वापरविरोधः ।
यदि यदेवेच्छावत्त्वं प्राङ्मनसो निषिद्धं तदेवात्र पुनरङ्गीक्रियेत ।
न चैतदस्ति ।
पूर्वं हीच्छास्वामित्वलक्षणमिच्छावत्त्वमात्मन एव न त्वचेतनस्येत्युक्तम् ।
तस्यैव कर्तृत्वोपयोगात् ।
श्रुत्यर्थतया त्विच्छोपादानत्वलक्षणमिच्छावत्वमिदानीं मनसो ऽभ्युपगम्यत इति कुतो विरोध इति ।
७,१५६
यद्वा कामस्य द्वैविध्येन मनसो ऽपि कामवत्त्वात्कर्तृत्वमुपपत्स्यत इत्यत आहद्वैविध्ये ऽपीति ।
द्वयोः कामवत्त्वे ऽपि कामस्वामित्वमात्मन एव न तु मनसः ।
निरपवादसाक्ष्यनुभवसिद्धत्वात् ।
मनसस्तु कामोपादानत्वमेवेति ।
ततः किमित्यत आहइच्छेति ।
इच्छास्वामित्वलक्षणमेवेच्छावत्त्वं प्राक् कर्तृत्वोपयुक्तमुक्तम् ।
न पुनरिच्छोपादानत्वलक्षणम् ।
यो हीच्छति स प्रयतते न तु यदिच्छा भवति तदिति ।
तस्मादिच्छास्वामित्वाच्चेतनस्यैव कर्तृत्वं नाचेतनस्य ।
तस्येच्छोपादानत्वे ऽपीच्छास्वामित्वाभावादिति ।
७,१५७
स्यादेतत् ।
स्वं नाम तद्भवति, यद्यथेष्यविनियोगयोग्यम् ।
यथा गवादि ।
स्वामी च स उच्यते यो यथेष्यविनियोक्ता ।
नचेच्छात्मनोरेतदस्ति ।
यस्मादास्तिककामुकस्य निषिद्धेच्छां नियच्छतो ऽपि (इच्छा)साऽविर्भवति ।
प्रयतमानस्यापि विहितेच्छा नोदेति ।
तत्कथमिच्छास्वामित्वमात्मनः स्यादिति चेत् ।
किमिच्छाऽत्मनः सर्वथापि वशा न भवति इत्युच्यते ।
उत किञ्चिद्वशत्वमङ्गीक्रियते ।
नाद्यः ।
अनुभवविरोधात् ।
इच्छति देवदत्त इत्यादिव्यवहारविरहप्रसङ्गाच्च ।
द्वितीये तु सिद्धं स्वामित्वमित्याहकिञ्चिदिति ।
किञ्चित् तद्वशगत्वे ऽपि स्वामित्वं लोकवद् भवेत् । मनुव्_२,२.२६अब् ।
न्यायसुधा-
प्रबलविरोधिवशादत्यन्तवशत्वाभावे ऽपीच्छायाः किञ्चिदात्मवशत्वमात्रेणापि तां प्रत्यात्मनः स्वामित्वं भवेदे(वत्ये)व ।
कथम् ।
यथात्यन्तमवशायामपि गवि किञ्चिद्वशत्वमात्रेण देवदत्तस्वामित्वं लोके दृष्टं तथैव ।
अन्यथा तदपि न स्यादिति ।
७,१५८
नन्वेवं सत्येकं सन्धि(दि)त्सतो (परं प्रच्य)न्यच्च्यवत इत्यापन्नम् ।
अचेतनस्य कर्तृत्वं निराकर्तुमात्मन एवेच्छास्वामित्वं नतु मनस इति समर्थितम् ।
तर्हीश्वरस्यापि कुलालादिमनोवृत्तीच्छां प्रति स्वामित्वं नास्तीति घटादिकर्तृत्वं न स्यात् ।
तथाचेतरव्यपदेशादित्यधिकरणविरोधैत्यत आहसर्वात्मेति ।
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः । मनुव्_२,२.२६च्द् ।
न्यायसुधा-
यदा जीवस्यापि कामादिस्वाम्यं तदा सर्वात्मना तन्त्रमधीनं कामादि यस्यासौ तथोक्तः ।
सर्वेषामात्मनां तन्त्रं साधनं यः कामस्तस्यादिः कारणं तस्य परेशितुः कामस्वामित्वं किमुतैव वक्तव्यम् ।
एतदुक्तं भवति ।
जीवेश्वरौ द्वावपि शरीरमधितिष्ठतः ।
तत्रेश्वरो ऽन्तःकरणं स्पष्टं दृष्ट्वा तत्र ज्ञानेच्छाप्रयत्नरूपा वृत्तीः स्वेच्छाज्ञानप्रयत्नैरुत्पाद्य बाह्यकरणानि चाधिष्ठाय घटाद्युत्पादयति ।
जीवस्तु तद्दत्तस्वाम्यो ऽवतिष्ठते ।
यथोक्तं’बद्धिर्ज्ञानम्’ इत्यादि ।
तस्मादीश्वरस्यैव मुख्यं स्वाम्यं कर्तृत्वं च ।
जीवस्य त्वमुख्यमेवेति ।
तथा चोक्तम्’स्वस्वामिभावो ध्रुव एष यत्र तर्ह्यच्युते ऽसाविति कृत्ययोगे’ इति ।
७,१६१
यदुक्तं निरपवादानुभवबलादात्मन एवेच्छास्वामित्वमिति ।
तदयुक्तम् ।
कामः सङ्कल्प इति मनसः कामस्वामित्वाभिधात्र्यापौरुषेयत्वेन बलवत्या वेदवाचैवापोदितत्वादित्यत आहनचेति ।
न चानुभवगं कामस्वामित्वं वेदवागपि ।
शक्तापवदितुं … । मनुव्_२,२.२७अच् ।
७,१६१फ़्.
न्यायसुधा-
कामस्वामित्वमात्मन इति शेषः ।
कामाद्यनुवादेन खल्वियं वेदवाक् आत्मोपादानत्वं वैशेषिकादिमतप्राप्तं वारयितुं तेषां मनोरूपत्वमाचष्टे ।
कामादिस्वरूपं च साक्ष्यनुभवेनैव सिद्धमिति तस्योपजीव्यत्वम् ।
स च तानात्मस्वामिकानेव विषयीकरोति ।
नचोपजीव्यकमुपजीव्यमपवदितुं शक्नोति ।
वेदस्योत्सर्गतो बलवत्त्वे ऽप्युपजीव्यापेक्षया दौर्बल्यमेव ।
यथा आहुः ।
‘प्राबल्यमागमस्यैव जात्या तेषु त्रिषु स्मृतम् ।
उपजीव्यविरोधे तु न प्रामाण्यममुष्य च’ इति ।
अतो न श्रुतेरनुभवापवादकत्वं युक्तमिति ।
तर्हि श्रुतेः का गतिरित्यत आहतस्मादिति ।
… तस्मात् सा तदन्याभिधायिनी । मनुव्_२,२.२७च्द् ।
न्यायसुधा-
उपजीव्यत्वेन बलवतानुभवेन बाधितत्वादित्यर्थः ।
तदन्याभिधायिनी स्वामित्वादन्यस्योपादानत्वस्याभिधायिनी ।
७,१६४
न केवलमुपजीव्यबाधात् ।
किन्तूपपत्तिविरोधाच्चेत्याहमोक्षकाम इति ।
मोक्षकामो भवेदन्यो यदि मुक्ताद् भविष्यतः । मनुव्_२,२.२८अब् ।
न्यायसुधा-
यदि कामो ऽन्तःकरणकर्तृकः स्यात्तदा मोक्षकामो ऽप्यन्तःकरणस्यैव स्यात् ।
मोक्षस्तु आत्मन इति च प्रसिद्धम् ।
तथाच यो मुक्तो भविष्यति तस्मादन्य एव मोक्षकाम इतयुक्तं स्यात् ।
कामस्यान्यगतत्वे साधनानुष्ठाताप्यन्य एवेत्यङ्गीकर्तव्यम् ।
फलकामनासाधनानुष्ठानयोरेकनिष्ठत्वदृष्टेः ।
तथाचाकृताभ्यागमकृतविप्रणशप्रसङ्गः ।
७,१६६
ननु नायं दोषः ।
पुरुषविमोक्षार्थं प्रकृतिप्रवृत्त्यभ्युपगमात् ।
दृश्यते हि परप्रयोजनार्थं जनानां प्रवृत्तिरिति ।
अत्रेदमुपतिष्ठतेमोक्षकामस्येति ।
मोक्षकामस्य किं तेन … । मनुव्_२,२.२८च् ।
न्यायसुधा-
उपलक्षणमेतत् ।
साधनानुष्ठातेत्यपि द्रष्टव्यम् ।
परप्रयोजनार्तं प्रवतर्मानाः खलु लोके दृष्टमदृष्टं वा किमपि प्रयोजनमनुसन्दधानाः प्रायेणोपलब्धाः ।
तथात्रापि प्रकृतेः प्रयोजनेन भाव्यम् ।
नच तदस्तीत्यर्थः ।
स्यादेतत् ।
स्वप्रयोजनमननुसन्धायैव जीवमोक्षार्थं प्रकृतेः प्रवृत्तिः, यता कृपालुत्वेन भवतामीश्वरस्येत्यत आहस्वनाशार्थं चेति ।
… स्वनाशार्थं च को यतेत् । मनुव्_२,२.२८द् ।
७,१६७
न्यायसुधा-
न केवलं परप्रयोजनार्था प्रकृतेः प्रवृत्तिर्युज्यते ।
प्रकृतिलयो हि मोक्षो नाम ।
न हि को ऽपि कृपालुरात्मनाशार्थं यतमानो दृष्ट इति ।
यद्यप्यत्रानाधेयातिशयस्य निष्क्रियस्योपकार्यत्वमपि क्वचिन्न दृष्टमित्येव वक्तव्यम् ।
तथापि तच्छिष्यैरेवोह्यतामिति तदभ्युपगमेन दूषणान्तरमिदमुक्तम् ।
७,१६८
नन्विदमयुक्तम् ।
चेतनो हि स्वप्रयोजनमनुसन्दध्यात् ।
स्वनाशाच्च बिभ्यत् परावर्तेत ।
प्रकृतिस्त्वचेतना कथमेवं पर्यनुयोगमर्हतीति ।
एवं तर्हि कथमात्ममोक्षमप्यनुसन्धाय प्रवर्तेत ।
स्वभावो ऽयं प्रधानस्येति चेत् ।
तर्हि कदापि संसारो ऽस्य न स्यात् ।
भोगार्था प्रवृत्तिः प्रकृतेः स्वभाव इति चेत् ।
तर्हि मोक्षाभावः ।
उभयस्वभावत्वे तूभयं न स्यात् ।
विरोधात् ।
अविरोधे वा युगपदुभयं स्यात् ।
व्यवस्थापकाभावात् ।
भोगेषूपभुक्तेषु मोक्षार्थेति चेन्न ।
भोगानामानन्त्येनापरिसमाप्तेरिति ।
अयं प्रसङ्गाथर्ः ।
यद्यात्मा न कामकर्ता स्यात्तदा मुमुक्षुरपि न स्यात् ।
ततश्च न तदर्थं प्रयतेत ।
तथाच न मुच्येत ।
परप्रवृत्तेः स्वप्रयोजनभावाभावयोरयुक्तत्वादिति ।
बहुलमेतन्निदर्शनमिति स्मरणाद्यतेदिति परस्मैपदम् ।
तथाचाह’चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्’ इति ।
७,१७१
एवमनीश्वरसाङ्खयमतं साधारणदूषणैरपाकृत्य ये कर्तृत्वं प्रकृतेरेव भोक्तृत्वं त्वात्मन इति मन्यन्ते तन्मतं दूषयतिकर्तृत्वमिति ।
कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते । मनुव्_२,२.२९अब् ।
न्यायसुधा-
यद्वैवमात्मनः कर्तृत्वमुपपाद्य भोक्तृत्वमप्यनेनैवोपपादयति ।
येन मयेदं कृतं स एवाहं तत्फलं भुञ्ज इति कर्तृत्वभोक्तृत्वयोः सामानाधिकरण्यानुभवात्तयद्वैयधिकरण्याङ्गीकारे ऽनुभवविरोध इत्यर्थः ।
भ्रान्तो ऽयमनुभव इति चेन्न ।
बाधकाभावादित्याहविभागे चेति ।
विभागे च तयोर्मानं नैव किञ्चित् क्वचिद् भवेत् । मनुव्_२,२.२९च्द् ।
न्यायसुधा-
तयोः कर्तृत्वभोक्तृत्वयोः ।
विभागे व्यधिकरणत्वे ।
अकृताभ्यागमकृतविनाशौ चैवं सति स्यातामिति ।
७,१७२
यदुक्तमात्मनो मोक्षो न स्यादिति ।
तदिष्यापादनम् ।
प्रकृतेरेव मोक्षाभ्युपगमात् ।
नच बन्धमोक्षयोर्वैयधिकरण्यानुपपत्तिः ।
बन्धस्यापि प्रकृतिगतत्वादिति चेन्न ।
सकलश्रुतिस्मृतीहासपुराणानुभवैर्बन्धमोक्षयेरात्मगतत्वावगमेन तद्विरोधादित्याशयवानुपसंहरतिसर्वेति ।
सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ।
मायावाद्युपमां यायात् … । मनुव्_२,२.३० ।
न्यायसुधा-
सर्वमानविरोध एव या प्रधानदुर्दीक्षा दुष्यो ऽनुष्ठानसङ्कल्पः ।
तया दीक्षितो ऽयं तु साङ्खयो मायावादिनामुपमात्वं प्राप्नुयात् ।
ते ऽपि हि कर्तृत्वभोक्तृत्वादिसकलधर्मविकलमसत्कल्पं चैतन्यमात्रमङ्गीकृत्याविद्याया एवाचेतनायाः सर्वकारणत्वं बन्धमोक्षाधिकरणत्वं
चाभ्युपगच्छन्ति ।
तदेतेषां सर्वप्रमाणविरुद्धार्थाङ्गीकारित्वे साङ्खयो ऽयं दृष्टान्तभावमापद्यत इति ।
७,१७४
यत्पुरुषबहुत्वं साङ्खयेनाङ्गीकृतं तदपि मायावादिभिरभ्युपगतमेव ।
जननादिप्रकृतिधर्मैरेव हि तद्बहुत्वम् ।
नतु स्वरूपे कश्चिदस्ति परस्परतो विशेषः ।
मायावादिनो ऽपि उपाधिनिबन्धनं भेदमङ्गीकुर्वन्त्येव ।
नच प्रपञ्चसत्यत्वं विशेषः ।
कारणमात्रत्वाभ्युपगमेन कायर्प्रपञ्चस्य साङ्खयेन निरस्तत्वादिति ।
७,१७७
यापि साङ्खयपरिकल्पिता सृष्टिप्रलयबन्धमोक्षतत्साधनप्रक्रिया सापि सर्वप्रमाणविरुद्धेत्युक्तं भवति ।
७,१७८
न केवलं साङ्खयस्य मायावादिसदृशत्वमस्माभिरेवोच्यते, किन्तु सूत्रकृतापि सूचितमित्याहतदिति ।
… तच्चशब्दान्निराकृतः । मनुव्_२,२.३०द् ।
न्यायसुधा-
तस्मान्मायावादिसदृशत्वादेव हि साङ्खयो भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवदिति प्राक् पराकृतेन मायावादिना रचनानुपपत्तेश्च
नानुमानमिति चशब्देन समुच्चित्य निराकृतः ।
यद्वा प्रमाणविरोधो ऽपि नोत्सूत्रित इत्यनेनाह ।
तस्मात्सर्वमानविरोधित्वादेव ।
चशब्दात्सर्वमानविरोधसमुच्चयार्थं चशब्दं प्रक्षिप्येत्यर्थः ।
। इति श्रीमन्न्यायसुधायां रचनानुपपत्त्यधिकरणम् ।


__
७,१८०