१० सर्वधर्मोपपत्त्यधिकरणम्

६,३६६
। अथ श्रीमन्न्यायसुधायां सर्वधर्मोपपत्त्यधिकरणम् ।
। ओं सर्वधर्मोपपत्तेश्च ओं ।
सर्वे चेतना अपूर्णगुणा दोषिणश्च दृष्टास्तद्दृष्टान्तेन चेतनत्वादीश्वरस्यापि समासव्यासाभ्यामपरिपूणर्गुणत्वं दोषित्वं च स्यादिति पूर्वपक्षो
ऽत्राधिकरणे निरस्यते ।
तदिदमस्पष्टं भाष्ये ।
चशब्दसमुच्चितायाः श्रुतेरेवोदाहृतत्वात् ।
युक्तेरव्युत्पादनात् ।
ततः स्पष्टं यदधीना इति ।
सर्वधर्मोपपत्तेश् च । ब्ब्स्_२,१.३७ ।
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः । मनुव्_२,१.१११ ।
चापिशब्दावन्योन्यसमुच्चये ।
एवशब्दस्य यदधीना एवेत्यन्वयः ।
हिशब्दः सर्वस्य भगवदधीनतायां श्रुत्यादिप्रसिद्धिं द्योतयति ।
कथमित्याक्षेपे ।
द्वेधा हि वस्तु न प्राप्यते ।
तत्र स्वातन्त्र्याभावाद्वा प्रेप्साभावाद्वा ।
द्वेधा च न हीयते ।
स्वातन्त्र्याभावाद्वा जिहासाभावाद्वा ।
अस्ति तावदीश्वरस्य सर्वत्र स्वातन्त्र्यम् ।
अस्ति च मया सर्वदाऽनन्दादिगुणवता दुःखादिदोषवर्जितेन भाव्यमितीच्छा, प्रेक्षावत्त्वात् ।
अतः कथं तस्यानन्दादिगुणपूर्णत्वं दुःखादिसर्वदोषदूरत्वं न भवति ।
अत्रैते प्रयोगाः ।
ईश्वरः सकलगुणपूर्णः सर्वदोषदूरश्च, स्वतन्त्रत्वात् ।
व्यतिरेकेण यज्ञदत्तवत् ।
ईश्वरो विप्रतिपन्नगुणवान्, तत्र प्रेप्सावत्त्वे सति स्वतन्त्रत्वात् ।
यो यत्र प्रेप्सावत्वे सति स्वतन्त्रः स तद्वान् यथा सम्प्रतिपन्नः ।
ईश्वरो न विमतदोषवान्, तज्जिहासुत्वे सति स्वतन्त्रत्वात् ।
यो यत्र जिहासावत्त्वे सति स्वतन्त्रः स तदभाववान् ।
यथा सम्मत इति ।
६,३६८
सर्वधर्मापपत्तेस्तद् वाक्यैरपि हि तादृशैः ।
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः । मनुव्_२,१.११२ ।
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥
तत् एवमुक्तप्रकारेण सर्वेषां धर्माणां गुणानां दोषाभावानां च सम्बन्धिन्यास्तत्प्रतिपादिकया उपपत्तेः तादृशैः सर्वगुणपूर्त्यादेरुपपादकैः ।
हिशब्दस्तेषां’गुणाः श्रुताः’ इत्यादीनां प्रसिद्धानां सूचयति ।
तदनेन स्वपक्षे प्रमाणमभिदधतैव परकीययुक्तीनां कालात्ययापदिष्टत्वं स्वातन्त्र्याभावोपाधिदुष्टत्वं चोक्तं भवतीति ।
। इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्याथर्विवृतौ द्वितीयाध्यायस्य प्रथमचरणः पर्यवसितः ।
। इति श्रीमन्न्यायसुधायां द्वितीयाध्यायस्य प्रथमचरणः समाप्तः ।



अध्यय २, पद २