६,३५९
। अथ श्रीमन्न्यायसुधायां वैषम्यनैर्घृण्याधिकरणम् ।
। ओं वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ओं ।
प्राणिनां विविधान्देहेन्द्रिय(यादि)विषयांस्तत्फलं च सुखदुःखलक्षणमुत्पादयन्नीश्वरः किं तदीयं धर्माधर्मरूपं कर्मापेक्षते न वा ।
आद्ये तस्य स्वातन्त्र्यप्रच्युतिः ।
द्वितीये निर्निमित्तं कांश्चित्सुखयन्विषमः स्यात् ।
कांश्चिद्दुःखयन्निर्घृणः स्यात् ।
इत्युभयथा न तस्य सर्वकर्तृत्वमित्येष(व) पूर्वपक्षो ऽत्राधिकरणे निराक्रियते ।
तत्र तावदाद्येन सूत्रेण कर्मादिसापेक्षस्य कर्तृत्वमभ्युपेत्य वैषम्यनैर्घण्ये परिहृते ।
अपेक्षणीयं कर्मादि ईश्वरायत्तं न वा ।
नेति पक्षे सर्वकारणत्वहानिः ।
आद्ये निर्निमित्तं विषमाणां कर्मणां कारयितुर्वैषम्यनैर्घृण्ये स्यातामित्याक्षिप्य कर्मादीनामनादिता(त्वा)भ्युपगमेन समाधानमुक्तं’न
कर्माविभागादिति चेन्नानादित्वात्’ इति सूत्रेण ।
एवं तर्हि कर्मादिसापेक्षस्य स्वातन्त्र्यं न स्यादित्याशङ्कयोक्तमुपपद्यते चेति ।
कर्माद्यपेक्षस्यापि तस्य स्वातन्त्र्यमुपपद्यते ।
कर्मादिसत्तादेरपि तदधीनत्वस्यारम्भणाधिकरणे समर्थितत्वात् ।
नहि स्वाधीनसत्तादिकमपेक्षमाणस्य स्वातन्त्र्यप्रच्युतिर्युक्तेति ।
एवं(च) तर्हि तदपेक्षा नामानपेक्षैव ।
तथाच पुनर्वैषम्याद्यापत्तिरित्याशङ्कयोक्तम्उपलभ्यते चेति ।
उपलभ्यते ही(चे)श्वरस्येदृशं वैषम्यं निर्घृणत्वं च प्रमाणैः ।
अतो नेदमनिष्यमिति ।
तदिदमयुक्तम् ।
वैषम्यनैर्घृण्ये हि वस्तुतो दूषणे न वा ।
आद्ये कथमन्ततो ऽप्यङ्गीक्रियेते ।
द्वितीये प्रथममेवाङ्गीकार्ये ।
किं सापेक्षतापक्षं कक्षीकृत्य तत्र दूषणपरिहारक्लेशेन ।
तथाच बकबन्ध(क)रीतिरित्यतो ऽभिप्रायमाहवैषम्यमिति ।
६,३६०
वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति । ब्ब्स्_२,१.३४ ।
वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् ।
नाङ्गीकार्यमतो ऽन्यत्तु न वैषम्यादिनामकम् । मनुव्_२,१.११० ।
द्विविधं खल्विदं वैषम्यं निर्घृणत्वं च ।
एकं (ध)कर्माद्यनपेक्षताप्रयुक्तम् ।
अपरं तु सापेक्षत्वे ऽपि कर्मादिसत्तादेरपीश्वराधीनत्वप्रयुक्तम् ।
तत्राद्यं वेदाप्रामाण्यकारणत्वेन दूषणत्वात् नेश्वरस्याङ्गीकर्तुमुचितम् ।
वेदो हि धर्मं सुखसाधनमधर्मं च दुःखसाधनमाह ।
तत्र यदीश्वरो धर्माधर्मानपेक्ष्य विषमो निर्घृणश्च स्यात् तदा वेदोदितं धर्माधर्मयोः सुखदुःखसाधनत्वमसत्स्यात् ।
तथाच तस्य कथं प्रामाण्यं स्यात् ।
अतः सूत्रकारेण कर्मादिसापेक्षतापक्षमुररीकृत्य तत्परिहृतम् ।
अतो ऽन्यत्तु द्वितीयं वैषम्यं नैर्घृण्यं च न वैषम्यादिनामकं दूषणरूपं न भवतीति यावत् ।
तथाहि वैषम्यादिकं तावन्न स्वरूपेण दोषः किन्तु दोषहेतुतया ।
न चेदं वेदाप्रामाण्यकारणम् ।
कर्मादिसापेक्षत्वाङ्गीकारात् ।
नापि जीवानामिवेश्वरस्य प्रत्यवायहेतुः ।
तदभावात् ।
अतो ऽदूषणत्वादङ्गीकृतं सूत्रकृतेति न कश्चिद्दोषः ।
तथाच भाग्यम् ।
‘नच पुनर्वैषम्याद्यापातेन दोषः’ इति ।
। इति श्रीमन्न्यायसुधायां वैषम्यनैर्घृण्याधिकरणम् ।
__