०८ नप्रयोजनाधिकरणम्

६,३०४
। अथ श्रीमन्न्यायसुधायां नप्रयोजनाधिकरणम् ।
६,३०४फ़्.
। ओं न प्रयोजनवत्त्वात् ओं ।
ओं लोकवत्तु लीलाकैवल्यम् ओं ।
यत्प्रयोजनार्थं सृष्टयादिस्तदूनत्वादपूर्णतेत्याक्षेपपरिहारायेदमधिकरणमारभ्यते ।
तदेतदनुपपन्नमित्याभाति ।
तथाहि ।
यद्यत्र कर्तृत्वेन प्रयोजनवत्त्वं प्रसाध्यापूर्णत्वसाधनं पूर्वपक्षिणो विवक्षितं स्यात्तदा प्रथमसूत्रमयुक्तं स्यात् ।
अपूर्णतासाधकं प्रति प्रयोजनवत्त्वहेतोरसिद्धत्वात् ।
अथ कर्ता चेत्प्रयोजनवान्स्यात् तथा चापूर्णः स्यादित्यापादनं विवक्षितम् ।
तदा व्यर्थमेवेदं सूत्रम् ।
न चापूर्णस्ततो न प्रयोजनवानिति परेणैवाङ्गीकृतत्वात् ।
अन्यथा विपर्ययापर्यवसानात् ।
लोकवत्तु लीलाकैवल्यमिति द्वितीयसूत्रं तु पक्षद्वये ऽप्ययुक्तम् ।
साधनापादनदूषणस्यानुद्भावनादिति ।
मैवम् ।
ईश्वरस्य सृष्टयादिना प्रयोजनमस्ति न वा ।
आद्ये ऽपूर्णत्वं प्रसज्येत ।
द्वितीये तु कर्तृत्वानुपपत्तिः तस्य प्रयोजनव्याप्तत्वादित्युभयथापीश्वरस्य जगत्सृष्टयादिकर्तृत्वानुपपत्तिरित्यत्र पूर्वपक्षिणो विवक्षितम् ।
तत्र प्रथमसूत्रेण प्रयोजनाभावपक्षं सयुक्तिकमुपादत्ते ।
तत्रोक्तदोषपरिहारार्थं द्वितीयं सूत्रम् ।
यद्वा कर्तृत्वेन प्रयोजनस्य तेन चापूर्णत्वस्य इदं स धनं विवक्षितमुतापादनमिति सिद्धान्ती विकल्प्याद्यमाद्येन निराचष्टे ।
न कर्तृत्वेन प्रयोजनवत्त्वं साध्यम् ।
कृतकृत्यत्वेन प्रयोजनाभावस्यैव निश्चितत्वात् ।
नचासिद्धो हेतुः ।
अथैष एव परम आनन्दो निरनिष्यो निरवद्य इति श्रुतेः ।
प्रयोजनवत्त्वेनापूर्णतानुमानं तु गर्भस्रावेणैव ग(लि)तमिति ।
आद्यस्य दूषणान्तरं वदन्द्वितीयं द्वितीयेन निराकरोतीति ।
६,३०८
ननूक्तमत्र लोकवदिति सूत्रेण साधनस्यापादनस्य वा न किञ्चिद्दूषणमुद्भाव्यत इति ।
मैवम् ।
बाधादेरुद्भावनादित्याशयवान्द्वितीयसूत्रस्य तात्पर्यमाहसदेति ।
न प्रयोजनवत्त्वात् । ब्ब्स्_२,१.३२ ।
लोकवत् तु लीलाकैवल्यम् । ब्ब्स्_२,१.३३ ।
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम् । मनुव्_२,१.१०२च्द् ।
६,३०९
यथा लोके ज्वलनपवनादीनां तथेशस्यापि सदा सृष्टयादौ केवलं प्रयोजनेन विना स्वभावादेव प्रवृत्तिः प्रमितेति शेषः ।
तदनेनेश्वरस्य प्रवृत्त्या प्रयोजनसाधनमनैकान्तिकं बाधितविषयं च ।
प्रसङ्गस्तु व्यप्तिविकलो विपर्ययापर्यवसायी चेत्युक्तं भवति ।
अथ मन्येत ।
चेतनप्रवृत्तिः न प्रयोजनेन विना दृष्टा ।
अतो नानैकान्त्यादीति ।
तदपि नास्ति ।
मत्तस्य सुखोद्रेकादेव नृत्तगानादिप्रवृत्तिदर्शनात् ।
६,३१०
ननु च प्रेक्षावत्प्रवृत्तिर्न प्रयोजनोद्देशेन विनोपलब्धा इयं च प्रेक्षावत्प्रवृत्तिः ।
अतः प्रयोजनोद्देशवती स्यादिति साध्यमापाद्यं चेत्यत आहअङ्गेति ।
अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः । मनुव्_२,१.१०३अब् ।
काश्चिद्वयाख्यानादावङ्गुलिचालनादिकाः ।
उद्देशवर्जिताः प्रयोजनोद्देशवर्जिताः ।
तथा ईशस्यापि प्रवृत्तिरिति पूर्वेणान्वयः ।
तथाप्यनैकान्त्याद्यनिस्तार इति भावः ।
६,३११
यदुक्तमीश्वरस्य प्रवृत्तिः प्रयोजनेन विना स्वभावादेव प्रमितेति ।
तत्प्रमाणमिदानीमाहदेवस्येति ।
देवस्यैष स्वभावो ऽयमित्याह श्रुतिरञ्जसा । मनुव्_२,१.१०३च्द् ।
‘देवस्यैष स्वभावो ऽयमाप्तकामस्य का स्पृहा’ इति श्रुतिरञ्जसा स्फुटमुक्तमर्थमाह ।
देवस्यायं सृष्टयादिविषय एषः इच्छा ।
तत्पूर्विका प्रवृत्तिरिति यावत् ।
स्वभाव एव ।
न प्रयोजनाय ।
कुतः आप्तकामस्य प्रयोजनस्पृहासम्भवादित्यर्थः ।
६,३१२
केचिदिदं सूत्रमन्यथा व्याचक्षते ।
यथा लोके सप्तद्वीपां मेदिनीमधितिष्ठतः सम्पूणर्शौर्यवीर्यपराक्रमस्यापि महाराजस्य केवललीलैकप्रयोजनाः कन्दुकाद्यारम्भा दृश्यन्ते ।
तथैव परस्यापि ब्रह्मणः स्वसङ्कल्पमात्रावक्ळ्प्तजगज्जन्मस्थितिध्वंसादेर्लीलैव प्रयोजनमिति तदेतन्निराकरोतिक्रीडामिति ।
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी । मनुव्_२,१.१०४अब् ।
‘भोगार्थं सृष्टिरित्यन्ये क्रीडाथर्मिति चापरे’ इति क्रीडाप्रयोजनां भगवतः सृष्टयादिप्रवृत्तिं वदतः पूर्वपक्षीकृत्य देवस्यैव स्वभावो ऽयमिति
सयुक्तिकं प्रयोजनलेशाभावः श्रुत्या सिद्धान्तितः ।
अतः श्रुतिविरुद्धत्वादपव्याख्यानमेवैतत् ।
सूत्राक्षराननुगुणं चैतद्वयाख्यानमित्याहइतीति ।
इति केवललीलैव निर्णीता प्रभुणा स्वयम् । मनुव्_२,१.१०४च्द् ।
६,३१२फ़्.
यत एवं’क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी’ इति तस्मात् श्रुत्यनुसारिणा प्रभुणा स्वयं साक्षात्सृष्टं केवललीलैव
सृष्टयादिप्रवृत्तिर्निर्णीता लीलाकैवल्यमिति ।
नतु लीलार्थेति ततो ऽप्ययुक्तमिदं व्याख्यानमिति ।
यद्वा पूर्ववाक्योक्तो हेतुः, अयं साध्यनिर्देशः ।
यस्माल्लीलां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी तस्मादेतत्सूत्रे केवललीलैव सूत्रकृता निर्णीता व्याख्याता न पुनर्लीलार्थेति ।
६,३१३
किञ्च कर्तृत्वेन प्रयोजनवत्तां साधयन्नापादयन्वा प्रष्टव्यः ।
किं प्रयोजनं स्वसम्बन्धि विवक्षितम्, उत परसम्बन्धि, अथ साधारणम् ।
आद्ये साधने ऽनैकान्त्यम् ।
आपादने व्याप्त्यभावः ।
विपर्ययपर्यवसाने व्यभिचार एव ।
दृश्यन्ते हि कृपालवः स्वप्रयोजनमनुद्दिश्य परप्रयोजनार्थमेव प्रवर्तमानाः ।
नचादृष्टार्थमिति वाच्यम् ।
पशूनां पशुप्रायाणां चापत्यपालनादौ प्रवृत्तिदर्शनात् ।
नच प्रयोजनोद्देशिता कृपालुता चेति सम्भवति ।
द्वितीये ऽप्यनैकान्त्यादिकमेव ।
स्वप्रयोजनार्थं प्रवृत्तेर्बहुलमुपलम्भात् ।
भगवतो ऽपि स्वप्रयोजनाभावे ऽपि परप्रयोजनोद्देशिताङ्गीकारेण क्रमेण सिद्धसाधनेष्यापादनासिद्धत्वप्रसङ्ग(ङ्गा)श्च ।
अत एव न तृतीयो ऽपि ।
अत एव (येन) केनचित्कर्तृत्व(त्वे)विशेषणं, प्रवृत्तिस्वभावत्वे सदा प्रवर्तेतेत्यतिप्रसञ्जनं च प्रत्युक्तम् ।
६,३१४
स्यादेतदेवम् ।
यदीश्वरप्रवृत्तौ परप्रयोजनोद्देशः स्यान्न चासावङ्गीकर्तुमुचितः ।
का स्पृहा न कापीति श्रुत्या नेति सूत्रकारेण च सर्वथा प्रयोजनोद्देशस्य निवारितत्वादित्यत आहआत्मेति ।
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् । मनुव्_२,१.१०५अब् ।
श्रुतिरिति सूत्रकृतो ऽप्युपलक्षणम् ।
परप्रयोजनार्थतां त्वङ्गीकुरुत एवेति शेषः ।
६,३२४
कुत एतदवगम्यत इत्यत आहनेति ।
६,३२५
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः । मनुव्_२,१.१०५च्द् ।
यतः परप्रयोजनमङ्गीकृत्यात्मप्रयोजनार्थतामेव नेति न्यवारयत् ।
अत एव हि प्रयोजनवत्त्वादिति तत्र हेतुमाहअन्यथा नैतं ब्रूयात् ।
एतदुक्तं भवति ।
यदि नेति सौत्रीप्रतिज्ञा स्वपरप्रयोजनविषया स्यात् तदा प्रयोजनवत्त्वादिति हेतुरनैकान्तिकः स्यात् ।
स्वयं व्यापारसाध्यप्रयोजनवतो ऽपि परप्रयोजनोद्देशेन व्यापारदर्शनात् ।
स्वप्रयोजनमात्रविषयत्वे तु नायं दोषः ।
यो ऽवाप्तयत्प्रयोजनः स स्वार्थं न तदुद्दिशतीति व्याप्तेरनवद्यत्वात् ।
अतः प्रयोजनवत्त्वादिति हेतुं ब्रह्मणः सूत्रकृदात्मप्रयोजनोद्देशमेव नेति निवारितवान् ।
न परप्रयोजनोद्देशमपि ।
तथात्वे तद्वयाप्तमेव कमपि हेतुं ब्रूयात् ।
स्वप्रयोजननिषेधं कुर्वाणो विशेषनिषेधस्य शेषाभ्यनुज्ञाज्ञापकत्वात्परप्रयोजनस्पृहामभ्युपैतीति (मनुजानातीत्यपि) ज्ञायत इति ।
उपलक्षणमेतत् ।
श्रुतिरप्याप्तकामस्येति हेतुगर्भविशेषणं प्रयुञ्जानाऽत्मप्रयोजनस्पृहामेवाक्षिपति परप्रयोजनस्पृहामभ्युपैतीति ज्ञायत इत्यपि द्रष्टव्यम् ।
६,३२६
इह हि बुद्धिरेवेश्वरस्याव्याहता क्रियाशक्तिः, तथैव सर्वस्योपपत्तौ किमिच्छाप्रयत्नकल्पनया ।
यद्वा प्रयत्नः कर्तत्वम् ।
तस्यैवाख्यातार्थतया निर्णीतत्वात् ।
स च द्वेधा बुद्धिमपेक्षते ।
उत्पत्त्यर्थं विषयनियमार्थं च ।
तत्रेश्वरप्रयत्नो यद्यपि नित्यत्वान्नोत्पत्तावपेक्षते बुद्धिम् ।
तथापि विषयनियमार्थं तामपेक्षत एव ।
न हि निर्विषय एवासौ ।
व्यर्थत्वप्रसङ्गात् ।
नच स्वभावत एवार्थप्रवणः ।
बुद्धित्वप्रसङ्गात् ।
बुद्धिरेव हि स्वभावतो ऽर्थप्रवणा ।
अतो ज्ञानप्रयत्नाभ्यामेव सर्वनिर्वाहान्नेश्वरस्येच्छास्ति ।
न चेच्छया प्रयत्नस्य विषयनियमः ।
तस्या अपि स्वतो विषयप्रवणताभावात् ।
तदर्थं बुद्धयङ्गीकारे तयैव प्रयत्नस्य विषयनियमोपपत्तेः किमन्तर्गडुनेच्छयेति मन्वा(न्यमा)नाः केचित्,’का स्पृहा’ इत्रत श्रुतिर्नेश्वरस्य
प्रयोजनेच्छामात्रनिषेधपरा, किन्त्विच्छालक्षणं गुणमेव निषेधतीति व्याचक्षते ।
तन्निराकरोतिइच्छामात्रमिति ।
६,३२७
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
इति प्रशंसया … । मनुव्_२,१.१०६अच् ।
का स्पृहेति श्रुत्या नेश्वरस्येच्छामात्रं निषि(षे)ध्यते ।
कुतः ।
इच्छावत्त्वस्य प्रमाणतः सिद्धत्वात् ।
तथाहि ।
‘विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः ।
स्वप्नमायासरूपेति सृष्टिरन्यैर्विकल्पिता ।
कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः’ इति परिणामवादं विवर्तवादं कालादिनिमित्तवादं चान्यमतत्वेनोक्त्वेच्छामात्रमिति श्रुत्या
स्वमतमुच्यते ।
ये सृष्टिविषये विशिष्टनिश्चयवन्तस्ते, प्रभोरिच्छामात्राधीना सृष्टिर्न ब्रह्मपरिणामो नच तद्विवर्तो नापि कालादिनिमित्तेति मन्यन्त इति ।
अनया प्रभोरिच्छामात्रायत्ततां सृष्टेर्मन्यमानानां विनिश्चिता इति प्रशंसया तस्येच्छावत्त्वमवगम्यते ।
यदीश्वरस्येच्छा न स्यात् तदा तदायत्ततां सृष्टेर्मन्यमाना विपयर्स्ताः स्युः ।
विशिष्टनिश्चयवन्त इत्येषा प्रशंसानुपपन्ना स्यात् ।
नच प्रशंसात्वादेवार्थासिद्धिः ।
पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसानुपपन्ना स्यात् ।
नच प्रशंसात्वादेवार्थासिद्धिः ।
पूर्वोत्तरपक्षावधारणप्रसङ्गे प्रशंसाया अपि याथार्थ्यावश्यम्भावात् ।
अन्यथा परिणामादिवादा अपि प्रशंस्येरन् ।
६,३३०
… कामश्रुतिभ्यश्चैव … । मनुव्_२,१.१०६च्द् ।
न केवलं श्रुतार्थानुपपत्त्या ।
अपि तर्हि’कामस्तदग्रे समर्वताधिऽ,’सो ऽकामयत’ इत्यादिभ्यो भगवतः कामप्रतिपादकश्रुतिभ्यश्चेच्छावगम्यते ।
एवशब्दः श्रुतीनामर्थापत्तितः प्राबल्यसूचकः ।
इच्छाकामशब्दयोर्ज्ञानप्रयत्नोपलक्षणत्वस्य सम्भवान्नार्थापत्तिश्रुतिभ्यामिच्छासिद्धिरिति चेन्न ।
मुख्ये बाधकाभावात् ।
६,३३१
… युक्तितः । मनुव्_२,१.१०६द् ।
मा वा सैत्सीदिच्छा ऽर्थापत्तिश्रुतिभ्यां युक्तितस्तावत्सेत्स्यति ।
तथाहि ।
ईश्वर इच्छावान् आत्मत्वात् यज्ञदत्तवत् ।
नच मुक्तादौ व्यभिचारः ।
तत्रापि तस्याः साधयिष्यमाणत्वात् ।
ज्ञानवत्त्वात्, प्रयत्नवत्त्वात्, कर्तृत्वाद्वा ।
ईश्वरज्ञानं वेच्छासमानाश्रयं ज्ञानत्वादस्मदादिज्ञानवत् ।
एवं तत्प्रयत्नमपि पक्षीकृत्य प्रयोक्तव्यम् ।
यद्वा क्षित्यादिकमिच्छावज्जन्यं कार्यत्वाद्घटवत् ।
नन्वेवं दुःखादिकमपि साधयितुं शक्यमिति चेत्तत्किमतिप्रसङ्गभीरुणा क्षित्यादेर्बुद्धिमत्कारणकत्वानुमानमपि त्यक्ष्यते ।
दुःखादिसाधने बाधो ऽस्ति न बुद्धिसाधन इति चेत् ।
समं प्रकृते ऽपि ।
६,३३३
महातात्पर्ययुक्तेश्च … । मनुव्_२,१.१०६च् ।
नन्वीश्वरस्य इच्छाभावे बाधकाभावादप्रयोजकत्वमनुमानानामिति ।
मैवम् ।
महातात्पर्ययुक्तेश्च ।
यदीश्वरस्य इच्छा न स्यात् तदा तस्मिन्सर्ववेदानां (वेदान्तानां) महातात्पर्यं न स्यादिति बाधकसद्भावात् ।
इच्छा निष्प्रयोजनेति चेत् ।
स्यादेवं यदि प्रयोजनमनुरुध्य कल्प्यते ।
अन्यतः सिद्धे ऽर्थे किं प्रयोजनगवेषणया ।
… नेच्छामात्रं निषिद्धयते । मनुव्_२,१.१०६द् ।
६,३३३फ़्.
किञ्चैवं सति बुद्धिरपि नाङ्गीकरणीया ।
स्वरूपसामर्थ्येनैवेश्वरस्य कर्तृत्वोपपत्तेः ।
लोकवैरूप्यमिति चेत् ।
तत्किमुदासीनस्य बोद्धुः कर्तृत्वमुपलब्धं लोके, येनानिच्छतो ऽपि तदीश्वरस्याङ्गीक्रियते ।
प्रयत्नवत एव वा कर्तृत्वं भविष्यति ।
तस्य विषयनियमार्थं बुद्धिरेष्यव्येति चेन्न ।
बुद्धिवत्स्वतो विषयप्रवणतोपपत्तेः ।
तथात्वे बुद्धितो भेदो न स्यादिति चेन्न बुद्धित्वादिनैव तदुपपत्तेः ।
अन्यथा परोपाधिकविषयप्रवणत्वयोरिच्छाप्रयत्नयोरपि भेदा न स्यात् ।
विषयनियमार्थमिति च को ऽर्थः ।
किं विषयविशेषसम्बद्धतयोत्पादा(नार्)थम्, उतोत्पन्नस्य स्थितस्यैव वा तत्सम्बन्धार्थम्, अथ तज्ज्ञानार्थम् ।
नाद्यः ।
अनादित्वात् ।
सादित्वे ऽपि क(का)रणसापेक्ष(त)या बुद्धेरपि परतो विषयप्रवणतापत्तेः ।
न द्वितीयः ।
पौर्वापर्योभावात् ।
नहि प्रयत्नः उत्पाद्य स्थित्वा वा पश्चाद्विषयेण सम्बद्धयते ।
न तृतीयः ।
स्वरूपग्राहकप्रमाणेनैकतद्ग्रहणात् ।
बुद्धेरपि परापेक्षाप्रसङ्गाच्चेति ।
६,३४८फ़्.
महातात्पर्ययुक्तेश्चेति यदुक्तं तदसत् ।
यदीश्वरो नेच्छावान्स्यात्तदा श्रुतिमहातात्पर्यविषयो न स्यादित्यत्र व्याप्त्यभावात् ।
इच्छारहितस्यापि धर्मादेस्तत्तच्छास्त्रमहातात्पर्यविषयत्वदर्शनात् ।
आपाद्यस्यानिष्टत्वाभावाच्चेत्यत उक्तं विवृणोतिमोक्षार्था इति ।
६,३४९
मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ।
उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः । मनुव्_२,१.१०७ ।
इच्छान्निमित्तको यस्मात् तदभावे कुतः श्रुतिः ।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति । मनुव्_२,१.१०८ ।
यस्मात्कारणात्सर्वा अपि श्रुतयो मोक्षार्थाः मोक्षप्रयोजनास्तस्मात्तदभावे परमेश्वरस्येच्छाभावे तत एव मोक्षार्थताभावे श्रुतिस्तत्र
महातात्पर्यरहिता स्यात् ।
तथाच कथं प्रमाणत्वं गमिष्यतीति योजना ।
मोक्षार्थत्वे किमीश्वरस्येच्छयेत्यत उक्तम्स चेति ।
स च मोक्षस्तस्य ईश्वरस्य प्रसादतो यस्मात्तस्मात्तदभाव इति सम्बन्धः ।
तथापीश्वरस्य प्रसादेन भाव्यं किमिच्छयेत्यत प्रसादत इत्येतद्वयाख्यातम्इच्छानिमित्तक इति ।
ईश्वरज्ञानादेव मोक्षसिद्धेः किं तत्प्रसादेनेत्यत उक्तम्लोकेति ।
विमतो बन्धमोक्षः प्रभुप्रसादसाध्यो मोक्षत्वात् शृङ्खलामोक्षवत् इत्यादिलोकदृष्टव्याप्त्युपेतानुमानानुसारतः इत्यथर्ः ।
न केवलमनुमानात्किन्त्वागमादपीत्युक्तंउन्निनीषतीति ।
‘एष ह्येष साधुकर्म कारयति तं, यमेभ्यो लोकेभ्य उन्निनीषते’ इति वाक्याच्च ।
अत्र कर्मेत्युपलक्षणम् ।
उन्निनीषते ऊर्ध्वं नेतुमिच्छति ।
यद्वा प्रसादशब्देनेच्छोच्यते इत्यत इदं वाक्यं (वाक्यमेतत्) ज्ञापकम् ।
लोकदृष्टा(दृष्ट)नुसारत इत्येतदप्यस्यैव अर्थस्य ज्ञापकमुक्तम् ।
श्रुतय इत्युपक्रम्य श्रुतिरित्येकवचनं कैमुत्यार्थम् ।
एकमपि वाक्यं न तत्र महातात्पर्यवत्स्यात् ।
किमुत सर्वाः श्रुतय इति ।
६,३५१
एतदुक्तं भवति ।
शास्त्रं हि साध्यसाधनभाववद्विषयप्रयोजनवत्तया व्याप्तम् ।
तत्र श्रुतीनां मोक्ष एव प्रयोजनम् ।
‘तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते’ इति वचनात् ।
मोक्षादन्यत्रात्यन्तिकदुःखप्रहाणायोगात् ।
स्वर्गादिप्रयोजनं भवदप्यवान्तरमेव न प्रधानम् ।
विषयस्तु परमेश्वर एव ।
‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादिवचनात् ।
धर्मादिकं त्ववान्तरप्रतिपाद्यम् ।
अभिप्रेतप्रयोजनसाधनं च विषयतामश्नुते ।
नच धर्मादिकं मोक्षसाधनम् ।
‘पुण्यचितो लोकः क्षीयते’ इति श्रुतेः ।
अतो भगवत्येव मोक्षसाधनत्वात्सवर्श्रुतीनां महातात्पर्यम् ।
नचाव्यापृतात्साधनात्फलसिद्धिः ।
व्यापारश्च प्रसाद एव ।
नतु श्रुतिजनितं तज्ज्ञान साक्षात्कारो वा ।
‘यस्य प्रसादात्’ इत्यादिवाक्यादुक्तानुमानाच्च ।
ज्ञानं तु प्रसादसाधनमिति न सम्बन्धानुपपत्तिः ।
प्रसादो नामेच्छाविशेषः ।
तथा सति’उन्निनीषतेऽ‘तदिच्छया यतो ह्यस्य बन्धमोक्षौ प्रतिष्ठितौ’ इत्यादिश्रुतिभिः’यस्य प्रसादात्’ इति श्रुतेरैकार्थ्यलाभात् ।
प्रसन्नो ऽस्मीति प्रतीतौ परोपचिकीर्षाया एव स्फुरणात् ।
तथाच यदीश्वरो नेच्छावांस्तदा न प्रसिदेद्घटवत् ।
सामान्याभावे विशेषाभावनियमात् ।
प्रसादरहितश्च न मोक्षसाधनं स्यात् ।
यद्यत्र विवक्षितावान्तरव्यापाररहितं न तत्तत्र साधनमिति व्याप्तेः ।
मोक्षं प्रत्यसाधनं च न मोक्षशास्त्रमहातात्पर्यविषयः स्यात् ।
तथाच मोक्षप्रयोजनता श्रुतीनां हीयेत ।
नच विषयान्तरं प्रयोजनान्तरं चास्तीति विषयप्रयोजनशून्यत्वादप्रामाण्यमेवापद्येत ।
नच तदपौरुषेयतायानाशङ्कितदोषस्य वाक्यस्योपपद्यते ।
अतो ऽवश्यमुक्तेन क्रमेणेच्छावत्त्वं भगवतो ऽङ्गीकरणीयमिति ।
६,३५५फ़्.
ननु विषयाभावे स्यादप्रामाण्यम् ।
फलाभावे तु कथमप्रामाण्यापादनम् ।
नहि फलवत्त्वं प्रामाण्यम् ।
किन्तु याथार्थ्यमेवेत्युक्तम् ।
नापि प्रामाण्यस्य व्यापकम् ।
तृणादिदर्शनस्य प्रयोजनाभावे ऽपि प्रामाण्याभ्युपगमादित्यत आहयाथार्थ्यमेवेति ।
६,३५६
याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ।
मानत्वमेति … । मनुव्_२,१.१०९अच् ।
यद्यपि याथार्थ्यमेव मानत्वं न फलवत्त्वम् ।
नापि तेन व्याप्तम् ।
तथापि वाक्यं प्रयोजकमेव मानत्वमेतीति युक्तमापादनम् ।
एतदुक्तं भवति ।
प्रामाण्यमात्रस्य प्रयोजनवत्त्वेन व्याप्त्यभावे ऽपि तद्विशेषस्य वाक्यप्रामाण्यस्यास्त्येव ।
पदानामिष्यसाधन एव गृहीतसङ्गतिकत्वात् ।
पदसङ्गतिग्रहणसव्यपेक्षस्यैव वाक्यस्य बोधकत्वात् ।
फलस्य विषयविशेषे वाक्यप्रामाण्यनिर्णयहेतुत्वाच्च ।
अतो व्यापकाभावे व्याप्यवाक्यप्रामाण्याभावापादनमुपपन्नमेवेति ।
६,३५७
ननु च महातात्पर्यगोचरस्य विषयस्य परमप्रयोजनस्य चाभावे ऽप्यवान्तरविषयेण धर्मादिनाप्रधानप्रयोजनेन च स्वर्गादिना विषयप्रयोजनवती
श्रुतिः प्रमाणं भविष्यति इत्यत आहतत्रापीति ।
… तत्रापि यत् सम्पूर्णप्रयोजनम् । मनुव्_२,१.१०९च्द् ।
वाक्ये ऽपि निर्धारणे सप्तमी ।
प्रयोजनवत्त्वे ऽपीति वा ।
यत् वाक्यं सम्पूर्णप्रयोजनं महाप्रयोजनम् ।
उपलक्षणं चैतत् ।
प्रधानविषयं चेत्यपि द्रष्टव्यम् ।
यदिति श्रवणात्तदिति लभ्यते ।
सम्पूर्णप्रयोजनमिति चावर्तनीयम् ।
मानत्वमेतीत्यनुवर्तनीयम् ।
तथा चायमर्थः ।
नावान्तरविषयप्रयोजनाभ्यां वाक्यस्य प्रामाण्यं सम्भवति ।
किन्नाम यद्वाक्यं यन्म(हा)हत्प्रयोजनमुद्दिश्य यं प्रधानं विषयं प्रतिपादयितुं प्रवृत्तं तत्ताभ्यां(एव) प्रयोजनविषटाभ्यामुपेतं प्रामाण्यमश्नुते ।
तदभावे ऽवान्तरप्रयोजनादेरप्यसिद्धेः ।
सिद्धौ वा वा तस्यैव प्राधान्यप्राप्तेः ।
वेदवाक्यं च मोक्षोद्देशेन महातत्पर्योपेतमित्युक्तम् ।
तत्तयोरेव विषयप्रयोजनयोरुपपत्तौ प्रमाणं स्यान्नान्यथेति ।
। इति श्रीमन्न्यायसुधायां न प्रयोजनाधिकरणम् ।
व्यास(२०)


__