६,२८७
। अथ श्रीमन्न्यायसुधायां शब्दमूलत्वाधिकरणम् ।
। ओं श्रुतेस्तु शब्दमूलत्वात् ओं ।
नन्वीश्वरस्यापि कर्तृत्वं न युज्यते ।
जीववत्कृत्स्नप्रसक्तेः ।
नहि ब्रह्माण्डपिपीलिका(ण्ड)निर्माणे समं सामर्थ्यं प्रयुञ्जानः प्रेक्षावान्भवति ।
गत्यन्तराभावान्न दोष इति चेन्न ।
ईश्वरत्वव्याघातात् ।
अथैतत्परिहाराथर्मेकदेशेन प्रवृत्तिरङ्गीक्रियते तदा’नेह नाना’ इत्यादिनिरवयवत्वशब्दकाषः स्यात् ।
शरीरेन्द्रियादिविकलत्वाच्च न कर्तृत्वम् ।
नहि कश्चिच्छरीरादिविकलः कर्तोपलब्धः ।
भूम्याद्याधारविधुरत्वाच्च ।
एवं दौर्घट्ये ऽपि यदि कर्तृत्वमीश्वरस्य स्यात्तदा जीवस्यापि किन्न स्यात् ।
विशेषादर्शनात् ।
एवञ्च सर्वकर्तृत्वं दूरनिरस्तमित्ययं पूर्वपक्षो ऽत्राधिकरणे निरस्यते ।
तस्य तात्पर्यमाहतस्य त्विति ।
श्रुतेस् तु शब्दमूलत्वात् । ब्ब्स्_२,१.२७ ।
तस्य त्वशेषशक्तित्वाद् युज्यते सवर्मेव च । मनुव्_२,१.९९च्द् ।
६,२८८फ़्.
तुशब्दो जीवाद्विशेषं द्योतयति ।
चशब्दो हेतुसमुच्चये ।
ईश्वरस्यलौकिकत्वश्रुतेरागमैकागम्यत्वेन युक्तिविरोधानवकाशात् ।
विचित्रशक्तिः पुरुषःऽ,’सर्वैर्युक्ता शक्तिभिर्देवता सा’ इत्यादिश्रुतिभिर्विचित्राशेषशक्तित्वावगमाच्च ।
सर्वं भिन्नांशरहितस्यापि कार्येषु कृत्स्नप्रसक्त्यभावः, स्वरूपांशबाहुल्ये ऽपि भेदाभावः, अंशतः कार्यकरणे ऽपि निरवयवत्वशब्दकोपाभावः,
देहादिरहितस्यापि कर्तृत्वनिर्वाह इत्यादि युज्यत इति ।
ननु दुर्घटमपि जीवकर्तृत्वमीश्वरशक्त्या घटत इत्यतीताधिकरणे ऽभिहितम् ।
तथाच कथमत्र पूर्वपक्षावकाशः ।
यो हि परत्र प्रमितं घटयितुमीष्ये सः स्वस्मिन्न ईष्ये इत्यसम्भावितम् ।
उच्यते ।
नैषोर्थः सूत्रकृतातीताधिकरणे ऽभिहितः ।
किन्त्वागामिनमर्थं मनसि निधाय जीवकर्तृत्ववादनिरास एव विहितः ।
भाष्यकारेण तु शिष्यहितैषिणा वक्ष्यमाणमप्यर्थमाकृष्ट पूर्वोत्तरविरोधः परिहृत इति ।
६,२९०
परिणामवादिनो विवर्तवादिनश्च ब्रह्मणो जगदुपादानत्वं कृत्स्नप्रसक्तिरित्यनेनाक्षिप्य श्रुतेस्त्वित्यादिना समाधीयत इति व्याचक्षते ।
तथाहि ।
न ब्रह्म जगदुपादानम् ।
यतस्तथात्वे कृत्स्नस्यापि ब्रह्मणः कार्याकारताप्रसक्तिः स्यात् ।
स्थितौ च ब्रह्माभावे तद्दर्शनोपदेशानर्थक्यादि स्यात् ।
अथैतद्दोषपरिजिहीर्षया ब्रह्म एकदेशेन परिणमते एकदेशेन चावतिष्ठत इत्युच्यते तदा’निष्कलं शान्तम्’ इत्यादिनिरवयवत्वशब्दकोपः
स्यादिति ।
अत्रोच्यते ।
नायं दोषः ।
‘तदात्मानं स्वयमकुरुत’ इत्यादिश्रुतेर्ब्रह्मणो जगदुपादानत्वस्य कृत्स्नपरिणामाभावस्य चावगमात् ।
शब्दमूलत्वेन युक्तिविरोधानवकाशाच्च ।
अपि च सर्वशक्त्युपेता च परदेवता श्रूयते ।
‘सर्वकर्मा सर्वकामः’ इत्यादि ।
ततो निरवयवस्यापि ब्रह्मणः कृत्स्नप्रसक्त्यभावेनैव जगदुपादानत्वमुपपन्नमित्यादि ।
तदेतद्वयाख्यानमनुपपन्नम् ।
एवं सति एषां सूत्राणामेतदध्यायान्तर्भावलक्षणसङ्गत्यभावप्रसङ्गात् ।
तत्कथमित्यत आहविरोध इति ।
६,२९१
विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये … । मनुव्_२,१.१००अच् ।
तुशब्दो ऽवधारणे ।
परब्रह्मणा नारायणस्य सर्वस्माच्चेतनादचेतनाच्च वैशिष्यये वैलक्षण्ये
परमोत्कृष्टत्वे ऽत्यन्तव्यावृत्तत्वे च यो युक्त्यादिविरोधः स एवात्र द्वितीये ऽध्याये निरस्यते ।
सकलजगदुपादनत्वेन सर्वात्मकत्वं तु न सर्ववैशिष्ययम् ।
नापि तदुपयुक्तम् ।
प्रत्युत विरुद्धमेव ।
तत्कथं तत्र विरोधपरिहारो ऽत्रान्तर्भावमासादयेत् ।
ननु जगदुपादानत्वादेव सर्ववैशिष्ययं ब्रह्मणः ।
नहि जगज्जगदुपादानमिति चेत् ।
तत्किमुपादानोपादेययोर्भेदं मन्यसे ।
तथाच तदनन्यत्वमित्युक्तविरोधः ।
जगत् ब्रह्मणो न भिद्यते ब्रह्म तु जगतो भिद्यत इति चेत् ।
न ।
उक्तोत्तरत्वात् ।
६,२९३
प्राग्ब्रह्मोपादानत्वस्यानुक्तत्वात्कृत्स्नप्रसक्त्यादिपरिचोदनैवानवकाशा ।
परिणामप्रतिपादकश्रुतेरभावेन गगनादिप्रपञ्चात्मकस्य तदसम्भविशब्दमूलत्वसर्वशक्तित्वाद्यसम्भवेन च समाधानमप्ययुक्तम् ।
विवर्तवादे तु सर्वथापि नैषा शङ्कावकाशमश्नुते ।
शुक्त्यादिकमिव रजताद्यारोपस्य ब्रह्माविद्यकप्रपञ्चारोपस्याधिष्ठानमिति स्पष्टमारम्भणाधिकरणे ऽभिहितम् ।
तत्र कथं कृत्स्नैकदेशविचारः ।
उक्तानवछानाच्छङ्गेति चेत् ।
तर्ह्युक्तं स्मरेति वक्तव्यम् ।
स्पष्टं चारोपितत्वं प्रपञ्चस्य ब्रह्मण्युपपादनीयम् ।
श्रुतेस्त्वित्यादेस्तु का सङ्गतिः ।
६,२९५
कश्चित्परिहारादर्शनसम्भ्रान्तचित्त आह ।
अविद्यासंवलितं खलु ब्रह्म जगदुपादानम् ।
तत्राविद्योपादानत्वस्यायमाक्षेपः परिहारश्चेति ।
तदतीव मन्दम् ।
न ह्यविद्याया उपादानत्वमपि वास्तवम् ।
तस्याविचारितरमणीयतयैव शङ्काविषयत्वात् ।
किञ्च कृत्स्नप्रसक्तिः सावयवत्वं चाविद्यायां किं करिष्यति ।
समाधानं तु सर्वथाप्यसङ्गतमेव ।
एतेन विकरणत्वादित्याक्षेपपरिहारावप्यसङ्गतौ वेदितव्यौ ।
नहि भ्रमाधिष्ठानता शरीरादिकमपेक्षते ।
ईश्वरविषयं तदिति चेन्न ।
तस्य किरणत्वाभावेनाक्षेपानुदयादित्यादिकं स्वयमेव शिष्यैरवगन्तव्यमित्यसङ्गतिरेवाचार्येणोक्ता ।
६,२९६
स्यादेवमसङ्गतिर्यदि ब्रह्मणः सर्ववैशिष्यये विरोधपरिहारो ऽध्याहायर्ः स्यात्तदेव कुत इत्यत आहतदन्य इति ।
… तदन्ये तत्रतत्रगाः । मनुव्_२,१.१००च् ।
६,२९६फ़्.
तस्मात्सर्ववैशिष्ययविषयादन्ये विरोधास्तत्र तत्रैवाधिकरणेषु गताः परिहृताः ।
एतदुक्तं भवति ।
अविरोधलक्षणो द्वितीयो ऽध्याय इति तावत्सम्मतम् ।
न चानुक्ते ऽर्थे विरोधपरिहारः सङ्गत इति प्रथमाध्यायार्थे ऽविरोधो द्वितीयस्यार्थः ।
प्रथमे चादिसूत्रेण शास्त्रीयविषयप्रयोजनप्रदर्शनमुखेन ब्रह्मजिज्ञासायाः कतर्व्यत्वमुक्तम् ।
तच्चतुरध्यायीपरिसमाप्यं नैकत्र पर्यवस्यति ।
ततः किं तद्ब्रह्म ।
किं जीवो ऽथ जडमिति स्वरूपजिज्ञासायां शृङ्गग्राहिकया प्रदर्शयितुमशक्यत्वात् ।
द्वितीयसूत्रे सर्वतो वैलक्षण्यप्रदर्शनेन सर्वोत्कृष्टं सर्वस्माद्वयावृत्तं चेति प्रतिपादितम् ।
सजातीयविजातीयासम्भावितधर्मस्य लक्षणत्वात् ।
सकलेतरव्यावृत्तेश्च तत्प्रयोजनत्वात् ।
तृतीयसूत्रे शास्त्रं तत्र प्रमाणमभिधाय तस्योत्तरप्रबन्धेन सामान्यतो विशेषतश्च सकलजीवजडव्यावृत्तवस्तुविषयता समर्थिता ।
एवञ्च द्वये विरोधः परिहरणीया भवन्ति ।
द्वितीयसूत्रसिद्धसर्ववैशिष्ययविषयाः शास्त्रसमन्वयविषयाश्च ।
तत्र द्वितीया विकारशब्दादित्यादिना तत्र तत्रैवाधिकरणे परिहृता इति परिशेषात्सर्ववैशिष्ययविषयविरोधपरिहार एव द्वितीयार्थ इति ज्ञायत
इति ।
६,२९९
ननु च श्रुतीनां परस्परविरोधो ऽपि द्वितीये ऽध्याये न वियदश्रुतेरित्यादिना परिहृतः ।
तत्कथमुच्यते ब्रह्मणः सर्ववैशिष्यये विरोधो द्वितीये निरस्यत इति तत्राहसृष्टीति ।
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः । मनुव्_२,१.१०१ ।
जीवरूपाभिधायिनां वाक्यानाम् ।
उपलक्षणमेतत् ।
प्राणादिविषयाणां चेत्यपि द्रष्टव्यम् ।
सृष्टयादिविशेषणमुपपत्तिसूचनार्थम् ।
तुशब्दो विशेषार्थः ।
यो द्वितीयाध्यायगोचरो वाक्यानामन्योन्यविरोधः सो ऽपि पारमेश्वरसर्ववैशिष्ययविरोधपरिहार एव ।
किन्तु प्रथमद्वितीयपादयोः साक्षत्तृतीयचतुर्थयोस्तु व्यवधानेनेति विशेषः ।
तथाहि ।
श्रुतीनां परस्परविरोधपरिहारः किं तत्प्रामाण्यनिर्णयमात्रफलः किं वा प्रमेयनिर्णयफलः ।
नाद्यः ।
मीमांसाया न्यायशास्त्रत्वापत्तेः ।
किञ्चैवं सति वियदादिसृष्टयादिविषयवाक्यविरोधपरिहार एव कस्मात्क्रियते ।
उदितहोमादिवाक्यानामपि न्यायदर्शन इवोपादानोपपत्तेः ।
आकाशवाय्वादिक्रमश्चात्र नात्यन्तमुपयुज्यते ।
द्वितीये ऽपि किं सृष्टयादिकमेव प्रमेयमुत तदङ्गिभूतमन्यत् ।
नाद्यः ।
तस्य स्वरूपतो ऽप्रयोजनत्वात् ।
प्रथमाप्रतिपाद्यत्वम् ।
अन्यथा पुनरुदितहोमादिवाक्यविरोधपरिहारो ऽपि कार्यः स्यात् ।
६,३००
सृष्टयादिविषयनिष्कर्षो ऽपि निर्हेतुकः ।
अतो द्वितीय एव परिशिष्यते ।
नचान्यदस्ति सृष्टयादिप्रमेयस्याङ्गि प्रथमोक्तं द्वितीयसूत्राभिहिताद्ब्रह्मणः सर्ववैशिष्ययात् ।
अतो युक्तमुक्तम् ।
तदेवं परोक्तसूत्रार्थस्य द्वितीयाध्यायान्तर्भावलक्षणसङ्गत्यभावाद्विरोधाच्चोक्त एव सूत्रार्थ इति सिद्धम् ।
६,३०२
अत्रेश्वरस्य शरीरेन्द्रियादिकरणरहितत्वात्कर्तृत्वं नोपपद्यते इत्याक्षेपसमाधानार्थं सूत्रम् ।
ओं विकरणत्वान्नेति चेत्तदुक्तम् ओं ।
इति ।
एतदनारम्भणीयम् ।
पुनरुक्तत्वात् ।
श्रुतेस्तु शब्दमूलत्वात्, तात्मनि चैवं विचित्राश्च हि, सर्वोपेता च तद्दर्शनादिति
सूत्रैरेवालौकिकत्वशब्दैकसमधिगम्यत्वविचित्रानन्तशक्तित्वादियुक्तिभिः सर्वस्यापि दौर्घट्यस्य परिहृतत्वात् ।
यो हि साक्षात्कारकाधिष्ठानस्य नेष्ये स शरीरव्यवधानमपेक्षते ।
यस्य चागन्तुकं ज्ञानं स तदर्थमिन्द्रियाणि ।
यश्च गुरुशरीरो नावस्थातुं शक्नोति स क्षित्यादिकमाधारम् ।
भगवांस्तु सर्वशक्तिः सर्वज्ञः किमर्थपपेक्षतेति ।
नच काचिदभ्यधिका शङ्कास्ति येन पुनरारम्भः स्यादित्यत आहमानेति ।
विकरणत्वान् नेति चेत् तद् उक्तम् । ब्ब्स्_२,१.३१ ।
मानमेयविशेषेण पुनरुक्तिर्न जायते । मनुव्_२,१.१०२अब् ।
यथा अत एव प्राण इत्यादौ मानैक्ये ऽपि मेयविशेषण न पुनरुक्तिदोषस्तथात्र मेयैक्ये ऽपि मानविशेषण न पुनरुक्तिदोषः ।
एतदुक्तं भवति ।
किमुक्तार्थोक्तिमात्रं दोषः ।
किं वोक्तानतिरिक्तोक्तिः ।
नाद्यः ।
उक्तपरिहारातिदेशोक्तेरपि दोषत्वानुषङ्गात् ।
द्वितीयस्तु प्रकृते न सिद्धः ।
प्रमेयैक्ये ऽपि प्रमाणभेदस्य सत्त्वात् ।
इह हि चिदानन्दाद्यात्मकदिव्यमङ्गलविग्रहवतो महापुरुषस्य प्राकृतशरीराद्यभावे ऽपि सकलकार्यकर्तृत्वमपाणिपाद
इत्यादिश्रुतिमाश्रित्योक्तमिति ।
यद्वा मानमेययोर्विशेषेणेति योज्यम् ।
तथा चायमथर्ः ।
पूर्वसूत्रैः सामान्यविषयप्रमाणान्याश्रित्य सामान्यत एव सर्वानुपपत्तिपरिहारो विहितः ।
इह तु विशेषविषयेणैव प्रमाणेन विशेषानुपपत्तिपरिहारः क्रियत इति कथं पुनरुक्तिदोषावकाश इति ।
तथाप्याक्षेपो नोपपद्यत इति चेन्न ।
विशेषजिज्ञासयोपपत्तेरिति ।
। इति श्रीमन्न्यायसुधायां शब्दमूलत्वाधिकरणम् ।
__