०६ इतरव्यपदेशाधिकरणम्

६,२६५
। अथ श्रीमन्न्यायसुधायां इतरव्यपदेशाधिकरणम् ।
। ओं इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ओं ।
अस्मिन्नधिकरणे जीवकर्तृत्वपक्षः श्रुतिप्राप्तो विस्तरान्निराक्रियत इति भाष्यम् ।
अत्र वक्तव्यम् ।
किमत्र जीवस्य सर्वथा कर्तृत्वं निराक्रियते ।
उतेश्वराधीनं तदङ्गीकृत्य स्वातन्त्र्यमात्रम् ।
नाद्यः ।
तथा सति कर्ता शास्त्राथर्वत्त्वादित्यादिवक्ष्यमाणविरोधापत्तेः ।
स्वतःकर्तृत्वानुपपत्तिरित्यादिविशेषणवैयर्थ्यप्रसङ्गाच्च ।
न द्वितीयः ।
हितकरणादिदोषप्रसक्तिरित्यादिसूत्राणां स्वातन्त्र्यनिराकरणपरत्वेन शक्ययोजनत्वे ऽपि
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोषो वेत्यस्य सूत्रस्याशक्यव्याख्यानत्वात् ।
इदं हि सूत्रं सर्वथा कर्तृत्वं निराकुर्वदुपलभ्यते ।
तथाहि ।
कर्तृत्वं कृत्स्नैकदेशाभ्यां व्याप्तम् ।
तत्र कृत्स्नप्रसक्तावनुभवविरोधः ।
एकदेशाङ्गीकारे च’अथ यः स जीवः स नित्यो निरवयवः’ इत्यनंशत्वश्रुतिव्याकोपः स्यात् ।
नहि सामर्थ्यापरपर्यायं प्रयत्नादिरूपं कर्तृत्वमस्माकं जीवाद्भिन्नम् ।
येन तस्य विचित्रत्वे ऽपि जीवस्य निरंशत्वं न व्याहन्येत ।
ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि विचित्रत्वे ऽपि जीवस्य निरंशत्वं न व्याहन्येत ।
ततो व्यापकनिवृत्त्या व्याप्यं कर्तृत्वमपि निवर्तत इति खल्वस्य(त्र) तात्पर्यं प्रतीयते ।
प्रसङ्गस्य विपर्यये पर्यवसानावश्यम्भावात् ।
अथ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकार एवैतो प्रसङ्गावुक्तौ न कर्तृत्वमात्रे ।
तथा चेश्वराधीनत्वमेव विपर्ययवर्यवसानलभ्यं भविष्यतीति चेन्न ।
स्यादप्येवं यदि जीवकर्तृत्वस्येश्वराधीनत्वाङ्गीकारेणेमौ प्रसङ्गौ शक्यसमाधानौ स्याताम् ।
नचैवं पराधीनेनापि खल्वनेन कृत्स्नेन वा कर्तव्यमेकदेशेन वा ।
तृतीयप्रकाराभावात् ।
भावे वा तेनैवापराधीनत्वे ऽपि कर्तृत्वोपपत्तेः ।
६,२६५फ़्.
अतो विपर्ययापर्यवसानान्नैवं व्याख्यानं युक्तमिति कर्तृत्वाभाव एव तात्पर्यम् ।
तथाच वक्ष्यमाणविरोधः ।
अथ वस्तुतो नास्त्येव जीवस्य कर्तृत्वम्, आभिमानिकं तु तदित्यविरोधः ।
मैवम् ।
विहारोपदेशादित्यादिना वास्तवस्यैव तस्य साधयिष्यमाणत्वात् ।
६,२६६
अतो दुर्घटमेतदधिकरणमित्यतो द्वितीयपक्षमङ्गीकृत्य प्रसङ्गौ जीवकर्तृत्वस्येश्वराधीनतानङ्गीकारविषयौ व्याकरिष्यन्नादौ
तावदीश्वराधीनताङ्गीकारे प्रसङ्गनिवृत्तिप्रकारमागमवाक्योदाहरणेन दर्शयतिअनंशस्यापीति ।
इतरव्यपदेशाद् धिताकरणादिदोषप्रसक्तिः । ब्ब्स्_२,१.२१ ।
अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनाम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे । मनुव्_२,१.९४ ।
किञ्चित्सामर्थ्ययोजनां कार्यानुरूपसामर्थ्यप्रयोगात् ।
स्वयम्भुवे स्वतन्त्राय ।
इति वचनादवसितो ऽयमभिप्रेतः अर्थ इत्यनुवर्तते ।
ततश्चैतदुक्तं भवति ।
यदि जीवः परमेश्वराधीनतया कर्ताङ्गीक्रियते ।
तदोपपद्यते एव तस्य कर्तृत्वम् ।
प्रसङ्गयोः समाधातुं शक्यत्वात् ।
अनंशत्वस्याभ्युपगमेन हि न निरवयवत्वशब्दकोषः ।
अनंशस्यापि परमेश्वराचिन्त्यशक्तिवशेन कार्यानुरूपसामर्थ्यप्रयोगसम्भवान्न कृत्स्नप्रसक्तिरिति ।
एतचचानुपदं स्फुटीभविष्यति ।
६,२७१
एवमुपोद्घातप्रक्रियया विपर्ययपर्यवसानोपपत्तिमुक्त्वेदानीं विवक्षितार्थे सूत्रं योजयतियदीति ।
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा । मनुव्_२,१.९५ ।
भागेन कार्यानुगुणांशेन ।
अत्र यदीश्वराधीनतया कर्ता न स्यादिति वक्तव्ये यदि भागेनेत्यादिवचनं प्रसङ्गस्फुटीकरणार्थम् ।
ईश्वराधीनत्वप्रकारप्रपञ्चनार्थं च ।
सर्वत्र तृणादानादावपि कृत्स्नयत्नोंऽशितापि वा प्रसज्येत ।
तथा चानुभवश्रुतिविरोधः ।
तस्मात्परमेश्वराधीन एव जीवः कर्तेति शेषः ।
न चोपाधिकृतांशकल्पनया कर्तृत्वस्याविद्यकत्वेन (वो)चोपपत्तिः ।
अनंशस्यापीत्यादिप्रमाणसिद्धोपपन्नोपपादकपरित्यागेनाप्रामाणिकानुपपन्नस्वीकारस्यायुक्तत्वात् ।
६,२७२फ़्.
ननु जीवशक्त्यैवेदं घटताम् ।
मैवम् ।
तस्याघटितघटकाचिन्त्यशक्त्यभावात् ।
भावे वा हिताकरणादिदोषप्रसक्तिः ।
न ह्यत्राधिकरणे पूर्वपक्षिणा महदादिसकलकार्यकर्तृत्वं जीवस्याशङ्कितम् ।
किन्तु घटादिकर्तृत्वम् ।
तत्तावदनुभवसिद्धत्वात्कुलालादीनां न त्यक्तुं शक्यम् ।
तत्रेश्वरस्यापि कर्तृत्वाङ्गीकारे कल्पागौरवं स्यादित्यतो नेश्वरस्य सर्वकर्तृत्वमिति ।
तथाच कथमचिन्त्यशक्तिप्रसक्तिः ।
६,२७६फ़्.
ननु च व्यतिरेको गन्धवदिति जीवानामनेकरूपतां सूत्रकार एव वक्ष्यति ।
उत्क्रान्तिगत्यागतीनामित्यणुत्वं च ।
न चाणोर्युगपदनेकरूपत्वं विना सांशतयोपपद्यत इति सांशतापि तत एव सिद्धा ।
तत्कथमत्र निरवयवत्वशब्दकोपो वेत्यवादीदिति गूढाभिसन्धेराशङ्कामविदिताभिप्रायैव परिहरतिअंशिनो हीत्यादिना ।
सार्धेन श्लोकद्वयेन ।
६,२७७
अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः । मनुव्_२,१.९६ ।
अतो ऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम् । मनुव्_२,१.९७ ।
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता । मनुव्_२,१.९८अब् ।
तत्र बहुस्वरूपताख्येत्यनेन वक्ष्यमाणमभ्युपैति ।
बह्वित्यनेकत्वोपलक्षणम् ।
बहुस्वरूपतया ख्यायत इति बहुस्वरूपताख्या ।
तुशब्दः श्रुतिनिषेध्याया वैशिष्ययद्योतकः ।
तेषु चेतनेषु ।
हिशब्दः प्रमाणप्रसिद्धिं द्योतयति ।
अत एवास्त्येवेत्यवधारणम् ।
ततश्चायमर्थः ।
अस्त्येव वक्ष्यमाणानेकस्वरूपताणुत्वं च तदन्यथानुपपत्तिसिद्धा सांशता च ।
प्रामाणिकस्य त्यक्तुमशक्यत्वादिति ।
तर्हि कथमत्र तद्विरुद्धमुक्तमित्यत उक्तम्अंशिन इत्यादि ।
आद्यो हिशब्दः प्रमाणप्रसिद्धौ द्वितीयो यस्मादित्यर्थे ।
ये पटाद्या अंशिनः प्रसिद्धास्ते परस्परं भिन्नैरेवांशैरंशिना च वक्ष्यमाणप्रकारेण भिन्नाभिन्नैरेव न त्वत्यन्ताभिन्नैः तन्त्वादिभिरंशैरंशिन उच्यन्ते ।
चेतनास्त्वेवमेव पटादिवदुक्तरूपैरंशैरंशिनो न भवन्ति ।
किन्तु परस्परमंशिना चात्यन्ताभिन्नैः ।
यस्मादेवमतः प्रसिद्धांशिवैधर्म्यादेवानेकस्वरूपेषु तत एव सांशेष्वप्येतेषु चेतनेष्वनंशिन इति श्रुतिर्वर्तते ।
नतु सर्वथांशराहित्याभिप्रायेण ।
अतो न विरोध इति ।
ननु यदि भेदो नास्ति कथं तर्ह्यनेकत्वं तस्याभेदव्याप्तत्वात् ।
कथं चांशित्वम् ।
मत्वर्थस्य भेदेन विनानुपपत्तेरित्यत उक्तं विशेषादेवेति ।
भेदाभावे ऽपि केवलं तत्प्रतिनिधेर्विशेषादेवानेकस्वरूपेष्विति योजना ।
यद्वा’अप्यनेकस्वरूपेषु’ इत्यनेनैव वक्ष्यमाणमङ्गीकृत्यांशिन इत्यादिना विरोधः परिहृतः ।
तत्र भेदाभावे कथमनेकत्वमंशित्वं चेत्याशङ्कां
विशेषादेवेत्यादिपादत्रयेण परिहरति ।
केवलमेव भेदेन विनैव तेषु बहुस्वरूपता तया ख्यायमाना सांशता चास्ति ।
कथम् ।
विशेषादेवेति ।
कुत एतत्कल्प्यते ।
श्रुतिद्वयविरोधादेवेति हिशब्देनाह ।
अत्र जीवस्येति प्रकृते ऽपि यच्चेतना इति सामान्येनोक्तम् ।
तेन चेतनमात्रे ऽप्ययं न्याय इति सूचयति ।
अथवा यद्यंशिनो जीवास्तर्हि पटादिवदेव स्युरित्यस्याचेतनत्वमुपाधिमनेन द्योतयति ।
६,२८१
नन्वेवं तर्हि किं जीवकर्तृत्वस्येश्वराधीनत्वकल्पनया ।
तदभावे ऽपि स्वतो बहुरूपत्वसद्भावेनैकदेशतः क्रियोपपत्तौ कृत्स्नप्रसक्तेरभावात् ।
विभिन्नांशाभावेन निरवयवत्वशब्दकोपस्यापि परिहारात् ।
एतदतिरिक्तस्य चेश्वरकृत्यस्यादर्शनादिति पूर्वपक्षिणा स्वाभिसन्धावुद्घाटिते सत्याहबहुत्वेनेति ।
बहुत्वेनाविनाभावाद् भिन्नता नियमाद् भवेत् । मनुव्_२,१.९८च्द् ।
यदि नैवं नियमकृद् भगवान् पुरुषोत्तमः । मनुव्_२,१.९९अब् ।
यदि भगवान्पुरुषोत्तम एवं न नियमकृद्बहुत्वे ऽपि भेदो जीवेषु मा भूदिति व्यवस्थायाः कर्ता न स्यात् ।
तदा बहुत्वेन हेतुना जीवेष्वपि भिन्नता भवेत् ।
बहुत्वसङ्खयाया भिन्नत्वेनाविनाभावलक्षणान्नियमात् ।
यथोक्तम्तदनुविधानात्पृथक्त्वम्’ इति ।
एतदुक्तं भवति ।
परमेश्वरानपेक्षस्य जीवस्य कर्तृत्वाङ्गीकारे न सर्वथोक्तप्रसङ्गद्वयपरिहारः ।
तथाहि ।
कृत्स्नप्रसक्तिस्तावत्कथं परिहरणीया ।
बहुत्वसद्भावेनेति चेत् ।
तर्हि बहुत्वस्य लोके भेदाविनाभूतत्वेन जीवस्य बहुत्वे भिन्नत्वमप्यापद्येत ।
तथाच दुरात्मा निरवयवत्वशब्दकोपो दुष्परिहारः ।
अथ तत्परिहारार्थं भेदो नेष्यते ।
तदा व्यापकनिवृत्त्या व्याप्यनिवृत्तेरावश्यकत्वाद्बहुत्वसङ्खयापि त्याज्या स्यात् ।
तथा च पुनः सैव कृत्या कृत्स्नप्रसक्तिरास्कन्देत ।
अथ जडेष्वेव यत्र बहुत्वं तत्र भेद इति नियमो न चेतनेष्विति चेत् ।
कुत एतत् ।
तथ दर्शनादिति चेन्न ।
यतः कारकप्रश्नो ऽयं न प्रमाणप्रश्नः ।
स्वभावो ऽयं पदार्थानामिति चेन्न ।
अनीश्वरवादपादप्रसारिकापातात् ।
किञ्च विरुद्धश्च स्वभावश्चेति कथम् ।
नहि स्वयमेव स्वेन सद्वितीय इति युक्तम् ।
प्रमितत्वान्न विरोध इति तु प्रत्युक्तम् ।
चैतन्यसामर्थ्यादिदं घटत इति चेत् ।
धूमवानपि कश्चिन्निरग्निको घटताम् ।
अथ विशेषशक्त्येदमुपपद्यत इति चेत् ।
घटे ऽप्युपपद्यताम् ।
नहि तत्र विशेषो नास्ति ।
विशेषवैचित्र्यान्नेति चेत् ।
तदेव कुतः ।
तस्माद्भगवानेव स्वरूपस्वभावविशेषाणां नियामकश्चैतन्यमवच्छेदकं विधाय विशेषं निमित्तीकृत्य विरुद्धे अप्यभेदबहुत्वे समावेश्याभेदेन
निरवयवत्वशब्दकोपमपास्य बहुत्वेन कृत्स्नप्रसक्तिं न्यक्कृत्य कार्यानुरूपं सामर्थ्याविशेषं (नि)योजयञ्जीवेन कारयतीत्यङ्गीकर्तव्यमिति ।
नन्वेतत्सर्वं जीवसामर्थ्यादिनाशक्यसम्पादनं कथं भगवानपि सम्पादयेदित्यत आहतस्य त्विति ।
६,२८२
तस्य त्वशेषशक्तित्वाद् युज्यते सवर्मेव च । मनुव्_२,१.९९च्द् ।
तदेवमस्य सूत्रस्यैवं तात्पर्यव्याख्याने न कश्चिद्विरोध इति स्थितम् ।
। इति श्रीमन्न्यायसुधायां इतरव्यपदेशाधिकरणम् ।
व्यास(१९)


__