०५ आरम्भणाधिकरणम्

अथ श्रीमन्न्यायसुधायां आरम्भणाधिकरणम् ।
६,१८८
। ओं तदनन्यत्वमारम्भणशब्दादिभ्यः ओं ।
प्राक् प्रमाणमूलत्वतत्संवादित्वाभ्यां प्रबलया युक्त्या उक्ते(क्तार्)थे
विरोधो निरा(स्तः)कृतः ।
बाहुल्यलक्षणबलवद्युक्तिविरोधपरिहाराय इदमधिकरणमारभ्यते ।
तदिदं ब्रह्मपरिणामवादी व्याचष्टे’अनन्तराधिकरणे भोग्यवर्गस्य परिणामतःसिद्धप्रातिस्विकरूपभेदानपह्नवेन
लोकसिद्ध(द्धं)कारणाभेदमङ्गीकृत्य साङ्खयसिद्धान्तेन शास्त्रतो भोक्तृवर्गस्य स्वाभाविकरूपब्रह्माविभागे भोग्यस्यापि
ब्रह्मैक्यवद्भोक्तृत्वापत्तिमाशङ्कय अनैकान्तिकत्वेन निरासो(वि)ऽभिहितः ।
सम्प्रति वैशेषिकादिमतेन स्वरूपकार्यव्यपदेशादिभेदेन कार्यस्य कारणात्म(क)त्वासिद्धया प्रपञ्चस्य ब्रह्माद्वैतम् आक्षिप्य समाधीयते ।
तथाहि ।
तदनन्यत्वं तेन ब्रह्मणा अनन्यत्वं, कार्यस्य ।
कुतः? आरम्भणशब्दादिभ्यः’यथा सोम्यैकेन मृत्पिण्डेन विज्ञातेन सर्वं मृण्मयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम्’ इत्यदिशब्दात् ।
‘आदिऽग्रहणात्’ऐतदात्म्यमिदं सर्वम्ऽ,’यदयमात्माऽ,’सर्वं खल्विदं ब्रह्म’ इत्यादितादात्म्यावेदकश्रुतिपरिग्रहः’ इति ।
विवर्तवादी तु व्याख्याति’अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागम्,’स्याल्लोकवत्’ इति परिहारो ऽभिहितः ।
न त्वयं विभागः पारमार्थिको ऽस्ति ।
यस्मात् तदनन्यत्वं कारणाद्ब्रह्मणः कार्यस्याकाशादेः परमार्थतो ऽनन्यत्वं व्यतिरेकेणाभावः, अवगम्यते ।
कुतः? आरम्भणशब्दादिभ्यः’ इति ।
६,१९३
तत्राद्यं व्याख्यानं तावन्निराकरोतिकथं चेति ।
तदनन्यत्वम् आरम्भणशब्दादिभ्यः । ब्ब्स्_२,१.१४ ।
… कथं च तदनन्यता । मनुव्_२,१.८७ ।
कथमित्याक्षेपे ।
चशब्दः पूर्वसूत्रापव्याख्यानाक्षेपेणास्य समुच्चयार्थः ।
जगत इति वक्ष्यमाणमत्रापि सम्बद्धयते ।
‘अत्र प्रतिपाद्या स्यात्’ इति शेषः ।
६,१९४
अयमाशयः ।
यो हि ब्रह्मोपादानतां जगतो ऽभ्युपगम्यापि तदन्यतां मन्यते सो ऽत्र पूर्वपक्षीकरणीयः ।
नच वैशेषिकादिस्तथेति प्राप्त्यभावान्न तदनन्यत्वोक्तेरवसरो ऽस्ति ।
ब्रह्मोपादानतामनङ्गीकुर्वाणं प्रति तु सैव समर्थनीया ।
नतु तदनन्यता ।
तदधीनसिद्धित्वादस्याः ।
अथ ब्रह्मोपादानताप्यत्र समर्थ्यत इति चेत् ।
न ।
तथा सति प्रकृत्यधिकरणवैयर्थ्यापत्तेः ।
प्रकृत्यधिकरणन्यायेनो(यो)पपादि(तं)तमभ्युपेत्यापि तदन्यतां मन्यमानो ऽत्र पूर्वपक्षीति चेत् ।
न ।
किमिदं ब्रह्मोपादानत्वं ब्रह्मसमवायित्वं वा, ब्रह्मपरिणामत्वं वा, यत्परेणाङ्गीकारितम् ।
नाद्यः (कल्पः) तस्यानन्यत्वविरोधात् ।
समवायस्य निराकरिष्यमाणत्वाच्च ।
द्वितीये प्रयत्नवैयर्थ्यमेव ।
नहि को ऽपि परिणामवादमङ्गीकृत्य कायर्कारणयोरत्यन्तभेदमङ्गीकुरुते, यं प्रतीदमारभ्येत इति ।
६,१९५फ़्.
यद्वा कथं च तदनन्यता जगतो वक्तुं शक्यते ।
अनन्यत्वं हि भेदाभावः ।
अत्यन्ताभेद इति यावत् ।
भेदाभेदौ च परेणाङ्गीकृतौ ।
अतस्तादात्म्यमिति वक्तव्यं स्यात् ।
नैष दोषः, यावता कार्यस्य कारणेनाभेद एव, कारणस्य तु कार्याद्भेद एव, इत्येवं भेदाभेदावङ्गीकृताविति चेन्न ।
यदि ब्रह्म जगतो ऽन्यदेव तदा कथं च तदनन्यत्वं(ता) जगतः स्यात् ।
नहि यद्यतो ऽत्यन्तभिन्नं तत्तेनात्यन्ताभिन्नमिति सम्भवति, अतिप्रसङ्गादिति ।
६,१९६
अथवा कथं च तदनन्यता प्रतिज्ञातुं युक्ता ।
प्रमाणाभावादिति शेषः ।
ननु चारम्भणशब्दादिभ्य इत्युक्तत्वात्कथं प्रमाणाभाव इति चेत् ।
अत्र वक्तव्यम् ।
आरम्भणशब्दस्तावत्किं साक्षाज्जगतो ब्रह्मानन्यत्वमाचक्षीत, उत विकारस्य विकार्यनन्यत्वम् ।
आद्ये कथं च तदनन्यता जगतोस्यार्थः स्यात् ।
यथा सोम्येति मृत्पिण्डादेः प्रकृतत्वादित्युत्तरम् ।
द्वितीये भवतु नाम विकारस्य विकार्यनन्यत्वम्, जगतस्तु कथं तदनन्यतेति ।
६,१९७
(ननु) विकारस्य विकार्यनन्यत्वे तेनोक्ते ऽपि जगतो ब्रह्मानन्यत्वं सिद्धयत्येव ।
तस्यापि तद्विकारत्वादित्यत आहजगतस्त्विति ।
जगतस्त्वविकारत्व उक्तन्यायेन साधिते । मनुव्_२,१.८८अब् ।
अविकारत्वे ब्रह्मविकारत्वाभावे ।
उक्तन्यायेन’नच प्रकृतिः’ इत्यादिनेति शेषः ।
साधिते सति कथं च तदनन्यतेत्यन्वयः ।
यद्वा जगत इति पूर्वेणैव सम्बद्धयते ।
अविकारत्वे ब्रह्मण इति शेषः ।
न विद्यते विकारो यस्येत्यविकारम् ।
तस्य भावस्तत्त्वं, तस्मिन् ।
६,१९८
नन्वत्रारम्भणश(ब्दश)ब्देन’उत तमादेशमप्राक्ष्य(क्षः)’ इत्याद्या श्रुतिरुपलक्ष्यते, तत्तात्पर्यपर्यालोचनायां च जगतो ब्रह्मविकारत्वं तदनन्त्यवं
चावगम्यते इति चेन्न ।
महावाक्यावान्तरवाक्योपक्रमत्वप्रधानवाचित्वाद्यभावेनास्य श्रुत्युपलक्षणयोपादाने निमित्ताभावात् ।
अभ्युपेत्याप्युपलक्षणत्वमाहअविकारत्व इति ।
विकरात्वादन्यस्मिन्सादृश्यादौ श्रुत्यर्थतयोक्तन्यायेन साधिते सति श्रुतितात्पर्यपर्यालोचनया च कथं तदनन्यता सिद्धयेदिति ।
६,२०१
यदप्युक्तमादिपदगृहीतादैतदात्म्यमिदं सर्वमित्यादिवाक्यात्तदनन्यत्वसिद्धिरिति तदप्यसत् ।
आदिपदेन वाक्यान्तरग्रहणस्यानुपपत्तेः ।
तथा सत्येतेषामपि शब्दत्वेनारम्भणादिशब्देभ्य इति प्रयोगप्रसङ्गात् ।
अस्तु वा कथञ्चिदादिपदोपात्तता(त्वं)तेषां वाक्यानाम् ।
तथापि नैतेभ्यस्तदनन्यता सिद्धयति ।
उपपत्तिविरुद्धत्वादित्याशयेन पृच्छतिकथं चेति ।
या सूत्रकृता प्रतिज्ञाता श्रुतिभिश्च प्रतिपादिता सा जगतस्तदनन्यता कथं किम्प्रकारा ।
‘किं पिकः कोकिलः’ इतिवदेकत्वलक्षणा किंवा मृद्घट इतिवद्विकार(रि)विकारि(र)त्वलक्षणेति प्रश्नार्थः ।
आद्यमाक्षिपतिकथं चेति ।
एकत्वलक्षणा जगतस्तदनन्यता तु कथं सूत्रकृता प्रतिज्ञायेत ।
कथं च श्रुतिभिः प्रतिपाद्येत न कथञ्चिदित्यर्थः ।
अत्र हेतुमाहअविकारत्व इति ।
ब्रह्मणो ऽविकारत्व उक्तन्यायेन साधिते सति जगतस्तु विकारात्मकत्वे प्रत्यक्षादिप्रमिते सति विरुद्धधर्माधिकरणत्वादिति भावः ।
द्वितीयमाक्षिपतिकथं चेति ।
विकारिविकारत्वरूप इति शेषः ।
आक्षेपे युक्तिमाहजगतस्त्विति ।
व्याख्यानं पूर्ववत् ।
६,२०३
नन्वेवमुपपत्तिविरुद्धापि जगतो ब्रह्मानन्यताङ्गीकरणीया ।
अन्यथैतदात्म्यमिदं सर्वमित्यादिश्रुतीनामप्रामाण्यप्रसङ्गादित्यत आहकथं चेति ।
अविकारित्वे ऽपि विकारत्वादन्यस्मिंस्तदधीनत्वादौ श्रुत्यर्थे’स्वातन्त्र्ये च विशिष्टत्वे’ इत्युक्तन्यायेन साधिते सति कथं
तदनन्यताङ्गीकर्तुमुचिता ।
सावकाशश्रुतिप्रतीतो ऽप्यर्थो निरवकाशोपपत्तिविरोधात्त्याज्य एव ।
यथोक्तमभिमान्यधिकरण इति भावः ।
६,२०३फ़्.
अपरमपि व्याख्यानं दूषयतिकथं चेति ।
(इति) प्राहेत्यनुवर्तते ।
यद्यत्र कार्यमात्रप्रपञ्चस्यानृतत्वं सूत्रकृतो ऽभिमतं स्यात् ।
तदानृतत्वमित्येव ब्रूयात् ।
तदनन्यत्वमिति कथं प्राह ।
नहि ब्रह्मानन्यत्वशब्दो ऽनृतत्वावाची ।
तथा सति ब्रह्मणो ऽप्यनृतत्वप्रसङ्गात् ।
६,२०४
ननु च तदनन्यत्वं तद्वयतिरेकेणाभाव इति व्याख्यातम् ।
सत्यम् ।
न तथाप्यनृतत्वलाभः ।
तद्वयतिरेकेण नास्तीत्युक्ते तदात्मनास्तीति लभ्यते ।
न पुनः सर्वथाप्यनृतत्वम् ।
अन्यथा ब्रह्मातिरेकेणासतो जीवचैतन्यस्यापि सर्वथानृतत्वं स्यात् ।
प्रसिद्धं चैतत् ।
यद्विशिष्ट(विषयः)प्रतिषेधो विशेषणमुपसङ्क्रामतीति ।
सत्यम् ।
तथापि ब्रह्मविवर्तताज्ञापनायैवमुक्तमिति चेत्(न) ।
तथा सति तत्रारोपित(त्व)मिति वक्तव्यत्वात् ।
नहि शुक्तिकाशकले कलधौतमारोपितमिति वक्तव्ये ततोनन्यदिति प्रयुञ्ज(ज्य)ते ।
अथ ब्रह्मसत्तयैवेदं सत्, नापरा सत्तास्यास्तीति ज्ञापनमेतस्य प्रयोजनमिति चेत् ।
तर्हि परमार्थसदेवेदमित्यायातमिति कथमनृतत्वम् ।
अथ येयं प्रपञ्चे सत्तावगम्यते साधिष्ठानब्रह्मगतैवारोपितेत्यनेन ज्ञाप्यत इति चेत् ।
तत्मिन्यथाख्यातिवादिवदनिर्वचनीयख्यातिवादिनो ऽप्यारोपिताकारस्यान्यत्र पारमार्थ्यमावश्यकम् ।
तथात्वे चाकाशत्वादिकमपि ब्रह्मणि पारमार्थिकमङ्गीकार्यं(रणीयं) स्यात् ।
रजतत्वादिकं च शुक्तिकायामिति ।
६,२०६
यद्वा स्याल्लोकवदिति भोक्तृभोग्यप्रपञ्चस्य सत्यतामभिधायेदानीं कथं च तदनन्यतेति तद्विरुद्धमनृतत्वं प्राहेति योजना ।
ननु सूत्रकारः परमार्थाभिप्रायेण तदनन्यत्वमित्याह ।
व्यवहाराभिप्रायेण तु स्याल्लोकवदिति ।
तत्कुतो विरोध सति चेन्न ।
प्रतारकत्वप्रसङ्गात् ।
अन्यथा प्रत्याचक्षीत ।
अप्रत्याख्यायैव कार्यप्रपञ्चं, परिणामप्रक्रियामाश्रयति, सगुणेषूपासनेषूपयोक्ष्यत इ(ती)ति चेत् ।
किं सगुणोपासनविषयप्रयोजने प्रकृतविषयप्रयोजनानुकूले, उत तद्विरुद्धे, अथोदासीने ।
नाद्यः ।
भेदविषयत्वात्, सांसारिकफलत्वाच्च ।
भेदवासना हि सुदृढा तामेवोपोद्बलयेत् ।
अत एव न तृतीयो ऽपि ।
न द्वितीयः
अनाप्तत्वापरिहारादिति ।
६,२०८
अथवाऽस्तां तावदियं ग्रन्थार्जवचिन्ता ।
कथं च तदनन्यतानृतत्वलक्षणा जगतो युक्ता स्यात् ।
न कथञ्चिदिति योज्यम् ।
अत्र हेतुमाहजगत इति ।
अविकारित्व ब्रह्मविवर्तत्वाभावे ।
यच्चाविकृतमित्याद्युक्तन्यायेन ।
एवं प्रमाणाभावपरत्वेनापि पूर्ववद्वयाख्येयमिति ।
६,२०९
एवं तर्हि को ऽस्यार्थ इत्यत आहस्वतन्त्रेति ।
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते । मनुव्_२,१.८८च्द् ।
६,२०९फ़्.
यत एवं जगतो ब्रह्मानन्यत्वमनेकविधमपि नात्र प्रतिपाद्यं, तेनेत्यर्थः ।
अनेनापव्याख्याननिराकरणं स्वव्याख्यानदृढीकरणार्थत्वान्नासङ्गतमिति स्मारयति ।
कर्त्रनधीनसत्ताशक्त्यादिमत्कारणान्तरतव्यपेक्षा खलु घटादिसृष्टिर्दृष्टा ।
ततो, महदादिसृष्टिरपि कर्तृव्यतिरिक्तस्वतन्त्रकारणसव्यपेक्षा सृष्टित्वाद्घटसृष्टिवत्, महदादिकं वा कर्तृव्यतिरिक्तस्वतन्त्रकारणायत्तो
सापेक्षोत्पत्तिकं कायर्त्वाद्घटवत्, प्रकृत्यादिकं वा स्वतन्त्रं कारणत्वान्मृदादिवत्, ईश्वरो वा स्वतन्त्रकारणसव्य(णान्तरसा)पेक्षः
कर्तृत्वात्कुलाल(लादि)वदिति युक्तिविरुद्धत्वाज्जन्मादिसूत्रे ऽभिप्रेतं यत्परस्यैव ब्रह्मणः स्वातन्त्र्यं तन्नोपपद्यते ।
नच श्रुतिविरोधः ।
श्रुतीनां ब्रह्मणो जगत्कारणत्वमात्रपरत्वात् ।
स्वतन्त्रकारणान्तरनिरासे श्रुतेरभावात् ।
भावे ऽप्यपौरुषेयतया श्रुतिप्राबल्यवद्बाहुल्येन युक्तिप्राबल्यस्यापि सम्भवात्, सत्प्रतिपक्षतया श्रु(त्य)त्याभिप्रेतावधारणानुपपत्तेरित्येवं प्राप्तम् ।
स्वतन्त्रकारणान्यत्वं ब्रह्मणो ऽन्यस्य स्वतन्त्रकारणत्वमिति यावत् ।
अत्र अधिकरणे ।
तदनन्यत्वमित्यनेन निषिद्धयते ।
महदादिसृष्टौ यत्स्वतन्त्रकारणं तस्य तदनन्यत्वमिति ।
६,२१०
यद्यत्र स्वतन्त्रकारणाभाव इत्येव ब्रूयात्, तदा ब्रह्मणो ऽपि स्वातन्त्र्यं प्रतिषिद्धं स्यात् ।
तदनन्यत्वं स्वतन्त्रकारणस्येत्युक्ते हि स्वतन्त्रकारणं तदेव नान्यदिति लभ्यते ।
तदुपपादनाय यत्’आरम्भणशब्दादिभ्यः’ इति स्वपक्षे प्रमाणमुक्तम्, यश्च’भावे चोपलब्धेः’ इति विपक्षे प्रमाणाभावस्तदुभयं हिशब्देन
सूचयति ।
६,२१२फ़्.
नन्वारम्भणाद्याक्षेपशब्दादिभ्य इति वक्तव्यम् ।
सत्यम् ।
लक्षितलक्षणयैष एवार्थः प्रतिपाद्यत इत्यदोषः ।
तथापि’किंस्विदासीदधिष्ठानम्’ इति (ऋ.सं.१०८१२) श्रौतनिर्देशानुसारेणाधिष्ठानस्योपादानमुचितमिति चेन्न ।
शाब्दादप्यर्थप्राधान्यस्य बलवत्त्वात् ।
साधकतमं करणमिति वचना(स्मरणा)त् ।
ननु च स्वतन्त्रकारणस्य ब्रह्मानन्यत्वं प्रतिज्ञाय कारणान्तराभावे प्रमाणोपन्यासो ऽसङ्गतः ।
मैवम् ।
अस्त्यत्राभिप्रायः ।
वक्ष्यते (हि) च ब्रह्मातिरिक्तप्रकृत्यादिकारणसद्भावः ।
आरम्भणशब्दादिभ्यस्तदभावो ऽवगम्यते ।
ततोर्थात्स्वतन्त्रकारणान्तरभावे च प्रमाणैरुपलब्धेः प्रसङ्ग इति वदन्प्रमाणाभावमाह ।
एवं मन्यते ।
शुष्काभ्यो बहुयुक्तिभ्यो ऽपि श्रुत्यनुगृहीतानां बह्वीनां युक्तीनां प्राबल्यात्तद्विरुद्धानां पूर्वपक्षयुक्तीनामप्रामाण्यमिति ।
६,२१५
स्यादेतत् ।
अद्भयः सम्भूत इत्यादिवचनात्कथं ब्रह्मातिरिक्तस्य स्वतन्त्रकारणस्यानुपलब्धिः ।
नचात्र न स्वातन्त्र्यं श्रूयत इति वाच्यम् ।
पारतन्त्र्यानुक्तौ स्वातन्त्र्यस्य लोकानुरोधादेव सिद्धेरिति ।
एतत्परिहाराय सूत्रम् ओं सत्त्वाच्चावरस्येति ओं ।
तस्या(यमर्)थः ।
स्यादयं दोषो यदि वयं ब्रह्मातिरिक्तं कारणमेव नास्तीति वदामः ।
न चैवम् ।
अवरस्य तदधीनस्य प्रकृत्यादेः कारणस्य सत्त्वादिति ।
तदिदं परिहाराय न पर्याप्तम् ।
यावता पूर्वपक्षिणा पारतन्त्र्यानुक्तौ स्वातन्त्र्यमेव सेत्यस्यतीत्युक्तम् ।
अन्यथा पूर्वपक्षस्य निर्दलत्वापत्तेः, इत्यतः प्रकृत्यादेः कारणजातस्येश्वराधीनसत्ताकत्व प्रमाणं दर्शयन्सूत्रं व्याचष्टेद्रव्यमिति ।
सत्त्वाच् चापरस्य । ब्ब्स्_२,१.१६ ।
असद्व्यपदेशान् नेति चेन् न धर्मान्तरेण वाक्यशेषात् । ब्ब्स्_२,१.१७ ।
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेस्तद्वशस्य भावो … । मनुव्_२,१.८९अफ़् ।
चेतनाः जीवाः ।
धृतिः चित्प्रकृतिः,’धारकत्वात्’ इति श्रुतेः ।
प्रकृत्यादेस्तद्वशस्य भावः अङ्गीक्रियते ।
अतो ऽद्भयः सम्भूत इत्यत्रापि स्वातन्त्र्यासिद्धेर्नानुपलब्धिर्युक्तेत्यर्थः ।
यद्यपि आरम्भणशब्दादेरद्भयः सम्भूत इति श्रुतेश्च परस्परविरेधादर्थापत्त्यैवैषो ऽर्थो लभ्यते ।
तथापि मन्दापेक्षया स्पष्टश्रुत्युदाहरणम् ।
६,२१७
यद्वा स्वतन्त्रकारणान्यत्वं निषिद्धयत इत्यनेन परतन्त्रकाणान्तरसद्भावः सूचितः ।
अन्यथा कारणान्यत्वमित्येव स्या(ब्रूया)त् ।
(स) परतन्त्रकारणसद्भावः कृत इत्यत आहद्रव्यमिति ।
भावो गम्यत इति शेषः ।
अत्र तद्वशत्वं विधेयम् ।
काररसद्भावस्य परेणाप्यङ्गीकृतत्वात् ।
। ओं असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ओं ।
इति सूत्रम् ।
तत्र आक्षेपस्यायमर्थः ।
‘नासदासीन्नोसदासीत्तदानीम्’ इति महाप्रलये मूर्तामूर्तादेरशेषस्यासत्त्वव्यपदेशात्कारणोपलब्धिपरिचोदना, तस्येश्वरवशस्याङ्गीकारेण
समाधानं च नोपपद्यते ।
नचायं पक्षः’असदिति चेत्’ इत्यादिनैव निराकृतः ।
तत्रेश्वरस्याप्यनङ्गीकारात् ।
इह पुनरीश्वरमङ्गीकृत्य कारणान्तरनिराकरणात् ।
नच’अद्भयः सम्भूतः’ इत्यादिविरोधः ।
अत्र महाप्रलये कारणान्तरसद्भावस्याश्रवणात् ।
ईश्वरातिरिक्तकर्तृकासु सृष्टिष्वबादिकारणसद्भावपरत्वाच्च ।
एवञ्चारम्भणशब्दादयो ऽपि समञ्जसा भवन्तीति ।
(अत्र) नेति सिद्धान्तांशं व्याचष्टेद्रव्यमिति ।
न महाप्रलये कारणान्तरस्याभावो वाच्यः ।
किन्तु तद्वशस्य भाव एव ।
तस्य तद्वशत्वं कुत इति चेत् ।
द्रव्यमिति
श्रुतेरिति ।
व्यास(१८)
६,२१९
ननु’नासदासीत्’ इति सर्वस्यासत्त्वव्यपदेशात्कथं नेत्यत उक्तं’धर्मान्तरेण’ इति ।
तद्वयाचष्टेतद्वशस्येति ।
सावधारणं चेदम् ।
तद्वशस्यैव भावः प्रलये, न स्वतन्त्रस्य ।
ततः स्वातन्त्र्यलक्षणधर्मविशेषाभिप्रायेणासत्त्वव्यपदेशो युज्यते ।
उपलक्षणमेतत् ।
यथोक्तं भाष्ये ।
यत्खलु परतन्त्रमव्यक्तं कार्यानभिमुखं तदसदिति व्यपदिश्यते ।
६,२२१
कुतः श्रुतेः मुख्यार्थपरित्यागेनामुख्यार्थो ऽङ्गीक्रियते ।
‘तम आसीत्’ इत्यादिवाक्यशेषात् ।
नच तमो ब्रह्म,’आनीदवातम्’ इति तस्य पृथगवस्थानोक्तेः ।
नचानन्तप्रकाशस्य तमस्त्वमुपपद्यते ।
किन्तु प्रकृतेरेव, आच्छादकत्वादेरिति ।
६,२२२फ़्.
ननु च प्रलये ऽवस्थितं चेत्प्रकृत्यादि तस्य स्वातन्त्र्यादिधर्माभावः कुतः, येनैवं व्याख्यायत इति चेत् ।
वाक्योपक्रमतच्छेषयोर्विरोधादर्थापत्त्यैवेति ब्रूमः ।
श्रूयते च स्पष्टमित्याशयवान्वाक्यशेषादित्येतत्प्रकारान्तरेण व्याचष्टेन पर इति ।
६,२२३
… न पर इत्यतः । मनुव्_२,१.८९फ़् ।
‘तस्माद्धान्यत्र परः किञ्च नास’ इत्यतो वाक्यशेषात्प्रकृत्यादीनां प्रलये स्वातन्त्र्याद्यभावो ऽवगम्यत इत्यर्थः ।
इह हि तस्माद्ब्रह्मणो ऽन्यत्प्रकृत्यादिकं परः परं स्वातन्त्र्यादिधर्मोपेतं नासेति तत्सद्भावाभ्युपगमेन परत्वं निषिद्धयते ।
अन्यथा परशब्दवैयर्थ्यादिति ।
६,२२४
स्यादेतत् ।
कारणान्तरसद्भावमभ्युपगम्य तस्येश्वराधीनतां वदता सिद्धान्तिनेदं वक्तव्यम् ।
किमीश्वरः प्रकृत्यादिभिर्विनापि कदाचित्सृष्टयादिकं करोत्युत तैरेवेति नियमः ।
आद्ये तेषां कथं कारणत्वमनियतत्वात् ।
अन्यथा रासभस्यापि घ(प)टकारणतापत्तेः ।
द्वितीये तु कथं तत्परित्यागेन कदाप्यकुर्वाणस्येश्वरस्य स्वातन्त्र्यम् ।
कथं च नियमेनापेक्षणीयानां तेषां पारतन्त्र्यम् ।
एवं पृकृत्यैव महान्तं महतैवाहङ्कारमित्यादिनियमं कदाचिदपहाय सृजति उतानेन नियमेनैव ।
आद्ये त्वनियतत्वेनाकारणत्वप्रसङ्गः ।
द्वितीये पुनरीश्वरादेः स्वातन्त्र्याद्यनुपपत्तिः ।
तथा प्रकृत्यादिकमुपादानीकृत्य कालादिकं निमित्तीकृत्य सृजतीति नियमे व्यत्यासे चोक्तदोषानुषङ्गः ।
६,२२५
अतो युक्तिबाधितत्वादस्यार्थस्य कारणान्तरनिरपेक्ष एव भगवन्त्सृष्टयादिकं करातीत्येव ज्यायः ।
एवञ्च निरर्गलमैश्वर्यमस्य समर्थितं स्यात् ।
नच प्रमाणबाधः ।
अद्भयः सम्भूतः पृथिव्यै रसाच्चेत्यादेरनीश्वरकर्तृकावान्तरसृष्टिविषयत्वस्योक्तत्वात् ।
तम आसीदित्यादौ तमःप्रभृतीनां प्रलये सत्त्वश्रवणे ऽपीश्वरकर्तृकायां सृष्टौ कारणत्वाश्रवणादित्याशङ्कापनोदनार्थं सूत्रम्।
ओं युक्तेः शब्दान्तराच्च ओं ।
इति ।
अस्यायमर्थः ।
नोक्तयुक्तिविरोधेन भगवतः कारणान्तरविधुरत्वमुररीकर्तव्यम् ।
कारणान्तरसद्भावाभ्युपगमे ऽपि प्रकृत्यादेः कारणत्वस्येश्वरादिस्वातन्त्र्यादिकस्य च युक्तेः ।
नचैवं तर्हि विनिगमने कारणाभाव इति वाच्यम् ।
अद्भयः सम्भूतो हिरण्यगर्भ इत्यादिशब्दान्तरात् ।
पूर्वोदाहृतशब्दविलक्षणशब्दः शब्दान्तरम् ।
तेनेदमुक्तं भवति ।
यद्यपि प्रागुदाहृताः शब्दाः कथञ्चिदन्यथा नेतु शक्यन्ते ।
तथाप्ययं न तथा ।
अत्रेश्वरकर्तृकायामेव सृष्टौ कारणान्तरसद्भावश्रवणात् ।
नहि हिरण्यगर्भसृष्टिरनीश्वरकर्तृका ।
तस्यैव प्रथमजत्वादिति ।
६,२२७
अत्र युक्तेरिति या स्वपक्षे कारणत्वादेर्घटनोक्ता सा कथमित्यपेक्षायामाह शक्तो ऽपीति ।
युक्तेः शब्दान्तराच् च । ब्ब्स्_२,१.१८ ।
शक्तो ऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत् सदा । मनुव्_२,१.९० ।
अन्यथा, कारणैर्विना, कर्तुं शक्तो ऽपि हरिः कारणान्तराण्युपादायैव करिष्यामीति स्वेच्छानियमतः कारणैरेवेदं जगत्सदा सृजति ।
एवमन्यथा, प्रकृत्याहङ्कारमहङ्कारेण महान्तमिति एवम् तथा प्रकृतिं निमित्तीकृत्य कालादिकं चोपादानीकृत्य कर्तुं शक्तो
ऽप्येतेनैवेदमेतदुपादानीकृत्यैवेदं स्रक्ष्यामीति स्वेच्छानियमतो नियतैः क्ळ्प्तैरेव, तथा नियतैः स्वनियतसत्ताशक्त्यादिमद्भिरेव कारणैरिदं
जगत्सदा करोतीति योजना ।
६,२२८
इदमुक्तं भवति ।
यदुक्तमीश्वरस्य कारणोपादानादिनियमो ऽस्ति न वेति ।
तत्रास्तीति ब्रूमः ।
तथाच प्रकृत्यादीनां कारणत्वं युक्तम् ।
सच नियमो न कुलालादेरिव तान्यपहाय व्यत्यस्य वा अकरणे शक्त्यभावनिबन्धनः ।
येन तस्य स्वातन्त्र्यम् तेषां च पारतन्त्र्यं न स्यात् ।
किन्नाम स्वेच्छायत्त एव ।
ततः स्वातन्त्र्यादिकमपि युक्तम् ।
नच तानि स्वाधीनसत्ताशक्त्यादिमन्ति, येनैश्वर्यं निरर्गलं न स्यात् ।
किन्तु भगवत्येव तदीयं सत्तादिकमायतते ।
ततस्तत्साचिव्यमतिशयेनैश्वर्यस्य द्योतकमेव ।
यथोक्तम्’साधनानां साधनत्वं यदाऽत्माधीनमिष्यते ।
तदा साधनसम्पत्तिरैश्वर्यद्योतिका भवेत्’ इति ।
ननु शक्तस्यापीश्वरस्य तन्नियमानुसरणेच्छा कुत इति चेत् ।
किं कारणं पृच्छस्युत ज्ञापकम् ।
आद्ये स्वभावो ऽयमिति ब्रूमः (वदामः) ।
द्वितीये तु श्रुतिप्रसिद्धेरिति ।
तदिदमुक्तं हिशब्देन ।
श्रुतिं चोदाहरिष्यति ।
अनेन शब्दान्तराच्चेति सूत्रं प्रकारान्तरेण व्याख्यातं ज्ञातव्यम् ।
शब्दान्तरं च शब्दविशेषो, विवक्षितार्थप्रतिपादकः शब्द इति यावत् ।
‘पटवच्चऽ,’यथा प्राणादिः’ इति सूत्रे, भाष्य एव व्यक्ते ।
६,२२९
अन्ये पुनरन्यथैतानि सूत्राणि वर्णयन्ति ।
तथाहि ।
भावे चोपलब्धेः ।
मृदादेः कारणस्य भाव एव घटादेः कार्यस्योपलब्धेश्चानन्यत्वं कारणात्कायर्स्य ।
नहि यद्यतो भिन्नं तत्तद्भाव एवोपलभ्यते ।
न ह्यश्वो गोतो ऽन्यो गोर्भाव एवोपलभ्यते ।
किञ्च, भावे तिलादौ कारणे, तैलाद्युपलभ्यते ।
कार्ये च भावे कुण्डलादौ सुवर्णादिकम् ।
अतश्च तदभेदसिद्धिः ।
सत्वाच्चावरस्य ।
अवरकालीनस्य कायर्स्य प्रागुत्पत्तेः’सदेव सोम्येदमग्र आसीत्’ इति सत्त्वावधारराच्चानन्यत्वं कारणात्कार्यस्य ।
६,२३०
असद्वयपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ।
‘असदेवेदमग्र आसीत्ऽ,’असद्वा इदमग्र आसीत्’ इति प्रागुत्पत्तेः कार्यस्यासत्त्वव्यपदेशान्नेति चेन्न ।
भवेदेतद्यदि कार्यस्वरूपाभिप्रायेणायं व्यपदेशः स्यात्किन्तु व्यक्तत्वलक्षणधर्मान्तराभिप्रायेण ।
कुतः ।
वाक्यशेषात् ।
असदेवेदमग्र आसीत् इत्यसच्छब्देनोपक्रमे निर्दिष्यं पुनस्तत्सदासीदिति वाक्यशेषे निर्दिशति ।
असद्वेत्यत्रापि’तदात्मानं स्वयमकुरुत’ इति ।
तेन ज्ञायते नासत्कार्यं धर्मान्तरेणैवासत्त्वव्यपदेश इति ।
युक्तेः शब्दान्तराच्च ।
युक्तेश्च कायर्स्य प्रागुत्पत्तेः सत्त्वं कारणादनन्यत्वं च गम्यते ।
शब्दान्तराच्च ।
युक्तिस्तावदसदकारणादित्यादिका साङ्खयोक्ता ।
वृत्तिविकल्पानुपपत्त्यादिका च सौगतोक्ता ।
शब्दान्तरं चासद्वयपदेशादन्यः’सदेव सोम्येदमग्र आसीत्’ इत्यादिसद्वयपदेशः ।
पटवच्च ।
संवेष्यितप्रसारितपटन्यायेनेदं कारणात्कार्यस्यानन्यत्वं प्रागुत्पत्तेः सत्त्वं च प्रतिपत्तव्यम् ।
६,२३८
अत्र सूत्राक्षराणामार्जवानार्जवादिचिन्ता शिष्यैरेव क्रियतामित्याशयवान् यदुक्तं कारणात्कार्यस्यानन्यत्वं तत्तावन्निराकरिष्यन् किमनेन
प्रबन्धेन निमित्तकारणानन्यत्वं कार्यस्योपपादितम्, उतोपादानकारणानन्यत्वमिति विकल्पं चेतसि निधायाद्यं निराकरोतिनित्यभेद इति ।
नित्यभेदो निमित्तेन ह्य् … । मनुव्_२,१.९१अ ।
नित्यशब्दो नियमार्थः ।
भेद एवेति ।
कार्यस्येति शेषः ।
हीति सर्वप्रमाणप्रसिद्धिं सूचयति ।
तथाच सर्वमिदं बाधितविषयमिति ।
न द्वितीयः ।
प्रकृतानुपयोगात् ।
६,२४०
वियदादिप्रपञ्चस्य ब्रह्मानन्यत्वमुपपादयितुं खल्वस्योपन्यासः ।
तद्यदि नाम उपादानानन्यत्वं कार्यस्य तदा किमायातं प्रकृते ।
नहि ब्रह्म प्रपञ्चोपादानमित्येतदुक्तप्रायमिति मन्वानो दूषणान्तरमाहउपादानेनेति ।
… उपादानेन तु द्वयम् । मनुव्_२,१.९१ब् ।
हीत्यनुवर्त्यते ।
उपादानेन कार्यस्य द्वयं भेदाभेदौ प्रमितौ ।
ततो ऽस्मिन्नपि पक्षे बाधितविषयत्वमिति ।
६,२४१
कथं कार्यं कारणेन भिन्नाभिन्नं प्रमितमित्यत आहअसदिति ।
असद् यत् कार्यरूपेण कारणात्मतयास्ति हि । मनुव्_२,१.९१च्द् ।
यत् घटादिकं मृदादिकारणात्मतया प्रागुत्पत्तेरस्तीति प्रमितं परेणाङ्गीकृतं च तदेव पृथुबुध्नोदराकारादिना कार्यरूपेर प्रागुत्पत्तेरसत् हि
यस्मात्तस्मादुपादानेन भिन्नाभिन्नमिति निश्चीयते ।
एतदुक्तं भवति ।
परो हि घटादेः कार्यस्य प्रागुत्पत्तेः सत्त्वमभ्युपगच्छति ।
तत्किं पृथगेवोत मृदादिकारणात्मतयेति वक्तव्यम् ।
नाद्यः ।
अनभ्युपगमात् ।
अनुपलब्धेश्च ।
द्वितीये तु कार्यस्योपादानाभेदस्तावदङ्गीकृतः ।
न चात्यन्ताभेदः ।
घटादेः कार्याकारेण प्रागुत्पत्तेरसत्त्वात् ।
यदा हि घटादिकं मृदादिनात्यन्ताभिन्नं स्यात् ।
तदा प्रागुत्पत्तेर्घटादिरूपेण सत्स्यात् ।
मृदादेस्तदा सत्त्वात् ।
न चैवम् ।
तेन जानीमो घटादिकं मृदादिना भिन्नाभिन्नमिति ।
अत्यन्तासत्कार्यवादिनं प्रति भेदाभेदसमर्थनं विरोधपरिहारश्चोत्तरत्र विधास्यत इति ।
६,२४३
यच्च कार्यस्य प्रागुत्पत्तेः सत्त्वमुक्तं तदपि नोपपन्नमित्याहअसदिति ।
यत् घटादिकं प्रागुत्पत्तेरस्तीत्यावयोः सम्मतम् ।
तदेव तदासच्च यस्मात्तस्मात्सदेवेति सत्कार्यवादो ऽनुपपन्न एव ।
तस्यैव तदैव तत्रैव सत्त्वमसत्त्वं च विरुद्धमिति चेन्न ।
रूपभेदेन अविरोधात् इत्याशयेनोक्तं कारणात्मतया कार्यरूपेणेति ।
नन्वेवं सति किञ्चित्सदेव किञ्चित् असदेव सदसत्तु न किमपि स्यात् ।
न स्यात् ।
तयोरपि रूपयोरत्यन्तभेदाभावादिति ।
६,२४४
स्यादेतदुक्तं यद्यसत्त्वं प्रागुत्पत्तेः कार्यस्य स्यात्तदेव कुतः ।
तथा चात्यन्ताभिन्नं कार्यमुपादानेनेत्यतो विपक्षे बाधकप्रदर्शनेन कार्यस्य प्रागुत्पत्तेरसत्त्वमुपादानाद्भेदं चोपपादयतिअनवस्थेति ।
अनवस्थान्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः । मनुव्_२,१.९२अब् ।
अन्यथा कार्यस्य प्रागुत्पत्तेरात्यन्तिके सत्त्वे कारणेनात्यन्ताभेदे चाङ्गीकृते सर्वत्रोत्पत्तिनाशयोरनवस्था अव्यवस्था स्यात् ।
यथा हि ।
पटस्तन्त्वात्मकः प्रागपि सन्नेव ।
तथा तन्तवो ऽपि स्वकारणात्मकाः सन्त एवेत्यनेन क्रमेण सर्वस्य मूलकारणात्मकत्वेनात्यन्तिकं सत्त्वं स्यात् ।
नच मूलकारणमुत्पद्यते विनश्यति चेति पटादीनामप्युत्पत्तिविनाशौ न स्याताम् ।
तथाच पटादय उत्पत्तिविनाशवन्त आत्मादयस्तद्रहिता इति लोकवेदप्रसिद्धोत्पविनाशव्यवस्था न स्यादिति ।
उपलक्षणं चैतत् ।
पटादीनामुत्पत्तिविनाशाभावे तत्कारकव्यापारवैकल्यं स्यादित्यपि द्रष्टव्यम् ।
६,२४६
यद्वोत्पत्तिनाशशब्दाभ्यां सत्त्वमसत्त्वं चोपलक्ष्यते ।
ततश्चायमर्थः ।
यदि पटस्तन्त्वात्मकः प्रागुत्पत्तेरपि सन्नेव तदा(तदा)ऽप्युपलभ्येत तन्तुवत् ।
यदि चानुपलभ्यमानो ऽपि सन्नभ्युपेयते, तदा सर्वत्रोत्पत्तिनाशयोस्सदसत्त्वयोरनवस्था स्यात् ।
उपलभ्यमानं घटादिकमस्त्यनुपलभ्यमानं खरविषाणादिकं नास्तीति सर्वजनसम्मता व्यवस्था न स्यात् ।
६,२४७
अथवोत्पत्तिविनाशशब्दाभ्यां तदुपपादनस्योपलक्षणम् ।
तथा चैवं योजना आस्तां तावदन्यत् ।
सत्कार्यवादे सर्वत्र शिष्यं प्रतिवादिनं वा प्रति उत्पत्तिनाशयोर्नासदुत्पद्यते न सद्विनश्यतीत्येवंरूपोपपादनस्याप्यनवस्थावस्थानाभावः स्यात् ।
तथाहि ।
इदमुपपादनं किमर्थमिति वाच्यम् ।
शिष्यादेर्विद्योत्पत्तये ऽविद्यानाशाय वाद जल्पादौ तु ख्यात्याद्युत्पादायेति चेत् ।
तद्विद्यादिकं सच्चेन्नोत्पाद्यम्, सत्त्वादात्मवत् ।
असच्चेन्नोत्पादयितुं शक्यम्, अन्यथा सत्कार्यवादभङ्गप्रसङ्गात् ।
एवमविद्या सती चेन्न विनाश्या ।
अन्यथापसिद्धान्तापत्तेः ।
असती चेत्(नितरां) न तारम् ।
नित्यनिवृत्तत्वात् ।
ततः सर्वथा प्रतिपादनासम्भव एवेति ।
६,२४८
यदि वोत्पत्तिविनाशयोरिति विरुद्धधर्मोपलक्षणम् ।
तथाहि ।
यदि कार्यमुपादानात्मकमेव सदेव च प्रागुत्पत्तेः स्यात् ।
तदोत्पत्तिविनाशादिधर्माणामनवस्था स्यात् ।
तन्तवः प्रागेव सन्तो नेदानीमुत्पद्यन्ते ।
पटस्तूत्पद्यते ।
तन्तुष्वविनष्टेष्वेव पटो विनश्यति ।
तन्तवो बहवः पटस्त्वेकः ।
एवमाकाराभिधानबुद्धिकार्यभेदो ऽपि द्रष्टव्यः ।
सैषा व्यवस्था न स्यादिति ।
६,२४९
नन्वेतत्सकलमपि पटवच्च, यथा प्राणादिरिति व्यक्त्यव्यक्त्यवष्टम्भेन परिहृतम् ।
तथाहि ।
व्यक्त्यपेक्षयोत्पत्तिः पटादीनामव्यक्त्यपेक्षया च विनाशो युज्यते ।
व्यक्त्यव्यक्त्यर्थमेव च कारकाण्युपयुज्यन्ते ।
व्यक्त्यव्यक्तिभ्यामेवोपलब्ध्यनुपलब्धी भवतः ।
अत एव प्रतिपादनं सङ्गच्छते ।
व्यक्ताव्यक्तरूपेणैव विरुद्धधर्मा व्यवतिष्ठन्ते ।
यथा हि संवेष्यितः पटो न स्फुटं पट इति प्रतीयते ।
न प्राव्रियते न शीतमपनुदति ।
न बहुदेशव्यापी भवति ।
प्रसारितस्तु स्फुटप्रतीत्यादिमान् ।
न चैतावता भेदः ।
नापि प्रसारितः प्रागसत् ।
यथा च प्राणायामेन निरुद्धः शारीरो वायुर्जीवनमात्रं करोति नोत्क्षेपणादि ।
निरोधापगमे त्वासादितव्यक्तिस्तदपि करोति ।
न तावन्मात्रेण भिद्यते ।
प्रागसन्वा ।
तथैवैतदपि व्यक्त्यव्यक्तिभ्यां समञ्जसमिति ।
अत्र ब्रूमः ।
केयं पटस्य प्रागुत्पत्तेरूर्ध्वं च विनाशादव्यक्तिर्मध्ये च व्यक्तिः ।
अनुपलब्धिरव्यक्तिरुपलब्धिर्व्यक्तिरिति चेत्तत्राहअनवस्थेति ।
यद्युपलब्ध्यनुपलब्धी एवोत्पत्तिविनाशौ ।
तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् ।
यद्यदोपलब्धं तत्तदैवोत्पन्नम् अनुपलब्धं च विनष्टमिति स्यादिति यावत् ।
किञ्च प्रागुत्पत्तेस्सत्त्वे पटस्य कस्मान्नोपलब्धिः कथं चोर्ध्वमुपलब्धिरिति प्रश्नस्य उपलब्ध्यनुपलब्धि(अनुपलब्ध्युपलब्धि)भ्यामेवेति परिहारं
वदन्देवानाम्प्रियः श्लाघनीयप्रज्ञः स्यात् ।
अपि च प्रागूर्ध्वं च तन्तूपलब्धौ कथं तन्मात्रस्य सतः पटस्यानुपलब्धिः ।
अन्यथा तन्तूनामपि सा स्यात् ।
६,२५१
अथ पटधर्मावेव व्यक्त्यव्यक्ती ।
तदा तावपि तन्तूनां विद्येते न वा ।
न चेन्न कार्यकारणयेरत्यन्ताभेदः ।
विद्येते चेत्तत्राहअनवस्थेति ।
उत्पत्तिनाशव्यवहारहेतूव्यक्त्यव्यक्ती यदि तन्तुष्वपि विद्येते तदा सर्वत्रोत्पत्तिनाशयोरनवस्था स्यात् ।
तन्तवो नोत्पन्ना न नष्टाः ।
किन्तु पट एवेत्युत्पत्तिविनाशव्यवस्था न स्यादिति ।
६,२५२
किञ्चेयमभिव्यक्तिरुत्पत्त्यादिव्यवहारकारणतयोपादीयते ।
सा किं चक्रचीवरादिभिः प्रागसत्येवोत्पद्यते मुद्गराभिघातादिना च नश्यति, उत प्रागपि सत्येवाविनाशिनी च ।
एवमव्यक्तिरपि किं प्रागसती मुद्गराभिघातादिनोत्पद्यते ।
किंवा प्रागपि सती ।
उभयत्राद्यौ दूषयतिअनवस्थेति ।
व्यक्त्यव्यक्त्योरुत्पत्तिनाशवत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्था व्यवस्थाभावः स्यात् ।
न किञ्चिदसदुत्पद्यते न किञ्चित्सद्विनश्यतीति सिद्धान्तविरोधः(हानिः) स्यादित्यर्थः ।
द्वितीयौ दूषयतिअनवस्थेति ।
व्यक्त्यव्यक्त्योः सदा सत्त्वे सर्वत्रोत्पत्तिनाशयोरनवस्थाव्यवस्थितिः स्यात् ।
तथाहि ।
एतावन्तं कालमनुत्पन्नो घट इदानीमुत्पन्न इति तावन्न स्यात् ।
उत्पत्तिव्यवहारहेतोरभिव्यक्तेः प्रागपि सत्त्वात् ।
तथा मुद्गराभिघाताद्युत्तरकालमपि घटसत्त्वव्यवहारः स्यात् ।
तद्धेतोरभिव्यक्तेरविनष्टत्वात् ।
तथेदानीमेव नष्टो घट इत्यपि न स्यात् ।
विनाशव्यवहारकारणानभिव्यक्तेः प्रागपि सत्त्वादिति ।
कारकव्यापारवैफल्यतादवस्थ्यं स्फुटमेव ।
६,२५३
अथैतद्दोषपरिहाराय व्यक्त्यव्यक्त्योरपि व्यक्त्यव्यक्ती स्वीक्रियेते, तदा तयोरप्युक्तविकल्पदोषानुषङ्गः स्यात् ।
अथ तत्रापि व्यक्त्यव्यक्त्यन्तराङ्गीकारस्तदानवस्था स्यादित्याहअनवस्थेति ।
उत्पत्तिनाशयोरिति विषयसप्तमी ।
सन्त्वनन्ता व्यक्तयो ऽव्यक्तयश्च ।
मूलक्षयाभावान्नानवस्था दोष इत्यत आहअनवस्थेति ।
अन्यथानवच्छिन्नव्यक्त्यव्यक्तिपरम्पराङ्गीकारे सवर्त्र घटादावुत्पत्तिनाशयोरनवस्थानवक्ळ्प्तिः स्यात् ।
उत्तरोत्तरव्यक्त्यव्यक्तिसिद्धौ हि पूर्वपूर्वव्यक्त्यव्यक्तीनामुत्पत्तिनाशव्यवहारनिदानत्वम् ।
ततः प्रयोजनपरिक्षयहेतुत्वादनवस्था दूषणमेव ।
६,२५५
नन्विदं भवतामपि समानम् ।
प्रागसतः सत्तासमवायो हि जनिरिष्यते ।
सत्तासमवायाह च सदा सन्ताविति प्राग्विनाशोत्तरमपि जनिः स्यात् ।
विनाशश्च न स्यादित्यत आहअनवस्थेति ।
इयं सर्वत्रोत्पत्तिविनाशयोरनवस्थाव्यवस्थितिः अन्यथा समवायस्य जनित्वाङ्गीकृतावेव हि स्यात् ।
नास्मन्मते ।
प्रकारान्तरेण जनेर्वक्ष्यमाणत्वादिति ।
ननु जनिः किं प्राक् सती उत कारकव्यापारजन्या ।
आद्ये प्रागुक्त एव दोषः ।
द्वितीये जनेर्जनिरपि तथेत्यनवस्था ।
एवं विनाशोपीत्यत आहअनवस्थेति ।
सर्वत्रोत्पत्तिनाशयोरियमुक्तानवस्था ।
अन्यथा घटजनेरन्या जनेर्जनिरित्यङ्गीकार एव स्यात् ।
न त्वेवमङ्गीक्रियते ।
अपि तर्हि घटजन्मैव जन्मनो जन्मेति ।
यथाऽहुः’यथा जनेर्जनिर्नान्या तस्या वस्तुजनिर्जनिः’ इति ।
घटो जायते घटजन्म जायत इत्यनयोरेकार्थतैव हि लौकिकपरीक्षकसम्मता ।
नच व्यक्त्यव्यक्त्योरप्येवमङ्गीकर्तुमुचितम् ।
जन्मविनाशावुपलब्ध्यनुपलब्धी वा विहाय व्यक्त्यव्यक्त्योरेवाप्रामाणिकत्वादिति ।
६,२५७
ननु यद्यसदुत्पद्येत सच्च विनश्येत तदा सर्वत्रोत्पत्तिनाशयोरनवस्थैव स्यात् ।
एवं सति हि (खर)शशविषाणमप्युत्पद्येत ।
आत्मा च नश्येदित्यत आहअनवस्थेति ।
अन्यथा कारणशक्त्यनादरणे हीमुत्पत्तिविनाशयोरनवस्था स्यात् ।
नचैवं किन्तु यस्योत्पत्तिकारणमस्ति तदसदप्युत्पद्यते ।
यस्य च विनाशकारणं विद्यते तत्सदपि निरुद्धयते ।
नच खरविषाणजन्मन्यात्मविनाशे वा कारणमस्तीति तयोर्जननविनाशाभावः ।
कारणस्वभावाननुगमे तु सत्कार्यवादिनो ऽप्यतिप्रसङ्ग एवेति ।
अथवा स्यादियमनवस्था यद्यत्यन्तासदेवोत्पद्यते सन्मात्रं विनश्यतीति ब्रूमः ।
सदसदेवोत्पद्यत इति चोक्तं विनाशकारणवदेव च विनश्यतीति ।
६,२५८
यच्चोक्तं भावे चोपलब्धेरिति सूत्रार्थत्वेन, तद्वयाप्यव्यापकभावेनैवोपपन्नं नात्यन्ताभेदसाधकम् ।
अथ कारणोपरक्तबुद्धिः सामानाधिकरण्यबुद्धिर्वात्राभिमतेति मतम् ।
सापि अभेदमात्रेण चरितार्था नात्यन्ताभेदसाधनायालम् ।
किञ्चैतद्युक्तेश्चेत्यनेनैव शक्यसङ्ग्रहं न पुनरभिधातव्यम् ।
अथानेन प्रत्यक्षमुपन्यस्यते तदपि नात्यन्ताभेदसाधकम् ।
अत एव भावाच्चोपलब्धेरिति सूत्रविपरिणामो ऽपि निरस्तः ।
सत्त्वाच्चावस्येति युक्तिश्चेद्युक्तेश्चेत्येतेनैव गतार्थता ।
श्रुतिश्चेच्छब्दान्तराच्चेत्यनेन ।
असद्वयपदेशादिति तु परिचोदनैवासङ्गता ।
परमार्थतो ब्रह्मकारणतापरत्वेनापाततस्तु शून्यस्याभावस्य वा कारणभावप्रतिपादकताप्रतिभासेन कार्यासत्त्वस्य श्रुतावप्रतीतेः ।
युक्तेरित्युक्तयुक्तिं तूत्तरत्रापाकरिष्यामः ।
शब्दान्तरं त्वाचार्येणैवान्यत्रान्यथैव व्याख्यातम् ।
पटे प्राणादौ च नात्यन्तानुपसञ्जातविशेषत्वमित्यनुदाहरणमेवेत्यलं प्रपञ्चेन ।
६,२६४
यदुक्तं शक्तो ऽपि हीति यच्च नित्यभेद इत्रत तदुभयं श्रुत्यापि साधयतिशक्तो ऽपीति ।
शक्तो ऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा । मनुव्_२,१.९२च्द् ।
स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थो ऽयमशेषतः । मनुव्_२,१.९३ ।
अकर्तुं शक्तो ऽपि करोति ।
अन्यथा विना कारणैस्तद्वयत्यासेन च कर्तुं शक्तो ऽपि नियतैः कारणैः करोतीच्छयेति योज्यम् ।
स्वस्मान्निमित्तकारणाद्भिन्नम् ।
उपादानकारणेनाभिन्नं भिन्नं च ।
संसारिणो हि विष्यिगृहीता इवेश्वरप्रेरिता अनिष्यमपि धारकप्रयत्नेनाकृत्वा न स्थातुमीशते ।
नच भगवांस्तथेत्यकर्तुं शक्तो ऽपीत्युक्तम् ।
अशेषतः प्रागिदानीं चोक्तो न तु सन्निहित एवेत्यर्थः ।
। इति श्रीमन्न्यायसुधायां आरम्भणाधिकरणम् ।


__