६,१७०
। अथ श्रीमन्न्यायसुधायां भोक्त्रधिकरणम् ।
। ओं भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ओं ।
अतीताधिकरणे ब्रह्मणो जगज्जन्मादिकारणत्वे श्रुतिसंवादित्वेन प्रबलया युक्त्या विरोधः परिहृतः ।
इदानीं तु श्रुतिसिद्ध(लिङ्ग)त्वेन प्रबलया युक्त्या विरोधः परिह्रियते ।
तथाहि ।
न ब्रह्मणो जगत्कारणत्वं वास्तवं सम्भवति ।
असर्वकारणेन मुक्ते(क्तजीवे)नात्यन्ताभिन्नत्वात् ।
नहि यो येनात्यन्ताभिन्नः स तद्विरुद्धस्वभावो वस्तुत इति क्वचिदुपलब्धम् ।
नच मुक्तस्यासर्वकारणत्वमसिद्धम्, (सर्वकारणत्वस्य) संसारे ऽनुपलम्भात् ।
संसारे प्रतीयमानस्य कस्यचिदाकारस्यैवापगमो हि मोक्षो नतु अपूर्वाकारोत्पादः, अनित्यत्वप्रसङ्गात् ।
नचानन्दादेरिव विद्यमानस्यैवाविद्यया तिरोहितत्वात्सर्वकारणत्वस्यानुपलम्भ इति वाच्यम् ।
प्रमाणाभावात् ।
आनन्दादेः परमप्रेमास्पदत्वादिना ईषदुपलब्धेश्च ।
नच ब्रह्मणो जगत्कारणत्वश्रवणात्सवर्थानुपलभ्यमानमपि जगत्कारणत्वं संसारे कल्प्यमिति युक्तम् ।
श्रुतेः काल्पनिकजगत्कारणत्वानुवादित्वेनापि सावकाशत्वात् ।
नच तथाभूतमेव लक्षणमस्त्विति वाच्यम् ।
अनङ्गीकारात् ।
काल्पनिकस्य जगत्कारणत्वस्य प्रधानादिष्वपि सम्भवेनातिप्रसङ्गाच्च ।
स्यादेतत् ।
मुक्तस्य ब्रह्मणैक्यमेवासिद्धमिति ।
मैवम् ।
‘कर्माणि विज्ञानमयश्च आत्मा परे ऽव्यये सर्व एकीभवन्ति’ इत्यादिश्रुतिसिद्धत्वादिति ।
तदिदमुक्तं सूत्रकृता भोक्तुर्जीवस्य मोक्षे ब्रह्मत्वापत्तिश्रवणात्तयोरविभागो भेदाभावः ।
ततश्च न ब्रह्मणो जगत्कारणत्वं वास्तवं युक्तमिति ।
६,१७१
एवं प्राप्ते सिद्धान्तितम् ।
भवेदेतदखिलं यदि मुक्तस्य ब्रह्मणाभेद एव प्रामाणिकः स्यात् ।
नचैतदस्ति ।
श्रौतस्त्वेकीभावप्रयोगः स्याल्लोकवत् ।
यथा लोके उदके उदकस्यैकीभावव्यवहारः स्थानैक्यनिबन्धनः ।
यथा वा प्राग्विभिन्ना ब्राह्मणाः साम्प्रतमेकीभूता इति मत्यैक्यनिबन्धनः ।
तथा प्राग्विभिन्नस्थाना भिन्नमतयश्च जीवा मुक्तौ ब्रह्मणा एकीभवन्ति ।
एकस्थाना एकमतयश्च भवन्तीत्युपपद्यते ।
तस्मादसिद्धेनासिद्धसाधनमेतदिति ।
तदेतदयुक्तम् ।
मुख्यार्थे बाधकाभावात् ।
विना बाधकेन जघन्यवृत्त्याश्रयणे चातिप्रसङ्गात् ।
इत्यतो मुख्यार्थे बाधकयुक्तिव्युत्पादनपरत्वेनापि स्याल्लोकवदिति सूत्रखण्डं व्याचष्टेनान्यदिति ।
भोक्त्रापत्तेर् अविभागश् चेत् स्याल् लोकवत् । ब्ब्स्_२,१.१३ ।
नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन । मनुव्_२,१.८५ ।
६,१७६
अत्र मुख्यमेवार्थमङ्गीकुर्वाणः प्रष्टव्यः ।
किं प्रागभिन्नस्यैव जीवस्य मुक्तौ ब्रह्मणैक्यमनेनोच्यते, उत भिन्नस्य, अथ(वा) भिन्नाभिन्नस्य ।
नाद्यः, अभूततद्भावार्थस्यैकीभवन्तीति च्विप्रत्ययस्यैव अनुपपत्तेः ।
अत एव न तृतीयः ।
ऐक्यस्य प्राक् सिद्धत्वात् ।
भेदनिवृत्त्यर्थत्वे तु गौणार्थत्वापत्तेः ।
द्वितीयनिराकरणेन निरस्तत्वात् (च) ।
द्वितीये त्विदमुपतिष्ठते, नान्यदिति ।
हिशब्दो हेतौ ।
यतो लोके अन्यत् वस्तु, अन्यत्वं वस्त्वन्तरेणाभेदमापन्नम्, क्वचित्काले, कथञ्चनोपायेन, न दृष्टम् ।
अतस्तद्दृष्टान्तेन जीवस्यापि कदाचन मुक्तावपि ब्रह्मभावो ब्रह्मत्वं न स्यात् ।
अयमत्र प्रयोगः ।
जीवो न कालान्तरे ऽपि ब्रह्मणैक्यमापत्स्यते ।
प्राक् ततो ऽत्यन्तभिन्नत्वात् ।
यः कदाचिद्यतो ऽत्यन्तं भिद्यते नासौ कदाचित्तदैक्यमापद्यते ।
यथा घटः पटेनेति ।
अथवा जीवब्रह्मणोः भेदः, सतोर्भेदिनोर्न निवृत्तिमान्, भेदत्वात्स्तम्भकुम्भादिभेदवदिति ।
आगमबाधितमेतदिति चेन्न ।
आगमानां मुख्यार्थतासम्भवे ऽनुमानबाधकत्वं, बाधिते चानुमाने तेषां मुख्यार्थतेति परस्पराश्रयत्वप्रसङ्गात् ।
सत्प्रतिपक्षत्वाच्च ।
तथाहि श्रुतिः ।
यथोदकमित्यादिका ।
प्रल्हादो ऽपि’परमात्मात्मनोर्योगः परमार्थ इतीष्यते(ताम्) ।
मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः’ इति ।
६,१८२
अथ मतम् ।
नायमस्ति युक्तिविरोधः ।
प्रागप्यभिन्न एव ब्रह्मणा जीव इत्यङ्गीकारात् ।
नच च्विप्रत्ययानुपपत्तिः ।
प्रतीत्यपेक्षया तदुपपत्तेः ।
प्राग्विभिन्नतया दृष्टो ऽयं जीवो ब्रह्मणः ।
अथेदानीं मुक्तावभिन्नतया दृश्यते, इत्यत एकीभवन्तीत्युच्यत इति ।
अत्रेदं वक्तव्यम् ।
किं प्राक्तनी जीवब्रह्मणोर्भेददृष्टिर्भ्रान्तिरुत प्रमेति ।
नाद्यः ।
बाधकाभावात् ।
श्रुतयस्त्वद्याप्यव्यवस्थितार्था न बाधकतामश्नुवते ।
द्वितीये त्वाहक्वचिदिति ।
क्वचिद् भिन्नतया दृष्टं तदभिन्नतया कथम् ।
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते । मनुव्_२,१.८६ ।
क्वचित्काले यद्वस्तु यतो भिन्नतया प्रमितं तत् कालान्तरे ऽपि कथं तदभिन्नतया प्रती(मी)येत, न कथञ्चिदित्यर्थः ।
कुत इत्यत आहनो दृष्टपूर्वं हीति ।
तादृशं प्राग्भिन्नतया प्रमितं कालान्तरे ऽभिन्नतया प्रमीयमाणम् ।
अयमिह प्रयोगः ।
जीवो न कदाचिद्ब्रह्माभिन्नतया प्रमाविषयः ।
ततो ऽत्यन्तभिन्नतया प्रमितत्वात् ।
यदेवं तदेवं यथा घटः पटाद्भिन्नतयेति ।
यस्तु क्वचिदपि भेदप्रमां न मन्यते, तं प्रत्यारोपितभेदमेकं वस्तु व्यतिरेकोदाहरणं वाच्यम् ।
एवञ्च प्रतीतिमुपादायापि न च्विप्रत्ययोपपत्तिः ।
एतदर्थत्वेनापि स्याल्लोकवदिति योज्यम् ।
तदेवं ग्रावप्लवनादिश्रुतिवत् उपपत्तिविरुद्धत्वेन श्रुतेर्मुख्यार्थासम्भवादमुख्यार्थ एव स्वीकरणीये परकीयहेतोरसिद्धत्वान्न ब्रह्मणो
जगत्कारणत्वे युक्तिविरोध इति सिद्धम् ।
६,१८४
केचिदिदं सूत्रमन्यथा व्याचक्षते ।
पूर्वं किल चेतनाचेतनात्मकस्य प्रपञ्चस्य ब्रह्मोपादनत्वेन ब्रह्मानन्यत्वमुक्तम् ।
तदाक्षिप्य समाधातुमिदं सूत्रम् ।
तथाहि ।
यदि चेतनाचेतनात्मकस्य जगतो ब्रह्मानन्यत्वं स्यात्तदा चेतनो भोक्ता भोग्यश्चाचेतना विषया इत्ययं विभागो न स्यात् ।
कुतः ।
भोग्यस्यापि भोक्तृत्वापत्तेः ।
भोक्तुरपि भोग्यत्वापत्तेः ।
भवितव्यं चानेन विभागेन ।
प्रत्यक्षादिसिद्धत्वादिति चेत् ।
स्याल्लोकवत् ।
यथा लोके समुद्रात्मनामपि फेनतरङ्गादीनां नेतरेतरभावापत्त्या विभागभङ्गः, यथा वा महाकाशात्मनामपि घटमठाद्याकाशानां, तथा प्रकृते
ऽपि स्यादिति ।
तदिदं दूषयतिभोक्तृत्वेति ।
भोक्तृत्वापत्तित इति यन्मतं तत् कुतो हरिः ।
भोक्त्रापत्तेरिति प्राह … । मनुव्_२,१.८७अच् ।
यत् यदि भोक्त्रापत्तेरित्यत्र भोक्त्रत्वापत्तेरिति व्याख्यानं सूत्रकारस्यापि(भि)मतं स्यात् तत् तर्हि कुतो हरिः सूत्रकृत् भोक्त्रापत्तेरिति (प्र)आह ।
भोक्तृत्वापत्तेरित्येव ब्रूयात् ।
नचैवमब्रवीत् ।
ततो नायमभिप्रायः सूत्रकारस्येति ।
यद्यप्यत्र परेषामस्माकं चाध्याहारसाम्यम् ।
तथापि भावप्रत्ययाभावः परस्याधिकः ।
६,१८६
ये तु व्याचक्षते’चिदचिद्वस्तुशरीरत्वे ब्रह्मणो जीववत्सुखदुःखादिभोक्तृत्वापत्तेर्जीवब्रह्मस्वभावविभागो न स्यादिति चेन्न ।
यथा कान्तारे निपतितस्य(स्यापि) नृपस्य न दंशमशकाद्युपद्रवस्तथात्रापि स्यात्’ इति ।
तेषामप्ययं शब्ददोषः समानः ।
ननु भावप्रधाना निर्देशास्तत्र तत्र बहुलमुपलभ्यन्ते ।
तत्कथमयं दोषो ऽभिधीयते ।
अयमभिसन्धिर्भाष्यकारस्य ।
प्रतिपाद्ये व्यवस्थिते तद्बलाच्छाब्दी गौणता कथञ्चिदनुसर्तव्या ।
नचास्य सूत्रस्येदं प्रतिपाद्यं व्यवस्थितम् ।
जगदुपादानत्वस्य प्रागनुक्तत्वेनानुक्तोपालम्भप्रसङ्गात् ।
जगच्छरीरत्वस्यान्तर्याम्यधिकरणे प्रसक्ते ऽपि सम्भोगप्राप्तिरित्यनेनैव परिहृतत्वात् ।
तत्र जीवशरीरगतत्वेन (प्रस(क्तं)कतभोक्तृत्वमपास्तम् ।
अत्र तु जगच्छरीरत्वेनेति चेन्न ।
पूर्वोत्तरपक्षयोर्न्यायाविशेषे सूत्रारम्भानुपपत्तेः ।
अतो निर्निमित्तः शाब्ददोषो ऽपि नानुसरणार्ह इति ।
यद्वैतदर्थप्रतिपादनाय कथं चेत्याद्युत्तरवाक्यमत्रापि संयोज्य व्याख्येयमित्युक्त एव सूत्रार्थ इति ।
। इति श्रीमन्न्यायसुधायां भोक्त्रधिकरणम् ।
__