६,४०
। ओं असदिति चेन्न प्रतिषेधमात्रत्वात् ओं ।
ननु च(चा)नारम्भणीयमेवेदमधिकरणम्’न विलक्षणत्वात्’ इत्यनेनैव वेदस्य सकलयुक्तिविरोधानां परिहृततत्वात्,
दृढयुक्तिविरोधपरिहारस्य चाभिमान्यधिकरणन्यायसिद्धत्वात्, इत्यतो गतार्थतां परिहरन्नधिकरणस्योपाधिमा(प्या)हअल्पवाक्येति ।
असद् इति चेन् न प्रतिषेधमात्रत्वात् । ब्ब्स्_२,१.७ ।
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी । मनुव्_२,१.६७च्द् ।
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः । मनुव्_२,१.६८ ।
६,४१
यत्र यदा वेदस्य वाक्ययुता युक्तिर्विरोधिनी स्यात्, तत्र तदा, वस्तुनिर्णयः कथं स्यात् इति पूर्वपक्षिणेरिते सति तद्विरोधियुक्तीनां बाहुल्यात्
प्राबल्यात् वस्तुनिर्णयो भवेदिति सिद्धान्तः ।
इत्येषो ऽत्राधिकरणे न्यायो विनिश्चितः ।
एतदुक्तं भवति ।
पूर्वाधिकरणे प्रत्यक्षादिगृहीतव्याप्त्यादिमत्त्वेन दृढया युक्त्या विरुद्धत्वाद्वेदैकदेशस्याप्रामाण्ये सति तद्दृष्टान्तेन ब्रह्मणो
जगत्कारणत्वाभिधायकस्यापि वेदस्य वेदत्वादप्रामाण्ये तदसिद्धिरिति पूर्वः पक्षः ।
सिद्धान्तस्तु युक्तिवद्वेदस्याप्यपौरुषेयत्वेन दृढत्वात् वास्तवविरोधस्यानुपपत्तेः अविरुद्धाथर्कल्पनोपपत्तेः नाप्रामाण्यमिति ।
६,४२
इह पुनर्वेदवाक्यान्तरसंवादेन सुदृढया युक्त्या विरुद्धत्वाद्ब्रह्मणो जगत्कारणत्वाभिधात्रीणां श्रुतीनामेव तत्र प्रामाण्यानुपपत्तौ
प्रथमाध्यायोक्तवस्तुनिर्णयो न भवेदिति पूर्वः पक्षः ।
सिद्धान्तस्तु ।
पूर्वपक्षिणोत्प्रेक्षिताभ्यः श्रुतिसहितयुक्तिभ्यो ऽपि प्रबलानां तद्विरोधियुक्तीनां सद्भावात्तद्विरुद्धानां पूर्वपक्षश्रुतियुक्तीनामप्रामाण्यादुपपन्नतरः
प्रागुक्तो ऽर्थ इति ।
अतः पूर्वोत्तरपक्षन्याययोरगतत्वेन युक्तो ऽधिकरणारम्भ इति ।
एतच्चानुपदमेवोदाहरणेन प्रपञ्चयिष्यामः ।
६,४३
नन्वेवं सति श्रुतीनां श्रुतियुक्तिविरोधपरिहारो ऽस्याधिकरणस्यार्थ इत्युक्तं भवति ।
सो ऽयं चतुर्थपादार्थ एवेति तत्रैवास्याधिकरणस्योपनिबन्धनमुचितम् ।
नात्रेत्यतो ऽस्य ततो ऽपि वैलक्षण्यं दर्शयितुमुक्तमल्पेति, बहुलेति च ।
अत्राल्पत्वमुपसजर्नत्वम्, बहुलत्वं (च) प्रधानत्वमिति ज्ञातव्यम् ।
एवशब्दस्तु’न गुणप्रधानभावव्यत्यासश्चतुर्थपाद इव’ इत्यर्थे ।
६,४४
ननु श्रुतियुक्तिभ्यां पूर्वपक्षिते कथं प्रबलयुक्तिमात्राश्रयेण सिद्धान्तः ।
कथञ्चित्प्रतिपक्षतामात्रसम्भवादित्यत उक्तं विवृण्वन्नाहयुक्तेस्त्विति ।
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।
कथं न निर्णयं कुर्याद् … । मनुव्_२,१.६९अच् ।
पूर्वपक्षयुक्त्यपेक्षया विरोधियुक्तेर्बाहुल्यम् ।
तथा पूर्वपक्षागमापेक्षया विरोध्यागमस्य च बाहुल्यं कथं निर्णयं न कुर्यात् ।
पूर्वपक्ष्युत्प्रेक्षितयुक्त्यागमाभ्यां प्रबलौ विरोधियुक्त्यागमौ तद्बाधया वस्तुव्यवस्थां कुरुत इत्यर्थः ।
कुर्यादिति प्रत्येकं सम्बन्धः ।
न केवलं सिद्धान्ते प्रबलयुक्तिमात्रं, किन्नाम प्रबलागमो ऽप्यस्तीति भावः ।
इति अतः, अधिकरणारम्भः सम्भवतीति शेषः ।
अधिकरणोपाधिव्युत्पादनसमाप्तिद्योतको वा इतिशब्दः ।
६,४७
तदिदमुदाहरणनिष्ठं व्युत्पादयितुं पूर्वपक्षमनुवदति सूत्रकारःअसदिति चेदिति ।
अयमस्यार्थः ।
न ब्रह्मणो जगत्कर्तृत्वं युक्तम् ।
प्रमाणाभावात् ।
‘सदेव सोम्येदमग्र आसीत्तत्तेजो ऽसृजत’ इत्यादिश्रुतिरस्तीति चेन्न ।
तस्या युक्तिविरुद्धत्वेन भवदभिमतार्थे प्रामाण्याभावात् ।
तथाहि ।
महाप्रलये तावदुत्पत्स्यमानकार्यप्रागभावो ऽवश्यमङ्गीकरणीयः ।
अन्यथा सर्गादौ
कार्योत्पादायोगात् ।
नचास्यान्यत्र चरितार्थतोपलभ्यते ।
ततश्च स एव सकलकार्यकारणं भविष्यति ।
अयमत्र प्रयोगः ।
महाप्रलयवर्ती कार्यप्रागभावो महदादिकायर्कारणं भवितुमर्हति, अन्यत्रानुपक्षीणत्वे सति नियमेन तत्पूर्वभावित्वात्, यो ऽन्यत्रानुपक्षीणत्वे सति
नियमेन य(तः)त्पूर्वभावी, स तस्य कारणम्, यथा कुविन्दः पटस्येति ।
महदादिकं वा प्रागभावकार्यम् अनन्यथासिद्धनियतपश्चाद्भावित्वात्, यत् यदनन्यथासिद्धनियतपश्चाद्भावि तत् तत्कायर्म् ।
यथा पटः कुविन्दस्येति ।
नन्वत्र जगत्प्रागभावस्य जगत्कारणत्वमात्रं वा साध्यम्, अन्ययोगव्यवच्छेदेन वा ।
आद्ये ऽर्थान्तरता, प्रागभावस्य कारणत्वे ऽपि ब्रह्मकारणतासम्भवात् ।
द्वितीये व्याप्त्यभावः ।
न हि’यो यदपेक्षया पूर्वभावी, स एव तत्कारणं, नान्यः’ इति नियमो ऽस्ति ।
ततः प्रागभावस्य जगत्कारणत्वे ऽपि तत्समानन्यायानामीश्वरादीनामपि तत्कारणत्वमङ्गीकार्यमिति ।
मैवम् ।
स्यादेतदेवम् यदीश्वरादीनां प्रलये सत्त्वमेव स्यात् ।
नचैतदस्ति ।
सिद्धान्तिना कारणत्वेनाशास्यमानमीश्वरादिकं प्रलये ऽसद्भवितुमर्हति भावत्वान्महदादिकार्यवदिति युक्तिवि(रुद्धत्वतात्)रोधः ।
एवञ्च(ञ्चेदी) ईश्वरादीनां प्रलये ऽसत्त्वसिद्धौ प्रागभावस्य कारणत्वमात्रसाधने ऽपि तस्यैव कारणत्वमिति सिद्धयति ।
ननु च यत्कार्यं तत्सकर्तृकमिति नियमान्महदादिकर्तृत्वेनेश्वरो ऽवश्यमङ्गीकरणीयः ।
न ।
प्रलये तत्सत्ता(त्त्वा)ऽभावस्य प्रमितत्वेन प्रागभावस्यैव जगत्कर्तृत्वोपपत्तेः ।
न चैतदनुमानजातमुदाहृतश्रुतिविरुद्धत्वेनाप्रामाण्यमिति साम्प्रतम् ।
‘असदेवेदमग्र आसीत् ।
तदसदेव सन्मनो ऽकुरुत ।
असतः सदजायत’ इत्यादिश्रुतिसंवादित्वेन श्रुतिमात्रतः प्राबल्यात् ।
प्रबलयुक्तिविरुद्धायाश्च श्रुतेः स्वार्थपरित्यागस्यातीताधिकरणे स्थितत्वात् ।
प्रागभावस्यापि स्वरूपसत्त्वादिना सदेवेत्यादिप्रयोगविषयतद्वोपपत्तेः ।
६,४७फ़्.
ननु’एतेन सर्वे’ इत्यसदादिशब्दानां ब्रह्मार्थत्वमुक्तम् ।
तत्किं शब्दानामन्यत्र शक्तिरेव नास्ति, किं वा श्रुतेस्तत्र तात्पर्याभावः ।
नाद्यः ।
समाकर्षाङ्गीकारात् ।
न द्वितीयः ।
युक्त्युपतायास्तत्र तात्पर्योपपत्तेः ।
तथापि प्रागभावस्यैव कारणत्वं कर्तृत्वं च न क्वाप्युपलब्धमिति चेन्न ।
अलौकिकार्थस्य यथागमं ग्राह्यत्वात् ।
सन्ततोत्पत्तिप्रसङ्गस्तु ब्रह्मवादिनो ऽपि समानः ।
इच्छादिकारणानां कादाचित्कत्वेन तत्समाधानं ममापि समानम् ।
अत एव श्रुतिराह’तन्मनो ऽकुरुत’ इति ।
तत् तस्मात्, तत्तत्प्रागभावस्यैव तत्तत्कर्तृत्वादुक्तमयुक्तमिति ।
तदिदमुक्तम्असदिति ।
अभावः श्रुत्या जगत्कर्तृत्वेनोच्यते ।
अनुमीयते च तथा ।
तस्मात्स एव जगत्कर्तेति ।
अत्रासच्छब्दो भावसाधनः श्रुत्यनुगमार्थमभावे प्रयुक्तः ।
६,५४
अपरापि वृत्तिः ।
भावत्वहेतुना कार्यवदीश्वरादिकमपि प्रलये ऽसदनुमीयत इति ।
अत्रासच्छब्दः कर्तृसाधनः ।
इह प्रथमां वृत्तिमभिप्रेत्य नेति सिद्धान्तांशं व्याचष्टे(व्याख्याति)असदिति ।
… इत्यसत् कारणं न हि । मनुव्_२,१.६९द् ।
श्रुत्यर्थो भवति … । मनुव्_२,१.७०अ ।
अभाव इत्यर्थः ।
कारणमिति तद्विशेषः कर्तोच्यते ।
हीत्यनेनेदमाह ।
उपपत्तिविरुद्धस्तावन्न वेदाथर्ः सम्भवति, तदविरुद्धे ऽर्थे सम्भवतीत्युक्तम् ।
प्रकृतश्चोपपत्तिविरुद्धः ।
तथाच वक्ष्याम इति ।
श्रुत्यर्थो न भवतीत्युपलक्षणम् ।
अनुमानप्रमेयमपीदं न भवत्युपपत्तिविरुद्धत्वादित्यपि द्रष्टव्यम् ।
किञ्च सम्भावित एव श्रुत्यर्थो वक्तव्यो ऽनुमातव्यश्च ।
नचैवं प्रकृतः ।
क्वाप्यभावस्य कर्तृत्वानुपलम्भादित्याहक्वापीति ।
… क्वापि … । मनुव्_२,१.७०अ ।
असत्कारणं न ह्यनुपलब्धमित्यनुवर्तते ।
६,६०
चतुर्थपादस्याधिकरणस्य वैलक्षण्यं दर्शयितुमल्पेत्याद्युक्तम् ।
तदविशदम् ।
वैलक्षण्यज्ञानस्योभयस्वरूपज्ञानाधीनत्वात् ।
अतश्चतुर्थपादार्थं दर्शयतिश्रुतीति ।
… श्रुतिप्रायोपपत्तिभिः । मनुव्_२,१.७०ब् ।
श्रुतीनां प्रायो बाहुल्यम् ।
तत्सहिताभिरुपपत्तिभिः ।
श्रुतिप्रधानकोपपत्तिभिरिति यावत् ।
अविरोधो विरोधाभावः ।
श्रुतीनामिति शेषः ।
यद्वा श्रुतिप्रायशब्देन श्रुतिकल्पत्वमुच्यते ।
श्रुतिगृहीताभिरुपपत्तिभिरित्यर्थः ।
अत्र तु स्वतन्त्राभिरिति स्फुटमेव ।
अथवात्रोक्तार्थस्यैव तत्र प्रपञ्चनान्न दोषः ।
यथा प्रथमपादार्थप्रपञ्चनात् द्वितीयपादस्य इत्याशयेनोक्तं सम्यगिति ।
यद्वा क्वापीति अत्र सम्बद्धयते ।
तेन क्वाप्यध्यात्मलक्षणे विषये, अत्र त्वन्यत्रेति भेदः सूचितो भवति ।
यद्यप्येतत्प्रागेव वक्तव्यम् तथाप्यसत्कार्यमित्यादेर्वक्ष्यमाणस्य, सूत्रस्य व्याख्यानान्तरत्वद्योतनाय व्यवधानेनोक्तम् ।
अन्यथा पूर्वमेव व्याख्यानम्, इदं तु तदुपपादनायोपयोगीति विज्ञायेत ।
६,६३
अथ द्वितीयां वृत्तिमभिप्रेत्य’असदिति चेन्न’ इत्येतावत्सूत्रं व्याचष्टेअसदिति ।
असत् कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ।
इति चेन्न … । मनुव्_२,१.७१ ।
कार्यं महदादिकम् ।
यथा प्रलये ऽसत् प्रमितं तथा वस्तुत्वाद्भावत्वात्कारणं कारणत्वेन सिद्धान्तिनाङ्गीकृतमीश्वरादिकमपि(मिति)प्रलये ऽसद्भवितुमर्हतीत्यर्थः ।
कुतो नेति चेत् ।
न तावदस्मादेवानुमानादभावस्य विश्वकर्तृत्वसिद्धिः ।
किन्त्वनेन प्रलयावस्थायामीश्वराद्यभावसिद्धौ कार्यस्य सकर्तृकत्वनियमे स्थिते प्रागभावस्य नियतपूर्वभावित्वेन विश्वकारणत्वं सिद्धयन्
कर्तृतयैव सेत्स्यतीति वक्तव्यम् ।
तदिदं प्रत्यनुमानपराहतमित्याशयवान् प्रतिषेधमात्रत्वदिति सौत्रं हेतुं व्याकुवर्न् साध्यमध्याहरतिनिषेधेति ।
… निषेधैकस्वरूपस्य न कर्तृता । मनुव्_२,१.७१च्द् ।
निषेधैकस्वरूपस्येति हेतुगर्भविशेषणम् ।
अयमत्र प्रयोगः ।
विप्रतिपन्नो ऽभावो न कर्ता प्रतिषेधमात्रत्वात् निषेधैकस्वरूपत्वात् सम्प्रतिपन्नघटाभाववदिति ।
कर्तृत्वमात्रस्याभावे विश्वकर्तृत्वं दूरोत्सारितम् ।
नच दृष्टान्तः साध्यविकलः ।
अन्वयव्यतिरेकाभ्यां कुलालादेः कर्तृत्वनिश्चये तु अभावस्य तत्कल्पकाभावात् ।
६,६५
नन्वस्तु निषेधैकस्वरूपत्वं, कर्तृत्वं च को विरोधः ।
तथाच घटाद्यभावस्याकर्तृत्वे ऽपि प्रलयकालीनो ऽभावः कर्ता भविष्यतीत्यतः कर्तृत्वनिषेधैकस्वरूपत्वयोविर्रेधं स्फोरयितुं
कर्तृत्वस्वरूपमाहबुद्धीति ।
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम् । मनुव्_२,१.७२अब् ।
प्रवृत्तिः इच्छाप्रयत्नादिका ।
निश्चितं सर्वैरपि परीक्षकैः ।
वृक्षेण स्थीयत इत्यादौ कर्तृत्वं पारिभाषिकं न तु स्वाभाविकमिति हि सर्वे ऽपि प्रतिपन्नाः ।
अत्र बुद्धिपूर्वप्रवृत्तिरित्येतद्बुद्धया विविच्य व्याख्येयम् ।
तथाहि ।
स्यात्कर्तृनिषेधैकस्वरूपत्वयोरविरोधः, यदि तृतीयादिविषयत्वमेव कर्तृत्वं स्यात् ।
न चैतदस्ति ।
अपि तर्हि इच्छाप्रयत्नादिरूपा प्रवृत्तिरेव ।
सर्वैरपि परीक्षकैस्तस्या एव कर्तृत्वेन निश्चितत्वात् ।
प्रकरणाच्चैतदेव निश्चितम् ।
अत्रैव हि विप्रतिपत्तिर्नान्यत्र ।
सा चेयं प्रवृत्तिर्बुद्धिपूर्वा बुद्धिव्याप्ता ।
कार्यायाः प्रवृत्तेर्बुद्धिकारणकत्वात् ।
अकार्यायाश्च बुद्धिव्यभिचाराद्यदशर्नात् ।
नच कर्तृत्वापरपर्यायायाः प्रवृत्तेर्व्यापिका बुद्धिरभावे सम्भवति ।
ततो व्याप्यं कर्तृत्वमपि न सम्भवत्येवेति कथं कर्तृत्वनिषेधैकस्वरूपत्वयोर्न विरोध इति ।
अत्र कर्तृत्वानुवादेन बुद्धिपूर्वप्रवृत्तिरिति व्याख्यानान्निश्चितमिति नपुंसकोपपत्तिः ।
भावे वा क्तप्रत्यय इति ।
६,६८
ननु मा भूदप्रयोजकत्वं हेतोः ।
तथापि वैयर्थ्यमपरिहायर्म् ।
अभावपर्यायो हि प्रतिषेधशब्दः, कर्तृत्वं च कार्योत्पत्त्यनुकूलेच्छादियोग इत्युक्तम् ।
नच प्रतिषेधत्वं कर्तरि वर्तते, येनाकर्तृकं व्यभिचरेत् ।
तन्निरासार्थं च विशेषणं सार्थकं स्यात् ।
अतः प्रतिषेधत्वादित्येतावताकर्तृत्वव्यभिचाराभावात्सूत्रे मात्रग्रहणं व्याख्याने ऽप्येकग्रहणं व्यर्थमित्यत आहप्रतिषेधेति ।
प्रतिषेधात्मकत्वं तु भावस्य… । मनुव्_२,१.७२च्द् ।
भावस्यापि कुलालादेः कर्तुः प्रतिषेधात्मकत्वं विद्यते ।
अतः प्रतिषेधत्वादित्यु(त्येवो)क्ते कुलालादौ, अकर्तृत्वेन हेतोः, व्यभिचारः स्यात् ।
तत्परिहारार्थं मात्रग्रहणम् ।
तद्वयाख्याने (च) एकग्रहणं च सार्थकमिति ।
६,७०
ननु कुलालादेर्भावस्य कथं प्रतिषेधात्मकत्वमित्यत आहअभावेति ।
… अभावधर्मतः । मनुव्_२,१.७२द् ।
अभावो ऽत्रान्योन्याभावो विवक्षितः ।
स धर्मो ऽस्येत्यभावधर्मा ।
तस्य भावस्तत्त्वम् ।
तत इति भावप्रधानो निर्देशः ।
अस्ति खलु कुलालादेर्भावस्य भेदापरपर्याय(ः)प्रतिषेधात्मकः अन्योन्याभावो धर्म इति ।
व्यास(१६)
नन्विदमसङ्गतम् ।
यः कर्ता धर्मी कुलालादिः न तस्य प्रतिषेधात्मकत्वम्, यश्च प्रतिषेधात्मको ऽन्योन्याभावो न तस्य कर्तृत्वमित्तय आहधर्मेति ।
धर्मधर्मैक्यतश्चैव … । मनुव्_२,१.७२ए ।
धर्मधर्मिणोः कुलालान्योन्याभावोरेकत्वतः ।
चशब्दो हेतुसमुच्चये ।
अभावधर्मतो धर्मधर्म्यैक्यतश्च प्रतिषेधात्मकत्वं भावस्यास्तीत्यन्वयः ।
एवशब्दो भेदव्युदासार्थः ।
अन्योन्याभावो हि धर्मिणात्यन्ताभिन्नो ऽभ्युपेयते ।
न त्वयावद्द्रव्यभावी धर्म इव भिन्नाभिन्नः ।
६,७१
अस्त्वेवं प्रतिषेधत्वस्य कुलालादौ व्यभिचारस्तथापि कथं मात्रग्रहणस्य सार्थक्यम् ।
न ह्यविशिष्टव्यभिचार एव विशेषणं प्रयोजयति ।
तथात्वे विशेषणनियमानुपपत्तेः ।
किन्नाम विशेषणस्य व्यभिचारनिरासौपयिकत्वे सति ।
तदत्र कथमित्यत आहन त्विति ।
… नतु तन्मात्रता भवेत् । मनुव्_२,१.७२फ़् ।
६,७२
कुलालादेः कर्तुर्भावस्य प्रतिषेधत्वे ऽपि(धात्मकत्वे ऽपि)तन्मात्रता प्रतिषेधमात्रता न भवेत् ।
अतो ऽस्ति मात्रग्रहणस्य व्यभिचारपरिहारौपयिकत्वम् ।
तुशब्दो ऽवधारणे सन्दिग्धव्यभिचारपरिहारार्थः ।
६,७२फ़्.
नन्वेवमेकं सन्धित्सतो ऽ(न्यत्)परं प्रच्यवते ।
यतो व्यर्थविशेषणतापरिहारे स्वरूपासिद्धिरापन्ना ।
तथाहि ।
पक्षीकृते अभावे प्रमेयत्वादिधर्माः सन्ति न वा ।
नेति पक्षे ऽप्रमिताश्रयत्वादिकं हेतोः ।
आद्ये न तावत्ते ऽप्यभावाः विधिप्रत्ययविषयत्वात्, प्रतियोग्यनिरूप्यत्वाच्च ।
षट्पदार्थातिरिक्तत्वमभावत्वमिति चेन्न ।
स्वेच्छापरिकल्पनाया अनुपादेयत्वात् ।
अन्यथा पञ्चैव भावास्तदतिरिक्तो ऽभाव इति कल्पनायां समवायादेरपि भावत्वं न स्यात् ।
ते च नाभावाद्धर्मिणो भिन्नाः ।
अन्योन्याभावसमानन्यायत्वात् ।
तथाच यथा कुलालादेर्विपक्षस्य विधिनिषेधात्मकत्वेन प्रतिषेधमात्रत्वाभावस्तथा पक्षीकृथाभावस्यापि (धर्मद्वारा विधिरूपस्य)
प्रतिषेधमात्रत्वाभावात्स्वरूपासिद्धो हेतुः स्यात् ।
दृष्टान्तश्च साधनविकलः ।
घटाभावस्यापि धर्मद्वारा विधिरूपस्य प्रतिषेधमात्रत्वाभावादित्यत आहअभावस्य चेति ।
अभावस्य च भावो ऽपि धर्मो ऽथापि … । मनुव्_२,१.७३अब् ।
प्रथमापिशब्दात्पूर्वं यदीत्यध्याहार्यम् ।
यद्यप्यभावस्य पक्षीकृतस्य दृष्टान्तीकृतस्य च भावः प्रमेयत्वादिधर्मो ऽस्ति ।
चशब्दाद्धर्मिणा अभिन्नश्च ।
भावस्याभावधर्म इवेति वा ।
अथापि न स्वरूपासिद्धयादिदोष इति शेषः ।
६,७४
कथमित्यत आहहि धर्मिण इति ।
… हि धर्मिणः ।
तादृक्तवं मात्रतेहोक्ता … । मनुव्_२,१.७३ब्च् ।
६,७५
हिशब्दो हेतौ ।
तादृक्त्वं प्रतिषेधात्मकत्वम् ।
मात्रता प्रतिषेधमात्रता ।
इह सूत्रे ।
एतदुक्तं भवति ।
स्यादयं स्वरूपासिद्धयादिदोषो यद्यत्र प्रतिषेधमात्रशब्देन केवलप्रतिषेधत्वं विवक्षितं स्यात् ।
नचैवम् ।
किन्तु धर्मद्वारमन्तरेण धमिर्ण एव प्रतिषेधत्वम् ।
तच्च पक्षदृष्टान्तयेरस्त्येव ।
तयोधर्र्मद्वारेण विधित्वे ऽपि धर्मिणोः प्रतिषेधत्वस्योभयसिद्धत्वात् ।
व्यावृत्तं च विपक्षात्कुलालादेः ।
तस्य धर्मतो निषेधत्वे ऽपि धर्मि(णो) विधित्वा)णो ऽनिषेधत्वादिति ।
ननु कथमेतल्लभ्यते ।
उच्यते ।
मात्रशब्दो हि साकल्ये वर्तते ।
नच तत् क्वापि सम्भवति ।
प्रतिषेधे ऽपि विधिसद्भावस्य परेणैवोक्तत्वात् ।
ततः प्रतिषेधमात्रशब्दो विधेरप्राधान्यं लक्षयति,
अन्नमात्रं भुक्तमिति यथा ।
धर्मधर्मिणोश्च, अप्राधान्यं धर्मस्य, प्राधान्यं धर्मिणः ।
तेन धर्मिणः प्रतिषेधत्वं प्रतिषेधमात्रत्वमिति सिद्धयति ।
इच्छाप्रयत्नादिरूपायाः प्रवृत्तेः कर्तृतापरनामिकायाः व्यापिका बुद्धिः अभावाद्वयावृत्ता तामपि व्यावर्तयतीत्युक्तम् ।
तत्राभावाद्बुद्धिव्यावृत्तिरेव कुत इत्यत आहबुद्धीति ।
… बुद्धिराहित्यमेव तत् । मनुव्_२,१.७३द् ।
तत्तस्मात्प्रतिषेधमात्रत्वादेव बुद्धिराहित्यमभावस्य घटाभाववत्सिद्धयतीत्यर्थः ।
द्विविधं हि प्रमेयम् स्वतन्त्रं परतन्त्रं च ।
परतन्त्रमपि द्विविधम् भावो ऽभावश्च ।
भावो ऽपि द्वेधा चेतनो ऽचेतनश्च ।
एवञ्च यदा भावस्यापि कस्यचिन्न चैतन्यं, का वार्ता तदाभावे चैतन्यस्य ।
कश्चिदभावो बुद्धिमान् किन्न स्यादिति चेन्न ।
निरुपाधिकसम्बन्धमनादृत्य निर्निमित्तायाः शङ्काया अतिप्रसङ्गित्वात् ।
‘तन्मनो ऽकुरुत’ इति श्रुतेरिति चेन्न ।
अन्यथासिद्धत्वात् ।
अथ प्रतिषेधमात्रत्वमपि पक्षे नाभ्युपेयात् ।
तदासदिति ब्रह्मेति च सञ्ज्ञाभेदमात्रम् ।
अनेकत्वादेः परेणापि त्याज्यत्वात् ।
अनेकस्वातन्त्र्ये कार्योदयायोगात् ।
नन्विदं तत्रैव वक्तव्यम् ।
सत्यम् ।
प्रतिषेध(त्व)मात्रत्वे विदिते ततो बुद्धिराहित्यप्रतीतेः सौलभ्यादिहोक्तम् ।
टीकाकारस्तु प्रमेयत्वादिभावधर्माङ्गीकारे बुद्धिरपि तथा किन्न स्यादिति शङ्कावकाशादिहोक्तमित्याहुः ।
६,८०
भावस्याभावो धर्मः, अभावस्य च भावो ऽपि धर्म इत्यनुपपन्नम् (भावस्याभावधर्मता, अभावस्य च भावधर्मतेत्यनुपपन्नम्) ।
भावाभावयोरभावभावधर्मित्वे प्रमाणाभावात् ।
सम्बन्धाभावाच्च ।
सम्बद्धयोरेव हि शौक्लयपटयोर्धर्मधर्मिभावो दृष्टो नासम्बद्धयोर्मरुमन्दरयोः ।
नच भावाभावयोः सम्बन्धो ऽस्ति ।
संयोगसमवाययोर्भावनियतत्वात् ।
विरुद्धस्वभावत्वाच्च ।
यावविरुद्धस्वभावौ गुणगुणिनौ तावेव हि धर्मधर्मिणावुपलब्धौ ।
न विरुद्धस्वभावावश्वमहिषौ ।
विरुद्धस्वभावौ च भावाभावौ ।
विधिनिषेधरूपत्वात् ।
अभेदाच्च ।
नहि घटः स्वयं स्वस्यैव धर्मो भवति ।
उक्तं च धर्मधर्म्यैक्यमित्यत आहविशेष्यतैवेति ।
विशेष्यतैव धर्मित्वं … । मनुव्_२,१.७४अ ।
विशेषणतैव च धर्मत्वमित्यपि द्रष्टव्यम् ।
यो हि विशिष्टते व्यवच्छिद्यते स तस्य धर्मी ।
धर्मश्चापरः ।
प्रकारान्तरस्य निर्वक्तुमशक्यत्वात् ।
प्रतीयते च विशेष्यविशेषणभावो भावाभावयोः ।
अन्यथा घटः पटो न भवतीत्यभावः प्रमेय इति च व्यवहारानुपपत्तेः ।
तत्कथं भावाभावयोर्न धर्मधर्मिभावः ।
पटशोक्लययोश्च न सम्बन्धप्रयुक्तो धर्मिधर्मभावः ।
नापि मेरुमन्दरयोस्तदभावः सम्बन्धाभावप्रयुक्तः ।
किन्तु स्वभावादेव विशेष्यविशेषणत्वातदभावरूपः ।
सम्बद्धयोरपि घटपटयोस्तदभाववत्, भूतलघटाभावयोस्तद्भावाच्च ।
६,८२
एवमेव विरोधिस्वभावाभेदावपि परा(निर)स्तौ ।
सगुणनिर्गुणत्वेन नित्यानित्यत्वेन वा विरुद्धस्वभावयोरपि गुणगुणिनोर्धर्म्यादित्वस्य दर्शनात् ।
अदर्शनाच्च पटत्वशौक्लययोः ।
दृश्यते चाभेदे ऽपि तद्भावः ।
अस्तित्वाभिधेयत्वादीनां धर्माणां परैर्धर्म्यभेदस्याङ्गीकृतत्वात् ।
भिन्नानामपि तद्भावो नोपलभ्यते ।
तदेवमसम्बद्धयोरपि विलक्षणस्वभावयोरपि भावाभावयोरभेदे ऽपि विशेषशक्त्या विशेष्यविशेषणतालक्षणो धर्मिधर्मभावो युक्त एवेति ।
६,८४
यद्येवं भावाभावयोरभावभावधर्मित्वं धर्मधर्मिणोश्चाभेदः स्यात्, तदा भावस्याप्यभावत्वेनाभावस्य च भावत्वेन, घटादीनां भावत्वमेव
प्राक्प्रध्वंसात्यन्ताभावानामभावत्वमेवेति नियमो निर्निबन्धनः स्यात् ।
नचैवमस्त्विति वाच्यम् ।
सकललोकसिद्धस्य तथाभावानर्हत्वात् इत्यत आहप्रथमेति ।
… प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि । मनुव्_२,१.७४ब्द् ।
रूपशब्दो धर्मिवचनः ।
भावाभावत्वमिति यथायोगं सम्बन्धः ।
अत्रैवं सत्यपि ।
हिशब्दः प्रसिद्धौ ।
अयमर्थः ।
किं भावाभावनिबन्धनं प्रमेयरूपमन्विष्यते प्रमाणं वा ।
आद्यस्योत्तरार्धमुत्तरम् ।
यद्यपि भावाभावात्मका घटादयः प्रागभावादयश्च ।
तथाप्यत्र पदार्थसार्थे यः पिण्डो विधिधर्मिको घटादिः स भावो, यस्तु निषेधधर्मिकः प्रागभावादिः सो ऽभाव इति व्यवस्थोपपद्यते ।
अभेदे ऽपि धमर्धर्मिभावो विशेषशक्त्या सङ्गच्छत इत्युक्तमेव ।
द्वितीयस्य उत्तरं प्रथमप्रतिपत्तिष्विति ।
यः प्रथमं विधितया परप्रतिक्षेपरूपतां विना प्रतीयते स घटादिर्भावः ।
यस्तु निषेधतया परप्रतिक्षेपेण प्रतीयते प्रागभावादिः सो ऽभाव इत्युत्तरार्धेनैकवाक्यतया योज्यम् ।
६,८७
घटो हि प्रथमं विधित्वेन धर्मिरूपेण प्रतीतो ऽनन्तरं पटो न भवतीति पटनिषेधात्मतया प्रतीयते ।
प्रागभावादिरपि
प्रथमं निषेधत्वेन धर्मिस्वरूपेणावगतो ऽनन्तरं प्रमेय इति विधितया प्रतीयत इति सकलप्रतिपत्तृसिद्धमिति बहुवचनहिशब्दाभ्यां द्योतयति ।
विषयिविषययोराधाराधेयभावमभिप्रेत्य सप्तमीप्रयोगः ।
कारकेषु गौणमुख्यत्वविवक्षाभावस्य स्थितत्वादिति ।
६,९१
एवं पूर्वपक्ष्युत्प्रेक्षितप्रमाणसमुदायलब्धस्यार्थस्य प्रमाणविरोधो दर्शितः ।
इदानीमसत्कार्यं यथा दृष्टमित्यनुमानं विशेषतो निराचिकीर्षुस्तत्प्रस्तावनाय असूत्रयत्सूत्रकारः ओं अपीतौ तद्वत्प्रसङ्गादसमञ्जसमिति ।
असमञ्जसमेतद्विश्वस्याभावकर्तृकत्वमतम् ।
कुतः ।
अभावस्य (एव) जगत्कर्तृत्वाङ्गीकारे ऽपीतौ प्रलये तद्वत्प्रसङ्गात् अभाववत्त्वप्रसङ्गात् ।
ईश्वरादेः सर्वस्या(प्य)भावाभ्युपगमप्रसङ्गादिति यावत् ।
न हीश्वरादौ सति तत्परित्यागेनाभावस्य जगत्कर्तृत्वमवधारयितुं शक्यमिति ।
ननु नेदमनिष्यमीश्वरादिकं प्रलये ऽसद्भवितुमर्हति ।
भावत्वात् घटवदित्यनुमानेनेश्वरादेः सर्वस्य प्रलये ऽभावाभ्युपगमादित्यत्रोक्तं सूत्रकृता’न तु दृष्टान्तभावात्’ इति ।
नैव प्रलये सर्वस्यासत्त्वमङ्गीकर्तुमुचितम् ।
कस्मात् दृष्टान्तभावात् ।
दृष्टान्त इति तत्रावधारितव्याप्तिमूलमनुमानमुच्यते ।
दृष्टान्तमात्रस्य साधनबाधनानङ्गत्वात् ।
तथाच प्रलये परमेश्वरादिसद्भाव(स्य) साधकानुमानसम्भवादित्यर्थः ।
६,९३
किं तदनुमानमित्यत आह भाष्यकारःसर्वनाशेष्वपीति ।
६,९४
अपीतौ तद्वत्प्रसङ्गाद् असमञ्जसम् । ब्ब्स्_२,१.८ ।
सर्वनाशेष्वपि सदा शिष्टत्वाद् यस्य कस्य नुः ।
नाशो ऽयं विमतो ऽपि स्यान्नाशत्वात् कर्तृशेषवान् । मनुव्_२,१.७५ ।
अपिरभिव्याप्तौ ।
सर्वशब्दो वर्तमानमात्रविवक्षयापि स्यादित्यतः सदेत्युक्तम् ।
तदिदं व्यभिचारपरिहारायाभिहितम् ।
नः पुरुषस्य ।
अयमित्यस्यैव विवरणं विमत इति ।
अत्र पूर्वार्धेन व्याप्तिरुक्ता ।
उत्तरार्धेन प्रतिज्ञाहेतू ।
एतदुक्तं भवति ।
महाप्रलयलक्षणो नाशः पुरुषशेषवान्भवितुमर्हति नाशत्वात् सम्प्रतिपन्न(सम्मत)नाशवदिति ।
अत्र पुरुषावशेषमात्रं साध्यम् ।
नतु नाशकर्तुः पुरुषस्यावशिष्यता ।
अत एवोक्तं यस्य कस्येति ।
नाशस्य कर्तुरकर्तुर्वेत्यर्थः ।
तथापि कर्तृशेषवानिति वदतेदमभिप्रेतम् ।
प्रलये पुरुषसद्भावमात्रसाधने सति भग्नं तावत्परस्यानुमानम् ।
यदपि परस्याभावकर्तृकत्वं जगतो ऽभिमतम् ।
तदप्यत एवापास्तम् ।
अवशिष्यस्य पुरुष(विशेष)स्यैव विश्वकर्तृत्वसम्भवे ऽभावस्य तत्कल्पनानवकाशात् ।
दृष्टानुसारिणी हि कल्पना ।
नहि लोके प्रागुत्पत्तेः कुलालाभावयोः सतोरभावो घटस्य कर्ता दृष्टः ।
किन्नाम कुलाल एवेति ।
६,९६
अभिप्रायमजानानः कर्तृशेषवानित्युक्त्वा विभ्रान्तश्चोदयति’यत्र सुन्दोपसुन्दन्यायेनाशेषा अपि पुरुषा नष्टास्तत्र नाशत्वहेतोरनैकान्तिकता’
इति, तत्राहनचेति ।
नचाशेषनृनाशस्तु दृष्टो दृश्यो ऽस्ति वा क्वचित् । मनुव्_२,१.७६अब् ।
चशब्दो ऽवधारणे ।
अशेषनृनाशस्तु नैव क्वचिद्दृष्ट इत्यतीतनिषेधो, दृश्यो वा नैवेत्यनागतस्य, नैवास्ति वा दृश्यमान इति वर्तमानस्य ।
इदमुक्तं भवति ।
अनैकान्तिकत्वं हि प्रमिते विपक्षे हेतुवृत्तौ सत्यां(हेतुवृत्त्या) वक्तव्यम् ।
नाप्रमिते ।
तथा सत्यनमिनमात्रोच्छेदप्रसङ्गात् ।
नचाशेषपुरुषनाशः कालत्रये ऽपि प्रमितः, येन नाशत्वस्य तत्र व्यभिचारः स्यात् ।
प्रमितत्वाङ्गीकारे च प्रमातुरेवोर्वरितत्वेन व्याघातश्च स्यात् ।
नच नाशकर्तुः पुरुषस्यावशिष्यता साध्यत्वेनेष्या ।
येन सुन्दोपसुन्दादिनाशः प्रत्युदाह्रियेत ।
किन्तु पुरुष(वि)शेषवत्त्वमात्रमिति ।
६,९७
अनेन प्रलयकालः पुरुषवान्कालत्वादिदानीन्तनकालवदित्यप्यनुमानं सूचितम् ।
नच तदा कालाभावादाश्रयासिद्धिः ।
तथा सति तदेत्येव वक्तुमशक्यत्वात् ।
परकीयानुमाने च प्रलयविशेषणानुपपत्तेः ।
६,९९
यद्यप्यत्र’कालो ऽङ्गीक्रियते न वा ।
आद्ये तत्रैव भावत्वहेतोर्व्यभिचारः ।
द्वितीये प्रलयविशेषणानुपपत्तिः ।
सकलकार्यविनाशविशिष्टकालस्य प्रलयत्वात् ।
अथ कार्यविनाश एव प्रलयस्तथापीश्वराभावस्य तेन सम्बन्धाभावादीश्वरादिकं प्रलये ऽसदिति प्रतिज्ञार्थानुपपत्तिः ।
देशादिद्वारा सम्बन्धाभ्युपगमे तत्रैव भावत्वस्य व्यभिचारः ।
प्रलयविशेषणपरित्यागे तच्छिष्यैरेवोह्यतामिति न सूत्रभाष्यकाराभ्यामभिहितम् ।
सूचितं चापीताविति सूत्रकृता ।
‘लये मानं च किं भवेत्’ इति भाष्यकृतापि ।
६,१००
तदिदं जीवेश्वरसाधारणमनुमानमुक्तम् ।
इदानीं प्रलये जीवसद्भावसाधकमनुमानमाहधर्मेति ।
धर्माधर्माश्रयत्वेन स्वीकार्यो ऽपि नरो लये । मनुव्_२,१.७६च्द् ।
६,१००फ़्.
न केवलमुक्तानुमानेन ।
किन्नाम धर्माधर्मश्रयत्वेनापीति सम्बन्धः ।
नरो जीवात्मा ।
अयमत्र प्रयोगः ।
प्रलयकालवर्ती धर्मः साश्रयः धर्मत्वादिदानीन्तधर्मवत् ।
एवमधर्ममपि पक्षीकृत्य प्रयोक्तव्यम् ।
नच धर्माधर्माश्रयो जीवात्मनो ऽन्यः सम्भवति ।
एवञ्च प्रलये जीवात्मसद्भावाद्भावमात्रासत्त्वसाधनमनुपपन्नमिति ।
यत्रेश्वरसद्भावसाधनमिदम् ।
आश्रयशब्दस्याधिष्ठातृपरत्वात् ।
तत्रैवं प्रयोगः ।
प्रलयकालवर्तिनौ धर्माधर्मौ केनचिदधिष्ठितौ ।
कारणत्वे सत्यचेतनत्वात् ।
वाश्यादिवदिति ।
नचातीन्द्रिययोर्धर्माधर्मयोरधिष्ठातृत्वमीश्वरादन्यस्योपपद्यते ।
अतो धर्माधर्माधिष्ठातृत्वेनापि नरः परमपुरुषो लये स्वीकार्य इति ।
६,१०३
ननु प्रलये भावमात्रस्यासत्त्वमभ्युपगच्छतो मम तदा धर्माधर्मावपि न स्त एवेत्याश्रयासिद्धिरिति ।
इदमिह वक्तव्यम् ।
किं धर्माधर्मसञ्ज्ञितमदृष्टमस्ति कार्यमात्रस्य कारणं च भवतीत्यभ्युपगम्य प्रलये तदभावो ऽभीधीयते, उत सदपि तदकारणमित्यभ्युपेत्य, अथ
तदेव नास्तीत्यङ्गीकृत्य ।
आद्यं दूषयतिअनादित्वमिति ।
अनादित्वं विनादृष्टं कथं स्यात् कारणं क्वचित् । मनुव्_२,१.७७अब् ।
अनादित्वमिवानादित्वं प्रलये सत्त्वमित्यर्थः ।
क्वचिदिति सृष्टिकाले ।
यद्यदृष्टं प्रलये न स्यात्तदाऽदिकालीनस्य कार्यस्य कारणं न स्यात् ।
असतः कारणत्वायोगात् ।
तथाच सर्वोत्पत्तिमतां निमित्तमित्यभ्युपगमो भग्न इत्यथर्ः ।
स्यादेतत् ।
अधुनातनकार्यमदृष्टकारणकं न त्वादिकालीनमिति ममाभ्युपगमः ।
तत्किमदृष्टस्य प्रलये सद्भावेनेत्यत आहअनादित्वमिति ।
अनादित्वं विना तत एवादिकालीनकायर्कारणत्वं च विनादृष्टं क्वचिदधुनातने ऽपि कार्ये कारणं कथं स्यात् ।
न कथञ्चित् ।
अधुनातनं कार्यम् अदृष्टकारणकं न, कार्यत्वादादिकालीनकार्यवदित्यनुमानसम्भवात् ।
न चेदिदमिव तदप्यदृष्टकार्यमेवाङ्गीकार्यमिति ।
यद्वा मा भूदादिकालीनस्य कार्यस्यादृष्टं कारणम् ।
तथापि प्रलये तद्भावो ऽङ्गीकरणीयः ।
कुतः ।
अनादित्वं प्रलये सत्त्वं, विनादृष्टं क्वचिदिदानीन्तने ऽपि कार्ये कारणं कथं स्यात् ।
अन्तराल एवादृष्टोत्पत्त्ययोगादिति योज्यम् ।
६,१०५
नन्वदृष्टस्य सर्वोत्पत्तिमन्निमित्तत्वे ऽपि न प्रलये सद्भावो ऽभ्युपगन्तव्यः ।
आदिकाल एवोत्पन्नस्यापि महदादिकारणत्वोपपत्तेरिति ।
इदमत्र वक्तव्यम् ।
तदादिकाले जनिमददृष्टं ततः पूर्वादृष्टादुत्पद्यते न वेति ।
आद्यमुपादत्तेपूर्वेति ।
पूर्वादृष्टात् परादृष्टं यदि नैवोत्तरं कुतः । मनुव्_२,१.७७च्द् ।
जायत इति शेषः ।
परिहरतिनैवेति ।
एवं तर्हि तदुत्तरमादिकाले जनिमददृष्टं नैवास्माभिः पक्षीक्रियते ।
किन्तु तत्कारणं प्रलयकालीनं पूर्वादृष्टमेवेति कुत आश्रयासिद्धिरिति ।
द्वितीयमुपादत्तेपूर्वेति ।
नैवोत्पद्यत इति शेषः ।
दूषयतिउत्तरमिति ।
तर्हि तदुत्तरमादिकालीनमदृष्टं कुतो जायते ।
न कुतश्चित् ।
सर्वोत्पत्तिमन्निमित्तस्यादृष्टस्याभावादादिकालीनादृष्टोत्पत्तिरेव न स्यादित्यर्थः ।
६,१०५फ़्.
न ब्रूमो वयं सर्वं कार्यमदृष्टजन्यमिति ।
किं तर्ह्यादिकाले जनिमतो महदादिकारणाददृष्टादन्यदेवातो नोक्तदोष इत्याशङ्कामुत्थाप्य दूषयतिपूर्वेति ।
यदि परादृष्टं सृष्टयुपक्रमे जनिमत्पूर्वादृष्टान्नैवोत्पद्यते ।
अपि त्वदृष्टनिरपेक्षमेव ।
तर्ह्युत्तरमहदादिकायर्मपि कुतो ऽदृष्टादुत्पद्यत इत्यङ्गीकरणीयम् ।
अदृष्टवत्तस्याप्यदृष्टिनिरपेक्षत्वसम्भवात् ।
अन्यथा कार्यत्वाददृष्टस्याप्यदृष्टापेक्षाङ्गीकार्येति ।
६,१०७
अस्तु तर्ह्यदृष्टं कारणमेव न भवतीति द्वितीयः पक्षः, अदृष्टमेव नास्तीति तृतीयो वा, उभयस्याप्यनुपलम्भात् ।
तथाचाश्रयासिद्धिरपरिहार्येत्याशङ्कयाहअदृष्टमिति ।
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् । मनुव्_२,१.७८अब् ।
यदि प्रत्यक्षेणानुपलम्भाददृष्टं न स्यात् ।
सदपि वा कारणं न स्यात् ।
तदा लये च किं मानं भवेत् ।
प्रलयो ऽप्यप्रामाणिकत्वान्न स्यात् ।
न ह्यसावपि प्रत्यक्षेणोपलभ्यते ।
तथाचेश्वरादिकं प्रलये ऽसद्भवितुमर्हतीत्यप्रसिद्धविशेषणः पक्षः परस्यापि स्यात् ।
६,१०८
अथ मतम् ।
कालविप्रकर्षादनुपलभ(भ्य)मानो ऽपि प्रलयो ऽनुमानसिद्धत्वादङ्गीकरणीयः ।
तथाहि ।
विश्वसन्तानो ऽयं दृश्यसन्तानशून्यैः समवायि(न्तानि)भिरारब्धः सन्तानत्वात् आरणेयसन्तानवत् ।
वर्तमानब्रह्माण्डपरमाणवः पूर्वमुत्पादितसजातीयसन्तानान्तराः नित्यत्वे सति तदारम्भकत्वात् प्रदीपपरमाणुवत् ।
सर्वे सन्तानाः कदाचित्सहोच्छिद्यन्ते सन्तानत्वात् प्रदीपसन्तानवत् ।
सर्व एव परमाणवः कदाचित्समग्रोपादेयप्रबन्धशून्याः आरम्भकत्वात् नष्टपवनारम्भकपरमाणुवत् ।
भूगोलकसन्तानः कदाचित्साकल्येनोच्छिद्यते सन्तानत्वात् दीपसन्तानवत् ।
इयं क्रिया स्वान्यावययिकालीनत्वानधिकरणकिञ्चित्कालीनक्रियान्या क्रियात्वादन्यक्रियावदिति ।
एवं तर्हि धर्माधर्मावपि स्वरूपतो विप्रकृष्टत्वादनुपलभ्यमानावपि देवदत्तशरीरादिकं देवदत्तविशेषगुणजन्यं कार्यत्वे सति देवदत्तभोगहेतुत्वात्
देवदत्तप्रयत्नजन्यस्रगादिवदित्याद्यनुमानेन विचित्रकार्यान्यथानुपपत्त्या,’ज्योतिष्योमेन स्वर्गकामो यजेतऽ,’यो ब्राह्मणायावगुरेत्तं शतेन
यातया(ये)त्’ इत्यादिश्रुतसाध्यसाधनभावान्यथानुपपत्त्या वा सिद्धत्वादभ्युपगन्तव्याविति समं समाधानम् ।
६,११७
अथ मन्यसे ।
नानुमानादिना धर्मादिसिद्धिः ।
तस्याभासत्वात् ।
तथाहि ।
देवदत्तशरीरादेर्देवदत्तविशेषगुणजन्यत्वं किं साक्षात्साध्यमुत परम्परया ।
नाद्यः ।
धर्माधर्मयोरप्यारम्भकप्रेरणादिरूपेणैवोपयोगाङ्गीकारात् ।
देवदत्तशरीरं न साक्षाद्देवदत्तविशेषगुणजन्यं शरीरत्वाद्यज्ञदत्तशरीरवदिति सत्प्रतिपक्षत्वाच्च ।
द्वितीये तु जन्मान्तरीयप्रयत्नाराधितदेवताद्वारेणोपपत्तेरर्थान्तरता ।
देवदत्तविशेषगुणजन्यतया विनापि आकाशादेरिवेश्वरेच्छया देवदत्तस्य भोगहेतुता सम्भवतीत्यप्रयोजकता च ।
कार्यवैचित्र्यं च दृष्टकारणवैचित्र्यादेवोपपद्यते ।
आदिकालीनं च तत्तत्प्रागभाव एव वैचित्र्याङ्गीकारेण ।
स्वगर्यागादेः साध्यसाधनभावश्रवणं त्वसिद्धमेव योग्यताविरहात् ।
अन्यथाख्यातिमाश्रित्याभ्युपगमे ऽपन्यथासिद्धम् ।
यागाद्याराधितावज्ञातदेवताद्वारेण स्वर्गाद्युपपत्तेरिति ।
६,११८
एवं तर्हि प्रलयसाधकानुमानानाम(प्य)भासत्वान्न तैस्तत्सिद्धिरिति तुल्यमुत्तरम् ।
तथा हि ।
विमतः कालो ऽवयवियुक्तः कालत्वादिदानीन्तनकालवत् ।
विमतो ब्राह्मणो ब्राह्मणपूर्वको ब्राह्मणत्वात्सम्मतवदित्यादिना सत्प्रतिपक्षं तावदुक्तानुमानजातम् ।
ननु प्रलयकालपक्षीकृतावाश्रयासिद्धिः ।
अन्यथा सिद्धसाधनम् ।
एवमाद्यब्राह्मणपक्षीकारे ऽन्यथा च दोष इति चेन्न ।
पर्वतो ऽग्निमानित्यादावप्यग्निमदनग्निमत्पक्षदूषणसम्भवेन सर्वानुमानोच्छेदप्रसङ्गात् ।
नन्वग्निमत्त्वदिव्यरिरेकेणाप्यस्ति पर्वतादेः स्वरूपं, शक्यं च विशेषान्तरेणावधारयितुम् ।
तत्कथं दोषावकाश इति चेत् ।
तत्किमवयविसम्बन्धासम्बन्धौ विहाय कालविशेषस्य स्वरूपमेव नास्ति, ब्राह्मणव्यक्तेर्वाऽद्यत्वानाद्यत्वे विहाय ।
अवधारणं च कालादेर्हिरण्यगर्भापवर्गोत्तरर्(गानन्तर)भावित्वादिना भविष्यति ।
६,१२६
किञ्च प्रथमप्रयोगे विश्वशब्देन किं ब्रह्माण्डमभिप्रेयते सकलकार्याणि वा ।
नाद्यः ।
अश्रयासिद्धेः ।
प्रलयमनभ्युपगच्छता ब्रह्माण्डस्यानङ्गीकृतत्वात् ।
ब्रह्माण्डाभावे ऽपि कार्यान्तरावस्थितिसम्भवेन प्रलयासिद्धेश्च ।
कपिकपोलान्तर्गतौदुम्बरोदरवर्तिमशकशरीरादिवत्कार्यान्तरावस्थानमसम्भावितमिति चेन्न ।
कुण्डबदरवदुपपत्तेः ।
कालाग्निरुद्रादिप्रक्रियाया असिद्धत्वात् ।
द्वितीये ऽपि न प्रलयसिद्धिः ।
यथा हीदानीन्तनानां दहनपवनसन्तानानां क्रमेणास्तमये ऽपि न प्रलयस्तथा तरुगिरिशरीरादिसन्तानानामपि
क्रमारम्भसिद्धावप्यवयविशून्यसमया सिद्धेः ।
अथैकदैवेति विशेषणमुपादीयेत तदा क्रमारब्धदहनपवनादिसन्तानैर्व्यभिचारः स्यात् ।
एकदरम्भकहेतुसाकल्ये सतीति हेतुविशेषणे विशेषणासिद्धिः ।
द्वयणुकादिक्रमेणारम्भस्वीकारेण बाधादिप्रसङ्गश्च ।
एतेन द्वितीयानुमानमपि निरस्तम् ।
ब्रह्माण्डानभ्युपगमात् ।
अभ्युपगमे ऽप्यवयवानामावापोद्धाराभ्यामेवोत्पादविनाशयोरुपपत्तेः ।
कार्यान्तरावस्थानोपपत्तेश्च ।
तृतीये ऽप्यपसिद्धान्तः ।
क्रमेणोच्छेदस्याभ्युपगमा(तत्वा)त् ।
चतुर्थे ऽपि पटादिभ्यः पूर्वविनष्टैस्तन्त्वादिभिव्यर्भिचारः ।
परमाणुत्वेन हेतुविशेषणे ऽपि द्वयणुकाद्यवस्थानसम्भवेन दृष्टान्तस्य सन्दिग्धसाध्यता ।
पञ्चमे ऽपि किं भूगोलका एव सन्तानशब्देनोच्यन्ते तदतिरिक्तो वा कश्चित् ।
आद्ये सिद्धसाधनम् ।
अवयवानामावापोद्धाराभ्यां सन्ततोत्पत्तिविनाशसिद्धेः ।
द्वितीये त्वाश्रयासिद्धिः ।
षष्ठं त्वाभाससमानयोगक्षेमत्वादुपेक्षणीयमिति ।
६,१३३फ़्.
अथ मा भूदनुमानैः प्रलयसिद्धिः, तथाप्यागमैर्भविष्यति, तेषां सिद्धार्थे ऽपि प्रामाण्यस्य साधितत्वात्, ततो नाप्रसिद्धविशेषणतेति ब्रूषे,
तर्ह्यस्माकमपि धर्मादिसिद्धिरागमाद्भविष्यतीति कथमाश्रयासिद्धिरिति ।
एवं प्रलये जीवेश्वरसद्भावं साधयता धर्मादिसत्त्वमपि साधितमिति न प्रलये भावमात्रासत्त्वसाधनं युक्तम् ।
एवम् आदिकार्यं पक्षीकृत्य सोपादानत्वसाधने प्रकृत्यादिसिद्धिरपि द्रष्टव्येति ।
६,१३५
प्रथमसूत्रे ऽभावस्य कर्तृत्वनिरासायानुमानमुक्तम् ।
इदानीमितो ऽपि नाभावकर्तृकं जगत्, चेतनकर्तृकत्वे’दृष्टान्तभावात्’ इति सूत्रस्य वृत्त्यन्तरमभिप्रेत्य चेतनकर्तृकत्वे अनुमानमाहउत्पत्तीति ।
उत्पत्तिनाशकारी हि बुद्धिमान् दृश्यते क्वचित् । मनुव्_२,१.७८च्द् ।
तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते । मनुव्_२,१.७९अब् ।
बुद्धिमानुत्पत्तिनाशकारीति बुद्धिपूर्वं तत्कर्तेत्यर्थः ।
क्वचित्पटादौ ।
सर्वत्र विप्रतिपन्ने कार्ये ।
महदादिकार्य इत्येवोक्ते ऽङ्कुरादौ व्यभिचारः शङ्कयेत, तदर्थं तस्यापि पक्षनिक्षेपार्थं सर्वत्रेत्युक्तम् ।
कर्ता बुद्धिमानिति शेषः ।
अन्यथाभावकर्तृत्ववादिनं
प्रति सिद्धसाधनताप्रसङ्गात् ।
किमाक्षेपे ।
अननुमाने न किमपि कारणम् ।
दृष्टान्ताभावेन प्रतिपक्षासम्भवादित्यर्थः ।
एतेन’स्वपक्षदोषाच्च’ इति सूत्रमपि व्याख्यातं भवति ।
अयमत्र प्रयोगक्रमः ।
विमतं कार्यं चेतनोत्पाद्यं कार्यत्वाद्घटवत् ।
चेतनविनाश्यं च तत एव तद्वदेव ।
विमतोत्पत्तिश्चेतनकर्तृका उत्पत्तित्वात्पटोत्पत्तिवत् ।
विमतो विनाशश्चेतनकर्तृको विनाशत्वात्सम्मतवदिति ।
अत्र विनाशस्य चेतनकर्तृकत्वसाधनं प्रासङ्गिकम् ।
यद्वा केचित्कारणस्य बीजादेः प्रध्वंसेनाङ्कुरादेः जन्मदर्शनात्तन्त्वादिनाशेन पटादिनाशदशर्नाच्च प्रध्वंसाभावस्यैव
जगज्जन्मविनाशकर्तृत्वमास्थिताः ।
यथोक्तम् ।
नानुपमृद्य प्रादुर्भावादिति ।
तन्मतं वात्रासदित्यादिसूत्रैर्निराकृतमिति ज्ञापनार्थम् ।
दृष्टान्ताभावस्तु स्वयमूहनीयः ।
६,१३८
नन्विदमनुमानेनेश्वरस्य जगत्कर्तृत्वसाधनं सूत्रकारस्य उक्तविरुद्धम् ।
शास्त्रयोनित्वादितीश्वरे ऽनुमानप्रामाण्यस्य स्वयमेव निराकृतत्वादित्यत आहआगमेति ।
आगमानुगृहीता तु मानम् … । मनुव्_२,१.७९च्द् ।
अनुमेति वक्ष्यमाणमत्रापि सम्बद्धयते ।
न सर्वथापीश्वरे ऽनुमानस्य प्रामाण्यं सूत्रकृता निराकृतम् ।
किन्नामागमाननुगृहीतस्य ।
आगमानुगृहीता त्वनुमा ईश्वरे मानमेवाभिमता ।
अन्यथा वेदवाक्यार्थे युक्त्यनुसन्धानरूपजिज्ञासा नारभेतेति ।
किमतो यद्येवमित्यत आहएषेति ।
… एषानुमापितु । मनुव्_२,१.७९द् ।
आगमानुगृहीतेत्यनुवर्तते ।
मानमिति च ।
एषा सम्प्रत्युपन्यस्ताप्यनुमा’यतो वा इमानि भूतानि’ इत्यागमानुगृहीता ।
ततो भवतीश्वरे मानमिति न कश्चिद्विरोध इति ।
६,१४०
एवमनुमानेनाभावकर्तृकत्वं विश्वस्याशङ्कयानुमानेनैवेश्वरकर्तृकत्वं समर्थितम् ।
तदेतन्मतान्तरेणाक्षिप्य समादधत्सूत्रम् ओं तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यनिर्मोक्षप्रसङ्गः ओं इति ।
तत्राक्षेपस्यायमर्थः ।
नायमनुमानावष्टम्भेन पूवर्पक्षः प्रमाणेन च सिद्धान्तो भवति ।
न चानुमानं नाम प्रमाणमस्ति ।
(कुतः) ।
अन्यथाप्यनुमेयम् ।
असत्प्रतिपक्षत्वं ह्यनुमानप्रामाण्यवादिभिरनुमानाङ्गमङ्गीकरणीयम् ।
प्रतिरुद्धस्य करणस्य क्वापि क्रियानिष्पादकत्वादर्शनात् ।
अनुमानप्रतिपन्नं चान्यथाप्यनुमेयम् अनुमातुं शक्यम् ।
कस्मात् ।
तर्काप्रतिष्ठानाम् ।
‘एवमेवानुमातव्यम्, न पुनरन्यथा’ इति तर्कस्य व्यवस्थाभावात् ।
तथा चोक्तम् ।
‘उपाधिप्रतिपक्षौ तु क्व नामातीव दुर्वचौ’ इति ।
नन्विदं व्यधिकरणं, तर्कस्याप्रतिष्ठितत्वादन्यथानुमेयमिति ।
मैवम् ।
एतदनेन ज्ञापयति सूत्रकारः,’न तर्को ऽनुमानाद्भिद्यते’ इति ।
अथवा तर्कस्यानुमानस्याप्रतिष्ठानादप्रमाणत्वान्नानुमानेन पूर्वोत्तरपक्षौ युक्तौ ।
कथमप्रमाणत्वात् ।
यतो ऽन्यथानुमेयमिति योजना ।
तत्र समाधानसूत्रं सङ्गमयितुमुत्सूत्रमेव भाष्यकारस्तावदुत्तरमाहआगमेति ।
तर्काप्रतिष्ठानाद् अप्य् अन्यथानुमेयम् इति चेद् एवम् अप्य् अनिर्मोक्षप्रसङ्गः । ब्ब्स्_२,१.११ ।
आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः । मनुव्_२,१.८०अब् ।
आगमग्रहणं प्रमाणमात्रोपलक्षणम् ।
अत एवोत्तरार्धे ऽक्षजमपि सङ्गृहीतम् ।
प्रमाणानुग्रहप्रमाणमूलत्वशब्दाभ्यां प्रतिष्ठितप्रामाण्यप्रमाणान्तरावधृतपक्षलिङ्गव्याप्तिमत्त्वं तत्संवादित्वं चोच्यते ।
६,१४२
तत्राद्ययोजनायामस्यायमर्थः ।
यदुक्तमनुमानस्याव्यवस्थितत्वेन सर्वत्र प्रत्यनुमानसम्भव इति तदनुपपन्नम् ।
यतः प्रमाणानुग्रहाभावे तर्को न प्रतिष्ठितः स्यात् ।
किन्तु प्रमाणमूलस्यैवास्य प्रतिष्ठितिः स्यात् ।
एतदुक्तं भवति ।
प्रत्यनुमानं भवत्किं प्रमाणानुग्रहरहितं स्यात्, उत तन्मूलम् ।
आद्यं तु कथं स्वयमदृढभूमिकं परं प्रतिरुन्ध्यात् ।
नहि भवति तरक्षोः प्रतिपक्षो हरिणशावः ।
किन्त्वाद्येनैव प्रमाणमूलेन बाध्यते ।
द्वितीयं तु स्यादेव प्रमाणम् ।
आद्यं चापबाधेत ।
उभयथापि न सर्वानुमानाप्रामाण्यम् ।
यद तूभयोः अपि प्रमाणमूलत्वसन्देहः तदास्तु प्रतिरोधः ।
किन्तु नैवं सर्वत्र ।
अवधारणायां तु पूर्वैव गतिरिति ।
६,१४४
द्वितीययोजनायां तु प्रष्टव्यम् ।
किं प्रमाणानुग्रहरहितमनुमानं प्रत्यनुमानपराहतत्वादप्रमाणम्, उत तन्मूलम् ।
आद्ये सम्प्रतिपत्तिमुत्तरमाहआगमेति ।
(तथापि) नैवं सर्वत्रेति भावः ।
प्रतिष्ठितः प्रमाणभूतः ।
द्वितीये त्वाहअक्षजेति ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः । मनुव्_२,१.८०च्द् ।
प्रतिष्ठितः प्रामाण्यम् ।
तेनैव प्रतिप्रयोगस्य बाधितत्वात् ।
उभयोर्वास्तवप्रमाणमूलत्वासम्भवादिति भावः ।
यस्त्वेतां व्यवस्थामनभ्युपगम्य सर्वत्रापि प्रतिपक्षस्यास्त्यवकाश इति सर्वमनुमानमप्रमाणमिति च मन्यते तस्य सूत्रारूढमुत्तरमाहअन्यथेति ।
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि । मनुव्_२,१.८०एफ़् ।
एतेनैवमुपपादिते ऽपि यो नैवं मन्यते तस्य स्ववचनव्याघातादनिर्मोक्षप्रसङ्ग इति सूत्रयोजना सूचिता ।
तथाहि ।
सर्वमनुमानप्रमाणं प्रतिपक्षप्रतिहतत्वादिति त्वदीयमनुमानं प्रतिपक्षपराहतं चाप्रमाणं च भवति न वा ।
आद्ये नानेन सर्वस्याप्रामाण्यसिद्धिः ।
द्वितीये त्वत्रैव बाधादिति ।
अन्यथा उक्तव्यवस्थां विहाय, अस्य सर्वस्याप्यनुमानस्य अप्रतिष्ठा अप्रमाणता, स्ववाचैव व्याहता हीति ।
६,१४५
अपरे तु’न विलक्षणत्वात्’ इत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानत्वाक्षेपसमाधानार्थतया व्याचक्षते ।
तत्प्रकृत्यधिकरण एव निराकृतम् ।
६,१४९
यच्चात्र सूत्रे तर्काप्रतिष्ठानादिति वाक्यं भित्त्वा सिद्धान्ततयैव वर्णयन्ति, तद्वा अनेन सार्धेन श्लोकेन निराचष्टे ।
तथाहि तर्कस्याप्रतिष्ठां वदन्वक्तव्यः ।
किं प्रमाणानुग्रहरहितस्योत तन्मूलस्य ।
आद्ये गूढाभिसन्धिरुत्तरमाहआगमेति ।
अयमाशयः ।
सत्यमेतत् ।
तथापि न साङ्खयः स्वतर्कस्यागमाद्यनुग्रहाभावं मन्यते ।
स्वमतेनेदमुच्यते चेत्पौनरुक्त्यम् ।
शास्त्रयोनित्वात्, ईक्षतेर्नाशब्दम्, आनुमानिकमित्यदिनास्यार्थस्योक्तत्वादिति ।
६,१४९फ़्.
द्वितीयं दूषयतिअक्षजेति ।
नहि ज्ञानकरणस्य प्रमाणगृहीतव्याप्त्यादिमत्त्वेनाप्रामाण्यकारणव्यभिचारादिशङ्काकलङ्कविकलस्य प्रामाण्यं नास्तीति युक्तमिति भावः ।
विपक्षे बाधकं चाहअन्यथेति ।
अन्यथोक्तानभ्युपगमेनास्य प्रमाणमूलस्याप्यनुमानस्याप्रतिष्ठा स्ववाचा व्याहतैव सूत्रकृतः स्यात् ।
स्वयमेव हि युक्त्यनुसन्धानरूपां ब्रह्ममीमांसामारभ्य प्रमाणमूलस्यापि तर्कस्याप्रामाण्यमभिदधानः सूत्रकारो न व्याहतभाषी कथं स्यात् ।
यदपि वृत्तिकारैरुक्तम्’एकेन तार्किकेणोत्प्रेक्षितं तर्कमपरो दूषयति, तेनोत्प्रेक्षितमप्यपरः, इत्यतः पुरुषमतिवैश्वरूप्यजन्मा तर्कः
स्यादप्रतिष्ठितः’ इति ।
तच्चायुक्तम् ।
यतो ऽस्यापि तर्कस्य प्रामाण्ये ऽप्रामाण्ये वा अस्याप्रतिष्ठा च स्व(वाचा)व्याहतैवेति नायं वाक्यभेदो युक्त इत्युक्त एव सूत्रार्थः ।
व्यास(१७)
६,१५२
अत्र सूत्रम् ओं एतेन शिष्या अपरिग्रहा अपि व्याख्याता इति ।
तत्केचिद्वयाचक्षते ।
एतेन’नविलक्षणत्वात्’ इत्यादिना प्रकृतेन शिष्यैः केनचिदंशेन परिगृहीतस्य प्रधानकारणवादस्य निराकरणेन शिष्यैर्मनुव्यासप्रभृतिभिः
केनचिदप्यंशेनापरिगृहीता ये ऽण्वादिकारणवादास्ते ऽपि व्याख्याता द्रष्टव्या इति ।
तदिदं दूषयतिनचेति ।
एतेन शिष्टापरिग्रहा अपि व्याख्याताः । ब्ब्स्_२,१.१२ ।
न च शिष्यागृहीतत्वं निरीशादीशवादिनः । मनुव्_२,१.८१अब् ।
६,१५२फ़्.
आस्तां तावदभ्यधिकाशङ्काप्रकारः, परिहारातिदेशप्रकारश्च ।
यत्तावदुक्तम्’साङ्खयादपि वैशेषिकादेरतिशयेन शिष्यागृहीतत्वम्’ तदति(तीव)विरुद्धम् ।
साङ्खयस्य निरीश्वरत्वात् ।
वैशेषिकादेस्तु सेश्वरत्वात् ।
वैपरीत्यस्यैवोचितत्वात् ।
इह हि ब्रह्मणो जगत्कारणत्वे विप्रतिपत्तयो निरस्यन्ते ।
तत्र साङ्खयो ब्रह्मैव नाभ्युपैति ।
कुतस्तदीयं जगत्कारणत्वमित्यतिशयेन वेदान्तवादविरोधित्वाच्छिष्यापरिगृहीतः ।
वैशेषिकादिस्तु, ब्रह्म तस्य जगन्निमित्तत्वं चाङ्गीकृत्योपादानतामात्रं नाङ्गीकुरुत इतीषद्विरोधित्वात् ईषच्छिष्यापरिगृहीत इति युक्तम् ।
सत्कार्यवादित्वादिकं तु प्रकृतासङ्गतमेव ।
अन्यथा यागीयहिंसानिषेधादिना विपरिवर्तः स्यात् ।
अथ वेदसंवादबाहुल्याबाहुल्यप्रयुक्तमिदम् ।
मैवम् ।
(तन्न ।
तत्त्वानां) प्रतिपाद्यानामपरिसङ्खयातत्वादिति ।
६,१५३
किं तर्ह्यस्य सूत्रस्याभिधेयमित्यत आहअत इति ।
अर्थावशिष्टजीवादिकर्तृतात्र निषिध्यते । मनुव्_२,१.८१च्द् ।
अर्थान्तरस्य निराकृतत्वादित्यर्थः ।
अपव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्याथर्त्वान्नासङ्गतमिति सूचयितुमत इत्युक्तम् ।
अवशिष्या निराकृताया अभावकर्तृतायाः, जीवादिकर्तृता, जगत इति शेषः ।
अनेन निराकृतादवशिष्या वेदापरिगृहीता जीवप्रधानासत्कालस्वभावादिवादा निराकृता इति व्याख्यातं भवति ।
तत्र शिष्या इत्येवोक्ते ब्रह्मकारणवादो ऽपि प्राप्नोति ।
तदर्थमपरिग्रहा इत्युक्तम् ।
तन्मात्रे तूक्ते अभावकर्तृत्ववादो ऽपि गृह्येत ।
तथाच पुनरुक्तिरतिदेशानुपपत्तिश्च स्यात् ।
अतः शिष्या इत्युक्तम् ।
अभ्यधिकाशङ्कासद्भावसूचनेन सूत्रारम्भोपपादनार्थं च शिष्याः शिष्यतया प्रतीताः, नतु तत एव निराकृततयेति ।
६,१५८
ननु जीवादीत्यासिदग्रहणेनासत्कर्तृकत्वं गृहीतम् ।
तस्य’असदिति चेत्’ इत्यादिना निरस्तत्वेन पौनरुक्त्यादिप्रसङ्गादित्यत आहतन्मन इति ।
तन्मनो ऽकुरुतेत्यादेरसतो मनसो जनिः ।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना । मनुव्_२,१.८२ ।
असतो विश्वजननमाशङ्कयात्र निषिद्धयते । मनुव्_२,१.८३अब् ।
६,१५९
इत्यादेः प्रमाणात् ।
आशङ्कितेति शेषः ।
आदिपदेनोक्तयुक्तिर्गृह्यते ।
असतः अभावस्य ।
मनस इति ।
ज्ञानेच्छाप्रयत्नेभ्यः जनिः ।
जगत इति शेषः ।
पूर्वत्र त्विति सम्बन्धः ।
तच्च प्रतिषेधमात्रत्वादित्यादिना स्फुटमवगम्यत इति हिशब्दः ।
अकस्माद्धीदमाविरासीदित्यादिश्रुत्या ।
तत् मनो, विना ।
असतः शून्यात् ।
एतदुक्तं भवति ।
पूवर्मभावस्य जगत्कारणत्वं निराकृतमिदानीं तु शून्यस्य ।
किञ्च पूर्वं कर्तृत्वेनाधुना कर्तृतां विनैवेति न पौनरुक्त्यादीति ।
यद्वा भाष्यदिशा निष्कारणैवात्र जगज्जनिराशङ्कितेति न पौनरुक्त्यादिकम् ।
अत्र शङ्काप्रापकप्रमाणोपन्यासस्तु अस्यैव प्रमेयभेदस्योपपादनार्थम् ।
एतेनाभ्यधिका शङ्कापि सूचिता ।
तथाहि ।
मा भूदभावकर्तृकं जगत्, तथापि जीवादिभ्यो जनिमद्भविष्यति ।
‘जीवाद्भवन्ति भूतानिऽ,’प्रधानादिदमुत्पन्नम्ऽ,’अकस्माद्धीदमाविरासीद्’ इत्यादिश्रुत्यनुगृहीतेभ्यो घटदधिकण्टतैक्ष्णादिदृष्टान्तेभ्यः ।
नहि जीवादीनां प्रतिषेधमात्रत्वमस्ति, येनोक्तयुक्तिविरोधः स्यात् ।
असत्त्वाचेतनत्वादेरुपलक्षणमेतदिति चेत् ।
किमत्रासदादेः कारणत्वमात्रं नेत्युच्यते, किंवा कर्तृत्वम् ।
नाद्यः ।
उक्तदृष्टान्तेषु व्यभिचारात् ।
न द्वितीयः ।
कर्तृत्वस्यास्माभिरनङ्गीकृतत्वादिति ।
अत एवात्र सर्वत्र कर्तृशब्दः कारणत्वमात्रपरो द्रष्टव्यः ।
६,१६५
नन्वत्र जीवादेर्विश्वकारणत्वमात्रं शङ्कयते, तस्यैव वा ।
आद्ये न सिद्धान्तविरोधः ।
जीवस्य ह्यदृष्टाधारतया निमित्तत्वं प्रधानस्य चोपादानत्वमङ्गीकृतमेव ।
न द्वितीयः ।
प्रापकाभावात् ।
कार्यस्य सकर्तृकत्वनियमदर्शनाच्चेत्यत आहप्रापकमिति ।
प्रापकं वाक्यमात्रं तु … । मनुव्_२,१.८३च् ।
द्वितीय एवाशङ्कयते ।
तस्य च प्रापकं’न जीवात्कारणं परम्ऽ,’न ह्यन्यत्कारणं मतम्’ इत्यादिवाक्यम् ।
नच लोकविरोधः ।
वाक्यमात्रसिद्धे ऽर्थे तत्प्रतिपन्नमेव गृह्यते नतु लोको ऽनुगम्यत इति पूर्वपक्षी मन्यत इति ।
ननु च प्रधानकारणत्वादिमतानि द्वितीयपादे निराकरिष्यते ।
तेषामत्रापि निराकरणे पुनरुक्तिदोषः स्यादित्यतो वाऽहप्रापकमिति ।
अत्र शङ्काप्रापकं वाक्यमात्रं नतु समय इत्यर्थः ।
इदमुक्तं भवति ।
अत्र श्रुत्यनुगृहीताभिर्युक्तिभिः प्राप्तं प्रधानादिकारणत्वं निराक्रियते ।
उत्तरं(रत्र) तु तु साङ्खयादिसमयप्राप्तम् ।
अतो ऽपि नोक्तदोष इति ।
नन्वेवं तर्ह्येतेनेत्यतिदेशः कथम् ।
उक्तपरिहारस्य पूर्वपक्षिणा परिहृतत्वादित्यत आहपरिहार इति ।
… परिहारो विशेषितः । मनुव्_२,१.८३द् ।
यद्यपि प्रतिषेधमात्रत्वं प्रधानादिष्वसिद्धम् ।
अचेतनत्वादिकं च कारणत्वमात्रवादे अनैकान्तिकम् ।
तथापि पूर्वपक्षाणां युक्तिविरुद्धत्वं यत्प्रतिषेधमात्रत्वात् दृष्टान्तभावादिति सामान्यतः सूचितम्, यच्च स्वपक्षदोषाच्चेत्यप्रामाणिकत्वं, स
परिहारो ऽत्राप्यविशेषितः समानः, इत्यतिदेशो युज्यत इत्यर्थः ।
६,१६७
ननु कथं जगतो जीवकर्तृत्वादिवादस्य युक्तिविरुद्धत्वमित्यत आहक्वचिदिति ।
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।
तद्वदेवानुमान्यत्र वस्तुत्वात् क्रियते श्रुतेः । मनुव्_२,१.८४ ।
क्वचित् देशादौ ।
यद्वा क्वचित् जीवादौ ।
अकृतमिति च भावप्रधानो निर्देशः ।
कारणत्वमात्रमत्र पूर्वपक्षो न कर्तृत्वमित्यतो ऽचेतनादिति पञ्चमीप्रयोगः ।
अचेतनादकृतं च दृष्ट्वा ।
एवशब्देन दृष्टान्तानामसन्दिग्धसाध्यतामाह ।
अनुमा अनुमितिः ।
अन्यथा वस्तुत्वस्यैवानुमानत्वात्पञ्चमी न स्यात् ।
जीवाकृतत्वादेरिति शेषः ।
अन्यत्र महदादौ ।
अत्रैते प्रयोगाः ।
महदादिकार्यं न जीवकृतं वस्तुत्वाज्जीववत्, विमतं न प्रधानकार्यं वस्तुत्वात्प्रधानवत्, विमतं नासत्कार्यं वस्तुत्वाद्घटवदिति ।
यद्यपि जीवस्य निमित्तत्वेन प्रधानस्योपादानत्वेन जगत्कारणत्वमङ्गीकृतमेव तथापि स्वातन्त्र्याभावाभिप्रायेणेदं वचनमिति न विरोधः ।
६,१६८
नन्वेवं सत्यतिप्रसङ्गः स्यात् ।
विमतमश्वरकृतं न भवति वस्तुत्वादीश्वरवत् इत्यपि प्रयोक्तुं शक्यत्वादित्यत आहश्रुतेरिति ।
‘स इदं सर्वमसृजत’ इत्यादिश्रुतेर्महदादेरीश्वरकृतत्वावधारणादतिप्रसङ्गानुमानस्य बाधितत्वेनाप्रामाण्यमिति ।
समं तर्हीदं भवदनुमानेषु ।
जीवाद्भवन्ति भूतानीत्यादिश्रुतेरित्यत आहश्रुतेरिति ।
भावप्रधानो निर्देशः ।
जीवादिशब्दानां ब्रह्मश्रुतित्वाद्ब्रह्मनामत्वान्न श्रुतिविरोध इत्यर्थः ।
तत्कुत इत्यत आहश्रुतेरिति ।
‘नामानि सर्वाणि यमाविशन्ति’ इत्यादिश्रुतेः ।
शेषं भाष्ये ।
ननु जीवादिकारण(क)त्वे ऽपि घटादिदृष्टान्तावष्टम्भेनानुमानसम्भवात्कथमप्रामाणिकत्वमित्यत आहश्रुतेरिति ।
‘नान्यो ऽतो ऽस्ति कर्ता’ इत्यादिश्रुतेर्बाधितविषयत्वात् दृष्टान्तानां साध्यवैकल्याच्च नानुमानानां प्रामाण्यम् ।
एतेनास्मदनुमाने ऽकार्यत्वमुपाधिरित्यपि निरस्तः(म्) ।
(स्वातन्त्र्येण) जीवाद्यकृते ऽपि घटादावकार्यत्वाभावात् ।
प्रतिपक्षे बाधादिदोषानुषङ्गाच्चेति सर्वं सुस्थम् ।
। इति श्रीमन्न्यायसुधायां असदधिकरणम् ।
__