६,१
। अथ श्रीमन्न्यायसुधायां चतुर्थो भागः (अभिमान्यधिकरणम्) ।
। ओं अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ओं ।
युक्त्यन्तरविरोधं वेदस्य परिहर्तुमिदमारभ्यते ।
स्यादेतत् ।
युक्तिविरोधाः किं प्रत्येकं परिहरणीयाः’ उतोपलक्षणया ।
नाद्यः ।
निरसनीययुक्त्याभासानन्त्येन शास्त्रापर्यवसानप्रसङ्गात् ।
सूत्रत्वव्याघाताच्च ।
द्वितीये त्वनारम्भ एवास्याधिकरणस्य ।
निरन्तरातीताधिकरणेनैवोपलक्षणया सकलयुक्तिविरोधानां परिहृतत्वादिति ।
मैवम् ।
अभ्यधिकशङ्कासद्भावेन तदुपपत्तेरित्याशयवान्पूर्वपक्षं तावदाहतथापीति ।
अभिमानिव्यपदेशस् तु विशेषानुगतिभ्याम् । ब्ब्स्_२,१.५ ।
तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।
दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत् । मनुव्_२,१.६२ ।
यद्यपि फलव्यभिचारादिविरोधो वेदस्य परिहृतस्तथापीत्यर्थः ।
मृज्जलादीनामित्यादिपदेन तेजःप्रभृतीनां ग्रहणम् ।
बुद्धिर्ज्ञानं, वाग्वक्तृत्वज्ञ् ।
आदिग्रहणेन श्रोतृत्वादिकम् ।
वेद इत्यनुवर्तते ।
दृष्टा प्रमिता व्याप्तिर्यस्या युक्तेः सा तथोक्ता ।
व्याप्तिग्रहणं पक्षधर्मताया अप्युपलक्षणम् ।
क्वचित्तन्नियमानभ्युपगमात्स्वशब्देनासङ्कीर्तनम् ।
तया विरुद्धत्वात् ।
तत्र मृज्जलादीनां बुद्धिवागादौ ।
कथमित्याक्षेपे ।
प्रतिपाद्यान्तरं तु नास्त्यप्रतीतेरिति शेषः ।
६,३फ़्.
एतदुक्तं भवति ।
‘मृदब्रवीत्, आपो ऽब्रुवन्, तत्तेज ऐक्षत, ता आप ऐक्षन्त, ऋणोत ग्रावाणो, विदुषो ऽनुप्राणाः, अहं श्रेयसि व्यूदिरे, आपो वा अकामयन्त’
इत्यादिवेदस्तावन्न प्रमाणम्, युक्तिविरुद्धार्थाभिधायित्वात्, नीलं नभ इतिवत् ।
मृज्जलादीनां बुद्धिवागादिमत्त्वं खल्वस्यार्थः ।
स च, विमता मृन्न वक्त्री मृत्त्वात्सम्प्रतिपन्नमृद्वदित्यादियुक्तिविरुद्धः ।
तथाच वेदवाक्यान्तरे ऽप्यप्रामाण्यमनुमास्यते ।
६,४
ननु’न विलक्षणत्वात्’ इत्यनेनैव न्यायेनायमपि विरोधः परिहरणीयः ।
मैवम् ।
(तन्न्या)न्यायसञ्चाराविषयत्वात् ।
तत्र हि यथोक्तानुष्ठाने ऽपि फलव्यभिचारश्चेद्धेतुः तदाऽपाततस्तावत्सन्दिग्धविशेषणासिद्धिः ।
कर्त्रादिवैगुण्यस्यापि सम्भवात् ।
नित्यत्वेन वेदप्रामाण्यस्य स्थितौ तु विशेषणासिद्धिनिश्चय एव ।
फलव्यभिचारमात्रस्य हेतुत्वे तु अनैकान्तिकत्वमित्येवं व्याप्तिपक्षधर्मताविरहव्युत्पादनेन युक्तिविरोधः परिहृतः ।
न चास्या युक्तेर्व्याप्त्याद्यङ्गवैकल्यं सम्बद्धम् ।
प्रसिद्धमृदादौ तथोपलम्भात् ।
नच तत्रापि बुद्धयादिसद्भावः, कदापि तत्कार्यस्यादशर्नात् ।
नापि सम्बद्धमपि व्यभिचीर्णम् ।
व्यभिचारानुपलम्भात् ।
नचानुपलम्भमानव्यभिचारमपि सोपाधिकम्, उपाधेरनिरूपणात् ।
बुद्धयादिमत्त्वे च मृदादीनां शरीरेन्द्रियवत्तापि स्यात् ।
अकरणकक्रियादर्शनात् ।
नच तद्युक्तमिन्द्रियादीनामपि वक्तृत्वादिवददर्शनात् ।
ततो ऽनुकूलतर्कसनाथेनोपाधिव्यभिचारानुपलम्भसहकृतेन सहभागग्राहकेण प्रमाणेन सिद्धा मृत्त्वादीनामवक्तृत्वादिना व्याप्तिः ।
नच मृदादिषु मृदादित्वं(मृत्त्वादिकं) नास्तीति युक्तम् ।
व्याघातात् ।
मृदब्रवीदित्यादिप्रयोगाच्च ।
ततः पक्षधर्मतापि सिद्धैवेति ।
६,८
ननु च नित्यतया वेदस्य प्रामाण्ये व्यवस्थिते तद्विरुद्धाया युक्तेरेवाप्रामाण्यमुचितमिति ।
मैवम् ।
व्याप्तिपक्षधर्मतोपेताया युक्तेरपि निरवकाशत्वात् ।
ततश्च सत्प्रतिपक्षतया निश्चायकत्वाभावेनाप्रामाण्यं वेदस्य ।
ननु प्रसिद्धमृदादिपक्षीकारे सिद्धसाधनता ।
पक्षसपक्षभेदाभावश्च ।
सपक्षान्तरस्वीकारे तत्र मृत्त्वाद्यभावः ।
जडत्वस्य हेतूकरणे त्वसिद्धिः स्यात् ।
तस्मादादिकालीनं मृदादिकं पक्षयितव्यम् ।
नच तत् प्रत्यक्षादिसिद्धमिति वेद एवोपजीव्यः ।
तथाच धर्मिग्राहकप्रमाणविरोधादप्रामाण्यं युक्तेरिति चेन्न ।
व्याप्त्यादिमत्यास्तदसम्भवात् ।
आदिकालीनमृदादिस्वरूपपरवाक्यान्तरेणपरिदृश्यमानकार्यलिङ्गेन धर्मिग्रहोपपत्तेः ।
एतेन वैदिके ऽर्थे युक्तेरवकाशाभावान्न तद्विरोधकत्वमित्यपास्तम् ।
तदेवं मृदब्रवीदित्यादिवेदवाक्यानां युक्तिविरुद्धत्वेनाप्रामाण्ये वेदत्वात्’यतो वा इमानि (भूतानि)’ इत्यादिवाक्यानामप्यप्रामाण्यान्न
वेदसमन्वयेन ब्रह्मणो जगत्कारणत्वसिद्धिरिति ।
६,१३
सिद्धान्तमाहतत इति ।
ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ।
युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते । मनुव्_२,१.६३ ।
वेदस्य युक्तेश्च निरवकाशत्वं तत इति परामृशति ।
तन्नामको मृदादिनामकः कश्चिदिति अस्मदाद्यतीन्द्रियत्वमभिप्रैति ।
पुमांश्चेतनो ऽन्यो ऽस्मदादिविलक्षणो ऽन्तर्धानादिशक्तिमान्भवेत् ।
अस्यां श्रुतौ वक्तृत्वादिना प्रतिपाद्यत इति शेषः ।
इतिशब्दस्य प्राप्तमित्यनेनान्वयः ।
प्राप्तं प्रमितम् ।
युक्त्यागमविरोधेनेत्यर्थापत्तिं सूचयति ।
ततश्चायमर्थः ।
न मृदब्रवीदित्यादिवाक्यानां युक्तिविरोधेनाप्रामाण्यं वक्तव्यम् ।
अत्र मृदादिशब्दस्य चेतनविषयत्वात् ।
तथाच तत्पक्षीकारे हेतोरसिद्धेः ।
शब्दमात्रेण हेतुत्वे अतिप्रसङ्गात् ।
अचेतनमृदादिपक्षीकारे च प्रकृताविरोधात् ।
ननु कथं चेतनेषु मृदादिशब्द(प्र)वृत्तिः ।
अभिधानशक्त्येति ब्रूमः ।
मृदाद्यभिमानित्वात् ।
पृथिव्यादिषु तदभिमतत्वेन मृदादिशब्दप्रवृत्तिः ।
नन्वेते ऽभिमानिनः किमभिमतार्थव्यापिनस्तदेकदेशवृत्तयो वा ।
आद्ये(ऽपि) सदेहा विदेहा वा ।
आद्ये तदुपलम्भप्रसङ्गः ।
द्वितीये तेषामिन्द्रियाभावेन वक्तृत्वाद्यनुपपत्तौ पुनर्युक्तिविरोधतादवस्थ्यम् ।
तृतीये तद्वैयर्थ्यम् तदनधिष्ठितप्रदेशवत् प्रदेशान्तरप्रवृत्तिसम्भवादिति ।
मैवम् ।
व्यापकानां सदेहानामपि पिशाचादिवदन्तर्धानशक्तियोगाददृश्यत्वोपपत्तेः ।
६,१६
नन्वेवं सति कल्पनागौरवमापद्येत ।
केषाञ्चिच्चेतनानां मृदाद्यभिमानित्वं ततस्तच्छब्दानां तेषु वृविर्व्यापकत्वं सदेहत्वमन्तर्धानशक्तिस्तत्परता च श्रुतेरित्यनेकस्य कल्प्यमानत्वात् ।
मैवम् ।
अर्थापत्तितः सर्वस्यास्य सिद्धत्वात् ।
श्रुतिर्हि मृदादीनां वक्तृत्वादिकं प्रतिपादयति, युक्तिश्च तदभावम् ।
न(च)वास्तवो विरोधः सम्भवति ।
वस्तुविकल्पापत्तेः ।
नचायं विरोधो विनैतत्कल्पनया शाम्यति ।
जडस्वीकारे युक्तिविरोधात् ।
अनभिमानिस्वीकारे च पृथक् शब्दशक्तौ प्रमाणाभावात् ।
अव्यापकत्वाद्यङ्गीकारे चोक्तानुपपत्तेः ।
नच श्रुतियुक्त्योरन्यतराप्रामाण्येनाप्युपपद्यत एतदिति वाच्यम् ।
उक्तरीत्या द्वयोरपि निरवकाशत्वात् ।
नहि परेणापि विद्वेषेणैवागमाप्रामाण्यमभिधातुं युक्तम् ।
किन्नामोपपत्तिमाश्रित्यैव ।
तथाच कथं वेदप्रामाण्ये ऽपि न दीयते दृष्टिः ।
तदेवं युक्त्यागमविरोधेनास्यार्थस्य प्राप्तत्वान्न किञ्चित्कल्पनागौरवमिति ।
नन्वेतदुत्सूत्रितं कथमुच्यत इत्यत आहअत्रेति ।
६,१६फ़्.
इत्युक्तमेतत्सर्वम् अत्र’अभिमानिव्यपदेशस्तु विशेषानुगतिभ्यामिति’ सूत्रे ऽभिधीयत इत्यर्थः ।
यद्वात्राभिधीयत इति सिद्धान्तोपक्रमवाक्यम् ।
तस्यैवं प्राप्ते सूत्रकृता समाधानमभिधीयत इत्यर्थः ।
एवं सूत्रमवतार्य तत इत्यादिना व्याख्यातमिति ।
६,१८
यदुक्तं तन्नामक इति मृदादिशब्दवाच्यत्वं देवतायास्तदनुपपन्नम् ।
अयोगादनुयोगाच्च ।
मृदादिशब्दाः खल्वचेतनेष्वेव रूढाः ।
न देवतायाम् ।
लक्षणाश्रयणेनापि श्रुतियुक्तिविरोधशान्तिर्भविष्यति ।
नापि वचनवृत्तिं सूत्रकृदाहेत्यत आहबालरूढिमिति ।
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः । मनुव्_२,१.६४ ।
सन्ति … । मनुव्_२,१.६५अ ।
६,१९
एते पृथिवीवरुणादयस्तत्तन्नामान एव सन्ति ।
तानि तानि मृदादीनि नामानि वाचकानि येषां ते तथोक्ताः ।
नतु तानि लक्षकाणीत्येवशब्दार्थः ।
सन्ति भवन्ति ।
अयोगपरिहाराय उक्तम्बालेति ।
अविद्वद्रूढ्यभावे ऽपि विद्वद्रूढिसद्भावात् ।
मृदादिशब्दास्तावद्देवताविषया इत्यर्थापत्तिसिद्धम् ।
मुख्यासम्भव एव च जघन्यवृत्तिराश्रयणीया ।
नचात्र बाधकमस्तीति वैदिकप्रयोगादेव बाधकाभावसहिताद्विद्वद्रूढिरवगम्यते ।
यच्चोक्तं वचनवृत्त्यङ्गीकारः प्रकृतानुपयोगीति तत्परिहारायोक्तं तत्तन्मृदादिवस्त्वभिमानिन इति ।
अयमर्थः ।
मृदादिशब्दानां चेतनविषयतामात्रेण प्रकृतविरोधशान्तावपि वस्तुस्थितिं विजिज्ञापयिषता सूत्रकारेण व्यपदेशस्त्विति तुशब्देन मुख्यवृत्तिः
सूचिता ।
तत्रोपपत्तिज्ञापनायाभिमानीति चोक्तम् ।
अन्यथा चेननव्यपदेश इत्यवक्ष्यत् ।
अभिमानी खल्वभिमतस्य सत्तादेः प्रयोजकः ।
ततश्च तदधीनत्वादिति न्यायेन स एव (तन्मु)मुख्यार्थ इति ।
तदेतत् अस्माभिः सूत्रं व्याकुर्वद्भिरभिहितमिति ।
नन्वत्र तन्नामक इत्येकवचनं प्रक्रम्य तत्तन्नामान इति बहुवचनप्रयोगे किन्निमित्तम् ।
तथा भाष्ये ऽपि’अभिमानिदेवता तत्र व्यपदिश्यते ।
तासां च’ इत्यादि ।
उच्यते ।
अ(त्रा)भिमानिव्यपदेश इत्यभिमानिशब्दो ह्येकवचनान्तः समस्तः ।
व्यपदेशशब्दस्यैकवचनान्तत्वात् ।
नहि बहूनामेको व्यपदेश इति सम्भवति ।
उत्तरसूत्रे चैकवचनमेव ।
अतो यथासूत्रं प्रथमं व्याख्यातम् ।
अथेदानीं प्रा(प्रमा)णसंवादिघटनाय जाताविदमेकवचनमित्याशयवता बहुवचनं प्रयुक्तमिति ।
६,२३
अभिमानिनां प्रादेशिकत्वविदेहत्वयोर्वैयर्थ्यवक्तृत्वाद्यनुपपत्ती ।
व्याप्तानां सदेहत्वे ऽनुपलम्भबाध इत्येतत्परिहाराय विशेषानुगतिभ्यामिति सूत्रखण्डं कश्चिदन्य इति तात्पर्यतो व्याख्यातम् ।
तत्प्रपञ्चयतितेषामिति ।
… तेषां विशेषेण शक्तिरन्येभ्य उच्यते । मनुव्_२,१.६५अब् ।
विशेषेणातिशयेन ।
अन्येभ्यो ऽस्मदादिभ्यः ।
व्याप्तिश्चोच्यत इति सम्बन्धः ।
देहवत्त्वस्याप्युपलक्षणमेतत् ।
यद्यप्येतत्सर्वमर्थापत्त्यैव लब्धम् ।
अन्यथा विरोधशान्तेरेवापयर्वसानात् ।
तथाप्युच्यत इति पृथिव्याद्यभिमानिन्य इत्यागममप्यत्र संवा(दयति)दिनं दर्शयति ।
यद्यप्यत्राकाङ्क्षानुसारेण व्याप्तिमादावुक्त्वा शक्तिविशेषो ऽनन्तरमभिधातव्यः ।
तथाप्यल्पाच्तरस्य पूर्वनिपातमनुसृत्य प्रवृत्तं सूत्रमनुगच्छता क्रमो भग्नः ।
६,२४
ननु च पृथिव्याद्यभिमानिन्य इति वाक्यं कथमुपादेयम् ऽआत्मनि चैवं विचित्राश्च हिऽ, उत्क्रान्तिगत्यागतीनामित्याद्यागामिसूत्रेणाचिन्त्यशक्तेः
सर्वगतत्वस्य च विरुद्धत्वादित्यत आह उक्तानुसारेणेति ।
व्याप्तिश्चोक्तानुसारेण … । मनुव्_२,१.६५च् ।
आत्मनि चैवमित्याद्युक्तानुसारेण शक्तिर्व्याप्तिश्चोच्यत इत्यन्वयः ।
स्यादयं विरोधो यदि शक्तिर्व्याप्तिश्च निरवधिकात्रोच्यते ।
न चैवम् ।
प्रमाणान्तरानुसारेणान्तर्धानादिशक्तेरभिमतार्थव्याप्तेश्च प्रतिपाद्यताङ्गीकारादिति ।
६,२५
एवमस्मदाद्यपेक्षयाभिमानिनामनुपलम्भमङ्गीकृत्य तद्बाधः परिहृतः ।
इदानीमसिद्धश्चासावित्याहदृश्यन्ते चेति ।
… दृश्यन्ते चाधिकारिभिः । मनुव्_२,१.६५द् ।
अधिकारिभिरन्तर्हितार्थदर्शनसमर्थैर्योगिभिः ।
एतच्च (भाष्योदा) उदाहृतस्मृतिसिद्धम् ।
एतेन’दृश्यते च’ इति सूत्रं व्याख्यातं भवति ।
६,२६
ये तु मीमांसकम्मन्या विग्रहवती देवतां न सहन्ते ते ऽप्यनेनैव निरस्ता भवन्ति ।
अर्थापत्त्या प्रत्यक्षेण च तत्सिद्धेः ।
समर्थितं चागमानां सिद्धार्थे प्रामाण्यम् ।
अनुपलम्भः अनेकत्र युगपत्सन्निधानं च शक्तिविशेषादुपपद्यते पिशाचादिवत् ।
नच पिशाचादयो ऽपि न सन्ति ।
मन्त्रौषधादिनास्मदादिभिरप्युपलभ्यमानत्वात् ।
अर्थक्रियया संवादेन च प्रामाण्योपपत्तेः ।
वक्ष्यति च सूत्रकारो’देवादिवत्’ इत्युक्त्वा तत्रापि विप्रतिपन्नं प्रति’अपि लोकः’ इति ।
किञ्चेन्द्राग्निवरुणादिपदं कस्यचिद्वाचकं पदत्वात् गोपदवत् ।
नचाचेतनमात्रे तत्प्रयोगो ऽस्ति ।
नच चेतनो मुक्तः प्रलीनो वा तद्वाच्यः ।
जगद्वयापारसम्बन्धिन्यपि प्रयोगात् ।
नचासौ विग्रहविधुरः सम्भवतीत्यलम् ।
६,२९
ननु तथापि मृदब्रवीदित्यादिवेदस्याबोधकत्वलक्षणमप्रामाण्यं दुर्निवारम् ।
तथाहि ।
यद्यपि वाक्यतापन्नानि पदानि वाक्यार्थं पदार्थानामन्योन्यसंसर्गविशेषरूपमपूर्वमेवावगमयन्ति, तथापि
पदार्थैर्वाच्यवाचकभावरूपसम्बन्धप्रतिपत्तिलक्षणां व्युत्पत्तिमपेक्षन्ते अन्वयव्यतिरेकाभ्यां तथावधारणात् ।
नच मृदादिशब्दानां पृथिव्यादिषु देवतासु व्युत्पत्तिस्सम्भवति ।
सम्बन्ध(ज्ञान)स्य सम्बन्धिज्ञानसापेक्षत्वात् ।
प्रतिसम्बन्धिरूपायाश्च देवतायाः प्रत्यक्षेण दुरधिगमत्वात् ।
लिङ्गाभावेनानुमानायोगात् ।
नच शब्दतस्तदवगमः ।
सत्यां व्युत्पत्तौ शब्दतो देवतागमः, सति च तस्मिन्व्युत्पत्तिरिति परस्पराश्रयत्वात् ।
नच शब्दविशेषस्यागृहीतसङ्गतिकस्यैव बोधकत्वम् ।
अदृष्टकल्पनाप्रसङ्गात् ।
यद्यपि दृश्यते चेत्युक्तम् ।
तथाप्यस्मदादीनां व्युत्पत्यनुपपत्तिरेव ।
देवतादर्शनं तु (च)योगिनां वेदार्थज्ञानोत्तरभावनाजन्यमङ्गीक्रियत इति न व्युत्पत्तिहेतुः ।
लक्षणापि वाच्यार्थदर्शनं विनानुपपन्नैवेत्यत आहशास्त्रोक्तेति ।
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः । मनुव्_२,१.६६अब् ।
चशब्दो ऽप्यर्थः ।
एवशब्दः सामर्थ्याच्छास्त्रशब्देन सम्बन्धनीयः ।
शास्त्रैकसमधिगम्यवस्तुन इति ।
प्रत्यक्षाद्यगम्याया अपि देवताया इति यावत् ।
वस्तुनो व्युत्पत्तिरति मृदादिशब्दस्य तत्सम्बन्धिवाचकत्वप्रतिपत्तिरित्यर्थः ।
युज्यत इति शेषः ।
अनेन च एवशब्दस्य सम्बन्धः ।
शास्त्रलिङ्गतस्तज्ज्ञानसम्भवादिति शेषः ।
६,३३फ़्.
यद्वा शास्त्रोक्तवस्तुनो ऽपि शास्त्रलिङ्गतो ऽधिगतिसम्भवात्तत्र शब्दस्य व्युत्पत्तिर्युज्यत इति योजना ।
देवताया
इति वक्तव्ये शास्त्रोक्तवस्तुनश्चेति वचनं शङ्कानुवादरूपम् ।
शास्त्रमेव लिङ्गं शास्त्रलिङ्गम् ।
मृदब्रवीदित्यादिशास्त्रादेवोपपत्तिविरोधसहितान्मृदादिशब्दवाच्यतयैव देवतास्वरूपमवगम्यत इति ।
६,३४
यद्वा शास्त्रं तैस्तैः प्रणीतं तत्सद्भावे लिङ्गम् ।
नहि वेदादन्यद्वाक्यं वक्तारमन्तरेणोपपद्यते ।
ततश्च वचनलिङ्गानुमिते वक्तरि वृद्धैरन्यान्प्रति मृदादिशब्दाः शक्यव्युत्पादनाः ।
यद्वा शास्त्रं शासनम् ।
वर्षणाद्युपलक्षणमेतत् ।
नहि वर्षणादिक्रिया विकर्तृका सम्भवति ।
तथाच तयानुमिते कतर्रि शक्य(त)न्त एव वृद्धैः श(ब्दो)ब्दा व्युत्पादयितुम् ।
अथवा शास्त्रोक्तं लिङ्गमव्यभिचरितो धर्मः शास्त्रलिङ्गम् ।
पाशहस्तत्वसहस्राक्षत्वादिशास्त्रोक्ततत्तद्देवतालक्षणान्युपादाय व्युत्पादनं शक्यमेव ।
यथा खलु लोके यथा मुद्गस्तथा मुद्गपर्णी, यथा माषस्तथा माषपर्णी, दीर्घग्रीवादिमान्पशुरुष्ष इति लक्षणान्युपादाय मुद्गपर्णीत्यार्(ण्या)दिशब्दा
व्युत्पाद्यन्ते, तथा यः पाशहस्तत्वादिमान्सो ऽबादिशब्दार्थ इति व्युत्पादनं सुवचन(कर)मेव ।
पाशादिशब्दास्तु लोकत एव गृहीतसङ्गतयः ।
समासस्य वाक्यत्वेन व्युत्पत्त्यनपेक्षत्वमिति न कश्चिद्विरोधः ।
न केवलं मृदादिशब्दानामयं व्युत्पत्तिप्रकारः ।
किन्नामातीन्द्रिये धर्मादावपि ।
ततश्चैवं वेदप्रामाण्यमाक्षिपतो ऽतीन्द्रियाथर्व्यवहारमात्रविलयप्रसङ्ग इति सूचयितुं शास्त्रोक्तवस्तुनश्चेति सामान्येनोक्तम् ।
६,३६
एवं तर्हि कुटिलिकेयं व्युत्पत्तिर्दुबर्ला ।
साक्षात्कृते तु मृदादावेव प्रबला ततश्च देवतानां मुख्यप्रतिपाद्यत्वमित्ययुक्तम् ।
किन्तु मृदादीनामेव ।
व्युत्पत्त्यनुसारित्वात्प्रतिपादनस्येत्यत आहव्युत्पत्तिरिति ।
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत् । मनुव्_२,१.६६च्द् ।
६,३६फ़्.
सेति ।
या विदितशब्दशक्तिभिर्वृद्धैः शास्त्रलिङ्गतः सम्पादिता ।
मूर्खैरविदितशक्तिभिर्व्युत्पादिता ।
व्युत्पत्तिर्मूर्खव्युत्पत्तिः ।
हिशब्दो हेतुसूचकः ।
नहि व्युत्पत्तिविषयस्य परोक्षत्वमपरोक्षत्वं च व्युत्पत्तेर्दैर्बल्ये प्राबल्ये च कारणम् ।
अपि तर्हि व्युत्पादकस्य (शब्द)शक्तितत्त्वज्ञत्त्वम् ।
तदनुसारेण व्युत्पादनं प्राबल्ये, अन्यत्तु दौर्बल्ये ।
अन्यथैखण्डे साक्षात्कृते चन्दनशब्दस्य व्युत्पत्तिः प्रबला ।
लिङ्गतो ऽपि ज्ञापिते चन्दने दुबर्लेति स्यात् ।
अस्ति चेदं कारणं प्रकृते ।
इतीयमेव प्रबला नेतरेति ।
यत् यस्मादे(वं)वैतत् तस्मात्तत्तन्नामान एवैत इति पूर्वेण सम्बन्धः ।
६,३८
नन्वेतदयुक्तम् ।
यद्युक्तिविरोधेन वेदस्य स्वार्थात्प्रच्यावनम् ।
तस्य सकलप्रमाणापेक्षया च प्राबल्यम् ।
यत्क्वचित्स्वार्थात्प्रच्यावनं तदुपजीव्यविरोध एव ।
नचात्र तथेत्यत आहदृढेति ।
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः । मनुव्_२,१.६७अब् ।
विरोधे वेदस्येति शेषः ।
अयं भावः ।
श्रुतेरर्थप्रच्यावनस्यायुक्ततां वदतः को ऽभिसन्धिः ।
किं विरुद्धयोरेवाप्रामाण्यमुतागमविरुद्धाया युक्तेरप्रामाण्यम् ।
नाद्यः ।
वस्तुविकल्पप्रसङ्गात् ।
न द्वितीयः ।
व्याप्तिपक्षधर्मतोपेतायास्तदयोगात् ।
कथं तर्ह्युपजीव्यविरोधे त्वित्याद्युक्तमिति चेत् ।
उपलक्षणत्वेनेति ब्रूमः ।
उपजीव्यं खलु नोपजीव्यमित्येव बाधकम् ।
किन्तु प्रबलत्वेन ।
तद्यदि युक्त्यन्तरस्यापि स्यात्तदा कुतो न बाधकतेति ।
यद्वाधिकरणोपाधिमनेनाह ।
न केवलमत्रोदाहरणे ।
किन्तु सर्वत्रापि वेदवाक्ये प्रमितव्याप्तिपक्षधर्मतावद्यक्तिविरोधे सतीदृश एवान्यथार्थस्वीकारेण विरोधपरिहारो न्यायः प्रकारो द्रष्टव्य इति ।
__