५,७१
। अथ श्रीमन्न्यायसुधायां नविलक्षणत्वाधिकरणम् ।
। ओं न विलक्षणत्वादस्य तथात्वं च शब्दात् ओं ।
परिहृतः स्मृतिविरोधः ।
सम्प्रति युक्तिविरोधः परिह्रियते ।
तथाहि ।
श्रुत्यादिसमन्वयेन खलु जगज्जन्मादिकारणत्वं ब्रह्मणो निरूपितम् ।
तत्र श्रुतेरेव प्रामाण्यं तावद्दुर्लभम् ।
यद्धि फलव्यभिचारि तदप्रमाणं दृष्टम् ।
यथा विप्रलम्भकवाक्यम् ।
फलव्यभिचारिणी च श्रुतिः ।
पुत्रकामेष्ययाद्यनुष्ठाने ऽपि कदाचित्पुत्रजन्माद्यनुपलब्धेः ।
अन्यथा फलानुपलब्ध्योक्तं पाशुपताद्यप्रामाण्यमपि न स्यात् ।
एकदेशे चाप्रामाण्ये तन्न्यायेनैकदेशान्तरस्याप्यप्रामाण्यानुमानं सुलभमेव ।
किञ्च यदबुद्धिपूर्वकं तदप्रमाणं यथा पिपीलिकालिपिः ।
अबुद्धिपूर्वकश्च वेदो ऽपौरुषेयत्वाङ्गीकारात् ।
पौरुषेयत्वे च मूलप्रमाणशून्यत्वादप्रमाणमेव, विप्रलम्भकवाक्यवत् ।
अपि चाप्ताप्रणीतवाक्यत्वादुन्मत्तवाक्यवदप्रामाण्यं वेदस्यानुमेयम् ।
यदा वेदस्य ई(एता)दृशी दशा तदा का वातस्मृतीतिहासपुराणानां फलव्यभिचारादि(दोष)खर्खराणां प्रामाण्यस्य ।
तथाच वेदादिसमन्वयेन न जगज्जन्मादिकारणत्वं ब्रह्मणः सिद्धयतीत्येवं प्राप्ते तत्प्रतिविधानाथर्स्य न विलक्षणत्वादिति सूत्रस्य
तात्पर्यमाहनित्यत्वादिति ।
न विलक्षणत्वाद् अस्य तथात्वं च शब्दात् । ब्ब्स्_२,१.४ ।
… नित्यत्वात् पुरुषोद्भवैः ।
उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत् । मनुव्_२,१.१२च्द् ।
न्यायसुधा-
वेदवाक्यमिति शेषः ।
अयमर्थः ।
बोधकत्वेन खलु करणानां प्रामाण्यं दोषात्तु, कदाचिदपनीयते ।
वेदवाक्यं च बोधकत्वेन वादिप्रतिवादिसम्मतम् ।
अन्यथा फलव्यभिचारो ऽपि तत्र(स्य) न स्यात् ।
वाक्ये च प्रामाण्यस्यापवादका दोषा अबोधकत्वविपरीतबोधकत्वादयःसर्वे ऽपि वक्तृदोषनिबन्धना एव ।
अन्वयव्यतिरेकाभ्यां तदवगमात् ।
वेदवाक्यं च नित्यत्वादपौरुषेयत्वात्पुरुषदोषनिबन्धनैः सर्वदोषैर्वर्जितं स्वत एव प्रामाण्यमाप्नोति ।
प्रामाण्ये च निश्चिते सति फलव्यभिचारस्य सामग्रीवैकल्यं वा प्रतिबन्धकसद्भावो वा कारणं कल्पयिष्यते ।
अन्यथा सिद्धानन्यथासिद्धयोरनन्यथासिद्धस्य बलवत्त्वादिति ।
अत्रैते प्रयोगा भवन्ति ।
वेदः प्रमाणं बोधकत्वे सति विपरीतबोधकत्वात्सम्प्रतिपन्नवत् ।
विमतो विपरीतबोधको न भवति अनाप्ताप्रणीतवाक्यत्वात्सम्प्रतिपन्नवाक्यवत् ।
विमतो अनाप्तप्रणीतो न भवति अपौरुषेयत्वाद्वयोमवत् ।
विमतः फलव्यभिचारो वैकल्यादिनिबन्धनो भव(वितुमर्ह)ति प्रमाणसिद्धफलव्यभिचारत्वात् चरकाद्युक्तफलव्यभिचारवदिति ।
५,७७
स्यादेतत् ।
नित्यत्वमेव वेदस्य कुतः ।
प्रागुक्तसामान्यसिद्धिपरिशेषाभ्यामिति ब्रूमः ।
ये तु स्वयूथ्या वेदप्रामाण्यमङ्गीकृत्यापि तन्नित्यतां नानुमन्यन्ते तान्प्रति सूत्रसूचिताभिः श्रुतिभिस्तामुपपादयतिविरूपेति ।
विरूप नित्यया वाचा … । मनुव्_२,१.१३अ ।
न्यायसुधा-
अनेन’तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
वृष्णे चोदस्व सुष्युतिम्’ इति श्रुतिमुपादत्ते ।
अत्र वाचो नित्यत्वमुच्यते ।
न वेदस्य ।
तदपि बहुकालीनत्वं भविष्यतीत्यतो’नित्ययानित्यया स्तौमि ब्रह्म तत्परमं पदम्’ इति’श्रुतिर्वाव नित्यानित्या वाव स्मृतयो याश्चन्या वाचः’
इति श्रुतिमुपादत्तेनित्ययेति ।
… नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते । मनुव्_२,१.१३ब्द् ।
न्यायसुधा-
व्यास(९)
५,७८
व्याख्यानान्तरनिरासाय नित्ययेत्येतत्सदा विद्यमानयेति व्याख्यातम् ।
वाक्यशेषे हि बहुकालीना अपि स्मृतीरनित्यपक्षे निक्षिप्य श्रुतिमेव नित्यामाह ।
पौरुषेयतामपि श्रुतयो ऽभिदधतीति चेन्न ।
आप्तोक्तत्वस्य दुरवधारणतायाः प्रागुक्तत्वेन पौरुषेयत्वे प्रामाण्यावधारणानुपपत्तिप्रसङ्गेन दुर्बलत्वात् ।
प्रामाण्यस्य स्वतस्त्वेनापौरुषेयत्वे ऽपि कारणाभावात्प्रामाण्यं न स्यादिति प्रसङ्गस्याभासत्वात् ।
प्रबलश्रुत्यनुसारेण तत्तत्पुरुषप्रवर्तितत्वमेव तासामर्थो ऽवगन्तव्यः ।
तथाच’ऋचः सामानि जज्ञिरेऽ‘ऋग्वेद एवाग्नेरजयत’ इत्याद्युपपन्नं भवति ।
न ह्येकं वाक्यमनेककर्तृकमपि सम्भवति ।
सम्भवति त्वनेकप्रवर्तितमिति ।
५,८१
यदपि पिपीलिकालिपिवदबुद्धिपूर्वकत्वादप्रामाण्यं श्रुतेरिति, तन्निराकरोतिपिपीलिकेति ।
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः । मनुव्_२,१.१४अब् ।
न्यायसुधा-
चो यस्मादित्यर्थे ।
बोधकत्वसमुच्चये वा ।
तस्मात् दृष्टान्तस्य साध्यविकलत्वादसदनुमानमिति शेषः ।
न केवलं श्रुतिः किन्तु पिपीलिकालिपिरपीत्यपेरर्थः ।
अप्रामाण्यं खलु पिपीलिकालिपेरबोधकत्वेन वा स्याद्विपरीतबोधकत्वेन वा ।
नाद्यः ।
अनुभवविरुद्धत्वात् ।
अन्यथा पुरुषलिपेरप्यबोधकत्वं स्यात् ।
तथाच तद्वैयर्थ्यमापद्येत ।
अपि चैवं सत्याकाशादिकमेवोदाह्रियेत तत्किं पिपीलिकालिपिगवेषणया ।
न द्वितीयः ।
तद्धि बलवत्प्रमाणविरोधतः कल्पनीयमन्यथातिप्रसङ्गात् ।
नच पिपीलिकालिपिबोधिते ऽर्थे प्रमाणविरोधो ऽस्ति ।
अतः कथमसावप्रमाणं स्यात् ।
स्यादेतत् ।
लिपिस्तावन्न प्रमाणं पृथक् ।
अनुप्रमाणत्रित्वाभ्युपगमात् ।
नच प्रत्यक्षागमयोरन्तर्भवति ।
अतल्लक्षणत्वात् ।
अतो ऽनुमानमेवेति वाच्यम् ।
तच्च लेखकबुद्धिस्थशब्दविषयं वा तदवबुद्धार्थविषयं वा स्यात् ।
न चैतत्पिपीलिकालिपौ सम्भवति ।
प्रमाणबाधितत्वात्तत्कथमसौ प्रमाणमिति ।
मैवम् ।
तथा सत्येडमूकलिपेरप्यप्रामाण्यप्रसङ्गात् ।
भवतु साप्रमाणमितरा त्वनुमानमिति चेन्न ।
एडमूकलिपेरपि सांव्यावहारिकत्वदर्शनात् ।
किञ्चेतरत्राप्यनुमाने किमेडमूकव्यावृत्त्यर्थं किमपि विशेषणमुपादेयमुत नेति वाच्यम् ।
नाद्यः ।
सन्दिग्धासिद्धिप्रसङ्गात् ।
निर्णीतलेखकैव लिपिरनुमानमिति चेन्न ।
अनिर्णीतलेखकाया अपि सांव्यावहारिकत्वात् ।
न द्वितीयः ।
एडमूकलिपावनैकान्त्यात् ।
अथ मूललेखकबुद्धिस्थशब्दार्थानुमाने न को ऽपि दोष इति मतम् ।
तदपि न ।
पिपीलिकालिपावनैकान्त्यात् ।
तद्वयावर्तने च सन्दिग्धासिद्धेः ।
नहि पिपीलिकालिपेः पुरुषलिपेरस्ति कश्चिद्विशेषो येन नेयं पिपीलिकालिपिरिति निश्चिनुयात् ।
तस्मात्पुरुषलिपिरपि पदमिव पदार्थस्य वर्णानां स्मरणहेतुरेष्यव्या ।
तत्समं पिपीलिकालिपावपि ।
स्मृतेश्च प्रमितत्वं वक्ष्यामः ।
५,८५
ननु प्रमात्वे ऽपि स्मृतेर्न तद्धेतुमात्रस्य प्रामाण्यम् ।
प्रमात्रादीनामपि तत्प्रसङ्गात् ।
किन्तु साधकतमस्यैव ।
तच्च मन एवेति सिद्धान्तः ।
लिपिदर्शनादिकं तु संस्कारो द्वेधाभिधसहकारिसम्पादनेनैव चरितार्थमिति कथं तस्य प्रामाण्यम् ।
मैवम् ।
अर्थसन्निकर्षलक्षणावान्तरव्यापारसहितं हीन्द्रियं प्रत्यक्षं नेन्द्रियमात्रम् ।
मनसश्च स्मरणोदये संस्कारोद्बोध एवार्थसन्निकर्षः ।
तथाच चक्षुष इवार्थोपसर्पणतत्संयोगसहितस्य प्रामाण्यमेवं लिपिदर्शनतदुद्बुद्धसंस्कारसहितस्यैव मनस इति कथं न लिपेः प्रामाण्यम् ।
केवलायास्तु नास्तीति चेत् ।
श्रुतेरपि तन्नाङ्गीक्रियत एवेति ।
नन्वत्र प्रमाणशब्दो भावसाधनो वा स्यात्कारणसाधनो वा ।
आद्ये पिपीलिकालिपिः प्रमाणमिति सामानाधिकरण्यं न स्यात् ।
द्वितीये तु प्रमाणीति भवितव्यम् ।
कथं वेदाः प्रमाणं स्मृतिः प्रमाणमिति ।
प्रमाणमिति सामान्येनोद्दिश्य वेदादित्वविधानात् ।
अन्यथा तत्रापि दौर्घट्यमेवेति ।
मैवम् ।
भावसाधनत्वाभ्युपगमात् ।
सामानाधिकरण्यं तु भाक्तमिति ।
५,८९
ननु च श्रुतेः सम्यगनुभवसाधनत्वेन प्रामाण्यमिष्यं नतु स्मारकत्वेन ।
तथाच न श्रुतिः सम्यगनुभवसाधनबुद्धिपूर्वकत्वात्पिपीलिकालिपिवदित्यनुमास्यत इत्यत आहयथेति ।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम् । मनुव्_२,१.१४च्द् ।
अविरुद्धं … । मनुव्_२,१.१५अ ।
न्यायसुधा-
यथाबुद्धिपूर्वकमप्येकेनोलूकेन कृतमनेककाकनाशनमश्वत्थाम्नो ऽहमेक एवानेकान्वधिष्यामीत्यस्यार्थस्य बोधकं सम्यगनुभवं प्रति साधनं
जातम् ।
तथा श्रुतिरबुद्धिपूर्वापि सम्यगनुभवसाधनम् ।
एतदुक्तं भवति ।
अबुद्धिपूर्वकत्वं किमनादित्वं विवक्षितम्, सादित्वे ऽपि बुद्धिजन्यत्वाभावो वा प्रतिपाद्याथर्बुद्धिपूर्वकत्वाभावो वानेनैतदेवं
प्रतिपादयिष्यामीत्यभिसन्धिपूर्वकतावैधुर्यं वा ।
नाद्यः ।
पिपीलिकालिपावभावात् ।
गगनमेव दृष्टान्तो भविष्यतीति चेत् ।
तथापि श्रुतेरनादित्वस्य परेणानङ्गीकृतत्वेनासिद्धेः ।
न द्वितीयः ।
उत्पद्यमानं बुद्धिजन्यमेवेति मयाङ्गीकृतत्वात् ।
न तृतीयचतुर्थौ ।
उलूककृतव्यापारे व्यभिचारादिति ।
यद्यपि प्रत्यक्षे व्यभिचारो ऽत्र वक्तुं शक्यते ।
तथापि ज्ञातकारणसजतीयत्वेन शक्यपरिहारो ऽसाविति नोदितः ।
अनुमानमात्रे सुवचो ऽपि चेतनव्यापारविषयस्य तथाभूत एव शाकुने प्रदर्शयितुमुचित इति न प्रदर्शितः ।
ननु शाकुनमर्थविसंवाद्यपि दृश्यते ।
सत्यम् ।
यत्तु प्रमाणाविरुद्धं तद्वयभिचारस्थलं भविष्यतीति भावेनोक्तम्अविरुद्धमिति ।
शाकुनमात्रे व्यभिचारस्य दर्शयितुं शक्यत्वे ऽप्यागमिकत्वेन विसंवादानर्हतयेदमुदाहृतम् ।
नन्वासेति कथम् ।
अस्तेर्भूरित्यस्य नित्यत्वात् ।
विभक्तिप्रतिरूपकं चाव्ययं भवतीति वचनादव्ययमेतदिति न दोषः ।
विभक्तिप्रतिरूपकमित्युच्यते ।
नचैवं विभक्तिरस्ति ।
न नास्ति ।
आमन्तानुप्रयोगस्य विद्यमानत्वात् ।
५,९६
नन्वेवं तर्हि प्रयुज्यते ।
श्रुतिर्न सम्यगनुभवसाधनं शब्दत्वे सत्यबुद्धिपूर्वकत्वादिति ।
यद्वा श्रुतिर्नागमो ऽबुद्धिपूर्वकत्वादिति ।
अबुद्धिपूर्वकत्वं च विवक्षितार्थतत्त्वज्ञानपूर्वकत्वाभावः ।
आद्य(स्यापि)स्य पिपीलिकालिपावप्रवेशे ऽप्युन्मत्तवाक्यं दृष्टान्तो भविष्यति ।
न चोन्मत्तवाक्यमपि प्रमाणं प्रमाणविरुद्धत्वादित्यत आहविरुद्धं त्विति ।
… विरुद्धं तु विरोधादेव बाधितम् । मनुव्_२,१.१५अब् ।
न्यायसुधा-
प्रमाणविरुद्धं यदुन्मत्तवाक्यं तत् प्रमाणविरोधादेव बाधितमयथार्थमिति यावत् ।
न तूक्तहेतुभ्यामिति ।
सोपाधिकतामनेनाचष्टे ।
अत एवाप्ताप्रणीतवाक्यत्वहेतुरप्यपास्तः ।
अयमभिसन्धिः ।
न तावत्सम्यगनुभवसाधनत्वाभावो ज्ञानसाधनत्वाभावेन ।
ज्ञानसाधनत्वस्योभयसिद्धत्वात् ।
नापि स्मृतिसाधनत्वेन ।
अननुभूतविषयत्वसम्मतेः ।
ततो विपरीतबोधकत्वेनैवेति वाच्यम् ।
एवं द्वितीयप्रयोगे ऽपि न तावदनागमत्वमशब्दत्वेन ।
शब्दत्वस्योभयसम्मतत्वात् ।
तस्मादयथाथर्त्वेनेति वक्तव्यम् ।
एवं तृतीयप्रयोगे ऽपि साध्यनिष्कषर्ः कर्तव्यः ।
तथाच तत्र प्रमाणबाधितत्वमुपाधिः ।
यद्वानुभवसाधनत्वावच्छिन्ने प्रथमसाध्ये, वाक्यत्वावच्छिन्ने द्वितीयसाध्ये बोधकत्वावच्छिन्ने तृतीये चायमुपाधिरिति ।
नन्वस्योपाधेर्यदयथार्थं तत्प्रमाणविरुद्धमिति साध्यव्यापकत्वे ऽपि साधनाव्यापकत्वं कथमित्यत आहविरोधेति ।
विरोधादर्शनात् … । मनुव्_२,१.१५च् ।
न्यायसुधा-
पक्षीकृतायां श्रुतावुक्तसाधनसद्भावे ऽपि प्रमाणविरोधस्यादशर्नात् ।
साधनाव्यापकत्वमिति शेषः ।
अत्र विरोधाभावादिति वक्तव्ये ऽदर्शनादित्युक्तं विरोधाभावसाधनार्थमिति द्रष्टव्यम् ।
५,१००
किमतो यद्येवं प्रमाणविरुद्धत्वमुपाधिरिति चेत् ।
उपाधेः प्रतिपक्षोन्नायकत्वस्य वक्ष्यमाणत्वेनानुमानानां सत्प्रतिपक्षत्वमित्याशयेनाहतस्मादिति ।
… तस्माद् वेदप्रामाण्यमिष्यते । मनुव्_२,१.१५च्द् ।
न्यायसुधा-
यस्मात्प्रमाणविरुद्धत्वमयथार्थत्वस्य व्यापकं व्यावृतं च पक्षीकृताद्वेदात् ।
व्यापकनिवृत्तौ व्याप्यनिवृत्तिरवश्यम्भाविनी ।
तस्माद्वेदप्रामाण्यमेष्यव्यम् ।
अयमत्र प्रयोगः ।
वेदो नायथार्थः प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् ।
यद्वा वेदो यथार्थो बोधकत्वे सति प्रमाणाविरुद्धत्वात्प्रत्यक्षवत् ।
एवं वेदः सम्यगनुभवसाधनमनुभवसाधनत्वे सति प्रमाणविरुद्धत्वात्प्रत्यक्षवत् ।
वेद आगमो वाक्यत्वे सति प्रमाणाविरुद्धत्वात्सम्प्रतिपन्नवदिति ।
एवं वाक्यत्वावच्छिन्ने साध्ये ऽनाप्तप्रणीतत्वमुपाधिस्तद्विपर्ययेण च प्रतिपक्षो ऽभिधेय इति ।
५,१०३
अस्त्वेवं वेदप्रामाण्यम् ।
पञ्चरात्रादिस्मृतीनां तु कथम् ।
नहि ता अप्यपौरुषेयाः ।
येन प्रामाण्यमवधार्य फलव्यभिचारमन्यथा नेष्याम इत्यत आहतन्मूलत्वादिति ।
तन्मूलत्वात् स्मृतीनां च … । मनुव्_२,१.१६अ ।
न्यायसुधा-
प्रामाण्यमिष्यत इति सम्बन्धः ।
यद्यपि भगवद्रचितानां वेदा(दर्)थमुपलभ्य रचितत्वं वेदमूलत्वं नास्ति ।
तस्य स्वतः सर्वज्ञत्वम् ।
तथापि तमनुसृत्य रचितत्वं तन्मूलत्वमिह विवक्षितमिति नोक्तदोषः ।
अयमत्र प्रयोगः ।
पञ्चरात्रादिस्मृतिः प्रमाणं प्रमाणमूलत्वात्प्रमाणसंवादित्वात्सम्प्रतिपन्नवदिति ।
यद्वा विमतं प्रमाणं वेदसंवादित्वात्पराभ्युपगतार्हिंसादिवाक्यवत् ।
आप्तवाक्यत्वमुपाधिरिति चेत् (न) ।
प्रत्यक्षादौ साध्याव्यापनात् ।
वाक्यत्वावच्छिन्नसाध्यव्यापकत्वाददोष इति चेन्न ।
तथापि वेदेतरवाक्यत्वावच्छिन्नसाधनेनोपाधेः पक्षे साधनसौलभ्यात् ।
सति चैवं स्मृतीनां प्रामाण्ये तद्बलेन फलव्यभिचारो ऽप्यन्यथयितव्य इति ।
ननु चोक्तार्थविरुद्धवादीन्यपि स्मृतीतिहासपुराणान्युपलभ्यन्ते ।
तेषां प्रामाण्यसाधने च बहुविप्लवः स्यादित्यत आहविरोध इति ।
… विरोधो यत्र न क्वचित् । मनुव्_२,१.१६ब् ।
न्यायसुधा-
पूर्वेणैवान्वयः ।
यासां स्मृतीनां सर्वथा प्रमाणविरोधो नास्ति तासामेव पक्षीकरणान्न कश्चिद्दोष इत्याशयः ।
नन्वेवं सति वेदमूलत्वोपन्यासो व्यर्थः ।
ज्ञानजनकानामवश्याङ्गीकरणीयेन विरोधाभावेनैव प्रामाण्यसिद्धेरिति चेन्न ।
फलव्यभिचारलक्षणविरोधदर्शनेनासिद्धिप्रसङ्गात् ।
प्रामाण्येन तदपनयने चेतरेतराश्रयत्वापातात् ।
वेदमूलत्वेन तु प्रामाण्ये सिद्धे न को ऽपि दोष इति ।
५,१०७
अप्रामाण्यप्रयोजकस्य प्रमाणविरोधस्याभावान्न श्रुतिस्मृत्योरप्रामाण्यमित्युक्तम् ।
तदयुक्तम् ।
श्रुत्याद्युक्त(स्य) ईश्वरसार्वज्ञादेरीश्वरो न सर्वज्ञः पुरुषत्वात् ।
यज्ञदत्तवत् ।
इत्याद्यनुमानविरुद्धत्वादित्यत आहविरोधो ऽपीति ।
विरोधो ऽपि स एवोक्तः प्रत्यक्षेणागमेन वा । मनुव्_२,१.१६च्द् ।
५,१०८फ़्.
न्यायसुधा-
प्रकृतसम्बन्धार्थो ऽपिशब्दः ।
यच्छब्दो ऽध्याहार्यः ।
विरोधादेव बाधितमित्यप्रामाण्यप्रयोजकतयोक्तो विरोधो ऽपि स एव यः प्रत्यक्षेणागमेन वा स्यात् ।
न पुनरनुमानेन ।
अयमभिसन्धिः ।
अप्रामाण्यप्रयोजकतया यदस्माभिरभिहितं तत्पक्षे ऽप्युपपादयितुं खलु परस्यायं प्रयत्नः ।
अस्माभिश्च प्रत्यक्षागमविरोध एव तथाभिप्रेतो नानुमानविरोधः ।
तथाच पक्षे तद्व्युत्पादनं प्रकृतासङ्गतमेव ।
स्वतन्त्रानुमानविरोधं तूत्तरत्र निराकरिष्यति सूत्रकृदिति ।
ननु प्रमाणविरोध एवाप्रामाण्ये प्रयोजको ऽस्तु किं प्रत्यक्षेणागमेन वेति विशेषणेन ।
तथा चोक्तनुमानविरीधाद्वेदादेरप्रामाण्यमिति ।
मैवम् ।
वक्ष्यामो ह्यत्र ब्रह्मादिवस्तुषु प्रमाणं वेद एवैक इति वैदिके ऽर्थे ऽनुमानस्यानवकाशम् ।
यत्र च यस्याप्रवेशो न तस्य तद्बाधकम् ।
नहि नयनं स्पर्शापबाधनस्येष्ये ।
तथाच कथमनुमानं वेदा(द्यर्)थबाधकेन तदप्रामाण्ये प्रयोजकं स्यात् ।
प्रकृतं च वेदादिकमेवेति ।
५,१०९
नन्वेवं (सति) तर्हि वेदार्थमीमांसा नारम्भणीया स्यात् मीमांसाया युक्त्यनुसन्धानात्मकतवादित्यत आहआगमेनेति ।
आगमेनागमस्यैव विरोधे युक्तिरिष्यते । मनुव्_२,१.१७अब् ।
न्यायसुधा-
एवशब्दो विरोध इत्यतः परो द्रष्टव्यः ।
निर्णयार्थमिति शेषः ।
एतदुक्तं भवति ।
अनुमानं हि धर्म्यादिप्रमितिमपेक्षते ।
नच धर्म्यादिरूपं ब्रह्मादिकं वेदादृते सिद्धयतीति तदनपेक्षायामाश्रयासिद्धयादिकम्, अपेक्षायां तु विरोधिनो धर्म्यादिग्राहकविरोध इत्येवं
वैदिके ऽर्थे ऽनुमानस्यानवकाशो ऽभिधिस्तितः ।
मीमांसायां तु क्वचिदागमस्यागमान्तरेण विरोध एवार्थनिर्णयार्थं युक्तिरुपादीयते ।
सा खल्वन्यतरागम(प्रामाण्य)मुपोद्बलयन्त्य(न्त्या)न्यतरागमबाधया ऽर्थनिर्णयाय प्रभवति ।
अन्यतरागमसिद्धधर्म्याद्याश्रयणेना(येण)श्रयासिद्धयाद्यनवकाशात् ।
अन्यतरागमस्य धर्म्यादिग्राहकत्वाभावेनाप्रबलस्य, आगमसूचितयोपपत्तेस्ततो दुर्बलस्य, अकिञ्चित्करत्वात् ।
तदेवमेवंविधोपपत्तेरागमिके ऽप्यर्थे सावकाशत्वादुपपन्ना मीमांसेति ।
५,११०
अपि च प्रत्यक्षागमविरोधो ऽपि न स्वरूपेणाप्रामाण्यं प्रयोजयति ।
किन्तु तयोरुपजीव्यत्वादिना प्राबल्ये सत्येव दुर्बलयोः स्वयं बाधितत्वेन समबलयोः प्रतिबन्धमात्रहेतुत्वेनाप्रामाण्यनिश्चयानुपपत्तेः ।
उपजीव्यादिविरोधेन चाप्रामाण्यं भवद्वेदस्य न सर्वथायथार्थत्वलक्षणम् ।
किन्नाम प्रतीतार्थप्रच्यावनमात्रम् ।
अपौरुषेयतया निर्दोषस्य सर्वथाप्रामाण्यानुपपत्तेः ।
तथाचान्यार्थकल्पनावश्यं कार्येत्याशयवानाहउपजीव्येति ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना । मनुव्_२,१.१७च्द् ।
न्यायसुधा-
उपलक्षणमेतत् ।
निरवकाशत्वादिकमपि ग्राह्यम् ।
भवत्वेवं ततः किम् ।
वेदोपजीव्यत्वादिकं च प्रत्यक्षागमयोरेव प्रायेण सम्भवति ।
युक्तेस्तु क्वचिदेव ।
पुरुषत्वादियुक्तेस्तु नास्त्येव ।
अतश्च न तद्विरोधेन वेदस्याप्रामाण्यं मन्तव्यमित्याशयेनाहप्रत्यक्षमिति ।
५,१११
प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता । मनुव्_२,१.१८ ।
न्यायसुधा-
वेदस्येत्यनुवर्तते ।
स्यादित्यतः परमितिशब्दो ऽध्याहार्यः तत्त्वमसीत्यादिवेदस्य प्रत्यक्षमुपजीव्यम् ।
युक्तिरपि क्वचिद्वेदस्योपजीव्येति सम्बन्धः ।
यथा’प्राणा वा अणवः’ इत्यादेः ।
आगमैकप्रमाणकेषु विष्ण्वादिविषयेषु प्रवर्तमानं’जनितो ऽत विष्णोः’ इत्यादिवेदं प्रति निरनिष्यो निरवद्य इत्यादेस्तस्य
वेदो(दस्यो)पजीव्यतेत्यर्थः ।
एवं निरवकाशत्वादिकमपि प्रत्यक्षागमयोरेव प्रायेण सम्भवति युक्तेस्तु क्वचिदेव ।
तच्च न प्रकृतयुक्तेरित्यपि द्रष्टव्यम् ।
५,११५
आगमयोः परस्परविरोधे सत्यन्यतरागमाश्रयेण युक्तेरनुप्रवेशोपपत्तेर्युक्ता मीमांसेत्युक्तम् ।
तदनुपपन्नम् ।
असार्वत्रिकत्वात् ।
नहि सर्वत्रागमयोः परस्परविरोध एव मीमांसावतार्यत इत्यत आहयुक्त इति ।
युक्तो ऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात् तत्र युक्त एवार्थो … । मनुव्_२,१.१९अच् ।
न्यायसुधा-
तत्र तर्ह्ययमभिसन्धिः ।
सत्यमेतत्क्वचिदेवायं न्याय इति ।
तथापि यत्र नैवं तत्रैकस्यैवागमस्यानेकार्थप्रतीतौ युक्त्यनुसारिणमर्थमुपादाय तदनुगुणतद्विरुद्धार्थपरित्यागः क्रियत इति नोक्तनियमभङ्गः ।
केवलयुक्तेर्वैदिके ऽर्थे ऽनुप्रवेशस्यानङ्गीकृतत्वात् ।
नापि मीमांसानुपपत्तिः ।
अन्यतरवैदिकार्थानुसारिण्या युक्तेरङ्गीकृतत्वादिति ।
५,११६
प्राक् पुरुषत्वादियुक्तिविरोधेनागमस्याप्रामाण्यं न वाच्यमित्युक्तम् ।
इदानीं तु युक्तिरेवासौ प्रत्यक्षागमविरोधेनाप्रमाणम् ।
तस्यास्तदुजीवित्वेन ततो दुर्बलत्वादित्याशयवानाहयुक्तिश्चेति ।
… युक्तिश्च त्रिविधा मता । मनुव्_२,१.१९द् ।
न्यायसुधा-
यद्वा यत्सिद्धवत्कृत्य तत्र मीमांसारम्भानुपपत्तिः परिहृता तदिदानीं दर्शयितुमाहयुक्तिश्चेति ।
चशब्दः प्रकृतानुसन्धानार्थः ।
कथं त्रैविध्यमित्यत आहव्याप्तिरिति ।
व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा । मनुव्_२,१.२०अब् ।
न्यायसुधा-
यस्या युक्तेः साध्येन व्याप्तिः प्रत्यक्षगा प्रत्यक्षावगता सैका ।
युक्तिगा युक्त्यवगता यस्या व्याप्तिः सा द्वितीया ।
तथाऽगमगा आगमावगता यस्या व्याप्तिः सा तृतीयेति ।
एवं त्रिविधेति योज्यम् ।
उपलक्षणं चैतत् ।
धर्(मार्)म्यादिग्राहकभेदेनापि त्रैविध्यं द्रष्टव्यम् ।
एतच्च स्पष्टयिष्यामः ।
५,११७
एवं तर्हि या युक्तिमूला युक्तिः सा नागमाद्युपजीविनीति तस्य बाधिका ।
तदबाध्या च भवत्वित्यत आहप्रत्यक्षेति ।
५,११८
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी । मनुव्_२,१.२०च्द् ।
न्यायसुधा-
तत्र तासु त्रिविधासु युक्तिषु ।
प्रत्यक्षागमूलेति ।
प्रत्यक्षमूलाऽगममूला चेत्यर्थः ।
युक्तिमूलापि हि युक्तिरन्ततः प्रत्यक्षागममूलैव(द्र)एष्यव्या ।
अन्यथा तन्मूलयुक्तेनिर्र्मूलत्वमनवस्था वाऽपद्येत ।
तथाच प्रत्यक्षाद्यपेक्षत्वेन साम्ये ऽपि बहुसंविधानानपेक्षयोः प्रत्यक्षागममूलयोर्युक्त्योः प्रबलत्वं तदपेक्षायास्तु युक्तिमूलाया दुर्बलत्वं युक्तमेव ।
तथाच प्रबलयोर्(युक्त्योर्)यदेदृशी दशा तदा का (वार्ता) दुर्बलाया युक्तेरागमबाधनादाविति ।
५,११९
तदेवमप्रामाण्ये प्रमाणविरोधस्यैव प्रयोजकत्वाच्छत्यादेश्च प्रत्यक्षागमविरोधाभावात् ।
अनुमानविरोधस्याप्रयोजकत्वान्नाप्रामाण्यम् ।
किन्नाम बोधकत्वेन स्वत एव प्रामाण्यमित्युपपादितम् ।
तदेतत्प्रमाणाप्रमाणविवेकमविदुषां दुरवधारणमित्युद्देशलक्षणविभागपरीक्षाभिस्तन्निरूपणार्थमुत्तरो ग्रन्थसन्दर्भः ।
नच सांव्यावहारिकत्वात्प्रमाणादेः किं तन्निरूपणेनेति वाच्यम् ।
तथापि स्वरूपसङ्खयाविषयफलगोचराणां वादिविवादानां विद्यमानत्वेन निरूपणार्हत्वात् ।
यद्यप्येषो ऽर्थस्तर्कशास्त्रस्य विषयो न मीमांसाशास्त्रस्य ।
तथापि शिष्यहितैषिणा भाष्यकृता प्रसङ्गागतो निरूप्यते ।
यथा पूवर्मीमांसाभाष्यकारेणेत्यदोषः ।
अत एव प्रमाणलक्षणादौ निरूपितस्यार्थस्य पुनरत्र निरूपणं न दोषाय ।
एकीकृत्य निरूपणस्यापि शिष्यहितार्थत्वात् ।
५,१२१
तत्र निर्धारित(निर्ज्ञात)स्वरूपस्यैव सङ्खयादिजिज्ञासा ।
लक्षणं च तन्निर्धारणोपायः ।
नच सामान्यलक्षणेन विना विशेषलक्षणा(स्या)वसर इत्यतः प्रमाणसामान्यलक्षणं प्रथमं तावदाहयाथार्थ्यमेवेति ।
याथार्थ्यमेव मानत्वं … । मनुव्_२,१.२१अ ।
५,१२२
न्यायसुधा-
अत्र कश्चिदाह ।
किमर्थं लक्षणमुच्यते ।
किं सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थम् ।
उत प्रमाणत्वादिप्रतीतये तच्चिह्नोपदर्शनमिदम् ।
उत प्रमाणादिशब्दप्रवृत्तिनिमित्तावधारणार्थम् ।
अन्यस्मै कस्मैचित्प्रयोजनाय वा ।
५,१२४
नाद्यः ।
तस्या एव दुरवधारणत्वात् ।
तथा हि ।
किं सजातीयेति प्रमाणत्वेन (सजातीयत्वं) विवक्षितं रूपान्तरेण वा ।
नाद्यः ।
स्वव्यवच्छेदावधेः सजातीयादव्यावृत्तत्वेन व्यवच्छेदकत्वानुपपत्त्या व्यावृत्तिस्वीकारेणा(च)व्यापकत्वात् ।
नापि द्वितीयः ।
विजातीयपदोपदानवैयर्थ्यात् ।
अस्ति हि प्रमेय(त्वादिना)सर्वसाजात्यम् ।
अथ ज्ञानत्वेन विशेषेण साजात्यं विवक्षित्वेदमुच्यते ।
तर्हि लक्ष्यस्यापि ज्ञानत्वादिना साजात्याद्वयवच्छेद्यकोटिप्रविष्यतया सङ्ग्राह्याभावप्रसङ्गः ।
लक्ष्यस्य यज्ज्ञानत्वादिभिः सजातीयं तद्वयवच्छेद्यम् ।
नच लक्ष्यस्य लक्ष्यं सजातीयम् ।
षष्ठयर्थस्य सम्बन्धस्य भेदे व्यवस्थितत्वादिति चेत् ।
एवं तर्हि लक्ष्यापेक्षया भिन्नाद्वयवच्छेद इत्येवोच्यतां कृतं ज्ञानत्वादिना साजात्येन प्रकृतानुपयोगिना वर्णितेन ।
यदा च लक्ष्यादन्यत्व परेषामवगतं तदा परेभ्यो ऽन्यत्वमपि लक्ष्यस्यार्थादवगम्यत इति सिद्धमग्रतो लक्षणप्रयोजनमिति वैयर्थ्यमेव
स्याल्लक्षणाख्यानस्य ।
५,१२५
अपि च न तावदनेन लक्षणेनानवगतेनैव व्यवच्छिन्नप्रतीतिसम्भवः ।
अतिप्रसङ्गात् ।
नापि ज्ञातेन ।
दुरवधारणत्वात् ।
न तावल्लक्षणं प्रत्यक्षम् ।
निर्दोषाक्षोद्भवत्वादेरप्रत्यक्षविशेषणत्वम् ।
नापि कार्येण लिङ्गेन तदनुपपत्त्या वा तदवगमः ।
ताभ्यां सामान्यतः कारणमात्राक्षेपेण कारणगतानुगतरूपासिद्धावेकरूपलक्षणासिद्धेः ।
कार्यस्यैकजात्यादेकजातीयकारणसिद्धिरिति चेत् ।
तर्हि कार्यगतैकजात्यस्य पूर्वमवश्यं प्रत्येतव्यत्वाङ्गीकारे(ण) तत एव सजातीयविजातीयव्यवच्छेदप्रति(दोष)पत्तिरस्तु ।
कृतमनया पारम्पर्यकुसृष्टया ।
नन्वेतावतापि न प्रकृतलक्षणखण्डनं (सं)भवति ।
अव्याप्तेरतिव्याप्तेर्वानुद्भावनादिति चेत् ।
मैवम् ।
प्रथमभावितयावश्याभ्युपेयतया लघोरुपायात्साध्यसिद्धौ सम्भवत्यां चरमभावितया अवश्यानुष्ठेयत्वाभावेन गुरावुपाये प्रवर्तमानस्य तवैवेदं
(दूषरो)दोषोद्भावनम् ।
प्रदीपे प्रदीपं प्रज्वाल्य तमोनिरासाय यतमानस्यैव पुंसः ।
नहि तत्र कश्चिद्दीपदोषः ।
किन्तु तथाकारी पुरुष एव पर्यनुयोज्यः ।
सर्वसाधनसाधारणो वायं दोषः ।
यत्सम्भवदेवंविधलघूपायत्वं नाम स्वरूपासिद्धिरिव सर्वप्रमाणानाम् ।
तस्मान्मा नाम भूदतिव्याप्त्यादिदोषः ।
सामान्यदोषादेव दुष्यं लक्षणमिति ।
५,१३२
एतेन द्वितीयो ऽपि निरस्तः ।
प्रमाणत्वाद्यवगममन्तरेण तदवगमानुपपत्तेस्तदवगमायास्य प्रतीतावन्योन्याश्रयप्रसङ्गः ।
अस्तु वान्यदपि लक्षणे किञ्चिल्लिङ्गम् ।
तथापि तदेव लक्ष्याविनाभूततया लक्षणमुपन्यस्यतां सन्निहितप्रतिपत्तिकत्वात् ।
न तदवश्यं व्यापकं वक्तव्यम् ।
लिङ्गत्वस्य व्याप्यत्वेनैवोपपत्तेरिति चेन्न, यत्र लिङ्गमव्यापकत्वान्नास्ति तत्र लक्षणस्य प्रमाणाभावात्प्रत्येतुमशक्यत्वेन कथं ततः
प्रामाण्याद्यवगमः ।
यदा च क्वचिल्लक्ष्यजातीय एव प्रमाणाभावाल्लक्षणम(स्या)नवधारणीयतया लक्ष्यव्यापकतानवगमे ऽपि लक्षणम् ।
तदा किमपराद्धं लिङ्गान्तरेणाव्यापकेन ।
अथ यत्र तल्लक्षणे लिङ्गं नास्ति तत्र लिङ्गान्तरात्प्रत्येतव्यम् ।
तथापि (तावेवा)ते एवास्तां लक्ष्ये लिङ्गम् ।
किं लक्षणानुमानपूर्वकं तदनुमानकल्पनया ।
अथ तथा(विधं)लिङ्गद्वयं यत्तत्प्रत्येकमव्यापकतया न लक्षणम् ।
तदनुमितं तु तथात्वाल्लक्षणमिति चेन्न ।
लक्ष्यानुमानस्य लक्षणप्रयोजनस्योभाभ्यामेव सिद्धेः कृतं व्यापकेन तेन ।
५,१३५
नापि तृतीयः ।
स ह्येवंरूपः यद्यथार्थं तत्प्रमाणमिति व्यवहर्तव्यमिति ।
अयमनुपपन्नः ।
सर्वत्र लक्षणस्य ज्ञातुमशक्यत्वात् ।
प्रमाणत्वादिना तदवगमे तदेवास्तु व्यवहारनियमनिदानम् ।
अव्यवहितप्रतिपत्तिकत्वादित्यावेदितम् ।
५,१३६
अत एव न चतुर्थः ।
कल्पनागौरवदोषश्चाधिकः ।
५,१३७
(नापि) न पञ्चमः ।
तादृशस्य दर्शयितुमशक्यत्वादिति ।
अत्रोच्यते ।
अस्तु तावत्सजातीयविजातीयव्यवच्छिन्नलक्ष्यप्रतीत्यर्थं लक्षणमिति पक्षः ।
सास्नादिमान्गौरिति विदितलक्षणसम्बन्धो हि यं पिण्डं सास्नादिमन्तं पश्यति तं नायमश्वादिर्नापि घटादिरिति प्रतिपाद्यते ।
ननु व्यवच्छेदो ऽन्योन्याभावो भेद इत्यनर्थान्तरम् ।
भेदश्च वस्तुस्वरूपमेव ।
तथाच लक्ष्यस्वरूपप्रतिपत्तिरेव तत्प्रतिपत्तिरिति कृतं लक्षणेन ।
अथ लक्ष्यप्रतीतिनिरपेक्षमेव लक्षणेन व्यवच्छेदो बोध्यत इति मतम् ।
तन्न ।
निराश्रयस्य तस्य बोध(दर्श)यितुमशक्यत्वादिति ।
सत्यं स्वरूप(वस्तु)प्रतीतिरेव भेदप्रतीतिरिति ।
तथापि प्रतियोगिविशेषघटिततदवगमाय लक्षणस्योपयोगः ।
असङ्कीर्णतया गोपिण्डं पश्यन्नपि हि न तावदयं नाश्वो न घट इति प्रत्येति यावल्लक्षणं नावगच्छति ।
सास्नादिमत्वं तदा प्रतीतमिति चेन्न ।
सास्नादिमान् गौरित्येवमवगमस्य विवक्षितत्वात् ।
अत एव सजातीयेत्यादिविशेषणोपादानम् ।
५,१३९
यदत्रोक्तं किं सजातीयेत्यादि ।
तदसत् ।
पौरुषेयवचसां पुरुषविवक्षाधीनत्वेन नियन्तुमशक्यत्वात् ।
लक्ष्यातिरिक्तं हि
सजातीयविजातीयतया द्वैराश्येन विवक्ष्यते ।
यथा यथार्थज्ञानतत्साधनस्य प्रमाणस्य ज्ञानं तत्साधनं च सजातीयम् ।
यन्न ज्ञानं नापि तत्साधनं तद्विजातीयम् ।
यथा च प्रत्यक्षस्यानुमानादिकं सजातीयं, विजातीयं तु घटादिकम् ।
एवमन्यत्रापि विवेक्तव्यमिति ।
एवं तर्हि लक्ष्यापेक्षया भिन्नाद्वयवच्छेद इत्युक्तं स्यादिति चेत् ।
को नेत्याह ।
नहि को ऽपि स्वस्थात्मा स्वस्मादेव व्यवच्छेदं लक्षणप्रयोजनमाचक्षति(ष्ये) ।
५,१४०
यदत्रोक्तं यदा चेत्यादि ।
तसदङ्गतम् ।
वस्तुतो यल्लक्ष्याद्भिन्नं ततो व्यवच्छेदावगमार्थत्वाल्लक्षणस्य प्रतिपादकस्य यद्यपि लक्ष्यान्यत्वज्ञानमलक्ष्ये(वश्या)पेक्षितम् तथापि
प्रतिपाद्यस्यातद(तदन)पेक्षितम् तथापि प्रतिपाद्यस्तद(तदन)पेक्षत्वान्न दोषः ।
तस्यापि पदार्थज्ञानपूर्वकत्वाद्वाक्यार्थज्ञानस्य सजातीयविजातीयपदोपात्तलक्ष्यान्य(त्व)ज्ञानं विना लक्ष्यस्य अलक्ष्यान्यत्वज्ञानं
लक्षणप्रयोजनं न सिद्धयतीति कश्चित् ।
तदनुपपन्नम् ।
नहि लक्ष्यान्यव्यावृत्तिर्लक्षणवाक्यप्रतिपाद्या ।
किन्नाम तज्ज्ञानं लक्षणप्रयोजनत्वेनोच्यते ।
लक्षणवाक्यार्थ एव प्रतिपाद्येन बोद्धव्यः ।
५,१४१
यदप्यपि चेत्यादिना पृष्टम् ।
तत्रावगतमेव लक्षणं व्यावृत्तलक्ष्यज्ञानमुपजनयतीति वदामः ।
नच तस्य दुरवधारणता ।
यथायथं प्रत्यक्षादिना तदवधारणात् ।
यत्र लिङ्गात्तदवगमस्तत्र तत एव लक्षणप्रयोजनसिद्धेर्व्यर्था परस्पराकुसृष्टिरिति चेन्न ।
प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात् ।
यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमाय तेन प्रत्यक्षं लक्ष्यते ।
तत्रान्वर्थसञ्ज्ञाज्ञापनं प्रयोजनम् ।
एवमन्यत्रापि द्रष्टव्यम् ।
गौरवमनुरुद्धय प्रयोजनमवधीर्यतामिति चेन्न ।
पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् ।
गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।
प्रयोजनाभावे तु परम्पराकुसृष्टिरिति चेन्न ।
प्रयोजनसद्भावे गौरवस्याप्यनादरण(प्यादरण)सम्भवात् ।
यथेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वेनाक्षोद्भवत्वमनुमायतेन प्रत्यक्षं लक्ष्यते ।
तत्रान्वर्थसञ्ज्ञाज्ञापनं प्रयोजनम् ।
एवमन्यत्रापि द्रष्टव्यम् ।
गौरवमनुरुद्धय प्रयोजनमवधीर्यतामिति चेन्न ।
पुरुषाभिप्रायाणां नियन्तुमशक्यत्वात् ।
गरीयांश्च प्रतिपत्तौ गौरवात्प्रमेयाधिक्यलाभः ।
प्रयोजनाभावे तु परम्पराकुसृष्टिरनादरणीयैवेति तदीयदोषताव्युत्पादनं नास्माकमनिष्यम् ।
एतेन द्वितीयतृतीयचतुर्था अपि समाहिता वेदितव्याः ।
लक्षणावधारणोपायस्योक्तत्वात् ।
गौरवस्य च समाहितत्वात् ।
५,१४४
ननु तथापि किं तत्त्वम् ।
यथायथं चतुष्ययमपि ।
तथाहि ।
क्वचिल्लक्ष्यातिरिक्तं लक्षणं भवति ।
यथा गन्धवती पृथिवीति ।
क्वचिल्लक्ष्यानतिरिक्तम् ।
यथा पृथिवीत्ववती पृथिवी, यथार्थं प्रमाणमित्यादि ।
तत्राद्यं लक्ष्यस्वरूपप्रतिपत्तिकारणं भवत् तस्यान्वयो व्यवच्छेदतच्छब्दव्यवहर्तव्यते च प्रतिपादयति ।
द्वितीयन्तु प्रवृत्तिनिमित्तं भवद्वयवहारमात्रकारणं भवति ।
तत्र सिद्धांशेन पक्षीकरणमसिद्धांशेन साध्यत्वं स्वयमूहनीयम् ।
५,१४७
ननु लक्षणं व्यावृत्तं व्यावर्तयत्युताव्यावृत्तम् ।
आद्ये स्वव्यावृत्तिर्लक्षणान्तराधीना न वा ।
न प्रथमः ।
तत्रापि लक्षणापेक्षायामनवस्थापातात् ।
न द्वितीयः ।
लक्ष्येऽपि तत्प्रसङ्गात् ।
निनिर्मित्तकार्याभ्युपगमे कादाचित्कतानुपपत्तेश्च ।
नान्त्यः ।
अतिप्रसङ्गादेवेति ।
उच्यते ।
लक्षणमपि व्यावृत्तमेव व्यावर्तयति ।
तदपि लक्षणेनैव ।
न चैवमनवस्था ।
प्राङ्निर्ज्ञातेष्वर्थ्र्षु व्यवस्थानात् ।
यस्तु काष्ठलोष्ठयितः कञ्चित्पदार्थं वा कस्यचित्किञ्चिच्छब्दवाच्यत्वं वा न वेत्ति नासौ लक्षणशास्त्रेऽधिक्रियते ।
किन्नामोपदेशादिना विदितपदतदर्थसङ्गत्यादिः स्वतन्त्रव्यवहाराद्यर्थं लक्षणमपेक्षत इति ।
५,१४९
अथापि स्यात् ।
किमवगतं लक्षणं फलहेतुः, किंवानवगतम् ।
न तावच्चरमः ।
तदभिधानवैयर्थ्यप्रसङ्गात् ।
अभिधानस्य ज्ञानोत्पादनो(पयोगि)पायत्वात् ।
तस्य चानवगतस्यैव फलसाधनत्वाभ्युपगमात् ।
आद्ये किमन्यस्मात्तदवगम उत त्वदीयाल्लक्षणवाक्यात् ।
यद्यन्यस्मात् ।
कृतममुना लक्षणाभिधानप्रयासेन ।
अभिधानस्य ज्ञानोत्पादातिरिक्तप्रयोजनाभावात् ।
तस्यान्यत एव सिद्धेः ।
अन्त्ये किमिदं त्वदभिधानमाप्तोपदेशतया लक्षणं बोधयत्युत लिङ्गादिभावेन ।
न तावच्चरमः ।
त्वद्वचनलक्षणाविनाभावादेर्दर्शयितुमशक्यत्वात् ।
नापि प्रथमः ।
परं प्रति भवत्याप्तत्वसिद्धेः ।
सिद्धौ हि प्रतिज्ञामात्रादेव साध्यसिद्धेर्हेत्व(त्वाद्य)भिधानमनर्थकं स्यात् ।
ननु प्रतिवादिनं प्रति लक्षणाभिधानं नार्थवत् ।
तेन वाद्याप्तभावानङ्गीकारात् ।
किन्तु शिष्यार्थं लक्षणमुच्यते शास्त्रे ।
स हि सर्वस्य शास्त्रस्य कर्तारमाप्तमेव मन्यते ।
तस्माच्छिष्यं प्रत्याप्तवचनतयैव लक्षणवाक्यमर्तं प्रतिपादयिष्यतीति ।
मैवम् ।
यदि न प्रतिवादिनं प्रति शास्त्रं किन्तु शिष्यं प्रति तदा प्रतिज्ञामात्रादेवाप्तवचनाच्छिष्यस्यार्थनिश्चयोपपत्तेर्हेत्वाद्यभिधानमनर्थकतामापन्नं शास्त्रे ।
अथ भवतु प्रतिवादिनमपि प्रति (तच्छा)शास्त्रवाक्यं यत्र हेत्वाद्युपात्तम्, लक्षणवाक्यं तु शिष्यमेव प्रति प्रयोजकं
प्रतिपन्नशास्त्रकाराप्तभावमिति मन्यसे ।
तदप्यनुपपन्नम् ।
शास्त्रान्तरसाध्यत्वादस्यार्थस्य ।
अस्ति हि समयग्राहकं शास्त्रं मुनिभिः प्रणीतं नामलिङ्गानुशासनव्याकरणादीति ।
५,१४९फ़्.
अत्र ब्रूमः ।
उक्तं ह्येतदवगतमेव लक्षणं फलहेतुरिति ।
तदवगमश्च यथायथं प्रत्यक्षादिप्रमाणादित्यपि ।
नच यथार्थं प्रमाणमिति सास्नादिमान्गौरिति वाक्यस्य लक्षणं प्रतिपाद्यमभ्युपगच्छामः ।
येनान्यतः सिद्धत्वात्तस्येदमनर्थकं स्यात् ।
किन्तु यो लक्षणमन्यतो जानाति, न जानाति च व्यवहारनिदानत्वादिना, तं प्रति तदवबोधायेदं वाक्यम् ।
तथाहि ।
अयं गौरित्याद्युपदेशादिनैकस्यां व्यक्तौ गोशब्दार्थतयावगतायां किमियमेव व्यक्तिः (एवम्) उतान्यापीति जिज्ञासमानं प्रत्यन्यत्रापि
गोशब्दार्थतां विजिज्ञापयिपुरुषदेशादेरानन्त्यादिना कर्तुमशक्यतवादिदं व्याप्तिविषयं वाक्यमाह’यः सास्नादिमान्स गोशब्दार्थः’ इति ।
इदं च नाप्तोपदेशतयैव व्याप्तिबोधकम् ।
अपि तु प्रयोगान्तरवत्प्रतीताया व्याप्तेः स्मारकत्वेन ।
अप्रतीतायास्तु तदेव जिज्ञासाजननद्वारेण प्रमोत्पादकत्वेनोपयुज्यते ।
स्मृतव्याप्तिश्च यां यां व्यक्तिं सास्नादिमतीमवलोकयति ।
तां तां गोशब्दार्थतयानुमिनोतीति को दोषः ।
५,१५०
यद्वा यः पृथिवीति पदं वा व्यक्तिविशेषस्य तदथर्तां वावगच्छंस्तत्प्रवृत्तिनिमित्तं जिज्ञासते तं प्रति पृथिवीत्ववती प्रथिवीति पृथिवीत्वं
पृथिवीशब्दप्रवृत्तिनिमित्तमुच्यते ।
तत्र यस्य वक्तर्याप्तताबुद्धिः स तावता सन्तुष्यति ।
अपरं प्रति त्वव्याप्त्यादिशून्यत्वादिति वाक्यशेषः प्रवर्तते ।
अथवास्ति गौर्नामार्थ इति विदितवतो यत्र तत्र गवि घटादावश्वादौ च गोबुद्धौ प्रसक्तायां गोः स्वरूपावधारणमुखेनेतरव्यवच्छेदं
कुर्वत्सास्नादिमानेव गौर्न तु तद्विरही घटादिरश्वादिर्वेति वाक्यं प्रयुज्यते ।
इदमपि पूवर्वदाप्तत्वावधारणानवधारणाभ्यां द्वयां गतिमवलम्बत इति किमत्रानुपपन्नम् ।
व्यास(१०)
५,१५५
नन्वत्र तावदेवं प्रयोक्तव्यम् ।
अयं गोत्वेन व्यवहर्तव्यः सास्नादिमत्त्वादिति ।
तत्र किं गौर्व्यवहारस्य विशेषणं गोशब्दो वा ।
आद्ये यद्यसौ गोविशिष्टं व्यवहारं नाज्ञासीत् तदा कथं पुरोवर्तिव्यक्तौ तस्य कर्तव्यतामनुमानादपि जानीयात् ।
न ह्यविदिताग्निरनुमानादग्निसम्बन्धं बोधयितुं शक्यः ।
अथाज्ञासीत्तदा ज्ञातज्ञापकत्वेन व्यर्थमनुमानम् ।
न द्वितीयः ।
तदा ह्ययं गोशब्दाभिधेयः सास्नादिमत्त्वदित्यनुमानं स्यात् ।
तत्र चातिप्रसङ्गः ।
तत्र एव जबगडदशादिशब्दाभिधेयत्वमपि साध्यं स्यात् ।
ते सामान्यतो ऽप्यर्थवत्तया न प्रसिद्धाः ।
नैवं गोशब्द इत्यस्ति विशेष इति चेत् ।
तथापि शशविषाणादिशब्दाभिधेयत्वं साध्यताम् ।
ते ऽप्यसद्विषयतयैव प्रसिद्धाः ।
गौरस्तीत्यादिप्रयोगाद्गोशब्दो नैवमिति चेत् ।
एवमपि स्वस्तिमतीत्यादिशब्दवाच्यतानुमानं गोमात्रे स्यात् ।
अथ सत्यपि गोत्वे तदन्यत्र तदप्रयोगान्नेति चेत् ।
एवं तर्हि यत्र सास्नादिमत्त्वं नास्ति तत्र गोशब्दप्रयोगो ऽपि नास्ति, यत्र सास्नादिमत्त्वमस्ति तत्र सर्वत्रास्तीति यो जानीते तं प्रति
लक्षणाभिधानमिति स्यात् ।
स च व्यवहारान्तरवदन्वयव्यतिरेकाभ्यामेव वाच्यवाचकभावमवधारितवानिति व्यर्थमनुमानमिति ।
५,१५५फ़्.
मैवम् ।
उभयत्रापि दोषाभावात् ।
केवलव्यतिरेकित्वे हि कथञ्चिदेतदभिधातुं युक्तम् ।
उपदेशादिना विशेषणेन गवा विशेषितं व्यवहारमवगतवो हि तदन्यत्र तत्कर्तव्यतानुमानसाध्येत्यङ्गीकारे को विरोधः स्यात् ।
शब्दविशेषितव्यवहारकर्तव्यतासाधने ऽतिप्रसङ्गः किं बोध्यस्य बोधकस्य वेति वाच्यम् ।
नाद्यः ।
तेन तद्वयाप्तेरनवगतत्वात् ।
अवगतत्वाच्च गोशब्दवाच्यताव्याप्तेः ।
न द्वितीयः ।
तेनापि पूर्वं वृद्धवचनादिना तथैव व्याप्तेरवगतत्वात् ।
प्रयोगभावाभावाभ्यां बाधस्य निर्णीतत्वाच्च ।
नहि बोध्यो बाधपरिचयशून्य इत्येतावता परिचितबाधेनापि बोधकेन विपरीतं बोधनीयम् ।
विप्रलम्भकत्वापातात् ।
तत्त्वनिर्णयार्थत्वाच्च वादकथानुसारिणः शास्त्रस्येति ।
एवं पक्षान्तरे ऽप्यनुमानप्रयोगप्रकारो बोद्धव्यः ।
५,१६१फ़्.
यदप्युक्तं शास्त्रान्तरसाध्यत्वादयमर्थो न वक्तव्य इति ।
तदयुक्तम् ।
न ह्येवमस्माभिः प्रतिज्ञातं यत्सर्वथा शास्त्रान्तरसाध्यं तन्नोच्यत इति ।
न चैवं शास्त्रसाङ्कर्यमाशङ्कनीयम् ।
विषयप्रयोजनभेदात् ।
यदि च शास्त्रान्तरसाध्यो ऽप्यर्थो भवदीयशास्त्रस्य विषयः तर्हि व्याकरणादिसाध्यमन्यदपि कस्मान्नोच्यत इति चेन्न ।
सन्दिग्धत्वसप्रयोजनत्वसदसद्भावाभ्यां वैषम्यात् ।
सन्दिग्धतादिसद्भावे ऽपि यदवचनं तदुक्तदिशा शिष्यैरेव शक्यज्ञानत्वादिति यत्किञ्चिदेतत् ।
अन्यथा परस्यापि कुलीरस्येव स्वापत्ययुक्तिहतत्वं स्यात् ।
तेनापि हि स्मृतिरूपः परत्र पूर्वदृष्टावभासो ऽध्यास इत्यादीनि लक्षणानि स्वशास्त्रे निबद्धानि ।
सूत्रकृता च जन्माद्यस्य यत इति ।
तत्रैते दोषास्तानि लक्षणानि किं समास्कन्दन्त्युत नेति वक्तव्यम् ।
न तावद्द्वितीयः ।
सामान्यसमानन्यायत्वात् ।
नाद्यः ।
दुष्योपादानस्य पराजयहेतुत्वात् ।
दोषास्कन्दितान्यपि तानि व्यवहारं निर्वहन्तीति चेन्न ।
आपाततो ऽपि दुष्यानां तथात्वे कथमुन्मत्तभाषितानामपि तद्भावो न स्यात् ।
नहि तेषामनिर्वाहकत्वे ऽनुपपत्तेरन्यत्कारणमस्ति ।
५,१६८
किञ्चैवं वदता प्राग्ब्रह्मसाक्षात्काराद्बाध्यमव्यावहारिकं ब्रह्मसाक्षात्कारबाध्यं व्यावहारिकमिति मतमपि परित्यक्तं स्यात् ।
नह्ययं ब्रह्मसाक्षात्कारो नापि बाधः ।
५,१७०
किञ्चैवमस्मदीयमपि लक्षणं कुतो न व्यवहारं निर्वहेत् ।
नच व्यवहारनिर्वाहातिरिक्तं किमपि तत्साध्यमभिलषामः ।
भवदभिलषिता पारमार्थिकता बाध्यत इति चेत् ।
किं लक्षणस्योत लक्ष्यस्य ।
नाद्यः ।
तथाहि ।
विमतमपारमार्थिकमप्रयोजनाभिधानत्वादित्याद्युक्तं स्यात् ।
न चास्यास्मान्प्रति व्याप्तिः शक्याभिधाना ।
किञ्चास्मिन्पक्षे ऽध्यासलक्षणानुपपत्तिश्च भवता न परिहरणीया ।
तस्या व्यवहारनिर्वाहाविरोधात् ।
पारमार्थिकतानिषेधौपयिकत्वेनेष्यसाधनत्वाच्च ।
एतेनातिव्याप्त्यादिदोषो ऽपि नापरमार्थ(पारमार्थिक)ता साधकः ।
अलक्षणतासाधकस्तु स्यात् ।
न द्वितीयः ।
अनुपपद्यमानलक्षणत्वेन लक्ष्यमिथ्यात्वसाधने ब्रह्मणि व्यभिचारात् ।
उक्ताया लक्षणानुपपत्तेस्तल्लक्षणे ऽपि साम्यात् ।
५,१७१
किञ्चाध्यासलक्षणमुपपन्नं न वा ।
आद्ये सपक्षाप्रवेशः साधनस्य ।
द्वितीये तदनुपपत्तिनिरासायासो व्यर्थः स्यादित्यास्तां विस्तरः ।
५,१७२
अर्थं नातिवर्तत इति यथार्थं, तस्य भावो याथार्थ्यं, तदेव मानत्वं मानशब्दप्रवृत्तिनिमित्तं मालक्षणमिति यावत् यद्यपि सास्नादिमान्गौरितिवद्यथार्थं
प्रमाणमित्युक्ते ऽपि भवत्येव लक्ष्यलक्षणभावप्रतीतिः ।
तथापि तद्वदेव लक्ष्यं लक्षणातिरिक्तं शङ्कयेत ।
ततश्च पृथङ्निरूप्यमपि स्यात्तन्मा शङ्कीति याथार्थ्यमेव मानत्वं न तु सास्नादिमत्त्वाद्गोत्वमिव ततो ऽतिरिक्तमित्युक्तम् ।
५,१७४
ननु किमिदं लक्षणं नाम ।
लक्ष्यस्यासाधारणो धर्मः ।
यावस्त्वेकः शब्दो निवेशयितुमिष्यः, यावन्ति चेतरस्माद्वयावर्तनीयानि तान्युच्यन्ते लक्ष्याणीति ।
५,१७५
नन्वसाधार(णो)णधर्मश्चेल्लक्षणमव्यापकस्यापि तदा लक्षणतापत्तिः ।
अतिव्याप्त्यसम्भवाविव अव्याप्तिरपि हि लक्षणदोषः ।
उच्यते ।
लिङ्गतया हि लक्षणमुपयुज्यते ।
नच व्यापकता लिङ्गत्वोपयोगिनी ।
व्याप्यत्वेनैव तदुपपत्तेः ।
इतरथा धूमादीनामलिङ्गतापातात् ।
किन्नाम पक्षीकृतदृष्टान्तीकृतव्यापकतात्वपेक्षितैव ।
उपायत्वेनोपन्यस्तस्याभावे तदुपेयप्राप्तेरसम्भवात् ।
उभयधर्मभूताया व्याप्तेरन्यतराभावे दर्शयितुमशक्यत्वात् ।
तथाच तदानीं लिलक्षयिषितमात्रव्याप्तित्वं लक्षणस्यापेक्षितम् ।
तच्च लक्ष्यस्य धर्म इत्युक्तमेव ।
अव्यापकत्व(धर्म)स्य लक्षणदोषतावादस्तु सर्वस्यापि लिलक्षयिषितत्वे द्रष्टव्यः ।
५,१७८
यद्वान्यत्र लक्षणान्तराभावनिश्चयनिमित्ता तदुक्तिः ।
वस्तुतस्त्वेकमिवानेकमपि स्वस्वाश्रये व्यावृत्त्यादिकं कुर्वद्भवत्येव लक्षणम् ।
अत एव कणादः क्रियावद्गुणवत्समवायिकारणमिति क्रियावत्त्वमपि द्रव्यलक्षणत्वेनाह ।
क्रियावद्ग्रहणमन्यार्थमिति चेत् ।
तत्किमव्यापकस्य लक्षणतानुपपत्तेरन्यथाव्याख्यानमुत निमित्तान्तरात् ।
नान्त्यः ।
तददर्शनात् ।
न प्रथमः ।
अनुपपत्तेरपाकृतत्वात् ।
५,१८१
ननु (च) अत्र पृथिव्यादीनि नवापि पक्षीकृत्यैतानि द्रव्याणि क्रियावत्त्वादिति प्रयोक्तव्यम्, क्रियावन्त्येव वा मूर्तानि ।
नाद्यः भागासिद्धेः ।
न द्वितीयः ।
अनध्यवसितत्वात् ।
तत्कथं नानुपपत्तिः ।
मैवम् ।
कैश्चिदनध्यवसितस्य दोषतानङ्गीकारात् ।
येषां च स दोषस्तेषामप्युपदेशादिना घटादेर्द्रव्यत्वनिश्चये सति तदितरमूर्तपक्षीकारेण द्रव्यत्वसाधने कीदृशो दोषः स्यादित्यलम् ।
५,१८२
केचिद्वादिनो विज्ञानस्य प्रामाण्यमास्थिषत ।
अपरे तु तत्कारणस्य ।
तत् किमत्र तत्त्वम् ।
द्वयमपीति ब्रूमः ।
प्रमितिः प्रमाणम्, प्रमीयते ऽनेनेति प्रमाणमिति भावकरणयोः प्रमाणशब्दस्य सामर्थ्यात् ।
यद्यपि ल्युट् भावकारणयोरिवाधिकरणे ऽपि स्मर्यते ।
तथापि प्रमाणशब्दस्याभिधानाभावान्न तत्र वृत्तिः ।
कृत्तद्धितसमासानामभिधानाधीनत्वात् ।
नन्वस्ति विप्राः प्रमाणमित्यधिकरणे ऽपि प्रयोगः ।
मैवम् ।
विप्राणां प्रमायां (प्रमां प्रति) स्वातन्त्र्येण कर्तॄणामधिकरणत्वाभावात् ।
नहि क्रियाधारो ऽधिकरणम् ।
किन्नाम कर्तृकर्मणोः क्रियाश्रययोर्धारणक्रियां प्रति य आधारस्तत्कारकम् ।
तस्मात्तदीयविज्ञानस्य वाक्यस्य वा प्रामाण्याद्विप्राः प्रमाणमित्युपचर्यते ।
यदि तर्हि विज्ञानं तत्कारणं च प्रमाणं द्वयमपि ।
तत्रोभयत्र याथार्थ्यापरपर्यायं प्रामाण्यं किमेकप्रकारं वर्तते, उतानेकप्रकारम् ।
आद्ये विज्ञानं केवलप्रमाणं प्रत्यक्षानुमानागमलक्षणं तत्कारणमनुप्रमाणमिति सिद्धान्तविरोधापातः ।
द्वितीये लक्षणस्यानुपपत्तिः ।
प्रकारद्वयस्यान्योन्यस्मिन्नवर्तनेनाव्याप्तत्वादित्यत आहतदिति ।
… तन्मुख्यं ज्ञानशब्दयोः । मनुव्_२,१.२१ब् ।
न्यायसुधा-
करणभूतयोः प्रत्यक्षानुमानयोस्त्वमुख्यमिति शेषः ।
एतच्च (स्पष्टी)स्फुटीकरिष्यते ।
५,१८५
स्यादेतत् ।
यदि याथार्थ्यं प्रमाणलक्षणं स्यात् ।
नच तत्सम्भवत्यतिव्याप्तेः ।
तथाहि ।
योग्यता, वीप्सा, पदार्थानतिवृत्तिः, सादृश्यं चेति यताशब्दार्थाः ।
अर्थशब्दश्चाभिधेयधनवस्तुप्रयोजननिवृत्तिषु वर्तते ।
तत्र सादृश्यार्थस्य यथाशब्दस्य तावदत्र न परिग्रहः ।
‘यथासादृश्ये’ इत्यव्ययीभावविधाने विशेषणात् ।
समासान्तरस्य च असामर्थ्यादिप्रतिहतत्वात् ।
अत एव यथार्थानुभवः प्रमेत्यत्र किं याथार्थ्यमर्थसादृश्यमित्यादिः कस्यचित्प्रश्चो ऽनुपपन्नः ।
नापि योग्यतावीप्सार्थस्य ।
वाक्यशेषा(दोषा)भावेनार्थयोग्यताया (अर्थानां) अर्थवीप्साया वा प्रामाण्यापत्तेः ।
तस्मात्पदार्थाननिवृत्त्यर्थस्येदं ग्रहणम् ।
अर्थशब्दस्याभिधेयवाचिनो ग्रहणे अव्याप्तिप्रसङ्गात् विषयापरपर्यायवस्वचनस्यैव ग्रहणम् ।
तथा चार्थं विषयं नातिवर्तते न व्यभिचरति यत्तत्प्रमाणमित्युक्तं स्यात् ।
एतच्च सकर्मकक्रियामात्रे ऽस्ति ।
नहि गमनं गम्यमतिवर्तते, नापि छिदा छेद्यम् ।
यदेव(हि) गत्यादिना प्राप्यं तदेव गम्यादि ।
ततो नेदं लक्षणमित्यत आहअर्थत्वमिति ।
अर्थत्वमर्यतैव स्यान् … । मनुव्_२,१.२१च् ।
५,१८६
न्यायसुधा-
अर्थतैव ज्ञेयतैवार्थत्वमर्थशब्दप्रवृत्तिनिमित्तमस्माकं विवक्षि(ता)तं स्यात् ।
नतु विषयत्वमित्यर्थः ।
एतदुक्तं भवति ।
यथाशब्दस्य पदार्थानतिवृत्तिवाचित्वमङ्गीकृतमेव ।
अर्थशब्दस्तु न विषयपर्यायो गृह्यते ।
किन्तु ज्ञेयवाची ।
यद्यपि न तत्र तस्य रूढिस्तथाप्यर्यत(इत्यर्थ)इति व्युत्पत्या तद्वाचितास्त्येव ।
अर्तेरौणादिकस्य थन्प्रत्ययस्य प्रसिद्धत्वात् ।
गत्यर्थानां च ज्ञानार्थत्वादिति ।
नन्वर्थतेति कथम् ।
‘अर्यः स्वामिवैश्ययोः’ इति विशेषणात् ।
मैवम् ।
स्वामित्वोपचारात् ।
अर्थो हि ज्ञानाद्यपेक्षया प्रधानं विवक्ष्यते ।
५,१९५
किमतो यद्येवं ज्ञेयतैवार्थत्वमित्यत आहनेति ।
… न क्रियार्थेषु सा मता । मनुव्_२,१.२१द् ।
न्यायसुधा-
क्रियार्थेषु क्रियाविषयेषु सा अर्यता ।
तदभावाच्च न यथार्थता ।
क्रियास्विति नातिव्यापकं प्रमारलक्षणमिति शेषः ।
नन्वेतावतापि नातिव्याप्तिपरिहारः ।
गमनादीनामपि ज्ञेयानतिवृत्तित्वात् ।
नहि तद्विषयो ग्रामादिः सर्वथा न ज्ञेय इति शक्यते वक्तुम् ।
तदत्यन्ताभावप्रसङ्गादिति ।
मैवम् ।
यथा हि पितरि साधुर्मातरि साधुरितिवाक्यं यत्किञ्चित्पित्रादौ साधुत्वेन न पर्यवस्यति, किन्तु स्वीये पित्रादौ ।
तत्कस्य हेतोः ।
पित्रादिशब्दानां सम्बन्धिशब्दत्वात् ।
सम्बन्धिशब्दानां ह्येष महिमा ।
अन्यथा पितुर्धनमुपादद्यादित्यादौ बहुविप्लवः स्यात् ।
सति चैवं शब्दमहिमानमनादृत्य प्रत्यवतिष्ठमानः छलवादितया जीयेत ।
तथा प्रकृते ऽपि ज्ञेयशब्दस्य सम्बन्धिशब्दत्वात्स्वज्ञेयं नातिवर्तते यत् तत्प्रमाणमित्युक्तं स्यात् ।
नच गम(ने)नोपाधिना गमनेन वा निमित्तेन ग्रामो ज्ञेयः ।
येन तमनतिक्रम्य वर्तमानं गमनं यथार्थं स्यात् ।
किन्तु गम्य एव ।
तत्कथमतिव्याप्तिः ।
भवति च घटादिर्ज्ञानतत्कारणाभ्यामुपाधिनिमित्ताभ्यां ज्ञेय इति ।
तदिदमुक्तं क्रियार्थेषु सा न मता शब्दार्थतत्त्वविदुषामिति ।
ननु तथाप्यन्योन्याश्रयत्वमात्माश्रयत्वं वा, स्वशब्देन प्रमाणस्याभिधानादिति चेन्न ।
ज्ञानतत्कारणमात्रोपादनेन लक्षणस्य व्याख्यातत्वात् ।
स्वगुण(ग्राहक)ग्रहणमिन्द्रियं श्रोत्रमित्यत्र यथेति ।
५,१९८
ननु किमिदं प्रमाणस्य ज्ञेयाव्यभिचारित्वं नाम ।
किं प्रमेयव्याप्यत्वं किं वा यावत्प्रमेयगोचरत्वम् ।
आद्ये ऽपि व्याप्तिः किं देशतः किंवा कालतः ।
न प्रथमः ।
प्रमाणासमानदेशार्थविषयप्रमाणेष्वव्याप्तेः ।
न द्वितीयः ।
अतीतादिविषयप्रमाणाव्याप्तेः ।
नान्त्यः ।
असर्वज्ञज्ञानानां तत्कारणानां वाप्रामाण्यप्रसङ्गादिति ।
मैवम् ।
अद्वैतागमादेस्तत्त्वावेदकत्वलक्षणं प्रामाण्यमभ्युपगच्छता परेणा(पि) तस्या)प्यस्यार्थस्य निर्वक्तव्यत्वात् ।
परेणाङ्गीकृतमुपादायास्माभिर्व्यवह्रियते न तु किमपि लक्षणं व्यवस्थाप्यत इति चेन्न ।
स्वप्रतिपत्ताववश्याश्रयणीयत्वाद्वयवस्थायाः ।
नहि स्वप्रकाशं तत्त्वमित्येतावता विना वेदान्ताधिगमं तदधिगमः शक्यो ऽङ्गीकर्तुम् ।
अथावेदितस्य सत्त्वं तत्त्वावेदकत्वमिति निर्ब्रूयात्तदा विभ्रमे ऽतिव्याप्तिः स्यात् ।
तत्राप्यावेदितस्येदमाकारस्य सत्त्वात् ।
अथ यावदावेदितस्य सत्त्वं तत्त्वावेदकत्वं सदेकगोचरत्वमिति यावदिति वदेत्, तदेवास्माकमपि याथार्थ्यमिति वदामः ।
५,२०२
नन्वेवमपि भ्रमे ऽतिव्याप्तिः ।
न हीदमंशो वा रजतत्वादिजातिर्वा तत्सम्बन्धः समवायो वा तत्तादात्म्यं वा न सत् ।
अन्यत्र सत्त्वे ऽप्यत्रासदिति चेत् ।
नहि देवदत्तो गृहे ऽसन्नित्यसन्नेव ।
नचायमस्त्यस्माकं प्रसङ्गः ।
अधिष्ठानेतरस्य सर्वस्यानिर्वचनीयतयाङ्गीकारादिति ।
मैवम् ।
अस्माभिरपि तस्यात्यन्तासत्त्वस्वीकारात् ।
५,२०५
अथ मतं किं विषयसत्त्वं तदानीमभिमतमुत पूर्वमथ पश्चाद्यद्वा सर्वदाथवा यदाकदाचिद्यदि वा यद्यद्देशकालयोर्यथाप्रतीतं तस्य
तद्देशकालयोस्तथात्वेन ।
नाद्यः ।
अतीतानागतविषयप्रमाणाव्यापनात् ।
न द्वितीयः ।
वर्तमानानागतविषयाव्याप्तेः ।
पाकरक्ते ऽपि घटे नीलप्रतीतौ विभागोत्तरकालं संयुक्तप्रत्यये वातिव्याप्तेश्च ।
न तृतीयः ।
अतीतादिविषयाव्याप्तेः ।
भाविपाकजरागे कुम्भे श्यामे ऽपि रक्तपित्तिना रक्तताप्रतिभासे ऽतिव्याप्तेश्च ।
न चतुर्थः ।
अनित्यविषयाव्याप्तेः ।
न पञ्चमः ।
पूर्वोक्तविभ्रमे ऽतिव्याप्तेः ।
नापि षष्ठः ।
देशकालप्रमाणाव्याप्तेः ।
नहि देशकालयोर्देशकालान्तरमस्तीति ।
मैवम् ।
देशकालयोरपि स्वसम्बन्धेन निरूपणस्य वक्ष्यमाणत्वात् ।
यद्वा यद्यथाभूतं प्रतीतं तस्य तथाभूतस्य सत्त्वमित्युक्त एव नातिप्रसङ्गः ।
देशकालयोरपि विशेषणान्तरवत् यथाभूतमित्यनेनैव गृहीतत्वात् ।
विशेषानुक्तेरुक्तदोषा(प्राप्ते)प्रसक्तेश्च ।
५,२०८
तथात्रप निश्चायकाभावेनासम्भवीदं लक्षणम् ।
तथाहि ।
ज्ञानयाथार्थ्यं किमदुष्यकरणजन्यत्वेनावधारणीयम्, उत दुष्यकरणाजन्यत्वेन, अथ प्रवृत्तिसामर्थ्येन, यद्वा ज्ञानान्तरसंवादेन, किंवा
विसंवादाभावेन ।
नाद्यः ।
तस्यापि दुरवधारणत्वात् ।
ज्ञानयाथार्थ्येन तदनुमाने चेतरेतराश्रयत्वापत्तेः ।
नित्यज्ञानेषु तदभावाच्च ।
न द्वितीयः ।
अशक्यावधारणत्वात् ।
न तृतीयः ।
सर्वत्र तदभावात् ।
न चतुर्थः ।
सुखादिज्ञाने तदभावात् ।
ज्ञानमात्रसंवादाङ्गीकारे च धारावाहिकविभ्रमे(ऽपि) तद्ग्रहापत्तिः ।
यथार्थज्ञानसंवादाभ्युपगमे तु तत्तद्याथार्थ्यावधारणेनानवस्था ।
न पञ्चमः ।
असञ्जातबाधभ्रमेष्वपि तदापातात् ।
पुरुषदेशकालविकल्पानुपपत्तेश्चेति ।
मैवम् ।
तथा सति वेदान्तजनितविज्ञानस्यापि याथार्थ्यानवधारणप्रसङ्गात् ।
विषयसत्यत्वात्तदवधारणमिति चेत्तदेव कथम् ।
ज्ञानसामर्थ्यादिति चेत् ।
किं ज्ञानमात्रस्य सामर्थ्यमुत यथार्थतया निश्चितस्य ।
आद्ये शुक्तिरजतादेरपि सत्यतापत्तिः ।
द्वितीये(ऽपि) किमेतस्यैव ज्ञानस्योत ज्ञानान्तरस्य ।
न प्रथमः ।
परस्पराश्रयप्रसङ्गात् ।
न द्वितीयः ।
अनवस्थाद्यापातात् ।
५,२१२
अथ मन्येत स्वत एव विज्ञानानां प्रामाण्यग्रहः बाधेन क्वचिदपोद्यते ।
नच ब्रह्मज्ञानस्य बाधः सम्भवति ।
यथाशक्ति परीक्षायामपि तददर्शनात् ।
निर्मूलशङ्कायाश्च अनुदयात् ।
निरवधिकस्य निस्साक्षिकस्य बाधस्यादर्शनात् ।
अवध्यादिस्वीकारे च तस्यैव ब्रह्मत्वेन बाधितुमशक्यत्वादिति ।
तदेतत्समानमस्मन्मते ऽपि ।
विवृतश्चायमर्थस्तत्र तत्रेत्युपपन्नं याथार्थ्यस्य प्रमाणलक्षणत्वमिति ।
तन्मुख्यं ज्ञानशब्दयोरिति न युक्तम् ।
तथा सति ज्ञानवच्छब्दस्यापि केवलत्वापत्तेः ।
इत्याशङ्कां सोपपत्तिकं परिहरतिज्ञानार्थ इति ।
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् । मनुव्_२,१.२२अब् ।
न्यायसुधा-
यस्माज्ज्ञानार्थे ज्ञानविषये ज्ञेयता मुख्या शब्दार्थे शब्दविषये तदनन्तरं ज्ञेयतामुख्येति यावत् ।
तस्माज्ज्ञान एव याथार्थ्यलक्षणं प्रामाण्यं मुख्यं, शब्दे त्वमुख्यम् ।
तथाच न तस्य केवलत्वापत्तिरित्यर्थः ।
ज्ञानार्थेष्वर्यता मुख्येति प्रकृतत्वाद्वक्तव्ये ऽर्यतापि गतिकर्मसु विद्यत इति गतावतिव्याप्तिस्तदवस्थेत्याशङ्कानिरासाय ज्ञेयतेत्यर्यताव्याख्यानं
कृतम् ।
इदमुक्तं भवति ।
न ज्ञानसमकक्षतया शब्दे याथार्थ्यं मुख्यम् ।
किन्तु करण(मात्रा)त्रयापेक्षया ।
ज्ञान एव मुख्यं याथार्थ्यं करणेष्वपि निर्धारणायां शब्दे मुख्यम् ।
तदेते परममुख्यमुख्ये एकीकृत्य तन्मुख्यं ज्ञानशब्दयोरित्युक्तमिति ।
५,२१५
यद्वा तन्मुख्यं ज्ञानशब्दयोरित्यत्रैवायमर्थो व्याख्यातव्यः ।
तथाहि ।
तद्याथार्थ्ये ज्ञाने मुख्यं करणेषु त्वमुख्यम् ।
करणेष्वपि किमेकप्रकारमनेकप्रकारं वेति जिज्ञासायां शब्दे मुख्यं प्रत्यक्षानुमानयोरमुख्यमित्युक्तम् ।
अत्र च शब्दशब्दने वेदमेवाधिकुरुते भगवान्मुनिः ।
तन्मुख्यताकथनस्यैव मीमांसोपयोगित्वात् ।
अन्यथा व्यर्थाया जिज्ञासायास्तत्परिहारस्य चासङ्गतिप्रसङ्गात् ।
यद्यपि ज्ञान(शब्द)शब्दौ द्वन्द्वनिर्दिष्यौ तथापि करणेष्वमुख्यमित्यत आहज्ञानार्थ इति ।
शब्द इत्युपलक्षणम् ।
प्रत्यक्षानुमानयोरपीति द्रष्टव्यम् ।
व्याख्यानं तु पूर्ववत् ।
शब्दस्य स्वशब्देनोपादानं (तु) पूर्वत्र ज्ञानसमकक्षतया प्रतीतिं वारयितुमिति ।
५,२१६
ज्ञाने मुख्यं याथार्थ्यं करणेष्वमुख्यम् ।
तत्रापि शब्दे मुख्यमित्युक्तम् ।
तत्र ज्ञानकरणयोर्याथार्थ्यस्य मुख्यत्वामुख्यत्वोपपादनाय तद्विषययोर्ज्ञेयताया(यां) मुख्यामुख्यत्वे हेतुतयोक्ते ।
तदुपपादनार्थमाहयथार्थेति ।
५,२१७
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः । मनुव्_२,१.२२च्द् ।
न्यायसुधा-
सोपस्कराणि वाक्यानि भवन्ति ।
तेन ज्ञानं साक्षाद्यथार्थमित्यादौ पठितव्यम् ।
बहुवचनमाद्यर्थे ।
युक्त्यादय इत्यर्थः ।
तेन जनका इत्युपपन्नम् ।
अव्ययीभावस्य क्लीबाव्ययत्वं छन्दस्तुल्यत्वेनानाश्रित्य यथार्था इत्युक्तम्, कथञ्चिद्बहुव्रीहितामाश्रित्य वा, यद्वा भावप्रधानाद्यथाथर्शब्दान्मत्वर्थे
ऽर्श आदित्वादच याथार्थ्योपेता इत्यर्थः ।
तदयमर्थः ।
ज्ञानमेव हि विषयस्य ज्ञेयस्य ज्ञेयतायां साक्षादुपाधिर्भवति ।
ज्ञातताया निराकरिष्यमाणत्वात् ।
अतस्तद्विषयस्य (एव)ज्ञेयत्वं मुख्यमिति ज्ञानस्यैव मुख्यतो याथार्थ्यम् ।
युक्त्यादिकरणानि तु विषयस्य ज्ञेयतायामुपाधिभूतं ज्ञानं जनयन्तीति तद्विषयस्य ज्ञेयत्वममुख्यम् ।
तत एव तेषां याथार्थ्यमप्यमुख्यमिति ।
५,२२४
अत्र’यथार्थज्ञानजनका यथार्थाः’ इत्युक्तिस्तु परमसाध्यमपि सूचयितुम् ।
युक्तेरमुख्यतायामादित्वेन ग्रहणं त्रिष्वप्यपकर्षसूचनार्थम् ।
आगमयुक्त्योरुत्कर्षापकर्षौ तत्रतत्र समर्थिताविति नेहोक्तम् ।
५,२२५
किमतो यद्येवं ज्ञानस्य याथार्थ्यं मुख्यं प्रत्यक्षादिकरणानां चामुख्यमित्यत आहअनुप्रमाणमिति ।
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः । मनुव्_२,१.२३अब् ।
५,२२५फ़्.
न्यायसुधा-
अत्रापि ज्ञानं केवलप्रमाणमिति प्रथमं पठितव्यम् ।
हि यस्मादेवमत इति सम्बन्धः ।
अनुप्रमाणमित्येकवचनं बहुवचनार्थे ।
सुपां सुलुगिति स्मरणात् ।
अथवाक्षयुक्तवचांसीति द्वन्द्वनिर्दिष्यानामपि बुद्धया विवेकेन प्रत्येकमनुप्रमाणमिति सम्बन्धः ।
यद्वानुप्रमाणानुवादेन अक्षादित्वकथनमत्रेति न दोषः ।
अवान्तरव्यापारमविवक्षित्वा करणधर्मिण एव विवक्षया(क्षेत्यु)क्षमित्युक्तम् ।
अन्यथा प्रत्यक्षमिति वक्तव्यम् ।
वच इत्यागमोपलक्षणम् ।
५,२२७
नचैवमप्यव्याप्तिर्लक्षणस्येति वाच्यम् ।
ज्ञानमेव यथार्थं करणानि तु तज्जनकतया तथोपचर्यन्त इत्यङ्गीकारे हि सा स्यात् ।
न चैवम् ।
यथावस्थितार्थविषयित्वस्योभयत्रापि साम्यात् ।
ज्ञानविषय एव हि करणानां विषयः ।
नहि कमप्यविषयीकुर्वन्त्येव तानि ज्ञानं जनयन्ति ।
नाप्यन्यविषयाणि ।
अतिप्रसङ्गात् ।
केवलं विषयस्य ज्ञेयतां ज्ञानमुपाधितया करणानि तु तज्जनकतया सम्पादयन्तीत्येतावन्तं विशेषमाश्रित्य केवलानुप्रमाणभेदः समथिर्तः ।
यदि चैतावताप्यव्याप्तिदोषस्तदा सर्वत्रापि यत्किञ्चिद्वैलक्षण्यस्य वक्तुं शक्यत्वादतिप्रसङ्गः स्यादिति ।
५,२२९
अयमत्र समुदायार्थः ।
यथार्थं प्रमाणम् ।
तद् द्विविधम् ।
केवलमनुप्रमाणं च ।
तत्र यथार्थज्ञानं केवलम् ।
तत्साधनमनुप्रमाणम् ।
केवलमपि द्विविधम् ।
चैतन्यं वृत्तिरूपं चेति ।
चैतन्यमपि त्रिविधम् ।
उत्तममध्यमाधमभेदात् ।
तत्रोत्तमं यथार्थमेव ।
मध्यमं मिश्रम् ।
अधममयथार्थमेवे ।
द्वितीयमपि केवलं प्रत्यक्षानुमानागमजभेदात्त्रिविधमेवेति ।
अनुप्रमाणमपि प्रत्यक्षानुमानागमभेदात्त्रिविधमेवेति ।
५,२३०फ़्.
ननु तथापि काकतालीये ऽतिव्याप्तिरपरिहार्या ।
तथाहि ।
पाणौ पञ्च वराटकान्पिधाय कश्चित्कञ्चित्पृच्छति मम करे कति वराटका इति ।
सच पृष्टो ऽजाकृपाणीयन्यायेनाहपञ्चेति ।
तदेतत्प्रष्टुर्वक्तुश्च ज्ञानं यथार्थमिति प्रमाणं प्रसज्यते ।
नच निस्साधनं तदुत्पन्नमिति तत्साधनस्यापि प्रमाणत्वापातः ।
यादृच्छिकसंवादिलिङ्गविभ्रमादिष्वप्येवं प्रसङ्गो दुर्वार इति ।
मैवम् ।
वक्तुर्ज्ञानस्य संशयत्वेनाप्रसङ्गात् ।
तत्र(च)पाक्षिकव्यवहारस्तु वैयात्यनिबन्धनः ।
न स्वज्ञाननिबन्धनः ।
अन्यथा विप्रलम्भकस्यापि तादृशनिश्चयापत्तौ विपर्यस्ताविशेषप्रसङ्गात् ।
एतेनाहार्यनिश्चयकल्पनमप्यपास्तम् ।
प्रष्टुस्तु प्रागूर्ध्वं च ज्ञानं (यथार्थ)प्रमाणमेव ।
तन्मूलं च प्रत्यक्षम् ।
वाक्यजनितमपि पार्श्वस्थादेर्विज्ञानमेवमेव ।
वाक्यं तु यादृच्छिकसंवादि ।
यादृच्छिकसंवादिलिङ्गविभ्रमवाक्याभासजन्यस्य केवलप्रमाणत्वे ऽपि न तयोः प्रामाण्यम् ।
तथाहि ।
न तावत्तत्र बाष्पस्य बाष्पतया (वि)ज्ञातस्य वा यथार्थज्ञानसाधनत्वं वक्तुं शक्यम् ।
नापि धूमस्य असतः साधनत्वायोगात् ।
सत्त्वे ऽप्यपरामृष्टत्वात् ।
ततो धूमत्वेन ज्ञातस्य बाष्पस्य बाष्पविषयस्य धूमविभ्रमस्य वेति वक्तव्यं, नच तत्सम्भवति ।
तज्जातीयस्य सर्वत्र कार्यो(करणिकाक्रियो)(कारणकार्यो)त्पत्तिरापन्नेति चेन्न ।
लिङ्गविभ्रमस्य लौकिककार(कर)णत्वे ऽपि पारिभाषिकसाधनत्वाभावस्योक्तत्वात् ।
वाक्याभासस्यापि प्रामाण्यप्रसङ्गो ऽनेन निरस्तः ।
तस्य प्रामाण्यप्रसङ्गे ऽपि न काचिदस्माकं क्षतिः ।
नहि तार्किकाणामिवास्माकमाप्तोक्ततया प्रामाण्यानुमानादिकमस्ति ।
५,२३८
यद्वा निर्दोषतया साधनं विशिष्टते ।
निर्दोषता च लिङ्गज्ञानादेर्यथार्थत्वादिलक्षणा व्याख्येया ।
तथात्वे निर्दोषं ज्ञानसाधनमनुप्रमाणमित्येवास्तु ।
कृतं यथार्थेति ज्ञानविशेषणेनेति चेत्(न) ।
तत्फलितार्थस्यैव निर्दोषग्रहणेन वर्णितत्वात् ।
निर्दोषकरणजं ज्ञानं याथार्थ्यं न व्यभिचरतीति स्वरूपकथनं वा तदिति ।
५,२४०
ननु दर्शनान्तरोक्ते लक्षणे सति किमपूर्वनिर्माणेनेत्यत आहप्रामाण्यमिति ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते । मनुव्_२,१.२३च्द् ।
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद् विवक्षितः । मनुव्_२,१.२४अब् ।
न्यायसुधा-
यद्यदा याथार्थ्यमेव प्रामाण्यशब्दार्थो विवक्षितो भवति तदैव यथार्थयोः स्मृत्यनुवादयोः प्रामाण्यं न हीयते ।
दर्शनान्तरोक्तलक्षणकक्षीकारे तु तैः स्वलक्षणस्य व्यापकतया अङ्गीकृतत्वात् ।
स्मृत्यादौ तदभावात्प्रामाण्याभाव एव प्रसज्यत इति युक्तं तदनादरेण लक्षणान्तरनिर्माणमिति ।
५,२४०फ़्.
तथाहि अनधिगतार्थगन्तृ प्रमाणमिति मीमांसकोक्तस्य लक्षणस्य स्मृत्यादावभावः स्फुटः ।
तस्याधिगतगोचरत्वात् ।
अनुभूतिः प्रमाणमिति प्राभाकरो(भास्करो)क्तं लक्षणमपि न तत्रास्ति ।
स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरिति निर्वचनात् ।
तथा प्रमाव्याप्तं प्रमाणं प्रमाकरणं प्रमाणमिति नैयायिकोक्तमपि ।
तैरपि यथार्थानुभवः प्रमेति व्याख्यातत्वात् ।
अत एव प्रमासामग्री प्रमारमिति निरस्तम् ।
अविसंवादिविज्ञानं प्रमाणमिति सौगतोक्तमपि ।
तदभिप्रेतस्यार्थजत्वादेरविसंवादस्याभावात्स्मृत्यादेरव्यापकम् ।
स्वापूर्वार्थव्यवसायात्मकं ज्ञानं प्रमाणमिति जैनोक्तमपि न स्मृत्यादौ वर्तते ।
तस्यापूर्वार्थविषयत्वाभावात् ।
ननु स्मृतिरपूर्वार्थविषया ।
तदित्युल्लेखात् ।
तस्य चानुभवेनाविषयीकरणादिति चेत्(न ।
तथा सत्यपूर्वग्रहणस्य व्यवच्छेद्याभावप्रसङ्गात् ।
धारावाहिकं तद्वयवच्छेद्यमिति चेन्न ।
अनेकान्त(ता)वादे पदार्थानां क्षणिकत्वस्याङ्गीकृतत्वेन धारावाहिके(कविभ्रमे)ऽप्येवमपूर्वार्थताभ्युपगमसौलभ्यात् ।
मा भूद्वात्र स्मृतिप्रामाण्यहानिर्दोषः ।
धारावाहिके तु तद्धानिरवर्जनीया ।
तदपि स्मृत्यनुवादपदाभ्यामुपलक्ष्यत इति ।
५,२४५
ननु भवत्पक्षे ऽपि स्मृतेः प्रामाण्यं हीयत एव ।
तस्या याथार्थ्याभावात् ।
नहि यादृशो ऽर्थः स्मर्यते यदा, तादृश एवासौ तदा ।
पूर्वावस्थाया वर्तमाने निवृत्तत्वात् ।
अनिवृत्तौ हि पूर्वतैव न स्यात् ।
नच निवृत्तपूर्वावस्थतयैव तमर्थं स्मृतिरालम्बते ।
पूर्वावस्थानिवृत्तावनुभवाप्रवृत्तेः ।
ननु समानविषयत्वे ऽपि स्मृत्यनुभवयेरनुभवो यथार्थो न तु स्मृतिरिति कुत एतत्नुभवकाले तस्यार्थस्य तादवस्थ्यात् ।
स्मृतिकाले त्वतादवस्थ्यात् ।
ननु पूर्वं तावत्तदवस्थ एवासावसीदेतावतैव ज्ञानमस्तु यथार्थम् ।
न ।
पाकरक्ते ऽपि श्यामताप्रत्ययस्य यथार्थत्वप्रसङ्गात् ।
नन्वतीतश्यामताप्रत्ययस्तत्र यथार्थ एव ।
सत्यम् ।
तद्विषयस्य तदानीमेव तदवस्थात्वम् ।
नतु स्मर्यमाणावस्थस्तदानीं तदवस्थः ।
तस्मात्स्मृतिरयथार्थैव ।
मैवम् ।
अपसिद्धान्तापातात् ।
तथाहि ।
उपलब्धिहेतुः प्रमाणमित्यत्र संशयादावतिव्याप्तिमाशङ्कय प्रकृतयाथार्थ्येनोपलब्धिर्विशेषिता ।
तस्यापि स्मृतिहेतावतिव्याप्तिमाशङ्कयोपलब्धिशब्दो ऽनुभववचनो न ज्ञानसामान्यवचन इत्युक्तं वाचस्पतिना ।
तेन ज्ञायते तेनाभ्युपगतं स्मृतेर्याथार्थ्यमिति ।
अन्यथा याथार्थ्येन स्मृतौ व्यावृत्तायां पुनर्न शङ्केत ।
शङ्कमानो वा तमेव परिहारमनतिदिशन्नुपलब्धिपदमनुभूतिपरतया न व्याकुर्यात् ।
यथार्थानुभवः प्रमा सम्यगनुभवसाधनं प्रमाणमित्यादीनि न्यायविदां वचनान्यपीममेवार्थमवगमयन्ति अन्यथा
द्वयङ्गविकलत्वात्स्मृतेरनुभवपदव्यावर्त्यता न स्यात् ।
काणादैरपि प्रत्यक्षलैङ्गिकस्मृत्यार्षभेदेन विद्याचातुर्विध्यमङ्गीकुर्वाणैर्यथार्थत्वं स्मृतेरङ्गीकृतम् ।
५,२४६
यदपि’नहि (यदा)यो यादृशः’ इत्यादि, तदनेन किमुक्तं भवति ।
स्मरणकाले ऽर्थस्य तदवस्थात्वाभावादयाथार्थ्यं स्मृतेरिति वा, पूर्वावस्थानिवृत्तेरविषयीकरणादिति वा, अनिवृत्तपूर्वावस्थत्वेन
विषयीकरणादिति वा ।
आद्ये ऽतीतानागतविषयानुमानागमप्रामाण्यप्रच्युतिः ।
अतीतादिविषयस्य तदानीमसत्त्वात् ।
द्वितीये सर्वप्रमाणाप्रामाण्यप्रसङ्गः ।
कस्यापि सर्वात्मना विषयीकरणाभावात् ।
तृतीये त्वसिद्धिः ।
न ह्यनिवृत्ततदवस्थो ऽसाविति स्मृतिरालम्बते ।
किन्तु तदासौ तादृश इति ।
तदवस्थानिवृत्त्यनिवृत्त्योस्तूदासीनैव ।
नन्वनुभवेन’तदा(ऽसौ) तादृशः’ इत्यविषयीकृतं तथा विषयीकुर्वाणाः कथं याथार्थ्यं लभन्त इति चेत् न ।
स्यादिदम् यद्यनुभवानुसारित्वं याथार्थ्यमिति वदामः ।
अर्थानुसारित्वं तु तथेत्युक्तम् ।
अनुभवे ऽन्याकारे कुतस्त्यो ऽयं स्मृतेरन्याकार इति चेत् ।
किमयं नास्तीत्यभिमानः, उत निर्हेतुक इति वा, यद्वा प्रश्नमात्रम् ।
नाद्यः ।
साक्षिसिद्धत्वात् ।
न द्वितीयः ।
व्याघातात् ।
तृतीये ऽनुभवस्यापि कुतस्त्यः ।
स्वहेतुसमासादित इति चेत्तुल्यम् ।
यदि च संस्कारमात्रजन्यता स्मृतेः स्यात् ।
(स्यात्त)तदा कथञ्चिद्वैसादृश्यानुपपत्तिः ।
मानसं तद्धि विज्ञानमिति वक्ष्यते ।
तस्माद्वैयात्यमात्रनिमित्तं स्मृतियाथाथ्यर्निराकरणम् ।
तथाच स्मृत्यनुवादप्रामाण्यसङ्ग्रहाय लक्षणान्तररचनमिति सूक्तम् ।
५,२५५
ननु च सङ्ग्राह्यस्य सङ्ग्रहो गुणो, न त्वसङ्ग्रह्यस्यापि ।
किन्नामातिव्याप्त्या दोष एव ।
नच स्मृत्यादि लक्षणसङ्ग्राह्यम् ।
प्रामाण्याभावादिति चेत् ।
तत्किं स्मृत्यादिप्रामाण्यं साधकप्रमाणाभावान्नाङ्गीकार्यम्, उत बाधकसद्भावात् ।
५,२५६
नाद्यः ।
लोकव्यवहारस्य सत्त्वात् ।
यथार्थज्ञानतत्साधने हि प्रमाणतया लोको व्यवहरति ।
नह्यस्ति प्रत्यक्षादिप्रामाण्यसाधकमन्यल्लोकव्यवहारात् ।
ननु प्रमाणाभियुक्तानां कणभुग(भक्षा)क्षपादादीनां तत्र (प्रामाण्य)प्रमाणव्यवहारो नास्तीति चेन्न ।
‘स्मृतिः प्रत्यक्षमैतिह्यम्’ इत्यादिश्रुति(स्मृति)सिद्धार्थमनङ्गीकुर्वतामाप्तत्वस्यासिद्धेः ।
स्मृतिः पौरुषेयो ग्रन्थ इति चेत् ।
किमत्रायमखण्डवृत्तिः शब्दः किंवा यौगिकः ।
नाद्यः ।
कृदन्ततायाः स्पष्टावभासत्वात् ।
न द्वितीयः ।
अव्याप्त्यतिव्याप्तिभ्यां योगानुपपत्तेः ।
तस्मान्मन्वादिस्मरणमूलत्वात्स्मृतिरित्युपचारो ग्राह्यः ।
ते हि श्रुत्यादिनानुभूतमर्थं स्मृत्वा तत्प्रतिपादकं ग्रन्थमारचयन्ति व्यासादिप्रणीतेषु तत्सादृश्यात्प्रयोगः ।
नच मुख्ये बाधकमन्तरेणोपचारो लभ्यते ।
सन्तु वाक्षचरणादयो(ऽप्या)ह्याप्ताः ।
तथापि तत्तद्वयवहाराभावमात्रेण स्मृत्यादिप्रामाण्यानभ्युपगमो ऽयुक्तः ।
नहि तैः प्रतिव्यक्ति पदार्था निरूपिताः ।
तथाप्युक्तलक्षणैः सङ्गृहीता इति चेत् ।
तुल्यं स्मृत्यादेरपि ।
प्रत्यक्षाद्यन्तर्भावस्य सुवचत्वात् ।
अपि च स्मृत्यादिकं प्रमाणपदवाच्यम् यथार्थत्वात् प्रत्यक्षवत् ।
न चानुभवत्वमुपाधिः ।
समव्याप्तिपक्षे संशयादौ व्याप्तिभङ्गात् ।
विषमव्याप्तित्वे(पक्षे)ऽपि करणरूपे प्रत्यक्षे साध्याव्यापकत्वात् ।
किञ्चेदमनुभवत्वं स्मृतिव्यतिरिक्तज्ञानत्वमिति चेत् ।
किमर्थमिदं विशेषणम् ।
पक्षव्यावृत्त्यर्थमिति चेत् ।
तर्हि पक्षेतरत्वेनानुपाधित्वम् ।
अन्यथेश्वरानुमाने ऽप्युपाधिरशक्यनिरासः स्यात् ।
एतेनानुभवतत्करणयोरन्यतरत्वमपि प्रत्युक्तम् ।
व्यास(११)
५,२६१
अस्तु तर्हि बाधकसद्भावादिति द्वितीय इत्यत आहअङ्गीकृतं चेदिति ।
अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरोधता । मनुव्_२,१.२४च्द् ।
न्यायसुधा-
स्मृत्यादेः प्रामाण्यमिति सम्बन्धः ।
किमाक्षेपे ।
तर्हीति शेषः ।
समृतिरनुवादश्चाप्रमाणम् निष्फलत्वात् ।
यद्यत्प्रमाणं तत्तत्सफलं दृष्टं यथा प्रत्यक्षादीति बाधकसद्भावात्कथमेतदिति चेत् ।
किमत्र सर्वा स्मृतिः सर्वो ऽप्यनुवादश्च (सवर्श्चानुवादः) पक्षीक्रियते, किंवा तदेकदेशः ।
आद्ये भागासिद्धिरित्याहन चेति ।
नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः । मनुव्_२,१.२५अब् ।
न्यायसुधा-
कासाञ्चित्स्मृतीनां केषाञ्चिदनुवादानां च सफलत्वोपलम्भादिति चार्थः ।
उपपादयिष्यते चैतत् ।
अप्रयोजकश्चायं हेतुरित्याहफलवत्त्वमिति ।
फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम् । मनुव्_२,१.२५च्द् ।
न्यायसुधा-
यदि हि फलवत्त्वं प्रामाण्यं प्रामाण्यस्य व्यापकमस्माभिः परीक्षकैर्विवक्षितं स्यात् ।
स्यान्नाम तदा व्यापकस्य तस्य निवृत्त्या स्मृत्यादेः प्रामाण्यनिवृत्तिः ।
न चैवमित्यर्थः ।
अयमभिसन्धिः ।
अप्रमाण(प्रामाण्य)व्यवहारे याथार्थ्याभाव एव प्रयोजकः, अप्रामाण्ये तु करणदोषबाधकप्रत्ययौ न निष्फलत्वमिति ।
एतेनाफलांशस्यैव पक्षीकरणमिति द्वितीयो ऽपि निरस्तः ।
५,३६३
करणदोषबाधकप्रत्ययाविव विफलत्वमप्यप्रामाण्यप्रयोजकं किन्न स्यादित्यत आहतृणादीति ।
तृणादिदर्शने किं च फलवत्त्वं निगद्यते । मनुव्_२,१.२६अब् ।
न्यायसुधा-
धर्मस्य धर्म्यधिकरणमिति सप्तमी ।
ग्रामं गच्छतः पथि परिततृणादिदर्शनस्य ।
उपलक्षणं चैतत् ।
स्व(क)कारणसामर्थ्यायातानुमितेश्चेत्यपि द्रष्टव्यम् ।
किमाक्षेपे ।
विफलत्वस्याप्रामाण्यप्रयोजकत्वे तृणादिदर्शनादेस्तथात्वेनाप्रामाण्यं स्यात् ।
न चैवम् ।
लोकव्यवहारविराधादित्याशयः ।
यद्वानैकान्तिकश्चायं हेतुरिति अनेनाचष्टे ।
प्रमाणतया सम्मते विपक्षभूते तृणादिदशर्ने किं फलवत्त्वं निगद्यते न किञ्चिद(किम)पीत्यफलत्वं तत्र गतमिति ।
५,२६३फ़्.
ननु कार्यजातं प्राणिनां धर्माधर्माभ्यामुपजायत इति तावदविवादम् ।
ततश्च धर्माधर्माभ्यामुजनिततृणादिदर्शनं स्वयमसुखदुःखात्मकं यदि सुखं दुःखं वा तत्साधनं वा न जनयेत् तदा धर्माधर्मयोर्वैयर्थ्यं
श्रुत्यादेरप्रामाण्यं वा(चा)पद्येत ।
ततश्च तृणादिदर्शनेनापि सुखदुःखादिकं किञ्चिदुपजनयितव्यमेव ।
अतः कथं तस्य विफलत्वमित्यत आहसुखेति ।
सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते । मनुव्_२,१.२६च्द् ।
न्यायसुधा-
अनेन न्यायेन सर्वस्या स्मृतेः सर्वस्य चानुवादस्य सफलत्वात्स्वरूपासिद्ध एव हेतुः स्यात् ।
भागासिद्धता तु स्पष्टफलोपलम्भा(भावा)भिप्रायेणोक्तेति भावः ।
इयांस्तु विशेषः ।
तृणादिदर्शनस्य फलं सर्वथा(प्य)व्यक्तम् नैवं स्मृत्यादेरित्युक्तं दृश्यते ऽपि हीति ।
अत्रानुवादो ऽपि ग्राह्यः ।
तथाहि ।
इष्यार्थस्मृतौ सुखं, तज्जातीये रागः, संस्कारपाटवं च ।
अनिष्यार्थस्मृतौ दुःखं, तज्जातीये द्वेषः, संस्कारपाटवं च ।
प्रशस्तार्थस्मरणे धर्मः, अप्रशस्तार्थस्मरणे त्वधर्मः ।
एवमनुवादे ऽपि द्रष्टव्यम् ।
अन्यथा प्रणिधानादिवैयथ्यर्प्रसङ्गात् ।
‘शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्’ इति वदताक्षपादेनाप्यनुवादस्य साफल्यमङ्गीकृतम् ।
निगमनस्य च प्रयोजनानि न्यायविद्भिरुपपादितानीति ।
५,२६८
अथापि स्यात् ।
प्राकट्यापरपर्यायामर्थगतां ज्ञाततामुपजनयदेव प्रमाणम् ।
यथा प्रत्यक्षादि ।
नच स्मृत्यादिना ऽर्थे ज्ञाततोपजनिः सम्भवति ।
अनुभवेनैव तस्या जातत्वात् ।
नहि छिन्ने छिदा पुनरुत्पद्यते ।
तत्कथं तस्य प्रामाण्यं स्यादिति ।
तत्राहनेति ।
न परिच्छेदकार्येव प्रमाणमिति च प्रमा । मनुव्_२,१.२७अब् ।
न्यायसुधा-
परिच्छेदो ज्ञातता ।
एवेति प्रतिवाद्युक्तानुवादः ।
परिच्छेदकार्येव प्रमाणम् ।
तदभावात्स्मृत्यादिकमप्रमाणमिति नेत्यर्थः ।
कुतो नेत्यत आहइति चेति ।
इतिशब्देनार्थगतां ज्ञाततां परामृशति ।
नेत्यस्यानुकर्षणार्थश्चकारः ।
ज्ञाततायां प्रमा प्रमाणं नास्तीत्यर्थः ।
तथा च ज्ञातताजनकत्वं सपक्षे विभ्रमादाविव विपक्षे प्रत्यक्षादावपि वर्तत इति साधारणानैकान्तिकमिति भावः ।
किञ्च धारावाहिकविज्ञानानि स्मृत्यादिकमिव न ज्ञाततामुपजनयन्तीति कुतो नानैकान्त्यम् ।
अपि च संशयविपर्ययावपि ज्ञाततामुपजनयत इति त्वयाङ्गीकरणीयम् ।
समानन्यायत्वात् ।
ततश्च विपक्षा(त्प्रत्यक्षा)दिव सपक्षादपि व्यावृत्तेस्तवासाधारणो हेतुः स्यात् ।
यद्वा ज्ञाततालक्षणस्य परिच्छेदस्यैवाप्रामाणिकत्वात्परिच्छेदकार्येव प्रमाणमित्यस्यां व्याप्तौ न प्रमाणमस्तीत्येकग्रन्थतया योज्यम् ।
तथाच व्यापकानुपलब्धिलिङ्गकमनुमानं दूरापास्तमिति भावः ।
५,२७०
ननु चाज्ञातज्ञापकमेव प्रमाणम्, अज्ञातज्ञानमेव वा ।
न चैतत्स्मृत्यादावस्तीति तदप्रमाणमित्यतो वाऽहनेति ।
परिच्छेदो ऽज्ञातज्ञानं, तत्कर्तुं शीलमस्यास्तीति परिच्छेदकारि(री) ।
यद्वा परिच्छेद एव कार अकारः परिच्छेदकारः सो ऽस्यास्तीति परिच्छेदकारि ।
किं परिच्छेदकारित्वं प्रामाण्यस्य व्याप्यव्यापकभूतं लक्षणमिति तदभावात्स्मृत्यादेरप्रामाण्यमुच्यते, किंवा व्यापकमेवेति ।
५,२७०फ़्.
आद्ये परिच्छेदकार्येव प्रमाणमिति लक्षणं न प्रमा नोपपन्नमिति योजना ।
अव्याप्तेरतिव्याप्तेश्चेति ।
तथाहि ।
धर्मिणमादायानधिगतार्थगन्तृत्वमुच्यते प्रकारं वा ।
आद्ये नित्यविषयाणामप्रामाण्यापातः ।
व्याप्यवत्तयावगतं धर्मिणं व्यापकवत्तया विषयीकुर्वतो ऽनुमानस्य पृथगवगतानर्थान्त्संसृष्टतया गोचरयतः शब्दस्य चाप्रामाण्यप्रसङ्गः ।
द्वितीये तु धारावाहिकविज्ञानानामप्रामाण्यं स्यात् ।
नहि वैनाशिकानामिव मीमांसकानामन्य एव घटः ।
नापि साङ्खयानामिव परिणामी ।
नापि प्रकारमप्युपजनापायवन्तमीक्षामहे ।
५,२७१
ननु यद्यपि स्वरूपस्य प्रकारस्य वा तादवस्थ्यम् ।
तथापि घटो ऽयं घटो ऽयमिति प्रत्यक्षज्ञानधारायां वर्तमान एवार्थः (परि)स्फुरति ।
नच क्रमभाविनां ज्ञानानामेक एव वर्तमानकाले विषयो नानाप्रतिपत्तृवत् ज्ञानयौगपद्यप्रसङ्गात् ।
(तत्प्र)प्रत्यभिज्ञानानुपपत्तेश्च ।
ज्ञानानेकत्वे ऽप्येककालावस्थानाकलनात् ।
तस्मात्पूवर्वूर्वविज्ञानैरनाकलित एव वर्तमानो ऽर्थ उत्तरोत्तरैरवसीयत इत्यनधिगतार्थत्वमेवेति ।
एवं तर्हि स्मृत्यादेरप्यनधिगतार्थत्वमेव ।
स्मृतिरपि वर्तमानतत्कालतयानुभूतमथर्मतीततत्कालतयावगाहते ।
अन्यथा स इति न स्यात् ।
अनुवादो ऽपि यदि वादविषयस्तदा स्फुटमनधिगतार्थत्वम् ।
यदि च पूर्वविज्ञानविशिष्टार्थगोचरस्तथापि धारावाहिकसमानो न्यायः ।
अधिकविधानेनैकवाक्यतायामपि तथेति ।
संशयविपर्यासयोरप्यनधिगतविषयत्वात् प्रामाण्यं स्यात् ।
अनधिगततथाभूतार्थ(गन्तृ)त्वं विवक्षितमिति चेन्न ।
अनधिगतविशेषणवैयर्थ्यात् ।
स्मृत्यादिव्यावृत्त्यर्थं तदिति चेत्(न) ।
स्मृत्यादिकमेव कुतो व्यावर्तनीयम् ।
लक्षणाभावादिति चेत् ।
तदिदमितरेतराश्रयत्वमिति ।
५,२८६
अस्तु तर्हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति द्वितीयः पक्षः ।
स्यादप्येवम् ।
यदि परिच्छेदकार्येव प्रमाणमिति प्रमा प्रमाणं स्यान्न च तदस्ति ।
तथाहि ।
प्रामाण्यस्यानधिगतार्थत्वेन व्याप्तिः किं साहचर्यदर्शनमात्रात्सिद्धयति, उत व्यभिचारदर्शनसहकृतात्, उत विपक्षे बाधकोपेतात् ।
नाद्यः ।
अतिप्रसङ्गात् ।
न द्वितीयः ।
धारावाहिनि व्यभिचारदर्शनात्, अतिप्रसङ्गापरिहाराच्च ।
न तृतीयः ।
तदभावात् ।
अधिगतमेवार्थमधिगमयता प्रमाणेन पिष्यं पिष्यं स्यादिति चेत् ।
किमिदं पिष्यपेषणं नाम ।
किमधिगते ऽर्थे ऽधिगत्यन्तस्यानुदयः, किंवा विफलत्वम्, उताविशिष्टफलत्वम्, अथ अनपेक्षितफलत्वम् ।
नाद्यः ।
स्यादप्येवं यदि ज्ञानाभवो ऽपि ज्ञानसामग्षेकदेशः स्यात् ।
ज्ञानं वा तत्प्रतिबन्धकं भवेत् ।
नचैवम् ।
तथात्वे स्मृतेरेवानुदयप्रसङ्गात् ।
न द्वितीयः ।
उक्तोत्तरत्वात् ।
न तृतीयः ।
आद्ये ऽप्यापत्तेः ।
न चतुर्थः ।
तृणादिदर्शने, हेयदशर्ने च प्रसङ्गात् ।
ननु च करणविशेषः प्रमाणम् ।
कारणं च साधकतमम् ।
नच साध्यसिद्धौ तज्जातीयस्यापि साधकतमत्वमस्ति, छिन्ने परशोरिवेति चेत् ।
मैवम् ।
नहि करणस्य साधकतमत्वं साधकतमान्तरापेक्षया ।
किन्तु प्रधानक्रियाकारकान्तरापेक्षया ।
अन्यथा यत्र करणानां समुच्चयस्तत्र परस्परापेक्षयानतिशयितत्वादकरणत्वं स्यात् ।
छिन्ने कुठारस्याकरणत्वं तु फलानुदयात् ।
नच प्रकृते तथास्तीत्युक्तमिति ।
५,२९१
नन्वनपेक्षत्वं प्रामाण्यस्य व्यापकम्, अन्योन्यनिरपेक्षा(स्तु) धारावाहिका बुद्धयः ।
अतः प्रामाण्यमश्नुवते ।
न चैवं स्मृत्यादीत्यप्रमाणमेवेति चेन्न ।
अस्या अपि व्याप्तेरप्रामाणिकत्वादित्याहनेति ।
परिच्छेदो ऽनपेक्षं ज्ञानम् ।
किञ्चानपेक्षत्वं सर्वथा चेदनित्यप्रमाणेषु नास्ति ।
ज्ञानान्तरानपेक्षत्वं चेदनुमित्यादौ तदभावः ।
उत्पत्तावेवानुमित्यादिकं लिङ्गाद्यपेक्षं नार्थपरिच्छेद इति चेत्(न) ।
ज्ञानव्यतिरिक्तस्यार्थपरिच्छेदस्यैवाभावात् ।
स्मृत्यादावप्येवमेव सुवचत्वाच्च ।
समानविषय(क)ज्ञानानपेक्षत्वं चेद्धर्मिणमादायानुमित्यादावपि तदभावः ।
प्रकारतो ऽपि स्मृत्यादावस्तीत्यसिद्धिरिति ।
अननुभवत्वात्स्मृतिरप्रमाणम् ।
अनुभवतत्साधनयोरेव प्रामाण्यादित्येतदप्यसत् ।
पूर्ववद्वयाप्तेरसिद्धेरित्याहनेति ।
परिच्छेदो ऽनुभवः ।
५,२९४
एवं प्रमाणसामान्यलक्षणमभिधाय तद्विशेषान् लिलक्षयिषुरादौ प्रत्यक्षस्योद्दिष्टत्वात्तल्लक्षणमाहनिर्दोषेति ।
निर्दोषाक्षोद्भवं ह्य् अत्र प्रत्यक्षमिति गीयते । मनुव्_२,१.२७च्द् ।
न्यायसुधा-
अत्र प्रमाणेषु ।
लोकवेदयोरिति वा ।
ननु कथमिदं विज्ञायते ।
किं निर्दोषैरक्षैरुद्भवो यस्येति, किंवा निर्दोषं च तदक्षोद्भवं चेति ।
नाद्यः ।
अव्याप्तेरतिव्याप्तेश्च ।
तथाहि ।
ईश्वरादिप्रत्यक्षं नाक्षोद्भवं नित्यत्वात् ।
अक्षकार्यं क्रियादिकमपि प्रत्यक्षं स्यात् ।
न द्वितीयः ।
द्वयोरपि विशेषणत्वेन समासानुपपत्तेः ।
उक्ताव्याप्त्यनिस्ताराच्चेति ।
उच्यते ।
अस्तु तावदाद्यः ।
अज्ञानविपरीतज्ञानहेतुभिः काचकामलादिदोषै रहितानि यान्यक्षाणीन्द्रियाणि तैरुद्भवो यस्येति ।
न चाव्याप्तिः ।
उद्भवशब्दस्योत्पत्त्यभिव्यक्त्यन्यतराथर्त्वात् ।
यथोक्तम्’सर्वमक्षात्मकं मतम्’ इति ।
नाप्यतिव्याप्तिः ।
ज्ञानस्य प्रकरणप्राप्तत्वात् ।
तथाप्यक्षलिङ्गके ऽनुमाने ऽतिव्याप्तिरिति चेन्न ।
तस्याक्षज्ञानोद्भवत्वेनाक्षमात्रोद्भवत्वाभावात् ।
निर्दोषाक्षोद्भवमप्यर्थदोषादयथार्थमुत्पद्यते ज्ञानम् ।
यथोक्तम् ।
‘अतिदूरादतिसामीप्यादिन्द्रियदोषान्मनो ऽनवस्थानात् ।
सौक्ष्म्याद्यवधानादभिभवात्समानाभिघाताच्च’ इति ।
तथापि निर्दोषार्थसन्निकृष्टेति विशेषणाददोषः ।
५,२९८
अत्र ज्ञानग्रहणं सुखादिव्यावृत्त्यर्थमिति केचित् ।
तदसत् ।
विषयसाक्षात्कारस्यैव सुखादिहेतुत्वात् ।
इन्द्रियार्थसन्निकर्षः(तु) तदर्थमभ्यर्थ्यते ।
नन्वेवं सति सर्वार्थसाक्षात्कारवतः परमेश्वरस्य सुखाद्युत्पादप्रसङ्ग इति चेत् ।
लीलाविग्रहग्रहणे तस्येन्द्रियार्थसन्निकर्षवतः कुतो न तत्प्रसङ्गः ।
अथ न तावन्मात्रं सुखादिकारणम् ।
किन्नाम धर्मादिकमपि ।
अतस्तदभावान्न तस्य सुखाद्युत्पाद इति चेत् ।
तुल्यम् ।
अत एव न योगिष्वपि प्रसङ्गः ।
तथाचाहुः ।
‘देहे शीतोष्णादिसम्बन्धाद्धि शीतोष्याद्यनुभव आत्मनः ततश्च सुखदुःखे’ इति ।
अत्र देहशब्देन तदाश्रितानीन्द्रियाण्युपलक्ष्यन्ते ।
तदयं लक्षणाथर्ः ।
निर्दोषार्थसन्निकृष्टनिर्दोषेन्द्रियोद्भवं ज्ञानं प्रत्यक्षमिति ।
५,३००
यद्वा निर्दोषार्थेन्द्रियसन्निकर्षजं ज्ञानं प्रत्यक्षमित्येवार्थः ।
जन्यप्रत्यक्षविषयमेव (वा त)एतद्वयाख्यातम्(नम्) इति नोक्तदोषः ।
अनुगतलक्षणसिद्धयर्थं तु द्वितीयं पक्षं परिगृह्णीमः ।
निर्दोषं यथार्थमक्षोद्भवमिति ।
अक्षोद्भवशब्देन (च)साक्षात्कारो लक्ष्यत इति न कश्चिद्दोषः ।
साक्षात्कारत्वं च ज्ञानगत एव विशेषो न करणोपाधिकः ।
तदनेन केवलं प्रत्यक्षं लक्षितम् ।
५,३०१फ़्.
अत्रैव यतस्तदिति पदद्वयाध्याहारेण यथार्थापरोक्षज्ञानसाधनमित्यनुप्रमाणप्रत्यक्षलक्षणमपि व्याख्येयम् ।
तच्च विवक्षाभेदेन निर्दोषार्थेन्द्रियसन्निकर्षो वा निर्दोषार्थसन्निकृष्टमदुष्यमिन्द्रियं वेति ।
ननु’अदुष्यमिन्द्रियं त्वक्षम्’ इति वचनादक्षशब्द एवादुष्यतामाचष्टे ।
तत्किमर्थं निर्दोषेत्यक्षविशेषणम् ।
मैवम् ।
इन्द्रियं त्वक्षं तच्चादुष्यमिह विवक्षितमिति तद्वयख्यानात् ।
५,३०३
नन्वेतल्लक्षणं प्रतिगतमक्षं प्रत्यक्षमित्येवं शब्दनिर्वचनादेव प्रतीयमानं लक्ष्यात्प्रत्यक्षान्न भिद्यते ।
नचैकस्यैव लक्ष्यलक्षणभावः सम्भवति ।
ज्ञाता(त्व)ज्ञातत्वासम्भवादिति चेन्न ।
अत्र प्रत्यक्षपदवाच्यतायाः साध्यत्वेन विवक्षितत्वादित्याशयेनोक्तम्इति गीयत इति ।
५,३०३फ़्.
ननु निर्दोषतेन्द्रियाणां कुतो ऽवगन्तव्या ।
ज्ञानयाथार्थ्यादिति चेत् ।
तदपि किं करण(गतया)निर्दोषतया ज्ञातव्यं, किंवा विरुद्धप्रमाणाभावात् ।
नाद्यः ।
परस्पराश्रयतापत्तेः ।
न द्वितीयः ।
असञ्जातविरोधिविभ्रमे ऽप्यापत्तेः ।
मैवम् ।
ज्ञानयाथार्थ्यस्य साक्षिसिद्धत्वाङ्गीकारात् ।
परीक्षापेक्षायां तु प्रबलविरोध(धा)भावः साचिव्यमाचरति ।
यथोक्तम्’बलवत्प्रमाणतश्चैव ज्ञेया दोषा न चान्यथा’ इति ।
असञ्जातविरोधी तु विभ्रम एवेति कुतः ।
देशकालपुरुषान्तरसम्बन्धिविपरीतप्रमावशादिति चेत् ।
कथं तर्ह्यसञ्जातविरोधित्वम् ।
एवं तर्हि सर्वथा विपरीतप्रमाभावो ऽङ्गीकृतः स्यात् ।
अद्धा ।
सो ऽपि तैस्तैः परीक्षाविशेषैर्निश्चीयते ।
निर्मूलं तु न शङ्कयते ।
अन्यथा सर्वत्रानाश्वासेनाभिमतमपि न सिद्धयेदिति ।
५,३०७
नन्विन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वे गगननयनसन्निकर्षादपि ज्ञानमुत्पद्यताम् ।
मैवम् ।
अर्थशब्देन तत्तदिन्द्रियग्रहणयोग्यस्यैव विवक्षितत्वात् ।
गगनादौ च तद्योग्यताभावस्य कार्याभावादेव सिद्धेः ।
एतेन चक्षुरादिना गन्धादिग्रहणप्रसङ्गो ऽप्यपास्तः ।
५,३०७फ़्.
अथ मतम् ।
यद्याश्रिता योग्यता, किमन्तर्गडुना सन्निकर्षेण ।
तत्तदिन्द्रियविषयस्तेन तेनेन्द्रियेण गृह्यते ।
कथमन्यथा काचाभ्रपटलाद्यन्तरितोपलब्धिः स्यात् ।
सान्तरग्रहणं च प्राप्तिपक्षे न सम्भवति ।
प्राप्यकारिषु तवगादिषु तदभावात् ।
किञ्च नयनं चेत्प्राप्यकारि तदा स्वसंयुक्तमात्रं गृह्णीयात् ।
कुठारादिषु तथा दर्शनात् ।
पृथुतरं च गृह्णाति ।
दिग्विशेषसन्देहश्चैव सति न स्यात् ।
प्राप्त्या तन्निश्चयप्राप्तेः ।
सन्निकृष्टविप्रकृष्टयोः शाखाचन्द्रमसोर्युगपद्ग्रहणाच्च ।
नहि प्राप्यकारिण्येवं भवितुमर्हति ।
अपि च चक्षुः अप्राप्यार्थप्रकाशकम् अत्यासन्नाप्रकाशकत्वात् ।
व्यतिरेकेण श्रोत्रादिवत् चक्षुर्गत्वा नार्थेन सम्बध्यते इन्द्रियत्वात् स्पर्शनादिवत् ।
नचार्थस्य आगमनं प्रत्यक्षविरोधात् ।
तथा चाप्राप्यप्रकाशकत्वसिद्धिरिति ।
५,३१०
अत्रोच्यते ।
विषयकरणयोर्योग्यतामात्रमुपादाय सन्निकर्षापाकरणं किं सर्वत्रोत नयन एवेति वक्तव्यम् ।
न प्रथमः ।
अप्राप्तैरेव कुठारादिभिः काष्ठादौ छिदाद्युदयप्रसङ्गात् ।
घ्राणरसनस्पर्शनैरप्राप्तैरेव गन्धाद्यवबोधोदयापत्तेश्च ।
तथाच योग्यतावदन्वयव्यतिरेकसिद्धा प्राप्तिरपि क्रियोत्पादोपयोगिनी ।
न द्वितीयः ।
विशेषकारणाभावात् ।
योग्यताया अन्वयव्यतिरेकदशर्नात्प्राप्तेश्चानुपलम्भादिति चेन्न चक्षुषो ऽपि करणत्वेन्द्रियत्वाभ्यां प्राप्त्युपलम्भात् ।
५,३११
नन्वत्र किं गोलकं पक्षीक्रियते उत तदतिरिक्तं चक्षुः ।
आद्ये प्रमाणबाधः ।
द्वितीये त्वाश्रयासिद्धिरिति चेन्न ।
तवापि गोलकपक्षीकारे सिद्धसाधनम् ।
अन्यत्राश्रयासिद्धिरिति वक्तुं शक्यत्वात् ।
अथ विशेषं विहाय रूपदर्शनानुमितं करणमात्रं पक्षीक्रियत इति ब्रूषे ।
समं ममापि ।
अत एव गोलकातिरिक्तमपि तत्सेत्स्यति ।
सन्निकर्षश्च प्रत्यासत्तिमात्रं विवक्षितम्, न संयोगादिरिति न शब्दादिभिर्व्यभिचारः ।
५,३१३
का चेयं योग्यता यन्मात्रादसन्निकृष्टमपि चक्षुः प्रकाशयेत् ।
यदि रूपविशेषादिरूपा तदातीतानागतयोरपि तद्भावाच्चाक्षुषतापत्तिः ।
सन्निकर्षार्थं खलु वर्तमानताभ्यर्थनम् ।
सन्निकर्षस्यान्यथासिद्धौ प्रत्यभिज्ञायां तत्तांशस्य चक्षुषावभासनात् स चेदनपेक्षितः, किं तदा वतर्मानतया ।
अथ वर्तमानतापि रूपदिवद्योग्यतान्तर्गता, तदा प्रत्यभिज्ञा न सिद्धयेत् ।
कुड्यादिव्यवहितप्रतीतिप्रसङ्गश्च ।
प्राप्तिप्रतिबन्धकं हि कुड्यादिव्यवधानमिति प्राप्त्यर्थं तदभावो ऽन्वेषणीयः स्यात् ।
सा यदि नेष्यते तदा कुड्यादिकं कस्यापकुर्यात् ।
आवरणाभावो ऽपि योग्यतेति चेत् ।
न ।
कुड्य(ड्या)परभागावस्थितेनाप्यग्रहणप्रसङ्गात् ।
अथ नयनविषययोर्मध्ये निबिड(डावयव)द्रव्याभावो विवक्षित इति चेत् ।
स्फटिकाद्यन्तरितानुपलब्ध्रिप्रसङ्गात् ।
अस्वच्छद्रव्याभावो विवक्षित इति चेत् ।
तथाप्यव्यवहितदूरदर्शनापत्तिरेव ।
अथ क्षणभङ्गपरिणामावाश्रित्य तथाभूतस्योत्पादानुत्पादौ एव योग्यतायोग्यते मन्यसे, तदा सो ऽर्थः कदाचित्सर्वैरुपलभ्येत कदाचिन्न केनापि ।
द्रष्टृनिबन्धनो ऽपि तद्भेदो ऽस्तीति चेन्न ।
प्रमितसन्निकर्षपरित्यागेनाप्रमितानेककल्पनस्यानुचितत्वात् ।
५,३१७
किञ्चासन्निकृष्टप्रतीतौ च आसन्नसन्निकृष्टविप्रकृष्टयोर्वैशद्यावैशद्ये न स्याताम् ।
अस्माकं तु नयनरश्मयः सम्यगासन्नेन सन्निकृष्टन्ते विप्रकृष्टेन त्वसम्यक् प्रदीपरश्मय इवेति युक्ते प्रतीतेर्वैशद्यावैशद्ये ।
काचाद्यन्तरितोपलब्ध्या किमप्राप्यप्रकाशकत्वं कल्पयामः किंवा काचादीनां प्रप्तिप्रतिबन्धकत्वाभावात् ।
आद्यः प्रमाणविरुद्धो ऽनेकातिप्रसङ्गपराहत इति द्वितीय एवाश्रयणीयः ।
तथात्वे काचादेर्व्यूहान्तरतापत्ति(त्ते)रिति चेत् ।
(न) जलानलव्यतिभेदे ऽपि घटादेस्तदभावात् ।
तत्रापि सूक्ष्मतरतदभ्युपगमे ऽत्रापि सास्तु ।
सान्तरग्रहणमप्यसन्निकृष्टस्य ग्रहणं चेदसिद्धम् ।
सान्तर इति ग्रहणं चेत्प्रदीपे ऽनैकान्तिकम् ।
यथा खलु दीपो रश्मिभिरर्थसन्निकृष्टो ऽपि स्वरूपापेक्षया सान्तर इति प्रतीयते तथा चक्षुरप्यधिष्ठानापेक्षयेति किमनुपपन्नम् ।
पृथुतरग्रहणमपि नयनरश्मीनामुन्मत्तककुसुमवत्पृथ्वग्रतयोपपत्स्यते ।
अप्राप्तौ त्वल्पस्यापि ग्रहणं न स्यात् ।
प्राप्तौ दिग्विशेषसन्देहो न स्यादिति चेत्(न) ।
अप्राप्तौ सर्वत्र कल्पयिष्यति ।
युगपद्ग्रहणाभिमानस्तु तेजसः शीघ्रगामितानिबन्धनो भ्रम एव ।
प्राप्तेः प्रमाणसिद्धत्वात् ।
५,३२३
अपर आह ।
नयनरश्मयः शाखाचन्द्रसंयुक्तैः सौररश्मिभिरेकीभूता युगपच्छाखाचन्द्रमसौ ग्राहयन्तीति ।
तदसत् ।
सर्वार्थग्रहणप्रसङ्गात् ।
अदृष्टात्तद्वयवस्थेति चेत् ।
(न) बाह्यसाधनसाकल्ये ऽदृष्टवैकल्येन कार्यानुदयस्य क्वाप्यदर्शनात् ।
अदृष्टवैकल्ये हि बाह्यसामग्री विकला स्यात् ।
अन्यथा समनस्केन्द्रियसन्निकृष्टः स्फीतालोकमध्यमध्यासीनो ऽपि घटः कदाचिन्नोपलभ्येत ।
अप्राप्यार्थप्रकाशकमिति चाप्रसिद्धविशेषणता ।
अत्यासन्नाप्रकाशकत्वं प्राप्यप्रकाशकेषु घ्राणादिष्वपि विद्यते ।
स्वगतगन्धादेरग्रहणात् ।
परस्यैव अत्यासन्नकाचाद्यग्रहणमयुक्तम् ।
योग्यताया अनपायात् ।
५,३२५
गत्वा नार्थेन सन्निकृष्टत इत्यत्र किं गतिप्रतिषेधः साध्यः, किंवा सन्निकषर्प्रतिषेधः, उतोभयप्रतिषेधः ।
नाद्यः ।
कालातीतत्वादनैकान्त्याच्च ।
न द्वितीयः ।
अनैकान्तिकत्वादेव ।
अत एव न तृतीयो ऽपि ।
विशिष्टनिषेधो ऽयमिति चेन्न ।
सो ऽपि विशेषणाभावेन वेत्यादिविकल्पदूषणानिस्तारात् ।
सन्निकर्षार्थं गतिमन्न भवतीति साध्यमिति चेन्न स्पर्शनादावनैकान्त्यात् ।
शीलजलसन्निकर्षार्थं त्वगिन्द्रियगतये हि शरीरपरिस्पन्दो भवति ।
अथायमभिप्रायो ऽधिष्ठानाद्बहिर्न गच्छतीति ।
तदेन्द्रियत्वे समाने ऽपि घ्राणादीनामतैजसानामनेवम्भावः ।
चक्षुषस्तु तैज(से)सस्येत्थम्भूत(त्वा)तेत्यङ्गीकारे बाधकाभावादप्रयोजकत्वम् ।
चाक्षुषरश्मीनामुपलब्धिप्रसङ्ग इति चेन्न ।
अतीन्द्रियत्वोपपत्तेः ।
महत्तेजोजातीयमैन्द्रियकमुपलब्धमिति चेत् चाक्षुषमप्युपलब्धमिति वारिस्थं तथा स्यात् ।
अदृष्टवशादनुद्भूतरूपं तदिति चेत् ।
इदमप्यनुद्भूतरूपस्पर्शं कुतो न कल्प्यते ।
कल्पिकायां प्राप्यकारितायां प्रमाणस्योक्तत्वात् ।
यदि च नयनं निर्गत्यार्थं गृहीयात्तदा उन्मील्यनिमीलने ऽपि अर्थप्रतिपत्तिः स्यात् ।
यदि (चाक्षुष)वाक्षमधिष्ठानातिरिक्तं स्यादधिष्ठानोपघातचिकित्से व्यर्थे स्यातामिति तु प्रदीपेन समानयोगक्षेमम् ।
अपि च ।
छायायामुपविष्यस्या(प्यातपालोकने)तपावलोकनेन नयनस्याशिशिरत्वमातपोपविष्यस्यापि शिशिरद्रव्यावलोकनेन शिशिरत्वं चैतमेवार्थं
गमयतः ।
न ह्यप्राप्तावेतदुपपद्यते ।
तदेतदखिलमपि प्रमाणप्रसिद्धमिति किमत्र वक्तव्यमिति हिशब्देनाचष्टे ।
। इति प्रत्यक्षसामान्यलक्षणनिरूपणम् ।
५,३३०
यदक्षविशेषणं निर्दोषत्वमुक्तं तद्वयवच्छेद्यं दर्शयितुमक्षभेदं तावदाहप्राकृमिति ।
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् । मनुव्_२,१.२८अब् ।
न्यायसुधा-
प्रकृतिशब्देनाहङ्कारः पञ्चभूतानि चोच्यन्ते ।
सूक्ष्मरूपेण नित्यमप्यहङ्कारभूतांशैरुपचितत्वात्प्राकृतम् ।
शुद्धमित्यस्यैव विवरणं चैतन्यमिति ।
चेतिशब्दावध्याहार्यौ ।
तुशब्देनाचैतन्यमेवेन्द्रियं तच्चाहङ्कारिकमेवेति वदतां साङ्खयादीनां, भौतिकमेवेति भाषमाणानां वैशेषिकादीनां,
द्रव्येन्द्रियभा(व्ये)वेन्द्रियभेदाद्द्विविधमिति जल्पतां जैनानां च मतं व्यवच्छिनत्ति ।
मतमिति स्वोक्तार्थस्य प्रमितत्वमाह ।
५,३३३
तत्र जडचैतन्यभेदमनुपदमेवोपपादयिष्यति ।
जडस्य च नित्याहङ्कारिकभौतिकत्वम्’सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः ।
तेषां भूतैरुपचयः सृष्टिकाले विधीयते’ इत्यादिस्मृतिसिद्धम् ।
नच केवलाहङ्कारिकत्वे भौतिकत्वे वा प्रमाणमस्ति ।
कपिलादीनामाप्तत्वासिद्धेः ।
घ्राणं पार्थिवं रसाव्यञ्जकत्वे सति गन्धव्यञ्जकत्वात् कुङ्कुमगन्धाभिव्यञ्जकघृतवत् ।
रसनमाप्यं रूपाव्यञ्जकत्वे सति रसव्यञ्जकत्वात् ।
लालावत् ।
चक्षुस्तैजसं स्पर्शाव्यञ्जकत्वे सति रूपव्यञ्जकत्वात् प्रदीपवत् ।
स्पर्शनं वायवीयं शब्दाव्यञ्जकत्वे सति स्पशर्व्यञ्जकत्वात् व्यजनवातवदिति ।
५,३३५
अत्र पार्थि(वादित्व)वत्वादिमात्रसाधने सिद्धसाधनत्वम् ।
तन्मात्रत्वसाधने दृष्टान्तानां साध्यवैकल्यम् ।
सर्वत्र पाञ्चभौतिकत्वाभ्युपगमात् ।
सर्वत्र चादृष्टेन व्यभिचारा(रः)त् ।
५,३३६
तत् सर्वव्यञ्जकमिति चेत् ।
किं व्यक्तिपुरस्कारेणोच्यते उतोपाध्यवच्छेदपुरस्कारेण ।
नाद्यः ।
यददृष्टमेकैकव्यञ्जकं तत्र व्यभिचारानिस्तारात् ।
तन्न निश्चितमिति चेत् ।
तथापि सन्दिग्धव्यभिचारिता ।
न द्वितीयः ।
इन्द्रियत्वावच्छेदेनासिद्धेः ।
५,३३७
किञ्च पार्थिवादिपदैः पृथिवीत्वाद्यभिधाने तत्तत्सन्निकर्षैरनैकान्त्यम् ।
इन्द्रियत्वेन हेतुविशेषणे दृष्टान्तानां साधनवैकल्यम् ।
पृथिव्यादिकार्यतासाधने प्रागुक्तसिद्धसाधनतापरिहाराय मात्रपदप्रयोगे पृथिव्यादिरूपादिव्यञ्जकसन्निकर्षेषु व्यभिचारतादवस्थ्यम् ।
५,३४३
अपि च ।
चर्मादिगन्धव्यञ्जकत्वं जलादेः, रसव्यञ्जकत्वम् लवणादेः, रूपव्यञ्जकत्वमञ्जनादेः, स्पर्शव्यञ्जकत्वं कर्पूरादेरप्यस्तीति व्यभिचार एव (इति) ।
५,३४६
इन्द्रियद्वैविध्यस्य प्रमितत्वमुक्तम् ।
तत्कथमित्यत आहशुद्धमिति ।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम् । मनुव्_२,१.२८च्द् ।
न्यायसुधा-
प्राक् प्रसिद्धितारतम्यमपेक्ष्योद्देशे ऽपि प्राधान्यतारतम्यापेक्षयोपपादनमिति द्रष्टव्यम् ।
अन्यत्र संसारिषु ।
प्राकृतैरक्षैर्युतं शुद्धमस्तीत्यर्थः ।
अयमभिसन्धिः ।
उपपादयिष्यते हीशरमामुक्तानामक्षवत्ता ।
नच तदक्षं प्राकृतमिति युक्तम् ।
निर्गुणत्वादिश्रुतिस्मृतिविरोधात् ।
ततस्तच्छुद्धचैतन्यमेव भवितुमर्हति ।
संसारिषु चाक्षवत्ता सुप्रसिद्धा ।
नच तन्मुक्तावक्षप्रतिपादकप्रमाणबलायातं शुद्धमेवास्त्विति युक्तम् ।
संसारे ऽपि सम्यग्ज्ञाननियमाद्यापत्तेः ।
अतस्तत्र प्राकृतं शुद्धं चेति द्विविधमप्यस्तीति स्वीकार्यम् ।
ततः सिद्धमुक्तरूपाक्षद्वैविध्यमिति ।
परैरीशलक्ष्म्योर्लीलाविग्रहग्रहण(णा)मङ्गीकारिभिस्तदक्षस्य प्राकृतत्वमङ्गीक्रियते ।
तान्प्रति किं वादान्तरेणेति मुक्तग्रहणम् ।
स्वमते मुक्तानां लीलाविग्रहस्वीकारात् ।
किमन्यदापीन्द्रियोपपादनायासेनेतीशरमेति ।
५,३४९
किमतो यद्येवमक्षद्वैविध्यमित्यत आहनिर्दोषमेवेति ।
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते । मनुव्_२,१.२९अब् ।
न्यायसुधा-
तत्रोत्तमजीवसम्बन्धिचैतन्यमक्षं निर्दोषमेवेत्यर्थः ।
अन्यत्रापि निर्दोषतासद्भावादेवेत्युक्तम् ।
अन्यत्र मध्यमजीवसम्बन्धिचैतन्ये ।
सर्वत्र प्राकृते चाक्षे निर्दोषत्वं सदोषत्वं चोभयं कालादिभेदेनेष्यते ।
अधमसम्बन्धिचैतन्ये तु सदोषत्वमेवेति शेषः ।
इष्यते प्रामाणिकैरिति ।
अनेनागमं कार्यलिङ्गकमनुमानं चात्रार्थे दर्शयति ।
यावदत्र सदोषमुक्तं तन्निर्दोषग्रहणव्यवच्छेद्यमिति भावः ।
५,३५४
ननु च संसारिषु प्रवृत्तिसिद्धयर्थमिन्द्रियमवश्यमङ्गीकरणीयम् ।
नच तच्छुद्धम् ।
उक्तानुपपत्तेः ।
त(अ)तः प्राकृतेनैव सवर्स्योपपत्तेः संसारिषु शुद्धेन्द्रियाभ्युपगमो निर्बीज एव ।
नच मुक्तौ शुद्धसद्भावात्प्रागपि तदङ्गीकरणीयम् ।
मुक्तिवच्छुद्धेन्द्रियस्यापि पश्चात्प्राप्त्युपपत्तेरित्यत आहसुखेति ।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि । मनुव्_२,१.२९च्द् ।
न्यायसुधा-
न केवलमीशरमामुक्तेषु (किन्तु) संसारगेष्वपि शुद्धमिन्द्रियमङ्गीकरणीयम् ।
कुतः सुखदुःखादिविषयम् ।
अयमर्थः ।
अस्ति तावत्संसारिणां सुखदुःखेच्छादिविषये(यो)ऽपरोक्षावभासः ।
लिङ्गाद्यननुसन्धानेनैवाहं सुखीत्यादिस्पष्टावभासदर्शनात् ।
नचेन्द्रियविषयतामन्तरेणापरोक्षावभासित्वं सुखादीनां युक्तम् ।
धर्मादेरपि तत्प्रसङ्गात् ।
तस्मात्सुखदुःखादिविषयमिन्द्रियमङ्गीकर्तव्यम् ।
तदेव शुद्धमिति ।
अस्तु सुखदुःखादिविषयमिन्द्रियं संसारिषु ।
तच्छुद्धमिति कुतः ।
प्राकृतेनापि तदपरोक्षावभासोपपत्तेरित्यत आहनिर्दोषत्वेति ।
निर्दोषत्वातिनियमात् तद् बलिष्ठतमं मतम् । मनुव्_२,१.३०अब् ।
५,३५५
न्यायसुधा-
तत्सुखादिविषयमिन्द्रियं तावद्बलिष्ठतमं सर्वथा(प्य)ऽबाध्यं मतं सर्वेषां सम्मतम् ।
न हि कदाचिदप्यसति सुखे अहं सुखीति प्रत्ययो ऽस्ति ।
नापि सति नास्ति सुखीति ।
तथा हि सतीन्द्रियस्य बाध्यता स्यात् ।
बलिष्ठतमता चेन्द्रियस्य निर्दोषत्वादिनियमादेवोपपद्यते नान्यथा ।
सदोषाणां बाधदर्शना(नियमा)त् ।
निर्दोषत्वातिनियमश्च शुद्धस्यैव धर्मो न प्राकृतस्येति सुखादिविषयस्येन्द्रियस्य शुद्धतासिद्धिरिति ।
एतदुक्तं भवति ।
सुखादिकमिन्द्रियविषयः अपरोक्षावभासित्वात् घटवत् ।
सुखादिविषयमिन्द्रियं शुद्धम् निर्दोषतानियमवत्त्वात् ईश्वरादीन्द्रियवत् ।
विमतं निर्दोषतानिय(तिम)मवत् सर्वथाप्यबाध्यत्वात् तद्वदेवेति ।
यद्यपि मुक्तानां शुद्धेन्द्रियवत्त्वेन संसारिणां तद्वत्ता शक्यसाधना तस्य तत्स्वरूपतावगमात् ।
स्वरूपस्य चानागन्तुकत्वात् ।
तथापि साक्षिणो यत्प्रत्यक्षत्वमुक्तं तद्विभावयितुमयं प्रमाणान्तरोपन्यासः ।
सुखादिविषयं स्वरूपभूतं चैतन्येन्द्रियं हि साक्षीत्युच्यते ।
तदभिव्यक्तं ज्ञानं चेति ।
५,३५६
ननु प्राकृतशुद्धभेदात् द्विविधमिन्द्रियमित्यसत् ।
‘श्रोत्रं चक्षुःस्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायम्’ इति पञ्चेन्द्रियमनोभेदेनेन्द्रियषाड्विध्यस्मरणविरोधादित्यत आहपञ्चेति ।
पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम् । मनुव्_२,१.३०च्द् ।
न्यायसुधा-
यत्पञ्चेन्द्रियमनोभेदादिन्द्रियं षड्विधमिति स्मृतं तत्प्राकृतं न तु सर्वमित्यतो न विरोधः ।
ज्ञानेन्द्रियाणामेवात्र(विवक्षित)उक्तत्वान्नैकादशत्वो(शो)क्तिविरोधः ।
बुद्धेरपि मनस्यन्तर्भावान्न सप्तत्वविरोधः ।
नन्वाकाशात्मकस्य श्रोत्रस्य कथं प्राकृतत्वात् ।
मैवम् ।
भूताकाशपरिणामत्वाभ्युपगमात् ।
अव्याकृताकाशात्मकत्वे सार्वत्रिकशब्दोपलब्धिप्रसङ्गः ।
कर्णशष्कुल्यवच्छेदाङ्गीकारे ऽपि बधिराभावप्रसक्तिः ।
अदृष्टोपग्रहान्नेति चेन्न ।
तथा सत्याकाशस्यैव तत्तदवच्छिन्नस्यादृष्टोपगृहीतस्य घ्राणादिभावोपपत्तौ पार्थिवत्वाद्यभ्युपगमवैयर्थ्यात् ।
गन्धादिमत्त्वात्तत्सिद्धिरिति चेन्न, असिद्धेः ।
यदिन्द्रियं यं विशेषगुणं गृह्णाति तत् तद्वदिति व्याप्तेः सुखादिग्राहिणि मनसि, सांसिद्धिकद्रवत्वस्नेहग्राहिणि चक्षुषि, शीतोष्णस्पर्शग्राहिणि
स्पर्शने च भग्नत्वात् ।
आगमात्पृथिव्यादिप्राकृतिकतावगम्यत इति चेत् ।
तर्ह्यहङ्कारिकाकाशकार्यता श्रोत्रस्यापि तत एवाङ्गीकरणीया ।
५,३६०
ननु मनोनादिनित्यं कथं प्राकृतम् ।
मैवम् ।
प्रमाणाभावात् ।
स्पर्शरहितद्रव्यत्वादेः सत्त्वान्नेति चेत्(न) ।
तमस्मस्माकमनैकान्त्यात् ।
नित्यत्वादिमात्रसाधने सिद्धसाधनत्वात् ।
कूटस्थतासाधने त्वागमविरोधादिति ।
। इति प्रत्यक्षनिरूपणम् ।
व्यास(१२)
५,३६२
क्रमप्राप्तं केवलमनुप्रमाणं च अनुमानं लक्षयतिअनुमेति ।
अनुमा युक्तिरेवोक्ता … । मनुव्_२,१.३१अ ।
न्यायसुधा-
अत्रानुमेति लक्ष्यम् ।
युक्तिरिति लक्षणम् ।
यदि च युक्तेरेव बहुशः प्रकृतत्वात्तत्स्वरूपजिज्ञासायामिदं प्रवृत्तम् ।
तदा विपरीतो लक्ष्यलक्षणभावः ।
नन्वनुमा युक्तिरिति पर्यायावेतौ ।
तथाहि ।
फलप्रामाण्यपक्षे ऽनुमितिरनुमेति भावसाधनो ऽनुमाशब्दो लिङ्गदर्शनसमुत्थं लैङ्गिकविषयमनुमितिनामकं यथार्थज्ञानमाह ।
तदेव योजनं युक्तिरित युक्तिशब्दो ऽपि ।
साधनप्रामाण्यपक्षे ऽप्यपक्षे ऽअप्यनुमीयते ऽनयेति करणसाधनो ऽनुमाशब्दो यमर्थमाचष्टे तमेव युज्यते ऽनयेति युक्तिशब्दो ऽपि ।
तत्कथं लक्ष्यलक्षणभाव इत्यत उक्तम्उक्तैवेति ।
अत्रापि व्यवहार एव साध्यो न त्वनुमात्वं, युक्तित्वं वा ।
येनोक्तदोषः स्यादिति भावः ।
५,३६३
ननु युक्त्युपपत्तिशब्दावेकार्थौ तथा चान्यत्र निर्दोषोपपत्तिरनुमेत्यादौ यदि निर्दोषग्रहणस्य व्यावर्त्यमस्ति तदात्रापि तत्कर्तव्यं स्यात् ।
अन्यथातिव्याप्तिप्रसङ्गात् ।
न (नास्ति) चेन्न (तत्क)कर्तव्यमिति ।
उच्यते अस्ति खलु शब्दानां मुख्यामुख्यभेदेन द्वयी वृत्तिः ।
एवञ्चोपपत्तिशब्दादुपपत्ताविव तदाभासे ऽपि प्रतिपत्तावुत्पन्नायां तद्वयवच्छेदेन मुख्यार्थोपदर्शनार्थं तत्र निर्दोषग्रहणं कृतम् ।
अत्र पुनरन्तर्गतनिर्दोषत्वं मुख्यमेवार्थमुपादाय युक्तिरित्येवोक्तम् ।
समीचीनो हेतुरनैकान्तिको हेतुरिति यथेति ।
तदिदमप्युक्तं युक्तिरेवेति ।
नतु निर्दोषत्वविशेषिता ।
युक्तिशब्दमुख्यार्थविवक्षायां तदनपेक्षणादिति शेषः ।
५,३६४
अथवा नेदं पर्यायलक्षणम् ।
किन्नाम युज्यते सम्बद्धयते इति युक्तिरनुमोक्तेति योज्यम् ।
नन्वेवं सति विरुद्धानध्यवसितव्यवच्छेदे ऽप्यनैकान्तिकस्यानुमानत्वं स्यादित्यतो युक्तिरेवेत्युक्तम् ।
युज्यत एव न तु (वि)युज्यते ऽपीत्यर्थः ।
प्रमेयत्वादिकं ह्यनित्यत्वादिना युज्यते, न युज्यते च ।
नतु युज्यत एव ।
तदनेन साहित्यनियमवत् व्याप्यं, लिङ्गम्, अनुमानमिति चोच्यत इत्युक्तं भवति ।
५,३६६
सौगतास्तु मन्यन्ते ।
तादात्म्यतदुत्पत्ती एवानुमानाङ्गभूतौ सम्बन्धाविति ।
वैशेषिकास्त्वस्येदं कार्यं कारणं सम्बन्ध्येकार्थसमवायि विरोधि चेति लैङ्गिकनिमित्तसम्बन्धान्परिसञ्चक्षते ।
एवं
‘मात्रानिमित्तसंयोगिविरोधिसहचारिभिः ।
स्वस्वामिवध्यघाताद्यैः साङ्खयानां सप्तधानुमा’ ।
इति साङ्खयाः परिसङ्खयातवन्तः ।
तत्सर्वमपाकर्तुं वा युक्तिरेवेत्यवधारणम् ।
नियतसम्बन्धवदेवानुमानं न सम्बन्धविशेषवदित्यर्थः ।
एतच्चोपपादयिष्यामः ।
५,३७०
केचिदाहुः ।
पक्षधर्मताप्यनुमानाङ्गमिति ।
तदप्यपाकुर्वन्नुक्तमेव विवृणोतिव्याप्तिरेवेति ।
… व्याप्तिरेव तु सा स्मृता । मनुव्_२,१.३१ब् ।
न्यायसुधा-
विशेषेणाप्यत इति व्याप्तिः ।
यदव्यभिचरितसाहित्योपेतमेव लिङ्गं सानुमा ।
न पक्षधर्मतावश्यम्भा(ववतीत्य)विनीत्यर्थः ।
यद्वा व्याप्तिरिति भावसाधनः ।
तथात्वे व्याप्तिरेव सानुमेति गौणो निर्देशः ।
व्याप्तिरेवानुमानाङ्गं न पक्षधर्मतेत्यर्थः ।
उपपादयिष्यते चैतद्वयधिकरणस्यापि साधकतामुपपादयताचार्येणैव ।
एतेन’ज्ञातसम्बन्धनियमस्यैकदेशस्य दर्शनात् ।
एकदेशान्तरे ज्ञानमनुमानमबाधितम्’ इत्यपि निरस्तम् ।
एकदेशतानियमस्याप्रयोजकत्वात् ।
५,३७२
यदुक्तं पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद्वयावृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वमिति पञ्चरूपोपपन्नमनुमानमिति ।
यथा(ऽऽह) ।
‘अनुमेयेन सम्बद्धं प्रसिद्धं च चशब्दसङ्गृहीतमिति ।
तदसत् ।
केवलान्वयिनो विपक्षाद्वयावृत्त्यभावेन केवलव्यतिरेकिणश्च सपक्षे सत्ताभावेनाव्यापकत्वात् ।
क्वचिच्चतूरूपोपपन्नत्वं क्वचित्पञ्चरूपोपपन्नत्वमिति चेत्(न) ।
एकप्रयोजकालाभात् ।
व्याप्तिपक्षधमर्तौपयिकत्वेनैषां ग्रहणम् ।
वस्तुतस्तु ते एवानुमानाङ्गमिति चेन्न ।
पक्षधर्मताया अप्यप्रयोजकत्वात् ।
तथाच व्याप्तिरेव प्रयोजिकेति वक्तव्यम् ।
किमनेन जल्पितेनेत्याहव्याप्तिरेवेति ।
अविनाभावो व्याप्तिः ।
५,३७६
सा द्विविधा ।
अन्वयव्यतिरेकभेदात् ।
साध्येन साधनस्य व्याप्तिरन्वयः ।
साधनाभावेन साध्याभावस्य व्याप्तिर्व्यतिरेक इति केचिदाचक्षते ।
तद्द्वैविध्यं तुशब्देन व्यवच्छिनत्ति ।
तथाहि ।
यो ऽग्निमान्न भवति स धूमवान्न भवतीति व्यतिरेकव्याप्तिः किं धूमेनाग्निसाधने उपयुज्यते किंवाग्न्यभावेन धूमाभावसाधने ।
नाद्यः ।
यो धूमवानसावग्निमानित्यन्वयव्याप्त्यैव तत्सिद्धेः ।
अन्यथा केवलान्वयवतो ऽसाधकत्वप्रसङ्गात् ।
किञ्चात्राभावयोर्व्याप्यव्यापकभावो, भावेन भावसाधनमिति सुभाषितम् ।
अन्यगतया व्याप्त्यान्यस्य साधकत्वे ऽतिप्रसङ्गात् ।
यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न ।
तथापि व्याप्यं लिङ्गमित्यस्याव्याप्तिप्रसक्तेः ।
यदभावयोर्व्याप्यव्यापकभावस्तयोरेव साध्यसाधनभाव इत्यभ्युपगमे नातिप्रसङ्ग इति चेन्न ।
तथापि व्याप्यं लिङ्गमित्यस्याव्यप्तिप्रसक्तेः ।
यदभावो यदभावस्य व्यापकः स तस्य व्याप्य इति नियमाददोष इति चेत्(न) ।
तर्हि न व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्धयुपयोगिनी, किन्नाम प्रकृतसाधनव्याप्तिसाधनोपयोगिनी ।
तत्र चान्वयिरूपतैव तस्याः ।
द्वितीयस्त्विष्यत एव ।
किन्नाम साप्यन्वयरूपैवेति न सर्वथा व्याप्तिद्वैविध्यं सम्भवतीति ।
५,३७७
एतेनानुमानस्य केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिभेदेन त्रैविध्यमपि परास्तम् ।
व्यतिरेकव्याप्तेरनुमानानङ्गत्वात् ।
सद्भावमात्रेण व्युत्पादनस्यातिप्रसङ्गित्वात् ।
कथं तर्हि केवलव्यतिरेकिणो गमकत्वमिति चेत् ।
को ऽयं केवलव्यतिरेकी नाम ।
केवलो व्यतिरेक एव यस्यासाविति चेत् ।
तर्हि कथमत्यन्तासतोः साध्यसाधनता स्यात् ।
दृश्यते तावदिति चेन्न ।
यतस्तस्यान्यैव गतिः ।
प्राणादिमत्त्वस्य सात्मकत्वेन व्याप्तिर्जीवच्छरीर एव गृहीता ।
अतस्तत्रैव विप्रतिपत्तौ न सोपदर्शयितुं शक्याभूत् ।
व्याप्तिमात्रमेवानुमानाङ्गं न पुनः सपक्षे तदुपदर्शनमपीत्यतो व्यतिरेकयोर्व्याप्त्या तदुपपादनं क्रियते ।
अयमत्र प्रयोगक्रमः ।
जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् यत्प्राणादिमत्तत्सात्मकं प्राणादिमच्चेदं तस्मात्सात्मकमिति प्रयुक्ते धूमस्याग्निनेवास्य न व्याप्तिर्दृश्यते ।
तत्कथमित्याकाङ्क्षायां प्रयोगान्तरं प्रवर्तते ।
प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम् तदभावव्यापकाभावत्वात् ।
यो यदभावव्यापकाभावः ।
स तद्वयाप्तो यथा धूमो ऽग्निनेति ।
तदेतावति वक्तव्ये यदन्यथा प्रयुज्यते तद्विवेकिनां स्फुटप्रतीतिकतया सङ्ग्रहरुचितया वेति ।
५,३७९फ़्.
स्यादेतत् ।
व्याप्यं चेदनुमानं तदा धूमः शब्दानित्यत्वे ऽप्यनुमानं स्यात् ।
व्याप्तो हि सो ऽप्यग्निनेति ।
मैवम् ।
व्याप्यमित्यस्य सम्बन्धिशब्दत्वात् ।
तथाच यो येन व्याप्यः स तस्मिन्ननुमानमित्युक्तं स्यात् ।
न चैवमतिप्रसङ्गो ऽस्ति ।
द्विविधा हि धर्मा भवन्ति ।
केचित्परस्परपरिहारेणैव वतर्मानाः ।
यथा कृतकत्वनित्यत्वे, स्वातन्त्र्यपारतन्त्र्ये चेत्येवमादयः ।
केचित्समाविष्याः ।
ते ऽपि त्रिविधाः ।
केचित्सङ्कीर्णाः ।
परस्परपरिहारेणैव वर्तमानयोरेकत्र समावेशः सङ्करः ।
यथा भूतत्वमूर्तत्वे, पुरुषत्वपाचकत्वे चेत्येवमादयः ।
केचित्परापरभावावस्थिताः ।
यथा सत्त्वद्रव्यत्वे, धूमवत्त्वाग्निमत्त्वे चेत्येवमादयः ।
केचित्तुल्यवृत्तयः ।
यथा कृतकत्वानित्यत्वे, गुरुत्वरसवत्त्वे चेत्या(त्येवमा)दयः ।
तत्राद्यानां परस्परसम्बन्ध एव नास्तीति नानुमानानुमेयभावः ।
विरुद्धसमाख्यया ते ऽभिधीयन्ते ।
द्वितीयानामपि सत्यपि सम्बन्धे परस्परव्यभिचारेण व्याप्यव्यापकभावाभावान्नानुमानानुमेयता ।
किन्तु परस्परमनैकान्तिकतयाभिधीयते ।
तृतीयेष्वपरेषां व्याप्यतयापरेषां व्यापकतयास्त्यनुमानानुमेयत्वम् ।
परे त्वव्याप्यतया नापरेष्वनुमानतामश्नुते ।
किन्नामानैकान्तिका एव ।
चतुर्थास्तु परस्परं व्याप्यव्यापकभावादन्योन्यमनुमानतामर्हन्तः प्रसिद्धयप्रसिद्धिभ्यां विशिष्टन्त इति सङ्क्षेपः ।
५,३८२
नन्वेवमपि धूमेनाग्निज्ञानं सर्वेषां स्यादित्यत उक्तं स्मृतेति ।
प्रमितत्वस्योपलक्षणमेतत् ।
स्मृता व्याप्तिरेव प्रमितमेव व्याप्यमनुमा ।
न त्विन्द्रियवत्सत्तामात्रेण प्रमाकरणमित्यर्थः ।
ननु तथापि नारिकेलद्वीपवासिनो धूमदर्शनादग्न्यनुमितिप्रसक्तिः ।
मैवम् ।
व्याप्यस्वरूपप्रमितिवद्वयाप्तिप्रमितेरप्यपेक्षितत्वात् ।
तथापि गृही(तविस्मृ)तास्मृतव्याप्तेस्तदवस्थः प्रसङ्ग इत्यत उक्तं स्मृतेति ।
स्मृता व्याप्तिरेव सानुमोपयोगिनीत्यर्थः ।
तथाच व्याप्तिस्मरणसव्यपेक्षं व्याप्यज्ञानमनुमानमित्युक्तं भवति ।
५,३८३
लिङ्गपरामर्शो ऽनुमानं परामर्शश्चानुसन्धानात्मकं तृतीयं ज्ञानमिति कश्चित् ।
तथाहि ।
महानसादौ धूमस्याग्निना व्याप्तिग्रहणसमये यज्ज्ञानं तत्प्रथमम् ।
गृहीतव्याप्तिकस्य पर्वतादौ यद्धूमज्ञानं तद्द्वितीयम् ।
ततः सम्बन्धिदशर्नसमुद्बुद्धसंस्कारकारण(क)स्य यो धूमवानसावग्निमानिति व्याप्तिस्मरणस्यानन्तरमयं चाग्निव्याप्तधूमवानिति
प्रतिसन्धानात्मकं यद्धूमज्ञानं तत्तृतीयमनुमानमिति ।
ततेतदन्यो न मन्यते ।
व्याप्तिस्मरणं पक्षधर्मताज्ञानमित्येतावदेव ह्यनुमानसामर्थ्यम् ।
तत्राननुभूताया व्याप्तेः स्मर्तुमशक्यत्वात्प्रथमं ज्ञानमिष्यते ।
द्वितीय(ज्ञान)मपि पक्षधर्मताविषयत्वादङ्गीक्रियते ।
ततो व्याप्तिस्मृतौ सत्यां किमपरमवशिष्यते यदर्थं तृतीयं ज्ञानमेष्यव्यमिति ।
स स्थूलदृश्वेत्याद्यः ।
न खलु सहकारितानुपपत्तेः ।
किन्तु सङ्कलिते ।
नच तत्सङ्कलितत्वं विना तृतीयज्ञानादिति कथं तन्नैष्यव्यम् ।
आत्मा सङ्कलयतीति चेत् ।
सत्यम् ।
वृत्त्या ह्यसौ सङ्कलयेन्न तु स्वरूपेणैव ।
नचैवं तदेवास्त्विति वाच्यम् ।
पूर्वेण विना तदनुपपत्तेरिति ।
वयं तु ब्रूमः ।
यत्र लिङ्गदर्शनादेव व्याप्तिस्मृतिः अस्तु तत्रोक्तप्रकारः ।
यदा तु गृहीतव्याप्तेर्विनापि लिङ्गदर्शनाद्वचनादिनैव व्याप्तिस्मृतिराविरस्ति यदा द्वितीयमेव लिङ्गदर्शनं प्रतिसन्धानात्मकमुदेष्यतीति
नावश्यम्भाविनीयं प्रक्रिया ।
यथा खलु संस्कारसाहित्ये सतीन्द्रियसन्निकर्षादेव सो ऽयमिति प्रत्यभिज्ञा जायते तथे(थात्रापी)त्यङ्गीकारे न कश्चिद्विरोध इति ।
५,३८६
ननु व्याप्तिरेव केन प्रमाणेन ग्राह्या ।
यथायथं प्रत्यक्षानुमानागमैरित्युक्तम् ।
यथा चैतत्तथा वक्ष्यामः ।
५,३८७
द्विविधमनुमानं स्वार्थं परार्थं चेति ।
तत्र यत्परोपदेशानुपे(क्ष्य)क्षं व्याप्तिस्मृतिमद्वयाप्यदर्शनं तत्स्वार्थम् ।
परोपदेशापेक्षं तु परार्थम् ।
ससामर्थ्यलिङ्गप्रतीतिजनकं वाक्यं परोपदेशः ।
तच्च प्रतिज्ञाहेतूदाहरणोपनयनिगमनैः पञ्चभिरवयवैरुपेतमित्येके ।
तमिमं नियममरोचयमान आहउक्तेति ।
उक्ता व्याप्तिरेव सानुमा ।
व्याप्त्युक्तिरेव परोपदेश इति यावत् ।
एवशब्दो नियमनिराकरणपरो न पुनः पक्षान्तरनिवृत्त्यर्थः ।
पक्षान्तरस्य स्वयमेव वक्ष्यमाणत्वात् ।
ननु यो धूमवान्सो ऽग्निमानिति व्याप्त्युक्तिः कथं प्रत्यायनाङ्गम् ।
वादिप्रतिवादिनोरन्योन्यस्मिन्ननाश्वासादित्यत उक्तं स्मृतेति ।
तुशब्दश्चशब्दार्थो जिज्ञासितेति समुच्चिनोति ।
गृहीतव्याप्तेस्तदुक्तिः स्मरणहेतुरगृहीतव्याप्तेस्तु जिज्ञासाजनिकेत्युच्यते ।
न त्वागमतयोपयुज्यत इत्याशयः ।
५,३८९
ननु च व्याप्त्युक्तिरेव परोपदेश इत्ययुक्तम् ।
प्रथमत एव व्याप्त्युक्तेरसङ्गतत्वादित्याशङ्कां परिहरन्’उक्ता व्याप्तिरेव सा’ इति प्रतिज्ञातमुपपादयतिप्रतिज्ञातेति ।
प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता । मनुव्_२,१.३१च्द् ।
अवशिष्यं किमत्रास्ति … । मनुव्_२,१.३२अ ।
न्यायसुधा-
प्रतिज्ञातार्थसिद्धयर्थमित्यसङ्गतेः परिहारः ।
तदेत्यध्यहायर्म् ।
किमाक्षेपे ।
अत्र वक्तव्ये ।
एतदुक्तं भवति ।
यो हि पर्वतमग्निमन्तं प्रतिपद्यमानः परेण निरग्निकं मन्यमानेन किं पर्वतस्याग्निमत्वे मानमित्यनुयुज्यते, स यदि यो धूमवानसावग्निमानिति
व्याप्तिमात्रं (परं प्रति) स्वप्रतिपन्नार्थसिद्धयर्थं ब्रूयात्तदा का नामासङ्गतिः ।
परपृष्टप्रमाणस्योपन्यस्यमानत्वात् ।
किंवा (किञ्चा)परं वक्तव्यमवशिष्यं यदर्थं शब्दान्त(रमवशिष्यं)रं वक्तव्यं स्यात् ।
अतो व्याप्तिवचनमेव परोपदेश इति ।
५,३८९फ़्.
स्यादेतत् ।
व्याप्तिपक्षधर्मतोपेततया लिङ्गानुसन्धानं खल्वनुमानम् ।
पक्षधर्मतामनङ्गं मन्यमानैरपि लिङ्गस्य सत्ता तावद(वश्यम)ङ्गीकरणीया ।
अन्यथा व्याप्त्यङ्गीकारव्याघातात् ।
सा च नाविवक्षितस्थाना ।
तथा सति यस्यकस्यचिद्धूमवत्त्वादिना सर्व(पर्वत)स्याप्यग्निमत्त्वादिप्रसङ्गात् ।
अतो व्याप्त्यनुसारेण नियतदेशधर्मताप्यङ्गीकरणीयैव ।
व्यधिकरणो ऽपि हि कृत्तिकागत एवोदयो रोहिण्युदयासत्तिं गमयति ।
नतु यत्रतत्रत्यः ।
ततस्तावदनेन वक्तव्यं यावता व्याप्तिविवक्षितस्थलधर्मतोपेततया लिङ्गस्यानुसन्धानं स्यात् तदप्याकाङ्क्षाक्रमेणाभिधातव्यमिति स्थिते,
निराश्रयस्य प्रमाणस्याभिधातुमशक्यत्वात् प्रमाणजिज्ञासोत्थापनाय विषयोपक्षेपरूपं पर्वतो ऽग्निमानिति प्रतिज्ञावाक्यं वक्तव्यम् ।
ततः कस्मादिदं प्रमाणात्प्रतिपत्तव्यमित्याकाङ्क्षायां पराङ्गतापन्नलिङ्गस्वरूपमात्रप्रतिपादकं धूमवत्त्वादिति हेतुवचनम् ।
ततो ऽस्य सामर्थ्यजिज्ञासायां व्याप्तिप्रतिपादनाया यो धूमवानसावग्निमानित्युदाहरणवाक्यम् ।
पक्षादिविवक्षितस्थलधर्मताप्रतिपादनार्थं धूमवांश्चायमित्युपनयः ।
ततः सर्वस्य बुद्धयारोहायैकवाक्यतामापादयितुं तस्मादग्निमानेवेति निगमनम् ।
अत एव प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतां मन्यमाना निरस्ता भवन्ति ।
तदेवमेतावति वक्तव्ये कथं व्याप्तिमात्रमुक्त्वा कृती स्यादिति ।
५,३९०
उच्यते ।
यत्तावत्प्रतिज्ञावश्यम्भावे कारणमुक्तं तदसत् ।
विवादेनैव विषयोपक्षेपस्य सिद्धतयाकाङ्क्षोदयस्य समर्थितत्वात् ।
तथाप्याकाङ्क्षितत्वाल्लिङ्गस्वरूपस्य तत्पक्षधर्मतायाश्च प्रतिपादनाय हेतूपनयौ वक्तव्याविति चेन्न ।
विकल्पानुपपत्तेः ।
तथाहि ।
किं येन धूमवत्त्वं पर्वतवृत्तितयावगतं तं प्रति हेतूपनयौ वक्तव्यौ, उत विपरीतं प्रति ।
आद्यं दूषयतिलिङ्गमिति ।
… लिङ्गं तत्र विजानतः । मनुव्_२,१.३२ब् ।
न्यायसुधा-
तत्र विवक्षिते स्थले ।
अवशिष्यं किमस्तीति पूर्वेणान्वयः ।
लिङ्गस्वरूपतदीयपक्षधर्ज्ञताविज्ञापनाय हि हेतूपयनोपयोगः ।
तच्चेद्विज्ञानं परस्य स्वतस्सिद्धं तदा किं हेतूपनयाभ्यामिति भावः ।
द्वितीयमनूद्य दूषयतियदीति ।
यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता । मनुव्_२,१.३२च्द् ।
न्यायसुधा-
तत्रेत्यनुवर्तते ।
असिद्धं परेणाप्रसिद्धम् ।
तदास्य लिङ्गस्य स्वरूपासिद्धस्य मानतैव कुतः ।
नास्तीति यावत् ।
दूरे वक्तव्यतेति एवशब्दार्थः ।
५,३९२
नन्वेवं सति व्याप्तिरपि न वक्तव्या ।
सापि यदि विदितव्याप्तिकं प्रत्युच्यते तदाभिधानवैयर्थ्यम् ।
विपरतीतस्य तु व्याप्यत्वासिद्धया तत्प्रमाणमेव न भवति (इति)कुतो व्याप्त्यभिधानमिति तत्रापि वक्तुं शक्यत्वात् ।
तथाच वादिप्रतिवादिनोर्मौनमेवापतितमिति ।
मैवम् ।
उभयथाप्यदोषात् ।
व्याप्तिर्हि न स्वरूपेणोपयोगिनी ।
नापि ज्ञाततामात्रेण ।
अपि तर्हि स्मर्यमाणा ।
तथाच गृहीतव्याप्तिकं प्रति तस्मारकत्वेन, (तया) अगृहीतव्याप्तिकं प्रति तु (तदैव) तज्जिज्ञासाजनकतया व्याप्तिवचनमुपयुज्यत इत्युक्तमेव ।
एवं तर्हि हेतूपनयावपि नानुपयुक्तौ ।
नहि पक्षधर्मोपेतं लिङ्गं स्वरूपेणोपयुक्तम् ।
नापि विदितत्वमात्रेण ।
किन्तु ज्ञातचरम् ।
स्मर्यमाणतया ज्ञायमानमपि न वृक्षादिसाधारण्येन ।
किन्तर्हि लिङ्गतया ।
तथाच विदितलिङ्गस्वरूपपक्षधर्मत्वं प्रति तत्स्मारकत्वेन लिङ्गतयानुसन्धायकत्वेनेतरं प्रति तज्जिज्ञासाजनकत्वेन हेतूपनययोः
सार्थक्यमेवेत्याशङ्कयाहयदीति ।
यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम् । मनुव्_२,१.३३अब् ।
न्यायसुधा-
स्मारकत्वमुक्तस्य सर्वस्योपलक्षणम् ।
मात्रग्रहणेन प्रत्यायकत्वं व्यावर्तयति ।
हेत्वादिकमिति शेषः ।
पक्षधर्मतोर्(मो)पेतस्य लिङ्गस्येति च ।
स्यादित्यतःपरं तन्न यत इत्यध्याहार्यम् ।
स्मर्तुरित्युपलक्षणम् ।
अत्र व्याप्तिवचने ।
निमित्तसप्तमीयम् ।
हेत्वादाविति च ।
५,३९५
ततश्च व्याप्तिवचनवद्धेत्वादिकमपि पक्षधर्मतोर्(मो)पेतस्य लिङ्गस्य स्मरणानुसन्धानजिज्ञासाजनकं स्यादिति यद्युच्यते तन्न ।
यतो व्याप्तिवचनेनैव तत्स्मरणादिमतस्तस्य हेत्वादिना प्रयोजनं नास्तीति योजना ।
एतदुक्तं भवति ।
यदि हि हेत्वादिकं वाक्यतया प्रत्यायकं स्यात्तदा समार्थ्यचिन्तोपयुज्यते ।
यदा तु तत्स्मारकत्वादिनैवोपयुक्तं तदा संस्कारोद्बोधोपयुक्तं सादृश्यसम्बन्धादिकं किमप्यन्वे(प्ये)ष्यव्यम् ।
तद्वयाप्तिवचने ऽपि समानम् ।
यो धूमवानसावग्निमानित्यभिहिते खल्वनुमानमुद्रावित् अत्र धूमवत्त्वं व्याप्यमित्यवबुध्यत एव ।
ततस्तदीयपक्षधर्मतादिस्मृत्यादिमानपि कथं न भवेदिति ।
५,३९७
यद्वा परोपदेशस्य पञ्चावयवतानियतिं वदन्प्रष्टव्यः ।
किमेतत्पञ्चावयवं वाक्यमागमतया व्याप्तिपक्षधर्मतोर्(मो)पेतस्य लिङ्गस्य प्रत्यायकम् ।
उत स्मारकादिमात्रम् ।
आद्ये तु स्यादे(वेदं)वं परव्युत्पादितरीत्या (वाक्यपरिमाणं) वाक्यं प्रमाणं कथञ्चित् ।
नचासौ युज्यते ।
वादिप्रतवादिनोरितरेतरस्मिन्ननाश्वासात् ।
आश्वासे वा प्रतिज्ञामात्रेणार्थसिद्धौ हेत्वाद्यभिधानवैयर्थ्यात् ।
द्वितीये त्वाहयदीति ।
५,३९८
परेपदेशं वाक्यं यदि स्मरणादिमात्रकारणमङ्गीक्रियते तदात्र व्याप्तिवचने सत्येव स्मर्तुर्व्याप्तिवचनादेव स्मरणाद्युत्पत्तेरिति यावत् ।
अत्र व्याप्तिवचनातिरिक्ते शब्दे प्रयोजनं नास्तीति नासाववश्यं वक्तव्यः ।
दृश्यते खलु लोके पदैकदेशादितो ऽपि पदार्थस्मरणादिकम् ।
शास्त्रे ऽपि च वाक्यैकदेशप्रयोगः ।
तत्र वक्तुराप्तत्वावधारणादनुसरणं प्रतिवादिनि तु तन्नास्तीति चेन्मा भूत् ।
न ह्येतदागमतया प्रत्यायकमित्यक्तम् ।
अन्यथा सांव्यावहारिकः केवलव्यतिरेकिप्रयोगो ऽपि नानुसरणीयः ।
वास्तवप्रयोगपरिमाणान्यथात्वस्योपपादितत्वात् ।
प्रतिवादिन्यप्यनुसरणे निग्रहस्थानोद्भावनं न स्यादिति चेत् ।
लौकिकशास्त्रीयसंव्यवहारातिक्रमे तदवकाशात् ।
अन्यथा प्रकरणाद्यापन्नस्यासङ्कीर्तनमपि निग्रहहेतुः स्यात् ।
किं प्रकरणाद्यापन्नतयायं न वदत्युताप्रतिपन्नत्वादिनेति सन्देहस्य प्रकृते ऽपि तुल्यत्वादिति ।
५,४०२
अपर आह ।
प्रमेयावधारणार्थं हि प्रमाणोपन्यासः ।
प्रमेयावधारणं च निर्विवादा तत्प्रतीतिः ।
नच सा प्रमाणस्वरूपमात्रोपदर्शने(न) भवति ।
किन्नाम तदाभासोद्धारेणापि ।
अन्यथा तत्प्रामाण्यस्यैवानवस्थानात् ।
तथाच प्रतिज्ञावाक्येन विषयमुपक्षिप्य तत्र हेतुना प्रमाणस्वरूपमुपदर्श्य तस्योदाहरणवाक्येन विरुद्धानध्यवसितानैकान्तिकत्वनिरासः क्रियते ।
उपनयेनासिद्धिरपास्यते ।
निगमनेनापि हेत्वनुवादेन तस्मादेव नान्यस्मादिति सिद्धसाधनतापक्षिप्यते ।
साध्यानुवादेन (तु)अग्निमानेव न तु निरग्निक इति बाधप्रतिपक्षप्रतिक्षेपः क्रियते ।
तदेवं विधूतविवादसाध्यप्रतिपत्तये पञ्चावयववाक्यमावश्यकमिति ।
तदयुक्तम् ।
एवं वदता हि (ऽपि) यावता विवादावसानं तावान्परोपदेश इत्युक्तं स्यात् ।
तथाच पञ्चावयवं वाक्यं परोपदेश इत्ययुक्तम् ।
पञ्चावयवोक्तावपि विवादावसितेरभावात् ।
किन्त्वाकथापरिसमाप्तेः परोपदेश इति वक्तव्यमित्याशयवानाहनेति ।
न पञ्चावयोक्तौ च विवादावसितिर्भवेत् । मनुव्_२,१.३३च्द् ।
न्यायसुधा-
विवादाध्यवसितिः विवादावसानोपेता साध्यप्रतीतिः ।
५,४०३
नन्वेतदयुक्तम् ।
उदाहरणाद्यवयवत्रयेणाभासोद्धारस्य कृतत्वात् ।
निरस्तसमस्ताभासप्रमाणोपन्यासे ऽपि विवादानवसाने सर्व(दा)थापि तत्प्रसङ्गादित्यत आहदृष्टान्तेति ।
५,४०४
दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव हि । मनुव्_२,१.३४अब् ।
न्यायसुधा-
दृष्टान्तपदेनोदाहरणार्थमुपलक्षयति ।
आदिपदेनोपनयनिगमनार्थग्रहणम् ।
विषयसप्तमीयम् ।
एवं यथा प्र(तिज्ञा)तीतार्थे ।
साधनं वक्तव्यमिति शेषः ।
स्यादेवेति सम्बन्धः ।
तुशब्दो यस्मादित्यर्थे ।
अयमर्थः ।
सत्यमुद्धृताभासात्प्रमाणात्प्रमेयावधारणं भवतीति ।
किन्तु पञ्चभिरप्यवयवैस्तादृशप्रमाणप्रतीतिरेव न भवतीति ब्रूमः ।
आभासोद्धारपरोदाहरणाद्यर्थविप्रतिपत्तौ तत्साधनस्यापि वक्तव्यत्वात् ।
नच तत्र विप्रतिपत्तिर्न कर्तव्या ।
नापि वाङ्मात्रेण तन्निवृत्तिः ।
प्रतिज्ञार्थसमानयोगक्षेमत्वात् ।
नचोदाहरणादिष्वेव सर्वशङ्कोद्धारकारणमस्ति ।
अनुपलम्भात् ।
पञ्चावयवप्रयोग एव कथापुद्रणापातात् ।
अतः प्रमेयनिणर्यावधित्वे ऽनुमानप्रयोगस्य न पञ्चावयवत्वनियमो युज्यते ।
अपि तु कथपरिसमाप्त्यवधिकत्वमेवाङ्गीकार्यमिति ।
५,४०५
सत्यं निःशेषतो विवादनिवृत्तिर्न पञ्चावयवप्रयोगे ऽपि भवतीति ।
तथाप्यवान्तराकाङ्क्षानिवर्तकत्वेन पञ्चावयवमेवावान्तरवाक्यं परिसमाप्यत इत्यत आहलिङ्गेति ।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा । मनुव्_२,१.३४च्द् ।
न्यायसुधा-
चो हेत्वर्थे ।
अनुमेति तत्सम्बन्धिवाक्यमुपलक्ष्यते ।
एवं सति किमत्र प्रमाणमित्यवान्तराकाङ्क्षानिवृत्तिहेतौ धूमत्वमिति लिङ्गोक्तौ कृतायामपि अवान्तरवाक्यपर्यवसानमवश्यं भवतीति
तन्मात्रमेव वाक्यमङ्गीकरणीयम् ।
नतु पञ्चावयवत्वनियतिरिति ।
५,४०६
यदुक्तं स्मरणादिमात्रहेतुत्वेन वाक्यस्योपयोगस्तच्च व्याप्तिवचनमात्रेण भवतीति व्याप्तिरेव वक्तव्येति तदयुक्तम् ।
तथा सति लिङ्गमात्रवचनस्यापि प्रयोक्तव्यत्वापातात् ।
सम्भवति हि तस्यापि व्याप्तिपक्षधर्मतास्मरणादिहेतुत्वमि(ते)त्युक्ताभिप्रायमजानानस्य चोद्यं वा परिहरतिलिङ्गेति ।
यथा व्याप्त्युक्तावेवं लिङ्गोक्तावप्यनुमावसितिर्ध्रुवा स्यात् ।
इष्यापादनमेतदित्यर्थः ।
चशब्दः प्रतिज्ञाहेतुगर्भैवेत्याद्युक्तपक्षान्तरसमुच्चये ।
नचैवं सति व्याप्तिरेवेत्यवधारणानुपपत्तिः ।
येन येन प्रकारेण व्याप्त्यादिस्मरणादिकं भवति ।
यश्च सांव्यावहारिकस्तं तमुपादाय नियमनिराकरणस्य तत्रेष्टत्वादित्यभिसन्धिः ।
एतेन प्रतिज्ञाहेतुभ्यामुपनयनिगमनयोर्गतार्थतापि समर्थिता वेदितव्येति ।
। इत्यनुमानलक्षणनिरूपणम् ।
५,४०७
निर्दोषतामन्तर्भाव्य युक्तिरनुमेत्यक्तम् ।
दोषपरिज्ञान एव तद्वियुक्ता युक्तिः सुज्ञानेत्यतो युक्तिदोषो निरूपणीयः ।
धूमादेरग्न्यादिप्रमितिजनकत्वे ऽपि,यन्निमित्तं कश्चिदर्थो ऽर्थान्तरज्ञानं न जनयति, संशयविपर्ययौ वा करोति, स युक्तिदोषः ।
स द्विविधः ।
साक्षाद्वाचनिकश्च ।
तत्राद्यं विभागेनोद्दिशतिविरोध इति ।
विरोधो ऽसङ्गतिश्चैव साक्षाद् युक्तेस्तु दूषणम् । मनुव्_२,१.३५अब् ।
५,४०९
न्यायसुधा-
प्रायेणानुमानदोषो विरोध एवान्तर्भव(न्ती)तीति प्राधान्यात्प्रथमं तदुद्देशः ।
एवेति परपरिसङ्खयातमाधिक्यं निराकरोति ।
दोषाणां सतामत्रैवान्तर्भावात् ।
अनन्तर्भूतानां च दोषत्वनिरासात् ।
साक्षादिति ।
वचनोपधानेन विना अर्थनिष्ठम् (उक्तं) उक्तयुक्तेः सामर्थ्यम् ।
दूषणं त्विति तुशब्दसम्बन्धः, साक्षात्विति वा ।
युक्तेर्युक्तित्वाभिमतस्यार्थस्य ।
५,४११
साधनाभिमतस्यार्थस्य साध्याभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वं विरोध इति
शिष्यैरेवोह्यतामित्याशयवानसङ्गतिं निरूपयतिप्रतिज्ञायामिति ।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः । मनुव्_२,१.३५च्द् ।
न्यायसुधा-
प्रतिज्ञापदेन तदर्थो लक्ष्यते ।
विषयसप्तमीयम् ।
असम्बन्धो ऽत्राकाङ्क्षालक्षणसम्बन्धविरहः ।
अत्रापि युक्तेरिति गौणो निर्देशः ।
असम्बन्धो ऽसङ्गतिरिति पर्यायावित्यतो व्यवहारसाध्यतासूचनायोक्तेत्युक्तम् ।
विरोधासङ्गतिस्वरूपस्य स्फुटत्वादन्यैरुपदर्शितत्वाच्च किमत्रोदाहरणोपदर्शनेनेति हिशब्देनाह ।
५,४१३
ननु कथं द्वे एवानुमानदूषणे परपरिगणितानामसिद्धत्वादीनां बहूनां सत्त्वादित्यतस्तेषामत्रान्तर्भावं विभावयितु विरोधविभागमाहविरोधो ऽपीति ।
विरोधो ऽपि त्रिधैव स्यात् … । मनुव्_२,१.३६अ ।
न्यायसुधा-
सामान्यविभागेन सह विशेषविभागस्य समुच्चये अपिशब्दः ।
असङ्गतिरप्यनेकविधेति वा त्रिधैव न त्वेकविधैव येनासिद्धयादीनामन्तर्भावो दुर्घटः स्यात् ।
यद्वा यावन्तो ऽनुमानाभासाः परपरिगणितास्तावद्भेदतां नि(राकर्तु)वतर्यितुमेवशब्दः ।
सर्वेषामत्रैवान्तर्भावात् ।
त्रैविध्यं दर्शयतिप्रतिज्ञार्थेति ।
५,४१४
… प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर् … । मनुव्_२,१.३६ब्च् ।
न्यायसुधा-
साध्यधर्मविशिष्टो धर्मी प्रतिज्ञार्थः ।
तस्य प्रतिस्पर्धिसद्भावो विरुद्धता ।
यत्रार्थे लिङ्गप्रमितिः साध्यसिद्धयुपयोगिनी तत्र तदभावो लिङ्गराहित्यम् ।
व्याप्तेरभावो ऽव्याप्तिः ।
इतिशब्दो ऽध्याहार्यः ।
५,४१५
साध्यसाधनभावसम्बन्धयोग्यताविरहो हि साध्यसाधनाभिमतयोस्तद्भावासम्भवे भवति ।
नच साधनस्य तद्भावे ऽपि विरुद्धस्य साध्यता सम्भवति ।
निशितत्वे ऽपि परशोराकाशस्य छेद्यताभावात् ।
नापि साध्यस्य तथात्वसम्भवे ऽप्यसमर्थस्य
साधनतोपपद्यते ।
छेद्यत्वे ऽपि काष्ठस्य कुण्ठकुठारस्य छेदन(क)त्वाभावात् ।
अतः प्रतिज्ञार्थविरुद्धतादीनां युक्तं विरोधित्वम् ।
५,४१६फ़्.
अस्तु लिङ्गराहित्याव्याप्त्योर्युक्तिदोषत्वम् ।
प्रतिज्ञार्थविरुद्धता तु कथं तद्दोषः ।
साध्यसम्बन्धित्वादिति चेन्न ।
साध्याभिमतस्य तद्भावासम्भवे साधनाभिमतस्याविषयवृत्तित्वात् ।
नन्वेवं सति सिद्धसाधनतापि विरोध एव स्यात् ।
नहि सिद्धस्य साध्यता सम्भवति ।
नचास्त्विति वाच्यम् ।
उक्तप्रकारत्रयानन्तर्भावात् ।
सिद्धसाधको ऽसङ्गत इति स्ववचनविरोधाच्चेति ।
मैवम् ।
सति साकाङ्क्षत्वे ऽन्वयायोग्यत्वं विरोधः ।
नच सिद्धसाधनस्य साकाङ्क्षता अस्तीति नासौ विरोधे ऽन्तर्भवति ।
५,४१८फ़्.
ननु चान्यत्र त्रिविधो विरोध इत्यादिना लिङ्गराहित्याव्याप्त्योरेकतामुपादाय साध्यस्य साधनस्य वानुगमो दृष्टान्तविरोधस्तृतीयतया परिगृहीतः ।
अत्रापि साध्यसाधनवैकल्यं दृष्टान्तस्येति वक्ष्यति ।
तत्कथमेतत् ।
नचात्रापि तदध्याहारेण तथैव व्याख्यानं युक्तम् ।
दृष्टान्तदोषस्यानुमानदोषतानुपपत्तेः ।
नहि दृष्टान्तो ऽनुमानम् ।
तथाप्यनुमानाङ्गव्याप्तिदूषकतयानुमानदोषत्वमस्तु ।
दृष्टान्तस्य साध्यवैकल्ये साधनस्य साध्यपरित्यागात् ।
साधनवैकल्ये तु व्याप्तेरनुपदर्शनादिति चेन्न ।
तथा सत्यव्याप्त्यैव सङ्गृहीतत्वेन तृतीयत्वानुपपत्तेरिति ।
उच्यते ।
स्वार्थानुमाने हि दृष्टव्याप्तिकस्य लिङ्गस्य विवक्षितस्थले सिद्धिमात्रेण साध्यप्रमितिरुत्पद्यत इति तत्परिपन्थिनां दोषत्वमभिप्रेत्य
प्रतिज्ञार्थविरुद्धतालिङ्गराहित्याव्याप्तीनामत्र ग्रहणम् ।
परार्थानुमाने(ऽप्य)त्वव्याप्त्यौपयिकस्यापि दृष्टान्तदोषस्य तदाश्रयतया प्रतीतत्वेन तथैवोद्भवनीयताज्ञापनाय तेन सह त्रिविधत्वमन्यत्रोक्तमिति
न विरोधः ।
५,४२०
यद्वा साध्यसाधनोभयाश्रयहीनसाध्यसाधनोभयव्यावृत्ताश्रयहीनानष्टौ दृष्टान्तदोषानेके भाषन्ते ।
तन्निरासाय दृष्टान्तदोषस्य पृथगुपादानम् ।
तथाहि उभयविकलस्तावन्न परिसङ्खयेयः ।
अन्यतरवैकल्येनैव (दृष्टान्त)दुष्यतासिद्धावाधिक्यप्रसङ्गात् ।
अन्यथैकैकविकलपरिसङ्खयानानुपपत्तेः ।
कथं तर्ह्यन्वयव्यतिरेकीति चेत् ।
न कथञ्चिदित्युक्तमेव ।
साध्याद्यव्याप्तिस्तु दृष्टान्तस्य गुण एव न दोषः ।
सतो हि सता व्याप्तिं प्रदर्शयितुं दृष्टान्तो ऽन्वेष्यव्यः ।
वैधर्म्यदृष्टान्तस्यायं दोष इति चेत्स एव किमर्थः ।
व्यतिरेकव्याप्तिबोधयेति चेन्न ।
तस्याः साक्षादनुपयोगात् ।
पारम्पर्येणोपयोगो तु साधर्म्यदृष्टान्त एवासाविति किं पृथगुपादानेन ।
उभयाव्यावृत्तश्चाधिक्यान्नि(क्यनि)रस्तः ।
आश्रयहीनस्त्वाश्रयासिद्धिसमानयोगक्षेम इति द्वावेव दृष्टान्तदोषौ ।
असार्वत्रिकश्च दृष्टान्तदोषः ।
नहि सर्वत्र दृष्टान्त एव व्याप्तिरुपदर्शनीयेत्यस्ति नियमः ।
आनुमानिकागमिकव्याप्तेस्तदनपेक्षणात् ।
५,४२३
स्यादेतत् ।
प्रतिज्ञार्थविरुद्धतया हि कालातीतप्रकरणसमौ सङ्गृहीतौ ।
लिङ्गराहित्यमित्यसिद्धिः ।
अव्याप्तिश्च त्रिविधा भवति ।
साधनस्य साध्येन सम्बन्धाभावः ।
सत्यपि सम्बन्धे तदभावेनापि सम्बन्धः, साध्याभावव्या(प्त)प्यता चेति ।
तदेतत्त्रयं क्रमेणानध्यवसिता नैकान्तिकविरुद्धसञ्ज्ञां लभते ।
तथाच परनिरूपितप्रस्तारस्य समसनमेवानेन कृतं स्यात् ।
नचानेन किमपि प्रयोजनम् ।
अन्यथा पुरुषमतिवैश्वरूप्येण प्रक्रियान्तरस्यापि सावकाशत्वात् ।
नच ब्रह्मतर्कादितर्कशास्त्रमनुसृत्येत्थं व्युत्पादनमिति वाच्यम् ।
प्रयोजनाभावे ऽन्धपरम्परापत्तेरिति ।
५,४२३फ़्.
उच्यते ।
अस्ति प्रक्रियान्तरकरणस्य प्रयोजनम् ।
तथाहि ।
प्रतिज्ञार्थविरुद्धतया हि स्ववाक्यविरोधस्यापि सङ्ग्रहं वक्ष्यति ।
नच कालातीतत्वादिना स लभ्यते ।
अपि च व्यवहारो ऽपि प्रतिज्ञार्थविरुद्धतयोपपद्यते, न कालातीतत्वादिना, वैयर्थ्यप्रसङ्गात् ।
असाधकमिदं कालातीतत्वात् ।
सत्प्रतिपक्षत्वादित्यस्य प्रबलसमबलप्रमाणविरुद्धत्वादित्यर्थः ।
नचात्र विशेषणस्य किमपि प्रयोजनमस्ति ।
हीनबलस्य प्रमाणपदेनैव निरस्तत्वात् ।
प्रमाणतदाभासाविवेक एव हि प्रमाणशब्दप्रयोगो न त्वप्रामाण्यनिश्चये ।
अहीनबलतया वा विशेषणे सम्भवति तदवान्तरभेदोपादानं निरथर्कमेव ।
तथाचैकमेवेदं दूषणं स्यात् ।
लिङ्गराहित्यग्रहणेन चादूषणानामपि दूषणतया परपरिगणितानामाश्रयव्यधिकरणसाध्यान्यथासिद्धीनां निरासो लभ्यते
अन्यथासिद्धेर्दूषणत्वे ऽपि प्रकारान्तस्य वक्ष्यमाणत्वात् ।
व्यास(१३)
५,४२७
अनध्यवसितत्वादिभेदो ऽपि किं व्याप्त्यभावे सम्भवतीत्येतावता परिसङ्खयेयो व्यवहारोपयोगित्वाद्वा ।
नाद्यः ।
व्यर्थव्युत्पादनस्यातिप्रसङ्गित्वात् ।
न द्वितीयः ।
वैयर्थ्यप्रसक्तेः ।
नेदं साधकमनैकान्तिकत्वादित्यस्य हि सपक्षवृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः ।
नचात्र विशेषणव्यवच्छेद्यं किञ्चिदस्ति ।
एवं विरुद्धत्वादित्यस्य सपक्षावृत्तित्वे सति विपक्षवृत्तित्वादित्यर्थः ।
तथाच वैयर्थ्यमेव ।
साध्यविपर्ययव्याप्यत्वादित्यत्रापि सम्बन्धमात्रेण कृतार्थत्वे व्याप्तिग्रहणं व्यर्थमेव ।
एवमवान्तरभेदव्युत्पादनमपि निरस्तम् ।
शिष्यमतिवैशद्याय व्युत्पादनं त्वनुमतमेवेति न स्वीयव्यवहारविरोध इति ।
विरोधवदसङ्गतेरपि प्रभेदाः स्वयमेवोहनीयाः ।
५,४२९
एवं साक्षाद्युक्तिदोषमभिधाय वाचनिकदोषमाहन्यूनेति ।
… न्यूनाधिक्ये तु वाचिके । मनुव्_२,१.३६द् ।
न्यायसुधा-
न्यूनशब्दो भावप्रधानः ।
युक्तेर्दूषणमिति प्रकृतमनुवर्तते ।
अवश्यवक्तव्यापरिपूर्तिर्न्यूनत्वम् ।
कृतकार्यत्वमाधिक्यम् ।
वचनदोषात्तत्प्रतिपादिता युक्तिरपि दुष्या स्यादित्येतयोर्वाचनिकत्वम् ।
नन्वयुक्तो ऽयं विभागः ।
विरोधासङ्गत्योरपि वाचि(चनि)कत्वात् ।
नहि कृतकत्वं स्वयमेव दुष्यम् ।
अनित्यत्वसाधने ऽपि तथात्वापत्तेः ।
कृशानुशैत्यादौ तथेति चेत् ।
तत्किं कृतकत्वं कृशानुशैत्यं वा शब्दनित्यत्वं वा साधयितुं स्वयमेव प्रवृत्तम् ।
येन तत्र दुष्यं स्यात् ।
किन्नाम तत्साधनतया शब्देन प्रतिपादि(दर्शि)तम् ।
एवमसङ्गतावपि सिद्धसाधनतादिलक्षणायां वाच्यमित्याशङ्कानिरासार्थं तुशब्दः ।
न्यूनाधिक्ये एव वाचनिके, न विरोधासङ्गती ।
स्वार्थानुमाने ऽपि दर्शनादिति भावः ।
सन्तु तर्हि प्रतिपत्तृप्रतिपादकयोरेवैते दोषाः ।
यथा निशातम् कृशानुशैत्यादौ व्यापारयन्पुरुष एवापराधी स्यात् नतु कृतकत्वादिकमिति ।
मैवम् ।
कृतकत्वादेरदुष्टत्वे तद्वयापारयतो ऽप्यपराधानुपपत्तेः ।
अन्यथा शब्दनित्यत्वसाधने प्रयुञ्जानो ऽप्यपराध्येत ।
ततः कृशानुशैत्यादेः साध्यतानर्हत्वं नित्यत्वादिसाधने कृतकत्वादेरसमर्थत्वमित्यादिरर्थशब्दगत एव दोषो ऽङ्गीकरणीयः ।
न ह्युपाधिमन्तर्भाव्य भवन् दोषो न दोषो भवति ।
तथा सति बहुविप्लवापत्तेरिति ।
५,४३३
ननु कथमेत एवानुमानदोषाः ।
सोपाधिकत्वस्याप्यतिरिक्तस्य सत्त्वादित्यतस्तत्स्वरूपानुवादेनोक्तान्तर्भावमाहसाध्येति ।
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च । मनुव्_२,१.३७अब् ।
न्यायसुधा-
साधनस्य यत्साध्यव्यापकवैलोम्यं साव्याप्तिः ।
चशब्दात्सत्प्रतिपक्षता च ।
साध्यस्याधर्मसाधनत्वादेर्व्यापको यो निषिद्धत्वादिधर्मः ।
यत्राधर्मसाधनत्वं तत्र निषिद्धत्वमिति नियमात् ।
तेन साधनस्य हिंसात्वादेर्वैलोम्यं साध्यापेक्षया वैपरीत्यमव्याप्तत्वमिति यावत् ।
यत्र हिंसात्वं तत्र निषिद्धत्वमिति नियमाभावात् ।
वैधहिंसायां सत्यपि हिंसात्वे निषिद्धत्वाभावात् ।
तदनेन सोपाधिकत्वस्य स्वरूपमुक्तम् ।
साध्यव्यापकत्वे सति साधनाव्यापको हि धर्म उपाधिः, तद्वत्त्वं च साधनस्य साध्यव्यापकाव्याप्यत्वमेव ।
एतत्प्रागनुमानाद्वयाप्तिग्रहणवेलायामव्याप्तिरेव ।
साध्यव्यापकं परित्यजतः साध्यपरित्यागावश्यम्भावात् ।
नहि साध्यमपरित्यजन् तद्वयापकं परित्यजतीति युज्यते ।
साध्यपरित्यागश्चाव्याप्तिरेव ।
५,४३४
अपरे तु निरुपाधिकः सम्बन्धो व्याप्तिः ।
सोपाधिकत्वे तु लक्षणाभावाद्वयाप्त्यभाव इत्याचक्षते ।
तदसत् ।
व्याप्तिज्ञानाधीनमुपाधिज्ञानं तदधीनं च निरुपाधिकत्वज्ञानं तदायत्तं व्याप्तिज्ञानमिति चक्रकप्रसङ्गेन तस्य व्याप्तिलक्षणत्वानुपपत्तेः ।
तत्किं सापाधिकस्याप्यस्ति व्याप्तिः ।
मैवम् ।
व्याप्तत्वानुपाधिकत्वयोः समनियमे ऽपि व्याप्तिबोधानङ्गतयोपाध्यभावस्य लक्षणत्वानुपपत्तेरुक्तत्वात् ।
५,४३५
नन्वेवं चेत्कथं साध्यसाधनव्यवहारः ।
आगामिसम्भावनापेक्षयेति ब्रूमः ।
वस्तुतस्तु यो धर्मो यद्वयापकाव्याप्तस्तस्य तेनाव्याप्तिरित्येव वक्तव्यम् ।
अनुमानप्रवृत्त्युत्तरकालं तु सत्प्रतिपक्षतैव ।
साधनस्य साध्यव्यापकपरित्यागो हि पक्षादन्यत्र वा स्यात्पक्षे वा ।
न तावदाद्यः ।
तथा सति स्फुटव्यभिचारपरित्यागेनोपाध्युद्भावनस्यानवसरत्वात् ।
द्वितीये तु साध्यव्यापकस्य पक्षाद्वयावृत्तिः साध्यमपि व्यावर्तयतीति सत्प्रतिपक्षतैव ।
एतेनोपाध्यभावस्य प्रतिपक्षत्वे नोपाधेर्दूषणत्वम् ।
नहि यदभावो यत्र दूषणं सो ऽपि तत्र दूषणमिति युक्त विरोधादिति परास्तम् ।
पक्षव्यावृत्तिप्राधान्येनैवोपाधित्वात् ।
एतदर्थं च साध्यव्यापकस्य वैलोम्यं पक्षाद्वयावृत्तिः साधनस्य सत्प्रतिपक्षतेति योजनीयम् ।
भावप्रधानस्यादोषत्वं त्विष्यमेव ।
५,४३६फ़्.
ननु च प्रागनुमानादपि सत्प्रतिपक्षतानुमानोत्तरमव्याप्तिर्वा किन्न स्यात् ।
मैवम् ।
पक्षे हि साध्यस्योपसंहारे प्रतिपक्षावसरः ।
नच व्याप्तिग्रहणसमये पक्षादिप्रविभागो ऽस्तीति कथं तदा प्रतिपक्षत्वं स्यात् ।
अनुमानोत्तरमव्याप्तिः कथमिति वक्तव्यम् ।
साध्यव्यापक उपाधिः पक्षाद्वयावर्तमानः साध्यमपि व्यावर्तयति ।
तथाच साध्यरहिते तत्र वर्तमानं साधनं साध्यं व्यभिचरतीति चेन्न ।
तथा सति बाधितसत्प्रतिपक्षयोरपि व्यभिचारितापातात् ।
ओमिति चेन्न ।
निरसिष्यमाणत्वात् ।
बाधप्रतिपक्षाभ्यामेवानुमानदूषणसम्भवे किं तदुपजीविना व्यभिचारेणेति चेत्, तर्हि व्यापकव्यावृत्त्या प्रतिपक्षेणैवानुमाने दूषिते किं
तदुपजीविना व्यभिचारेणेति तुल्यम् ।
५,४३७
किञ्च पक्षे व्यभिचारः किं निश्चित उत सन्दिग्धः ।
नाद्यः ।
विकल्पानुपपत्तेः ।
तथाहि ।
पक्षे साध्याभावो निश्चितो न वा ।
आद्ये किं प्रमाणान्तरेणोत साध्यव्यापकोपाधिव्यावृत्त्या ।
प्रथमे तत एवानुमानं दुष्यमिति किमुपाधिना ।
न द्वितीयः ।
परस्पराश्रयत्वप्रसङ्गात् ।
उपाधेः साध्यव्यापकत्वनिश्चये तद्वयावृत्त्या साध्यव्यावृत्तिनिश्चयः सति च तस्मिन्नसाविति ।
नेति पक्षे साध्यव्यापकत्वानिश्चयात् उपाधेः, कथं तद्वयावृत्त्या पक्षे साधनस्य निश्चितो व्यभिचारः स्यात् ।
पक्षे सन्दिग्धो व्यभिचारस्तु स्वत एव सिद्धो सोपाधिमुखनिरीक्षणापेक्षः ।
सर्वानुमानोच्छेदहेतुश्च ।
तस्मादनुमानोत्तरकालं सत्प्रतिपक्षतैवेत्युचितम् ।
एतदेवाभिप्रेत्य’स एवोपाधिदोषो ऽपि’ इत्यादिवचनात् ।
५,४३९
अनुकूलतर्कादिना साध्यव्यापकत्वनिश्चये सति पक्षे निश्चितव्यभिचारितासिद्धिरिति चेन्न ।
निश्चिसाध्यव्यापकव्यावृत्तेर्बाधकत्वेन तत एवानुमाने दूषिते व्यभिचारवैयर्थ्यात् ।
तथापि सोपाधिकत्वं सत्प्रतिपक्षत्वमिति गतः पक्ष इति चेन्न ।
प्रतिपक्षस्य यावज्जीवं तद्भावानङ्गीकारात् ।
सामर्थ्यानिर्धारणायामेव सत्प्रतिपक्षः, निर्धारिते तु सामर्थ्ये बाधको वा स्यात्, बाध्यो वेति को नाम नाभ्युपैति ।
५,४४०फ़्.
अत्र सोपाधिकत्वमिति वक्तव्ये साध्यव्यापकवैलोम्यमिति वचनमुपाधिलक्षणस्यापि प्रदर्शनार्थम् ।
तदपि साध्यसमव्यापकत्वपक्षनिरासाय ।
नन्वेष पक्षष्टीकाकृताङ्गीकृतः ।
मैवम् ।
परमतानुवादत्वात् ।
अन्यथैकसाध्याविनाभाव इत्युदयनवचनोदाहरणवैयर्थ्यात् ।
दूषणं तु स्फुटत्वान्नोक्तम् ।
तथा हि ।
समपदं किं विषमव्याप्तिकव्यवच्छेदार्थमुत प्रयोजनान्तरार्थम् ।
नाद्यः ।
पार्थिवपरमाणुरूपादयो नित्याः परमाणुविशेषगुणत्वात् आप्यपरमाणुरूपादिवदित्यादौ
पृथिवीविशेषगुणत्वाभावादेर्विषमव्याप्तिकस्याप्युपाधित्वेन तद्वयवच्छेदस्यायुक्तत्वात् ।
प्रतिपक्षोन्नायकत्वसम्भवेन दूषणत्वाच्च ।
विषमव्याप्तिकस्योपाधित्वे पक्षेतरत्वस्यापि तत्प्रसङ्ग इति चेत् ।
तत्किमुक्तविशेषणद्वयोपेतं न वा ।
नेति पक्षे तत एवानुपाधित्वम् ।
आद्ये तु तस्याप्युपाधित्वे को दोषः ।
पर्वतेतरत्वादेः सर्वत्र सम्भवेन नैवमिति चेन्न ।
अनुमानव्याप्त्यादिग्राहकप्रमाणप्राबल्ये सति साध्यव्यापकत्वभङ्गात् ।
तदभावे चानुमानभङ्गस्येष्टत्वात् ।
अन्यथा शब्दो ऽभिधेयः प्रमेयत्वाद्घटवदित्यादावशब्दत्वादेः समव्याप्तिकपक्षेतरस्यानिरासप्रसङ्गात् ।
तदिदमिष्यमपि त्यजति अनिष्यमपि गृह्णातीति न विशेषणम् ।
५,४४५फ़्.
यदप्ययुक्तम् ।
‘स्वसम्बन्धेन यःस्वीयं धर्ममन्यत्र योजयेत् ।
स उपाधिर्यथा लोके जपादिः स्फटिकादिषु ।
इहाप्यव्याप्यहेत्वर्थव्याप्यत्वभ्रमहेतुता ।
उपाधेः स्यात्तदा तस्य समव्याप्तिर्यदा भवेत्’ इति ।
तत्र वक्तव्यम् ।
किमनेनोक्तं भवति ।
किं विषमव्याप्तिकस्य व्याप्यत्वाभावात्तत्सम्बन्धेन साधनाभिमते व्याप्यताभ्रमानुपपत्तेरदोषत्वेन तद्वयवच्छेदाय समपदमिति,
किंवान्वर्थोपाधिशब्दसम्पादनार्थमिति ।
नाद्यः ।
प्रतिपक्षोन्नायकत्वेन दूषणत्वसम्भवे स्वगतव्याप्त्यवभासकताभावस्यादोषत्वात् ।
साध्यसाहचर्यदर्शनेनैव व्याप्यताभ्रमसम्भवाच्च ।
न द्वितीयः ।
उपाधिशब्दसम्बन्धस्य स्वकपोलकल्पितत्वात् ।
अत एव भगवानाचायर्वर्यः सोपाधिकत्वमित्यनभिधाय साध्यव्यापकवैलोम्यमित्याह ।
व्यवहारास्तु परकृतसङ्केतेनापि निर्वहणीयः ।
यद्वा क्वचित्साध्यव्याप्यतासद्भावेनोपाधित्वे ऽन्यत्रापि गौण्या वृत्त्या उपाधिव्यवहारोपपत्तिः ।
अत एव न द्वितीयो ऽपि ।
५,४४९फ़्.
ननु च विषमव्याप्तिकस्य प्रतिपक्षोन्नायकत्वं न सम्भवति ।
क्वचित्पक्षेतरविपर्ययस्यासाधारणत्वादिति ।
मैवम् ।
असाधारणत्वस्य दूषणत्वासम्मतेः ।
सम्मतौ वा तत्रोपाधित्वाभावस्य व्युत्पादनात् ।
यत्रोपाधिः पक्षैकदेशाद्वयावर्तते तत्र कथं प्रतिपक्षः ।
भागासिद्धिप्रसङ्गात् ।
नचासौ नोपाधिः ।
पक्षैकदेशाद्वयावृत्त्यापि साधनाव्यापकत्वसम्भवात् ।
नचायं समव्याप्तिपक्षे ऽस्ति दोषः ।
उपाधिमत्येकदेशे साध्यसद्भावनियमेन तं विहायैकदेशान्तरस्यैव पक्षीकरणौचित्यादिति ।
उच्यते ।
अस्माभिरप्युपाधिव्यावृत्तिमा(नेवैक)नेकदेशः पक्षीक्रियते ।
एकदेशान्तरे ऽपि यदि साध्यसम्मतिस्तदा तस्यापक्षीकरणमेव ।
असम्मतौ तु तत्र दोषान्तरमेव भविष्यतीति किमनुपपन्नम् ।
ननु शङ्कितोपाधौ कथं प्रतिपक्षः सन्दिग्धासिद्धिप्रसङ्गेनासमबलत्वादिति चेन्न ।
पाक्षिकसिद्धयादिना सत्प्रतिपक्षताफलस्य संशयस्यानिवारणात् ।
संशयानङ्गत्वमेवासमबलत्वमभिप्रेतम् ।
५,४५३
स्यादेतत् ।
साध्यव्यापकत्वे सति साधनाव्यापकत्वं किमुपाधिसामान्यलक्षणं किंवा विशेषलक्षणम् ।
नाद्यः ।
समवायः समवेतः सम्बन्धत्वात्संयोगवदित्यत्र साधनावच्छिन्नसाध्यव्यापककृतकत्वोपाध्यव्यापनात् ।
वायुः स्पार्शनो ऽनुद्भूतरूपानधिकरणत्वे सत्युपलभ्यमानस्पर्शाधिकरणत्वाद्घटवदित्यत्र
द्रव्यत्वावच्छिन्नसाध्यव्यापकचाक्षुषत्वोपाध्यव्याप्तेश्च ।
नच साधनावच्छिन्नसाध्यव्यापकस्य यत्किञ्चिदवच्छिन्नसाध्यव्यापकस्य च नोपाधित्वमिति वाच्यम् ।
तत्र तत्राचार्यैरङ्गीकृतत्वात् ।
व्यतिरेकोपाध्यव्यापकत्वाच्च ।
न द्वितीयः ।
सामान्यलक्षणान्तरस्य वक्तव्यतापातात् ।
न चान्वयव्यतिरेकिधर्मत्वं तदिति वाच्यम् ।
तस्यात्रायमुपाधिरिति व्यवहारकारणत्वाभावात् ।
तथात्वे च लक्षणवैयर्थ्यादिति ।
५,४५८
अत्र ब्रूमः ।
इदमेव सामान्यलक्षणम् ।
साध्यपदेनावच्छिन्नानवच्छिन्नसाध्यस्याभिधानात् ।
नच तत्र प्रतिपक्षासम्भवः ।
यदवच्छिन्नसाध्ये य उपाधिस्तद्वयावृत्तेस्तद्विशिष्टाभावे हेतुत्वोपपत्तेः ।
यथा समवायः सम्बन्धत्वे सति समवेतत्वेन हीनो ऽकार्यत्वादाकाशवत् ।
वायुर्द्रव्यत्वे सति स्पार्शनत्वेन हीनो ऽचाक्षुषत्वादाकाशवदिति ।
५,४६०
नचात्र साध्यविशेषणवैयर्थ्यम् ।
शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वादित्यादाविव व्यभिचारपरिहारार्थत्वात् ।
क्वचित्साध्यावच्छेदकावच्छिन्नस्योपाध्यभावस्य हेतुत्वात् ।
यथा वायुः स्पार्शनो न भवति द्रव्यत्वे सत्यचाक्षुषत्वादिति ।
व्यतिरेकव्याप्तौ तूक्तमेवोत्तरम् ।
साध्यसाधनपदाभ्यां च प्रकृतयोरेव विवक्षितत्वान्न कश्चित्क्षुद्रोपद्रवः ।
यो यत्साध्यव्यापको यत्साधनाव्यापक इति वास्यार्थ इति सर्वं सुस्थम् ।
५,४६७
ननु च सोपाधिकत्वस्य सत्प्रतिपक्षत्वे ऽपि तेनैवानुमानदोषाधिक्यमिति ।
मैवम् ।
प्रतिज्ञार्थविरुद्धतेत्यनेनैव प्रबलप्रमाणविरुद्धतालक्षणकालातीत(ता)वत्समबलप्रमाणविरुद्धतायाः सत्प्रतिपक्षताया अपि सङ्गृहीतत्वात् ।
प्रतिस्पर्धिसद्भावमात्रं हि प्रतिज्ञार्थविरुद्धतेत्युक्तम् ।
एवं तर्हि दुर्बलेन विरोधो ऽपि प्रतिज्ञार्थविरुद्धता स्यात्, उक्तलक्षणोपेतत्वादित्यत आहदुर्बलेनेति ।
दुर्बलेन विरोधे ऽपि न प्रमाणमसाधकम् । मनुव्_२,१.३७च्द् ।
न्यायसुधा-
अयमर्थः ।
प्रकरणादिवशाद्धि सामान्यशब्दा अपि विशेषे वतर्न्त इति प्रसिद्धम् ।
यथा विशिष्टसमये पुरुषमानयेत्युक्ते पुरुषविशेष एवानीयते न तु यः को ऽपि पुरुषः ।
प्रकृते चानुमानस्यासाधकत्वनिमित्तपरिसङ्खयानम् ।
नच दुर्बलेन विरोधे ऽप्यनुमानमसाधकं भवति ।
प्रबलविरोधादिना तस्यैवाभासत्वात् ।
यथा विमतश्चक्षुष्मान्रूपापरोक्षज्ञानित्वादित्यत्र विमतो ऽन्धः पुरुषत्वादिति ।
अतः सामान्यशब्दप्रसक्तो ऽपि दुर्बलेन विरोधो (नानुमानसाध्यकतावच्छिन्नप्र) न प्रथिज्ञार्थविरुद्धता ।
किन्तु प्रबलसमबलप्रमाणविरुद्धतैव (इति) ।
५,४६९
नन्वेवमाधिक्यनिरासे ऽपि नानुमानविरोधत्रैविध्यं सम्भवति ।
प्रतिज्ञाविरोधस्याव्याप्त्यैव गतत्वात् ।
विरोधेनैव साध्यविरहिणि पक्षे वर्तमानस्य हेतोरर्व्याप्तिभर्वति ।
नहि विरेधस्याव्याप्त्यसङ्कीर्णमुदाहरणमस्ति ।
यत्र तु विरोधसम्भवस्तत्राव्याप्तेरेवान्यत्रावधृतसामर्थ्याया दूषणत्वात् ।
विरोधस्याव्याप्त्युत्थापनेन चरितार्थत्वादित्याशङ्कां भिक्षु(क)पादप्र(सारणन्यायेन)सारणेन परिहरतिस्ववाक्येनेति ।
स्ववाक्येन विरोधे ऽपि नैव साधकतां व्रजेत् । मनुव्_२,१.३८अब् ।
न्यायसुधा-
प्रमाणमित्यनुवर्तते ।
न केवलं प्रमाणविरोधे, किन्तु स्ववाक्येन विरोधे ऽपि प्रमाणं नैव साधकतां व्रजेत् ।
एवशब्देन परेषामपि सिद्धो ऽयमर्थ इति दर्शयति ।
यथोक्तम् ।
अविरोधिग्रहणात्प्रत्यक्षानुमानगमस्वशास्त्रस्ववचनविरोधिनो निरस्ता इति (भवन्ति इति) ।
५,४७२
एतदुक्तं भवति ।
प्रतिज्ञार्थविरोधो द्वेधा भवति ।
प्रमाणविरोधः स्ववाक्यविरोधश्चेति ।
तत्राद्यः प्रबलसमबलप्रमाणविरोधात्मा द्विविधो भवति ।
द्वितीयो ऽप्यपसिद्धान्तजातिभेदेन द्वेधा ।
जातिश्च स्ववचनविरोधस्वन्यायविरोधस्वक्रियाविरोधभेदेन त्रेधा ।
तत्रास्तां तावत्प्रमाणविरोधः ।
स्ववाक्यविरोधग्रहणं तावत्पृथक्करणीयम् ।
तस्याप्यव्याप्त्युत्थापने व्यापारायोगात् ।
स्ववाक्यविरोधे हि किं साधनस्योभयाभिमत्या (पक्षे) व्यभिचारो भवेत्, किंवान्यराभिमत्या ।
नाद्यः ।
स्ववाक्यप्रामाण्यस्योभयासम्मतेः ।
न द्वितीयः ।
तस्य स्वतःसिद्धत्वेन स्ववाक्यविरोधानपेक्षत्वात् ।
अदोषत्वाच्च ।
तस्मादविषयवृवि(ताहेतु)त्वेन प्रतिज्ञार्थविरुद्धता पृथगेव पतिसङ्खयातव्येति ।
किञ्चायं न केवलं व्याप्त्यपेक्षप्रवृत्तेरनुमानस्यैव दोषः ।
किन्नाम तदनपेक्षस्य प्रत्यक्षादेरपि तथा चान्यत्रोपलब्धसामर्थ्यस्यानुमाने ऽपि स्वातन्त्र्यसिद्धिरित्याशयवता प्रस्तावादनुमानमिति वक्तव्ये
प्रमाणमित्येवाधिकृतम् ।
५,४७५
एतेनैतदपि (परा)निरस्तम् ।
अस्तु स्ववाक्यविरोधस्य पृथग्दोषत्वमव्याप्त्युत्थापकत्वायोगात् ।
बाधप्रतिरोधरूपः प्रमाणविरोधस्तु न स्वतन्त्रदोषः ।
प्रमाणविरोधे हि हेतुरपक्षधर्मो वा स्यात् अनैकान्तिको वा (स्यात्) ।
जिज्ञासितधर्मणो धर्मिणः पक्षत्वात् ।
प्रमाणावगतसाध्यविरुद्धधर्मवतश्चापक्षत्वेन तद्धर्मस्यापक्षधर्मत्वनियमात् ।
साध्यधर्(म)र्मिण्येव प्रमाणोपस्थापितसाध्यधर्मविरुद्धधर्मवति दर्शनेन व्यभिचारात् ।
नच सपक्षविपक्षावेवान्वयव्यतिरेकगम्याविनाभावदर्शनविषयौ न पक्ष इति साम्प्रतम् ।
यदि हि पक्षं विहाय बहिरेवाविनाभावो ऽवगम्यते तदा बहिर्व्याप्तिबलेन पक्षधर्मो ऽपि हेतुर्न पक्षे साध्यं साधयेत् ।
असिद्धा हि तत्र तस्य साध्येन व्याप्तिः ।
तस्मादन्तर्बहिर्वा सर्वोपसंहारेणाविनाभावो ऽवगन्तव्यः ।
एवञ्च सिद्धः पक्षे व्यभिचारः साधनधर्मस्य ।
५,४७७
ननु प्रतिरोधे कथम् ।
तत्रापि व्याप्तिग्राहकस्य प्रमाणस्य प्राबल्यम् ।
उभयत्रापि प्रमाणसद्भावे व्याप्यत्वासिद्धावन्तर्भावादिति ।
प्रमाणविरोधस्य प्रमाणान्तरे ऽप्यविषयवृत्तिताहेतुत्वेनावगतस्वतन्त्रदूषणभावस्यानुमाने ऽपि तथैवाङ्गीकर्तुमुचितत्वात् ।
अपि च किं व्याप्तिग्रहणसमये ऽव्याप्तेरुपस्थापकः प्रमाणविरोधः स्यात्, उतानुमानप्रवृत्त्युत्तरमपि ।
आद्यस्त्विष्यत एव ।
‘मानबाधे न तद्भवेत्’ इति वक्ष्यमाणत्वात् ।
न द्वितीयः ।
उपजीव्यपरित्यागेनोपजीवकस्वीकारस्यायुक्तत्वात् ।
प्रमाणविरुद्धस्यापक्षधर्मत्वे सिद्धसाधनस्यापि तथात्वं स्यात् ।
समानन्यायत्वात् ।
ओमिति चेन्न ।
स्वार्थानुमाने ऽपि सिद्धसाधनस्य दोषत्वापत्तेः ।
नहि पक्षधर्मतासिद्धिः परार्थ एवानुमाने दोषः ।
तस्मात् परानाकाङ्क्षितत्वादसङ्गत एव सिद्धसाधन इति ।
। इत्यनुमानदोषनिरूपणम् ।
५,४७९
एवमनुमानदोषान्निरूप्य प्रसङ्गात्परनिरूपिताशेषनिग्रहस्थानानामपि विरोधादिष्वेवान्तर्भाव इत्याहसंवादेति ।
संवादानुक्तिसंयुक्ता एत एव च निग्रहाः । मनुव्_२,१.३८च्द् ।
५,४७९फ़्.
न्यायसुधा-
निगृह्यते पराजीयते एभिरिति निग्रहाः निग्रहस्थानानि ।
ननु च प्रतिज्ञाहान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधासङ्गतिन्यूनाधिक्येष्वनुप्रवेश इत्यत उक्तम्संवादानुक्तिसंयुक्तां इति ।
तथाप्यनुपपत्तिरेव ।
विरोधादिचतुष्ययस्यानुमानदोषत्वेनोक्तत्वात् ।
निग्रहस्थानानां च नियमेनानुमानाश्रयत्वाभावात् ।
नहि पुनरुक्तिरनुमान एव सम्भाविनी ।
प्रश्नादावप्युपपत्तेरित्यतो ऽस्त्यत्र विशेष इति तुशब्देनाह ।
द्विविधं हि विरोधादिचतुष्ययम् ।
समयबन्धादिकथासर्वरूपसाधारणमसाधारणं च ।
तत्रानुमानस्यैव यदसाधारणं विरोधादि तत्रानुमानदोषाणां सर्वेषां प्रवेशो ऽभिहितः ।
साधारणे तु सर्वनिग्रहस्थानानामिति न कश्चिद्विरोधः ।
यद्वा कथाबाह्यादीनामेषां निग्रहस्थानताव्यवच्छेदार्थस्तुशब्दः ।
५,४८२
ननु केयं कथा नामेत्यपेक्षायां तत्स्वरूपं निरूपयन्सामान्यलक्षणं विभागमुद्देशं चाहवाद इति ।
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् । मनुव्_२,१.३९अब् ।
न्यायसुधा-
अत्र कथेति लक्ष्यपदमावर्तनीयम् ।
विचारगोचरेत्युपस्कर्तव्यम् ।
विजानतामिति जातौ बहुवचनम् ।
तथा चानेकविद्व(त्कर्तृ)द्वक्तृकविचारगोचरा कथा वाक्यसन्दृद्धिः(न्दर्भः) कथेति सामान्यलक्षणसिद्धिः ।
ताश्च कथा वादादिभेदेन तिस्रः त्रिविधा इत्यर्थः ।
विजानतां मतेन तिस्र इति वा ।
तेन न्यूनाधिकसङ्खयोक्तिस्तद्विरोधादयुक्तेत्युक्तं भवति ।
५,४८८
वादलक्षणमाहस्वार्थमिति ।
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी । मनुव्_२,१.३९च्द् ।
केवलं तु कथा वादो … । मनुव्_२,१.४०अ ।
न्यायसुधा-
तत्त्वनिर्णयसाधनीत्यर्थाद्यर्थजल्पवितण्डाव्यवच्छेदः ।
तथापि वितण्डाविशेषे ऽतिव्याप्तिस्तदर्थं केवलमित्युक्तम् ।
साक्षादित्यर्थः ।
तुशब्देन तत्त्वनिर्णयसाधनादपि जल्पविशेषात् तदुद्देशेन प्रवृत्तत्ववैलक्षण्यं दर्शयित ।
यदा तु विदिततत्त्वौ वीतरागावविदिततत्त्वैः परैरभ्यर्थितौ कथां कुरुतस्तदा तत्राव्याप्तेमेतल्लक्षणम् ।
नचासौ न वादः ।
अन्यत्रानन्तर्भावेन तिस्र इत्यस्य व्याघातादित्यत उक्तम्स्वार्थं परार्थमपि वेति ।
अपिशब्द उभयार्थतासमुच्चयार्थः ।
५,४९१
जल्पलक्षणमाहजल्प इति ।
… जल्पो ऽर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया … । मनुव्_२,१.४०ब्च् ।
न्यायसुधा-
आदिपदेन ख्यात्यादेर्ग्रहणम् ।
अर्थादिव्यपेक्षयेति वादव्यावृत्त्यर्थम् ।
आनुषङ्गिकार्थादिसाधनत्वं वादस्यापि सम्भवतीति व्यपेक्षाग्रहणम् ।
वितण्डाव्यावृत्त्यर्थं सतामेवेति ।
सतामित्येवोक्ते न वितण्डाव्यावृत्तिसिद्धिः ।
वितण्डायामप्येकस्य सत्त्वात् ।
बहुवचनस्य जात्यर्थत्वात् ।
तेन एवेत्युक्तम् ।
५,४९१
वितण्डां लक्षयतिवितण्डेति ।
… वितण्डा त्वसतां सताम् । मनुव्_२,१.४०द् ।
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् । मनुव्_२,१.४१अब् ।
न्यायसुधा-
तुशब्दो वादजल्पव्यवच्छेदार्थः ।
कथेत्यनुवर्तते ।
कर्तृभेदेन कथाभेदे ऽतिप्रसङ्ग इत्यतो लक्षणान्तरमाहअप्रकाश्येति ।
सद्भिः स्वसिद्धान्तमप्रकाश्यासाधयित्वासतां पक्षस्य दूषणमेव क्रियते यत्सा वितण्डेत्यर्थः ।
प्रतिवादिनः स्वपक्षसाधनेन विना परपक्षप्रतिक्षेपमात्रेण पर्यवस्यन्ती कथा वितण्डेत्युक्तं भवति ।
नन्वेतदेव किन्निमित्तम् ।
प्राश्निकाद्यधीनमिति ब्रूमः ।
ते ऽपि कुत एतादृशनियमं कुर्युरिति चेत्(न) ।
तत्त्वज्ञानायोग्यानसतः प्रति सद्भिः स्वसिद्धान्तसाधने तेषां तत्त्वज्ञानोत्पादप्रसङ्गात् ।
तस्य च निषिद्धत्वादित्याशयेनासतामित्युक्तम् ।
एतेन प्रथमलक्षणस्यापि समर्थनं वेदितव्यम् ।
५,४९४
नन्वसम्भवीदं लक्षणम् ।
परपक्षदूषणं हि तत्प्रतिपादकप्रमाणदूषणेनैव भवेत् ।
नच स्वपक्षसाधनहीनायां वितण्डायां तत्सम्भवतीत्यत आहउक्त इति ।
उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम् । मनुव्_२,१.४१च्द् ।
न्यायसुधा-
तैरसद्भिः प्रथमं स्वपक्षसाधनाय माने उक्ते सति सद्भिस्तस्य मानस्य दूषणं वक्तव्यम् ।
असतो वादिभूतस्य स्वपक्षसाधनं परपक्षनिराकरणं च करणीयम् ।
सतस्तु प्रतिवादिनः तत्प्रमाणदूषणेनैव चरितार्थत्वमित्युक्तं भवति ।
क्वचित्सतामेवेत्यादिसार्धश्लोको वादजल्पयोरित्यतःपरं पठितः ।
तत एतामेव सङ्गतिमाश्रित्य टीकाकृता तत्रैव व्याख्यातः ।
५,४९६फ़्.
किञ्च गुरुशिष्यादयो ऽसमानविद्या अपि वादे ऽधिक्रियन्ते ।
तत्त्वनिर्णयार्थित्वात् ।
जल्पवितण्डयोस्तु सम्भावितसमानविद्ययोरेवाधिकारः ।
‘ययोरेव समं वित्तं ययोरेव समं श्रुतम् ।
तयोर्विवाहो वादश्च नोत्तमाधमयोः क्वचित्’ इति स्मरणात् ।
वादो जल्पवितण्डालक्षणो विवादः ।
अन्यथात्यन्तापकृष्टो ऽप्युत्कृष्टतमेन वैयात्यात् घटमानो यदि वा दैवायत्तमभिभावयेत् तदा वृथाख्यातिं लभेत ।
तथाच प्राश्निकादीनामसुज्ञात्वं प्रत्यवायश्च स्यात् ।
अपूज्यः पूज्यते यत्रेति वचनात् ।
एवं च वादाज्जल्पवितण्डयोर्भेदः ।
नन्वेतदयुक्तम् ।
परबुद्धेरप्रत्यक्षत्वेन विद्यासाम्यवैषम्ययोर्ज्ञातुमशक्यत्वादिति चेन्न ।
जल्पवितण्डार्थिनोर्विद्यासाम्यादेः परीक्षया निश्चयोपपत्तेः ।
तदेतदाहविद्येति ।
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च । मनुव्_२,१.४२अब् ।
न्यायसुधा-
विद्यापरीक्षा पूर्वा कारणभूता यस्याः सा तथोक्ता ।
विद्यापरीक्षया निश्चितसाम्ययोरेव वितण्डा दातव्या, न विषमविद्ययोः ।
जल्पश्चैवम् विद्यापरीक्षापूर्वं एवेति व्याख्येयम् ।
द्वितीयैवशब्दो वादव्यावृत्त्यर्थः ।
समानविद्ययोरेवेत्ययं नियमो न वादे ऽस्तीति ।
५,४९८
ननु जल्पवितण्डार्थिनोविर्द्यासाम्यादिनिश्चयाय कर्तव्या परीक्षा किं कथया, उतान्यथा ।
नान्यथा ।
अन्योन्यसङ्घर्षणेन विना तदसिद्धेः ।
आद्ये ऽपि किं वादेन जल्पवितण्डाभ्यां वा ।
न प्रथमः ।
ख्यात्यादिकामयोः स्पर्धावतोर्वादानुपपत्तेः ।
न द्वितीयः ।
अनवस्थापातादिति चेन्न ।
वादेन तावद्विद्यापरीक्षणस्येष्टत्वादित्याशयवान्वादस्य विद्यापरीक्षायां कार(तत्कार)णत्वमन्वयव्यतिरेकाभ्यां साधयितुमुपोद्घातं
तावदाहउच्चेति ।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ । मनुव्_२,१.४२च्द् ।
न्यायसुधा-
यतो विद्ययोच्चत्वेन निर्णीतत्वमेव जयो नीचत्वेन निर्णीतत्वं च पराजय इत्यर्थः ।
इति विद्यापरीक्षणं वादेनेति वक्ष्यमाणेनान्वयः ।
एवमुपयुक्तमभिधाय व्यतिरेकमाहविनैवेति ।
५,४९८फ़्.
विनैव तत्त्वनिर्णीतिं नहि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम् । मनुव्_२,१.४३ ।
न्यायसुधा-
निर्णीयते ऽनयेति निर्णीतिस्तत्त्वस्य निर्णीतिस्तत्त्वनिर्णीतिर्वाद इति यावत् ।
तत्त्वनिर्णीतिं विनोच्चनीचत्वविज्ञानं न हीत्येवोक्ते विना वादेनेति वक्ष्यमाणविरोधः स्यात् ।
अतो जल्पादिनेत्युक्तम् ।
इतिशब्दस्तस्मादित्यर्थे ।
विद्यापरीक्षणं वादेनेति वक्ष्यमाणमत्रापि सम्बद्धयते ।
यद्यपि सत्साधनोपलम्भे जल्पे ऽपि भवति वादिनोरुच्चनीचत्वविज्ञानम् ।
तथापि तदुद्देशेनाप्रवृत्तेस्तादर्थ्वस्य प्रथममनिश्चयान्न तदर्थं जल्पो दातुं शक्यते ।
५,५००
व्यतिरेकस्यान्यदीयाकारणत्वमात्रनिश्चयहेतुत्वाद्वादस्य कारणतामवधारयितुमन्वयं चाहवादेनेति ।
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् । मनुव्_२,१.४४अब् ।
न्यायसुधा-
चशब्दो ऽन्वयस्य व्यतिरेकेण समुच्चयार्थः ।
अन्वयव्यतिरेकाभ्यां समर्थितमर्थमुपसंहरतिइतीति ।
५,५०१
इति वादस्य पूर्वत्वं … । मनुव्_२,१.४४च् ।
न्यायसुधा-
इति तस्माद्वादस्य पूर्वत्वम् ।
जल्पवितण्डार्थिनोर्विद्यासाम्यादिनिश्चयहेतुपरीक्षार्थं प्रथमानुष्ठेयत्वं सिद्धमित्यर्थः ।
एतदुक्तं भवति ।
समानविद्ययोरेव जल्पवितण्डे ।
समानविद्यता च परीक्षानिश्चेया ।
परीक्षा च वादकथया विधेया ।
न जल्पवितण्डाभ्याम् ।
जयेन हि विद्याधिक्यं निर्णेतव्यम् ।
पराजयेन च तन्न्यूनता ।
जयपराजयौ च प्रमाणतर्काभ्यां प्रकृतप्रमेयसाधनसामर्थ्यासामर्थ्यलक्षणौ उच्चनीचत्वनिर्णयविषयताशब्दवाच्यावेव प्रकृतोपयोगिनौ ।
तौ च वाद एव सम्भवतो न जल्पवितण्डयोः ।
तत्र यत्किञ्चिन्निग्रहोद्भवनमात्रेण जयपराजयव्यवस्थापनात् ।
अतो जल्पवितण्डार्थं जल्पवितण्डाभ्यर्थनाभावान्नानवस्थेति ।
जल्पवितण्डार्थिनोर्विद्यापरीक्षायां वादेन कृतायां किं कार्यम् ।
समविद्यत्वसम्भावनायां जल्पवितण्डे कर्तव्ये इत्युक्तमेव ।
विषमविद्यतावधारणायां किं विधेयमित्यपेक्षायामाहतत्सिद्धाविति ।
… तत्सिद्धौ व्यर्थतान्ययोः । मनुव्_२,१.४४द् ।
न्यायसुधा-
तेन वादेनैव तस्य नीचोच्चभावस्य सिद्धौ सत्यामन्ययोर्जल्पवितण्डयोर्व्यर्थता ।
ततश्च अकर्तव्यतेत्यर्थः ।
परीक्षार्थेन वादेनैवोपरम इति ।
बहुविद्यत्वसिद्धौ तु नैव वादो ऽपि … । मनुव्_२,१.४५अब् ।
न्यायसुधा-
जल्पवितण्डार्थिनोर्विद्यापरीक्षार्थं वादकथा प्रथमं दातव्येत्युक्तस्यापवादमाहबहुविद्यत्वेति ।
प्राक् परीक्षातो लोकसंवादादिनान्यतरस्य प्रतियोग्यपेक्षया बहुविद्यत्वसिद्धौ तु वादो ऽपि नैव दातव्यः ।
किमु जल्पवितण्डे इति ।
कुत इत्यत आहकारणमिति ।
… कारणम् । मनुव्_२,१.४५ब् ।
न्यायसुधा-
विद्यापरीक्षाया इति शेषः ।
वाद इत्यनुवर्तते ।
वादो हि विद्यापरीक्षाकारणमित्येष्यव्यो न तु व्यसनितया ।
तत्फलं त्वन्यत एव जातमिति किं परीक्षया किं तदङ्गेन वादेनेति ।
५,५०३
यदुक्तं स्पर्धावतोः ख्यात्यादिकामयोर्वादो न सम्भवति, तत्रासत्साधनोत्तरप्रयोगस्यावश्यमवर्जनीयत्वात्, ततश्च
विद्यासाम्यवैषम्यनिणर्यानुपपत्तेरिति तत्राहसभेति ।
सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि । मनुव्_२,१.४५च्द् ।
वाद एव … । मनुव्_२,१.४६अ ।
न्यायसुधा-
प्रश्नशब्दात्करोतीत्यर्थे ईकक्प्रत्ययो वक्तव्यः ।
स्पर्धिनामिति जातौ बहुवचनम् ।
एवेत्यस्य युज्यत इत्यध्याहृतेनान्वयः ।
यतः सभादिपूर्वस्ततः स्पर्धिनामपि वादो युज्यत एवेति ।
तुशब्दो हेत्वर्थः ।
सभासभापतिप्राश्निकैर्नियतयोरसत्साधनादिप्रयोगवर्जनसम्भवादिति भावः ।
५,५०५
यदुक्तं’तत्सिद्धौ व्यर्थतान्ययोः’ इति तदयुक्तम् ।
वादेन तत्त्वनिर्णयसिद्धावपि अर्थाद्यसिद्धेः ।
तथाचाभिलषितं न सिद्धम्, सिद्धं चानभिलषितमिति तत्राहउभयेति ।
… उभयार्थः स्यान्निर्णीतिजयकारकः । मनुव्_२,१.४६अब् ।
न्यायसुधा-
वाद इत्यनुवर्तते ।
अस्यैव विवरणं निर्णीतीति ।
न केवलं निर्णीतिकारकः किन्तु जयकारकश्च ।
जयशब्देन तत्साध्यमर्थ्यादिकमुपलक्ष्यते ।
विद्यापरीक्षार्थे वादे जयिनो ऽर्थादिकमपि सभापतिना सम्पादनीयमिति भावः ।
एवं तर्हि न कदापि जल्पवितण्डाप्रवृत्तिः’व्यर्थरतान्ययोः’ इति युक्तेः सम(मान)त्वात् ।
यथा हि विद्यावैषम्यनिर्णये जितवतो ऽर्थादिलाभः, तथा तत्साम्ये द्वयोरपि अर्थादिलाभः सम्भवत्येव ।
नच फलान्तरमस्ति येन पुनर्जल्पवितण्डारम्भः स्यादित्यत आहतत्त्वाप्रकाश एवेति ।
५,५०६
तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम् । मनुव्_२,१.४६च्द् ।
न्यायसुधा-
तत्त्वाप्रकाश इति परवञ्चनसामर्थ्यमुच्यते ।
तेन तत्साध्यो ऽर्थादिलाभो लक्ष्यते ।
इदमुक्तं भवति ।
यद्यपि विद्यासाम्यवैषम्ययोर्निर्णीतिजयौ स्यातां तथापि तात्त्विककथाफलरूपावेव ।
पराच्छादनचातुर्यप्रयुक्तार्थादिलाभार्थं समानविद्ययोः पुनर्जल्पवितण्डाप्रवृत्तिरिति ।
नचैवं विषमविद्ययोरपि तत्प्रवृत्तिः, उपप्लवप्रसङ्गस्योक्तत्वादिति ।
यद्वा तत्त्वनिर्णयफलो वादः अर्थादिफले जल्पवितण्डे, इति फलभेदेन कथाभेद उक्तः ।
सो ऽनुपपन्नः ।
तथा सत्यर्थादीनां भेदेन कथाऽनन्त्यप्रसङ्गादित्यत आहतत्त्वेति ।
यद्यपि अर्थादयो ऽवान्तरभेदभिन्नास्तथापि तत्त्वाप्रकाश एक एव वितण्डाजल्पयोः फलम् ।
तत्त्वनिर्णयेतरत्वरूपेणार्थादीनामेकत्वान्नोक्तदोषः ।
तदवान्तरभेदविवक्षा तु व्यर्थैवेति भावः ।
५,५०७
एवं कथया विद्यापरीक्षणमिति पक्षः समर्थितः ।
इदानीमन्यथेति पक्षमपि समर्थयमान आहविनेति ।
विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि … । मनुव्_२,१.४७अच् ।
न्यायसुधा-
अविगीतविद्वत्प्रसिद्धयादिनेति शेषः ।
क्वापीत्यस्य पूर्वार्धेनान्वयः ।
तदा समविद्ययोः प्रथममपि जल्पादिः कथाविशेषः कार्यः स्यादित्यर्थः ।
तर्हि विद्यापरीक्षणं वादेनैवेत्युक्तिविरोध इत्यत आहवा एवेति ।
… वाद एवान्यथा भवेत् । मनुव्_२,१.४७द् ।
न्यायसुधा-
वाद एव प्रथमं कर्तव्यो भवेदिति यदुक्तं तदन्यथा वादेन विना विद्यापरीक्षणस्य कर्तुमशक्यत्व एवातो न विरोध इति ।
अस्त्वेवमुपायान्तरविरहे कथयैव विद्यापरीक्षणम् ।
सा तु वाद इति कुतः ।
तत्त्वनिर्णयार्थिनोरधिकारित्वात्तत्फलत्वाच्चेति चेत्(न ।
एवं) ।
तर्हि विजिगीषावतोरधिकारित्वादर्थादिफलत्वात्सभाद्यङ्गोपेतत्वाज्जल्पो ऽपि स्यादिति ।
५,५०८
किमत्र जल्पशब्दवाच्यतामात्रमापद्यते, किंवा वादशब्दवाच्यताभावः, अथवा समाहाररूपं कथान्तरं यद्वा निमित्तद्वयसमावेशे वादशब्दस्यैव
व्यवहारानुपपत्तिः ।
सर्वत्राप्युत्तरमाहजल्प इति ।
जल्प इत्यपि नाम स्याद् वादस्यैतादृशस्य तु । मनुव्_२,१.४८अब् ।
५,५०८फ़्.
न्यायसुधा-
एतादृशस्य निमित्तद्वयोपेतस्यात्र जल्प इति नाम स्यादित्यभ्युपगमेनाद्यो निरस्तः ।
अपिशब्देन वादशब्दवाच्यतां प्रतिज्ञायै तादृशस्येत्यनेन हेतुरुक्तः ।
तेन द्वितीयो ऽपि निराकृतः ।
नहि निमित्तसद्भावे वाचकाप्रवृत्तिरिति युक्तम् ।
जल्पशब्दे ऽपि साम्यात् ।
अतस्तुलायां प्रमाणादितो विधान्तरवती स्यात् ।
वादस्य जल्प इत्यपि नाम स्यादिति वादसञ्ज्ञा तु मुख्या जल्पसञ्ज्ञा त्वमुख्येति सूचितम् ।
तेन चतुर्थो ऽपि निरस्तः ।
तत्र हेतुविशेषसद्भावं तुशब्देन द्योतयति ।
तथाहि ।
यद्यपि कथकावादितो विजिगीषू तथापि सभ्यादिभिविर्जिगीषां परिभाव्योत्पादिता तत्त्वनिर्णयार्थितैव कथोपयोगिनी ।
अर्थादिलाभश्चान्तरा प्राप्तो न त्वादित एवोद्दिष्य इत्यमुख्य एव ।
अत एव पूर्व उभयार्थः स्यादित्युक्ते साम्यप्रतीतिप्रसक्तौ निर्णीतिजयकारक इति तत्त्वनिर्णीतेः प्राधान्यप्रदर्शनार्थं विवरणं कृतम् ।
अन्यथा कथाफलद्वयस्यैवोभयशब्देन प्रतीतेर्विवरणं व्यर्थं स्यात् ।
अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनाप्येतदेव सूचितम् ।
अन्यथा जयनिर्णीतिकारक इत्यवक्ष्यत् ।
सभ्यादिसंवरणं च विजिगीषुतापरिभवार्थमिति वादताप्राधान्यमेवोपोद्बलयतीति ।
५,५१३
अपि चाधिकारिभेदादिकं बहिरङ्गतयैव कथाभेदकम् ।
अन्तरङ्गं तु प्रवृत्तिप्रकार एव ।
स च वादसम्बन्ध्येवास्यां कथायामस्तीत्यतो वादत्वमेव मुख्यमित्याशयवानाहप्रतिज्ञेति ।
व्यास(१४)
प्रतिज्ञामात्रसाध्यत्वमपि स्याद् याज्ञवल्क्यवत् । मनुव्_२,१.४८च्द् ।
न्यायसुधा-
विद्यापरीक्षार्थायां कथायां क्वापि प्रमेये प्रतिज्ञामात्रेण प्रमाणोपन्यासरहितेन वचनेन साध्यत्वं प्रज्ञापनीयं स्यात् ।
कुत एतत् ।
कत्येव देवा याज्ञवल्क्येति शाकल्येन पृष्टे, (याज्ञवल्क्येन) त्रयस्त्रिंशदिति वचनमात्रेण प्रज्ञापनस्य कृतत्वात् ।
सा च विद्यापरीक्षार्था कथेत्युपक्रमपर्यालोचनया सिद्धम् ।
याज्ञवल्क्यशब्देन तत्कथोपलक्ष्यते ।
सप्तम्यर्थे वतिः ।
ततः किमित्यत आहसंवाद इति ।
संवादे वादिनोः क्वापि … । मनुव्_२,१.४८अ ।
न्यायसुधा-
एवम्भावो हि वादिप्रतिवादिनोः संवादे ऽन्योन्याप्तताऽश्वासे सत्येव स्यात् तदाश्वासो हि वाद एव सम्भवति न जल्पे ।
विजिगीषुणापसिद्धान्तादिपरिहारेण सर्वथा प्रमाणप्रश्नस्य कर्तव्यत्वात् ।
तेनायं वाद एवेति (प्रति)ज्ञायत इति ।
नन्वेवं तर्हि न विद्यापरीक्षा सम्भवति ।
प्रमाणोपन्यासे हि तत्समर्थनोपालम्भाभ्यां सा स्यात् ।
नतु प्रश्नप्रतिज्ञाभ्युपगममात्रेणेत्यत आहविवाद इति ।
… विवादे हेतुर् इष्यते । मनुव्_२,१.४८ब् ।
न्यायसुधा-
हेतुरिति प्रमाणमात्रोपलक्षणम् ।
प्रमाहेतुरिति वा ।
न ह्येकत्राप्तः सर्वत्राप्त एवेति नियमो ऽस्तीति भावः ।
याज्ञवल्क्येनापि तत्र तत्र प्रमाणोपन्यासः कृत एवेति सकलमनाकुलम् ।
५,५१७
प्रकृतानां सभ्यसभापतिप्राश्निकानां स्वरूपजिज्ञासायामाहसभेति ।
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।
रागद्वेषविहीनाश्च … । मनुव्_२,१.४९अच् ।
न्यायसुधा-
(द्वौ) चशब्दौ सभा(भ्या)दीनामन्योन्यसमुच्चये ।
तृतीयो विशेषणसमुच्चये ।
एवशब्दौ तु वैष्णवा एव रागद्वेषविहीना एवेति सम्बद्धयेते ।
अन्यथा कथानुपपत्तिसूचनं तत्प्रयोजनम् ।
स्युरिति वक्ष्यमाणमिहापि(मत्रापि) सम्बद्धयते ।
सभ्यानां प्राश्निकानां च विशेषणान्तरमाहस्युरिति ।
… स्युः सभ्याः सर्ववेदिनः । मनुव्_२,१.४९द् ।
प्राश्निकाश् … । मनुव्_२,१.५०अ ।
५,५१८
न्यायसुधा-
सर्वशब्देन वादिप्रतिवादिदर्शनस्य कथोपयुक्तस्य व्याकरणादेश्च सङ्ग्रहः ।
पुनः सभ्यप्राश्निकग्रहणं सभापतिव्यवच्छेदार्थम् ।
तत्सार्वज्ञस्य कथोपयोगाभावात् ।
सभ्याः प्राश्निकाश्च सर्ववेदिनः स्युरित्यन्वयः ।
ननु प्राश्निकानां क्वोपयोगः ।
विवदमानयोर्गुणदोषावधारणादाविति ब्रूमः ।
एवं तर्हि तैरेवालं किं सभ्यैरित्यत आहएतदिति ।
… चैतदज्ञाने सभ्याश्च … । मनुव्_२,१.५०अब् ।
न्यायसुधा-
अनन्तरोक्तान्प्राश्निकान् एतच्छब्देन परामृशति ।
क्वचित्सूक्ष्मे प्रमेये एतेषां प्राश्निकानां कारणान्तरद्वाज्ञाने सति वादिनोर्गुणदोषनिर्णयाय सभ्याश्च प्रमाणं स्युरिति वक्ष्यमाणेनान्वयः ।
प्रमाणाश्रयेषु प्रमाणत्वोपचारः ।
यद्येवं प्राश्निकेष्वज्ञानशङ्कया सभ्यानां वरणम्, तदा तेष्वप्यज्ञानशङ्कयान्ये ऽपि वरणीयाः ।
अन्यथा निर्णयाभावेन कथावैयर्थ्यापत्तेः ।
तेष्वप्येवमित्यत आहएषां चेति ।
… एषां च दूरगाः ।
प्रमाणं निर्णयाय स्युः … । मनुव्_२,१.५०ब्च् ।
न्यायसुधा-
एषां सभ्यानां चाज्ञाने सति दूरगा देशान्तरस्थाः ।
नचैवं सभ्यसंवरणमप्यनर्थकम् ।
ततःपरं प्रायेणाज्ञानशङ्कानुदयात् ।
लौकिकश्चायमर्थ इति ।
दूरगान्निर्णायकत्वसम्भवाय विशिनष्टिपक्षेति ।
… पक्षपातविवर्जिताः । मनुव्_२,१.५०द् ।
न्यायसुधा-
एकदेशोत्कीर्तनेन यथोक्तं सभ्यादिलक्षणमतिदिशति ।
५,५२०
अप्रकाश्य स्वसिद्धान्तमिति वितण्डालक्षणमुक्तम् ।
तत्कथं वादजल्पाभ्यां व्यावर्तकमित्यत आहउभाभ्यामिति ।
५,५२१
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः । मनुव्_२,१.५१अब् ।
न्यायसुधा-
वादजल्पयोरुभाभ्यामेव स्वपक्षसाधनं परपक्षदूषणं कर्तव्यं, नतु प्रतिवादिनः परपक्षदूषणमात्रेण कृतार्थतेति ।
सतामेवेति सार्धश्लोकस्यात्र सन्निवेशे तु, लक्षितौ वादजल्पौ ।
इदानीं तु वितण्डाया लक्षणद्वयं विवक्षुस्तावदुपयुक्तमाहउभाभ्यामिति ।
कथा वादजल्पलक्षणा ।
एतेन जल्पो ऽर्थादिव्यपेक्षयेत्युक्तस्य वितण्डायामतिव्याप्तिरपि परिहृता ।
उभयसाधनवत्त्वेन सदेकाधिकारिकत्वेन वा ऽर्थादिव्यपेक्षकथाया विशेषितत्वात् ।
यदर्थं सतामेवेत्युक्तं तद्वितण्डालक्षणमाहवितण्डा त्विति ।
कथेत्यनुवर्तते ।
उभाभ्यामिति यदर्थमुक्तं तल्लक्षणान्तरमाहअप्रकाश्येति ।
उक्ते तैरिति पूर्ववदिति ।
उभाभ्यां साधनमित्याद्युक्तम् ।
तत्र साधनाय किं प्रमाणं प्रयोक्तव्यम् ।
यत्र यदस्ति तत्र तदेव (किं) वक्तव्यम् ।
सत्यम् ।
प्रमाणसम्प्लवे तु कथम् ।
किं सर्वमेवोतैकमेव तत्रापि किमित्यपेक्षायामाहसद्भिरिति ।
सद्भिरागम एवैकः प्रयोज्यो ऽभीष्यसाधकः । मनुव्_२,१.५१च्द् ।
५,५२२
न्यायसुधा-
एक एव, नतु सम्भवत्सर्वमाधिक्यप्रसङ्गात् ।
स चागम एवेति योज्यम् ।
यद्वैकशब्दो मुख्यार्थः ।
ईश्वरादिप्रमेये मुख्यो वेदादिरागम एव वक्तव्यः (तस्य स्वातन्त्र्येण साध्यसिद्धयङ्गत्वात्) नानुमानमिति ।
नन्ववैदिकस्य वेदाद्यागमोपादाने ऽपसिद्धान्तः स्यादित्यत उक्तम्सद्भिरिति ।
कुतो वेदादिप्रयोगनियम इत्यत आहअभीष्येति ।
यत इति शेषः ।
अनुमानं खलु न स्वातन्त्र्येणेश्वरादिसाधनस्येष्ये ।
सर्वत्रोपाधिप्रतिपक्षयोः सम्भवात् ।
तदर्थमन्ततो ऽप्यागमो ऽनुसरणीयः ।
ततो वरं प्रथममेव (आगमो) वक्तव्यः ।
तस्य स्वातन्त्र्येण साध्यसिद्धयङ्गत्वात् ।
नन्ववैदिकं प्रति कथम् ।
आगमं प्रयुज्य तत्प्रामाण्यं साधनीयमिति ।
५,५२४
नन्वसद्भिः किं वक्तव्यम् ।
न तावत्प्रत्यक्षम् ।
अतीन्द्रिये तदयोगात् ।
न चागमः ।
स्वपरागमयोरन्योन्यं प्रामाण्यासम्मतेः ।
नाप्यनुमानम् ।
प्रयोगपरिमाणासम्मतेः ।
तथाहि ।
सौगतो यदि द्वयवयवप्रयोगं कुर्यात्तदा नैयायिकेन न्यूनेन निगृह्येत ।
अनिग्रहे वा प्रतिवादी पर्यनुयोज्यमुपेक्षेत ।
पञ्चावयवप्रयोगे त्वधिकेन निगृह्येत ।
तथा स्वीकारे चापसिद्धान्तेन ।
तथाच नियतावयवादिव्यतिरेकेण वितण्डैव न स्यादित्यत आहस्वसिद्धान्तेति ।
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते । मनुव्_२,१.५२अब् ।
न्यायसुधा-
यथासिद्धान्तं वक्तव्यमिति प्राङ्नियमात्स्वसिद्धान्तनिर्णीतप्रयोगावयवपरिमाणापेक्षयैव न्यूनाद्यवतारादन्यथा(कथा)ऽनुपपत्तेरिति
हिशब्दाथर्ः ।
सद्भिरागमो वक्तव्य इति न (इत्य)युक्तम् ।
वैदिकस्य प्रतिवादिनस्तद्दूषणे ऽपसिद्धान्तात् ।
अदूषणे तु परपक्षादूषणेन कथाभावप्रसङ्गादित्यत आहप्रत्यक्षेति ।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु । मनुव्_२,१.५२च्द् ।
आगमे दशर्नीयात्र दोषो लिङ्गविलोमता । मनुव्_२,१.५३अब् ।
न्यायसुधा-
आगमे तु वादिना प्रयुक्ते प्रतिवादिना वैदिकेन तस्यान्यार्थतैव दशर्नीया ।
नानुमानस्येवाप्रामाण्यम् ।
येनापसिद्धान्तः स्यात् ।
तत एव कृतपरपक्षदूषणो ऽपि भवेत् ।
अन्यार्थतां दर्शितवताऽगमस्य पराभिमतार्थात्प्रच्यावितत्वात् ।
न ह्यपेक्षितार्थासाधकतवादन्यत्प्रमाणदूषणमस्तीति ।
नन्वेवं सति कथं कथापर्यवसानम् ।
स्वस्वाभिमतार्थाग्रहपरित्याजनोपायाभावादित्यत उक्तम्प्रत्यक्षेत्यादि ।
अत्र पराभिमते ऽर्थे प्रत्यक्षागमविरोधमाश्रित्य ।
न केवलमेतावत् ।
अत्रोपक्रमादिलिङ्गविलोमतादोषो ऽपि दर्शनीयः ।
अत्रान्यतम(र)मात्रे तात्पर्यम् ।
अन्यथाऽधिक्यप्रसङ्गात् ।
५,५२७
नन्वेतावतापि न कथासमाप्तिः ।
पराभिमतार्थानुपपत्तिमात्रेण स्वाभिमतार्थासिद्धेरित्यतः सत्यमित्याहलिङ्गेति ।
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः । मनुव्_२,१.५३च्द् ।
न्यायसुधा-
दर्शनीयपदमनुवर्तते ।
श्रुत्यादीनां वेदादीनां श्रुतिर्लिङ्गं समाख्या चेत्युक्तानां लिङ्गग्रहणेनैव गृहीतत्वात् ।
उपलक्षणं चैतत् ।
परार्थे प्रमाणानुकूल्यस्य स्वार्थे तत्प्रातिकूल्यस्य च निरासो दर्शनीय इत्यपि द्रष्टव्यम् ।
स्वसिद्धान्तप्रयोगपरिमाणानतिक्रमेण परार्थानुमानवाक्यप्रयोगः कर्तव्यः ।
तथात्वे च न न्यूनाद्यवतारः ।
तदतिक्रम एव तदवकाश इत्युक्तम् ।
५,५२८
अपर आह ।
यथावस्तु प्रयोक्तव्यम् ।
नच वस्तुतत्त्व एव वादिनां विप्रतिपत्तेरवश्यं न्यूनाद्यवतारसम्भवेनाप्रयोगप्राप्तिरिति वाच्यम् ।
(त)यस्य यत्र तात्त्विकत्वाभिमानस्तेन तत्प्रयोगानन्तरं परेण न्यूनादावुद्भाविते तथारूपतायाः साध(नीयत्वात्)नात् ।
नचैवमर्थान्तरापातः ।
हेतोरन्यतरासिद्धयुद्भावने तत्सिद्धिव्युत्पादनवत्प्रकृतोपयोगसद्भावादिति ।
तदयुक्तम् ।
द्वित्रिपञ्चावयवादिपक्षाणां सर्वेषामपि तात्त्विकतायाः समर्थितत्वात् ।
स्वस्वनियमस्यैव तात्विकत्वमुपेत्य तदनतिक्रमेणैव प्रयोगाङ्गीकारे तु सर्वथा कथोच्छेदापत्तेः ।
तत्तात्त्विकतायां प्रतिवादिना विप्रतिपद्यमानेनावश्यं न्यूनादेरुद्भावनात् ।
ननूक्तमत्र स्वस्वावयवकल्पना परं प्रति समर्थनीयेति ।
दुरुक्तं तत् ।
तत्समर्थनस्याशक्यत्वादित्याहत्रिपञ्चेति ।
५,५२९
त्रिपञ्चावयवामेव युग्मावयविनीमपि ।
नियमाद् यो ऽनुमां ब्रूयाद् तं ब्रूयाद् यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना । मनुव्_२,१.५४ ।
न्यायसुधा-
त्रयः प्रतिज्ञाहेतूदाहरणानि, उदाहरणोपनयनिगमनानि वा, पञ्च प्रतिज्ञाहेतूदाहणोपनयनिगमनानि वावयवा यस्याः सा त्रिपञ्चावयवा ।
एवशब्देन पक्षद्वयनियममाह ।
युग्मौ द्वावुदाहरणोपनयावयवौ यस्याः सा युग्मावयविनी ।
नियमादिति सन्निहितेनैव सम्बद्धयते ।
अनुमेति तादर्थ्यात्प्रयोग उच्यते ।
वैशेषिकादीनां तत्रैव व्यवहारात् ।
तं ब्रूयाद्यदि परो ऽनियतवादीति शेषः ।
यद्वा यो मीमांसकस्तार्किकादिश्च त्रिपञ्चावयवामेवानुमां ब्रूयात् ।
तं प्रति यः सौगतो नियमाद्युग्मावयविनीं ब्रूयात् ।
स यदि तादृशी त्र्यवयवा पञ्चावयवा च नानुमेति ब्रूयादिति योज्यम् ।
एवं (वि)परिवर्तेनापि ।
तादृशी नानुमेत्यस्य प्रमाणाभावादिति शेषः ।
एतदुक्तं भवति ।
नैयायिकेन सौगतं प्रति पञ्चावयवप्रयोगे विहिते सौगतो ऽधिकमिति निगृह्णीयात् ।
ततो नैयायिकेन पञ्चावयवप्रयोगस्यैव तात्त्विकत्वान्नैवमिति वक्तव्यम् ।
ततः सौगतो नेदं तत्त्वमप्रमाणिकत्वादिति वदेदेव ।
अथ नैयायिकेनाप्रामाणिकत्वमसिद्धमिति वदता कथमिति सौगते पृष्टवति (सति) केन प्रमाणेन स्वीया पञ्चावयवकल्पना साध्या ।
तदगोचरत्वात् ।
नहि कार्यकारणभावः क्वापि प्रत्यक्षस्य विषयः ।
न चागमेन ।
तदभावात् ।
‘पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित्’ इति भारतादिवाक्यमस्तीति चेन्न’सौक्ष्म्यं सङ्खयाक्रमश्चैव निर्णयश्च प्रयोजनम्’ इत्यादिना
तत्रैवान्यथा व्याख्यातत्वात् ।
नाप्युपमानाभावाभ्याम् ।
नियतविषयत्वात् ।
नचार्थापत्त्या ।
तदभावात् ।
अनुपानानतिरेकाच्चेति ।
५,५३१
मा भूत्प्रत्यक्षादिनावयवकल्पनासिद्धिः ।
अनुमानेन तु भविष्यति ।
व्याप्तिपक्षधर्मतोपेतलिङ्गप्रतीतेः पञ्चावयववाक्यश्रवणान्वयव्यतिरेकानुविधायित्वादिति चेत् ।
न तावदिदमनुमानं त्वच्चेतसि परिवर्तमानं परं प्रत्यायनाङ्गम् ।
किन्नाम प्रयुज्यमानम् ।
तत्र किं पञ्चावयवप्रयोगो ऽस्य विधास्यते, अथ द्वयवयवः ।
नोभावपीत्याहनियतेति ।
[नोते- जुम्प् इन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]
नियतावयवासिद्धौ … । मनुव्_२,१.५७अ ।
न्यायसुधा-
नियतावयवस्य पञ्चावयवस्य द्वयवयवस्य च ।
यथासङ्खयं सौगतनैयायिकयोर्बोधौपयिकत्वासिद्धौ, नानुमानेनाप्यवयवकल्पनासिद्धिरिति शेषः ।
यद्वोत्तरवाक्ये नियतावयवासिद्धावित्यनुवादो ऽयम् ।
ततो नियतावयवासिद्धेरिति सिद्धयति ।
पञ्चावयवप्रयोगे परेणाधिक्योद्भावनात् ।
द्वयवयवप्रयोगे ऽन्यतरन्यूनत्वापसिद्धान्तयोरुद्भावनादित्यर्थः ।
ततः किमित्यत आहव्याप्तीति ।
५,५३२
… व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात् … । मनुव्_२,१.५७ब्च् ।
न्यायसुधा-
यत एवं नोपायान्तरं तेन कारणेन ।
तेन नैयायिकेन व्याप्तिमात्रेण यद्यस्यान्यवव्यतिरेकानुविधत्ते तत्तत्कार्यमित्यादिव्याप्तिवचनमात्रेणैव ।
उपलक्षणमेतत् ।
‘लिङ्गोक्तौ’ इत्यादिप्राग्व्युत्पादितप्रकारेष्वन्यतमेनेत्यपि द्रष्टव्यम् ।
साधनं पञ्चावयवनियमस्य, कर्तव्यं स्यात् ।
सौगतेनापि तदनुसरणीयम् ।
इतरथा तस्यापि प्रयोगानुपपत्तिप्रसङ्गादिति ।
५,५३४
ततो ऽपि किमित्यत आहतस्मादिति ।
… तस्मात् सैवानुमा मता । मनुव्_२,१.५७द् ।
न्यायसुधा-
यस्मात्प्रयोगेयत्तासाधनं वादिप्रतिवादिभ्यामन्यतरेण वा स्वमतपरित्यागेनान्यमताभ्युपगमे कृत एवोपपद्यते नान्यथा ।
तस्मात्सैवानुमा मता ।
व्याप्तिवचनादिकमेव परार्थप्रयोगत्वेन सर्वत्र मन्तव्यम् ।
इदमुक्तं भवति ।
यदा नैयायिको द्वयवयवेन पञ्चावयवनियमं साधयति ।
तदा द्वयवयवस्य तात्त्विकत्वं स्वयं मन्यते न वा ।
नेति पक्षे प्रतारकः स्यात् ।
आद्ये ऽन्यत्रापि कथं तत्तत्वं न स्यात् ।
एवं कथाभावप्रसङ्गभीरुः सौगतो ऽपि पञ्चावयवेन द्वयवयवस्यावश्यकतां प्रतिपद्यमानस्तत्त्वं मन्यते न वा ।
द्वितीये कथं ततः प्रतिपद्येत ।
आद्ये ऽन्यत्रापि कुतस्तन्न तत्त्वम् ।
अतो ऽत्र सर्वसिद्धान्तप्रकाराणां तात्त्विकत्वाद्युक्तं स्वसिद्धान्तानुसारेणेति ।
अस्मादेव सङ्कटाद्बिभ्यदुदयनो यथावस्तु वक्तव्यमित्युक्त्वा यथासिद्धान्तं वा वक्तव्यमिति समयं बद्ध्वा प्रवृत्तायां कथायां न न्यूनाद्यवतार
इति पक्षान्तरमवादीदिति ।
अवसितमनुमानम् ।
५,५३५
निर्दोषं वाक्यमागमः ।
स द्विविधः ।
पौरुषेयो ऽपौरुषेयश्च ।
तत्रापौरुषेयो वेदः ।
अन्यस्तु पौरुषेय इति सुप्रसिद्धत्वान्नोक्तम् ।
५,५३७
केचिद्वाक्यं वाक्यार्थे ऽनुमानमिति ब्रुवते ।
तदनुपपन्नम् ।
वाक्यवाक्यार्थयोर्देशतः कालतो वान्वयव्यतिरेकाभावात् ।
अथेदं वाक्यं वाक्याथर्वत् वाक्यत्वादिति साध्यते ।
तत्र किं वाक्यार्थमात्रं साध्यते तद्विशेषो वा ।
नाद्यः ।
विशेषप्रमितेर्निर्निबन्धनत्वापत्तेः ।
द्वितीये स विशेषः प्रतीतो न वा ।
आद्ये वाक्यवैयर्थ्यम् ।
द्वितीये ऽप्रसिद्धविशेषणता ।
विशेषस्यान्यत्राभावादनैकान्त्यं च ।
मतुबार्थश्च किं प्रतिपाद्यप्रतिपादकभावः, सम्बन्धान्तरं वा ।
आद्ये साक्षाल्लिङ्गतया वा ।
न प्रथमः ।
अनुमानवैयर्थ्यात् ।
अपसिद्धान्ताच्च ।
द्वितीये तु नेदं वाक्यार्थानुमानं किन्तु सिद्धे ऽर्थे वाक्यस्य लिङ्गतानुमानमेव ।
तत्र च दृष्टान्तो ऽन्यतरसाध्यविकलः ।
न द्वितीयः ।
तदभावेन बाधात् ।
५,५३९
अथैवं प्रयुज्यते, विवादाध्यसितानि पदानि स्वस्मारितार्थान्वयप्रमितिपूर्वकाणि आकाङ्क्षादिमत्पद(कदम्बक)त्वादिति ।
तदयुक्तम् ।
विनाप्यन्वयप्रमितिं दैवात्प्रयुक्तेष्वाकाङ्क्षादिमत्सु पदेष्वनैकान्त्यात् ।
आप्तप्रयुक्तत्वेन हेतुविशेषणे साध्यार्थस्य हेत्वर्थे प्रवेशापत्तेः ।
पुरुषविशेषप्रयुक्तत्वस्याध्यापकप्रयुक्तेषु व्यभिचारात् ।
मूलप्रमानुमाने ऽपि वेदेषु अनुपपत्तेः ।
तदपौरुषेयत्वस्य साधितत्वात् ।
५,५४२
अपरे त्वपौरुषेयस्यागमत्वमुपगम्य पौरुषेयस्यानुमानत्वमभ्युपगच्छन्ति ।
तेषां तु स्फुटो वेदे व्यभिचारः ।
किञ्च पदानामन्विताभिधाने शक्तिः ।
पदान्येव च वाक्यम् ।
नच वैदिकपदेभ्यो ऽन्यान्येव लौकिकानि पदानि ।
वक्ता तु पदज्ञान एवोपयुज्यते ।
तत्कथं लोकवेदयोः प्रकारभेदः स्यात् ।
अपि च वेदानुसारेण पठ्यमानेषु लौकिकवाक्येषु कथम् ।
अन्वयप्रतीतिरुत्पद्यत एव ।
किन्नाम पुनः पौरुषेयत्वज्ञानादपनीयत इति ।
एवं तर्हि वाक्यादेव वाक्याथर्ज्ञानम् ।
तत्प्रामाण्यनिश्चयाय तु वक्त्राद्यनुसरणमित्यायातमित्यास्ताम् ।
५,५४४
तदेवं सामान्यतो विशेषतश्च प्रमाणानि लक्षितानि ।
तत्र स्वीयसामान्यलक्षणसमर्थनेनार्थाद्वाद्यन्तरोक्तसामान्यलक्षणानि निरस्तान्येव ।
तथापि स्मृतिविषये वक्तव्य(वि)शेषस्य विद्यमानत्वात्प्राभाकरलक्षणं विशेषतो निराकरोतिअनुभूतिरिति ।
अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते । मनुव्_२,१.५८अब् ।
न्यायसुधा-
‘तदा वक्तव्यं स्मृतिः प्रमा न वा ।
आद्ये ऽपसिद्धान्तः’ इति शेषः ।
द्वितीये त्वाहकेनेति ।
यदि स्मृतिर्न प्रमा तदा स्मृतिः लक्षणेन व्यावर्तनीया ।
अन्यथातिव्याप्तेः ।
(तत्केन) तत्कुतः स्मृतिरपोद्यते व्यावर्त्यते ।
स्मृतिर्व्यावर्तकं न किमपि ।
लक्षणे ऽस्तीति यावत् ।
५,५४४फ़्.
नन्वनुभूतिरित्युक्त एव स्मृतावप्रसङ्गः ।
स्मृतिव्यतिरिक्तं ज्ञानमनुभूतिरित्यभिधानात् ।
नहि स्मृतिः स्मृतिव्यतिरिक्ता भवतीति ।
मैवम् ।
स्मृतेरपि स्मृत्यन्तरव्यतिरिक्तत्वसम्भवेनाव्यवच्छेदकत्वात् ।
स्मृतित्वानधिकरणं ज्ञानमनुभूतिरिति चेत् ।
किमिदं स्मृतित्वम् ।
न तावज्जातिः ।
गुणेषु जातेरनङ्गीकृतत्वात् ।
संस्कारमात्रजन्यज्ञानत्वं तु न सम्भवति ।
अदृष्टादिजन्यत्वात् ।
असाधारणकारणविवक्षायामपि तथा ।
स्मृतेर्मानसत्वस्य वक्ष्यमाणत्वात् ।
एतेन नियमेन प्रत्युत्पन्नासाधारणकारणकप्रत्यग्रत्वमनुभूतित्वमित्यप्यवच्छेदकं द्रष्टव्यम् ।
स्मृतेरपि मानसप्रत्यक्षजन्यायास्तथात्वात् ।
संस्कारस्य कारणत्वे ऽपि नासौ सत्तामात्रेण स्मृतिं जनयति किन्नामोद्बुद्ध एव ।
तथाच कथं न प्रत्युत्पन्नासाधारणकारणजन्यत्वम् ।
अन्यथेन्द्रियादिमा(यमा)त्रमुपादायानुभूतेरपि तन्निराकुर्यात् ।
किञ्च स्मृतिरपि काचित्प्रत्युत्पन्नसंस्कारजन्या सम्भवत्येव ।
नचावच्छेदकेन विना नियमो ज्ञातुं शक्यत इति ।
५,५४९
यद्वा अनुभूतिः प्रमाणं चेत्तदा स्मृतावव्याप्तिरिति शेषः ।
ननु स्मृतिः प्रमाणमेव न भवति ।
तत्कथं तत्राव्याप्तिदोष इत्यत आहकेनेति ।
स्मृतिः केन निमित्तेनापोद्यते प्रमाणाद्बहिः क्रियते न केनापीत्यर्थः ।
तथाहि ।
किमयथार्थत्वात् ।
याथार्थ्ये ऽप्यननुभूतित्वाद्वाप्रामाण्ये बाधकाभावाद्वा प्रामाण्ये साधकाभावाद्बाधकसद्भावाद्वा ।
आद्यं दूषयतिकेनेति ।
स्मृतिः केन प्रबलेन प्रमाणेनापोद्यते बाध्यते ।
येन यथार्था न स्यात् ।
बाधकाभावान्नायथार्थत्वं वाच्यमिति ।
द्वितीयं निराकरोतिकेनेति ।
किमनुभूतित्वं प्रमाणलक्षणमिति कृत्वाननुभूतित्वात्स्मृतिरप्रमाणमित्युच्यते किं वा घटादिदृष्टान्तावष्टम्भेन ।
आद्ये ऽन्योन्याश्रयत्वम् ।
तथाच केन स्मृतिरपोद्यते ।
द्वितीये ऽपि स्मृतिरेव केनापोद्यते ।
अस्मृतित्वेनानुभूतिः कुतो नापोद्यते विशेषाभावादिति ।
तृतीयमपाकरोतिपूर्वेति ।
पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम् । मनुव्_२,१.५८च्द् ।
न्यायसुधा-
यदि स्मृतिरप्रमाणं स्यात्तदा पूर्वानुभूते किं मानमिति प्रश्नो निरुत्तरः स्यात् ।
स्मृतिव्यतिरिक्तस्य
तत्प्रमाणस्याभावात् ।
तथाच साक्ष्यादिलोकव्यवहारो लुप्येत ।
स्मृतिरेव प्रमाणं किन्तु लिङ्गतयेति चेन्न ।
तथानुभवाभावात् ।
अन्यथा साक्षात्कारेण कार्येण कर्मकारकतया घटा(द्य)नुमानमित्यपि स्यात् ।
चतुर्थं प्रत्याहपूर्वेति ।
स्मृतिरित्येव हि वक्तव्यम् ।
वचनाच्चानुभवो ऽनुमीयत इति लोकव्यवहार एवात्र प्रमाणमित्यर्थः ।
५,५५२
ननु यदि स्मृतिः प्रमा स्यात्तदा तत्कारणस्य संस्कारस्यानुप्रमाणत्वं प्रसज्येत ।
तथाचानुप्रमाणत्रित्वं भज्येत ।
नहि संस्कारः प्रत्यक्षादिष्वन्तर्भवति ।
अनिन्द्रियसन्निकर्षत्वादज्ञातकरणत्वाच्चेति पञ्चममपाकरोतिमानसमिति ।
मानसं तद्धि विज्ञानं … । मनुव्_२,१.५९अ ।
न्यायसुधा-
हि यस्मात्तत्स्मरणं मानसं मनःप्रत्यक्षजं न संस्कारकरणकं ततो नोक्तदोष इति शेषः ।
असाक्षात्काररूपत्वान्न प्रत्यक्षफलत्वमित्यत उक्तम्विज्ञानमिति ।
साक्षात्कार इत्यर्थः ।
स्मरणस्य मानसत्वं साक्षात्कारत्वं च कुत इत्यत आहतच्चेति ।
… तच्च साक्षिप्रमाणकम् । मनुव्_२,१.५९ब् ।
न्यायसुधा-
तदिति मानसत्वम् ।
चशब्दात्साक्षात्कारत्वं च ।
यद्वा द्वयमपि तच्छब्देन परामृश्यते ।
प्रकृतानुसन्धानार्थश्चशब्दः ।
५,५५३
नन्विन्द्रियाणां प्राप्यकारित्वनियमादतीतेन च मनसः प्राप्तेरयोगात्कथं स्मृतेर्मानसप्रत्यक्षजत्वमित्यत आहअतीतेति ।
अतीतानागतं यद्वद् योगिभिर्दृश्यते ऽञ्जसा ।
एवं पूर्वानुभूतं च मनसैवावगम्यते । मनुव्_२,१.५९च्फ़् ।
न्यायसुधा-
सन्ति तावद्योगिनो ऽणिमादिसिद्धिसम्पन्ना अतीतानागतदर्शिनः श्रुतिस्मृतीतिहासपुराणप्रसिद्धाः ।
श्रुत्यादेः सिद्धार्थे प्रामाण्यस्य साधितत्वात् ।
कर्मविधिसमानयोगक्षेमत्वाच्च योगविधीनाम् ।
नच तज्ज्ञानमसाक्षात्कारः ।
श्रुत्यादिना साक्षात्कारत्वप्रतीतेः ।
तथाहि श्रुतिः’अपश्यमप्यये मायया विश्वकर्मण्यदो जगन्निहितं शुभ्रचक्षुः’ इति ।
पुराणं च’नारायणप्रसादेन’ इत्यादि ।
इतिहासो ऽपि’दिव्यं ददामि ते चक्षुः’ इत्यादि ।
तदिदमुक्तम्अञ्जसेति ।
साक्षादित्यर्थः ।
एवञ्च यथा योगिनामिन्द्रियेणैवातीतानागताथर्साक्षात्कारस्तथातीतमपि मनसा स्मर्यत इति को दोषः ।
नन्विन्द्रियस्यार्थप्राप्तिर्नाम न संयोगः समवायो वेति नियमः ।
किन्तु प्रत्यासत्तिमात्रम् ।
अस्ति च तद्योगीन्द्रियाणाम् ।
तत्तदुपदर्शकयोगजधर्मसहकृतत्वलक्षणमिति चेत् ।
एवं तर्हि मनसो ऽपि पूर्वानुभवजनितसंस्कारसाचिव्यलक्षणास्त्यतीतार्थेन प्रत्यासत्तिरित्याशयवतोक्तम्पूर्वानुभूतं चेति ।
५,५५४
एतदुक्तं भवति ।
यदि प्राप्तिः संयोगादिलक्षणा विवक्षिता तदा तदभावो ऽनैकान्तिकः ।
प्रत्यासत्तिमात्रविवक्षायां त्वसिद्धिरिति ।
दृष्टान्तकथनं तु प्रत्यासत्तिमात्रस्य साक्षात्कारहेतुतां सम्भावयितुम् ।
कार्यदर्शनवशाच्चेयं कल्पनासौ नातिप्रसङ्ग इति दर्शयितुं च ।
एतेन मानसं चेत्स्मरणं स्यान्न संस्कारजं तदाननुभूते ऽप्यु(व्यु)त्पद्येतेति परास्तम् ।
संस्कारस्य सन्निकर्षस्थानीयतयाङ्गीकृतत्वात् ।
५,५५७
यत्स्मृतेर्मानसत्वं साक्षिसिद्धमित्युक्तं तदभिनयेन दर्शयतिविज्ञातमिति ।
विज्ञातं मनसा पूर्वं मयैतत् कृतमित्यपि ।
साक्षादनुभवात् सिद्धं … । मनुव्_२,१.६०अच् ।
न्यायसुधा-
एतन्मया पूर्वं कृतमित्येतन्मया मनसा विज्ञातं स्मृतमपीति स्मरणस्य मानसत्वं साक्षादनुभवात्साक्ष्यनुभवेन सिद्धमिति ।
यदुक्तं परैः पूर्वानुभवावच्छिन्नार्थगोचरा स्मृतिस्तद्याथार्थ्यादिकमनुविदधाना न स्वयं यथार्थेति, तदसत्, अनुभववच्छुद्धार्थविषयत्वस्यापि
साक्षिसिद्धत्वादिति दर्शयितुं मयैतत्कृतमित्यपीत्युक्तम् ।
ननु मनसो ऽप्रत्यक्षत्वात्कथं स्मरणस्य मानसता साक्षिप्रत्यक्षगम्येति चेन्न ।
तस्य साक्षिवेद्यताया वक्ष्यमाणत्वात् ।
तथापि कार्यकारणभावो न प्रत्यक्ष इति चेदन्वयव्यतिरेकसचिवस्य साक्षिणस्तत्र प्रामाण्याभ्युपगमात् ।
ज्ञानं नित्यानुमेयमिति चेन्न ।
ज्ञातताया निराकरिष्यमाणत्वात् ।
स्वप्रकाशमिति चेन्न ।
अनात्वत्वात्, घटवत् ।
मानसवेद्यता तु निरसिष्यत इत्याशयवानाहकथमेवेति ।
… कथमेव ह्यपोद्यते । मनुव्_२,१.६०च्द् ।
५,५६१
न्यायसुधा-
याथार्थ्यमेवेत्यादिनोक्तस्य प्रकृतोपयोगमाहएवमिति ।
एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ।
प्रमाणं वेद एवैकस् … । मनुव्_२,१.६१ ।
न्यायसुधा-
यस्मान्मानत्रयमेवंलक्षणकं तस्माद्ब्रह्मादिवस्तुषु वेद एव प्रमाणं न युक्त्यादेस्तत्रावकाशः ।
इन्द्रियं हि रूपादिमत्येव द्रव्ये प्रवतर्ते ।
नच ब्रह्मादिकं तथा ।
अनुमानं च व्याप्तिसापेक्षम् ।
नच वेदनिरपेक्षस्य तस्य ब्रह्मादौ सञ्चारो ऽस्ति ।
उपाधिप्रतिपक्षयोस्तु सर्वत्र सम्भवेन व्याप्त्यनिश्चयात् ।
वेदानुसरणे तु साध्याव्यापकत्वबाधितविषयत्वयोरावश्यकत्वात् ।
पौरुषेयागमस्तु परतन्त्र एवेति ।
ततः किमित्यत आहतत्प्रामाण्यं चेति ।
… तत्प्रामाण्यं च साधितम् । मनुव्_२,१.६१द् ।
न्यायसुधा-
य(त)स्माद्वेदविषये न युक्तेरवकाशस्ततो विरोधो ऽपि स एवोक्त इत्युपपन्नम् ।
तथाच वेदस्य प्रमाणविरोधाभावात्तत्प्रामाण्यं च साधितम् ।
यदुक्तं प्राक्’तस्माद्वेदप्रामाण्यमिष्यते’ इति तत्सिद्धमित्यर्थः ।
। इति श्रीमन्न्यायसुधायां न विलक्षणत्वाधिकरणम् ।
व्यास(१५)
__