अथ श्रीमन्न्यायसुधायां प्रकृत्यधिकरणम्
इदानीं’प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्ऽ‘एतेन सर्वे व्याख्याता व्याख्याताः’ इत्यधिकरणद्वयस्य सङ्क्षेपतस्तात्पर्यमाह स्त्रीशब्दाश्चेति
प्रकृतिश् च प्रतिज्ञादृष्टान्तानुपरोधात् । ब्ब्स्_१,४.२३ ।
एतेन सर्वे व्याख्याता व्याख्याताः । ब्ब्स्_१,४.२८ ।
स्त्रीशब्दाश्च निषेधार्थाः सर्वे ऽपि ब्रह्मवाचकाः (अनुव्याख्यानम्)१,४.२०एफ़्
न्यायसुधा-
स्त्रीलिङ्गाः प्रकृथत्यादिशब्दाः स्त्रीशब्दाः ।
निषेधनं निषेधो ऽभावः ।
निषिद्धयत इति ।
निषेधः असत् ।
तदुभयार्थाः ।
शब्दा इति (च) वर्तते ।
४,१३९
अत्र न सर्वाणि सूत्राणि व्याख्यातानि ।
ततः प्रतिज्ञा व्याहन्येतेत्यतो विषयादिकथनेन व्याख्याततां मन्वानः सर्वाधिकरणविषयपूर्वपक्षसिद्धान्तयुक्तीराह विरोधीति
विरोधिसर्वबाहुल्यकारणस्त्रीनिषेधिनाम् ।
पृथक् समन्वयार्थानि स्थानान्येतानि सर्वशः (अनुव्याख्यानम्)१,४.२१
न्यायसुधा-
यद्वा अत्राद्येन श्लोकेनाधिकर(णार्थो)णोपाधयः कथ्यन्ते ।
विरोधीति परमैश्वर्यविरोध्यर्थाः ।
सर्वेति उक्तवक्ष्यमाणव्यतिरिक्ताः ।
बाहुल्येति बाहुल्यविशिष्टार्थवाचिनः ।
कारणेति अवान्तरकारणवाचिनः ।
स्त्रीति स्त्रीलिङ्गाः ।
निषेधो वाच्यो येषामस्ति ते निषेधिनः ।
अथवा ।
द्वन्द्वात्पर इन्प्रत्ययो द्रष्टव्यः ।
तथात्वे विरोध्यादयो ऽर्था ग्राह्याः ।
शब्दानामिति शेषः ।
एतानि एतत्पादगतानि सर्वशः स्थानानि अधिकरणानि एषां शब्दानां समन्वयप्रयोजनानीत्युक्ते प्रत्येकं सर्वशब्दसमन्वयसिद्धिरित्यपि
प्रतीयेत ।
अतः पृथगित्युक्तम् ।
४,१४२
सर्वमानैर्विरोधश्च व्युत्पत्तेरप्यशक्यता ।
परस्परविरोधश्च विरोधः कार्यतद्वतोः ।
स्त्रीलिङ्गत्वं निषेधश्च पूर्वपक्षेषु हेतवः (अनुव्याख्यानम्)१,४.२२
दोषात्यस्पृष्टिनियमः शब्दार्थानेकता तथा ।
बहुरूपत्वमीशस्य व्यक्तयव्यक्तिविशेषिता (अनुव्याख्यानम्)१,४.२३
उत्पादनं स्वदेहाच्च दुर्जनाव्यक्तता तथा ।
इतयाद्या युक्तयः साक्षात् सिद्धान्तस्थापका इह (अनुव्याख्यानम्)१,४.२४
न्यायसुधा-
सर्वेत्यनेनैव समाकर्षाधिकरणार्थो ऽपि सङ्गृहीतः ।
तस्य ज्योतिरधिकरणार्थाक्षेपपरिहारार्थत्वात् ।
‘सर्वमानैर्विरोधश्च’ इत्याद्यर्थो न्यायविवरणादाववगन्तव्यः ।
४,१४४
एवमानुमानिकमित्यादीनि सूत्राणि सङ्क्षेपतो व्याख्याय सिंहावलोकनन्यायेन समाकर्षाधिकरणं ज्योतिरधिकरणं’चान्वयः’ इत्यादिना
किञ्चिद्विवृणोति ।
तथाहि ।
समाकर्षाधिकरणे प्रतिपाद्यमानो वाक्यान्वयः सूत्रकारस्याभिमानो न वा ।
आद्ये वक्तव्यम् ।
प्रागुक्तप्रतिपदान्वयो युक्तो न वेति ।
नेति पक्षे न वक्तव्यः ।
युक्तत्वे तु मुख्ये तस्मिन्विद्यमाने ऽस्य वैयर्थ्यम् ।
किञ्च वाक्यान्वयस्य स्वमतत्वे ऽन्यार्थं तु जैमिनिरित्यादिसूत्रेषु जैमिन्यादिग्रहणं व्यर्थं स्यात् ।
अपि च प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः उत्क्रमिष्यत एवं, भावादित्यौडुलोमिः अवस्थितेरिति काशकृत्स्न इति वाक्यान्वयस्त्रिप्रकारो ऽभिहितः ।
तस्य परस्परमविरोधे मतभेदो न स्यात् ।
विरोधे तु कथं सूत्रकाराभिमतत्वम् ।
अथ सूत्रकारस्यानभिमतो वाक्यान्वयस्तदा निराकरणसूत्रेणाभाव्यम् ।
न चैतदस्ति ।
तत्कथमेतदित्यत आह अन्वय इति
अन्वयः सर्वशब्दानामशक्यो ज्ञातुमञ्जसा ।
इति यल्लोकवैमुख्यं जैमिन्यादिमतं वदन् (अनुव्याख्यानम्)१,४.२५
विद्याधिनाथो भगवानपाचक्रे स्वयं प्रभुः (अनुव्याख्यानम्)१,४.२६अब्
न्यायसुधा-
प्रतिपदान्वये ऽभिहिते हि मन्दाधिकारिणां मोक्षमागर्वैमुख्यं स्यात् ।
सर्वशब्दानां ब्रह्मणि अञ्जसा मुख्यया वृत्त्या अन्वयस्तावज्ज्ञातुमशक्यः ।
‘कश्छन्दसामिति’ श्रुतेः ।
नच तज्ज्ञानेन विना मोक्षः ।
नचाशक्ये प्रवृत्तिर्युक्ता ।
आकाशरोमन्थनादौ प्रवृत्त्यदर्शनात् ।
तथाचाहुः ।
‘व्यसनानि दुरन्तानि समव्ययफलानि च ।
अशक्यानि च वस्तूनि नारभेत विचक्षणः’ इति ।
तस्मादास्तामयं मोक्षः ।
शक्यानुष्ठानसाधनधर्माद्यर्थमेव प्रवर्तेमहीति ।
एवं मन्दलोकस्य मोक्षमार्गवैमुख्यं भगवन्सूत्रकारः स्वयमेव जैमिन्यादिमतमेतदिति वदन्वाक्यान्वयप्रदर्शनेन निराकृतवान् ।
अनेन स्वाभिमत एव वाक्यान्वयो ऽतो न निराकरणसूत्राभावो दोषाय ।
प्रतिपदान्वयश्च युक्त एवेति तद्व्युत्पादनमुपपन्नमेव ।
तथापि प्रतिपदमन्वये सामर्थ्यवैकल्येन मोक्षमार्गाद्विमुखानां मन्दाधिकारिणामुपायान्तरप्रदर्शनेन समाश्वासार्थं वाक्यान्वयकथनं
चोपपन्नमित्युक्तं भवति ।
४,१४६
तर्हि जैमिन्यादिग्रहणं व्यर्थमित्युक्तमित्यत आह स्वशिष्याणामिति
स्वशिष्याणां प्रसिद्धयर्थं मतमात्मीयमंशतः (अनुव्याख्यानम्)१,४.२६च्द्
विज्ञातं तैर्जगादात्र तारतम्यं नृणां वदन् (अनुव्याख्यानम्)१,४.२७अब्
न्यायसुधा-
जैमिन्यादीनामिति शेषः ।
नात्र जैमिन्यादिग्रहणेन तदीयमेवैतन्मतमित्युच्यते ।
किन्तु मदीयमेव मतमेकदेशतो जैमिन्यादिभिर्विज्ञातमिति ।
एतच्च तेषां ख्यात्यर्थम् ।
गुरुणा श्लाघिता हि शिष्या लोके ख्यातिं लभन्ते ।
ननु वाक्यान्वयस्य प्रकारत्रयं परस्परविरुद्धं कथं सूत्रकाराभिमतं स्यादित्यत आह तारतम्यमिति
नृणामल्पाधिकारिणामवस्थातारतम्यं वदन्नित्यनेनावस्थातारतम्यव्यवस्थया मतभेदो न विरोधेनेत्युक्तं भवति ।
एतेनाङ्गीकृते ऽपीत्याद्युक्तं विवृतं वेदितव्यम् ।
४,१४७
ज्योतिरधिकरणे योगवृत्त्या परमेश्वरे ऽखिल(पदानां)शब्दसमन्वयो ऽभिहितः ।
नासौ युज्यते ।
प्रकृत्यादेरन्यपरत्वाभावे निर्वचनानुपपत्तेः ।
नहि जातादिपदानामन्यपरत्वानङ्गीकारे जातमोतं यस्मिन्निति व्युत्पत्तिः सम्भवति ।
प्रकृत्यादेरन्यपरत्वे तु सर्वशब्दानां भगवद्वाचित्वमिति गतः पक्षः ।
किञ्च वसन्त इत्यादीनां भगवत्परत्वे कर्मानुष्ठानलोपो लोकव्यवहारविलोपश्च प्रसज्येतेत्युक्तमित्यत आह तेष्विति
कल्पनोपदेशाच् च मध्वादिवदविरोधः । ब्ब्स्_१,४.१० ।
तेषु तेषु पदार्थेषु रूढिरङ्गीकृता यतः (अनुव्याख्यानम्)१,४.२७च्द्
प्रयोजनबहुत्वेन तस्य तस्याविरोधतः ।
उपदेशादिसामर्थ्याद् विष्णौ शक्तिश्च गृह्यते (अनुव्याख्यानम्)१,४.२८
४,१४८
न्यायसुधा-
व्युत्पत्त्युपपत्तिः कर्मानुष्ठानसम्भवो लोकव्यवहारानुच्छेदश्चेत्येवं प्रयोजनानां बहुत्वेन कारणेन तेषु तेषु तत्तच्छब्दवाच्यतया प्रसिद्धेष्वर्थेषु
तत्तच्छब्दानां, रूढिरित्युपलक्षणं, वृत्तिरङ्गीकृता यतस्तस्मात्तस्य तस्याविरोधतः तं तमर्थमपरित्यज्य उपदेशलिङ्गप्रकरणादिबलेन
सर्वशब्दानां विष्णौ च शक्तिर्गृह्यते ।
यद्यपि अत्रैतावदेव वक्तव्यम् ।
‘नैष दोषः ।
सर्वशब्दानां भगवद्वाचिनामपि प्रसिद्धार्थान्तरवाचकत्वस्यापि स्वीकारात् ।
ज्योतिरादिशब्दानां हि ज्योतिष्योमाद्वयर्थत्वस्याङ्गीकृतत्वान्नानुष्ठानलोकव्यवहारविलोपः ।
जातमोतमित्यवयववृत्त्या परमेश्वरे वृत्तौ जातातिपदानामन्यतरत्वमङ्गीक्रियत इति व्युत्पत्त्युपपत्तिः ।
पुनस्तदवयवस्याप्यन्यपरत्वमुपादाय परमेश्वरे जातपदव्युतपत्तिसम्भव इत्रत ।
तथापि स्यादेतदेवम् ।
यदि शब्दानामनेकार्थत्वं स्यात् तदेव कुत इति शङ्कानिरासार्थमिदमुक्तमिति ज्ञातव्यम् ।
तथाहि ।
पदार्थान्तरवाचित्वं तावदुक्तप्रयोजनसिद्धये ऽङ्गीकरणीयम् ।
परमेश्वरवाचित्वं च सर्वशब्दानां’नामानि सर्वाणि यमाविशन्ति’ ।
‘ता वा एताः सर्वा ऋचः’ इत्याद्युपदेशबलाच्छतिलिङ्गादिसामर्थ्याच्च तत्तच्छब्दानामवश्यमङ्गीकरणीयमिति ।
अनेन’कल्पनोपदेशाच्च मध्वादिवदविरोधः’ इति सूत्रस्य तात्पर्यमुक्तं भवति ।
४,१५०
यदि सर्वशब्दानामुभयार्थत्वं तर्हि’विश्वस्मादिन्द्र उत्तरःऽ‘असदेवेदमग्र आसीत्’ इत्यादौ कथम् ।
उभयोः सर्वोत्तमत्वादेर्विरुद्धत्वेनात्रोभयार्थत्वानुपपत्तेः ।
पदानामुभयार्थवाचितवे ऽपि तत्र विरोधः, तत्रान्यतरमात्रे तात्पर्यमङ्गीकार्यमिति चेत् ।
तत्रापि किमुपादेयं किं परित्याज्यमिति न ज्ञायत इत्यत आह तथापीति
तथाप्येतद्विरोधे तु तद्वाचित्वमपोद्यते (अनुव्याख्यानम्)१,४.२९अब्
न्यायसुधा-
यद्यप्युभयार्थाः शब्दा इति सामान्येनोक्तम् ।
तथापि परमेश्वरपरत्वविरोधे ऽन्यपरत्वमपोद्यते ।
तुशब्दो विशेषद्योतनार्थः ।
उभयपरत्वं तावद्विरुद्धमिति परेणैवोक्तम् ।
अन्यतरपरित्यागे च परमेश्वरपरित्यागो न युक्तः ।
निश्चिततात्पर्यवाक्यान्तरविरोधात् ।
अतः परिशेषादितरपरित्याग एवोचित इति ।
तर्हि कल्पनोपदेशादित्यादिविरोधः ।
तत्र सर्वशब्दानामुभयपरत्वस्योक्तत्वादिति चेन्न ।
निरपवादस्थले पर्यवसायित्वात्तस्येत्याह अविरोध इति
४,१५१
अविरोधे तु बह्वर्था एतन्मूलतया मताः (अनुव्याख्यानम्)१,४.२९च्द्
न्यायसुधा-
बहुशब्दो ऽनेकार्थः ।
मताः तत्रतत्र सूत्रे ऽभिमताः ।
नन्वविरोधे ऽप्युभयार्थत्वाङ्गीकारो न युक्तः ।
तत्तु समन्वयादित्यवधार(णविरोधा)णशदित्यत उक्तम् एतन्मूलतयेति
एष परमेश्वरो मूलं मुख्यो येषां ते तथोक्तास्तेषां भावस्तत्ता ।
तयेतीत्थम्म्भूतलक्षणे तृतीया ।
मुख्यमर्थान्तरं वारयितुमवधारणम् ।
न त्वर्थान्तरमात्रम् ।
उक्तप्रयोजनव्याघातादिति भावः ।
एतेननान्यायश्चा(य्यं चा)नेकार्थत्वमित्यपि समाहितम् ।
मुख्यार्थस्यैकत्वात् ।
४,१५४
ननु पुरन्दरादिष्वपीन्द्रादिशब्दा रूढियोगाभ्यां प्रवृत्ताः ।
रूढियोगौ च मुख्यवृत्ती कथ्येते ।
अतो ऽक्षादिशब्दानामिवेन्द्रादिशब्दानामुभयं मुख्याभिधेयं युक्तम् ।
नेश्वर एवेत्यत आह इतो हीति
इतो हि रूढतान्येषामुपजीव्यत्वमत्र हि (अनुव्याख्यानम्)१,४.३०अब्
न्यायसुधा-
सत्यमस्ति पुरन्दरादीनामपीन्द्रादिशब्दरूढिविषयता तथापि सा इतः परमेश्वरादेव हि यस्मात्, यस्माच्च अत्र योगविषयत्वे
परमेश्वरस्यैवोपजीव्यत्वं तस्मात्स एव मुख्यार्थो न पुरन्दरादयः ।
स्वत एवानवधिकैश्वर्यादिमतीश्वर एवेन्द्रादिशब्दानां योगरूढी ।
तत्सन्निधानात्तदायत्त(तत्प्र)प्रवृत्तिनिमित्तत्वादेव च पुरन्दरादिषु ।
प्रसिद्धं चैतत् ।
यद्यत्सन्निधानाद्यच्छब्दप्रतिपाद्यं तदमुख्यमन्यन्मुख्यमिति ।
यथा दग्धृशब्दस्यायो ऽग्निश्च ।
न चाक्षादिशब्दार्थानामित(रेत)रापेक्षास्तीति वैषम्यमिति ।
नन्वेवं चेदीश्वरस्याप्यमुख्यत्वं प्रसक्तम् ।
अर्थान्तरापेक्षयैव तत्र शब्दप्रवृत्तेः ।
न खलु जातादिशब्दानामन्यार्थतामनपेक्ष्य ज्योतिषेत्यादिशब्दानां भगवति प्रवृत्तिः सम्भवतीत्यत आह तत्सिद्धिरिति ।
तत्सिद्धिस्तदपेक्षा च … (अनुव्याख्यानम्)१,४.३०च्
न्यायसुधा-
चशब्दो ऽवधारणे ।
नायमस्ति दोषः ।
यतः परमपुरुषे तत्तच्छब्दप्रवृत्तिप्रतीतिरेवार्थान्तरापेक्षा नतु प्रवृत्तिः ।
नहि घटस्य रूपं प्रदीपापेक्षया प्रतीयत इत्येतावता तदायत्तं भवति ।
यथान्यत्र शब्दप्रवृत्तिरेव परमेश्वरापेक्षा ।
नैवं परमात्मनि वृत्तावितरापेक्षां कामपीक्षामह इति ।
४,१५५
इतश्च नायं दोष इत्याह सापेक्षा चेति
… सापेक्षा च हरीच्छया (अनुव्याख्यानम्)१,४.३०द्
न्यायसुधा-
या परमेश्वरे शब्दानां वृत्तावर्थान्तरापेक्षा सा च भगवदिच्छानिबन्धनैव न त्वनन्यगतिकतयेत्यतो न तस्यामुख्यार्थताप्राप्तिः ।
न हीच्छया प्रकृत्यादिकमुपाददानस्य सृष्टिः परायत्ता ।
नापि पटुकरणा लीलानिमित्तमिच्छया दण्डमवष्टभ्य गच्छन्दण्डायत्तगतिर्भवतीति ।
यद्येवं हरिसन्निधानादिना शब्दानामन्यत्र वृत्तिस्तत्किमयसीव दग्धृशब्दस्य लोके सर्वशब्दानां लक्षणैव ।
तथा सति गङ्गातीरयोरविशेषप्रसङ्गः ।
ईक्षत्यधिकरणोक्तार्थस्य मूले निहितः कुठार इत्याशङ्कां परिहरन्नेतन्मूलतयेत्यादिनोक्तमर्थमुपसंहरति तस्मादिति
तस्मात् परममुख्यत्वं विष्णावन्यत्र मुख्यता (अनुव्याख्यानम्)१,४.३१अब्
४,१५६
न्यायसुधा-
नायसि दग्धृशब्दस्येवेन्द्रादिशब्दानां पुरन्दरादिषु लक्षणैव ।
रूढेरभिधानादिसिद्धत्वात् ।
योगनिमित्तस्य च परमैश्वर्यादेः सद्भावात् ।
किन्तु परमेश्वरविषययो रूढियोगयोरपराधीनत्वनिरङ्कुशत्वाभ्याम्, अन्यत्र तदधीनत्वाल्पत्वाभ्यां, मुख्याथर्तायामेवायं मुख्यामुख्यविभागो
ऽभिहित इति ।
तदिदमुक्तं परममुख्यत्वमिति मुख्यतेति च ।
४,१५७
उपलक्षणा च गौणी च तिस्रः शब्दस्य वृत्तयः (अनुव्याख्यानम्)१,४.३१च्द्
न्यायसुधा-
गौणी(चे)त्यतः परमितिशब्दो ऽध्याहार्यः ।
एतदेव दर्शयन्परममुख्यादिवृत्तिलक्षणान्याह प्रवृत्तीत्यादिना
तत्र परममुख्यवृत्तिर्द्वेधा ।
महायोगो महायोगरूढिश्चेति ।
महारूढिस्तु न सम्भवति ।
‘सा योगादेव लभ्यते’ इत्युक्तत्वात् ।
तत्र महायोगस्वरूपमाह प्रवृत्तिहेतोरिति
प्रवृत्तिहेतोर्बाहुल्यं ज्ञेयं परममुख्यता (अनुव्याख्यानम्)१,४.३२अब्
न्यायसुधा-
निर्वचनलभ्यो ऽर्थः प्रवृत्तिहेतुस्तस्य बाहुल्यं निरवधिकत्वम् ।
यद्यपि स्वातन्त्र्यं चात्र वक्तव्यम् ।
प्रकृतत्वात् ।
तथाप्यन्यतरमात्रेणेतरव्यावृत्तिसिद्धेर्लक्षणपदानां च तन्मात्रप्रयोजनत्वान्नाभिहितम् ।
परममुख्यतेति ज्ञेयमिति योजना ।
ननु बाहुल्यं प्रवृत्तिहेतोर्धमर्ः ।
बहुलप्रवृत्तिहेतुमत्त्वं चाभिधेयस्य ।
पररममुख्यता तु शब्दधर्मः ।
तत्कथं सामानाधिकरण्यम् ।
नैष दोषः ।
उपचरितत्वात् ।
निरवधिकं स्वतन्त्रं वा प्रवृत्तिहेतुमपेक्ष्य या शब्द(स्य प्र)वृत्तिः सा परममुख्यता महायोगलक्षणा ज्ञातव्येति तात्पर्यार्थः ।
४,१६०
महायोगरूढिस्वरूपं निरूपयन्नाह तत्रेति
तत्र प्रयोगबाहुल्यं यदि तत्परता किमु (अनुव्याख्यानम्)१,४.३२च्द्
न्यायसुधा-
यत्रार्थे प्रवृत्तिहेतोरनवधिकत्वं तत्रैव चेत्प्रयोगबाहुल्यं स्यात्तदा तस्या वृत्तेः परता परममुख्यता किमु वक्तव्येति ।
अत्रानवधिकप्रवृत्तिनिमित्तवति यत्रार्थे यस्य शब्दस्य प्रयोगबाहुल्यमस्ति तस्य तत्र महायोगरूढिलक्षणा परममुख्यवृत्तिरित्येतावदेव वक्तव्यम् ।
कैमुत्यकथनं तु शङ्कानिरासार्थम् ।
तथाहि ।
किमत्र प्रयोगबाहुल्यमात्रं लक्षणमुतानवधिकप्रवृत्तिनिमित्तविशेषितम् ।
नाद्यः ।
रूढिमात्रत्वात्परममुख्यत्वायोगात् ।
न द्वितीयः ।
अनवधिकप्रवृत्तिनिमित्तेनैव परममुख्यत्वे विशेषवैयर्थ्यात् ।
नच समाहारेण विधान्तरं भवति ।
तथा सति असिद्धबाधितसमाहारो ऽपरो हेत्वाभासः स्यादिति ।
अत्र द्वितीय एवाभ्युपगम्यते ।
नचोक्तदोषः ।
विशेषणमात्रेण परममुख्यत्वे, विशेष्यसद्भावेन सुतरां तत्सिद्धेः ।
न ह्यस्माभिः परममुख्यतामात्रसिद्धये विशिष्टोपादानं क्रियते ।
किन्तु समाहाररूपविधान्तरसिद्धये ।
न चातिप्रसङ्गः ।
वैषम्यात् ।
अनवधिकप्रवृत्तिनिमित्तापेक्षप्रयोगबाहुल्यं खलु विवक्षितम् ।
न समाहारमात्रम् ।
एतदर्थं च तत्र प्रवृत्तिहेतोर्बाहुल्ये सतीति योज्यम् ।
नचैवं महायोगस्यात्र प्रवेशः ।
अतिबहुलप्रयोगाभावस्य तत्र विवक्षितत्वादिति ।
४,१६४
अत्र कतरा वृत्तिर्विष्णौ ।
येन परममुख्यत्वं विष्णावित्युक्तमित्यत आह उभयमिति
उभयं दृश्यते विष्णौ शब्दानामपि सर्वशः (अनुव्याख्यानम्)१,४.३३अब्
न्यायसुधा-
उभयं वृत्तिद्वयं, दृश्यते, प्रमाणैः ।
सर्वशो ऽपि शब्दानामित्यस्यायमर्थः ।
नारायणादिशब्दानां महायोगरूढिः ।
तदितरेषां महायोग इति ।
अथवा विष्णौ परममुख्यवृत्तिरित्युक्तमनेनोपपादयति ।
उभयं प्रवृत्तिहेतोर्बाहुल्यं च ।
यद्वा ।
प्रमितान्वाख्यानं परीक्षकधर्मो नतु स्वेच्छया ऽर्थकल्पनम् ।
नचैते वृत्ती क्वचित्प्रमिते ।
अतो न निरूपणीये इत्यत्रेदमुदितम् ।
प्रमाणानि तु वक्ष्यन्ते ।
ननु योगो योगरूढिश्चैते किं न स्याताम् ।
किमेवं भेदकाभावादाशङ्कयते अथवा तद्विवक्षाकारणाभावात् ।
नाद्यः ।
तस्योक्तत्वात् ।
न द्वितीयः ।
यौगिकादीनामप्यर्थानाममुख्यतामभिधाय विष्णोर्मुख्यत्वाभिधानस्य कारणत्वादिति ।
४,१६५
मुख्यवृत्तिरपि त्रेधा भवति ।
योगो रूढिर्योगरूढिश्चेति ।
तत्र प्रवृत्तिनिमित्तापेक्षा वृत्तिर्योगः ।
यथा कुम्भकारः, औपगवो, राजपुरुष इति ।
ननु नैते ऽपि यौगिकाः किं नाम रूढा एव ।
कृत्तद्धितसमासकरणं तु व्युत्पत्तिमात्रार्थम् ।
यथोक्तम् ।
वृक्षादिवदमी रूढा इत्यादि ।
मैवम् ।
शब्दार्थविभागस्यावापोद्धाराभ्यां प्रतीतस्यापलापे कारणाभावादित्यादि शिष्यैरेवोह्यतामिति मत्वा रूढेः स्वरूपमाह प्रयोगेति
प्रयोगमात्रबाहुल्यं रूढिरित्यभिधीयते (अनुव्याख्यानम्)१,४.३३च्द्
४,१६९
न्यायसुधा-
यत्रार्थे यस्य शब्दस्य प्रयोगमात्रबाहुल्यं तत्र तस्य वृत्ती रूढिरित्यभिधीयते मात्रेत्यवयवार्थसादृश्यादिसापेक्षताव्युदासार्थम् ।
तेन परममुख्यवृत्तेर्योगरूढे रूढोपचारलक्षणाभ्यां च व्यवच्छेदः ।
बाहुल्यमिति स्वरूपकथनम् ।
सर्वेऽपि यौगिका ।
नास्ति रूढ इति शाकटायनः ।
तदसत् ।
घटपटादिशब्दानां बहुलमुपलम्भात् ।
ते ऽप्युणादिप्रत्ययान्ता यौगिका एवेति चेन्न ।
अर्थानुगमादर्शनात् ।
अन्ततः प्रकृतिप्रत्यययोस्तदर्थे रूढेराश्रयणीयत्वाच्चेति ।
प्रवृत्तिनिमित्तापेक्षो यत्र बहुलप्रयोगस्तत्र योगरूढिः ।
यथा पङ्कजादिशब्दानां तामरसादाविति प्रसिद्धत्वान्नोक्तम् ।
विरोधाद्वैफल्याच्च योगरूढिरयुक्तेति केचित् ।
तथाहि ।
अवयववृत्तिर्योगः रूढिस्त्वखण्डवृत्तिः ।
नह्येतयोरेकत्र समावेशो युज्यते ।
नच योगरूढ्यङ्गीकारे किमपि प्रयोजनमस्ति ।
पङ्कजादिशब्दानां सम्प्रतिपन्नवृत्त्यैवोपपत्तेरिति तदयुक्तम् ।
नहि योगरूढयोः समाहारो योगरूढिरिति ब्रूमः ।
येन विरोधः स्यात् ।
किं नाम यथा रूढलक्षणा लक्षणामात्रात् रूढगौणी च गौणीमात्रात्प्रयोगप्राचुर्येण भिद्यते ।
तथा प्रवृत्तिनिमित्तापेक्षित्वाद्रूढिमात्रात्प्रयोगबाहुल्येन योगमात्राच्च भिन्ना तृतीयेयं वृत्तिरिति ।
व्यास(२)
४,१७३
किञ्च पङ्कजादिशब्दाश्च किं केवलं रूढा अङ्गीकरणीया उत यौगिकाः ।
नाद्यः ।
अवयवार्थप्रतीतिविरोधात् ।
सप्तम्यां जनेर्ड इत्याद्यनुशासनविरोधाच्च ।
अनेनैव न्यायेन यौगिकाभावप्रसङ्गाच्च ।
न द्वितीयः ।
भेकादिष्वपि प्रयोगप्रसङ्गात् ।
गवादिशब्दानामिव व्यवहारप्राचुर्याप्राचुर्यकृते शक्तिसाम्ये ऽपि प्रसिद्धयप्रसिद्धी, इति चेन्न वैषम्यात् ।
गवादिशब्दाना(नां सम्प्रतिपन्नवृत्याने)मनेकार्थत्वे शास्त्रतो निश्चिते हि प्रसिद्धयादेः कारणान्तरं मार्गणीयम् ।
नचैवमेषां शब्दानामनेकत्र शक्तिरवधृता ।
४,१७६
किञ्च शमिधातोः सञ्ज्ञायां स्तम्बकर्णयो रमिजपोर्हस्तिसूचकयोरित्यादिनावयवार्थव्यतिरेकेणोपाधीनपि वदता शास्त्रकारेणाङ्गीकृतैवेषा
वृत्तिरित्यलम् ।
४,१८०
एवमव्यवहितामभिधावाचकत्वादिशब्दवेद्यां मुख्यवृत्तिं निरूप्येदानीं व्यवहितां गौणीं लक्षणां चामुख्यवृत्तिं निरूपयति प्रयोगेति
प्रयोगयुक्तसादृश्यं सम्बन्धो वाप्यमुख्यतः ।
वृत्तिहेतुरिति ज्ञेयः … (अनुव्याख्यानम्)१,४.३४अच्
न्यायसुधा-
सम्बन्धः प्रयोगयुक्तेन ।
वाशब्दो व्यवस्थितविभाषायाम् ।
अपिशब्दो मुख्यवृत्तिलक्षणेनामुख्यवृत्तिलक्षणस्य समुच्चयार्थः ।
अमुख्यत इति समासे गुणभूताया अपि वृत्तेर्बुद्धया पृथक्कृताया विशेषणम् ।
अमुख्याया गौण्या लक्षणायाश्च वृत्तेहेर्तुरिति ज्ञेय इत्यर्थः ।
यस्य शब्दस्य यत्रार्थे प्रयोगः सामर्थ्यं तस्य प्रवृत्तिनिमित्तातिरिक्तं तत्सादृश्यं निमित्तीकृत्यान्यत्र वृत्तिर्गौणी ।
तत्सम्बन्धं निमित्तीकृत्य वृत्तिस्तु लक्षणेत्युक्तं भवति ।
कश्चिदाह ।
गौणी नाम वृत्तिर्नास्ति ।
सादृश्यस्यापि सम्बन्धत्वेन लक्षणायामन्तर्भूतत्वादिति ।
तन्निराकर्तुं पश्चादुद्दिष्यापि गौणी प्रथमं लक्षिता ।
स्वातन्त्र्यं ह्येवमस्या ज्ञापितं स्यात् ।
४,१८३फ़्.
यदि खलु कश्चिद् ब्रूयात् ।
लक्षणा नाम नास्ति सम्बन्धस्याप्येकस्थानत्वादिसादृश्यरूपत्वेन गौण्यमन्तर्भूतत्वादिति ।
तदा किं वक्तव्यम् ।
नैवं लौकिकी प्रतीतिरिति चेत् ।
तत्किं सादृश्यं सम्बन्धत्वेन प्रतियन्ति लौकिकाः ।
तत्र गौणी द्विविधा ।
रूढारूढभेदात् ।
तत्राद्या यथा ।
मृद्गवकादौ गवादिशब्दस्य ।
द्वितीया यथा गौर्वाहीक इति ।
अत्र स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा गोशब्दस्य वाहीके वृत्तौ निमित्ततामुपयान्तीति केचित् ।
तदसत् ।
गौण्या लक्षणातो भेदाभावप्रसङ्गात् ।
गोशब्दस्य वाहीके वृत्तौ लक्ष्यमाणगुणानां निमित्ततायाश्चोपपत्तिशून्यत्वात् ।
लक्ष्यमाणगुणसादृश्याद्गुणान्तरं ततो गुणी लक्ष्यत इति तु नानुभाविकम् ।
स्वार्थसहचारिगुणाभेदेन परार्थगता गुणा एव लक्ष्यन्त इत्यपरे ।
तदप्यसत् ।
गुणानां भेदस्य साधयिष्यमाणत्वात् ।
वाहीके वृत्तौ निमित्ताभावाच्च ।
तसमात्सदृशगुणाश्रयत्वं निमित्तीकृत्य परार्थे वृत्तिर्गौणीति साधूक्तम् ।
४,१९१
लक्षणापि द्वेधा ।
रूढारूढभेदात् ।
तत्राद्या यथा ।
राजायं गच्छतीति ।
द्वितीया यथा ।
गङ्गायां घोष इति ।
केचिदभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यत इत्याहुः ।
तेषां मञ्चाः क्रोशन्तीत्यादौ लक्षणा न स्यात् ।
स्याच्च शब्दातप्रतीतेन लिङ्गेनानुमितार्थस्य ।
अथाविनाभावो ऽत्र सम्बन्धमात्रम् ।
तथापि लक्षितलक्षणायामव्याप्तिः ।
नहि तत्राभिधेयसम्बन्धिनी वृत्तिः ।
किन्तु लक्षितसम्बन्धिनी ।
यथा प्राग्विरुद्धा इदानीं परस्परमेकीभूता इति ।
परम्परयायमर्थो ऽभिधेयसम्बन्धीति चेत् ।
तर्हि किमनया क्लिष्यकल्पनया ।
प्रयोगयुक्तसम्बन्ध इति यथोक्तमेवास्तु ।
४,१९४
व्यञ्जनं नामापरा वृत्तिरस्तीति चेन्न ।
अनुमानतया तस्य शब्दशक्तित्वानङ्गीकारात् ।
यथोक्तम् ।
वचनलिङ्गानुमा हि सेति ।
तात्पर्यवृत्तिस्तु नातिरिच्यत इति स्वयमेवाचार्यो वक्ष्यति ।
४,२०५
ननु मुख्यार्थानुपपत्तिं तत्सादृश्यं प्रयोजनं चापेक्ष्य गौणी प्रवर्तते ।
मुख्यार्थानुपपत्तितत्सम्बन्धप्रयोजनान्यपेक्ष्य तु लक्षणा ।
यथोक्तम्
‘मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात् ।
अन्यार्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया’
इति ।
तत्कथं सादृश्यसम्बन्धावेवोक्तावित्यत आह पूर्वेति
… पूर्वायोगे परग्रहः (अनुव्याख्यानम्)१,४.३४द्
४,२०९
न्यायसुधा-
न मुख्यानुपपत्तिरमुख्यवृत्तेः कारणम् ।
प्रयोगोत्तरकालीनत्वादनुपपत्तिदशर्नस्य ।
किन्तु मुख्यार्थानुपपत्तिदर्शनममुख्यार्थग्रहणस्य हेतुः ।
अत एव हि न शब्देनापेक्ष्यते ।
नापि प्रयोक्त्रा ।
किन्तु प्रतिपत्त्रैव ।
शब्दो हि व्युत्पत्तिवशान्मुख्यमेवार्थं प्रथमं बुद्धावारोहयति ।
नच प्रतिपत्ता तं सहसोत्स्रष्टुमुत्सहत इति तदर्थमेवानुपपत्तिमपेक्षते ।
अतो न वृत्तिकारणचिन्तायामियं वाच्या ।
प्रयोजनमपि न वृत्तिहेतुः ।
किन्तु सति मुख्ये ऽस्मदायत्ते शब्दप्रयोगे(ऽ)कस्मादमुख्यं प्रयुञ्ज्मह इति वक्त्रा प्रतिपत्त्रा चानुसन्धीयते ।
अतो ऽत्र न वक्तव्यमिति ।
अत्रायोगग्रहणं प्रयोजनस्याप्युपलक्षणम् ।
(यथा)अयोगः सार्वत्रिको न तथा प्रयोजनं रूढायां गौण्यां लक्षणायां चाभिधातुल्यत्वेनानपेक्षितत्वादिति विशेषसूचनाय न स्वशब्देनोपात्तम् ।
निर्दलत्वात् ।
मुख्यायोगे ऽमुख्यग्रह इति वक्तव्ये पूर्वयोगे परग्रह इति वचनं लक्षितलक्षणाद्यनुगमार्थम् ।
नहि लक्षितलक्षणा मुख्यासम्भवमात्रेणाश्रीयते ।
किन्तु लक्षितस्य अपि ।
अत एवैतदयुक्तं मुख्यार्थबाध इति ।
४,२११
किञ्च यथा मुख्यवृत्तिष्वपि स्वीकारे तारतम्यमस्ति तथामुख्यवृत्तिष्वपि ।
कुत इति चेत् ।
अर्थप्रतीतिसन्निकषर्विप्रकर्षाभ्यामिति ब्रूमः ।
ननु च सादृश्यसम्बन्धयोस्तद्धितमुपत्पाद्य तस्यापि लुपि कृते सर्वं सेत्स्यति ।
किममुख्यवृत्तिस्वीकारेणेत्यतो वेदमुदितम् ।
यदि गोशब्दस्य गवि वाहीके च गङ्गाशब्दस्य गङ्गायां तीरे चोक्तविधयाभिधैव स्यात्तदा गोगङ्गाशब्दोच्चारणे गोगङ्गयोः पूर्वं प्रतीतिस्तदयोगे
चानुसंहिते ऽर्थान्तरे प्रतीतिरिति न स्यात् ।
नहि हरीतक्यादिशब्दोच्चारणे सत्ययं प्रतीतिक्रमो ऽस्ति ।
किन्तु वृक्षे फले च स्वातन्त्र्येण प्रतीते प्रकरणादिवशेनान्य(त्र)तरनियन्त्रणं क्रियते ।
अस्ति चायं पूर्वायोगे परग्रहः ।
तेन जानीमो नोभयत्रोक्तविधाभिधेति ।
४,२१५
नन्वत्रानुपपत्तेरथर्प्रतीतिहेतुत्वे ऽर्थापत्तिरेवास्तु ।
किं शब्दशक्तिसमाश्रयणेन ।
तथाहि ।
किमाप्तप्रणीताच्छब्दादसावर्थः प्रतीयते ।
अन्यथा वा ।
नान्यथा ।
उन्मत्तवाक्यादौ तदभावात् ।
आद्ये त्वर्थापत्तिरेव ।
वक्तुराप्तेः प्रतीतार्थानुपपत्तेश्च विरोधेनार्थान्तरस्य कल्प्यमानत्वात् ।
स्यादेवं यदि वक्तुराप्तत्वं निश्चीयेत ।
तस्य पदस्य तत्र शक्त्यभावे ऽसम्बद्धभाषिणि तस्मिन्नाप्तत्वमेव कथं निश्चीयेतेति ।
तदर्थमवश्यं (शब्द)शक्तिराश्ररणीयेति सर्वमवदातम् ।
एतेनैतदपि परिहृतम् ।
यदभिहितं पूर्वपक्षिणा ।
योगस्य रूढितो दुर्बलत्वेन न परमेश्वरस्य मुख्याथर्त्वमिति ।
महायोगस्याविद्वद्रूढिमात्रात्प्राबल्योपपत्तेः ।
विद्वद्रूढेरप्युक्तत्वेन तत्सहितस्य योगस्य सुतरां तदुपपत्तेरिति ।
४,२१६
यदुक्तम्’उभयं दृश्यते विष्णौ’ इति, यच्च सूचितं विशिष्टयोगस्य रूढितः प्राबल्यमिति तदुपपादयति एतमेवेति
एतमेव तथा सन्तं शतर्चीत्यादिनामभिः ।
आचक्षत इति ह्यत्र सन्तमित्यवधारणा (अनुव्याख्यानम्)१,४.३५
योगस्य रूढेः प्राबल्यं विद्वद्रूढिं च तत्रगाम् ।
बहुशो दर्शयत्यञ्जस्तात्पर्यात् सनिरुक्तिकम् (अनुव्याख्यानम्)१,४.३६
न्यायसुधा-
‘तं यच्छतं वर्षाण्यभ्यार्चत्तस्माच्छतर्चिनस्तस्माच्छतर्चिन इत्याचक्षत एतमेव सन्तं स यदिदं सर्वं मध्यतो दधे यदिदं किञ्च
तस्मान्मध्यमास्तस्मान्मध्यमा इत्याचक्षत एतमेव सन्तम्’ इत्यादिका श्रुतिः ।
सनिरुक्तिकं योगवृत्तिसाहित्येन ।
तत्रगां परमेश्वरविषयाम् ।
शतर्च्यादिशब्दोपलक्षितानां सर्वशब्दानां विद्वद्रूढिं दर्शयति ।
आचक्षत इत्युक्तत्वात् ।
यच्चात्र बहुशो ऽतिबहुवारं दर्शयति तेन ज्ञायते अञ्जस्तात्पर्यादेव नतु प्रासङ्गिकत्वेनेति ।
किञ्चात्र सन्तमिति वचनादेतमेवेत्यवधारणाच्च लौकिकरूढितो भगवद्विषयस्य योगस्य प्राबल्यं दर्शयति श्रुतिः ।
एतमेव परमात्मानं शतर्च्यादिनामार्थं सन्तम् उक्तेन योगेन शतर्च्यादिशब्दवाच्यमाचक्षते विद्वांसः ।
मधुच्छन्दःप्रभृतींस्तु रूढार्थानमुख्यत इत्यस्यार्थस्य पदद्वयसामर्थ्येन प्रतीतेः ।
सन्तमित्यनेन ह्यगङ्गां गङ्गेत्याचक्षते यथा न तथा हरिमिति मुख्यार्थतोच्यते ।
तदुपपादनार्थम् आचक्षत इति निर्वचनं च सम्बद्धयते ।
अवधारणेन त्वन्यस्य तच्छब्दा(मुख्यार्)थत्वं प्रतिषिद्धयते ।
नच सवर्था प्रतिषेधो युक्तः ।
प्रागुक्तप्रयोजनव्याघातात् ।
ततः परमेश्वरसमकक्षतया वाच्यत्वप्रतिषेधो ज्ञायते ।
रूढार्थेभ्यो यौगिकार्थस्याधिक्ये ऽभिहिते तद्विषयस्य विशिष्टयोगस्य लौकिकरूढितः प्राबल्यं सिद्धम् ।
अवधारणेति क्वचित्पाठः ।
अत्र सन्तमिति पदं अवधारणा चेति (पद)द्वयं दर्शयतीति योजना ।
हि यस्मादेवं तस्मादुक्तं युक्तमिति ।
४,२१८
वाक्यान्तरैरपि विष्णोः सर्वशब्दवाच्यतामुपपादयति अः इतीति
अ इति ब्रह्म कथितं तद्वयाख्यानान्मता तथा ।
शब्दानामपि सर्वेषां … (अनुव्याख्यानम्)१,४.३७अच्
न्यायसुधा-
‘अः इति ब्रह्म’ इति श्रुतावकारस्य ब्रह्मवाचकत्वं तावत्कथितम् ।
अन्यथा इतिकरणवैयर्थ्यात् ।
‘अकारो वै सर्वा वाक्’ इति श्रुतौ सर्वेषामपि शब्दानामकारव्याख्यानता च कथिता साक्षादैक्यस्य प्रत्यक्षादिविरुद्धत्वेन
लक्षणाश्रयणस्यावश्यकत्वात् ।
नच व्याख्यानव्याख्येययोर्भिन्नविषयता युक्ता ।
तस्मादेतद्वाक्यद्वयपर्यालोचनया सर्ववागभिधेयत्वं ब्रह्मणः प्रतीयते ।
४,२१८फ़्.
किञ्च’यद्वाच ओमिति यच्च नेति यच्चास्याः क्रूरं यदु चोल्बणिष्णु तद्वियूय कवयो ऽन्वविन्दन्नामायत्ता समतृप्यञ्छृतेधि इत्यस्यां श्रुतौ (ऐ.२३८)
वाचो वाक्समूहस्य मध्ये यत् ओमिति पदमङ्गीकारवाचीति यावत्, यच्च नेति पदं प्रतिषेधार्थं, यच्चास्या वाचो मध्ये क्रूरम् अर्थतः कठिनं (च),
यच्चोल्बणिष्णु शब्दत कठिनम् ।
उपलक्षणमेतत् ।
यावद्वैदिकं पदजातं तत्सर्वं, वियूय विचार्य कवयो विवेकिनः, (नामायत्ता)नामायत्तानि नामप्रकाश्यतया नामाधीनानि
त(त्त)च्छब्दप्रवृत्तिनिमित्तानि, अन्वविन्दन् विदितवन्तः ।
तस्मिंश्च वेदने ऽधिश्रुते परिपक्वे इति अ(तद)नन्तरं समतृप्यन् कृतकृत्या मुक्ता अभूवन्निति, नाममात्रविदः कृतकृत्यता तावत्कथिता ।
तमेवं विद्वानिति परमेश्वरज्ञानादेव मोक्षः श्रूयते ।
तदेतदुभयान्यथानुपपत्त्या सर्वाण्यपि वैदिकानि नामानि परमेश्वरार्थानीति गम्यत इत्याह नामेति
४,२१९
… नामवित्कृतकृत्यता (अनुव्याख्यानम्)१,४.३७द्
न्यायसुधा-
अथान्यच्च सकलवैदिकसंहितानां पूर्वोत्तरवर्णानां च विष्णुनामार्थ(रूप)त्वं तत्प्रतिपादकत्वमब्रवीद्वेदः ।
तेन सर्वे वर्णाः सर्वाश्च संहिता विष्णुमेव प्रतिपादयन्तीति ज्ञायत इत्याह विष्णुनामेति
विष्णुनामार्थरूपत्वं संहितादेरथाब्रवीत् (अनुव्याख्यानम्)१,४.३८अब्
न्यायसुधा-
क्वाब्रवीदित्यतस्तद्वाक्यमर्थतः पठति णकारं चेति
णकारं च षकारं च बलचेष्टात्मकं वदन् (अनुव्याख्यानम्)१,४.३८च्द्
तज्ज्ञानपूर्वकत्वेन संहिताध्ययनं तथा (अनुव्याख्यानम्)१,४.३९अब्
न्यायसुधा-
‘णकारो बलं षकारः प्राण आत्मा’ इति विष्णुनामगतौ णकारषकारौ परमेश्वरबलचेष्याप्रतिपादकौ वदन् वेदो ऽनन्तरं’स यो ह एतौ
णकारषकारावनुसंहितमृचो वेदेत्यृचामनुसंहितं सर्वसंहितासु णकारषकारौ यो वेद णकारषकारतत्संहिताभिः प्रतिपाद्यो यो ऽर्थः स एव सर्वत्र
पूर्वोत्तरवर्णतत्सहिताभिः प्रतिपाद्यत इति यो वे(त्ति)द, इति विष्णुनामसमानार्थताज्ञानपूर्वकत्वेन सर्वसंहिताध्ययनमब्रवीदित्यर्थः ।
नन्वत्र णकारषकारार्थप्रतिपादकत्वं सर्ववर्णादेरुच्यते ।
नतु विष्णुनामार्थत्वम् ।
नहि णकारषकारावेव विष्णुनामेत्यत आह उपसर्गत्वत इति
उपसर्गत्वतो वेस्तु ताच्छील्यार्थादुनस्तथा (अनुव्याख्यानम्)१,४.३९च्द्
णकारश्च षकारश्च नामरूपतया मतौ (अनुव्याख्यानम्)१,४.४०अब्
४,२२०
न्यायसुधा-
सत्यं सन्ति विष्णुनाम्नयन्ये ऽपि वर्णाः ।
तथापि वीत्यस्योपसर्गत्वेनोत्तरपदार्थविशेषकत्वात् उन्प्रत्ययस्य ताच्छील्यार्थत्वादुपसर्जनत्वं मन्वानस्य वेदस्य प्राधान्यात् णकारश्च षकारश्च
द्वावेव नामस्वरूपतयाभिमतावित्यदोषः ।
ननूपसर्गाः क्रियायोगे ।
नचात्र क्रिया योगो ऽस्ति ।
तत्कथमुपसर्गत्वम् ।
मैवम् ।
षोन्तकर्मणि, णुस्तुताविति धातुद्वयरूपत्वाङ्गीकारात् ।
अत एव ताच्छीलिकप्रत्ययोत्पत्त्युपपत्तिः ।
उदाहृतानां श्रुतीनां प्रयोजनमाह तस्मादिति
तस्मात् समन्वयो विष्णौ स्वरवर्णपदात्मनः (अनुव्याख्यानम्)१,४.४०च्द्
अपि वेदस्य किमुत वाक्यरूपेण सङ्गतिः (अनुव्याख्यानम्)१,४.४१अब्
न्यायसुधा-
यौ पुरा सर्वशब्दानां प्रतिपदसमन्वयो वाक्यसमन्वयश्च विष्णावुक्तौ तावताभिः श्रुतिभिः सिद्धावित्यर्थः ।
४,२२१
उपपत्त्यपेक्षाः श्रुतयः प्रागुदाहृताः ।
इदानीं स्पष्टं पदवाक्यसमन्वयप्रतिपादिनीरुदाहरति घोषा इति
घोषाः सर्वे ऽपि वेदाश्च सर्वे वेदाश्च यत् पदम् (अनुव्याख्यानम्)१,४.४१च्द्
इन्द्रं मित्रं यमिन्द्रं च प्रथमः सङ्कृतिस्तथा ।
नामधाः सर्वदेवानामेक इत्यादिका श्रुतिः (अनुव्याख्यानम्)१,४.४२
प्रमाणमुक्तविषये … (अनुव्याख्यानम्)१,४.४३अ
न्यायसुधा-
‘ता वा एताः सर्वा ऋचः सर्वे वेदाः सर्वे घोषा एकैव व्याहृतिः प्राणा एवऽ,’सर्वे वेदा यत्पदमामनन्तिऽ,’इन्द्रं मित्रं
वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुःऽ,’यमिन्द्रमाहुर्वरुणं यमाहुर्यं मित्रमाहुर्यमु सत्यमाहुःऽ,’स प्रथमसं(स्कृ)कृतिर्विश्वकर्मा स
प्रथमो मित्रो वरुणोगिनः’ ।
‘यो देवानां नामधा एक एव’ इत्येतानिवाक्यान्येतैः प्रतीकैरुपात्तानि ।
आदिपदेन’नामानि सर्वाणि’ इत्यादेर्ग्रहणम् ।
अत्राद्यद्वितीयान्तिमश्रुतयः समन्वयद्वये प्रमाणम् ।
अन्यास्तु वाक्यान्वये ।
इन्द्रादिनाम्नां परमेश्वरपरत्वे सति’इन्द्रस्य नु वीर्याणि प्रवोचम्’ इत्यादिवाक्यानां तत्परत्वं हि सिद्धयति ।
४,२२२
… तदेवोक्तमुपक्रमात् ।
इति स्वयं भगवता ब्रुवताशेषमन्वयम् (अनुव्याख्यानम्)१,४.४३ब्द्
न्यायसुधा-
नन्वेतदर्थप्रतिपादकसूत्रस्यादर्शनादुत्सूत्रितो ऽयमर्थः कस्मादुक्त इत्यत आह तदेवेति
तदेतद्भगवता सूत्रकारेण स्वयमुक्तमेव नोत्सूत्रितं कथ्यते ।
तथाच सूत्रम् ।
‘ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके’ इति ।
अत्र ज्योतिरिति सूत्रप्रतीके ग्राह्ये यदुपक्रमादित्याह, तेन’ज्योतिरुपक्रमात्’ इति परेषामपपाठ एवेति सूचयति ।
अथवात्र ज्योतिर्मात्रग्रहणात्कथं सर्वशब्दप्रतिपादनम् ।
ज्योतिःशब्दस्योपलक्षणत्वादिति वदामः ।
कथमुपलक्षणाभिप्रायो ऽवगम्यत इत्यत उक्तम् उपक्रमादिति ब्रुवतेति
४,२२३
अत्र हि’ज्योतिः इति प्रतिज्ञाय उपक्रमात्तु तथा ह्यधीयत एके’ इति हेतुरुच्यते ।
तस्य चायमर्थः ।
‘एष इमं लोकमभ्यार्चत् इत्युपक्रमात् उपक्रमं विधाय ता वा ता इत्याद्यधीयत एक इति ।
तथाच यदि ज्योतिःशब्दमात्रसमन्वयो ऽत्र विवक्षितः स्यात्तदा तन्मात्रोपपादकं किमपि वक्तव्यम् ।
सर्वशब्दवाच्यतोपपादकस्योपादानं क्वोपयुज्यते ।
नहि विशेषविषयं प्रमाणं नास्ति, येन सामान्यद्वारा साधनं विधेयम् ।
अतः सर्वविषयं प्रमाणमुपाददानेन सूत्रकृता ज्योतिःशब्दो लाक्षणिको विवक्षित इति ज्ञायते ।
किञ्च तत्तु समन्वयादिति ब्रह्मणि सर्वशब्दसमन्वयः प्रतिज्ञातो न कतिपयशब्दसमन्वय इत्युपपादितम् ।
तद्विवरणार्थमध्यायशेषस्य प्रवृत्तिरिति चोक्तम् ।
तत्रानन्दमयाद्यधिकरणैः प्राकरणिकशब्दसमन्वयः प्रतिपादितः ।
अस्मिंश्रच पादे विरोध्यादिशब्दसमन्वयः ।
तथाच कर्मक्रमाद्यभिधायिनः शब्दाः, इदं च अधिकरणमवशिष्यमिति परिशेषात्तत्समन्वयार्थमेतदिति ज्ञायत इत्याशयवानाह ब्रुवतेति
अस्त्वत्र सर्वशब्दसमन्वयप्रतिज्ञानम् ।
तथापि यो ऽत्र तदुप(त्प्रति)पादनार्थं जातमोतमित्यादिनान्वयो(न्यायो)भिहितः स न सूत्रित इत्यतो वोक्तम् उपक्रमादिति
‘एष इमं लोकमभ्यार्चत्’ इत्युपक्रमवाक्यमुपादाय तथा ह्यधीयत एक इति वदता सूत्रकारेण तदेवोक्तं यदस्माभिरुक्तम् ।
उपक्रमे सर्वस्यास्य दर्शनात् ।
यथा चैतत्तथा एतमेव इत्यादिनोक्तमिति ।
४,२२४
एवं सङ्क्षेपविस्तराभ्यां आनुमानिकमित्यादिसूत्राणि व्याख्याय परेषां व्याख्यानं प्रत्याख्याति ।
तथाहि ।
केचिदेतत्पादप्रमेयमन्यथा वर्णयन्ति ।
यदुक्तं प्रधानस्याशाब्दत्वमीक्षतेर्नाशब्दमिति ।
तदसिद्धम् कासुचिच्छाखासु प्रधानसमर्पणपराणां शब्दानां श्रूयमाणत्वादिति ।
तदेतद्याबन्न निराक्रियते न तावद्ब्रह्मकारणवाद(स्य)स्थैर्यं भवति ।
अतः प्रधानस्याशाब्दत्वं प्रतिपादयितुमयं पाद आरभ्यत इति ।
तत्तावन्निराचष्टे न शब्दवाच्यतैवेति
न शब्दवाच्यतैवात्र प्रधनस्य निषिद्धयते (अनुव्याख्यानम्)१,४.४४अब्
न्यायसुधा-
अत्रैव प्रथमे ऽध्याये प्रधानस्य शब्दवाच्यता निषिद्धयत इति नोपपद्यते ।
तथा सति समन्वयलक्षणे ऽन्तर्भावाभावेन पादस्यासङ्गतत्वप्रसङ्ग इति भावः ।
ननूक्तमत्र समन्वयस्थेम्ने प्रधानस्याशाब्दत्वमत्रोपपाद्यत इति, तथाच कथमसङ्गतिरिति ।
मैवम् ।
तथा सत्यविरोधलक्षणे ऽन्तर्भावप्रसङ्गात् ।
अन्यथा द्वितीया(ध्यायार्)थो ऽपि समन्वयस्थैर्यायैवेति सो ऽप्यत्र वक्तव्यः स्यात् ।
केवलं शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते इति न युज्यते ।
विशेषाभावात् ।
४,२२६
किञ्चात्रपादे जगत्कारणादि(वाचि)शब्दवाच्यत्वं प्रधानस्य निषिध्यते शब्दवाच्यतैव वा ।
नाद्यः ।
अत्रोदाहृतवाक्येषु’महतः परमव्यक्तम्ऽ,’यस्मिन्पञ्चपञ्चजनाः’ इत्यादिषु प्रधानस्य जगत्कारणत्वाश्रवणात् ।
कश्चिदाह ।
‘महतः परमव्यक्तम् इति परशब्देन कालविप्रकृष्टत्वमुच्यते, ततः कारणत्वशङ्केति ।
तदयुक्तम् ।
किं कालविप्रकर्ष एव कारणत्वमुत तेनानुमेयम् ।
अथ सम्भाव्यम् ।
न प्रथमद्वितीयौ ।
कार्यकारणभावविकलयोरपि परापरभावदर्शनात् ।
न तृतीयः ।
सम्भावनामात्रस्येयन्तं सूत्रसन्दर्भं प्रति प्रयोजकत्वायोगात् ।
अजामेकामित्यादौ कारणत्वं प्रतीयत इति चेत् ।
तत्किं ब्रह्मपरं करिष्यते ।
तेजो ऽबन्नविषयं हि तद्वयाख्यातं भवता ।
तथाच लौकिकमाभाणकं नातिवर्तते’व्याघ्रेणोरणे नीते का हानिः वृके(णोरणे)नीते को लाभः’ इति ।
द्वितीये त्विदमुपतिष्ठते ।
न शब्दवाच्यतैवात्र प्रधानस्य निषिध्यते, प्रकृतानुपयोगादिति ।
शाब्दत्वे हि प्रधानस्य स्वरूपमात्र सिद्धयति नच स्वरूपसिद्धिमात्रेण काचिल्लक्षणक्षतिः ।
न ह्यस्माभिरिव परेण सर्वशब्दसमन्वयः प्रतिज्ञातः ।
नापि प्रधानं निषिध्य ब्रह्म तत्र निवेशितम् ।
येनास्मदीयदिशाप्युपयोगः स्यात् ।
तदिदमुक्तम् ।
ब्रह्मनिवेशं(शनं) विना प्रधानस्य शब्दवाच्यतैवात्र निषिध्यत इति न युक्तमिति ।
४,२२९
किञ्च प्रधानस्य शब्दवाच्यता ईक्षत्यधिकरणानन्तरमेव निषेध्या ।
त्रिपादीं अतिक्रम्य अत्र निषिध्यत इति (न युज्यते) व्यवधान(ने) कारणानिरूपणादिति ।
किञ्च पादप्रतिपाद्यो ऽर्थस्तथाविधो भवति, यस्तत्पादस्थसकलसूत्रप्रतिपाद्यः ।
नच अत्र पादे सर्वेषु (अपि) सूत्रेषु प्रधानस्य शब्दवाच्यतैव निषिध्यत इति नियमो ऽस्ति, येनायमेतत्पादार्थः स्यात् ।
कारणत्वेनेत्यादौ तदभावात् ।
तत्रापि परम्परया तदेव साध्यमिति चेत् ।
तर्हि पारम्पर्यस्यातीतपादार्थे ऽपि सुवचत्वात् अत्रैव प्रधानस्य शब्दवाच्यता निषिध्यत इति नास्ति ।
स हि पादार्थो यो नान्यत्र प्रतिपाद्यत इति ।
४,२३३
एवं सामान्यतः पादार्थं निराकृत्येदानीं प्रथमाधिकरणव्याख्यां निराकरोति न शब्दवाच्यतैवेति
आनुमानिकमित्यादिसूत्रं यत्परेण व्याख्यातम् ।
आनुमानिकमप्यनुमाननिरूपितं प्रधानमप्येकेषां शाखिनां शब्दवदुपलभ्यते ।
काठके हि पठ्यते ।
‘महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ इति ।
तत्र य एव, यन्नामानो, यत्क्रमका(मा)श्च, महदव्यक्तपुरुषाः स्मृति(प्र)सिद्धास्त एवेह प्रत्यभिज्ञायन्ते ।
तत्राव्यक्तमिति रूढियोगाभ्यां प्रधानमुच्यते ।
एवं तस्य शब्दवत्वादशब्दत्वमनुपपन्नमिति चेत् ।
नैतदेवम् ।
न ह्येतत्काठकवाक्यं प्रधानपरमिति ।
अत्र पृच्छामः ।
किमत्र काठकगताव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यते किंवा कुत्रापि केनापि शब्देन नोच्यत इति ।
आद्यस्योत्तरम् ।
अत्र काठके (वाक्ये) अव्यक्तशब्दवाच्यतैव प्रधानस्य निषिध्यत इति नोपपन्नम् ।
तन्मात्रेणाशब्दत्वासिद्धेः ।
द्वितीये ऽपि किं परममुख्यया वृत्त्या उत शब्दवाच्यतैव निषिध्यते ।
आद्ये तन्मात्रमनुमतमेव ।
सर्वथा शब्दवाच्यतैवात्र प्रधानस्य निषिध्यत इति द्वितीयस्तु नोपपद्यते ।
कुत इत्यत आह सर्वेति
सर्ववेदेतिहासेषु पुराणेषु च सङ्ग्रहात् (अनुव्याख्यानम्)१,४.४४च्द्
न्यायसुधा-
सङ्ग्रहात् प्रधानस्येति शेषः ।
वेदे तावदाथर्वणिकाः पठन्ति’विकारजननीमज्ञामष्टरूपामजां ध्रुवाम् ।
ध्यायते ऽध्यासिता तेन तन्यते प्रेर्यते पुनः’ इत्यादि ।
इतिहासपुराणे तूदाहरिष्यमाणे द्रष्टव्ये ।
ननूक्तमत्र न ह्यत्र स्मृतिप्रसिद्धं कारणं त्रिगुणं प्रधानमुच्यते ।
तेन यद्यदुदाह्रियते तत्तद्विप्रतिपन्नमेव, इत्यतः त्रिगुणत्वादिलक्षणोपेतप्रधानप्रतिपादकं इतिहासवाक्यं पठति सत्त्वमिति
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः ।
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् (अनुव्याख्यानम्)१,४.४५
इत्यादिवाक्यरूपेण … (अनुव्याख्यानम्)१,४.४६अ
न्यायसुधा-
आदिपदेन’भूमिरापो ऽनलो वायुः’ इत्यादेर्ग्रहणम् ।
इत्यादिवाक्यप्रतिपाद्येन त्रिगुणत्वादिना रूपेणोपेतस्य प्रधानस्य सङ्ग्रहादिति सम्बन्धः ।
४,२३४
किञ्च’अव्यक्तात्पुरुषः परः’ इत्यव्यक्तशब्दवाच्यं न चेत्प्रधानं तर्हि तद्वाच्यं वाच्यम् ।
४,२३५
नन्वत्र सूत्रकृतैवोक्तं’शरीररूपकविन्यस्तगृहीतेः’ इति,’आत्मानं रथिनं विद्धि शरीरं रथमेव च’ इति प्राग्यच्छरीरं रथरूपकतया
विन्यस्तं तदत्राव्यक्तशब्देन गृह्यते, प्रकरणात्परिशेषाच्चेति ।
नैव सूत्रकृदाह ।
तथात्वे हि रूपकविन्यस्तशरीरगृहीतेरित्यवक्ष्यत् ।
अस्तु वा कथञ्चिद्विशेषणस्य परनिपातः ।
इदं तु वक्तव्यम् ।
कथमव्यक्तशब्देन शरीरमुच्यत इति ।
न ह्येषा रूढिः ।
नापि योगः सम्भवति ।
शरीरस्य व्यक्तत्वात् ।
ननु परिहृतमेतत्सूत्रकारेण(कृता)’सूक्ष्मं तु तदर्हत्वात्’ इति ।
यद्यपीदं शरीरं व्यक्तम्, तथाप्यस्य यन्मूलमुपादानकारणं तेजो ऽबन्नलक्षणं भूतसूक्ष्मं तत्तावदव्यक्तम् ।
अनादेस्तस्य सूक्ष्मस्याव्यक्तता ऽर्हत्वात् ।
कार्यकारणशब्दाश्च सङ्कीर्यन्ते ।
‘गोभिः श्रीणीत मत्सरम्’ इति यथेति ।
अत्र वक्तव्यम् ।
किमनेनोक्तं भवतीति ।
किं शरीरमेवात्रोच्यते, अव्यक्तशब्दस्तत्रोपचरितः, शरीरमूलापादानस्य तेजो ऽबन्नात्मकस्य भूतसूक्ष्मस्यानादेरव्यक्तत्वादिति, किंवा
भूतसूक्ष्ममेवाव्यक्तश(ब्दवाच्यं)ब्दम्, शरीरशब्दस्तु तत्रोपचरितः, शरीरस्य तत्कार्यत्वादिति ।
पक्षद्वये ऽपि दोषमाह यत्रेति
तेजो ऽबन्नात्मकं वापि यद्युपादानमिष्यते (अनुव्याख्यानम्)१,४.४६च्द्
अनाद्येवापराधः कः प्रधानमिति चोदिते (अनुव्याख्यानम्)१,४.४७अब्
न्यायसुधा-
यत्र वाक्ये, यदि अव्यक्तशब्दस्यान्यार्थो नेष्यते, परब्रह्मलक्षणः, अपि तु तेजो ऽबन्नात्मकं शरीरमूलोपादानमनादि भूतसूक्ष्ममेवेष्यते ।
प्रथमे स्वरूपेण(एव) ।
द्वितीये ऽव्यक्तशब्दवाच्यतया तत्र तर्हि तत्प्रधानमिति चोदिते को दोषो ऽस्ति ।
येन नेति प्रतिषिद्धयते ।
अयमभिसन्धिः ।
सर्वथा तावन्नाव्यक्तपदं ब्रह्मपरं त्वयोच्यते, किन्तु भूतसूक्ष्मकार्यशरीरस्य भूतसूक्ष्मस्य वा वाचकमिति ।
परेण तु प्रधानवाचकमिति ।
यदि वाव्यक्तस्य कारणत्वमभिप्रेतं तदा पक्षद्वयमपि ब्रह्मवादस्य प्रतिपक्षभूतमिति ।
शरीराङ्गीकारेण प्रधाननिरसो व्यर्थः ।
कारणत्वाविवक्षायां तु पक्षद्वयस्याप्यविरुद्धत्वात्किमनेनान्यतरपरिग्रहेणान्यतरनिराकरणाग्रहेण विफलत्वादसङ्गतत्वाच्चेति ।
अथवानादेरुपादानस्य जडस्य भूतसूक्ष्मा(शब्दा)भिधेयस्याङ्गीकारे प्रधानं नेति रिक्तं वचः, तल्लक्षणत्वात्प्रधानस्य ।
नाम्नि विवादायोगादिति अभिप्रायः ।
४,२४१
नन्विदमाशङ्कय सूत्रकारेणैव परिहृतम्, तदधीनत्वादर्थवदिति ।
स्यादेतदेवम् ।
यदि वयं स्वतन्त्रं तेजो ऽबन्नात्मकं कारणम्(इति) अभ्युपगच्छामः ।
नैतदस्ति ।
तस्य ब्रह्माधीनताङ्गीकारात् ।
अवश्यं चैतद(देवम)ङ्गीकर्तव्यम् ।
अर्थवद्धि तत् ।
न हि तेन विना ब्रह्मणो जगत्कारणत्वं निर्वहतीति ।
अत्रोच्यते ।
किमनेनोक्तं भवति ।
अस्ति प्रधानमिति सम्प्रतिपन्नम् ।
तद्धर्मेषु तु स्वातन्त्र्यादिषु विप्रतिपत्तिरिति ।
एवं चेत्प्रधानस्य स्वातन्त्र्यादिकं साङ्खयेन चोदनीयम् ।
त्वया तु पारतन्त्र्यादिकं व्युत्पादनीयम् ।
किमनेनाव्यक्तादिशब्दानां प्रधानपरतानिरासप्रयासेन ।
न ह्यत्र प्रधानस्य स्वातन्त्र्यादिकमवभासते ।
प्रत्युताव्यक्तात्पुरुषः पर इत्यव्यक्तस्य पुरुषाधीनत्वं प्रतीयते ।
तदिदमप्युक्तं’प्रधानमत्रोच्यत इत्येवोक्ते ऽपराधः कः ।
किन्तु स्वतन्त्रमित्युदिते ।
न चैवमत्रोच्यते’ इति ।
४,२४२
चमसवदविशेषादित्यादिकमधिकरणमपि प्रधानस्याशाब्दत्वप्रतिपाद(क)नार्थमिति व्याचक्षते ।
तथाहि ।
‘अजामेकां लोहितशुक्लकृष्णां (बह्वीं प्रजां जनयन्तीसरूपाम्) ।
बह्वीः प्रजाः सृजमानां सरूपाः ।
अजो ह्येको जुषमाणो ऽनुशेते जहात्येनां भुक्तभोगामजो ऽन्यः’ इत्यस्मिन्मन्त्रे प्रधानस्य प्रतिपादनात्कथं तदशब्दमिति ।
अत्रोच्यते ।
यथा हि’अर्वाग्बिलश्चमसः’ इत्यस्मिन्मन्त्रे स्वातन्त्र्येण’अयं नामासौ चमसः’ इति न शक्यते निरूपयितुम्, विशेषाभावात् ।
ऊर्ध्वबुध्नत्वादेर्यथाकथञ्चित्सर्वत्र योजयितुं शक्यत्वात् ।
तथा’अजामेकाम्’ इत्यत्रापि प्रधानप्रतिपादनं न शक्यावधारणम्, विशेषाभावादिति ।
तदिदमनुपपन्नम् ।
‘गौरनाद्यन्तवती सा जनित्री भूतभाविनी ।
सितासिता च रक्ता च सर्वकामदुघा विभोः’
इत्यदिश्रुतिसमाख्यया निर्णयोपपत्तेः ।
किञ्च न तावदत्र अजाशब्देन रूढार्थत्वाच्छागी स्वीकर्तुमुचिता, विद्याप्रकरणत्वात् ।
नापि परं ब्रह्म, लोहितादित्वासम्भवात् ।
भोग्यत्वानुपपत्तेश्च ।
अत एव न जीवो ऽपि, भोक्तृतया पृथगभिधानात् ।
नाप्यन्यत्किञ्चिदचेतनम्, अजननानुपपत्तेः ।
अतः प्रकृरिवाजा, जन्माभावात् ।
लोहितशुक्लकृष्णा च रजःसत्त्वतमोरूपत्वात् ।
प्रसिद्धं च रज आदीनां लोहितादित्वमागमेषु ।
तदनुषक्तश्च जीवःसंसरति ।
असंसक्तस्तु मुच्यत इत्येतदपि सुप्रसिद्धम् ।
न चेदेवम्, मन्त्रस्य निर्विषयत्वापत्तिरिति ।
४,२४५
ननु न मन्त्रस्य निर्विषयत्वमापद्यते ।
यतःसूत्रकृदेवाह ज्योतिरुपक्रमेति ।
अत्र मन्त्रे प्रतिपादिताजा ज्योतिरुपक्रमा तेजो ऽबन्नरूपा ।
कुतः ।
‘यदग्नेर्(लो)रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदन्नस्य’ इति लोहितादिरूपवत्तया तेजो ऽबन्नान्यधीयते ह्येके ।
तत्समाख्ययात्र(त्रापि) तेजो ऽबन्नात्मैवाजा प्रतिपत्तव्या ।
तस्याश्चतुर्विधभूतग्रामोपादानभूताया बहुप्रजाजननीत्वं जडत्वेन भोग्यत्वं च उपपन्नमिति ।
अत्र दूषणमाह अजामिति
अजामेकामिति प्राह श्रुतिरेतां यदा तदा ।
को दोषः … (अनुव्याख्यानम्)१,४.४७च्ए
न्यायसुधा-
यद्यत्र मन्त्रे परिणामि जडं तेजोबन्नलक्षणं प्रतिपाद्यमङ्गीक्रियते ।
तर्ह्यजामेकामिति श्रुतिरेतां प्रकृतिं प्राहेति पक्षो यदा तदा को दोषो ऽस्ति ।
न को ऽपीति ।
४,२४६
ननु कथं नास्ति ।
ईक्षतेर्नाशब्दमित्युक्ताशब्दतासिद्धेर्विद्यमानत्वादिति चेत् (न) तस्यास्माभिरन्यथाव्याख्यातत्वादित्याशयेनोक्तम् सर्वथेति
… सर्वथैवास्ति परिणामि जडं यदि (अनुव्याख्यानम्)१,४.४७एफ़्
न्यायसुधा-
अपरिहार्य इत्यर्थः ।
इदमत्राकूतम् ।
जगत्कारणत्वेन खल्वत्राजा प्रतीयते ।
सा ब्रह्मवादिना ब्रह्मतया समर्थनीया ।
तेजो ऽबन्नात्म(क)तया तु समर्थने प्रधानरूपापि कुतो नाङ्गीकरणीया ।
लक्षणातिव्याप्तेस्तुल्यत्वादिति ।
तेजो ऽबन्नान्यपि परमेश्वराधीनानि ।
अतो तत्रातिव्याप्तिरिति न चेत् ।
एवं तर्हि किं मन्त्रस्य प्रकृतिपरत्वनिराकरणेन ।
किन्तु प्रकृतिपरत्वमङ्गीकृत्यैव’यो योनिमधितिष्ठत्येकः’ इत्यादिवाक्यबलेनेश्वराधीनत्वमेवोपपादनीयम् ।
४,२४७
किञ्च तेजो ऽबन्नादिषु न तावदजाशब्दो रूढः ।
नापि यौगिकः ।
तत्तेजो ऽसृजतेत्यादिश्रुतेरजननासम्भवात् ।
नच स्त्रीलिङ्गत्वमुपपद्यते ।
नाप्येकवचनम् ।
त्रिवृत्करणादिति चेन्न ।
अथ मन्येत तेजो ऽबन्नापादानं जडमनादिद्रव्यं किमप्येकमस्ति ।
तत्कार्यत्वादुपचारादजादिशब्दोपपत्तिरिति ।
तर्हि तदेवात्र प्रतिपाद्यमस्तु, शब्दानां मुख्यवृत्तिलाभात् ।
अस्त्विति चेत्तर्हि प्रकृतिरत्र प्रतिपाद्येति वदता पूर्वपक्षिणा किमपराद्धम् ।
तल्लक्षणत्वात्प्रकृतेः ।
नाममात्रे विवादायोगाच्च, तदिदमुक्तमजामेकामिति ।
४,२४९
नन्वत्रोत्तरमुक्तं कल्पनोपदेशादिति ।
यथा (हि) मधुविद्यादावादित्यादीनां मध्वादित्वेन कल्पना क्रियते, एवमत्रापि तेजो ऽबन्नानामजादिकल्पनोपदेशादविरोध इति ।
एतदयुक्तम् ।
कल्पनायाः प्रयोजनाभावात् ।
नहीदं पामर(जन)मनोरञ्जनार्थं काव्यम् ।
अत एव दृष्टान्तो ऽपि निरस्तः ।
कश्चिज्ज्योतिरुपक्रमेत्येतदन्यथा व्याचष्टे ।
ज्योतिर्ब्रह्म ।
तदुपक्रमा तत्कारणैवेयमजा न स्वतन्त्रेति ।
तस्य प्रथमसूत्रं व्यर्थम् ।
अनेनैव चरितार्थत्वात् ।
किञ्च तदधीनत्वादि(त्यने)नैव प्रधानस्य ज्योतिरुपक्रमत्वं प्रतिपादितम् ।
प्रतिपादनीयं च साङ्खयपरीक्षायामपि ।
अस्याः श्रुतेः प्रधानपरत्वे(ऽपि) न दोष इत्ययुक्तं’तत्तु समन्वयात्’ इत्यवधारणानुपपत्तेरिति चेत् न, तेजो ऽबन्नपरत्वे ऽपि तदनिस्तारात् ।
४,३५४
अस्तु परस्यैवम् ।
भवतां तु कथं न दोष इत्यत आह अस्माकमिति
अस्माकं परममुख्यार्थो भगवानेक एव तु ।
मुख्यमात्रतया रूढं सर्वमभ्युपगम्यते (अनुव्याख्यानम्)१,४.४८
सर्वेषामपि शब्दानां गौण्याद्यं तदयोगतः (अनुव्याख्यानम्)१,४.४९अब्
न्यायसुधा-
अस्माकं तु मते तत्तु समन्वयादित्यवधारणस्यायमर्थः सर्वेषामपि शब्दानां भगवानेक एव परममुख्यार्थो नान्य इति ।
अतो रूढं, यस्य शब्दस्य यदर्थतया प्रसिद्धं, तदपि सर्वं तन्मुख्यार्थमात्रतयाभ्युपगम्यते ।
मुख्यायोगे गौणाद्यपि ।
एवं चाजादिशब्दाः परममुख्यया वृत्त्या परब्रह्मपरा मुख्यमात्रतया प्रधानस्यापि प्रतिपादका इत्यङ्गीकारे कानुपपत्तिरिति ।
नन्वेवं तर्हि सौत्रमवधारणं किमिति परममुख्यार्थान्तरव्यावृत्त्यर्थं व्याख्यायते ।
वाच्यान्तरमात्रव्यावृत्त्यर्थं कुतो न व्याख्यातव्यम् ।
न चोक्तप्रयोजनानुपपत्तिः ।
अमुख्यया वृत्त्या सङ्केतमात्रेण वा तदुपपत्तेरिति चेन्न ।
सूत्रकारेणैव ग्रन्थान्तरे वैदिकानां शब्दानामुक्तविधानेकार्थत्वस्याभ्युपगतत्वादित्याह अर्थद्वयमिति
तदेव पठति कार्याणामिति
कार्याणां कारणं पूर्वं वचसां वाच्यमुत्तमम् ।
योगानां परमां सिद्धिं परमं ते पदं विदुः (अनुव्याख्यानम्)१,४.५०
इति … (अनुव्याख्यानम्)१,४.५१अ
न्यायसुधा-
वचसां वैदिकानामुत्तमं वाच्यम् ।
तदपेक्षयान्यान्यमुख्यवाच्यानि ।
कुत एतत् ।
योगानां योगवृत्तीनां परमां सिद्धिम् ।
सिद्धयन्त्यस्मिन्निति सिद्धिः ।
इन्द्रादयस्त्वपरमसिद्धयः ।
एतदपि कुतः ।
कार्याणां महदादीनां पूर्वं मुख्यं कारणम् ।
प्रकृत्यादीनि त्वमुख्यकारणानि ।
पदं स्वरूपम् ।
तस्मात्परमं विदुः ।
यद्यपि रूढिरविलम्बेनार्थप्रत्यायकतामात्रेणबलवती ।
तथापि विशेषज्ञानहेतुत्वाद्योग एव बलीयानिति मत्वा स एव गृहीतः ।
तत्र साक्षादर्थद्वयस्यानुक्तत्वे ऽप्युत्तमं वाच्यमिति विशेषणाद्वाच्यान्तरसद्भावो ऽवगम्यते ।
अत एव प्रागभिप्रेत्येत्युक्तम् ।
४,२५६
वैदिकानां शब्दानामुभयार्थत्वे प्रमाणान्तरमाह बुद्धाविति
… बुद्धौ समारोहादुभयोर्योगरूढयोः ।
त्यागे च कारणाभावादुभयार्थत्वमिष्यते (अनुव्याख्यानम्)१,४.५१अद्
न्यायसुधा-
योग इति योगवृत्तिविषयः परमेश्वरः ।
रूढः प्रसिद्धः प्रकृत्यादिः ।
अयमर्थः ।
अस्ति तावद्विदितपदपदार्थसङ्गतेरधिगतशाब्दन्यायस्याजादिशब्दश्रवणे ब्रह्मण इव प्रधानस्यापि बुद्धावारोहः, धियां च (तु) स्वत एव
प्रामाण्यम् ।
अप्रामाण्यं तु बाधकाधीनमित्युपपादितं प्रथमसूत्रे ।
नचात्रार्थद्वययाभ्युपगमे बाधकमस्ति ।
येन बुद्धावारूढमपि त्यज्येत ।
अतो निरपवादप्रतीतिबलात्सर्वेषामपि शब्दानामुभयार्थत्वमेष्यव्यमिति ।
एतदेव विवृणोति विपरीतेति
विपरीतप्रमाभावे पूर्वारोहस्तु कारणम् ।
सा भवेद् यत्र स व्यर्थः पूर्वारोहो भ्रमो यथा (अनुव्याख्यानम्)१,४.५२अद्
न्यायसुधा-
कारणं स्वीकारस्येति शेषः ।
सा विपरीतप्रमा ।
स स्वीकारकारणत्वेनोक्तो ऽपि पूर्वारोहः, व्यर्थः, स्वीकारकारणं न भवति ।
भ्रमो यथेति ।
प्रसिद्धशुक्तिरजतादिविपर्ययो यथेत्यर्थः ।
यद्वा ।
अजादिपदानि द्वयर्थानि बाधकविधुरायां बुद्धौ तथा रूढत्वादिति प्रतिज्ञाहेतू कथितौ ।
अनेनान्वयव्यतिरेकाभ्यां व्याप्तिमाचष्टे ।
तत्र पूर्वार्धे यथा स्तम्भादिप्रत्यय इति दृष्टान्तोक्तिरपि द्रष्टव्या ।
नन्वत्राजायाः कारणत्वमुच्यते ।
तच्च ब्रह्मलक्षणत्वेनोक्तमित्यतो बाधकाद् बुद्धावारूढमपि प्रधानं त्याज्यमिति चेन्न ।
निमित्तमात्रत्वस्य ब्रह्मलक्षणत्वेन जगदुपादानत्वस्य प्रधाने ऽपि सत्त्वादय तदर्थत्वोपपत्तेरित्याशयवानुपसंहरति अत इति
अतो जगदुपादानं प्रधानं वक्ति सा श्रुतिः (अनुव्याख्यानम्)१,४.५२एफ़्
न्यायसुधा-
व्यास(३)
सङ्खयोपसङ्ग्रहात्’ इत्येतदपि प्रधानस्याश(शा)ब्दत्वप्रतिपादनार्थतया वयाचक्षते (शां.भा) ।
तथाहि ।
‘यस्मिन्पञ्चपञ्चजना इति पञ्चसङ्खयाविषयापरा पञ्चसङ्खया श्रूयते ।
पञ्चशब्दद्वयदशर्नात् ।
न एते पञ्चपञ्चकाः पञ्चविंशतिः सम्पद्यते ।
तथाच श्रुतिप्रसिद्धया पञ्चविंशतिसङ्खयया तेषां स्मृतिप्रसिद्धानां पञ्चविंशतितत्त्वानामुपसङ्ग्रहात्प्राप्तं श्रुतिमत्त्वं प्रधानादीनां इत्यत्रोच्यते ।
न सङ्खयोपसङ्ग्रहादपि प्रधानादीनां श्रुतिमत्त्वप्रतयाशा कर्तव्या ।
कस्मात् ।
नानाभावात् ।
नाना ह्येतानि पञ्चविंशतितत्त्वानि नैषां पञ्चशः पञ्चशः साधारणो धर्मो ऽस्ति ।
येन पञ्चविंशतेरन्तराले पञ्च पञ्च सङ्खया निवेशेरन् ।
न ह्येकं निबन्धनमन्तरेण नानाभूतेषु द्वित्वादिकाः सङ्खया निविशन्ते ।
अतिरेकाच्च ।
अतिरेको हि भवत्यात्माकाशाभ्यां पञ्चविंशतिसङ्खयायाः ।
आत्मनो हि पञ्चविंशतावन्तर्भावे यस्मिन्नित्यधिकरणत्वोक्तिविरोधः ।
आकाशस्यापि पृथगुक्तिविरोधः ।
किं पञ्चविंशतितत्त्वप्रक्रिया सर्वथाप्रामाणिकीत्यभिप्रायः ।
उतैतद्वाक्यं तत्परं न भवतीति ।
पक्षद्वयमप्यनुपपन्नमित्याह यत्तदिति
४,२६२
यत्तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् (अनुव्याख्यानम्)१,४.५३
न्यायसुधा-
सदसात्मकं कार्यकारणात्मकम् ।
अविशेषत्वादकार्यत्वात्प्रधानं विशेषवत्त्वात्कार्यत्वात्प्रकृतिं प्राहुः ।
विशेषवदित्यस्य विवरणम् पञ्चभिरिति
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः (अनुव्याख्यानम्)१,४.५४
इति भागवते प्राह विद्याधीशः स्वयं प्रभुः (अनुव्याख्यानम्)१,४.५५अब्
न्यायसुधा-
पञ्चभिः महाभूतैः पञ्चभिस्तन्मात्राभिः चतुर्भिर्महदहङ्कारमनोबुद्धिभिः दशभिरिन्द्रियैश्च ब्रह्म पूरितम् ।
‘एतच्चतुर्विंशतिकं गणं प्रधानकार्यं विदुः इति सूत्रकृतैव ग्रन्थान्तरे पञ्चविंशतितत्त्वानां प्रतिपादितत्वान्न तावदाद्यः कल्पः ।
अनुवादो ऽयमिति चेत् ।
किं प्रमितस्योत कल्पितस्य ।
आद्य तत्प्रमाणैरेव सिद्धिस्तत्त्वानाम् ।
न द्वितीयः वैयर्थ्यात् ।
दूषणार्थमिति चेन्न ।
तदभावात् ।
नहि ग्रन्थान्तरे अनुवादो ग्रन्थान्तरे दूषणमिति सम्भवति ।
न द्वितीयः ।
विरोधाभावात् ।
४,२६९
यदुक्तं नानाभावादिति तदसत् ।
सूत्रकारस्यापि सङ्ग्राहकाभावेन पञ्चभिरित्याद्युक्त्यनुपपत्तिप्रसङ्गात् ।
अथ तत्र भूतत्वादिति सङ्ग्राहकाणि सन्ति इति चेत् तर्हि तान्येव भूतत्वतन्मात्रत्वज्ञानेन्द्रियस्वकर्मेन्द्रियत्वतदितरत्वानि (च)श्रुतावपि
सन्तीति समानम् ।
न चायमस्ति नियमो ऽन्तराले सङ्ग्राहकेण विना न सङ्खयानिवेशो ऽस्तीति ।
‘पञ्च सप्त च वर्षाणि न ववर्ष शतक्रतुःऽ,’व्रतमेतदनुष्ठेयं वर्षाणि नव पञ्च च’ इत्यादौ व्यभिचारात् ।
यदप्यतिरेकाच्चेति ।
तदप्यसत् ।
पातञ्जलैरीश्वरस्याङ्गीकृतत्वात् ।
आकाशश्चेत्याकाशाद्या इति व्याख्यानोपपत्तेः ।
४,२७२
किञ्चेदं वाक्यं पञ्चविंशतितत्त्वसिद्धये साङ्खयेन स्वशास्त्रे गृहीतत्वाद्वा शङ्कितं सम्भावितत्वाद्वा ।
न द्वावपि सम्भवतः ।
पञ्च पञ्चजना इत्यस्य पञ्चविंशत्यप्रत्यायकत्वात् ।
पञ्चजना इतयस्य समासत्वे हि द्वितीयः पञ्चशब्दो न तावत्पञ्चशब्देन सम्बद्धयते ।
विशेषणस्यापेसर्जनेन सम्बन्धायोगात् ।
नापि जनशब्देन ।
पञ्चजनाः कतीत्याकाङ्क्षानुदयेन विशेषणायोगात् ।
असमासत्वे ऽपि न तावत्पञ्चशब्देन सम्बन्धः ।
एकार्थयोर्विशेषणविशेष्यभावानुपपत्तेः ।
नापि जनशब्देन ।
निराकाङ्क्षत्वात् ।
कथञ्चिदाकाङ्क्षायामपि दशत्वस्य प्राप्तेः ।
४,२७९
ननु पञ्चजना इति समाहारद्विगुः ।
तस्य पञ्चेति विशेषणे पञ्चविंशतिः सम्पद्यते ।
यथा पञ्चपञ्च(फ)पूल्यं इत्युक्ते पञ्चविंशतिपूल्योलभ्यन्त इति ।
मैवम् ।
तथा सति पुंलिङ्गानुपपत्तेरित्यलम् ।
कारणत्वेनेत्यादिसूत्राणामपव्याख्यानं स्फुटदूषणमिति न दूषितम् ।
४,२८३
प्रकृतिश्चेत्येतद(त्य)धिकरणं ब्रह्मणो जगदुपादानताप्रतिपादनार्थमिति व्याचक्षते ।
तथाहि ।
जन्माद्यस्य यत इति जगत्कारणं ब्रह्मेत्युक्तम् ।
तत्र संशयः किमुपादानत्वेनोत निमित्तत्वेनेति ।
‘स ईक्षाञ्चक्रे स प्राणमसृजत’ इतीक्षापूर्वककर्तृत्वश्रवणादिना केवलं निमित्तत्वेनैवेति प्राप्ते ऽभिधीयते’प्रकृतिश्च
पतिज्ञादृष्टान्तानुपरोधात्’ ।
न केवलं निमित्तकारणमेव ब्रह्म ।
किन्तु प्रकृतिः उपादानं च ।
कुतः, प्रतिज्ञादृष्टान्तानुपरोधात् ।
एवं हि प्रतिज्ञादृष्टान्तौ नोपरुध्येते ।
‘येनाश्रुतं श्रुतं भवति’ इति ब्रह्मविज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् ।
तच्चोपादानत्व एवोपपद्यते ।
कार्यस्योपादानाव्यतिरेकात् ।
नहि निमित्तकारणाव्यतिरेकः कार्यस्यास्ति ।
तक्ष्णः प्रासादव्यतिरेकदर्शनात् ।
दृष्टान्ताश्च’यथा सोम्यैकेन मृत्पिण्डेन’ इत्यादय उपादानगोचरा आम्नायन्ते ।
‘यतो वा इमानि भूतानि’ इति पञ्चमी चोपादानत्वं गमयतीति ।
जनिकर्तुः प्रकृतिरिति विशेषस्मरणात् ।
‘अभिध्योपदेशाच्चऽ‘सो ऽकामयत बहु स्यां प्रजायेय’ इत्यभिधानपूर्वकबुहभवनोपदेशाच्च निमित्तत्वमुपादानत्वं च गम्यते ।
‘साक्षाच्चोभयाम्नानात्’ ।
इतश्चोपादानं ब्रह्म ।
‘सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ति’ इति साक्षाद्ब्रह्मैव कारणमुपादायोभयोः
प्रभवप्रलययोराम्नानात् ।
यद्धि यस्मात्प्रभवति यस्मिंश्च लीयते तत्तस्योपादानं प्रसिद्धम् ।
यथा व्रीह्यादीनां पृथिवी(ति) ।
प्रत्यस्तमयश्च नोपादानादन्यत्र कार्यस्य दृष्टः ।
‘आत्मकृतेः परिणामात्’ तदात्मानं स्वयमकुरुतेत्यात्मनः कर्मत्वकर्तृत्वश्रवणा(व्यपदेशा)च्चोपादनं ब्रह्म ।
कथं पुनः पूर्वसिद्धस्य क्रियमाणत्वम् ।
परिणामात् ।
पूर्वसिद्धो ऽप्यात्मा विकारात्मना विशेषेणात्मानं परिणामयामासेति ह्युपपन्नम् ।
परिणामादिति वा पृथक् सूत्रम् ।
सच्च त्यच्चाभवदित्यादिना ब्रह्मण एव विकारात्मना परिणामः सामानाधिकरण्येनाम्नायते ।
अतश्चोपादानं ब्रह्म ।
‘योनिश्च हि गीयते ।
ऽ‘यद्भूतयोनिम्’ इति योनिश्च ब्रह्म गीयते ।
योनिशब्दश्चोपादानवचनः समधिगतो लोके ।
अतश्चोपादानं ब्रह्मेति ।
४,२८४
तदेतन्निराकरोति नचेति
नच प्रकृतिशब्देन ब्रह्मोपादानमुच्यते (अनुव्याख्यानम्)१,४.५५च्द्
४,२८८
न्यायसुधा-
कुतो नोच्यत इति चेत् ।
प्रमाणान्तराविरुद्धो हि सूत्रार्थो वर्णनीयः ।
उपादानत्वं च ब्रह्मणः श्रुत्यादिविरुद्धम् ।
परिणामिकारणं ह्युपादानमुच्यते ।
यथा घटरुचकादीनां मृत्सुवर्णादि ।
ब्रह्मणश्च स्वरूपान्तरापत्तिलक्षणो विकारापरपर्यायः परिणामो निषिद्धयते श्रुत्यादाविति कथं सूत्रार्थतया वक्तुं शक्यत इत्याह अविकार इति
४,२८९
अविकारः सदा शुद्धो नित्य आत्मा सदा हरिः ।
सदैकरूपविज्ञानबल आनन्दरूपकः (अनुव्याख्यानम्)१,४.५६
निर्विकारो ऽक्षरः शुद्धो निरातङ्को ऽजरो ऽमरः ।
अविश्वो विश्वकर्ताजो यः परः सो ऽभिधीयते (अनुव्याख्यानम्)१,४.५७
निर्विकारमनौपम्यं सदैकरसमक्षयम् ।
ब्रह्मेति परमात्मेति यं विदुर्वैदिका जनाः (अनुव्याख्यानम्)१,४.५८
इति श्रुतिपुराणोक्तया न विकारी जनार्दनः (अनुव्याख्यानम्)१,४.५९अब्
न्यायसुधा-
सदाशब्दद्वयस्याविकारः शुद्ध इत्याभ्यां सम्बन्धः ।
विकारो द्वेधा भवति ।
धर्मिणो धर्मस्य चेति ।
तत्राविकारःसदेत्याद्यस्य निषेधः ।
सदैकरूपेति द्वितीयस्य ।
एकरूपे निर्विकारे विज्ञानबले यस्यासौ तथोक्तः ।
उपमाविषय औपम्यम् ।
न औपम्यम् अनौपम्यम् ।
एकरसं स्वगतभेदवर्जितम् ।
प्रधानानन्दात्मकं वा ।
न विकारीति गम्यत इति शेषः ।
४,२९०
युक्तिविरुद्धं च ब्रह्मणो विकारित्वमिति वक्तुं विकारप्रकारांस्तावदाह पराधीनेति
पराधीनविशेषाप्तिरनिवर्त्यान्यथाभवः (अनुव्याख्यानम्)१,४.५९च्द्
क्षीरादिवद् विकारः स्यान् … (अनुव्याख्यानम्)१,४.६०अब्
४,२९१
न्यायसुधा-
विकारस्तावद् द्विविधो भवति ।
विशेषाप्तिर्विशेषिपरिवतर्(वृत्ति)श्चेति ।
तत्र विशेषाप्तिर्नाम धर्मिणस्तदवस्थ्ये सति धर्ममात्रपरिवृत्तिः ।
विशेषिपरिवर्तवृत्तिस्तु धर्मिस्वरपूस्यैव परिणामः ।
द्विविधो ऽप्ययं पराधीनो भवति ।
प्रत्येकं च द्वेधा ।
अनिवर्त्यो ऽन्यथाभावो निवर्त्यश्चेति ।
अत्रैकैकप्रकारानुक्तिः स्फुटत्वादिति ज्ञातव्यम् ।
अन्यथा वाक्यस्यासामञ्जस्यं स्यात् ।
क्षीरादिवदिति चतुर्णामुदाहरणम् ।
क्षीरादीनामिव दधित्वाद्यापत्तिरित्यर्थः ।
४,२९२
तत्रानिवर्त्यविशेषाप्तिर्यथा ।
श्यामस्य फलस्य पीतत्वापत्तिः ।
तत्र हि धर्मिणस्तादवस्थ्यं पीतत्वे ऽपि फलव्यवहारानिवृत्तेः ।
केवलं श्यामत्वापगमेन पीतत्वमुत्पन्नं सौरातपादिवशान्न निर्निमित्तम् ।
नच पुनर्निवर्तते ।
निवर्त्यविशेषाप्तिर्यथा ।
कुण्डलाद्याकारस्य सुवर्णस्य कटकादित्वापत्तिः ।
अत्रापि हि धर्मिणस्तादवस्थ्यम् ।
कटक(कादि०त्वापन्ने ऽपि सुवर्णव्यवहारदर्शनात् ।
परं कुण्डलत्वापायेन स्वर्णकाराद्यधीनकटकभावो जातः ।
निवर्त्यश्चासौ ।
पुनः कुण्डलीकर्तुं शक्यत्वात् ।
४,२९३
अनिवर्त्यो विशेषिपरिवर्तो यथा ।
क्षीरस्य दधिभावः ।
अत्र हि न धमिर्णस्तादवस्थ्यम् ।
दधित्वापत्तौ क्षीरव्यवहारानुपलम्भात् ।
किन्तु धर्मिभूतं क्षीरमेव आतञ्चनादिवशाद्दधिभूतम् ।
नच दधिभावनिवृत्त्या क्षीरं भवति ।
निवर्त्यो धर्मिपरिवर्तो यथा ।
शुल्बस्य तारत्वम् ।
अत्रापि न धर्मिणस्तादवस्थ्यज्ञ् ।
तारतायां शुल्बव्यवहारानुपलब्धेः ।
किं नामौषध्य(धा)धीनतया शुल्बमेव तारं संवृत्तम् ।
प्रबलौषधिबलात्तारतानिवृत्त्या शुल्बं च सम्पद्यते ।
नच पञ्चमी विधा दृष्टा, (सम्भाविता) श्रुता वेति ।
४,२९४
किमतो यद्येवम्भूतो विकार इत्यत आह नैवेति
… नैव स स्याद्धरेः क्वचित् (अनुव्याख्यानम्)१,४.६०ब्
न्यायसुधा-
क्वचिदिति निमित्तसप्तमी ।
अयमाशयः ।
सकलो ऽपि खलु विकारः पराधीनो भवतीति निदर्शितम् ।
नचैवमेवासौ क्वापि दृष्टः ।
तथात्वे वा सर्वदा स्यात् ।
नच ब्रह्मणो विकारनिमित्तं किञ्चिदस्ति ।
‘सदेव सोम्य’ इति प्राक् सृष्टेवर्स्त्वन्तरनिषेधात् ।
नच कालादिकमपि परेण प्रलये ऽभ्युपगतम् ।
अभ्युपगमे ऽपि पराधीनताऽपत्तेश्च ।
अस्तु जडेषु पराधीनो विकारः ।
चेतनं ब्रह्म तु स्वेच्छयैव जगादाकारेण विक्रियते ।
‘तदात्मानं स्वयमकुरुत’ इत्यादिश्रुतेरिति चेन्न ।
प्रेक्षावतस्तस्य नानाविधानार्थरूपप्रपञ्चीभवनेच्छाया एवानुपपत्तेः ।
न ह्युन्मत्तो ऽप्यात्मनो ऽनर्थरूपतामिच्छति ।
दूरे प्रेक्षावान् ।
नच प्रपञ्चस्यानर्थरूपतां न जानाति ब्रह्म ।
असर्वज्ञतापातात् ।
नायं प्रपञ्चो ब्रह्मणो ऽनर्थरूप इति चेन्न ।
दुःखादिरूपेण परिणतस्य न दुःखादिरूपता इत्यस्य व्याहतत्वात् ।
नहि विवर्तवादिनामिव कल्पितो ऽयं प्रपञ्चो भवताम् ।
सत्यत्वाभ्युपगमात् ।
दुःखादिमत्त्वमनिष्यम्, नतु तद्रूपतेत्यभिप्राय इति चेन्न, तथा सति सुखरूपस्येष्टत्वमपि न स्यात् ।
ततश्च न मोक्षाय प्रवर्तेत ।
४,२९६
किञ्च ब्रह्मणो ऽनर्थाभावे कस्या(यम)नर्थ इति वक्तव्यम् ।
जीवस्य चेति चेत् ।
स किं ब्रह्मणो भिन्नो ऽभिन्नो वा ।
नाद्यः ।
अपसिद्धान्तात् ।
द्वितीये कथं ब्रह्मणो नानर्थः ।
भिन्नाभिन्न इति चेत्(न) अभेदेनानर्थप्रसङ्गात् ।
निराकरिष्यते चायं पक्षः’अत एव चोपम्’ इति ।
अपिच, चेतनस्यापि विक्रिया दृष्टादृष्टकारणायत्ता दृष्टेति कथं ब्रह्मणः स्वेच्छामात्रेण स्यात् ।
सर्वशक्तित्वादिति चेत्(न) अनर्थीभवतः सर्वशक्तित्वानुपपत्तेः ।
न तर्कावसेयं ब्रह्म येन दृष्टान्तानुगुण्यवैगुण्यचिन्तात्रोपयुज्यते ।
किं नाम श्रुतिमात्रसिद्धम् ।
श्रुतिश्चान्यानपेक्षमेव प्रपञ्चा(त)पत्तिमाचष्ट इति चेन्न ।
तथा सति विचारशास्नानवतारप्रसङ्गात् ।
युक्तश्चायं तर्कागोचरत्ववादो यत्र श्रुतीनामविगानं स्यात् ।
न चैवमत्रेत्युक्तम् ।
अतो न सामान्यतो विकारित्वं ब्रह्मणो युज्यते ।
नापि विशेषतः ।
४,२९८
तथाहि ।
न तावदप्रच्युतस्वरूपस्यैव ब्रह्मणो ऽयमाकारपरिणामः प्रपञ्च इति युक्तम् ।
अस्थूलत्वादिश्रुतिविरोधात् ।
स्वरूपापेक्षया तदुपपत्तिरिति चेत् (न) स्वरूप एव स्थूलत्वादिजननात् ।
नहि कुण्डलत्वानपगमेन कटकत्वं सुवर्णस्य भवति ।
स्वभावापेक्षयास्त्विति चेन्न ।
कालभेदेन स्थूलत्वादिभावाभाववतः’अयं स्वभावः, अयं (न) त्वस्वभावः’ इति विवेकायोगात् ।
नहि ब्रह्मणः कारणान्तरात्प्रपचतापत्तिं मन्यसे येन सा न स्वभावः स्यात् ।
प्रपञ्चकारतायाश्चानिवर्त्यत्वे प्रलयश्रुतिव्याकोपः स्यात् ।
निष्प्रपञ्चब्रह्मभावापत्तिलक्षणमोक्षाभावप्रसङ्गश्च ।
एकदेशपरिणामस्तु निराकरिष्यते ।
नापि स्वरूपप्रच्युत्या प्रपञ्चरूपताऽपत्तिः स्थितिसमये ब्रह्माभावप्रसङ्गेन ब्रह्मज्ञानस्य निरालम्बनत्वापातात् ।
तस्याश्चानिवर्त्यत्वे न कदापि ब्रह्मणो ऽस्तित्वमित्येषा दिक् ।
४,३०२
अत्र कश्चित् अन्धानुगतान्ध इव प्रकृतिश्चेत्यादीनि सूत्राणि ब्रह्मणो जगदुपादानताप्रतिपादकतया व्याख्यायोक्तदूषणगणाद्भीतः
सूत्रतात्पर्यमाह’परमसूक्ष्माचिद्रूपप्रधानशरीरं ब्रह्म’यो ऽव्यक्ते तिष्ठन्यस्याव्यक्तं शरीरम्’ इत्यादिश्रुतिसिद्धम् ।
तथाच ब्रह्माधिष्ठितं ब्रह्मात्मकं प्रधानं जगदुपादानमिति ब्रह्मैव जगदुपादानतया(ऽङ्गीक्रि)गीयते ।
अतो नोक्तदोषःऽ’ इति ।
तं प्रत्याह उपादानत्वमेवेति
अपादानत्वमेवास्य यद्युपादानतेष्यते (अनुव्याख्यानम्)१,४.६०च्द्
अङ्गीकृतं तत् पितृवन् … (अनुव्याख्यानम्)१,४.६१अ
न्यायसुधा-
एवं हि वदता पितुरिव पुत्रजन्मनि जगदुत्पत्तौ ब्रह्मणो ऽपायावधित्वलक्षणमपादानत्वमिष्यं स्यात् ।
सर्वथा निर्विकारस्य ब्रह्मणो विकारिप्रधानशरीरकस्य तदधिष्ठातृत्वेनापादानतयोदितत्वात् ।
एवम्भूतं चोपादानत्वम् (ब्रह्मणः) अस्माभिरप्यङ्गीकृतमेवेति नात्रास्माकं प्रद्वेषः ।
४,३०३
ननूपादानत्वं चेद्ब्रह्मणो ऽङ्गीकृतं कथं तर्हि तन्निराकरणमित्यत आह न त्विति
… नतु विश्वात्मना भवः (अनुव्याख्यानम्)१,४.६१ब्
न्यायसुधा-
शुद्धचैतन्यस्यैव ब्रह्मणो विश्वात्मना भवो भास्कराद्यभ्युपगतो नास्माभिर(ङ्गीक्रिय)भ्युपगम्यते ।
अतस्तन्निराकरणमुपपन्नमि(मेवे)ति ।
अत्रायमभिसन्धिः ।
यद्यपि परव्युत्पादितं जगदुपादानत्वं ब्रह्मणो नास्माकमर्थतो विरोधि ।
तथापि नैतेषां सूत्राणामर्थः ।
तथाहि ।
किमत्रास्य व्युत्पादनस्य प्रयोजनम् ।
न तावद्भास्करस्येव निमित्तोपादानभेदनिराकरणम् ।
प्रधानस्योपादानतयाङ्गीकृतत्वात् ।
विकारिवस्त्वधिष्ठातृत्वमेव मुख्यमुपादानत्वमिति चेन्न ।
लोकविरोधात् ।
लोकव्यवहारानुसारेण हि परीक्षकैर्लक्षणं कार्यम् ।
नतु स्वाभिप्रायानुसारेण लोकव्यवहारो नियन्तव्यः ।
लोके च विक्रियावदुपादान(मु)मित्युच्यते ।
अथ पातञ्जलाः प्रधानस्यैव स्वातन्त्र्येण जगदुपादानत्वम् ईश्वरस्य तु तदनुग्राहकत्वमेवेति मन्यन्ते ।
तन्निरासार्थं ब्रह्मशरीरतया ब्रह्मात्मकमेव प्रधानम् ।
तदीयमुपादानत्वमपि ब्रह्मण एवेत्यत्र व्युत्पाद्यत इति ब्रूषे ।
तदानवसरदुःस्थत्वम्, अस्य समयपादे कर्तव्यत्वात् ।
करिष्यते च’अन्यत्राभावात्’ इति ।
तस्मान्नेदं सूत्रतात्पर्यमिति ।
४,३०४
पितृत्वादित्युक्तं दृष्टान्तममृष्टमाणो ब्रह्मपरिणामवादी वदति’पिता पुत्रस्योपादानमेवातो नायं दृष्टान्तो युक्तः’ इति, तत्राह न चेति
न चोर्णनाभिजनितृमातृणां च विकारिता (अनुव्याख्यानम्)१,४.६१च्द्
न्यायसुधा-
आद्यश्चशब्दो ऽवधारणे ।
द्वितीयः परोक्तानुवाद(कः) ।
जनितृशब्दं प्रयुञ्जानः स्वग्रन्थस्य मन्त्रतुल्यतां (दर्श)सूचयति भगवानाचार्यः ।
जनिता मन्त्र इति स्मरणात् ।
अत्र प्रकृतत्वात्पितृमात्रग्रहणे प्राप्ते यदूर्णनाभिमातृग्रहणं तेनैतदपि निराकृतं भवति ।
यद्ब्रह्मपरिणा(मि)मवादिनोक्तं,’ब्रह्मणो जगत्कारणत्वे’यथोर्णनाभिः सृजते(गृह्णते च)ऽ‘पिताहमस्य जगतो मता’
इत्यूर्णनाभ्यादिदृष्टान्तोपादानादुपादानत्वमेव विवक्षितम् ।
ऊर्णनाभ्यादीनां तन्त्वादिकं प्रत्युपादानत्वात्’ इति ।
यच्च’योनिश्च हि गीयते’ इत्यत्रोक्तम् ।
‘यद्यपि योनिशब्दो’योनिष्ठ इन्द्र निषदे अकारि’ इत्यादौ स्थानाद्यर्थः प्रतीयते ।
तथापि यथोर्णनाभिरिति वक्ष्यमाणदृष्टान्तबलादुपादानवाचीति निश्चीयत इति’ ( । ) उदाहरिष्यमाणं ब्रह्मतर्कवचनमपि व्याख्यातं
भवति ।
४,३०६
कुतो नेति चेत् ।
अत्र पित्रादीनां पुत्रादीनां च चेतनाचेतनसमाहाररूपत्वाच्चत्वारः पक्षाः सम्भवन्ति ।
पित्रादिचेतनं प्रति वोपादानं, पुत्राद्यचेतनं प्रति वा, पित्राद्यचेतनः पुत्रादिचेतनं प्रति वा, पुत्राद्यचेतनं प्रति वेति ।
तत्राद्यं पक्षत्रयं तावन्नोपपद्यत इत्यत्र हेतुमाह चेतनत्वादिति
चेतनत्वात् तदन्नं हि कार्यरूपतया भवेत् (अनुव्याख्यानम्)१,४.६२अब्
न्यायसुधा-
आद्ये द्वयोश्चेतनत्वात् ।
उत्तरयोरन्यतरस्य ।
चतुर्थं त्वङ्गीकरोति तदन्नं हीति ।
तैरूर्णनाभ्यादिभिरुपभुक्तमन्नं तत्परिणतास्तच्छरीरधातव इति यावत् ।
तन्त्वादिकार्यरूपतया परिणतं भवेदित्यर्थः ।
एतदुक्तं भवति ।
पित्रादिदृष्टान्तानामयं खलु निष्कृष्टो ऽर्थः ।
यत्पित्राद्युपभुक्तमन्नं तच्छरीरी(र)भूतं पुत्रादिगताचेतनांशोपादानं भवतीति ।
पक्षान्तरस्यासम्भावितत्वात् ।
नचायमस्माकमनिष्यः ।
महाप्रलये परमेश्वरेण निगीर्णं महदादिकार्यं तच्छरीररूपकप्रधानतां गच्छति ।
तच्च प्रधानं पुनर्महदादिकार्योपादानं भवतीत्यङ्गीकारादिति ।
एतेनोर्णनाभ्यादीनां न विकारित्वं(ता)चेन्निरुपादाना तन्त्वाद्युत्पत्तिः प्रसज्यत इत्यपि निरस्तम् ।
४,३०७
एवं श्रुतिपुराणयुक्तिभिर्ब्रह्मणो निर्विकारत्वावगमान्न जगदुपादानकारणत्वं किन्तु निमित्तत्वमेवेत्युक्तम् ।
अधुना श्रुतिस्मृति(पुराणयुक्ति)भिर्निमित्तत्वस्यैवोक्तत्वादपीत्याह अपादानतयेति
अपादानतया विश्वकर्तृत्वं बुद्धिपूर्वकम् (अनुव्याख्यानम्)१,४.६२च्द्
उक्तं भाल्लविशाखायां ब्रह्मतर्के च सादरम् (अनुव्याख्यानम्)१,४.६३अब्
४,३०८
न्यायसुधा-
विश्वकर्तृत्वमित्येवेत्युक्ते कुलालादीनामिव तटस्थकर्तृत्वं प्रतीयते ।
तन्निवृत्त्यथर्मपादानतयेत्युक्तम् ।
अपादानत्वमि(त्येवो)क्ते परस्य नानिष्यम् ।
उपादानस्याप्यपादानविशेषत्वेनापादानत्वापादानत्वयोरविरोधात् ।
अपादानविशेषविवक्षायां च पर्णपतने वृक्षस्येवावधित्वमात्रं प्रतीयते ।
अतो विश्वकर्तृत्वमित्युक्तम् ।
तथापि बुद्धिपूर्वकमिति व्यर्थम् ।
कर्तुर्बुद्धिमत्वनियमादिति ।
मैवम् ।
अशेषविशेषज्ञानस्य विवक्षितत्वात् ।
एतदुक्तं भवति ।
सकलकार्यक्रियाकारकफलविषयबुद्धयादिमानीश्वरो बाह्येन रूपेणानुगृह्णन्नान्तरेण प्रधानादीनां परिणामादिशक्तीः प्रेरयन्
स्वशरीररूपकप्रधानादिपरिणामभूतमहदादिकार्यापगमे ऽवधिर्भवतीति ।
सादरत्वं दर्शयिष्यामः ।
तदेव वाक्यद्वयं क्रमेण पठति इच्छामात्रादिति
इच्छामात्रात् प्रभोः सृष्टिरविकारस्य सर्वदा (अनुव्याख्यानम्)१,४.६३च्द्
स्वभावो ऽयमनन्तस्य रजो येनाभवज्जगत् ।
स्वदेहादिच्छया विश्वं भुक्तपूर्वं जनार्दनः (अनुव्याख्यानम्)१,४.६४
ससर्ज मातापितृवदूर्णनाभिवदेव वा (अनुव्याख्यानम्)१,४.६५अब्
न्यायसुधा-
नतु परिणामितयेति मात्रार्थः ।
तत्र हेतुरविकारस्येति ।
किं प्रयोजनाद्देशेनेत्यत उक्तम् स्वभाव इति
उपादानाभावात्कथमित्यत उक्तम् रज इति
येन प्रेरितं रजःशब्दोपलक्षितं गुणत्रयात्मकं प्रधानं जगदभवत् ।
अत्रोपपादनेनादरः प्रतीयते ।
स्वदेहात्सच्चिदानन्दाद्यात्मकावदधेः ।
अथवा स्वदेहात्प्रधानादुपादानात् ।
भुक्तपूर्वं पूर्वकल्पे (भुक्तेन) संहृतेन सदृशम् ।
भुक्तपूर्वं सूक्ष्मभावस्थोपादानकमिति वा ।
एवशब्देन नतु मृदादिवदित्याह ।
वाशब्दो दृष्टान्तसमुच्चये ।
स्वदेहादिति भुक्तपूर्वमिति च विवृणोति प्रधानमिति
प्रधानं परिणाम्येशो निर्विकारः स्वयं सदा (अनुव्याख्यानम्)१,४.६५च्द्
न्यायसुधा-
एवशब्दोक्तस्योपपादनं निर्विकार इति ।
अत्रापि पूर्ववदादरो गम्यते ।
४,३१०
प्राक् चेतनत्वादित्यनेन त्रयः प्रयोगाःसूचिताः ।
पितापुत्रौ नोपादानोपादेयभूतौ चेतनत्वाद्देवदत्तयज्ञदत्तवत् ।
पुत्राद्यचेतनो, न पित्रादिचेतनोपादानकः, अचेतनत्वात् घटवत् ।
पुत्रादिचेतनो न पित्राद्यचेतनेपादानकः, चेतनत्वाद्ब्रह्मव(ह्मादिव)दिति ।
सर्वत्र पक्षधर्मतायाश्च निश्चितत्वात् ।
द्वितीये तावद्वयाप्तिमुपपादयति न चेतनविकारः स्यादिति
न चेतनविकारः स्याद् यत्र क्वापि ह्यचेतनम् (अनुव्याख्यानम्)१,४.६६अब्
४,३११
न्यायसुधा-
यदि खलु यत्र क्वापि देशे काले वाचेतनं चेतनविकारो दृष्टः स्यात्तदैवं व्याप्तिर्भज्येत ।
नचैवमित्यर्थः ।
महदादिजगत् ब्रह्मकार्यमुपलब्धमिति चेन्न ।
अद्याप्यसिद्धेः ।
उक्तवक्ष्यमाणप्रमाणैर्निराकृतत्वात्(च) ।
तृतीये व्याप्तिमुपपादयति नाचेतनेति
नाचेतनविकारो ऽपि चेतनः स्यात् कदाचन (अनुव्याख्यानम्)१,४.६६च्द्
न्यायसुधा-
व्याख्यानं पूर्ववत् ।
एवं न चेतनविकारश्चेतनो ऽप्युपलब्ध इत्याद्ये ऽपि व्याप्तिरुपपादनीया ।
४,३१२
अथवा महदादिकं न चेतनविकारः, अचेतनत्वाद्घटवदिति युक्त्यन्तरविरुद्धं च ब्रह्मणो जगदुपादानत्वमिति चेतसि निधायास्य
व्याप्तिमुपपादयति न चेतनेति
ननु घटादयो ऽपि ब्रह्मविकारा इति चेन्न ।
मृदादिविकारत्वस्य प्रमितत्वात् ।
परम्परयेति चेत् ।
एवं तर्हि न स्वयं चेतनविकाराः ।
किन्तु तत्कारणानीत्युक्तं स्यात् ।
तथाच कथं न दृष्टान्तता ।
तर्हि तत्कारणेषु व्यभिचार इति चेन्न ।
तेषामेव पक्षत्वात् ।
सुखदुःखादिष्वनैकान्तिकत्वमिति चेन्न ।
तेषामन्तःकरणविकारत्वाभ्युपगमात् ।
एतेनैतदपि प्रत्युक्तम् ।
जगत्, अभिन्ननिमित्तोपादानम् प्रेक्षापूर्वजनितकार्यत्वात्सुखादिवदिति ।
घटादिषु व्यभिचार(राच्च)श्च ।
तेषामपि पक्षीकरणे प्रमाणबाधः स्यात् ।
नन्वचेतनमपि जगच्चेतनविकारश्चेत्तदा को दोषः स्यात् ।
एवं तर्हि चेतनो ऽप्यचेतनविकारः स्यात् ।
न चैतदस्तीत्याह नाचेतनेति
अयमभिसन्धिः ।
यदि महदादिकं ब्रह्मणो विकारः स्यात्तर्हितत्स्वरूपानुगतिमत्प्रसज्येत ।
कार्ये कारणस्वरूपानुगमदर्शनात् ।
घटादयो मृद्विकारा मृदनुगतिमन्तो दृष्टाः ।
न चैतदस्ति ।
तस्मान्न महादादि(ः) ब्रह्मविकारः ।
यदि पुनः कारणस्वरूपानुगममन्तरेण विकारिविकारभावो ऽभ्युपगम्यते तदा चेतनो ऽप्यचेतनविकारः किं नाभ्युपगन्तव्यः ।
नचैवमङ्गीकृतं परेण ।
तथाहि सति’एक आत्मनः शरीरे भावात्’ इत्यत्र परस्य भूतचतुष्ययपरिणाम एवायं चेतनवान्काय इति वदन्तं चार्वाकं प्रति भूतेष्वविद्यमानं
चैतन्यं कथं कार्ये स्यादिति परिहारो मदिराद्रव्ये मदशक्तिवत्स्यादिति पुनश्च चार्वाकेण चोदिते मदिरोपादाने ऽपि
सूक्ष्मरूपमदशक्तिव्युत्पादनं च व्याहतं स्यादिति ।
४,३१५
यद्वा ब्रह्मजगती नोपादानोपादेयभाववती विलक्षणत्वाद्देवदत्तघटवत् ।
ननु विलक्षणानामपि मृद्घटादीनामुपादानोपादेयभावो दृश्यत इति चेन्न ।
चेतनाचेतनरूपवैलक्षण्यस्य विवक्षितत्वात् ।
४,३१६
अनुमानान्तरं वक्तुं व्याप्तिनिश्चयाय व्यतिरेकव्याप्तिं तावदाह चेति ।
नचान्यस्यान्यरूपत्वं विकृतत्वे ऽपि दृश्यते (अनुव्याख्यानम्)१,४.६७अब्
न्यायसुधा-
अपि चेति युक्तिसमुच्चये ।
विकृति(त)त्वे विकृतिदशायामन्यस्यान्यरूपत्वमन्यविकारत्वं न दृश्यते ।
विकारविकारिणावन्योन्यमन्यतया क्वापि नोपलब्धाविति यावत् ।
अत्र दृष्टान्तमाह नेति
न क्षीरादन्यता दध्नः केनचिद् दृश्यते क्वचित् (अनुव्याख्यानम्)१,४.६७च्द्
न्यायसुधा-
यस्य क्षीरस्य विकारो यद्दधि तस्मात्क्षीरादन्यता तस्य दध्नः केनापि क्वापि न दृश्यत इत्यर्थः ।
एवमन्यतादर्शनस्य सिद्धा विकारविकारिभावाद्वयावृत्तिः ।
ततः किमित्यत आह सर्वज्ञादिति
सर्वज्ञाद् ब्रह्मणो ऽन्यत्वं जगतो ह्यनुभूयते (अनुव्याख्यानम्)१,४.६८अब्
न्यायसुधा-
हिशब्दो यस्मादित्यर्थे ।
तस्मान्न तयोर्विकारविकारिभाव इति शेषः ।
अयमत्र प्रयोगः ।
जगत् ब्रह्मविकारो न भवति
ततो ऽन्यत्वेनोपलभ्यमानत्वात् ।
यो यतो ऽन्यत्वेनोपलभ्यते न स तद्विकारो यथा घटः पटस्य ।
यश्च यद्विकारो नासौ ततो ऽन्यत्वेनोपलभ्यते, यथा दधि क्षीरादिति ।
४,३१७
यद्वा जगद्ब्रह्मणी नान्योन्यविकारविकारिणी ।
अन्योन्यमन्यत्वेनोपलभ्यमानत्वात् ।
घटपटवदिति प्रयोगः ।
नचायमसिद्धो हेतुः, यः सवर्ज्ञ इति ब्रह्मणः सर्वज्ञत्वश्रवणात् ।
ज्ञानकार्यस्य सर्वथाप्यनुपलम्भेन जगतो ज्ञानाभावानुमानात् ।
विरुद्धधर्माधिकरणयोश्चान्योन्यमन्यत्वोपलम्भनियमादिति भावेनोक्तम् सर्वज्ञादिति
ननु विकारविकारिणोर्भेदाभ्युपगमात् कथमयं हेतुरिति चेन्न, भेदेनैवोपलम्भस्य हेतुत्वात् ।
तत्किं त्वदभ्युपगममात्रेण घटपटयोरभेदः, उतोपलम्भात् ।
नाद्यः, मदभ्युपगमेन शुद्धभेदस्यैव ग्राह्यत्वात् ।
न द्वितीयः ।
असिद्धेः ।
अभेदानुपलम्भो वा हेतुत्वेन विवक्षितः ।
४,३१८
नन्वयमसिद्धो हेतुः ।
जगत् ब्रह्मणाभिन्नं सत्त्वाद्ब्रह्मवदित्यनुमानेनाभेदोपलम्भादिति चे(त्)न्न ।
खर्वं स्वर्णेनाभिन्नं, सत्त्वात्स्वणर्वदित्याभासमानयोगक्षेमत्वादित्याह अभेद इति
अभेदः सत्त्वमात्रेण स्याद् खर्वस्वणयोरपि (अनुव्याख्यानम्)१,४.६८च्द्
न्यायसुधा-
यदि जगद्ब्रह्मणोः साध्येत तर्हीति शेषः ।
खर्वम् अयः खर्परं वा ।
नन्विदमिष्यमेव ।
खर्वसुवर्णयोरभेदस्य मयाङ्गीकृतत्वादिति चेन्न ।
अभेदशब्देन भेदाभावस्य विवक्षितत्वात् ।
अत्र प्रमाणविरोध इति चेत् ।
जगत् ब्रह्मणो ऽत्यन्तं भिद्यते तत्स्वरूपानुगम(ति)शून्यत्वादिति, त्वदनुमानस्यापि, प्रमाणविरोध इत्रत समं समाधानम् ।
अत्यन्तभेदो मम न क्वापीत्यप्रसिद्धविशेषणतेति चेन्न ।
मोक्षाभावप्रसङ्गात् ।
तथाहि ।
ज्ञानेन निवृत्तकर्मणा च मोक्षो ऽभ्युपेयसे ।
त(च्च)त्र ज्ञानमज्ञानमपि भवति ।
निवृत्तं कर्म प्रवृत्तमपि भवतीति कथं मोक्षसाधनं स्यात् ।
ज्ञानत्वादिना तद्भावे ऽज्ञानादेरपि (तद्भावः) तथात्वं स्यात् ।
ज्ञानादिकं ज्ञानादिस्वरूपेणात्यन्ताभिन्नम् अज्ञानादिस्वरूपेण(तु)भिन्नाभिन्नमतो न कार्यसङ्कर इति चेत् ।
तथाप्यज्ञानाद्यभेदेन स्वकार्यस्य कर्तव्यत्वात् ।
एवं मोक्षो ऽपि संसाराभिन्न इत्यमोक्षःस्यात् ।
मोक्षात्मता(ना)सद्भावेन मोक्षत्वे संसारो ऽपि तथा स्यात् ।
यदि वा(चा)यमभेदो ऽनुपलभ्यमानो ऽर्थक्रियासु नोपयुज्यते, तदा व्यसनितयैवाभ्युपगन्तव्यः स्यादिति ।
४,३२०
ब्रह्मस्वरूपानुगतिशून्यत्वान्न तत्परिणामो ऽयं प्रपञ्च इत्युक्तम् ।
तत्र किं सर्वस्वरूपानुगतिशून्यताभिप्रेता, उत किञ्चिदनुगमशून्यता ।
नाद्यः ।
सर्वानुगमाभावे ऽपि घटादीनां मृदादिविकारत्वदशर्नात् ।
न द्वितीयः, सत्त्वानुगमेन विकारविकारिभावोपपत्तेरित्यत आह अभेद इति
अभेदो विकारविकारिभावः ।
४,३२२
ननु न सुवर्णगतं सत्त्वं खर्वे ऽनुगतम् ।
तत्कथं(अयं)प्रसङ्गः ।
तत्किं ब्रह्मसत्त्वमेव वियदादीनाम् ।
अद्धेति चेन्न, प्रमाणाभावात् ।
‘प्राणा वै सत्यं तेषामेव सत्यम्’ इत्यादिश्रुतेः प्राणसत्यत्वस्य ब्रह्माधीनतार्थत्वोपपत्तेः ।
ब्रह्मण एव सामान्यसत्ता वियदादावनुगतेति चेत्तर्हि कथं न स्वर्णसत्ता खर्वे ऽनुगता ।
४,३२३
अथ मन्यसे कारणमेव कार्यात्मना भवतीति परिणामवादिनां मतम् ।
ततश्च कारणं यत्स्वभावाव्यभिचारि तदनुगमः कार्ये ऽवश्याभ्युपगन्तव्यः ।
अन्यथा कारणमेव कार्यात्मना भवतीति रिक्तं वचः स्यात् ।
अव्यभिचरितस्वभावाननुगमे कारणस्यैवाननुगमप्राप्तेः ।
नच सन्मात्रस्वभावं सुवर्णम् ।
येन खर्वं तद्विकारः स्यात् ।
किन्तु तदव्यभिचारिसुवर्णत्वाद्यनुगमे सतीति ।
एवं तर्हि जगदपि कथं ब्रह्मपरिणामः स्यात् ।
नहि सन्मात्रस्वभावं ब्रह्म ।
किन्तु विज्ञानमानन्दं ब्रह्मेत्यादिश्रुत्या विज्ञानादीनामपि तदव्यभिचारिस्वभावत्वावगमात् ।
नच विज्ञानानन्दाद्यनुगमः प्रपञ्चे ऽस्तीति समम् ।
ननु च क्षीराव्यभिचारिस्वभावमाधुर्यानुगतिविधुरं दधि तद्विकारो दृष्टमिति चेन्न ।
सत्कार्यवादभङ्गप्रसङ्गात् ।
किञ्च क्षीरकार्यं दधीति निश्चये न माधुर्यं क्षीरस्वभाव इति कल्प्यते ।
माधुर्यस्य क्षीरस्वभावतानिश्चये वा क्षीरविनाशे तत्कारणस्य दध्युपादानत्वं कल्प्यत सति न दोषः ।
अपि चागमैरनुमानैश्च ब्रह्मणो निर्विकारत्वे सिद्धे सति अप्रच्युतस्वरूपस्वभावस्यैव (ब्रह्मणो) जगदुपादानत्वं यो मन्यते तं प्रत्येतौ
प्रसङ्गविपर्ययावुक्ताविति को विरोधः ।
एतेन प्रधानस्य जगदुपादनत्वे ऽप्ययं समानो दोष इति निरस्तम् ।
४,३२८
अथ मतम् ।
द्विरूपं ब्रह्माभ्युपगम्यते अनन्तानन्दचिदात्मकं सदात्मकं चेति ।
तत्राद्येन रूपेण निमित्तम् ।
द्वितीयेनोपादानम् ।
अतो न कश्चिदुक्तो दोषः ।
तथाहि ।
यत्तावदुक्तं निर्विकारत्वं तच्चिच्छक्तिविषयत्वाच्छत्यादेरदूषणम् ।
निमित्तकारणेन चिच्छक्तिकेन प्रकृतिप्रधानाद्यभिधानं सच्छक्तिकं ब्रह्म परिणमतीत्यङ्गीकारे न युक्तिविरोधो ऽपि सदात्मकस्य
जगदुपादानत्वाच्चैतन्याद्यननुगमे ऽपि न दोषः ।
सदनुगमस्य विद्यमानत्वात् ।
अन्यत्वदर्शनं च न विरुद्धयते सर्वज्ञात्, तन्निमित्तमेव नोपादानम् ।
यच्चोपादानं सद्रूपं तस्माद्भेदेनोपलभ्यत इत्याशङ्कयाह भोगेनेति
भागेन परिणामश्चेद् भागयोर्भेद एव हि (अनुव्याख्यानम्)१,४.६९अब्
न्यायसुधा-
यदि ब्रह्मणः परिणामः चिद्भागेन निर्विकारत्वमङ्गीक्रियते, तदा वक्तव्यम्, तयोर्भोगयोरभेदो भेदाभेदौ वा ।
न तावदभेदः द्वयोरपि परिणामित्वादिप्राप्त्या भागाद्वयकल्पनावैयर्थ्यात् ।
नापि भेदाभेदौ, अभेदेन सङ्करप्रसङ्गात् ।
भेदो ऽभेदकार्यं निरुणद्धीति चेत् ।
किं तर्ह्यप्रयोजकेनाभेदेन, तस्माद्भागयोरत्यन्तभेद एवाङ्गीकरणीयः ।
४,३२९
ततः किमित्यत आह यो भाग इति
यो भागो न विकारी स्यात् स एवास्माकमीश्वरः (अनुव्याख्यानम्)१,४.६९च्द्
न्यायसुधा-
परस्परमत्यन्ताभिन्ने द्वे वस्तुनी ।
तत्रैकं निर्विकारं जगन्निमित्तमेव ।
अपरं तु परिणामि जगदुपादानतमेवेत्यङ्गीकारे नेश्वरस्य केवलनिमित्तत्ववादिनामस्माकं कश्चिद्विवादः ।
निर्विकारस्य जगन्निमित्तस्यास्माभिरीश्वरत्वेन, परिणामिनो जगदुपादानस्य प्रधानत्वेन स्वीकृतत्वात् ।
विवादाभावाच्च प्रकृतिश्चेति(त्यादि)सूत्राणामनारम्भ एवेति ।
अत्र यो भाग इति पराभ्युपगमेनोक्तम् ।
स्वमतेन तु यद्वस्त्विति ज्ञातव्यम् ।
नहि भागिन विना भागः सम्भवति ।
नापि विकार्यविकारिणोः कश्चिद्भागी विद्यते ।
४,३३१
नन्वस्ति विवादविषयः ।
निमित्तोपादानभेदवादिना निमित्तस्यैव ब्रह्मत्वमभ्युपगम्यते ।
मया तु सदनन्तानन्दचितां समुदायस्येति तदर्थमधिकरणारम्भ इति चेत् ।
किमिदं ब्रह्मत्वम् ।
(किं) ब्रह्मनामवत्वमुत जगत्कारणत्वादिलक्षणार्थ(वत्)त्वम् ।
आद्यं दूषयति भिन्नानामिति
भिन्नानां समुदायस्य नाम ब्रह्मेति चेद् भवेत् (अनुव्याख्यानम्)१,४.७०अब्
न्यायसुधा-
तद्भवेदित्यभ्युपगममाह ।
ततश्चायमर्थः ।
यद्यर्थे न विवादो ऽस्ति तदानारम्भणीयमेवाधिकरणम् ।
शब्दमात्रे परेण विवादाकरणात् ।
करणे ऽप्यशब्दशास्त्रत्वादिति ।
४,३३२
द्वितीये ऽपि विवेक्तव्यम् ।
किं परस्परं भिन्नाः सच्चिदानन्दाद्याः प्रत्येकं ब्रह्माणि ।
उत ते न ब्रह्माणि किन्तु तत्समुदाय एवेति ।
नाद्यः ।
एकमेवाद्वितीयमित्यादिश्रुतिविरोधात् ।
द्वितीये ऽपि तत्समुदायो नाम किं तदुपादानकं द्रव्यान्तरं सङ्खया वा संयोगो वा ।
सर्वत्रापि दोषमाह ब्रह्मेति ।
ब्रह्मोपादानता न स्यात् तदा विश्वस्य हि क्वचित् (अनुव्याख्यानम्)१,४.७०च्द्
४,३३२फ़्.
न्यायसुधा-
तदेति ।
मनसि स्थितानां विकल्पितानां पक्षाणां (वा)अङ्गीकारे ।
क्वचित्पक्षे ।
हिशब्देनानुपपत्तेः प्रसिद्धतामाह ।
अत्र हि ब्रह्मोपादानस्य वा तद्गुणिनो वा जगदुपादानत्वं प्राप्तमिति विश्वस्य ब्रह्मोपादानकता न स्यात् ।
न ह्युपादानगुणिगताः शक्तयः कार्यद्रव्ये गुणे वा सम्भवन्ति ।
तदुपादानत्वादेरसम्भवात् ।
अथवा ब्रह्मणः कार्यत्वाद्गुणत्वाच्च न विश्वोपादानत्वं सम्भवतीति व्याख्येयम् ।
अत्र ब्रह्मोपादानतेत्युपलक्षणम् ।
ब्रह्मनिमित्तकता च न युक्तेत्यपि द्रष्टव्यम् ।
४,३३५
स्यादेतत् ।
कालात्ययापदिष्यमेतदनुमानजातम् ।
‘यतो वा इमानि भूतानि जायन्तेऽ‘आत्मन आकाशः सम्भूतःऽ‘जन्माद्यस्य यतः’ इतयादिविरोधात् ।
‘जनिकर्तुः प्रकृतिः’ इति प्रकृतावुपादानलक्षणायां हि पञ्चमी विधीयते ।
तथा चैवोदाहृतम् ।
‘शृङ्गाच्छरो जायते, गोमयाद् वृश्चिको जायते’ इति ।
प्रसिद्धश्चात्रोपादानोपादेयभाव इति ।
तदिदमसङ्गतम् ।
पञ्चमीबलात्किलोपादानत्वं सिषाधयिषितम् ।
नचेदं सूत्रमुपादाने पञ्चम्या विधायकम् ।
अथ मतम् ।
अपादाने तावत्पञ्चमी विहिता ।
अपादाने पञ्चमीति ।
उपादानं चापादानविशेषः ।
जनिकर्तुः प्रकृतिरिति स्मरणात् ।
ततो ऽपादाने विहिता पञ्चम्युपादाने ऽपि भविष्यति ।
नचैवं सति पञ्चम्या नियमेनोपादानत्वासिद्धिः ।
विशेषस्मरणस्य ग्राह्यत्वादित्यत आह शृङ्गादिति ।
४,३३६
शृङ्गाच्छरो ऽविलोमभ्यो दूर्वा गोमयतस्तथा ।
वृश्चिकश्चेत्येवमाद्येष्वपादानत्वमिष्यते (अनुव्याख्यानम्)१,४.७१
न्यायसुधा-
तथाशब्दो द्वितीयोदाहरणेन सम्बद्धयते ।
एवमाद्येषूदाहरणेषु शृङ्गादीनां शरादीन्प्रत्यपादानत्वमिष्यते ।
पञ्चम्यर्थतयेति शेषः ।
उपलक्षणं चैतत् ।
सूत्रे चेत्यपि ज्ञातव्यम् ।
एतदुक्तं भवति ।
भेवेदेवं कथञ्चिद्यदि सूत्र(स्य)तदुदाहरणानां(च) परपरिकल्पितो ऽर्थो भवेत् ।
न चैवम् ।
किं नाम जनिकर्तुः प्रकृतिरित्यनेनेदमुच्यते ।
जनेः कर्तुर्जायमानस्य या प्रकृतिरुपादानसंसृष्टमपायावधिभूतं द्रव्यं तत्कारकमपादानसञ्ज्ञं भवतीति ।
उदाहरणेष्वपि यच्छृङ्गादीनां शरादीन्प्रत्यपायावधित्वमेव पञ्चमीप्रतिपाद्यमिति ।
४,३३९
एतदेव प्रपञ्चयति उपादानेति
उपादानैकदेशत्वं यद्यप्यत्र प्रदृश्यते ।
अप्यपादानतैवात्र दृष्टान्तो ब्रह्मणो भवेत् (अनुव्याख्यानम्)१,४.७२
न्यायसुधा-
यद्यप्यत्र शृङ्गादौ शराद्युपादानभूतैकदेशवत्त्वं प्रतीयते ।
तथापि यात्रापादानता अपायावधित्वलक्षणास्ति सैव ब्रह्मणो दृष्टान्तो भवेत् ।
पञ्चम्यर्थतायामुदाहरणं भवेत् न तूपादानतेत्यर्थः ।
अयमभिप्रायः ।
शृङ्गादिकं ह्येकदेशेन शरादीन्प्रत्युपादानमेकदेशेन चापायावधितया कारकं भवति ।
तस्मिन्नसत्येकदेशान्तरस्योपादानतानुपपत्तेः ।
मुद्गमाषादयो हि यद्यपि तुषान्तरावस्थितेनैवांशेनाङ्कुरोपादानम् ।
तथापि न तुषविकालानामुप्ता(मंशा)नामङ्कुरजनकतास्ति ।
तत्रावधिभाग एवापादानं पञ्चमीवाच्यश्च ।
तद्दृष्टान्तेन ब्रह्मणो ऽपि पञ्चमीबलादुपादानप्रधानसंसृष्टावधित्वमेव भवति ।
न तूपादानत्वमिति ।
ननु कथं तर्हि प्रकृतेर्महान्मतो ऽहङ्कार इत्यादिप्रयोगः ।
तत्रापि परिणतभागसंसृष्टस्य अपरिणतभागस्य अवधिभूतस्य पञ्चमीविषयत्वमिति वदामः ।
यत्र सर्वस्यापि परिणामस्तत्रकथम् ।
न प्रयोक्तव्यैव तत्र पञ्चमी ।
नहि क्षीराद्दधि जातिमिति प्रयुञ्जते ।
किन्तु क्षीरमेव दधि जातमिति ।
यत्र क्वचित्प्रयोगो दृश्यते स गौणो वा सूत्रस्यार्थान्तरकल्पनामूलो वेति ।
व्यास(४)
४,३४१
अथ मन्येत ।
शृङ्गमेव शरोपादानम् ।
नतु केचिदवयवा उपादानं केचित्तदवधय इति विभागः ।
तथा सति शृङ्गाच्छरो जायत इति प्रयोगानुपपत्तेः ।
यदि चेयं पञ्चम्युपादाने यदि वावधौ तथापि शृङ्गावयवादिति वक्तव्यम् ।
नच तर्हि अवधित्वमेवास्तु इति वाच्यम् ।
निरुपादानोत्पत्तिप्रसङ्गात् ।
अतः शृङ्गस्यैवोपादनत्वात्तत्र पञ्चमीश्रवणादुपादाने पञ्चमीति ।
तत्राह न हीति
न ह्य् उपादानतैवात्र … (अनुव्याख्यानम्)१,४.७३अ
न्यायसुधा-
अत्र शृङ्गादावुपादानते(तैये)ति न वक्तव्यम् ।
अपरिणतभागस्य शराङ्कुरादेरत्यन्तभिन्नस्य प्रमितत्वात् ।
अन्यथेदमस्योपादानमिदं नेति व्यवस्थानुपपत्तेरिति हिशब्दार्थः ।
कथं तर्हि शृङ्गादिति प्रयोग इत्यत आह बाह्यावयवेति
४,३४२
… बाह्यावयवगौरवात् (अनुव्याख्यानम्)१,४.७३ब्
न्यायसुधा-
बाह्याः शराकारेण परिणतेभ्यो ऽन्ये ये ऽवधिभूतावयवास्तेषां गौरवाद्बहुत्वात् ।
एतदुक्तं भवति ।
कतिपयावयवेषु परिणतेषुच बहूनामवशिष्टत्वेन शृङ्गान्तरोत्पत्त्या शृङ्गबुद्धिमात्रोत्पत्त्या वा शृङ्गशब्दोपपत्तिरिति ।
४,३४३
ननु कुतः सूत्रादेरर्थान्तरकल्पना ।
शब्दार्थविरोधादिति ब्रूमः ।
उपादीयते कार्यमनेन स्वरूपतया स्वीक्रियत इत्युपादानम् ।
अपादीयते परित्यज्यते कार्यमनेनेत्यपादानम् इति स्फुटो विप्रतिषेधः ।
किञ्च भाष्यकारेणायमपि योगः शक्यो ऽवक्तुमिति प्रत्याचक्षाणेनायमेव सूत्रार्थः सूचितः ।
यदि तर्हि जनिकर्तुः प्रकृतिरिति सूत्रमुपादानस्यापादानसञ्ज्ञा विदध्यात् ।
कथं तर्हि ध्रुवमपाये ऽपादानमित्यनेनैव गतार्थतामाह ।
न ह्यपादानस्यापाये ध्रुवत्वमिति ।
तस्मादुचपादानसंसृष्टस्यैवावधिभागस्यापादानसञ्ज्ञायामनेन विहितायां भाष्यकारीयं दूषणं सम्बध्यते ।
तथा सूत्रं समादधानैरपि तस्यैवायं प्रपञ्च इत्युक्तम् ।
अन्यथा प्रागवधेरपादानसञ्ज्ञोक्ता ।
अत्र तूपादानस्य ।
न ह्यवधिरुपादानमित्येको ऽथर् इत्यवक्ष्यन् ।
अतस्तेषामपि सम्मतो ऽयमर्थ इति गम्यते ।
४,३४६
अस्तु वोपादाने ऽपि पञ्चमी ।
तथापि (यत इति) पञ्चमीबलादुपादानत्वनिश्चयो नोपपद्यते ।
अनेकार्थत्वात् ।
विशेषस्मरणादित्युक्तमिति चेत् ।
किमिदं विशेषस्मरणात् ।
जनिधातुग्रहणेनेति चेत् ।
तर्ह्यात्मन आकाशः सम्भूत इत्यादीनामनुदाहरणीयत्वं स्यात् ।
कुतश्च यत इति पञ्चमीत्यवधृतम् ।
तसेः सार्वविभक्तिकत्वात् ।
आत्मन आकाश सत्यनेनैकार्थत्वादिति चेन्न, तस्याः पञ्चम्यां’भुवः प्रभवः’ इति विशेषावि(वक्षि)हिताभिव्यक्त्यवधितार्थत्वात् ।
तथा चैवोदाहृतम् ।
हिमवतो गङ्गा प्रभवति प्रथममुपलभ्यत इत्यथर् इत्यास्तां विस्तरः ।
४,३५९
अथवा यदुक्तं न ब्रह्मविकारो विश्वं ततो भेदेनोपलम्भादिति ।
तदसत् ।
शरादिषु व्यभिचारात् ।
शरादयो हि शृङ्गादयो हि शृङ्गाद्युपादानास्तता भेदेनोपादानास्ततो भेदेनोपलभ्यन्त इत्यतो गूढाभिसन्धिराह शृङ्गादिति
एवमाद्येषु स्थलेषु शरादीन्प्रति शृङ्गादीनाम(प्य)पायावधित्वलक्षणमपादानत्वमेवेष्यते ।
न पुनरुपादानत्वम् ।
अतो विपक्षत्वाभावाद्भेदेनोपलम्भो न तत्र साध्यं व्यभिचरतीति ।
ननु कथमुच्यते शृङ्गादीनां शरादीन्प्रति नोपादानत्वमिति ।
तथा सत्युपादानान्तरानुपलम्भाच्छरादीनां निरुपादनोत्पत्तिः प्रसज्येतेत्यतो ऽभिसन्धिमुद्घाटयति उपादानेति
४,३६०
शृङ्गादेरुक्तरूपापादानत्वे ऽपि नच शरादीनां निरुपादानत्वोक्तिप्रसङ्गः ।
कतिपयानां शृङ्गाद्यवयवानां शराद्युपादानत्वाभ्युपगमात् ।
नचैवमनैकान्त्यतादवस्थ्यम् ।
यद्यप्यत्र शृङ्गादौ शराद्युपादानैकदेशत्वं प्र(ती)दृश्यते ।
तथाप्यत्र शृङ्गादौ यस्यैकदेशस्योक्तस्य रूपापादानता स एव ब्रह्मणो दृष्टान्तो भवेत् ।
तत एव शरादीनां भेदोपलम्भात् ।
न तूपादानभागः ।
ततस्तदभावात् ।
एतदुक्तं भवति ।
शृङ्गादेरवयवा हि केचिच्छरादीनामुपादानभूताः केचिन्निमित्तभूताः ।
तत्र ये निमित्तभूतास्तेषु हेतुवृत्तावपि नानैकान्त्यम् ।
तेषां सपक्षप्रविष्टत्वात् ।
ये तूपादानभूतास्तेषां विपक्षप्रवेशे ऽपि न तत्र हेतुवृत्तिरिति कुतो ऽनैकान्त्यमिति ।
यस्तु वैयात्यान्मन्यते ।
नात्रापादानतास्ति ।
किन्तूपादानत्वमेव केवलम् ।
तथा चानैकान्तिकत्वमिति ।
स प्रष्टव्यः ।
किमत्राविनष्ट एव शृङ्गावयव्युपादानमित्यभिप्रायः, किं वा शृङ्गे ऽविनष्टे तदवयवाः सर्वे ऽपीति, उत नष्टे शृङ्गे तदवयवाः सर्वे ऽपीति ।
नाद्य इत्याह नहीति
अत्र शृङ्गे ।
तथात्वे सुवर्णवच्छरे शृङ्गस्यापि प्रतीतिप्रसङ्गादिति हिशब्दार्थः ।
न द्वितीय इत्याह नहीति
अविनष्टृङ्गेषु तदवयवेषु सर्वेषु शराद्युपादानतैवेति न युक्तम् ।
तथा सति शृङ्गशरयोः समानदेशताप्रसङ्गादिति हिशब्देन सूचयति ।
न तृतीय इत्याह नहीति
अत्र सर्वेष्वपि शृङ्गावयवेषु शृङ्गनाशोत्तरं शराद्युपादानतैवेति न युज्यते ।
अतो नानैकान्त्यमिति हिशब्दः ।
कुतो न युज्यत इत्यत आह बाह्येति
कार्याद्बाह्यानामपरिणतानामवयवानामुपलम्भात् ।
अपरिणतस्याप्युपादानत्वे ऽतिप्रसङ्गात् ।
४,३६३
ननु शृङ्गं चेन्नष्टं कथं तर्हि शरोत्पत्त्यनन्तरमपि शृङ्गप्रत्ययप्रयोगावित्यतो गौरवादित्युक्तम् ।
समाधानं पूर्ववत् ।
मा भूद्भेदोपलम्भस्यात्र व्यभिचारः ।
तथापि यदुक्तं नाचेतनविकारश्चेतन इति तदत्र व्यभिचरति ।
अचेतनाद्गोमयादेः चेतनस्य वृश्चिकादेर्जननदर्शनादित्यत आह नचेति
न चाचेतनतस् तत्र चेतनस्य समुद्भवः (अनुव्याख्यानम्)१,४.७३च्द्
न्यायसुधा-
तत्र गोमयादेर्वृश्चिकादिजन्मनि ।
नन्वनादिश्चेतन इति पूर्वाभ्यस्ताहाराभिलाषादिना प्रसिद्धम् ।
अन्यथा पूर्वकर्माभावे जन्मनो ऽप्यसम्भवात् ।
मध्ये कथञ्चित्सम्भवे ऽप्यादिसर्गे सर्वथा(अपि) अनुपपत्तेः ।
तत्कथं निर्दलमिदमाशङ्कितम् ।
सत्यम् ।
तथापि परेण स्वग्रन्थे निवेशितत्वात् ।
अचेतनाच्चेतनस्य जन्माभावे गोमयाद् वृश्चिको जायत इत्यादिव्यवहारविरोध इत्यत आह उपादानतयेति
उपादानतया … (अनुव्याख्यानम्)१,४.७४अ
न्यायसुधा-
पूर्वेणैव सम्बन्धः ।
न वयं कारणत्वमात्रं निषेधामो येन व्यवहारविरोधः स्यात् ।
किन्तूपादानतया ।
तस्यैव प्रकृतत्वात् ।
४,३६६
यदि गोमयादिकं वृश्चिकादिकं प्रति नोपादानम्, किंरूपं तर्हि कारणम् ।
येन व्यवहारोपपत्तिरिति पृच्छति किं तर्हीति
उत्तरमाह अपादानमिति
… किं तर्ह्यपादानं ह्यचेतनम् ।
कार्यदेहगतस्यास्य चेतनस्य प्रदृश्यते (अनुव्याख्यानम्)१,४.७४
न्यायसुधा-
अस्य वृश्चिकादिशब्दाभिधेयस्य ।
प्रदृश्यते हीति ततो निर्गतत्वोपलम्भादित्यर्थः ।
नन्वेकदेशेनापादानत्वमभ्युपगतमिति ।
सत्यम् ।
तच्छरीरापेक्षयेत्युक्तम् कार्यदेहगतस्येति
गोमयाद्युपादानकदेहगतस्येत्यर्थः ।
अयमत्र समुच्चयार्थः ।
वृश्चिकादिशब्देन द्वयमुच्यते देहश्चेतनश्च ।
तत्र गोमयाद्यचेतनमचेतनस्य देहस्योत्पत्तावेकदेशेनोपादानमेकदेशेनापादानं च भवति ।
चेतनस्य तु प्रादुर्भावलक्षणे जनने निमित्तमेव ।
देवहेतुत्वात् ।
तत्रैव चास्य प्रादुर्भावात् ।
अत एवास्येति प्रत्यक्षवन्निर्देशः कृतः ।
अपगमने तु अवधित्वेनापादानमेव ।
अतो नोक्तनियमभङ्ग इति ।
४,३६७
एवं ब्रह्मणो जगदुपादानत्वाभावे प्रमाणान्यभिधाय परोपन्यास्तानि प्रमाणानि निराकरिष्यन् क्रमस्याप्रयोजकत्वपरिणामादिति सूत्रार्थतयोक्तां
श्रुतिं तावन्निराचष्टे सच्चेति
४,३६८
सच्च त्यच्चाभवदिति नास्य विश्वत्वमुच्यते (अनुव्याख्यानम्)१,४.७५अब्
न्यायसुधा-
‘सच्च त्यच्चाभवत् निरुक्तं चानिरुक्तं च निलयनं चानिलयनं च विज्ञानं चाविज्ञानं च सत्यं चानृतं च सत्यमभवत्’ इत्यस्यां श्रुतावस्य
ब्रह्मणः सत्त्यदादिशब्दाभिधेयमूर्तामूर्ताराशिद्वयात्मकविश्वभाव उच्यत इति नास्ति ।
कुतो नेत्यत आह तत्सृष्ट्वेति
तत् सृष्ट्वेति गिरैवास्य पूर्वं विश्वस्य सिद्धितः (अनुव्याख्यानम्)१,४.७५च्द्
न्यायसुधा-
‘स इदं सर्वमसृजत ।
यदिदं किञ्च ।
तत्सृष्ट्वा तदेवानुप्राविशत् ।
तदनुप्रविश्य ।
सच्च त्यच्चाभवत्’ इति वचनेन ब्रह्मणः सत्त्यदादिभवनात्पूर्वमेवास्य मूर्तामूर्तरूपस्य विश्वस्योत्पत्तेरवगतत्वात् ।
एतदुक्तं भवति ।
नेदं सत्त्यदादिभवनं विश्वो(स्योश्व)त्पादानात् ।
विश्वोत्पत्त्युत्तरकालीनत्वात् ।
या क्रिया यदुत्तरकालीना, नासावसौ ।
यथा भुक्त्वा चरतीत्युक्तं चरणं न पूर्वकालीनं भोजनमिति ।
अनुपपन्नार्थं चान्यथा वाक्यमापद्येत ।
नहि मृत्सुवर्णादिकं घटरुचकादि सृष्ट्वा तदनुप्रविश्य तद्भवति ।
यद्वा विश्वं सत्त्यदादिशब्दार्थतयात्र न विवक्षितम् तद्भवनात्पूर्वकालीनोत्पत्तिकत्वाद्भोजनवदित्यादि प्रयोक्तव्यम् ।
४,३७०
कस्तर्हि श्रुत्यर्थ इत्यत आह सत्त्वादिति
सत्त्वात् ततेर्वैदिकत्वात् सम्यग् वक्तुमशक्यतः ।
आश्रयत्वात् स्वाश्रयत्वाज्ज्ञानत्वाद् दुर्विदत्वतः (अनुव्याख्यानम्)१,४.७६
सत्ततेर्यातनाच्चैव ह्यप्राप्तत्वाच्च दुर्जनैः ।
नित्यासाधुगुणव्याप्तियन्तृरूपत्वतः सदा ।
जगद्गतेन रूपेण ब्रह्मैव हि तथोच्यते (अनुव्याख्यानम्)१,४.७७
न्यायसुधा-
जगद्भावं विना सत्त्वादिधर्मयोगेन ब्रह्मैव तथा सत्त्यदादिकमुच्यते ।
तर्हि तदनुप्रविश्येत्यस्यान्वयो नास्ति ।
नहि ब्रह्मणः सत्त्वादिधर्मयोगे सदादिशब्दवाच्यत्वे वा जगत्प्रवेशस्योपयोगो ऽस्ति ।
नापि ततः पूर्वकालीनता ।
किञ्चैवं सति प्रसिद्धिविरोधः सत्त्यदादिशब्दानां’द्वे वा व ब्रह्मणो रूपे’ इत्यादौ मूर्तामूर्तवाचितया प्रसिद्धत्वात् इत्यतो जगद्गतेन
रूपेणेत्युक्तम् ।
यद्यप्यनन्यापेक्षया सर्वदा सत्त्वादिधर्मयोगः सदादिशब्दवाच्यता च ब्रह्मणः ।
तथापि तत्तद्वस्तुगतरूपेणैव तत्तच्छब्दवाच्यत्वमित्यस्ति व्यवस्था ।
तथाच मूर्तामूर्तजगद्गतेन रूपेण ब्रह्मसदादिशब्दवाच्यमित्यतः तदनुप्रविश्येति सम्बद्धयते ।
परमेश्वरसन्निधानादेव मूर्तामूर्तादेरपि सदादिशब्दवाच्यता चोपपद्यत इति ।
४,३७२
सत्त्वादुत्तमत्वात्सत् ।
ततेर्व्याप्तेस्त्यत् ।
तनु विस्तार इत्यस्माड्ड्यत्प्रत्ययः ।
वैदिकत्वान्निरुक्तम् ।
निश्चयेनोक्तं हि निरुक्तम् ।
नहि वेदादृते ऽन्येन ब्रह्म निश्चयेन वक्तुं शक्यते ।
सम्यग्वस्तुमशक्यत्वतो ऽनिरुक्तम् ।
यद्यपि निश्चयेनोक्तं न भवतीत्यनिरुक्तम् ।
तथापि निरुक्तमित्यनेन विरोधात्सम्यक् कात्स्नर्येन वक्तुमशक्यत्वत इत्युक्तम् ।
ननु वेदेतरप्रमाणेनानिरुक्तमिति कुतो न व्याख्यायते ।
न ।
प्रकृतपरित्यागप्रसङ्गात् ।
वेदेन निरुक्तमिति (हि) प्रकृतम् ।
किञ्चोक्तेः शब्दधर्मत्वात्प्रत्यक्षानुमानाभ्यामनिरुक्तमित्ययुक्तम् ।
स्मृतीनामपि वेदात्मकत्वेन विरोधतादवस्थ्यम् ।
महिमाधिक्यं चात्र लभ्यत इति ।
जगदाश्रयत्वान्निलयनम् ।
निश्चितमयन्ते प्रवर्तन्ते ऽस्मिन्निति ।
रो ल इति योगविभागाल्लत्वम् ।
निपूर्वस्य ली(ङ्)श्लेषण इत्यस्य वाधिकरणे ल्युटि कृते रूपमेतत् ।
स्वाश्रयत्वादनिलयनम् ।
न विद्यते स्वातिरिक्तं निलयनं यस्येति ।
ज्ञानत्वाद्विशेषज्ञानरूपत्वाद्विज्ञानम् ।
दुर्विदत्वतो दुर्ज्ञेयत्वादविज्ञानम् ।
न विद्यते विज्ञानं सकलविशेषावगाहिजीवज्ञानं यद्विषय इति ।
सत्ततेः सम्यग्व्याप्तेर्यातानाद्यतनं प्रति हेतुत्वाच्च सत्यम् ।
तनोतेः ड्विप्रत्यये तकारमात्रं रूपम् ।
तेन सच्छब्दस्य बहुव्रीहिः ।
यती प्रयत्न इत्यस्यान्तर्णीतण्यर्थस्य डप्रत्यये (यमिति) रूपम् ।
ततः कर्मधारयः ।
‘अयस्मायदीनि छन्दसि’ इति भसञ्ज्ञाश्रयणाज्जश्त्वाभावः ।
दुर्जनैरप्राप्यत्वादेवानृतञ्च ।
नतु मिथ्यात्वात् ।
यद्यपि ऋतं प्राप्तं नेत्यनृतम् ।
तथापि’ब्रह्मविदाप्नोति परम्’ इत्यादिश्रुतिविरोधपरिहाराय दुर्जनैरित्युक्तम् ।
हिशब्दो ब्रह्मणो मिथ्यात्वाभावे प्रसिद्धिं द्योतयति ।
नित्यसाधुगुणव्याप्तियन्तृरूपत्वतः सत्यम् ।
अत्र नित्यत्वत इत्येकं व्याख्यानम् ।
नित्यसत्यशब्दयोरैकाथ्यर्स्य वक्ष्यमाणत्वात् ।
सत् साधुगुणाः’सद्भावे साधुभावे च’ इति ।
वचनात् तेषां व्याप्तिर्बाहुल्यं तकारेणोक्तम् ।
पूर्ववत्तनोतेर्भावे ड्विप्रत्ययः ।
तस्य यन्तृरूपत्वाद्यम् ।
यम उपरम इति धातोः (इत्यतो) डः ।
भक्तेषु साधुगुणबाहुल्यप्रेरकत्वादिति यावत् ।
अभवदिति वचनाद्ब्रह्मणः सत्त्वादिकं सादीति शङ्कानिरासायोक्तम् सदेति
प्रत्येकं चास्य सम्बन्धः ।
४,३८६
तर्हि कथमभवदिति प्रयोग इत्यत आह व्यक्तिरिति
व्यक्तिरुक्तगुणानां हि पुरुषापेक्षया नृणाम् ।
भवेदभवदित्याद्यः प्रयोगश्चात्र युज्यते (अनुव्याख्यानम्)१,४.७८
न्यायसुधा-
उक्तगुणानां सदादिशब्दोक्त(क्तानां)धर्माणां व्यक्तिः प्रतीतिः ।
नृणामुपदेष्यृपुरुषापेक्षया सृष्टौ सत्यावेव भवेत् हि यस्मा(दस्मा)त्कारणात् ।
अत्र च नित्यगुणे ऽपि ब्रह्मणि सदादिकमभवदितिप्रयोगो युज्यते ।
ततश्चायं श्रुत्यर्थः सम्पद्यते ।
तत् ब्रह्म मूर्तामूर्तात्मकं विश्वं सृष्ट्वा तत्प्रेरकत्वेन नानारूपैस्तदेव विश्वं प्रविश्य प्राक् सृष्टेरुपदेष्यॄणामुपदेश्यानां च
शरीरेन्द्रियवतामभावादप्रतीतगुणकं सत् अथेदानीमुपदेष्यॄणामुपदेश्यानां च शणीरेन्द्रियवत्त्वे सति प्रतीतसत्त्वादिगुणमभवदिति ।
तदनेन पारमेश्वरी सृष्टिर्योग्यानां स्वगुणज्ञानार्थेत्युक्तं भवति ।
यथोक्तम् ।
‘सो ऽयं विहार इह मे तनुभृत्स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः’ इति ।
४,३८७
ब्रह्मपरिणामनिराकरणमुपसंहरति तस्मादिति
तस्मादशेषकर्तैको निर्विकारो रमापतिः (अनुव्याख्यानम्)१,४.७९अब्
न्यायसुधा-
निर्विकार एवाशेषकर्तेति सम्बन्धः ।
द्विभागं ब्रह्मेति यन्निराकृतं तस्योपसंहार एक इति ।
परिणामानुपपत्तावुक्तयुक्तेरनुवादो वा ।
अतो न ब्रह्मोपादानत्वं प्रकृत्यधिकरणार्थ इति (सम्बन्धः) शेषः ।
कस्तर्हि तदर्थ इत्यत आह शब्दैरिति
शब्दैः प्रकृतिरित्याद्यैः स्त्रीलिङ्गैरभिधीयते (अनुव्याख्यानम्)१,४.७९च्द्
न्यायसुधा-
इत्यर्थोस्येति शेषः ।
अनेनापव्याख्याननिराकरणस्य स्वव्याख्यानदार्ढ्यार्थत्वात् नासङ्गतिरित्यपि सूचितम् ।
४,३८८
ननु वक्तव्यार्थस्यावशिष्टत्वात्कथमुपसंहारः क्रियते ।
तथाहि ।
प्रतिज्ञादृष्टान्तानुपरोधादित्युक्तं तावद्दूषणीयम् ।
सत्यम् ।
विवर्तनिराकरणेन निराकरिष्यते ।
तर्ह्यभिध्योपदेशाच्चेत्यत्रोक्तं’बहु स्यां प्रजायेय’ इति वाक्यं दूषणीयमिति चेन्न ।
अस्यापि सच्च त्यच्च’ इति वाक्यव्याख्यानन्यायेनैव व्याख्यातत्वादित्याह बहु स्यामिति
बहु स्यामिति तस्यैव ह्युक्तमार्गेण युज्यते (अनुव्याख्यानम्)१,४.८०अब्
न्यायसुधा-
तस्यैव निर्विकारस्यैव ।
उक्तमार्गेणेत्यस्य (एव)विवरणं तत्तद्गतेन रूपेणेति
तत्तद्गतेन रूपेण … (अनुव्याख्यानम्)१,४.८०च्
न्यायसुधा-
तत्तदनन्तपदार्थप्रेरकानन्तरूपैर्बहु स्यामिति सो ऽकामयतेत्यस्याः श्रुतेरर्थ इत्यर्थः ।
एवं तर्हि’स इदं सर्वमसृजत’ इत्युत्तरवाक्यमसङ्गतं स्यात् ।
न ह्यन्यार्थं सङ्कल्पमभिधायान्यक्रियाभिधानं सङ्गच्छते ।
नहीश्वरो ऽस्वतन्त्रो ऽसत्यकामो वेत्यत आह तदर्थमिति
… तदर्थं ह्यसृजज्जगत् (अनुव्याख्यानम्)१,४.८०द्
४,३८९
न्यायसुधा-
तत्तत्पदार्थनियामकबहुस्वरूपत्वकामनानन्तरं नियम्यापेक्षत्वात् नियामकत्वस्य, तदर्थं नियामकबहुस्वरूपत्वार्थं, नियम्यं जगत्तावदसृजत्,
ततो नियामकबहुस्वरूपो भूत्वा, तदेवानुप्राविशदिति, वाक्ययोजनोपपत्तेः कात्रासङ्गतिरित्यर्थः ।
अनेनैव’तदात्मानं स्वयमकुरुतेति’ श्रुतिर्व्याख्याता वेदितव्या ।
न ह्यत्रात्मानं प्रपञ्चात्मनाकुरुतेति श्रूयते ।
उभयाम्नानं च ऊर्णनाभिदृष्टान्ताक्त्यैव निरस्तम् ।
नह्यूर्णनाभेरुत्पद्यमानस्य, तस्मिन्नेव लीयमानस्य च, तन्तोरूर्णनाभिरुपादानम् ।
किन्तु तदुपभुक्तमन्नमेवेत्युक्तम् ।
योनिश्चेत्येतत्प्रागेव निरस्तमिति युक्त एवोपसंहार इति ।
४,३९०
अपव्याख्यानानन्तरं दूषयितुमनुवदति यच्चेति
४,३९१
यच्चाविकृतमेवैतद् ब्रह्म विश्वात्मना मृषा ।
दृश्यते मन्ददृष्टयैव स सर्ग इति कथ्यते (अनुव्याख्यानम्)१,४.८१
न्यायसुधा-
ब्रह्म विश्वात्मना दृश्यत इति यत्, स सर्ग इति कथ्यत इत्येतावत्परिणामवादे ऽपि समम् ।
अत उक्तमविकृतमेवेति ।
अविकृतत्वं कुत इत्यत उक्तमेकमिति ।
अद्वितीयम् ।
निरवयवं चेत्यर्थः ।
तथाहि ।
किं ब्रह्मणः स्वत एव विश्वाकारपरिणामः ।
किं वा परतः ।
नाद्यः, क्वाप्यदर्शनात् ।
यदपि क्षीरवद्धीत्युदाहृतम् ।
तत् कालादेर्विद्यमानत्वादयुक्तम् ।
स्वेच्छयैवेति चेन्न ।
प्रयोजनाभावात् ।
स्वभावो ऽयमिति चेन्न ।
प्रेक्षावत्त्वहानेः ।
न द्वितीयः ।
अद्वितीयत्वात् ।
नच निरवयवं क्वापि परिणतं दृष्टम् ।
आकाशं संयोगादिमदुपलब्धमिति चेन्न ।
द्रव्याकारणपरिणामस्य प्रकृतत्वात् ।
परमाण्वादयस्तु स्वरूपेणैव न सिद्धा इति ।
४,३९४
अविकृतमेवान्यदन्यात्मना दृश्यत इत्यसम्भवि इत्यत उक्तम् मृषेति
मृषाशब्देन विश्वस्य ब्रह्मतादात्म्यस्य तद्दर्शनस्य चानिर्वचनीयतोच्यते ।
यथा रज्जुरविकृतैव मृषा भुजङ्गाद्याकारेणाभासते तथैवेति ।
तर्हि विश्वोपादानमन्यद्वक्तव्यमित्यत उक्तं मन्ददृष्टयैवेति ।
मन्दा भवति दृष्टिर्यया सा मन्ददृष्टिस्तया माययेत्यर्थः ।
अथवासम्भवपरिहारार्थमुक्तं मन्ददृष्टयैवेति ।
मन्दा चासौ दृष्टिश्च मन्ददृष्टिर्भ्रान्तिस्तयेत्यर्थः ।
भ्रान्तेरपि याथार्थ्याद्विश्व(स्य)सत्यतापत्तिरित्यत उक्तम् मृषेति
तदेतन्मिथ्याप्रपञ्चारोपाधिष्ठानत्वमेव ब्रह्मणः प्रकृतिश्चेत्यादिना कथ्यत इति ।
४,३९९
एतदुक्तं भवति ।
प्रकृतिश्चेत्यादिसूत्रैरुक्तरीत्या ब्रह्मणो जगदुपादानत्वमुच्यते ।
उपादानत्वं च न परिणामितया ।
अपि तर्हि अविद्यापरिणाममृषाविश्वभ्रमाधिष्ठानत्वेनैव ।
अतो नोक्तदोष इति ।
४,४००
दूषयितुमुपक्रमते कथ्यत इति
यद् ब्रह्म विवर्तवादिना कथ्यते, तस्य दूषणं कथ्यत, इत्यावृत्त्या योजनीयम् ।
तच्च नेति नञनुवृत्तिर्वा कर्तव्या ।
कुतो नेत्यतो विकल्पेन पृच्छति सेति
सा मन्ददृष्टिस्तस्यैव ब्रह्मणः किं ततो ऽन्यगा (अनुव्याख्यानम्)१,४.८२अब्
न्यायसुधा-
विश्वस्य ब्रह्मविवर्तत्वे निराकर्तव्ये मन्ददृष्टयाश्रयप्रश्नो ऽनुपपन्न इत्यत उक्तम् सेति
एकस्य तच्वाप्रच्युतस्य पूवर्विपरीतासत्यानेकरूपावभासलक्षणविवर्ततया, तदुपादानतया, चोक्तेत्यर्थः ।
मन्ददृष्टावाश्रयानिरूपणादिना निराकृतायां सर्वमिदं निराकृतं भवतीति भावः ।
तस्यैव, यदवष्टम्भो विश्वो विवर्त, इत्यर्थः ।
ततो ऽन्यगा जीवगतेत्यर्थः ।
किंशब्दस्योभयतः सम्बन्धः ।
४,४०२
मायावादिनो हि केचित् ब्रह्मैव स्वाविद्यया जगदाकारेण विवर्तते स्वप्नादिवदिति मन्यन्ते ।
बिम्बस्थानीयं ब्रह्म मायाशक्तिमत् कारणं, जीवाश्च प्रत्येकमविद्यानुबद्धाः, इत्यपरे ।
मायाविद्याप्रतिबिम्बितं ब्रह्म जगत्कारणम्, विरुद्धं च ब्रह्माभूतत्वालम्बनं जीवाश्चाविद्यानुबद्धा इत्यन्ये ।
जीवा एव स्वाविद्यया प्रत्येकं प्रपञ्चाकारेण ब्रह्म विभ्राम्यन्ति, सादृश्याच्च प्रपञ्चैकतावभासः अनेकावगतद्वितीयचन्द्रवत्, स्वरूपापेक्षया च
ब्रह्म जगत्कारणमित्येके ।
तत्रावान्तरभेदमविवक्षित्वा द्वेधैव विकल्पितम् ।
इह जीवगेत्यनुक्त्वा ततो ऽन्यगेति वदता स जीवः किं ब्रह्मणो ऽन्यो(ऽनन्यो वा) न वा इत्यपि विकल्पः सूचितः ।
तत्र द्वितीयः प्रथमे प्रविशतीति तं दूषयति ब्रह्मणश्चेदिति
ब्रह्मणश्चेत् क्व सार्वज्ञ्यम् … (अनुव्याख्यानम्)१,४.८२च्
४,४०३
न्यायसुधा-
यदि ब्रह्मणो वि(श्व)भ्रमस्तदा भ्रमस्य विशेषाज्ञानपूर्वकत्वात्तदपि ब्रह्मणो ऽङ्गीकरणीयम् ।
तथाच तस्य सार्वज्ञ्यं न स्यात् ।
यदि च न ब्रह्मणि सार्वज्ञ्यं, तर्हि क्व तत्स्यात् ।
न तावज्जीवे, अनुभवविरोधात् ।
नापि जडे, ज्ञानमात्रासम्भवात् ।
तथाच’यः सर्वज्ञः’ इत्यादिश्रुतिवैयर्थ्यं स्यात् ।
ननु सार्वज्ञ्यमपि ब्रह्मणो भ्रान्त्यैवेति चेन्न ।
यादृशतादृशस्यापि विशेषज्ञानविरोधित्वात् ।
अन्यथा शुक्तिज्ञानवतो ऽपि तदज्ञानं न विरुद्धयतेति भ्रमानुच्छेदप्रसङ्गः ।
उपलक्षणं चैतत् ।
ब्रह्मणो विशेषाभावात्तदनवभासनिमित्तो भ्रमो नोपपद्यते ।
स्वरूपं तु स्वप्रकाशतया सिद्धम् ।
असिद्धत्वे वा(च) सुतरां विभ्रमानुपपत्तिः ।
अधिष्ठानानुपलम्भादित्यपि द्रष्टव्यम् ।
द्वितीयस्याद्यं दूषयति अन्यगा चेदिति
… अन्यगा चेत् स्वतो ऽन्यता (अनुव्याख्यानम्)१,४.८२द्
न्यायसुधा-
यदि ब्रह्मव्यतिरिक्तजीवाश्रया विश्वभ्रान्तिरङ्गीक्रियते तदा भ्रान्त्याश्रयस्य भ्रान्तिकल्पितत्वायोगात् जीवब्रह्मणोरन्यता स्वाभाविकीत्यापन्नम् ।
ततश्चापसिद्धान्त इति ।
४,४०८
नन्वस्तु जीवब्रह्मभेदो वास्तवः ।
अनात्मप्रपञ्चो ऽस्तु भ्रान्तिकल्पितो ब्रह्मणीत्यत आह नेति
नादेहयोगिनो दृष्टिरिति तत् कारणं स्वतः (अनुव्याख्यानम्)१,४.८३अब्
न्यायसुधा-
यद्यपि नैवं मायावादिनो मन्यन्ते ।
तथापि सूत्रार्थनिराकरणाय प्रवृत्तस्य तत्रैवानुपपत्तिव्युत्पादनं श्लाघ्यमित्यारम्भः ।
न केवलं ब्रह्मव्यतिरिक्तानां जीवानामकल्पितत्वम् ।
किन्तु देहयोगरहितस्येन्द्रियाभावातत्पदार्थदर्शनं न सम्भवतीत्यतो हेतोः आरोपकारणमिन्द्रियं तदाश्रयो देहश्च कल्पनां
विनैवास्तीत्यङ्गीकरणीयम् ।
नहि सुखादिवद्रजतादिवद्वास्य प्रपञ्चस्य साक्षिमात्रसिद्धत्वं परो मन्यते देहेन्द्रियाणामप्युत्पत्तिमत्वात् ।
तत्कारणं च स्वत इत्यङ्गीकरणीयम् ।
४,४१०
अस्तु ब्रह्मव्यतिरिक्तानां जीवानां सकारणानां तदीयदेहेन्द्रियाणां चाभ्रान्तिकल्पितत्वम् ।
द्रष्टृत्वेन दर्शनकरणत्वेन तदाश्रयत्वेन तत्कारणत्वेन च भ्रान्तेः पूर्वभावित्वात् ।
तदतिरिक्तास्तु प्रपञ्चो ऽस्तु भ्रान्तिकल्पित इत्यत आह देहिन इति
देहिनः कारणयुता देहाश्च यदि न भ्रमात् (अनुव्याख्यानम्)१,४.८३च्द्
किं भ्रान्तिकल्पितं तत्र … (अनुव्याख्यानम्)१,४.८४अ
न्यायसुधा-
कारणशब्देन ज्ञानकारणानामिन्द्रियाणां देहेन्द्रियकारणानां च ग्रहणम् ।
सिद्धा इति शेषः ।
किं आक्षेपे ।
तत्र तर्हि प्रपञ्चे ब्रह्मणीति वा ।
अनन्तजीवसकारणदेहेन्द्रियातिरिक्तस्य प्रपञ्चस्याभावात् ।
विषयाणामपि देहेन्द्रियनिर्वाहार्थत्वादिति भावः ।
तथाच न केवलमपसिद्धान्तः ।
प्रकृतिश्चेत्यादिसूत्राणां निर्विषयत्वापत्तिश्च स्यादिति शेषः ।
४,४११
ननु अन्यगा चेत्स्वतो ऽन्यता इत्युक्तम् ।
जीवब्रह्मभेदस्यापि भ्रान्तिसिद्धत्वात् ।
भ्रान्त्या ब्रह्मणो भिन्नस्य बाह्याध्यात्मिकार्थभ्रम इति हि मन्यत इत्यत आह भेदो ऽपीति
… भेदो ऽपि भ्रमजो यदि (अनुव्याख्यानम्)१,४.८४ब्
न्यायसुधा-
न केवलं प्रपञ्चः, किन्तु जीवब्रह्मणोर्भेदो ऽपि यदि भ्रमजो भ्रमसिद्धः अङ्गीक्रियते ।
तदा अन्योन्याश्रयता स्यादिति सम्बन्धः ।
अत्रान्योन्याश्रयताशब्देन चक्रकमुच्यते तस्यापि बहुष्वन्योन्याश्रयत्वात् ।
कथमन्योन्याश्रयता इत्यत उक्तम् भ्रान्तेरिति
भ्रान्तेरज्ञानमूलत्वात् तस्य भेदव्यपेक्षया (अनुव्याख्यानम्)१,४.८४च्द्
न्यायसुधा-
भ्रान्तेर्जीवब्रह्मभेदहेतोर्भावरूपाज्ञानकारणत्वात् ।
तस्याज्ञानस्य च भेदसापेक्षत्वात् ।
अज्ञानमनादित्वात्कथं भेदव्यपेक्षया स्यादित्यत उक्तम् नाज्ञानेति
नाज्ञानकल्पकं किञ्चिदन्योन्याश्रयता यतः (अनुव्याख्यानम्)१,४.८५अब्
न्यायसुधा-
यतो ब्रह्मव्यतिरिक्तजीवादृते नाज्ञानकल्पकं किञ्चिदस्ति ।
४,४१२
एतदुक्तं भवति ।
जीवब्रह्म(णोः)भेदो यया भ्रान्त्या सिद्धः, सा तावदज्ञानापेक्षा ।
भ्रान्तेः स्वरूपतो विषयश्चाज्ञानकार्यत्वाङ्गीकारात् ।
यद्यपि भेदविषया भ्रान्तिः साक्षिचैतन्यम् ।
तथापि तस्यासङ्गस्यारोपितार्थसंसृष्टरूपं(पता) नाज्ञानेन विनोत्पद्यते ।
तच्चाज्ञानं भेदसापेक्षम् ।
अनादित्वे ऽपि भ्रान्तिकल्पितत्वस्याङ्गीकृतत्वात् ।
अन्यथा सत्यतापातात् ।
भ्रान्तेः (च) जीवाश्रितत्वस्याङ्गीकृतत्वात् ।
भेदकल्पनया विना च जीवस्याभावात् ।
न चाविद्यारोपो ब्रह्मण्येवेति युक्तम् ।
सर्वस्यापि तदाश्रयत्वोपपत्तौ अर्धजरतीयानुपपत्तेः ।
अतो भ्रमज्ञानजीवभेदानामन्यसापेक्षत्वाच्चक्रकमिति ।
अथवा भेदस्य भ्रान्तिकल्पितत्वे भ्रान्तेश्च भेदसापेक्षत्वादन्योन्याश्रयत्वमनेनोक्तम् ।
व्युत्पादनार्थमेवाज्ञानं मध्ये निवेशितमिति द्रष्टव्यम् ।
अनेन जीवाज्ञानवादो(पक्षो)ऽपि निरस्तः ।
इतरेतराश्रयादिदोषसाम्यात् ।
बीजाङ्कुरवददोष इति चेन्न ।
वैषम्यात् ।
व्यक्तिभेदेन हि तत्रादोषत्वम् ।
नच जीवाविद्यव्यक्तिभेदो ऽस्तीति ।
४,४१५
यदुक्तं नादेहयोगिन इत्यादि तदनुपपन्नम् ।
देहादेरपि भ्रान्तिकल्पितत्वात् ।
नच तत्र कारणाभावः पूर्वदेहादेर्विद्यमानत्वात् ।
नचैवमनवस्था, अनादित्वादिति ।
मैवम् ।
आदिसर्गे देहादिदर्शनानुपपत्तेः ।
न ह्ययं साक्षिमात्रसिद्धो ऽर्थ इत्युक्तम् ।
किञ्च स्यादयमनवस्थापरिहारः, यदि पूर्वपूर्वतरादिदेहादेरपि भ्रान्तिसिद्धत्वं प्रमितं स्यात् ।
अन्यथैवं, सर्वत्रानवस्थापरिहारः प्रसज्येत ।
नचात्र प्रमाणं अस्ति ।
ननु कथं नास्ति,’नेह नाना’ इत्यादिश्रुतेर्विद्यमानत्वादिति एतदाह(इत्यत आह) भ्रमत्वे त्विति
भ्रमत्वे त्वियमुक्तिश्च तदन्तःपतनान्नहि (अनुव्याख्यानम्)१,४.८५च्द्
४,४१६
न्यायसुधा-
यद्वा सर्वो ऽप्ययं प्रसङ्गो विपर्ययपयर्वसानहीनत्वादाभास एव ।
नेह नानेत्यादिश्रुत्या सर्वस्यापि वियदादेः प्रपञ्चस्य भ्रान्तिकल्पितत्वाभिधानात् इत्याशङ्कयेदमुदितम् ।
उपपत्त्यविरुद्धो हि वेदार्थो ग्राह्यः ।
अन्यथा अन्धो मणिमविन्दत् इत्यादेरपि ग्रहणप्रसङ्गात् ।
विचारशास्नानारम्भप्रसङ्गाच्च ।
नेह नानेत्यादिवाक्यं चोपपत्तिविरुद्धम् ।
तथाहि ।
यदि वियदादिकं सर्वं भ्रमसिद्धं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् ।
भ्रमारोपितं वियदादिकं सर्वं भ्रमसिद्धं स्यात् तदा तदन्तःपातित्वादियं श्रुतिश्च तथा स्यात् ।
भ्रमारोपितं चासदिति श्रुतेरप्यसत्त्वान्नार्थधीहेतुत्वमिति ।
भ्रमशब्दः ज्ञाने अर्थे च परेषां प्रसिद्ध इति भ्रमत्व इत्युक्तम् ।
यद्यप्ययमर्थः प्रथमसूत्रे वर्णितः तथापि तत्राध्यात्मिकः प्रसङ्गः (प्रपञ्चो) अत्र तु बाह्यषवषय इति भेदः ।
अधिकविवक्षया चोक्तस्य पुनरुक्तिरिति ।
४,४१९
ननु सर्वो ऽप्ययं प्रपञ्चो भ्रान्तिसिद्धो ऽपि व्यावहारिको भवत्येव ।
अतस्तदन्तःपतिता श्रुतिरपि व्यावहारिकत्वादर्थहेतुर्भविष्यतीत्यत आह व्यावहारिकतेति
व्यावहारिकता चास्य स्यादबाध्यत्व एव हि (अनुव्याख्यानम्)१,४.८६अब्
न्यायसुधा-
चस्त्वर्थः ।
स्यादप्येवं यदि प्रपञ्चस्य व्यावहारिकता तावत् (तव) शक्याङ्गीकारा स्यात् ।
न चैवम् ।
यतो ऽस्य प्रपञ्चस्य व्यावहारिकता तु अबाध्यत्व एव स्यात् ।
एतदुक्तं भवति ।
यदि प्रपञ्चो व्यावहारिको ऽङ्गीक्रियेत, तर्ह्यबाध्यो ऽप्यङ्गीकर्तव्यः प्रसज्येत ।
नच तथाङ्गीक्रियते भवता ।
अतो न व्यावहारिकाप्यङ्गीकर्तुमुचित इति ।
सत्यत्वाङ्गीकारापादने त्विष्यापादनं स्यात् ।
परेणापि कथञ्चित्सत्यत्वस्याप्यङ्गीकृतत्वात् ।
अतो ऽबाध्यत्व एवेत्युक्तम् ।
ननु शक्तिरजतादेर्बाध्यस्याप्यभिज्ञाभिवदनरूपव्यवहारविषयत्वाद्वयाप्तिहीनो ऽयं तर्क इत्यत आह बाध्यमिति
बाध्यं नार्थक्रियाकारि … (अनुव्याख्यानम्)१,४.८६च्
४,४२०
न्यायसुधा-
सत्यं बाध्यं शुक्तिरजतादिकम्, अभिज्ञादिकं व्यवहारविषय इति ।
तथाप्यर्थक्रियाकारि न भवति ।
नहि तेन रजतोचिता वलयनिर्माणाद्यर्थक्रियाजायमाना दृष्टा ।
अर्थक्रियाकारित्वलक्षणमेव व्यावहारिकत्वमिह प्रकृतम् ।
नाभिज्ञादिविषयत्वम् ।
श्रुतेरर्थधीजनकत्वोपन्यस्तत्वात् ।
अतो न तर्कस्याङ्गवैकल्यमिति ।
ननु बाध्यत्वं शुक्तिकाद्यधिष्ठानस्य धर्मः ।
‘विज्ञातस्यान्यथा’ इत्युक्तत्वात् ।
शुक्तिकादिकं चार्थक्रियाकारीति कथमुच्यते बाध्यं नार्थक्रियाकारीति ।
मैवम् ।
निषेध्यत्वलक्षणबाध्यत्वस्य पराभ्युपगतस्यात्राश्रयणात् ।
४,४२१
ननु तथाप्यसत्यस्य स्वाप्नकामिनीसम्भोगादेः चरमधातुविसर्गाद्यर्थक्रियाकारित्वदर्शनात् व्याप्तिविकलस्तर्क इत्यत आह न चेति
… नच स्वप्नो ऽपि नो मृषा (अनुव्याख्यानम्)१,४.८६द्
न्यायसुधा-
स्वप्न इति स्वप्नावस्थोपलब्धो ऽर्थः ।
नो ऽस्माकं बादरायणीयानां मते ।
तर्हि मम मतेन व्याप्तिभङ्गो ऽस्तु मया मृषात्वेनाङ्गीकृतत्वात् इति चेन्न, बादरायणीयेन तथाङ्गीकर्तुमशक्यत्वात् ।
ननु कथं बादरायणस्य न मृषा स्वप्न इत्यत आह वासनेति
वासनाजनितत्वेन तस्याप्यङ्गीकृतत्वतः (अनुव्याख्यानम्)१,४.८७अब्
न्यायसुधा-
तस्य स्वप्नस्यापि मायामात्रमिति वदता सूत्रकारेण वासनाजनितत्वेनाङ्गीकृतत्वात् इदं ज्ञायते, यत् न तस्य स्वप्नो मृषाभिमत इति ।
नहि कश्चिदविद्यमानस्य कारणं निरूपयेत् ।
किञ्च श्रुत्यनुसारी हि सूत्रकारस्य सिद्धान्तः स्यात् ।
श्रुत्या च स्वाप्नार्थस्य कर्तारं वदन्त्या सत्यत्वमेवाभिप्रेतमिति न मृषात्वं सूत्रकृतो ऽभिमतमित्याह स हीति
४,४२२
स हि कर्तेति वाक्याच्च … (अनुव्याख्यानम्)१,४.८७च्
न्यायसुधा-
ननु कथं स्वप्नो न मृषा ।
‘मायामात्रम्’ इति सूत्रकृतैव तन्मिथ्यात्वस्य वक्ष्यमाणत्वादित्यतो वाह वासनेति
न मायामात्रपदेन स्वप्नस्य मृषात्वमभिमतम्, किन्तु वासनाजनितत्वम्, अतो न मृषेत्यर्थः ।
यथा चैतत्तथा उपपादयिष्यते ।
तस्यागामिनः सूत्रस्य वासनाजनितत्वप्रतिपादकत्वेन अस्माभिरङ्गीकृतत्वादिति वा योज्यम् ।
न केवलं वक्ष्यमाणोपपत्तिवशात् मृषात्वं न सूत्रार्थः ।
किन्तु श्रुतिवशाच्चेत्याह स हीति
४,४२३
यद्वा स्वाप्नार्थो न तावदनादिनित्यः, पश्चात् अदृष्टयादिविरोधात् ।
नापि सादिविनाशी, उपादाननिमित्तयोरनिरूपणात् ।
नच प्रकारान्तरं सम्भवति ।
तत्कथं न मृषेत्यत आह वासनेति
नोपादानाभाव इति शेषः ।
‘न मृषा’ इति पूर्वेण वा सम्बन्धः ।
एवम् उपादानं निरूप्य निमित्तमुपपादयति सहीति
निमित्तं चेश्वरो ज्ञायते, इति शेषः ।
‘न मृषा’ इति पूर्वेणैव वा अन्वयः ।
४,४२४
ननु कथं तर्हि’स्वप्नमायासरूपा’ इत्यादौ स्वप्नस्य भ्रान्तित्वोक्तिरित्यत आह जाग्रत्वमिति
… जाग्रत्त्वमिति हि भ्रमः (अनुव्याख्यानम्)१,४.८७द्
न्यायसुधा-
इतिशब्द आद्यर्थे, उल्लेखार्थे वा ।
जाग्रदहमस्मीति द्रष्टुर्यज्जाग्रत्त्वं, यच्चैतत्पदार्थानां जाग्र(द्दृशा दृशादृष्टपदार्थैः ऐक्यं, बाह्यमृदादिजन्यत्वं वा, एवमादिप्रतिभासो भ्रमः ।
बाध्यत्वादिति हिशब्दार्थः ।
तदपेक्षया श्रुत्यादिवचनानीति भावः ।
४,४२५
ननु च रज्जौ सर्पभ्रमे, असत्यस्यापि सर्पस्य सर्पोचितभयकम्पाद्यर्थक्रियाकारित्वं दृश्यते, तथा सर्पे समारोपितायाः कुसुममालायाः
सन्तोषकारिता उपलभ्यते, अतो व्याप्तिभङ्गस्तर्कस्येत्यत आह सर्पेति
सर्पभ्रमादावपि हि ज्ञानमस्त्येव तादृशम् (अनुव्याख्यानम्)१,४.८८अब्
न्यायसुधा-
‘ना भूदत्र सर्पः’ इतिवत्’न सर्पज्ञानमभूत्’ इति बाधकानुदयात् ।
अभूदेवेत्यनुवृत्तेश्च ।
भ्रमत्वस्य विषयवैपरीत्यमात्रेणोपपत्तेरिति हिशब्दार्थः ।
कि(मतो)न्ततो यदि ज्ञानमस्त्येवेत्यत आह तदेवेति
तदेवार्थक्रियाकारि … (अनुव्याख्यानम्)१,४.८८च्
न्यायसुधा-
एवशब्देन सर्पादिकं व्यावतर्यति ।
सत्यपि सर्पादौ असति च ज्ञाने, भयकम्पाद्यनुत्पत्तेः ।
सति च (तस्मिन्) तदुत्पत्तेर्ज्ञानकार्यमेव भयकम्पादिकं न सर्पकार्यम् ।
तत्कार्यं तु अभिसर्पणदंशनादिकम् ।
मरणमपि धातुव्याकुलतानिमित्तकम् ।
सा च विषद्रव्येणेव भयादिनापि भवतीति न बाध्यस्य(स्यापि) सर्पादेरर्थक्रियाकारित्वम् ।
४,४२७
ननु किं ज्ञानमात्रं भयादिजनकं किंवा विषयावच्छिन्नम् ।
नाद्यः ।
घटज्ञानस्यापि ज्ञानत्वेन तदापत्तेः ।
द्वितीये न तावद्विषयो रज्ज्वादिः ।
रज्जुरियमित्यादि ज्ञानस्यापि भयादिहेतुतापातात् ।
सर्पादिश्चेद्विशेषणतया तस्यापि भयादिहेतुत्वं प्राप्तम् ।
४,४२८
अत्र कश्चिदाह ।
नायं दोषः, ज्ञानव्यावर्तकतयोपयुक्तस्य सर्पादेर्विषयस्य ज्ञानजन्यार्थक्रियायामप्रवेशात् ।
नहि कुरूणां क्षेत्रे वसति, गुरूणां टीकां पठति इत्यादौ विशेषणस्यापि कारकत्वमस्ति ।
किन्त्वतिप्रसक्तयोः क्षेत्रटीकयोर्व्यावृत्तिमात्रेण चरितार्थत्वमिति ।
तदसत् ।
एवमपि बाध्यस्य सर्पादेर्व्यावर्तकत्वस्यावश्याभ्युपगमनीयत्वात् ।
व्यावृत्तिबुद्धिजनकत्वं हि व्यावर्तकत्वम् ।
तत्रापि ज्ञानाभ्युपगमेन परिहारे व्यावर्तकोपादानेन प्रसङ्गतादवस्थ्यमिति ।
तत्राह तादृशमिति
यादृशं सत्यसर्पोल्लेखि ज्ञानं, तादृशमित्यर्थः ।
सत्यसर्पज्ञानं तावद्घटादिज्ञानाद्वयावृत्तमनुभूयते ।
व्यावृत्तिश्च व्यावर्तक(धर्म)योगकृता सर्वत्रोपलब्धा ।
नच विषयो व्यावर्तकः, तस्यातद्धर्मत्वात् ।
सम्बद्धं हि व्यावर्तकं भवति ।
अन्यथातिप्रसङ्गात् ।
विषयसम्बन्धो व्यावर्तको ऽस्त्विति चेन्न ।
तस्य संयोगादिरूपस्याभावात् ।
अतः कश्चिज्ज्ञानगत एव धर्मो ऽभ्युपगन्तव्यः ।
किञ्च विलक्षणसमाग्रीजन्मनोर्ज्ञानयोर्यथा परोक्षत्वापरोक्षत्वरूपो विशेषः विषयोपाधिना विनाभ्युपगम्यते, एवमपरोक्षज्ञाने ऽपि कथं स्वगतो
विशेषो नाङ्गीकरणीयः ।
अपि च सर्पज्ञानस्य विलक्षणार्थक्रिया न स्वगतेनातिशयेन विनोपपद्यते ।
नहि
देवदत्तसम्बन्धितामात्रेण कलमबीजं कलमबीजान्तरकार्यविलक्षणं कार्यमुपजनयति ।
स चायं विशेषः सत्यसर्पज्ञाने समीचीनया सामग्षा जातः, मिथ्यासर्पज्ञाने त्वसमीचीनया इति न कश्चिद्विशेषः ।
अतो विषयान्तर्भावमन्तरेण स्वगतेनैव विशेषेण सर्पादिज्ञानस्य भयादिजनकत्वान्न सर्पस्य किञ्चित्करत्वमिति ।
तदेवं यत्राथर्क्रिया निश्चिता न तत्र मिथ्यात्वम्, यत्र तु मिथ्यात्वं न तत्रार्थक्रियेति न तर्कमूलव्याप्तेः क्वापि भङ्गः, इत्युपसंहरति तदिति
व्यास(५)
… तत् सदेवार्थकारकम् (अनुव्याख्यानम्)१,४.८८द्
४,४३३
न्यायसुधा-
नन्वर्थक्रियाकारित्वं यथा विपक्षान्मिथ्याभूताद्वयावृत्तम् एवं सपक्षाद्ब्रह्मणो ऽपि व्यावृत्तत्वादसाधारणम् ।
नच ज्ञानस्य सत्यस्यार्थक्रियोक्तेति वाच्यम्, तस्यापि प्रपञ्चान्तर्भावेन विप्रतिपन्नत्वादित्यत आह ब्रह्म त्विति
ब्रह्म त्वर्थक्रियाकारि परतः स्वत एव वा ।
अङ्गीकृतं हि तेनैव … (अनुव्याख्यानम्)१,४.८९अच्
न्यायसुधा-
तेन मायावादिनैव ब्रह्म प्रपञ्चादप्यतिशयेनार्थक्रियाकार्यमङ्गीकृतमेव हि जन्मादिसूत्रे जगत्कारणत्वेनोक्तत्वात् ।
अतः सपक्षप्रवेशित्वान्नासाधारण्यं मन्तव्यम् ।
ननु मयाङ्गीक्रियमाणं ब्रह्मणो ऽर्थक्रियाकारित्वं च न स्वाभाविकम् ।
किन्तु परत एव ।
मायायां तदाप(यत्तमि)तत इत्यङ्गीकारात् ।
अतः कथमापादकस्य सपक्षप्रवेश इत्यत आह परत इति
अङ्गीकृतं तावदर्थक्रियाकारित्वं ब्रह्मणः, तत्स्वतः परतो वास्तु किमनेन प्रकृतानुपयुक्तेन ।
नहि स्वतो ऽर्थक्रियाकारित्वमापादकत्वेनास्माभिरभिहितम्, परेण वा प्रस्तावितम् ।
अन्यथा सामान्यतः प्रयुक्तस्य धूमादेर्विशेषाकारेण सपक्षाप्रवेशितयासाधारण्य(ण)स्य वक्तुं शक्यत्वेन तद्भङ्गः स्यात् ।
४,४३५
स्यादेतत् ।
ब्रह्मणोऽर्थक्रियाकारित्वं परत इत्यस्य नायमर्थः दारुयन्त्रस्येव पराधीनम् इति, नापि कुलालस्येव प्रयोजनाद्यपेक्षमिति; किन्तु गगने मलिनतेव
निष्क्रिया एव ब्रह्मणि मायासम्बन्धादर्थक्रिया(दि) अवभासत इति ।
न चैवंविधेन सपक्षप्रवेशो भवत्यापादकस्येत्यत आह परतस्त्व इति ।
… परतस्त्वे नच प्रमा (अनुव्याख्यानम्)१,४.८९द्
न्यायसुधा-
ब्रह्मणोऽर्थक्रियाकारित्वस्येति शेषः ।
परतस्त्वे निरूपितरूपे ।
प्रमा प्रमाणम् ।
४,४३६
अयमत्राशयः ।
ब्रह्मणो जगन्निर्माणाद्यर्थक्रिया प्रतीता न वा ।
न चेत्कथं लक्षणत्वेनोच्यते ।
कस्य च मायामयत्वमङ्गीक्रियते ।
प्रतीतत्वे ऽपि न तावत्प्रत्यक्षानुमानाभ्याम् ।
तदगोचरत्वात् ।
अतः श्रुत्यैवेति वक्तव्यम् ।
तथाच कथं मायिकत्वम् ।
तत्किं श्रुतिप्रतीतं सर्वमेव सत्यम् ।
अद्धा ।
बाधकाभावे तु तथैव ।
नचैवं ब्रह्मणो ऽर्थक्रियायाः परतस्त्वे प्रमाणमस्ति यद्बाधकं भवेत् ।
बाधकाभावमात्रेण कथं सत्यार्थत्वमिति चेत् ।
प्रामाण्यस्य स्वतस्त्वादिति ब्रूमः ।
परतस्त्वे च प्रामाण्यस्यानवस्थापातेन न प्रमा निश्चीयेत ।
सन्ति’निष्फलं निष्क्रियम्’ इत्यादिश्रुतयो बाधिका इति चेत् ।
एवं श्रुतिबलेन परस्त्वे ऽर्थक्रियायाः स्वीकृते तदभिधात्री’स इदं सर्वमसृजत’ इत्यादिश्रुतिर्न प्रमा स्यात् ।
प्रतिपादितार्थमिथ्यात्वातिरिक्तस्याप्रामाण्यस्याभावात् ।
किञ्चाविशेषात्’निष्कलं निष्क्रियम्’ इति श्रुतिरेतच्छतिविरोधात्परतस्त्वे न प्रमेति किं न स्यात् ।
अन्यदुत्तरत्र वक्ष्याम इति ।
४,४३९
नन्वस्त्वबाध्यमेवार्थक्रियाकारि प्रपञ्चमप्यबाध्यमङ्गीकरोमि ।
आत्यन्तिकाबाध्यत्वाभावे ऽपि प्राग्ब्रह्मात्मैक्यज्ञानादबाध्यत्वात् ।
अतस्तदन्तर्गता श्रुतिरप्यमुख्यसत्यत्वात्साधिका भविष्यतीत्यत आह अमुख्येति
अमुख्यसत्यमानस्य साधकत्वे सदाऽवयोः ।
न हि सम्प्रतिपत्तिः स्यादतस्तिष्ठतु सा प्रमा (अनुव्याख्यानम्)१,४.९०
न्यायसुधा-
सदा इत्य(नेन)स्य प्रमेयस्य प्रागेवोपपादितत्वमित्याचष्टे ।
ततश्च पुनरुक्तिदोषः परिहृतो भवति ।
तिष्ठतु न वक्तव्येति यावत् ।
सा प्रमा ब्रह्मज्ञानबाध्यं प्रमाणमित्यर्थः ।
यस्मात्सा श्रुतिरप्रमा तस्मात्तिष्ठत्विति वा ।
प्रपञ्चमिथ्यात्वं हि तदथर्ः ।
न चासौ ब्रह्मस्वरूपम् ।
सोपाधिकत्वात् ।
ततो ऽस्य बाध्यत्वमावश्यकम् ।
बाध्यार्थं चाप्रमाणमिति प्रसिद्धमेव ।
बाध्यार्थत्वे ऽपि प्राग्ब्रह्मज्ञानादबाध्यार्थत्वेन प्रामाण्यमस्त्वित्यत उक्तम् अमुख्येति
सत्यमबाध्यार्थम् ।
नहि कालविलम्बेन बाधितार्थं प्रमाणं भवतीति वक्ष्यामः ।
अस्त्वेवं स्वरूपतो विषयतश्चासत्यत्वात्साधकत्वेन विप्रतिपन्ना श्रुतिः, तथापि प्रपञ्चमिथ्यात्वसाधनाय तदुपन्यासः कुतो न कार्यः इत्यत आह न
हीति
न हि विप्रतिपन्नेन शक्यं साधयितुं क्वचित् (अनुव्याख्यानम्)१,४.९१अब्
न्यायसुधा-
तथात्वे स्वरूपासिद्धकालातीतयोरप्युपन्यासः स्यात् ।
आरोपमात्रस्य तत्रापि सुलभत्वादिति भावः ।
४,४४१
स्यादेतत् ।
आस्तामियं प्रमाणसदसत्त्वचिन्ता ।
प्रमाणेनैव प्रमेयसिद्धेः ।
अन्यथा भवतामपि प्रपञ्चमिथ्यात्वनिराकरणे तत्सत्यत्वसाधने च प्रमाणाभावेन कथाभावप्रसङ्गात् ।
युष्माभिरुपन्यस्यमानं प्रमाणं सत्यमसत्यं वा स्यात् ।
न तावत्सत्यं मां प्रति वक्तुमुचितम् मया सत्यस्य साधकत्वानङ्गीकारात्, यत्सत्यं न तत्र क्रियाऽवेशः यत्र च क्रियाऽवेशो न तत्सत्यमिति ।
नच वाच्यं साक्षिणः सत्यस्य साधकत्वं त्वयाङ्गीकृतमिति ।
कथच्चित्सुखादौ तस्य शक्योपन्यासत्वे ऽपि बाह्यप्रपञ्चे तदयोगात् ।
बाह्यप्रमाणविषयो ह्यसौ ।
अन्यथान्धबधिराद्यभावप्रसङ्गात् ।
स एव चात्र प्रकृत इति ।
नाप्यसत्यं भवद्भिरनङ्गीकृतत्वादित्यत आह साधकत्वमिति
४,४४२
साधकत्वं तु सत्यस्य साक्षिणो ह्यावयोर्द्वयोः ।
सम्यक् सम्प्रतिपन्नं तन्न विवतर्ममतं भवेत् (अनुव्याख्यानम्)१,४.९१च्फ़्
न्यायसुधा-
सत्यस्य त्विति सम्बन्धः ।
सम्यगिति मुख्यत एव, न त्वधिकरणसिद्धान्तत्वेन ।
हिशब्दः, सर्वं वस्तु ज्ञाततयाज्ञाततया वा साक्षिचैतन्यस्य विषय एवेत्यादितत्प्रसिद्धिद्योतकः ।
तदित्यव्ययम् ।
तेन साक्षिणा ।
विश्वविवर्तमतं न भवेत् ।
निराकुर्म इति यावत् ।
उपलक्षणं चैतत् ।
विश्वस्य सत्यतामपि तेनैव साधयाम इत्यपि द्रष्टव्यम् ।
तथाच वक्ष्यते ।
४,४४४
न कापि प्रमाणप्रमेयादिव्यवस्था मयाङ्गीकृता ।
किन्तु परकीयरीत्यैव सर्वमुच्यते ।
तत्कथं किमप्यनङ्गीकुर्वाणं मां प्रति साक्षिणः साधकत्वं त्वयाङ्गीकृतमित्युच्यत इत्यत आह यदीति
यदि नाङ्गीकृतं किञ्चिदनङ्गीकृततापि हि ।
नाङ्गीकृतेति मूकः स्यादिति नास्मद्विवादिता (अनुव्याख्यानम्)१,४.९२
न्यायसुधा-
न विद्यते ऽङ्गीकृतमङ्गीकारो यस्येत्यनङ्गीकृतः ।
तस्य भावो ऽनङ्गीकृतता ।
अनङ्गीकारित्वमित्यर्थः ।
इतिशब्दद्वयं हेतौ ।
यदि परो ब्रूयान्मया किञ्चिन्नाङ्गीकृतमिति ।
तदासौ वक्तव्यः ।
सर्वथानङ्गीकृतत्वम् आत्मनस्त्वयाङ्गीकृतं न वा ।
आद्ये(ऽपि) किञ्चिदपि नाङ्गीकृतमिति पक्षहानेः आत्मनो ऽनङ्गीकर्तृतापि नाङ्गीकृतेति द्वितीय एवाङ्गीकरणीयः ।
तथाच असौ मूकः स्यात् ।
अङ्गीकारानङ्गीकारोदासीनस्य मृतकस्येव वाक्यप्रवृत्तेरयुक्तत्वात् ।
तथाच मौनमवलम्बमानस्य नास्मत्प्रतिवादितेति किमत्र वक्तव्यम् ।
सत्यमेतत् ।
वस्तुतस्तु वयं सर्वतो निवृत्ताः स्वतः सिद्धे चिदात्मनि ब्रह्मतत्वे केवले भारमवलम्ब्य चरितार्थाः सुखमास्महे ।
ये तु स्वपरिकल्पितसाधनदूषणादिव्यवस्थया विचारमवतार्य तत्त्वं निर्णेतुमिच्छन्ति तान्प्रति ब्रूमो न साध्वीयं भवतां विचारव्यवस्थेति ।
मैवम् ।
एवमपि परकीयविचारव्यवस्थितेरसाधुत्वस्यावश्यमङ्गीकरणीयत्वात् ।
अन्यथा तद्व्युत्पादनं व्यर्थं स्यात् ।
अथ तन्मात्रमङ्गीकृत्य प्रमाणादिव्यवस्था नाङ्गीकृतेति मन्यसे ।
तन्न ।
प्रमाणादिना विना परव्यवस्थाया असाधुत्वस्य व्युत्पादयितुमशक्यत्वात् ।
भवत्कल्पितव्यवस्थैव व्याहतत्वादसाध्वी भवद्वयवस्थेति ब्रूमो न पुनरत्र किमपि प्रमाणमङ्गीकुर्म इति चेन्न, यत्स्वाभ्युपगतव्यवस्थाविरुद्धं
तदसाध्वित्यस्यापि प्रमाणस्याङ्गीकर्तव्यत्वात् ।
एतदपि परेणाभ्युपगतमेवाश्रीयत इति चेत् न ।
किं परकीयव्यवस्थाया असाधुत्वस्वयमवबुद्धय परं प्रति बोध्यते ऽनवबुद्धयैव वा ।
द्वितीये विप्रलम्भकत्वं स्यात् ।
विजिगीषुकथायामेवमेवेत चेत् न ।
शिष्यस्यापि बोद्धयत्वात् ।
आद्ये ऽस्मादन्यस्माद्वा प्रमाणात्स्वयं बोद्धव्यम् ।
तत्कथं प्रमाणाद्यनङ्गीकर्तृत्वम् ।
प्रमितिकरणत्वादिनोपादानस्यैव प्रमाणाद्यङ्गीकारित्वात् ।
तस्मात् सत्त्वासत्त्वा(सत्यत्वासत्यत्वा)भ्युपगमोदासीनैः प्रमाणादिकमङ्गीकृत्योच्यत इति वक्तव्यम् ।
तच्च प्रागेव निरस्तमिति ।
४,४४८
एवं विश्वस्य ब्रह्मविवर्तत्वं निराकृत्य तत्स(त्ता)त्यतायां प्रमाणमाह विश्वमिति
विश्वं सत्यं यच्चिकेत प्रघान्वस्य यथार्थतः ।
इत्यादिश्रुतयः सर्वा विश्वसत्यत्ववाचकाः (अनुव्याख्यानम्)१,४.९३
४,४४८फ़्.
न्यायसुधा-
यथार्थत इत्यनेन’कविर्मनीषी’ इति श्रुतिमुपादत्ते ।
व्यावहारिकसत्यतापराः श्रुतय इति चेन्न ।
‘तत्सत्यम्’ इत्यस्या अपि तथात्वप्रसङ्गात् ।
श्रुत्यन्तरविरोधादिति चेदत्रापि’असदेवेदम्’ इति श्रुतिविरोधात् ।
अपुरुषार्थत्वान्न प्रपञ्चसत्यतायां तात्पर्यमिति चेन्न ।
सत्यजगन्निर्मातृत्वादिपारमेश्वरमाहात्म्यज्ञानस्यैव पुरुषार्थहेतु(प्रयोजन)त्वात् ।
निष्प्रपञ्चात्मज्ञानसाध्याद्वितीयतापत्तिरुपपुरुषार्थविरुद्धं प्रपञ्चसत्यत्वमिति चेत् तर्हि ब्रह्मसत्यत्वमपि
शून्यपरिभावनालभ्यशून्यतापत्तिलक्षणमोक्षविरुद्धमिति समानम् ।
तत् प्रमाणाननुगुणमिति चेत् ।
सममेतदपीति वक्ष्यामः ।
अनुमानमपि प्रपञ्चसत्यतायामथर्क्रियाकारित्वं द्रष्टव्यम् ।
प्रागुक्ततर्कोपपादनेनैव अस्योपपादित्वादिति ।
४,४५२
एवमागमानुमानाभ्यां सिद्धे विश्वसत्यत्वे प्रत्यक्षमप्याह सत्यत्वमिति
सत्यत्वं गगनादेश्च साक्षिप्रत्यक्षसाधितम् (अनुव्याख्यानम्)१,४.९४अब्
न्यायसुधा-
चशब्दः प्रमाणसमुच्चये ।
न केवलमान्तरस्य सुखादेः किन्तु बाह्यस्य गगनादेश्चेति वा ।
तत्रापि कालगगनदिगादयः साक्षात्साक्षिसिद्धसत्यत्वाः ।
स्तम्भकुम्भादयस्तु वक्ष्यमाणेन प्रकारेणेति ज्ञापयितुं गगनादेरित्युक्तम् ।
अन्यथा विश्वस्य प्रकृतत्वात्तदेवात्रानुवर्तिष्यते किमनेन ।
साक्षीत्येवोक्ते साक्षिणो ऽप्रामाण्यात् प्रामाण्ये वा प्रमाणत्रित्वभङ्गात् न विश्वसत्यत्वं प्रमितमिति शङ्का स्यात् ।
तन्निवृत्त्यर्थं प्रत्यक्षेत्युक्तम् ।
तथाच वक्ष्यते ।
प्रत्यक्षेत्येवोक्ते अतीन्द्रियार्थसत्यतायां न प्रमाणमुक्तं स्यात् ।
नच साक्षिरा विना बाह्यप्रत्यक्षमात्रेणैन्द्रियकाणामपि सत्यता सिद्धयतीत्यतः साक्षीत्युक्तम् ।
उभयवादिसिद्धं प्रमाणमस्मत्पक्षे ऽस्तीत्युक्तेनैव अस्यार्थस्य लब्धत्वात्साधितमित्याह ।
तथापि तदुपपादनाय पुनुरुपन्यासः ।
४,४५५
केचिदिह विहङ्गमः पततीति चक्षुर्व्यापारानन्तरं प्रतिभासनादाकाशादेः(दीनां) चाक्षुषतामास्थिषत ।
तदनुपपन्नम् ।
रूपरहितद्रव्यत्वेन चाक्षुषतासामग्रीवैकल्यात् ।
अन्यथाऽत्मपवनयोरपि तत्प्रसङ्गात् ।
कथं तर्ह्येष प्रतिभास इति चेत् ।
साक्षिसिद्धाकाशादिसम्बन्धितयेति ब्रूमः ।
दृष्टो हि प्रमाणान्तरोपनीतेनापि सुरभि चन्दनमित्यादिविशिष्टप्रत्ययः ।
परेषां च इह भूतले घटाभाव इति ।
४,४५९
अपर आह ।
आलोकमण्डलमाश्रित्यायं प्रत्यय इति ।
तदसत् ।
इहालोक इत्यपि प्रत्ययदर्शनात् ।
सो ऽपि तदवयानाश्रित्येति चेन्न ।
लौकिकानामवयवाश्रयतयावयविबुद्धेरभावात् ।
नहि ते हस्तादिषु शरीरमिति व्यवहरन्ति ।
किन्तु तदात्मकतयैव ।
किञ्चैवमपि नेहालोक इतीहालोकत्र्यणुकमिति च प्रत्ययो दुःसम्पादः ।
प्रमाणान्तोपनीतावयवमाश्रित्येति चेत् ।
एवं तर्हि तथाभूतमाकाशादिकमेवाश्रित्य’इह पक्षी’ इत्यादिप्रत्ययः कुतो न समर्थनीयः ।
तथाच लौकिकानुभवो ऽप्यनुसृतः स्यात् ।
तथाप्यनुमानवेद्यमाकाशमस्त्विति चेन्न ।
लिङ्गाभावात् ।
४,४६२
अथ मतम् ।
‘शब्दस्तावत्प्रत्यक्षसिद्धः ।
स च गुणः सामान्यवत्त्वे सत्यस्मादादिबाह्यैकेन्द्रियग्राह्यत्वाद्रूपवत् इति ।
गुणत्वात् द्रव्याश्रितस्तद्वदेव’ इति सामान्यतो द्रव्यसिद्धेः (द्रव्यसिद्धौ) (द्रव्ये सिद्धे)’शब्दो न स्पर्शवद्विशेषगुणः प्रत्यक्षत्वे
सत्यकारणगुणपूर्वकत्वात्, अयावद्द्रव्यभावित्वात् ।
सुखादिवत् ।
स्पर्शव(द्विशेषगुण)त्वे तदनुपलम्भप्रसङ्गः ।
शब्दो हि श्रोत्रेण प्राप्तो वा गृह्यते ऽप्राप्तो वा ।
अप्राप्तग्रहणे ऽतिप्रसङ्गः ।
प्राप्तिस्तु शब्दश्रवसोर्न सम्भवति ।
सा हि न तावच्छ्रोत्रस्य गमनेन सम्भवति ।
तस्यामूतर्स्य गत्यभा(तेरसम्भ)वात् ।
नापि शब्दस्यागमनेन ।
स हि न तावच्छङ्खादिकमाश्रयं परित्यज्यागन्तुमलम् ।
गुणत्वात् ।
नापि शङ्खाद्यागमनेन श्रोत्र(स्य)प्रत्यासत्तिः ।
तदनुपलम्भात् ।
नच शब्दान्तरोत्पादपरम्परया ।
गुणस्य स्वाश्रये स्वाश्रयाश्रिते वा गुणे ऽसमवायिकारणत्वात् ।
नच शङ्खश्रवसोर्मध्ये शङ्खो वा तदारब्धद्रव्यं वास्ति ।
तस्माच्छङ्खादिनिमित्तान्यपहायाश्रयान्तरे वर्तमानो वीचीतरङ्गन्यायेन कर्णशष्कुली(ग)मन्तमाकाशदेशमापन्न उपलभ्यते नान्यथेति स्थितम् ।
नाप्यात्मगुणः ।
बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादात्मन्यसमवायात् अहङ्कारेण विभक्तस्य ग्रहणादूपादिवत् ।
न विक्कालमनसां (गुणः), प्रत्यक्षत्वाद्विशेषगुणत्वाच्च’ इति प्रसक्तप्रतिषेधे परिशेषादेभ्यो ऽतिरिक्तं द्रव्यं सिद्धयति ।
तदाकाशमिति ।
तदयं प्रमाणार्थः ।
शब्दो ऽष्यद्रव्यातिरिक्तद्रव्याश्रितः ।
तद्वृत्तौ बाधकोपपन्नत्वे सति गुणत्वाद्रूपत्वादिति ।
तदिदमयुक्तं जातिबधिराणामाकाश(शादि)प्रतिभासानुपपत्तिप्रसङ्गात् ।
ततश्चेहालोको नास्तीति प्रतीतिर्न स्यात् ।
मूर्तावकाशेन तेषामाकाशानुमानमिति चेन्न ।
मूर्तान्तराभावेनान्यथासिद्धत्वात् ।
मर्ताभावस्याधिकरणेन भाव्यमिति चेत् ।
सत्यम् ।
तथापि तस्याप्रतीतावाश्रयासिद्धेः ।
प्रतीतौ च साधिकरणस्यैव प्रतीतत्वादनुमानानवकाशः ।
४,४७१
किञ्च शब्दो वर्णात्मा वा पक्षो ध्वनिरूपो वा ।
नाद्यः ।
तस्य गुणत्वासिद्धेः ।
न चोक्तानुमानात्तत्सिद्धिः ।
घटादीनामेकेन्द्रियग्राह्यत्वाभावे ऽपि आत्मनस्तथात्ववद् द्रव्यस्यैव सतो बाह्यैकेन्द्रियग्राह्यत्वे ऽपि विरोधाभावात् ।
यदि (शब्दो) द्रव्यं स्यात् बाह्येन्द्रियग्राह्यो न स्यात् ।
निरवयवद्रव्यस्य बाह्येन्द्रियाग्राह्यत्वेन प्रतिबन्धादिति चेत्(न) ।
निरवयवस्यापीन्द्रियग्राह्यत्ववद्बाह्येन्द्रियग्राह्यत्वे(ऽपि) बाधकाभावेन प्रतिबन्धानिश्चयात् ।
द्वितीये त्वाश्रयद्रव्यसिद्धावपि नाकाशसिद्धिः ।
पृथिव्यादिगुणत्वोपपत्तेः ।
प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वायावद्द्रव्यभावित्वयोः पिठरपाकपक्षे तद्गतरूपादिना व्यभिचारात् ।
प्रत्यक्षत्वे सतीति च किमर्थं वक्तव्यम् ।
पार्थिवपरमाणुरूपादि(व्यावृत्त्य)परिहारार्थमिति चेत्, कुतस्तत्परिहरणीयम् ।
प्रमितत्वादिति चेत् ।
तर्हि शब्दस्यापि शङ्खाद्याश्रयतया प्रमितत्वाद्वयाप्तिग्रहणसमये तद्वयवच्छेदार्थं (अपि) विशेषणमुपादेयमेव ।
नच स्पर्शवद्विशेषगुणत्वे बाधकं पश्यामः ।
अनुपलब्धिस्तु न प्रसज्यते ।
चक्षुष इव श्रोत्रस्य गत्या सन्निकर्षोपपत्तेः ।
अमूर्तस्य तदनुपपत्तिस्तु आकाशसिद्धयुत्तरकालीनैव ।
श्रोत्रस्य चक्षुष इव गत्वाग्राहित्वे शब्दे दिक्संशयो न स्यादिति चेत् ।
अगत्वाग्राहित्वे दिङ्निश्चयो ऽपि न स्यात् ।
संशयादपि निश्चयो महीयान् (गरीयान्) ।
शङ्खाद्यवयवागमनेन वा सन्निकर्षोपपत्तिः ।
न चोक्तदोषः ।
घ्राणगन्धसन्निकर्षतुल्ययोगक्षेमत्वात् ।
४,४७७
किञ्च वायुगुणत्वे हेतुद्वयमसिद्धम् ।
तर्कश्चानुपपन्नः ।
नैवं युक्तम् ।
श्रोत्रस्य प्रअतिनियतार्थग्राहकत्वेन बहिरिन्द्रियत्वात् ।
बहिरिन्द्रियस्य ग्राह्यसजातीयविशेषगुणवत्त्वनियमात् ।
शब्दस्य वायवीयत्वे श्रोत्रस्यापि तथात्वप्रसङ्गादिति चेन्न ।
‘प्रतिनियतार्थग्राहकः’ शब्दस्येन्द्रियान्तराग्राह्यग्राहकार्थत्वे मनसि व्यभिचारात् ।
इन्द्रियान्तराग्राह्यस्यैव ग्राहकमित्यभिप्राये सत्तादिग्राहकत्वेनासिद्धिः ।
बहिरिन्द्रियत्वे ऽपि न ग्राह्यसजातीयविशेषगुणवत्त्वनियमः ।
स्नेहग्राहके चक्षुषि व्यभिचारात् ।
श्रोत्रस्य वायवीयत्वे ऽपि न बाधकं पश्यामः ।
सामग्रीभेदेन प्रतिनियतार्थत्वोपपत्तेः ।
घ्राणादीनामप्येवमेकप्रकृतित्वं स्यादिति चेत् ।
अस्तु ।
बाध(क)सद्भावे तु तत एवान्या गतिर्भविष्यति ।
शब्दो न वायवीयः विशेषगुणत्वे सति त्वगिन्द्रियावेद्यत्वाद्गन्धवदिति चेन्न ।
विपक्षे बाधकाभावात् ।
अन्यथा पाकजरूपादयो ऽपि न पार्थिवाः, घ्राणावेद्यत्वात् शब्दवदि(ति)त्यपि स्यात् ।
४,४८२
किञ्चात्मगुणः कस्मान्न स्यात् ।
धर्मादीनामप्रत्यक्षत्वेऽपि सुखादीनां प्रत्यक्षत्ववदस्य बाह्येन्द्रियप्रत्यक्षत्वोपपत्तेः ।
अन्यथा प्रत्यक्षत्वोनाष्टद्रव्यातितिक्तगुणोऽपि न स्यात् ।
तत्सिद्धौ बाधः ।
असिद्धावप्रसिद्धविशेषणतेति चेन्न परिशेषानुमानेऽपि साम्यात् ।
आत्मान्तरग्राह्यत्वस्य च कोऽर्थः ।
अकेनप्रतिपत्तृसाधारणत्वमिति चेन्न सन्धिग्धासिद्धेः ।
सन्तानानुमानेन मूलप्रत्यभिज्ञानन्नैष दोष इति चेत्तर्हि सुखादीनामप्यनुमानेनानेकप्रतिपत्तृसाधारण्ये(णत्वे)नानैकान्तिकत्वं स्यात् ।
आत्मसमवेतस्यैव वीचीतरङ्गन्यायेन मूलप्रत्यभिज्ञानोपपत्तौ विपक्षे बाधकाभावाच् च ।
४,४८५फ़्.
अपर आह ।
ग्राहकस्थत्वेनाग्रहणमात्मान्तरग्राह्यमिति ।
तदसिद्धम् ।
आत्मन्यसमवायात्तत्सिद्धिरिति चेन्न ।
तस्याप्यसिद्धेः ।
अहङ्कारेण विभक्तस्य ग्रहणात्तत्सिद्धिरिति चेन्न ।
पादे मे सुखं शिरसि मे दुःखं मनो मे दुःखितमिति दर्शनात्सुखादिषु व्यभिचारात् ।
ग्रहणं प्रमितिरिति चेन्न ।
सन्दिग्धासिद्धत्वात् ।
कालादिगुणो वा किं न स्यात् ।
प्रत्यक्षत्वादिति चेन्न ।
स्पर्शस्यापि प्रत्यक्षत्वेन अवायवीयत्वप्रसङ्गात् ।
कालादीनां विशेषगुणवत्त्वे बाधकाभावात् ।
तद्विरहिततयैव तत्सि(द्धिरि)द्धेर्नेति चेन्न ।
अन्यथा तत्सिद्धेर्वक्ष्यमाणत्वात् ।
४,४८७
किञ्चात्र सर्वत्र साहचर्यदर्शने सङ्कोच एव द्रव्यान्तरकल्पनाया लघीयान् ।
परिशेषानुमानं त्वष्टद्रव्यातिरिक्तद्रव्याप्रसिद्धविशेषणम् ।
प्रसिद्धौ चानुमानवैयर्थ्यम् ।
अष्टद्रव्यातिरिक्ताश्रित इत्येव साधने गुणादिवृत्तिसामान्यादपि व्यावृत्तत्वेनासाधारणता स्यात् ।
शब्दाश्रयः इतरेभ्यो भिद्यते शब्दाश्रयत्वात् व्यतिरेकेण पृथिवीवत् इति प्रयोग इति चेत्(न) ।
पृथिव्यादिप्रतियोगिकानेकभेदानां प्रत्येकं साधने ऽबादीनां सपक्षत्वेन तत्रावृत्तेरसाधारण्यात् ।
समुदितसाधने पुरनप्रसिद्धविशेषणत्वात् ।
अभावस्य साध्यत्वादभावाभावस्य च भावत्वेन प्रतियोग्यनपेक्षतया व्याप्तिग्रहणसम्भवान्न दोष इति चेन्न ।
तथापि प्रतिषेधमुखेन प्रतीतेरनिवारणात् ।
शब्दाश्रयो नेतरेभ्यो भिद्यते प्रमेयत्वाद्घटवदिति सत्प्रतिपक्षत्वाच्च ।
सर्वप्रतियोगिकैकभेदसाधने तु प्रमाणबाधश्चाधिकः ।
प्रतियोगिभेदेन भेदभेदस्यापि दर्शनादिति ।
४,४९२
अस्तु वा शब्दगुणकाकाशसिद्धिरनुमानात् ।
तथाप्यव्याकृताकाशसिद्धिः साक्षिणैव ।
तत्साधकलिङ्गाभावात् ।
आकाशद्वैतं च वियदधिकरणे वक्ष्यते ।
जातिबधिराणामप्याकाशप्रतीतेर्नागमो ऽपि तत्र प्रमाणमिति साक्षिसिद्धमेव गगनम् ।
तद्भागा एव दिशो न द्रव्यान्तरमिति तासामपि साक्षिवेद्य(सिद्ध)तैव ।
अन्यत्स्वावसरे वक्ष्यामः ।
४,४९३
(ननु) अस्तु गगनादिकं साक्षिसिद्धम् ।
न तावता तस्य त्रैकालिकबाधवैधुर्यलक्षणं सत्त्वं सिद्धयति, प्रतीतस्यापि शुक्तिरजतादेः बाधदर्शनात्, इत्यत आह साक्षिसिद्धस्येति
साक्षिसिद्धस्य न क्वापि बाध्यत्वं तददोषतः (अनुव्याख्यानम्)१,४.९४च्द्
४,४९४
न्यायसुधा-
क्वापि काले तस्य साक्षिणः अदोषत्वात् ।
औत्सगिर्कं हि प्रत्ययानां प्रामाण्यम् ।
अप्रामाण्यं तु दोषापवादात् ।
नच साक्षिज्ञानं दोषजन्यम्, तस्य अनादित्वात् ।
एवमेवायथार्थत्वे मुक्तावपि (तथात्व)तथाप्रसङ्गात् ।
अविद्यादोषसंसर्गात् साक्षिणः बाध्यार्थप्रतिभास(सि)त्वम् इति चेन्न, अविद्यासम्बन्धस्य त्वन्मते अनुपपत्तेः उक्तत्वात् ।
अस्माभिरपि अविद्यायाः कार्यान्तरस्यैव अभ्युपगतत्वात् इति ।
४,४९६
ननु तर्हीदमापन्नम् ।
गगनादिस्वरूपं साक्षिसिद्धम् ।
कालत्रयाबाध्यत्वं तु तस्य साक्षिप्रामाण्यग्राहकेणेति ।
प्रामाण्यस्यापि अबाध्यविषयतानतिरेकात् ।
तथाच’सत्यत्वं गगनादेश्च, इत्ययुक्तमित्यत आह सर्वेति
सवर्कालेष्वबाध्यत्वं साक्षिणैव प्रतीयते (अनुव्याख्यानम्)१,४.९५अब्
न्यायसुधा-
अबाध्यत्वं गगनादीनामिति शेषः ।
साक्षिण एव हि साक्षिप्रामाण्यग्राहकत्वस्य वक्ष्यमाणत्वादिति भावः ।
यद्वा गगनादिस्वरूपं साक्षिसिद्धम्, तस्य त्रैकालिकाबाध्यत्वं तु तत्प्रामाण्यग्रहणद्वारा सिद्धयतीत्युक्तम् ।
इदानीं साक्षिणस्त्रैकालिकाबाध्यार्थगोचरत्वस्य वक्ष्यमाणत्वात्सार्वकालिकबाधाभावविशिष्टतयैव गगनादिग्राहकत्वमस्तीत्याह
सर्वकालेष्विति
४,४९७
ननु काल एव कुतः सिद्धः ।
येन सर्वकालेष्वबाध्यत्वं साक्षिणा प्रतीयत इत्यत आह कालो हीति
कालो हि साक्षिप्रत्यक्षः सुषुप्तौ च प्रतीतितः (अनुव्याख्यानम्)१,४.९५च्द्
न्यायसुधा-
सुषुप्तौ हीन्द्रियाणामुपरतत्वान्न बाह्यप्रत्यक्षानुमानागमानां तत्र प्रवृत्तिः ।
अस्ति तदापि कालप्रतिभासः ।
एतावन्तं कालं सुखमहमस्वाप्समिति सुषुप्त्युत्थितस्य परामर्शदर्शनात् न ह्यननुभूतस्य परामर्शो युज्यते, अतिप्रसङ्गात् ।
अतः परिशेषात्साक्षिवेद्य एवेति गम्यते ।
४,४९८
अत्रायं प्रयोगः ।
कालः बाह्यप्रत्यक्षाद्यतिरिक्तप्रमाणवेद्यः, असत्स्वपि तेषु प्रतीयमानत्वात्, यद्यस्मिन्निति प्रतीयते तत्ततो ऽरिक्तप्रमाणवेद्यम् ।
यथासति चक्षुषि प्रतीयमानो गन्धस्तदतिरिक्तघ्राणवेद्य इति ।
४,४९९
स्यादेतदेवम् ।
यदि सु(षु)प्तावनुभूयमानस्यायं परामर्शो भवेत् ।
नैतदस्ति ।
किन्तु तदैवातीतं सुषुप्तिकालमनुभूय तदातनो दुःखाभावो ऽनुमीयत इत्यत आह अतीतेति
अतीतानागतौ कालावपि नासाक्षिगोचरौ (अनुव्याख्यानम्)१,४.९६अब्
न्यायसुधा-
उत्थितस्य किं साक्षिणातीतकालानुभवमभ्युपगम्य सुखपरामर्शो निराक्रियते उत प्रमाणान्तरेण ।
आद्ये सिद्धं नः समीहितम्, परेणापि कालस्य साक्षिवेद्यतया अङ्गीकृतत्वात् ।
द्वितीये त्विदमुपतिष्ठते ।
असाक्षिगोचरौ साक्षीतरप्रमाणविषयौ ।
अथवा सौषुप्तिकप्रतीतिबलादस्तु वर्तमानकालस्य साक्षिवेद्यत्वम् ।
अतीतानागतकालयोस्तु साक्षिवेद्यत्वाभावात्कथं त्रैकालिकाबाध्यभावः साक्षिणा प्रपञ्चस्य सिद्धयतीत्यत आह अतीतेति
अपिपदेन साक्षिप्रतीताविति समाकृष्टते ।
कुत इत्यत आह नेति
साक्षीतरप्रमाणगोचरौ ।
प्रतीयते च ।
तस्मात्साक्षिगोचरावित्यर्थः ।
४,५०१
तत्कथमेतदिति चेत् (न) ।
न तावत्पत्यक्षवेद्यः काल इत्युक्तम् ।
जातिबधिराणामपि प्रतिभासनात् नागमवेद्यो ऽपि ।
अनुमानमपि, कालमेव पक्षीकृत्य प्रवर्तते ऽन्यद्वा ।
नाद्य इत्याह पक्षीकर्तुमिति
पक्षीकर्तुमशक्यत्वान्नानुमा तत्र वर्तते (अनुव्याख्यानम्)१,४.९६च्द्
न्यायसुधा-
कालस्यासिद्धौ आश्रयासिद्धया, सिद्धौ सिद्धसाधनत्वेन पक्षीकर्तुमशक्यत्व(त्वात्)म् ।
द्वितीये ऽप्येतदेवोत्तरम् ।
पक्षीकर्तुमशक्यत्वादित्युपलक्षणम् ।
व्याप्तिस्मरणपक्षधर्मताज्ञानयोरयोगादित्यपि द्रष्टव्यम् ।
कालप्रतीतिमन्तरेणेति शेषः ।
४,५०३
तदेव प्रपञ्चयति तदेतदिति
तदेतदिति सर्वं च दृश्यं वा स्मृतिगोचरम् ।
साक्षिसिद्धेन कालेन खचितं ह्येव वर्तते (अनुव्याख्यानम्)१,४.९७
तस्मान्न तं विना किञ्चित् स्मर्तुं द्रष्टुमथापि वा ।
शक्यं … (अनुव्याख्यानम्)१,४.९८अच्
न्यायसुधा-
यस्मात्तदिति स्मृतिगोचरमेतदिति दृश्यं वा सर्वमपि साक्षिसिद्धेन कालेन खचितं सम्बद्धमेव वर्तते ।
तस्मात्तं कालं विना कालप्रतिभासं विना किञ्चिद्वयाप्त्यादिकं स्मर्तुं वा धर्म्यादिकं द्रष्टुमिति वा न शक्यमित्यर्थः ।
इदमुक्तं भवति ।
अनुभूतव्याप्तिकस्य पुंसो ऽनुभूयमाने स्मर्यमाणे वा धर्मिणि व्याप्यधर्मस्यानुभवात् स्मरणाद्वा प्रागनुभूतां व्याप्तिं स्मृतवतो व्याप्तस्य पक्षे
ऽनुसन्धानमनुमानम् ।
तच्च व्यापकसम्बन्धप्रमितिलक्षणानुमितिकारणम् ।
स्मृत्यनुभवरूपाश्च सर्वाः प्रतीतयो न केवलमर्थमवगाहन्ते ।
अपि तु कालकलितमेव ।
तदिति हि स्मृतिरुत्पद्यते ।
न पुना रूपमित्येव तत्ता च पूर्वकालसम्बन्धितैव ।
एवमनुभवो ऽपि चक्षुरादिजन्यस्तावत् एतदिति जायते ।
अनुमानादिजन्यो ऽप्यभूदिति वा भवतीति वा भविष्यतीति वोदेति ।
एतत्त्वादिकं च न वर्तमानादिकालसम्बन्धित्वातिरिक्तं किञ्चित् ।
एतच्च सर्वानुभवसिद्धत्वान्नापलापमर्हति ।
न चैवं सति कालस्य चाक्षुषत्वादिप्रसङ्गः ।
साक्षिसिद्धविशेषणविशिष्टप्रत्ययोपपत्तेः ।
तथाच व्याप्त्यादिविषया अपि प्रतीतयो न कालाविशिष्टं स्वार्थं गोचचयितुं शक्नुवन्ति ।
तासामपीदं तदित्येवमाकारेणैवोत्पत्तेरिति ।
४,५०४
ततः किमित्यत आह तदिति
… तन्नित्यसिद्धेर्हि नानुमावसरो भवेत् (अनुव्याख्यानम्)१,४.९८च्द्
न्यायसुधा-
तस्य कालस्य नित्यसिद्धेर्व्याप्त्यादिग्रहण एव साक्षिणा सिद्धत्वान्न कालानुमानस्यावसरो भवेत् अनिश्चिते ह्यर्थे न्यास्यावसरः ।
निश्चितविषयं तु सिद्धसाधनत्वात् परेषामाश्रयासिद्धम् अस्माकं त्वसङ्गतमिति ।
४,५०५
एवं कालविषयाणि सर्वानुमानानि सामान्यतो निराकृत्य विशेषतो निराकरोति तदेतदिति
तथाहि ।
कालः परापरव्यतिकरयौगपद्यायौगपद्यचिरक्षिप्रत्ययलिङ्ग इति परेषां भाष्यम् ।
तदेवं केचिद्वयाचक्षते ।
अस्ति तावत्स्थविरे परो ऽयमिति प्रत्ययः ।
यूनि चापर इति ।
सो ऽयं दिक्कृतपरापरप्रत्ययविलक्षणत्वात् परापरव्यतिकरप्रत्ययः ।
तथा युगपदागतौ अयुगपदागतौ चिरेणागतः क्षिप्रमागतः इति प्रत्ययाः ।
(त) एते षट्प्रत्ययाः कालस्य लिङ्गानि ।
कथम् ।
स्थविरादिविषयेषु जायमानानामेषां कालमन्तरेण विषयानवक्ळ्प्तेः ।
नहि द्रव्यादिकमेवैषामालम्बनम् ।
तत्प्रत्ययविलक्षणत्वादिति ।
एतदयुक्तम् ।
तथाहि ।
तदिति परमिति एतदपरमिति ।
युगपदादीनामुपलक्षणमेतत् ।
दृश्यं वा स्मृतिगोचरं (वा) प्रतीयमानमिति यावत् ।
तत्सर्वं साक्षिसिद्धेन कालेन खचितमेव वर्तते ।
तस्मात्तन्नित्यसिद्धेः नानुमानावसरो भवेत् ।
तस्मादित्यस्यैव विवरणं न तं विनेति ।
न शक्यं हीति सम्बन्धः ।
४,५०६
एतदुक्तं भवति ।
परापरादि(विषयाः)प्रत्ययास्तावत् कालविशिष्टपिण्डविषयाः इति परेणैवोक्तम् ।
तथाच लिङ्गप्रतीतावेव लिङ्गिनः कालस्य स्फुरणात्कथं तेन तदनुमानम् ।
नहि दण्डिज्ञानेन दण्डो ऽनुमीयते ।
४,५०८
अथ विशिष्टज्ञानत्वादिदं विशेषणज्ञानपूर्वकम् ।
विशेषणं च न कालातिरिक्तमस्तीत्यनुमीयते ।
तर्हि नेदं कालानुमानम् ।
किन्तु ज्ञानानुमानम् ।
तच्च सिद्धसाधनम् ।
साक्षिसिद्धकालविशिष्टप्रत्ययाभ्युपगमादिति ।
४,५०९
अथ बलीपलितकार्कश्यादिना कालसम्बन्धे ऽनुमिते, विप्रतिपन्नं प्रति परापरादिप्रत्ययानां कार्यत्वेन निमित्तानुमानमिदं भाष्यमिति ।
मैवम् ।
शरीरावस्थया हि तस्य कालसम्बन्धो ऽनुमीयते, यत्किञ्चिद्द्रव्यसम्बन्धो वा ।
आद्ये किमस्मादनुमानात्प्राक्कालः सिद्धो ऽथवा नेति वाच्यम् ।
आद्ये तन्नित्यसिद्धेस्तस्य कालस्य प्रागनुमानान्नित्येन साक्षिणा सिद्धेः ।
द्वितीये चाप्रसिद्धविशेषणत्वान्नानुमानावसरो भवेत् ।
किञ्च वलीपलिता(कार्कश्य)दिशरीरावस्था कारणत्वेन कालानुमाने तन्नित्यसिद्धेस्तस्य कालसम्बन्धस्य नित्यं सर्वदा
वलीपलितादिवैधुर्यदशायामपि सिद्धेर्नित्ये परमाणावपि सिद्धेर्बाधितविषयत्वेन नानुमानावसरो भवेत् ।
अथ बहुकालसम्बन्धो ऽनुमीयते ।
तन्न ।
बहुत्वं हि कालस्य किं परमाणूनामिव सहैव, उत क्रियाणामिव पूर्वापरभा(वित्वे)वेन ।
नाद्यः ।
तत्सम्बन्धस्यापि नित्यसिद्धेः नेतरः (नोत्तरः) तस्य कालस्य नित्यसिद्धेः ।
नित्यतयाङ्गीकृतत्वात् ।
न द्वितीयः ।
तस्य नित्यसिद्धेः सिद्धसाधनत्वात् ।
अथ परिशेषादितरनिषेधः करिष्यत इति चेन्न ।
परिशेषावधारणानुपपत्तेरिति ।
४,५१५फ़्.
अन्ये तु व्याचक्षते ।
बहुतरणिपरिस्पन्दान्तरितजन्मत्वं परत्वम् ।
अल्पतरसौरसञ्चारान्तरितजन्मत्वं चापरत्वम् ।
एकतपनप्रचारविशिष्टत्वं यौगपद्यम् ।
अनेकतद्विशिष्टत्वमयौगपद्यम् ।
बहुक्रियाविशिष्टत्वं चिरत्वम् ।
कतिपयक्रियाविशिष्टत्वं क्षिप्रत्वम् ।
तत्प्रत्ययैः कालो ऽनुमीयते ।
तरणिपरिस्पन्दा हि पदार्थसार्थे विशिष्टप्रत्ययोत्पत्तौ स्वप्रत्यासत्तिमपेक्षन्ते ।
स्वरसतो ऽप्रत्यासन्नत्वे सति विशिष्टव्यवहारजनकत्वात् ।
चन्दनसौरभवत् ।
परम्परसम्बन्धिनश्च साक्षात्सम्बन्धविरहे सति सम्बन्धित्वात् ।
पटसंसृष्ट(सम्बन्धि)नीलिमवत् ।
अतः पिण्डतपनपरिस्पन्दयोः संयुक्तसंयोगिसमवायात्मनि परम्परासम्बन्धे यद्द्रव्यं निमित्तं स काल इति ।
४,५२०
एतदप्यसत् ।
घटशून्यं भूतलमित्यादिवत्स्वभावप्रत्यासत्त्यैव विशिष्टप्रत्ययोपपत्तेः ।
अन्यथा अभावे परापरयौगपद्यादिप्रत्ययानुपपत्तिप्रसङ्गात् ।
दृश्यते च युगपदुत्पन्नावभावावित्यादिप्रत्ययः ।
अत्र सम्बन्धे बाधकाभावान्नैवमिति चेन्न ।
अन्यसमवेतत्वस्यैव बाधकत्वात् ।
उपनायकद्रव्यान्तरकल्पनया तदुपपत्तिरिति चेत् ।
तर्हि भूतलघटाभावयोस्तृतीयसम्बन्धकल्पनयोपपत्तौ बाधकाभावात् ।
स्वारसिकसम्बन्धेनैव विशिष्टप्रत्ययोपपत्तौ किमप्रतीयमानसम्बन्धकल्पनया इति चेत् ।
तर्हि तथैव परापरादिविशिष्टप्रत्ययोत्पत्तौ किमप्रतीयमानद्रव्यकल्पनयेति समानम् ।
तदिदमुक्तम् तेषां विशिष्टप्रत्ययानां नित्यसिद्धेर्द्रव्यान्तरकल्पानां विना स्वभावादेव सिद्धेः द्रव्यान्तरानुमानावसरो न भवेदिति ।
तदनेन स्वरसतो ऽप्रत्यासन्नत्वे सतीति विशेषणासिद्धिः ।
विशिष्टव्यवहारजनकत्वमात्रस्य चानैकान्त्यमुक्तं भवति ।
४,५२४
ननु विषम उपन्यासः ।
भूतलाभावयोरस्ति सान्निध्यम् ।
तेन सम्बन्धाभावे ऽपि भविष्यति विशिष्टव्यवहारः ।
दर्शनस्य दुरपह्नवत्वात् ।
सम्बन्धान्तरकल्पनस्य च व्यर्थत्वात् ।
नच तरणिपरिस्पन्दानां पिण्डसान्निध्यमस्ति ।
ततो भवितव्यं मध्ये द्रव्यान्तरेणेति ।
मैवम् ।
विनापि सान्निध्येन घटज्ञानमिति विशिष्टप्रत्ययदर्शनात् ।
किञ्चाभावस्यापि न भूतलसान्निध्यं परपक्षे किमपि पश्यामः ।
अस्तु वा तपनपरिस्पन्दानां पिण्डं प्रत्युपनायकं द्रव्यान्तरम् ।
तच्च पृथिव्यादिकं किं न स्यात् ।
तपनपिण्डाभ्यामसंसर्गान्नेति चेन्न ।
एकैकस्याव्यापकत्वे ऽपि बहूनां संयुक्तसंयोगभूयस्त्वेन क्रियोपनायकत्वोपपत्तेः ।
नच तरणिपिण्डान्तकाले तानि न सन्त्यनुपलम्भादिति वाच्यम् ।
सूक्ष्माणां कल्पनीयत्वात् ।
नच विनिगमनायां कारणाभावः ।
संशये ऽपि परिशेषावधारणानुपपत्तेः ।
धर्मिकल्पनातो धर्मकल्पनस्य लघीयस्त्वात् ।
आकाशो वा किं न स्यात् ।
न स्यात् ।
विशेषगुणवत्त्वात्पृथिव्यादिवदिति चेन्न ।
विशेषणगुणवतो ऽपि नीलद्रव्यस्य पटे नीलिमोपसङ्क्रामकत्वदर्शनात् ।
सूर्यगत्युपनायकत्वं च द्रव्यस्वरूपं वा अतीन्द्रियशक्तिर्वा सहकारिशक्तिर्वा ।
नाद्यः ।
द्रव्यमात्रे प्रसङ्गात् ।
न द्वितीयः ।
अनभ्युपगमात् ।
तृतीये(ऽपि) किं तद्वयापकत्वं वा, विशेषगुणविरहो वेति व(विवे)क्तव्यम् ।
व्यास(६)
४,५२८
वयं तु ब्रूमः ।
व्यापकत्वमेव तदिति ।
अन्यथा मनसो ऽपि तत्प्रसङ्गात् ।
व्यापकत्वस्य प्रयोजकतायामात्मनो ऽपि तत्प्रसङ्ग इति चेन्न ।
तद्वयापकत्वाभावस्य वक्ष्यमाणत्वात् ।
व्यापकत्वे ऽप्यनिष्याभावात् ।
क्रियोपनायकत्वं खल्वान्तरालिकस्य द्रव्यस्य नोभयसंयोगातिरिक्तं किञ्चित् ।
तदेकस्येवानेकेषामपि समानम् ।
यद्याकाशं(ः) स्वसम्बन्धेनान्यगतं धर्मम् अन्यत्र सङ्क्रामयेत्, तदा सर्वं सर्वत्र सङ्क्रामयेत् अविशेषादिति चेन्न ।
नियतोपसङ्क्रामकत्वस्यैव कल्पनीयत्वात् ।
गुर्वी हि धर्ममात्रकल्पनातो धर्मिकल्पना ।
अन्यथा काले ऽपि समानः प्रसङ्गः ।
४,५३०
तत्सिद्धयसिद्धिभ्यामनवसरदुःस्थत्वमिति चेन्न ।
भावानवबोधात् ।
विशिष्टप्रत्ययदर्शनानन्तरं बहवः पक्षाः प्राप्नुवन्ति ।
किमयं स्वरसम्बन्धनिबन्धनः किं वा अतिरिक्तसम्बन्धाधीन इति ।
द्वितीये ऽपि किं साक्षात्सम्बन्धो ऽत्र निमित्तमुत द्रव्यान्तरकृत इति ।
उत्तरत्राप तद्द्रव्यं प्रसिद्धेष्वन्यतमं वा भवत्वन्यद्वेति ।
सर्वत्र बाधकानि पर्यालोचयन्प्रसिद्धद्रव्येषु यद्बाधकं पश्येत्तदप्रसिद्धे ऽपि कल्प्यमाने कथं नानुसन्दध्यात् ।
अनुसन्दधानश्च तत्स्वाभाव्येन परिहारं चिन्तयन्कल्पनागौरवव्यसनमपहाय लघीयांसमेव पक्षं न कथं(वा) रोचयत इत्यस्यार्थस्य
विवक्षितत्वात् ।
पर(प्र)सिद्धत्वेन प्रसङ्गस्य न दोष इत्यस्याप्ययमेवाभिप्रायः ।
४,५३४
किञ्चायं प्रसङ्गो वस्तुतः साधुः अथाभासः ।
नाद्यः ।
कालप्रतीत्युत्तरकालं व्याप्तिभङ्गात् ।
द्वितीये कथमाकाशस्य क्रियोपनायकत्वं त्याजयेत् ।
अन्यथा जातिनिराकरणमपि न स्यादिति ।
अस्तु वाऽकाशस्य विशेषगुणवतः क्रियोपनायकत्वाभावः दिशस्तु स्यात् विशेषगुणशून्यत्वात् व्यापकत्वाच्च ।
तस्याः संयोगोपनायकत्वेन सिद्धत्वान्नेति चेन्न ।
उभयोपनायकत्वे ऽपि बाधकाभावात् ।
सहकारिभेदेन च व्यवस्थिताव्यवस्थितप्रतीतिजनकत्वं कल्प्यतां लाघवादेव ।
अन्यथा काले ऽपि भेदकल्पनाप्रसङ्गादिति ।
तदिदमुक्तम् ।
तस्य विशिष्टप्रत्ययस्य नित्येन नियतेन प्रसिद्धेनैव पृथिव्यादिना सिद्धेर्नाप्रसिद्धे द्रव्ये ऽनुमानावसरो भवेदिति ।
४,५३८
अन्ये तु परम्परशब्दाभ्यां परत्वापरत्वे गुणौ युवस्थविरपिण्ड(वर्तिनौ)गतौ आचक्षते ।
तौ असमवायिकारणसंयोगाश्रयतया निमित्तकारणापेक्षाबुद्धिसम्पादकतया वा कालमनुमापयत इति ।
तदप्युक्तन्यायेन निरस्तमिति ।
४,५४२
किञ्च परापरादिप्रत्ययानां सूर्यगतयो वा परा(त्वा)परत्वे वा यद्यालम्बनं तदा अस्तु कालानुमानम् ।
न चैतदस्ति ।
कालभेदानामेव विशेषणतया प्रतीतेः ।
तथाहि ।
परो ऽयमित्यादि प्रयुक्तवन्तः को ऽस्यार्थ इति पृष्टाः लौकिकाः परीक्षिकाश्च बहुकालीन(नो ऽयमित्यादि) इति व्याचक्षाणा दृश्यन्ते ।
तत्र कालस्वरूपं साक्षिसिद्धम् ।
तद्बहुत्वादि च क्वचित्साक्षिणा क्वचिदनुमानादिना च ज्ञायत इति ।
एतदप्युक्तम् तदेतदिति श्लोकाभ्याम् ।
अनयैव दिशा दिशो ऽपि परापरप्रत्ययादिलिङ्गत्वं निराकर्तव्यम् ।
४,५४४
त(मे)देतं चिरन्तनं पन्थानमरोचयमाना नवीनास्तु दिक्कालयोरन्यथानुमानमाहुः ।
विवादाध्यासितं कार्यं विशेषगुणरहितद्रव्याभ्यां जन्यते कार्यत्वात् अन्तःकरणद्वयसंयोगवदिति ।
(ए)तद(प्य)युक्तम् ।
साध्ये बहुवचनप्रयोगे(क्षेपे)ऽतिप्रसङ्गात् ।
नच दृष्टान्ताभावः ।
अन्तःकरणगतबहुत्वस्य सत्त्वात् ।
न चान्तःकरणद्वयसंयोगे प्रमाणमस्ति, मनो मनसा संयुज्यते मूर्तत्वाच्छरीरवदिति च आकालिके विद्यदादौ सन्दिग्धव्यभिचारम् ।
४,५४७
अपर आह ।
परममहत्परिमाणं द्रव्यचतुष्ययवृत्ति परिमाणत्वादणुत्ववदिति ।
अत्र यद्याकाशात्म(गत)परिमाणपक्षीकारस्तदा सिद्धसाधनम् आत्मनां बहुत्वात् ।
आत्मत्वेनैक्यमुपादाय प्रयोगे ऽपि बाधः ।
परिमाणद्वयस्य द्रव्यचतुष्ययवृत्तित्वायोगात् ।
एकैकद्रव्यवृत्ति खलु परिमाणम् ।
अत एव न कालादिगतस्य पक्षीकारः ।
आश्रयासिद्धिश्चाधिका ।
४,५४८
परममहत्परिमाणसामान्यं विशेषगुणशून्यद्रव्याधिकरणानेकव्यक्तिवृत्ति परिमाणतारतम्यविश्रान्तिविषयजातित्वात्
अणुपरिमाणवृत्तिजातिवत् इति चानुपपन्नम् ।
परममहत्परिमाणसामान्यं हि परिमाणत्वं वा तदवान्तरजातिर्वा ।
आद्ये मनःसिद्धयाप्यस्य सम्भवेनार्थान्तरता ।
सामान्यस्याप्यनेकवृत्तिताया निराकरिष्यमाणत्वेन बाधाश्रयासिद्धी च ।
न द्वितीयः ।
तस्याः (तस्य) निराकरिष्यमाणत्वात् ।
वर्णसिद्धया अर्थान्तरत्वाच्च ।
अनेकपदस्थाने बहुपदप्रक्षेपे अतिप्रसङ्गाच्च ।
अस्तु कालस्य दिशश्च बहुत्वम्, आत्मवदुपसङ्ग्राहकैक्येन द्रव्याणां नवत्वोपपत्तिरिति चेत्तर्हि दिशा कालेन वा
साध्यपर्यवसाना(सम्भवा)दुभयसाधकत्वमस्य न स्यात् ।
मा भूदिति चेन्न ।
अनेकपदवैयर्थ्यात् ।
अन्यतरसाधने ऽन्यतरेणार्थान्तरताप्रसङ्गात् ।
हेतुदृष्टान्तयोश्चानुपपत्तिर्वक्ष्यत इत्यलं पल्लवेन ।
४,५५४
गगनादेःसकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वं साक्षिसिद्धमित्युक्तमर्थमुपसंहरन्विवृणोति अत इति
अतो ऽदोषप्रतीतस्य सत्यत्वं साक्षिणा मतम् (अनुव्याख्यानम्)१,४.९९अब्
न्यायसुधा-
न विद्यते दोषः कारणं यस्य ज्ञानस्य तेन प्रतीतस्य विषयीकृतस्यादोषेण प्रत्यक्षादिना वा प्रतीतस्य गगनादेः प्रपञ्चस्य सत्यत्वं
त्रैकालिकाबाध्यत्वं साक्षिणा मतं सिद्धम् ।
प्रामाण्यग्रहणादिनेति शेषः ।
४,५५५फ़्.
अयम(त्रा)भिप्रायः ।
आकाशकालदिगात्ममनांसि सुखादयश्च साक्षात्साक्षिसिद्धाः ।
तदितरे तु पदार्था यथास्वम्(यथायथम्) इन्द्रियलिङ्गशब्दगम्याः ।
ज्ञानं च भावाभावलक्षणं स्वविषयं सत्त्वेनैवावगाहते, नासत्त्वेन, नाप्युदासीनेन रूपेण ।
नचैवं घटो ऽस्ति घटो नास्तीतिप्रत्ययानुपपत्तिः पौनरुक्त्याद्वयाघाताच्चेति युक्तम् ।
घटो ऽस्तीति देशकालविशेषसम्बन्धिसत्ताविषयत्वात्, क्वचिद्विपरीताकाङ्क्षाव्यवच्छेदाथर्त्वात्, क्वापि व्याख्यानव्याख्येयभावात् ।
नास्तीत्यस्य च देशकालविशेषसम्बन्धिसत्ताप्रतिषेधपरत्वात् ।
नहि सता सकलदेशकालसता भवितव्यमिति नियामकमस्ति ।
ज्ञानगतं च याथार्थ्यलक्षणं प्रामाण्यं ज्ञानग्राहकेणैव गृह्यते ।
ज्ञानग्राहकश्च साक्षीत्यविवादं वादिप्रतिवादिनोः ।
तथाच साक्षिणा ज्ञानप्रामाण्यं गृह्णता तद्विषयस्य सकलप्रपञ्चस्य त्रैकालिकाबाध्यत्वलक्षणं सत्यत्वमेव गृहीतं भवति ।
यदि हि ज्ञानगोचरस्य नित्यस्य वा अनित्यस्य वा सर्वगतस्य वा असर्वगतस्य वा अर्थस्य स्वदेशकालप्रकारोपाधावसत्त्वाऽवेदनलक्षणो बाधः
स्यात्, को ऽर्थस्तदा ज्ञानप्रामाण्यं साक्षिणा प्रमितमित्यस्येति ।
यदि तर्हि ज्ञानस्वरूपग्राहकः साक्षी तत्प्रामाण्यमपि गृह्णन्प्रपञ्चसत्यतां निश्चिनुयात्, शुक्तिरजतादिज्ञानस्वरूपग्राहको ऽपि स एवेति
तत्प्रामाण्यमपि गृह्णन् शुक्तिरजतादिकमपि सत्यं व्यवस्थापयेत् ।
नच शुक्तिरजतादिज्ञानानां प्रामाण्यमेव नास्ति, किं साक्षिणा गृह्यताम् इति युक्तम्, प्रपञ्चगोचराणामपि ज्ञानानां प्रामाण्याभावात्किं साक्षिरा
गृह्यत इत्यपि वक्तुं शक्यत्वात् ।
तस्मात्साक्षिणा प्रपञ्चसत्यतासिद्धिमभिलषता ज्ञानग्राहकस्य साक्षिणः प्रामाण्यग्राहकत्वं स्वभाव इति वक्तव्यम् ।
तथा चोक्तो ऽतिप्रसङ्ग इत्यत उक्तम् अदोषेति
४,५६२
अयमर्थः ।
न साक्षी ज्ञानं गृह्णन्प्रमाणमेवैतदिति गृह्णाति ।
किन्तर्ह्य(त्व)दोषं चेत्प्रमाणं सदोषमप्रमाणमिति
व्यवस्थया ।
यदा त्वर्थित्वेन प्रामाण्यं निर्दिधारयिषितं तदा सजातीयविजातीयसंवादविसंवादभावाभावलक्षणया परीक्षया दोषभावं निश्चित्य
प्रामाण्यमवधारयति दोषदशर्ने त्वप्रामाण्यम् ।
प्रपञ्चप्रतीतेश्च प्रयत्नेनान्विष्यापि दोषमपश्यन्प्रामाण्यमेवावधारयतीवति तत्सत्यत्वं साक्षिसिद्धम् ।
नचैवम् शुक्तिरजतादीनाम् ।
दोषाप्रतीतिदशायां प्रामाण्यानवधारणात्, तत्प्रतीतौ त्वप्रामाण्यनिश्चयात् ।
ननु शुक्तिरजतादिज्ञानस्यापि प्रामाण्यं निर्धार्यत एव ।
कथमन्यथा निःशङ्का प्रवृत्तिरिति चेत् ।
सत्यम् ।
नासौ साक्षिरूपावधारणा ।
अपि तु मानसीति वक्ष्यामः ।
मनसश्च दोषसंसर्गसम्भवेन न तावता प्रामाण्यसिद्धिरिति ।
४,५६४
ननु यदि परीक्षासहकृतःसाक्षी ज्ञानप्रामाण्यं गृह्णीयात् तदानवस्था स्यात् ।
परीक्षापि हि स्वयं प्रमाणत्वेनावधृता परप्रामाण्यावधारणायालम् ।
नान्यथा ।
तथाच तत्रापि परीक्षान्तरमवतरणीयमिति ।
किञ्च साक्षिणो ऽप्यनवधृतप्रमाणभावस्य स्वयं दुःस्थस्य न परप्रामाण्यावधारणसमार्थ्यमिति तत्प्रामाण्यावधारणाय परीक्षान्तरापेक्षा
ग्राहकान्तरापेक्षा चेत्यनवस्थैवेत्यत आह परीक्षादेश्चेति
परीक्षादेश्च सत्यत्वं तेन ह्येव मतं भवेत् (अनुव्याख्यानम्)१,४.९९च्द्
न्यायसुधा-
आदिपदेन साक्षी गृह्यते ।
चस्त्वर्थः ।
सत्यत्वं यथार्थत्वम् ।
तेन साक्षिणैव केवलेन न तु परीक्षायुक्तेन(सहकृतेन) ।
हिशब्दो ऽस्यार्थस्यानुभवसिद्धत्वं द्योतयति ।
तस्मान्नानवस्थेति हेतौ वा ।
४,५६६
एतदुक्तं भवति ।
दोषाभावावधारणार्थं न्यायानुसन्धानं हि खलु परीक्षा ।
सन्दिग्धश्चार्थो न्यायविषयः ।
सन्देहश्चोभयकोटिप्रापकसद्भावे भवति ।
एवञ्च यत्र यत्र दोषसम्भावनया तत्सन्देहस्तत्र तत्रैव परीक्षापेक्षा नान्यत्र ।
नच सर्वत्र दोषसन्देहो ऽस्ति ।
साक्षिसिद्धे ऽर्थे तत्प्राप्त्यभावात् ।
अतो न तावत्परीक्षानवस्था ।
तथाहि ।
अस्त्यत्र पुरतः पानीयमिति वाक्यं श्रुतवतो भवति सन्देहः किमिदं विपर्ययादिमूलमुत नेति ।
पुरुषवचसामुभयथा दर्शनात् ।
तत एवार्थे सन्दिहानः प्रत्यासीदन् रूपविशेषादिनानुमिनोति पानीयमेतदिति ।
तत्रापि भवति संशयः ।
किमिदमनुमानमुताभासम्(स) इति ।
व्याप्त्यादिग्राहिणां याथार्थ्यायाथार्थ्योपलम्भात् ।
प्रत्यासन्नश्चोदकाभ्यवहारानन्तरं रसविशेषाणानुमायापि पूर्ववत्सन्दिग्धे ।
पीतोदकस्तूदन्यादिनिमित्तदुःखाभावं सुखं चानुभवन्न तत्र संशेते ।
सुखादौ तदभावे च साक्षिसिद्धे कदाप्यन्यथाभावाद्यनुपलम्भात् ।
नच प्रतीतत्वसामान्येन तत्रापि संशयः ।
विशेषनिष्ठस्य निश्चायकस्य सद्भावात् ।
अन्यथा संशयानुच्छेदेन व्यवहाराभावप्रसङ्गात् ।
संशयाभावे च न तत्पूर्विका परीक्षेति कुतो ऽनवस्था ।
अत एव साक्षप्रामाण्यावधारणे परीक्षानवस्थापि परिहृता ।
ग्राहकानवस्था तु नास्त्येव ।
साक्षिणः स्वप्रकाशत्वेन स्वप्रामाण्यग्राहकत्वात् ।
४,५६८फ़्.
एतावानत्र विशेषः ।
इन्द्रियलिङ्गशब्दजन्येषु ज्ञानेष्वनादौ संसारे द्वयीं गतिमनुसन्दधत्साक्षी न सहसैव प्रमाणमेतदिति निश्चेतुं शक्नोति ।
किन्तु दाषाभावनिश्चयद्वारैव ।
दोषाभावं च न स्वयम्(एव) अवधारयितुमीष्ये ।
(अपि) किं तु परीक्षासहकृत एव ।
परीक्षायां चेन्द्रियलिङ्गशब्दजायां पूर्वन्यायेन परीक्षान्तरमनुसरति यावत्साक्षात्स्वविषये सुखादाववतरति ।
नच स्वात्मन्यनेन कदाप्यन्यथाभावो ऽवगत इति सन्देहाभावात्परीक्षानुसरणान्निवर्तते ।
नहि ज्ञानस्वरूपं प्रामाण्यं च विषयीकर्तुं स्वमहिम्नैव शक्नोति ।
तस्य तु मानस्या दोषशङ्कया प्रामाण्यग्रहणशक्तिः प्रतिबद्धा ।
अतो व्यवस्थैव तत्स्पृशति ।
न त्ववधारणस्येष्ये ।
परीक्षया च प्रतिबन्धे ऽपगते निजयैव शक्त्या प्रामाण्यमवधारयति ।
नचास्य व्युत्पादनस्याप्रामाण्ये ऽपि समत्वात्तस्यापि स्वतो ग्रहणमिति वाच्यम् ।
वैषम्यात् ।
प्रामाण्यावधारणे हि परीक्षायाः प्रतिबन्धकनिवर्तकत्वमात्रं शक्यते ऽवधारयितुम् ।
प्रतिबन्धकरहिते साक्षिप्रामाण्यग्रहे तदनपेक्षणात् ।
सहकारित्वे हि सर्वत्र तदपेक्षा स्यात् ।
तथा चानवस्थेत्युक्तम् ।
अन्यथा कारणत्वं व्याहन्येत ।
न चाप्रामाण्यं क्वापि परीक्षानपेक्षेण साक्षिणा निश्चितचरम् ।
येन प्रतिबन्धकनिवर्तकत्वं तस्याः प्रतीमः ।
किन्तु सार्वत्रिकत्वात्कारणत्वमेव ।
प्रतिबन्धकस्य सार्वत्रिकत्वादन्यथासिद्धं सार्वत्रिकत्वमिति चेन्न ।
प्रतिबन्धकनिवृत्तावप्रामाण्यग(हे)हणे च परीक्षायाः कारणत्वोपपत्तेः ।
एवं सति गौरवमिति चेन्न ।
विशेषावधारणाया अशक्यत्वस्यैव कल्पकाभावात् ।
तथापि परीक्षान्वयव्यतिरेकानुविधायि(यक)त्वस्यान्यथासिद्धिः शङ्कयत इति चेत् (न) ।
प्रतिबन्धकस्य सार्वत्रिकतायाः क्वाप्यदर्शनेनान्यथासिद्धिशङ्कानिरासात् ।
अन्यथा सर्वत्र सहकारिणां तथात्वं स्यात् ।
यदि ज्ञानग्राहकातिरिक्तस्य यथाकथमपि प्रवेशात्प्रामाण्यस्य परतस्त्वमिति मतम्, तदा साक्षिण एव स्वतःप्रामाण्यमन्यस्य परत इत्यङ्गीकारे
ऽपि न कश्चिद्विरोध इति सङ्क्षेपः ।
विस्तरस्तु स्वयम्(एव)आचार्येण वक्ष्यते ।
४,५७३
अथ मतम् ।
साक्षी प्रत्यक्षादीनां प्रामाण्यं गृह्णन्नपि कतिपयकालकतिपयपुरुषसम्बन्धिबन्धिवैधुर्यरूपमेव ।
न पुनरस्य कदाचित्कुत्रापि केनापि स्वार्थव्यभिचारो न भविष्यतीत्येवंरूपम् ।
तत्कथं तेनात्यन्तिकबाधाभावलक्षणं सत्यत्वं विश्वस्य
सिद्धयेदित्यत आह अन्यथेति
अन्यथा श्रुतियुक्तयादिप्रमाणैश्च सहैव तु ।
अकस्माद् विनिवृत्तिश्च किं विश्वस्य न शङ्कयते (अनुव्याख्यानम्)१,४.१००
न्यायसुधा-
साक्षिणः सर्वथा बाधवैधुर्वलक्षणप्रामाण्याग्राहकत्वे विश्वस्य पूर्णस्य ब्रह्मणो ऽपि प्रपञ्चवद्विनिवृत्तिः किं कस्मान्न शङ्कयते ।
निवर्तकाभावादित्यत उक्तम् अकस्मादिति
ननु च’सत्यं ज्ञानम्ऽ‘तत्सत्यम्’ इत्यादिश्रुत्या, ब्रह्म न निवृत्तिमत् अज्ञानतत्कार्यातिरिक्तत्वात् इत्याद्यनुमानेन, निरधिष्ठानकस्यासाक्षिकस्य
भ्रमस्य, निरवधिकस्य बाधस्य चादर्शनात्प्रपञ्चारोपाद्यन्यथानुपपत्त्या, ब्रह्मणःसत्यतावगमात्तन्नेत्यत उक्तम् श्रुतीति
एतेषामपि प्रमाणानां प्रत्यक्षादीनामिव विनिवृत्तिः शङ्कयतामित्यर्थः ।
एतदुक्तं भवति ।
‘प्रपञ्चविषयाणां प्रत्यक्षादिप्रमाणानां नात्यन्तिकं प्रामाण्यं साक्षी गृह्णाति ।
किन्तु तात्कालिकमेव’ इति वदन्वक्तव्यः ।
साक्षिणः किमात्यन्तिकप्रामाण्यग्रहणे शक्तिरस्त्युत नास्ति ।
आद्ये कथं प्रपञ्चविषयाणां प्रत्यक्षादीनां प्रामाण्यमात्यन्तिकं न गृह्णीयात् ।
द्वितीये ब्रह्मणः सत्यताप्रतिपादकानां श्रुत्यादीनामपि नात्यन्तिकं प्रामाण्यं गृह्णीयात् ।
तथाच न ब्रह्मणो ऽबाध्यत्वमात्यन्तिकं सिद्धयेत् ।
ततश्च साधकबाधकप्रमाणाभावात्तस्यापि बाधः शङ्कयेत ।
एवञ्च तज्ज्ञानमपि न तत्त्वज्ञानमिति न तदर्थः प्रयत्नः स्यात् ।
अथ क्वचिच्छक्तिः क्वचिन्नेति ब्रूयात्तदा नियामकं वाच्यमिति ।
४,५७४
ननु यदि ब्रह्म बाधार्हं स्यात्तर्हीयता कालेन कुतो न निवृत्तम् ।
तस्मादितःपूर्वं बाधरहितत्वान्नोत्तरत्रापि बाधः शङ्कयत इति चेन्न ।
उक्तोत्तरत्वात् ।
अस्या अप्युपपत्तेः साक्षिग्राह्यप्रमाणभावाया आत्यन्तिकप्रामाण्यासिद्धेः ।
अन्यथा प्रपञ्चग्राहिणां प्रत्यक्षादीनामपि तथात्वस्यानिवारणात् ।
व्यवस्थापकाभावात् ।
दूषणान्तरमाह इतःपूर्वमिति
इतः पूर्वं तथाभावाद् यदि नो संसृतेर्गतिः (अनुव्याख्यानम्)१,४.१०१अब्
न्यायसुधा-
तथाभावात् निवृत्त्यभावात् ।
यदि ब्रह्मणो निवृत्तिनर् शङ्कयत इति सम्बन्धः ।
तर्हीत्यध्याहारः ।
गतिर्निवृत्तिः स्यादिति शेषः ।
अयमाशयः ।
इतःपूर्वमनिवृत्तत्वादिति किं ब्रह्मणो निवृत्त्यभावे सम्भावनोक्ततानुमानम् ।
नाद्यः ।
सम्भावनाया अपि संशयरूपत्वेन शङ्कानिवारणासामर्थ्यात् ।
न द्वितीयः ।
तथा सति संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् ।
न हीतःप्राङ्मूलाविद्या निवृत्ता ।
अन्यथा तस्यामेव व्यभिचारःस्यादिति ।
किञ्च शुक्तिरजतादिकं प्रागनिवृत्तमेव निवर्तते ।
निवृत्तस्य निवृत्त्ययोगात् ।
अतो विरुद्धता च ।
४,५७८
अन्यथेत्याद्यन्यथा व्याख्यायते ।
अन्यथा साक्षिणः प्रपञ्चग्राहकप्रत्यक्षाद्यात्यन्तिकप्रामाण्याग्राहकत्वे, विश्वस्य वियदादेरुत्तरक्षण एव निवृत्तिर्विनाशः किं न शङ्कयते ।
तथाच सर्वप्रवृत्तिविलयः स्यात् ।
परमेश्वरसञ्जिहीर्षाद्यभावादित्यत उक्तम् अकस्मादिति
(अनु१११७ पृष्ठे द्रष्टव्यम् । ) नन्वीश्वरेच्छयैव श्रुतिस्मृतीतिहासपुराणानि प्रपञ्चप्रलयं प्रतिपादयन्ति, विश्वविनाशो न निर्हेतुको
विनाशत्वात्पटनाशवदित्यनुमानमपि ।
तत्कथमेवं शङ्कयत इत्यत उक्तम् श्रुतीति
प्रमाणानां निवृत्तिर्नामात्यन्तिकप्रामाण्याभावः ।
तात्पर्यं पूवर्वत् ।
ननु प्रागितो न प्रपञ्च(वि)लयो ऽकस्मादभूत् ।
तत्कथमुत्तरत्रापि शङ्कयेत इत्यत (उक्तम्) आह इतः पूर्वमिति
किमत्र यत्पूर्वं नाभूत्तदुत्तरत्रापि न भविष्यतीति व्याप्तिः, किंवा यत्पूर्वं न निर्हेतुकं विनष्टं न तदुत्तरत्रापि तथा विनाशवदिति, यद्वा यन्निर्हेतुकं न
तद्भविष्यतीति व्याप्तिः, पूर्वोक्तिस्तु तदुपपादनायेति ।
नाद्यः ।
संसृतेरविद्याया निवृत्त्यभावप्रसङ्गात् ।
न द्वितीयः ।
संसारनिवृत्तिप्रसङ्गात् ।
तथाहि ।
विद्या संसारनिवृत्तिहेतुः ।
साप्यविद्यात्मकत्वात्संसृतिरेव ।
नच तस्या निवर्तकान्तरमस्ति ।
तथाचाकस्मात्किमपि न निवर्तत इत्यङ्गीकारे नो संसृतेर्गतिः ।
विद्या स्वयमेव स्वनिवृत्तिहेतुरविद्यामात्रविरोधित्वादिति चेन्न ।
एवं तर्हि प्रपञ्चो ऽप्युत्तरक्षणे (स्वयमेव) निवर्तिष्यत इति शङ्का स्यात् ।
अत एव न तृतीयो ऽपीति ।
४,५८१
उक्तमेवार्थं विवृणोति वाक्येति
वाक्यानुमादितश्चेत् स्यात् तत्प्रामाण्यं च साक्षितः (अनुव्याख्यानम्)१,४.१०१च्द्
न्यायसुधा-
अथवा नो संसृतेर्गतिरित्युक्तम् ।
संसारगतेः श्रुत्यादिसिद्धत्वात् ।
तदसिद्धया च हेतोर्विशेषणादित्यत आह वाक्येति
ब्रह्मणो ऽपि निवृत्त्याशङ्कायामापादितायां यदि परो वाक्यानुमादितो निवृत्त्यभावनिश्चयः स्यादिति ब्रूयात्, यदि वा आकस्मिकोत्तरक्षणे
प्रलयशङ्कापादने वाक्यानुमादितः परमेश्वरेच्छादिनैव स्यादिति मन्येत, यदि च वाक्यानुमादितः संसारनिवृत्तिः स्यादिति वदेत्, तदा तस्य
वाक्यादेः प्रामाण्यं केन निश्चितमिति वक्तव्यम् ।
साक्षीतरेणेत्यङ्गीकारे ज्ञानस्य साक्षिवेद्यत्वेन परतः प्रामाण्यग्रहापत्तेः साक्षिणैवेति वक्तव्यम् ।
४,५८३
ततः किमिति चेत् ।
साक्षी किं ब्रह्मसत्यत्वादिप्रतिपादकानां वाक्यादीनां प्रामाण्यं तात्कालिकमेव गृह्णाति किंवाऽत्यन्तिकम् ।
आद्ये न तेन ब्रह्माबाध्यत्वादिसिद्धिरिति नोक्तशङ्कानिवृत्तिः ।
द्वितीये त्वाह तत्प्रामाण्यमिति
तत्प्रामाण्यं यथा साक्षी स्थापयत्येवमेव हि ।
सर्वकालेष्वपि स्थैर्याद् व्यभिचारमपोह्य च (अनुव्याख्यानम्)१,४.१०२
एवमक्षजमानत्वसिद्धां विश्वस्य सत्यताम् ।
किमिति स्थापयेन्नायं … (अनुव्याख्यानम्)१,४.१०३अच्
न्यायसुधा-
यथाशब्दस्यात्रोत्तरत्र च सम्बन्धः ।
तस्य ब्रह्मसत्यत्वादिप्रतिपादकवाक्यादेः प्रामाण्यं यथा साक्षी वर्तमानकालीनं स्थापयति गृह्णाति ।
एवमेव सर्वकालेष्वपि स्थैर्येण गृह्णाति ।
हिशब्दः परप्रसिद्धिद्योतकः ।
स्थैर्यमेव विवृणोति ।
व्यभिचारं बाधम् अपोह्य निराकृत्यैवेति ।
न केवलं ब्रह्मसत्यत्वत्वादिवाक्यादिप्रामाण्यं साक्षी तात्कालिकं गृह्णाति किन्त्वात्यन्तिकमेवेत्यर्थः ।
४,५८४
अथवा यथाशब्दस्योत्तरेणैव सम्बन्धः ।
स्थापयत्यान्तिकमेव गृह्णातीत्यर्थः ।
अस्यैव विवरणमेवमेवेति ।
इतिशब्दो ऽध्याहार्यः ।
सर्वकालेष्वपीदमेवमेव न कदापि विषयापहारलक्षणं बाधमाप्नोतीति व्यभिचारमपोह्य तत एव स्थैर्येण गृह्णातीति ।
यद्वैवंशब्दः समुच्चये ।
साक्षी ब्रह्मादिविषयवाक्यादिप्रामाण्यं स्थापयत्यात्यन्तिकं गृह्णाति ।
अत एव तद्विषयमपि ब्रह्मादिकं सर्वकालेष्वपि स्थैर्यादतिशयेन व्यभिचारमपोह्यैव स्थापयतीति ।
प्रामाण्या(त्यन्तिकत्वा)न्तर्गतत्वाद्विषयाबाध्यताया इति हिशब्दाथर्ः ।
एवमिति दार्ष्यान्तिकोक्तिः ।
अयं साक्षी यदि तत्सत्यमित्यादिप्रमाणप्रामाण्यमात्यन्तिकं गृह्णन् तद्विषयस्य ब्रह्मादेस्त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तर्हि तथैव
विश्वविषयस्याक्षजादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णन् तदन्तर्गतां विश्वस्याबाध्यतामपि स्थापये(देव)त् अविशेषादिति समुदायार्थः ।
४,५८६
ननु गृह्णात्वात्यन्तिकं प्रामाण्यमक्षजादीनां साक्षी ।
तस्य तथात्वं तु कुतः ।
ततश्च न विश्वसत्यतासिद्धिरित्यत आह निर्दोषेति
… निर्दोषज्ञानशक्तितः (अनुव्याख्यानम्)१,४.१०३द्
न्यायसुधा-
साक्षिणो निर्दोषज्ञानरूपत्वशक्त्या तथात्वमपि सिद्धयति ।
अन्यथा ब्रह्मसत्यत्वाद्यपि न सिद्धयेत् ।
यद्वा तत्सत्यमित्यादेरात्यन्तिकं प्रामाण्यं गृह्णाति साक्षी, विश्वविषयस्याक्षजादेस्तु तात्कालिकमेवेति किं न स्यादित्यत आह निर्दोषेति
अयमर्थः ।
तत्सत्यमित्यादिज्ञानस्यात्यन्तिकं प्रामाण्यं गृह्णाति साक्षीत्यत्र किं निमित्तम् ।
ज्ञानं गृह्णन् तस्य निर्दोषतायां प्रामाण्यमपि गृह्णातीति साक्षिणः स्वभावो ऽयमिति चेत् ।
कथं तर्ह्यक्षजादेरपि आत्यन्तिकं प्रामाण्यं न गृह्णीयात् ।
तस्यापि निर्दोषज्ञानरूप(त्व)शक्तिसद्भावादिति ।
अथवा किं साक्षी कुत्रापि प्रामाण्यमात्यन्तिकं ग्रहीतुं न शक्नोति ।
किंवा क्वचिच्छक्तः क्वचिदशक्तः ।
आद्यस्योत्तरम् अन्यथेत्यादि ।
द्वितीयस्योत्तरम् वाक्येति
४,५८७
स्यादेतदेवं यद्यक्षजादिज्ञानं निर्दोषं स्यात् ।
न चैवम् ।
अविद्याकृतप्रपञ्चविषयत्वात् शुक्तिरजतादिज्ञानवत् ।
नन्वविद्या किमाश्रितेति चेत् ।
जीवाश्रितेति ब्रूमः ।
नन्वत्रापि दूषणमुक्तम्’स्वतो ऽन्यता’ इति ।
नैतदस्ति ।
तद्भेदस्याप्याविद्यकत्वात् ।
नच चक्रकादिदोषः ।
प्रपञ्च(विश्व)स्य जीवाज्ञानकृतत्वेन श्रुत्यादिसिद्धत्वात् ।
प्रमिते चार्थे तर्काणामवकाशाभावात् ।
नच कल्प्याभावदोषः ।
विश्वस्यैकाज्ञानकृतत्वाङ्गीकारात् ।
तदतिरिक्तजीवजडप्रपञ्चस्य कल्प्यत्वोपपत्तेः ।
एकजीववादो हि मायावादिनां परं हृदयम् ।
बहुजीववादस्तु मन्दानामाभिमुख्यायावतारित इत्यत आह एकेति
एकज्ञानकृतं विश्वमिति यच्चोष्यते मृषा ।
बहुज्ञानकृतं विश्वमिति तस्योत्तरं भवेत् (अनुव्याख्यानम्)१,४.१०४
न्यायसुधा-
उच्यते ब्रह्मविवर्तवादिभिः, मृषा प्रमाणेन विना ।
एतदुक्तं भवति ।
स्यादपीदं कथञ्चित् ।
यदि विश्वस्यैकजीवाज्ञानकल्पितत्वं स्यात् ।
न चैतदस्ति ।
प्रमाणाभावात् ।
श्रुत्यादेरनुपदमेव सम्यग्व्याख्यास्यमानत्वात् ।
बहूनामीश्वरस्य तत्प्रेरितानां ब्रह्मादीनां च ज्ञानेच्छाप्रयत्नैर्निमित्तत्वे श्रुत्यादिप्रमाणसद्भावेन तद्विरुद्धत्वाच्चेति ।
४,५९१
किञ्चैकजीवाज्ञानपरिकल्पितं जीवजडात्मकं समस्तमिति वदन्प्रष्टव्यः किमसावेको जीवस्त्वम् उतान्य इति ।
अन्यश्चेत्तदज्ञानकल्पितस्य तव बन्धमोक्षाभावाद्वयर्थं पारिव्राज्यादिकमा(मित्या)पद्येत ।
आद्ये ऽपि प्रतिवादिप्रमुखान्जीवान्पश्यसि न वा ।
प्रथमे ऽपि (किं) सन्तीत्युत न सन्तीति ।
आद्यं दूषयति परस्येति
परस्य सत्यतां जानन्नपि यः स्वात्मतस्करः ।
परो नास्तीति वदति … (अनुव्याख्यानम्)१,४.१०५अच्
न्यायसुधा-
यः परस्य प्रतिवाद्यादेः सत्यतां जानन्नपि परो नास्तीति वदति ।
स स्वात्मतस्कर इति योजना ।
स्वात्मानमिव परमपि सत्यतया पश्यतो ऽहमेक एव सत्यो मदज्ञानकल्पिताः सर्वे जीवा जडाश्चेति वचनं स्वानुभवविरुद्धमित्यर्थः ।
नहि त्वदज्ञानपरिकल्पितं समस्तमित्यत्र बलवत्प्रमाणमस्ति ।
येन दर्शनमपि बाध्येत ।
नहि सत्त्वेन प्रतीयमानस्यापि गन्धर्वनगरादेरसत्त्वमेवाङ्गीक्रियते ।
किन्तु बलवत्प्रमाणबाधात् ।
अन्यथा प्रतिवाद्यज्ञानकल्पितस्त्वमिति कथं न स्याः ।
तथा चानिश्चयेन न मोक्षार्था प्रवृत्तिः स्यादिति ।
४,५९२
द्वितीयतृतीयौ निराचष्टे किमिति
… किमित्युन्मत्तवद् वदेत् (अनुव्याख्यानम्)१,४.१०५द्
न्यायसुधा-
यदि परः प्रतिवाद्यादिजीवान्न पश्यति, पश्यन्वा न सन्तीति पश्यति, तदा किमित्युन्मत्तवद्ववदेत् ।
न कथायां प्रविशेत् ।
न शास्त्रं विरचयेद्वयाकुर्याद्वा ।
अन्यथोन्मत्तवन्नायं लौकिको नापि परीक्षक इत्युपेक्षणीयः स्यात् ।
कुतो न वदेत् ।
येन वदन्तुन्मत्तपदवीमासादयेदित्यत आह पराभाव इति
४,५९३
पराभावे हि वाग् व्यर्था … (अनुव्याख्यानम्)१,४.१०६अ
न्यायसुधा-
वाचः परबोधनार्थत्वात् ।
पराभावे च तद्वैयर्थ्याद्वयर्थ्यां वाचं न प्रयुञ्जीत ।
प्रयुञ्जानश्च कथमुन्मत्तो न स्यादिति ।
सत्यं पराभावे वचनमनर्थकम् ।
मयापि किमपि नोच्यत इत्यत आह यदीति
… यदि नैवोच्यते तदा ।
कशावेत्रादिकं तस्य तस्करस्योत्तरं वदेत् (अनुव्याख्यानम्)१,४.१०६ब्द्
न्यायसुधा-
मया किमपि कदापि नैवोच्यत इति यद्युच्यते तदा स्वक्रियाविरोधिश्रः सकललोकावगतार्थापलापिनस्तस्य तस्करस्यैव दण्ड एवोचितो न
प्रत्युत्तरम् ।
परमार्थतो नोच्यत इत्युच्यत इति चेत् ।
तत्किं प्रतीयोग्यभावे निश्चिते व्यवहारतो ऽपि वदन्तः प्रेक्षावन्तो भवन्ति, येनेदमुच्येतेति ।
४,५९४
प्राक् प्रपञ्चमिथ्यात्वसिद्धये परोदाहृतानां श्रुतीनां बाह्योपपत्तिविरोधः (प्रतिपा)व्युत्पादितः ।
इदानीमान्तरानुपपत्तिप्रदर्शनपूर्वकं तासामविरुद्धार्थव्याख्यानार्थमुत्तरो ग्रन्थः ।
अथवा सर्वश्रुतिसाधारणानुपपत्तिः प्राक् प्रपञ्चिता ।
इदानीमसाधारणानुपपत्तिर्व्युत्पाद्यते ।
तत्र तावत्प्रपञ्चो यदि विद्येतेत्यादिवाक्यद्वयं पठित्वा पराभिमते ऽर्थे ऽनुपपत्तिमाह प्रपञ्च इति
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः ।
मायामात्रमिदं द्वैतमद्वैतं परमार्थतः (अनुव्याख्यानम्)१,४.१०७
विकल्पो विनिवर्तेत कल्पितो यदि केनचित् ।
उपदेशादयं वादो ऽज्ञाते द्वैतं न विद्यते (अनुव्याख्यानम्)१,४.१०८
इत्यत्र यदिशब्दौ च निवर्तेतेति च द्वयम् ।
विश्वस्य सत्यतामाहुर् … (अनुव्याख्यानम्)१,४.१०९अच्
न्यायसुधा-
नन्वत्र सूत्रगृहीततया परेणोपात्तानां श्रुतीनामनुपपत्त्यादिकं प्रथमता वक्तव्यम् ।
सत्यम् ।
तथाप्येकजीवाज्ञानपरिकल्पितत्वे समस्तस्य, न प्रमाणमस्तीत्यनन्तरमेवोक्तम् ।
अस्यां च तदापाततः प्रतीयते ।
‘अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते’ इत्युक्तत्वात् ।
अत उभयानुगुण्यादस्याः प्रथमप्राप्तिः ।
इत्यत्र श्लोकद्वये यदिशब्दद्वयं निवर्तेतेति लिङ्प्रयोगद्वयं च ।
उपलक्षणं चैतत् ।
विद्येतेत्यपि ग्राह्यम् ।
तथा केनचिदिति ।
सत्यतामित्युपलक्षणम् ।
अनादितां चेति ग्राह्यम् ।
आहुरित्यवगमयन्तीत्यर्थः ।
तथाच विश्वमिथ्यात्वपरतया व्याख्याने तदनुपपत्तिरिति शेषः ।
यद्यत्र प्रपञ्चमिथ्यात्वमभि(सं)धित्सितं स्यात्तदा यो ऽयं प्रपञ्चो विद्यत इव दृश्यते स निवर्तिष्यते ।
अज्ञानेन कल्पितो विकल्पो विनिवर्तिष्यत इति वक्तव्यम् ।
यद्याद्यास्तुशब्दा विगतार्था विरुद्धार्थाश्च ।
तत्प्रयोगे हि प्रसङ्गद्वयपरमेतद्वाक्यद्वयमिति विज्ञायते ।
यदि पर्वतो निरग्निको भवेत् तर्हि निर्धूमो ऽपि स्यादिति यथा ।
४,५९७
प्रसङ्गस्य च विपर्यये पर्यवसानादनिवृत्त्यादिकमेव वाक्यसामर्थ्याल्लभ्यत इति परकीयमर्थमपाकुर्वतैव श्रुतितात्पर्यं सूचितम् ।
तत्स्पष्टीकुर्वन्विद्येतेत्यस्यार्थं तावदाह विद्येतेति
… विद्येतोत्पत्तिमेव च (अनुव्याख्यानम्)१,४.१०९द्
न्यायसुधा-
इत्येतच्छब्दरूपमुत्पत्तिमेवाह ।
नतु सत्तामिति प्रकृत्यर्थकथनम् ।
चशब्देन निवर्तेतेति विनाशमाह ।
नतु बाधमिति समुच्चिनोति ।
विद्यतेरुतपत्त्यर्थत्वं कुत इत्यत आह विदेति
विदोत्पत्ताविति ह्यस्माद् धातोर् … (अनुव्याख्यानम्)१,४.११०अब्
न्यायसुधा-
विदोत्पत्ताविति ह्यस्माद्धातोः ।
धातोर्धातुव्याख्यानादित्यर्थः ।
विद्यतेरुत्पत्त्यर्थत्वं प्रत्येतव्यमिति पूर्वेण सम्बन्धः ।
धातोरिति षष्ठयन्तं वा ।
तस्य व्याख्यानादिति शेषः ।
मन्दानामप्रसिद्धमपीदं धातुव्याख्यानं बहुज्ञानां प्रसिद्धमेवेति हिशब्द(ब्दार्थः)ः ।
तथाप्युत्पविरेवेति कुतः, सत्तात्र कुतो नेत्यत आह उत्पत्तिरेवेति
… उत्पत्तिरेव हि ।
निवृत्तिव्याप्तियुक् प्रायः प्रपञ्चो भेदपञ्चकः (अनुव्याख्यानम्)१,४.११०ब्द्
न्यायसुधा-
अत्र हि प्रपञ्चो यदि विद्येत तर्हि निवर्तेतेति यदिशब्दादिबलात्प्रसङ्गो ऽयमिति ज्ञायते ।
प्रसङ्गश्च व्याप्तिमूलः ।
व्याप्याङ्गीकारे ऽनिष्यव्यापकप्रसञ्जनं तर्क इति तल्लक्षणात् ।
तथाच विद्येतेत्यापादकतयोक्तस्यार्थस्य निवर्तेतेत्यापाद्यतयोक्तया निवृत्त्या व्याप्तिरवश्यम्भाविनी ।
उत्पत्तिरेव निवृत्तिव्याप्तिक्(क्ता) ।
न सत्ता ।
अस्माकं व्यभिचारित्वात् परस्य विरुद्धत्वात् ।
अतः प्रतीयमानान्वययोग्यताभावान्न सत्ता विद्यतेरर्थः ।
किन्तूत्पत्तिरेव तद्योग्यत्वादिति ।
प्रध्वंसव्युदासाथ प्राय इत्यक्तम् ।
उत्पत्तिर्निवृत्तियुगित्ययं प्रायो बाहुल्यमित्यर्थः ।
तथाच भावत्वे सतीत्यापादकविशेषणं विवक्षितमित्युक्तं भवति ।
एतेनाल्पज्ञानां धातुव्याख्याने विप्रतिपत्तिरिति निरस्ता वेदितव्या ।
४,५९८
ननूत्पत्तिर्नाम कारणायत्तसत्तालाभः ।
नचाभावे सत्तास्तीत्यभावस्य प्रसक्त्यभावात्प्राय इति व्यर्थम् ।
मैवम् ।
केयं सत्ता नामानुगतरूपा वा स्वरूपमेव वा नाद्यः ।
तस्या घटादावप्यभावस्य वक्ष्यमाणत्वात् ।
न द्वितीयः ।
अभावे तद्भावस्यास्त्यभावो ऽस्ति च ध्वंस इत्यादौ वक्ष्यमाणत्वादिति ।
४,६०२
नन्वस्मिन्नपि व्याख्याने नान्वययोग्यतास्ति ।
तर्कस्य व्याप्तिरिव विपर्यये पर्यवसानमवश्यम्भावि ।
तथाच प्रपञ्चो यद्युत्पद्येत तर्हि विनश्येत ।
नच विनश्यति ।
तस्मान्नोत्पद्यत इति वक्तव्यम् ।
न चैतद्युक्तम् ।
क्षित्यादेः प्रपञ्चस्योत्पत्तिविनाशयोः प्रमाणदृष्टत्वात् ।
अत एव तर्काङ्गभूतमापाद्यस्यानिष्टत्वं च नोपपद्यत इत्यतः प्रपञ्चशब्दमन्यथा व्याचष्टे प्रपञ्च इति
… प्रपञ्चो भेदपञ्चकः (अनुव्याख्यानम्)१,४.११०द्
न्यायसुधा-
नायं प्रपञ्चशब्दो विश्वविस्तारवाची ।
येनोक्तदोषः स्यात् ।
किन्तु पञ्चानां वर्गः पञ्चः ।
पञ्चशतौ वर्गे वेति वाशब्देन पञ्चशब्दस्यापि निपातनाङ्गीकारात् ।
प्रकृष्टः पञ्चः प्रपञ्चः ।
प्रकृष्टता च मोक्षाङ्गज्ञानतया भवति ।
सा च भेदसम्बन्धिन एव पञ्चकस्योपपन्ना ।
‘वैलक्षण्यं तयोर्ज्ञात्वा मुच्यते बद्धयते ऽन्यथा’ इत्यादेः ।
अतः प्रपञ्चो भेदपञ्चकः ।
सच जीवेश्वरप्रकृत्यादिनित्यस्वरूपभूतो ऽनादिनित्य एवेति नोक्तदोषः ।
टीकाकारस्तु मन्यते ।
भेदो नामान्योन्याभावः ।
स चान्योन्यतादात्म्यापत्त्यैव निवर्तनीयः ।
प्रतियोग्याप(ग्युत्प)त्तेरेवाभावविपत्तित्वस्य प्रागभावे दृष्टत्वात् ।
नच कदापि पदार्थानामन्योन्यं तादात्म्यमस्तीत्यनित्यानामपि भेदो नित्य एवेति ।
अन्ये ऽप्याहुः ।
‘नित्ये च त्रयाणां सिद्धिः’ इति ।
व्यास(७)
४,६०७
प्रपञ्चशब्दोभेदपञ्चकवाचीत्येतत्कुत इति चेत् ।
परोक्तानुपपत्तेरेवेति ब्रूमः ।
समानार्थायाः श्रुतेश्चेत्याह जीवेति
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा ।
जीवभेदो मिथश्चैव जडजीवभिदा तथा ।
मिथश्च जडभेदो यः प्रपञ्चो भेदपञ्चकः (अनुव्याख्यानम्)१,४.१११
सो ऽयं सत्यो ह्यनादिश्च … (अनुव्याख्यानम्)१,४.११२अ
न्यायसुधा-
अत्र चशब्दास्तथाशब्दौ चान्योन्यसमुच्चये ।
एवशब्दावभेदसाहित्यव्यवच्छेदार्थौ ।
एष भेदपञ्चकः प्रपञ्च उक्तः ।
प्रपञ्चो यदि विद्येतेत्यादावित्यर्थः ।
सो ऽयं सत्यो ह्यनादिश्चेत्यनेन अत्रापि प्रतिज्ञाद्वयं बहिरेव कर्तव्यमिति ज्ञायते ।
तत्रानादित्वानङ्गीकारे बाधकं सादिश्चेदिति ।
… सादिश्चेन्नाशमाप्नुयात् (अनुव्याख्यानम्)१,४.११२ब्
४,६०८
न्यायसुधा-
अनेन प्रथमश्लोकस्य पूर्वार्धो व्याख्यातो भवति ।
सत्यत्वाभावे बाधकं स्वयमूहनीयमित्यभिप्रेत्य तदुपसंहृतम् द्वैतमिति
द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् (अनुव्याख्यानम्)१,४.११२च्द्
इति श्रुतेर् … (अनुव्याख्यानम्)१,४.११३अ
न्यायसुधा-
तेनाज्ञात इत्युक्तार्थं भवति ।
श्रुत्यन्तरेणाव्याख्यातत्वान्मायामात्रमित्येतद्वयाचष्टे मतमिति
… मितं त्रातं मायाख्यहरिविद्यया (अनुव्याख्यानम्)१,४.११३अब्
न्यायसुधा-
माङ् माने त्रैङ् पालन इत्याभ्यां घञऽर्थे कविधानमिति कर्मणि कप्रत्यये मात्रमिति भवति ।
धातुद्वयादप्येकः प्रत्ययः अदिभूभ्यां डुतच् अद्भुतमित्यादौ दृष्टः ।
‘विष्णोः प्रज्ञप्तिरेवैका शब्दैरेवाभिधीयते’ इत्यतो मायाख्यहरिविद्ययेत्युपपन्नम् ।
४,६१८
अद्वैतं परमार्थत इत्येतद्वयाख्याति उत्तमो ऽर्थ इति
उत्तमो ऽर्थो हरिस्त्वेकस्तदन्यन्मध्यमाध्यमम् (अनुव्याख्यानम्)१,४.११३च्द्
न्यायसुधा-
तस्योपपादनम् तदन्यदिति
यतस्तस्माद्धरेरन्यत्किञ्चिन्मध्यमं किञ्चिदधमं तस्मादुत्तमो ऽर्थो हरिरेवैक इति ।
‘विकल्पो विनिवर्तेत’ इत्येतत्प्रपञ्चसत्यतायां स्फुटमिति न व्याकृतम् ।
इयमत्र योजना ।
‘अनादिमायया सुप्तो यदा जीवः प्रबुद्धयते ।
अजमनिद्रमस्वप्नमद्वैतं बुद्धयते तदा’
इति
पूर्वश्लोके ऽनादिमायया परमेश्वरप्रज्ञया तदिच्छया वा जीवजातस्य प्रकृत्यादिजडावृतज्ञानत्वलक्षणं सुप्तत्वं तयैव
परमेश्वरादितत्त्वविषयपरोक्षज्ञानलक्षणं प्रबोधमभिधाय अपरोक्षज्ञानमप्युक्तम् ।
तेन जीवेश्वरयोर्जडेश्वरयोर्जीवजडयोश्च भेदाः प्रतिपादिता ।
प्रभोरिच्छया निगडादिना पुरुषे बद्धे मुक्ते वा भेद(त्रय)दर्शनात् ।
४,६२०
प्राक्’प्रभवःसर्वभावानाम्’ इति भावशब्दोक्तानां जीवानां मिथो भेदो ऽप्युक्तः ।
तत एवावरणानां जडानामपि मिथो भेदो ऽर्थाल्लभ्यते ।
तेषां च पञ्चानामपि भेदानाम्’अनादिमाययाऽ‘अजमनिद्रम्’ इत्यादिविशेषणसामर्थ्यादिनानादित्वमपि लब्धम् ।
तदेतत्पञ्चभेदस्य सत्यत्वमनादित्वं चोपपादयितुमिदं श्लोकद्वयम् ।
तत्र तावदनादित्वं विपक्षे बाधकप्रदर्शनेनोपपादयति प्रपञ्च इति
यदि च जडजीवभेदो निवर्तेत तदा जीवानां जडत्वापत्त्या मोक्षशास्त्रवैयर्थ्यमित्यादिरूपेण निवर्तेतेत्यस्यानिष्टत्वं द्रष्टव्यम् ।
न संशय इत्रत व्याप्तेनिर्श्चायकमाह ।
एवं भेदपञ्चकस्यानादितामुपपाद्य सत्यतायां प्रमाणमाह मायामात्रमिति
यस्मादिदं प्रपञ्चशब्दोक्तं द्वैतमुक्तरीत्या मायामात्रं तस्मात्सत्यम् ।
न ह्यविद्यमानमीश्वरप्रज्ञाविषयो भवति ।
भ्रान्तित्वप्रसङ्गात् ।
नाप्यविद्यमानं केनापि रक्ष्यते ।
अत्र द्वयोर्भावो द्विता ।
तदीयो वर्गो द्वैतम् ।
सामान्ये नपुंसकम् ।
प्रपञ्चसम्बन्धस्तु प्रकरणाल्लभ्यत इति ज्ञातव्यम् ।
तर्ह्यद्वैतःसर्वभावानामित्यादि कथमुक्तमित्यत आह अद्वैतमिति
यदिदं परमेश्वरस्याद्वैतत्वं(च) विशेषणमुक्तं न तत् द्वितीयवस्तुराहित्याभिप्रायेण ।
किन्तु परमार्थतः ।
ल्यब्लोपनिमित्ता पञ्चमी ।
उक्तममर्थमभिप्रेत्येति ।
सप्तम्यर्थे वा तसिः ।
उत्तमार्थविषय इति ।
भेदसत्यतानङ्गीकारे बाधकं चाह विकल्प इति
विकल्पः प्रकृतो भेदो यदि केनचिदज्ञानादिना कल्पितः स्यात्तर्हि चन्द्रभेदवन्निवर्तेत ।
बाध्येत ।
नच बाध्यते ।
तस्मान्न कल्पितः ।
किन्तु सत्य एवेति ।
उपसंहरति उपदेशादिति
तदेवमुपदेशाच्छत्याद्यनुसारित्वात् अयमेव सतां वादः ।
यो भेदसत्यत्वादिविषयः ।
द्वैतं न विद्यत इति तु तत्त्वे ऽज्ञाते सति भवति ।
अतो दुर्वाद इति ।
४,६२५फ़्.
अधुना परिणामवादिना विवर्तवादिना च प्रतिज्ञादृष्टा तानुपरोधादिति सूत्रार्थतया गृहीताम्’उत तमादेशमप्राक्ष’ इत्यादिकां श्रुतिं व्याख्याति ।
तत्र परिणामवादिनो व्याख्यानम्’उत तमादेशमप्राक्षः, येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ इत्रत जगतो ब्रह्मपरिणामतया ततो
ऽनन्त्वाभिप्रायेण तद्विज्ञानेन सर्वविज्ञानं प्रतिज्ञातम् ।
तत्र सर्वस्य ब्रह्मोपादानतामजानता उपादानोपादेययोरपि भेदं मन्यमानेन श्वेतकेतुना अन्यज्ञाने सत्यन्यज्ञानस्य क्वाप्यदर्शनात् ।
‘कथं नु भगवः स आदेशो भवति’ इति चोदिते जगतो ब्रह्मोपादानतया तदनन्यत्वमुपदेक्ष्यन् लौकिकप्रतीतिसिद्धं कारणात्कार्यस्यानन्यत्वं,
तज्ज्ञानेन तज्ज्ञानं च दर्शयति’यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यम् ।
यथा सोम्यैकेन लोहमणिना सर्वं लोहमयं विज्ञातं स्यात् ।
वाचारम्भणं विकारो नामधेयं लोहमणिरित्येव सत्यम् यथा ।
सोम्यैकेन नखनिकृन्तनेन सर्वं कार्ष्णायसं विज्ञातं स्यात् ।
वाचाऽरम्भणं विकारो नामधेयं कार्ष्णायसमित्येव सत्यम्’ इति ।
यथैकमृत्पिण्डादिपरिणामानां घटादीनां तदनन्यया तज्ज्ञानेन ज्ञाततेति दृष्टान्तत्रयार्थः ।
अनन्यत्वे कथं कार्यत्वमित्याशङ्कय व्यवहारार्थमित्याह वाचाऽरम्भणमिति ।
वाचेति षष्ठयर्थे तृतीया ।
वाग्ग्रहणं समस्तेन्द्रियव्यवहारोपलक्षणम् ।
विकारो ऽभिधेयो घटादिः, नामधेयं तदभिधानमिति कुम्भादेर्वाच्यस्य तद्वाचकानां च स्वरूपकार्यव्यपदेशादिभेदात्परस्परं भेदो वास्तव
इत्युक्तम् ।
एतैर्हेतुभिः परस्परं भेदश्चेत्कारणादपि तैरेव भेद इति पूर्वपक्षं निषेद्धुमाह मृत्तिकेत्येव सत्यमिति
इतिशब्दः प्रकारवचनः ।
यत्प्रकारेण यत्सत्तया मृत्तिका सती तत्प्रकारेणैव मृण्मयं सत्यम् ।
नाश्वमहिषादिवन्नैरपेक्ष्येणेति ।
४,६२६
विवर्तवादी तु व्याचष्टे ।
एकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय दृष्टान्ताकाङ्क्षायामुच्यते यथा सोम्येति
एतदुक्तं भवति ।
एकेन मृत्पिण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ।
यतो वाचारम्भणं विकारो नामधेयम् ।
वाचा केवलमस्तीत्यारभ्यते ।
विकारो घटः शराव उदञ्चनं चेति ।
नतु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।
नामधेयमात्रं ह्येतदनृतम् ।
मृत्तिकेत्येव सत्यमित्येष ब्रह्मणो दृष्टान्त आम्नात इति ।
४,६३०
तत्रैकविज्ञानेन सर्वविज्ञानप्रतिज्ञानं मृत्पिण्डादिदृष्टान्ताश्च विकारविवर्ताभिप्राया इत्ये(वं)तत् न तावद्वाक्यात्प्रतीयते ।
किन्तु वाचारम्भणमित्युपपादकवाक्यबलादिति वक्तव्यम् ।
अतस्तदेव प्रथमं व्याकुवर्न्वाचारम्भणशब्दार्थमाह वाचारब्धमिति
वाचारब्धं तु साङ्केत्यं नाम स्याद् … (अनुव्याख्यानम्)१,४.११४अब्
न्यायसुधा-
नन्वारम्भणशब्दो ल्युडन्तः ।
ल्युट् च भावे करणाधिकरणयोश्च विहितो न कर्मणि नच’कृत्यल्लुटो बहुलम्’ इति कर्मणि ल्युट् ।
प्रबलनियामकमन्तरेण बहुलग्रहणस्य कर्मणि व्याख्यातुमशक्यत्वात् ।
‘न चारभ्यस्यारम्भणमिति युज्यते शब्दः’ इति स्ववचनविरोधाच्च ।
तत्कथमारब्ध इति व्याख्यानमिति ।
मैवम् ।
भाव एवारम्भणशब्दस्याङ्गीकारात् ।
वाचा वागिन्द्रियेणारम्भणमुत्पादनं यस्येति तृतीयाया अलुक् ।
‘टापं चापि हलन्तानां यथा वाचा निशा दिशा’ इति वचनात्, वाचयाऽरम्भणं यस्येति वा बहुव्रीहिरयम् ।
तस्यार्थकथनं वाचाख्यमिति ।
तुशब्दो ऽवधारणार्थ उत्तरत्र सम्बद्धयते ।
वाचारम्भणशब्दादेव विकारत्वलाभाद्विकार इति पुनरुक्तं स्यादतस्तात्पर्यमाह साङ्केत्येति
वाचारम्भणशब्देन साङ्केतिकं नामैव वाच्यं स्यात् ।
अवयवार्थकथनं तु वैशद्यार्थमेव ।
यथा चष्टे ऽनेनेति चक्षुरिति निर्वचनलभ्येति दर्शनकारणत्वे चक्षुषा पश्यतीति नोक्तार्थता ।
तस्यां दशायामवयवार्थस्याविवक्षितत्वात् ।
तथाच वाचारम्भणशब्दो ऽपि साङ्केतिकपर्याय इति ।
४,६३४
… विकृतं बहु (अनुव्याख्यानम्)१,४.११४ब्
न्यायसुधा-
विकारशब्दार्थमाह विकृतमिति
अनेन विक्रियत इति विकार इति कर्मणि घञित्युक्तं भवति ।
विकृतत्वोपपादकमर्थान्तरं चाह वह्निति
विविधः मृत्तिकेत्येव सत्यमित्यस्यार्थमाह त्विति
नित्यं तु नामधेयं यन्मृत्तिकेत्यादि वैदिकम् (अनुव्याख्यानम्)१,४.११४च्द्
न्यायसुधा-
सत्यशब्दार्थो नित्यमिति
तुशब्दो ऽवधारणे ।
आदिशब्देन लोहमण्यादेर्ग्रडणम् ।
यन्मृत्तिकेत्यादि संस्कृतं नामधेयम् तदेव नित्यमिति सम्बन्धः ।
वैदिकमिति तदुपपादनम् ।
४,६३५
ततश्चैवं योजना ।
वाचारम्भणं साङ्केतिकं नामधेयं विकार उत्पत्तिमत् ।
तत एवानित्यम् ।
कुतः ।
बहुविधत्वात् ।
पुरुषेच्छानुसारेणानेक(विध)प्रकारत्वात् ।
मृत्तिकेत्यादिनामधेयं वैदिकत्वान्नित्यमनादि चेति ।
नच वाचारम्भणं विकार इति लिङ्गवैषम्यदोषः ।
नामधेयविकारशब्दयोर्नियतलिङ्गत्वात् ।
वाचारम्भणशब्दस्य च नामधेयविशेषणत्वात् ।
विशेषणानां च विशेष्यनिघ्नत्वात् ।
अत एव साङ्केत्यमित्येव वक्तव्ये साङ्केत्यनामेत्यवोचत् ।
यदा तु वाचा यस्यारम्भणं तन्नामधेयं विकारो जनिमदिति, वाचा नाम्नामारम्भणं विविधाकारः, आकाराकारिणोरभेदात् ।
विकारित्वादुत्पत्तिविनाशवदिति यावदिति वा ग्रन्थान्तरोक्ता योजना, तदा(तु) लिङ्गव्यत्यासशङ्कैव नास्तीति ।
४,६३८फ़्.
ननु च साङ्केतिकानामनामुत्पत्तिविनाशवत्त्वं संस्कृतनाम्नामनादिनित्यत्वं किमर्थमत्रोच्यते ।
परमप्रकृते ब्रह्मविज्ञानेन सर्वविज्ञाने ऽवान्तरप्रकृते ऽस्माकमिवदृष्टान्ते (वो)चोपयोगाभावात् ।
अतो ऽसङ्गतत्वान्नायं श्रुत्यर्थ इति ।
मैवम् ।
यद्यपि परस्येव नेदं दृष्टान्तोपपादकम् ।
तथापि ब्रह्मज्ञानेन सर्वविज्ञाने दृष्टान्तान्तरतयोपयोक्ष्यते ।
यथा तेन तद्विज्ञातं स्यादिति, प्रकृतानुवृत्तेरित्याशयवानाह प्राधान्यादिति
४,६३९
प्राधान्यात् तत्परिज्ञानात् प्राकृताज्ञो ऽपि पूरुषः ।
विद्वानित्युच्यते सद्भिरेवं नित्यपरात्मवित् (अनुव्याख्यानम्)१,४.११५
न्यायसुधा-
इदमुक्तं भवति ।
कृतकत्वादनित्यत्वाच्च परापेक्षत्वेन साङ्केतिकं नामाप्रधानम् ।
अनादिनित्यत्वात्परानपेक्षत्वेन संस्कृतं प्रधानम् ।
तत्र यथा प्राधान्यात्संस्कृतज्ञानमात्रेण साङ्केतिकं ज्ञानं भवति ।
तज्ज्ञानेन यत्फलं विद्वद्वयवहारगोचरत्वादिकं तद्भवतीति यावत् ।
एवमनित्यत्वादिनाप्रधानस्य देवताकर्मादिमिश्रस्य सकलस्यापि जगतो ज्ञानेन यत्फलं तत्समस्तमपि नित्यत्वादिना प्रधानस्य परमात्मनो
ज्ञानाल्लभ्यते ।
तत्फले ऽन्तर्भवतीति ।
अत्र प्राकृताज्ञो ऽपीत्यनेन फलापेक्षयेदमिति सूचितं (भवति) ।
एवं तर्ह्येकविज्ञानेन सर्वविज्ञानममुख्यं स्यादिति चेत् ।
सत्यम् ।
नहि परेणापि तन्मुख्यं व्याख्यातुं शक्यम् ।
तथा सति दृष्टमृदः पुरुषस्य घटशरावादिसंस्थानविशेषादिजिज्ञासाभावप्रसङ्गात् ।
पामरा न हि विद्वानिति वदन्ति, अतः सद्भिरित्युक्तम् ।
एवं नित्यपरात्मविदिति वाक्यस्योक्तानुसारेण शेषो ज्ञातव्यः ।
४,६४१
ननु सत्यशब्दः कथं नित्यार्थः ।
रूढेर्योगस्य चाभावादित्यतो योगं तावद्दर्शयति सदातनमिति
सदातनं सत्यमिति नित्यमेवोच्यते बुधैः (अनुव्याख्यानम्)१,४.११६अब्
४,६४२
न्यायसुधा-
सत्यमितीत्यावर्तनीयम् ।
सदातनं सत्यमिति निर्वचनेन सत्यमिति पदेन नित्यमुच्यत एव ।
न तूपचर्यत इति ।
बुधैर्वैयाकरणैरिति निर्वचनमूलं सूचयति ।
सदाशब्दात्तत्र भव इत्यर्थे’अव्ययात्त्यप्’ इति त्यप्प्रत्यये कृते’सर्वस्य सो ऽन्यतरस्यां दिः’ इत्यत्र योगविभागात्सदाशब्दस्य सो
ऽन्यतरस्यां भवति ।
सदाशब्दाद्भवार्थे तद्धिता इति ड्यप्रत्ययो वोत्पाद्यः ।
दकारस्य च तकारः ।
४,६४३
इदानीं रूढिमपि दर्शयति प्रयोगश्चेति
प्रयोगश्चोत्तरत्रास्ति … (अनुव्याख्यानम्)१,४.११६च्
४,६४४
न्यायसुधा-
उत्तरत्राष्यमे प्रपाठ(घट्ट)के सत्यशब्दस्य नित्यत्व एव प्रयोगश्चास्तीति सम्बन्धः ।
तमेव प्रयोगं दर्शयितुं’यदैनं जरावाप्नोति प्रध्वंसते वा किं ततो ऽ(स्याति)वशिष्यत इति स ब्रूयान्नास्य जरयैतज्जीयर्ते न वधेनास्य हन्यते एतत्सत्यं
ब्रह्मपुरम्’ इति वाक्यमर्थतः पठति जरेति
… जरा यद्येनमाप्नुयात् (अनुव्याख्यानम्)१,४.११६द्
देहः प्रध्वंसते वायं किं ततो ऽस्यातिशिष्यते ।
हन्यते न वधेनायं जरया च न जीर्यति (अनुव्याख्यानम्)१,४.११७
एतत् सत्यं ब्रह्मपुरमिति नित्यत्व एव हि (अनुव्याख्यानम्)१,४.११८अब्
न्यायसुधा-
यदैनं देहं जरावाप्नोति प्रध्वंसते वायं देहः, (तदा)ततस्तदस्य देहस्यान्तर्गतः परमात्मा दह्यमानगेहान्तर्गतगगनवत्किमतिशिष्यते किंवा
पटादिवन्नश्यतीति पृष्टे, नास्य देहस्य जरयायं परमात्मा जीर्यते, अस्य वधेन न हन्यते, किन्त्वेतद्ब्रह्म पूर्णत्वात्पुरं सत्यं नित्यमिति परिहारो
ऽभिधीयते ।
इतिशब्दस्य पूर्वेणान्वयः ।
अत्रापि सत्यशब्दः कुतो नित्यार्थ इत्यत आह नित्यत्व एव हीति
४,६४४फ़्.
अत्र सत्यशब्दो नित्यार्थश्चेत्सङ्गच्छते ।
विनाशस्य प्रकृतत्वात् ।
तथ्यार्थतायामसङ्गतिः ।
अनृतताया अप्रस्तुतत्वादिति हिशब्दार्थः ।
एतदेव स्पष्टीकर्तुमेतत्सत्यं ब्रह्मपुरमित्येतावति पठितव्ये पूर्ववाक्यमपि पठितम् ।
पूर्वेणैव सम्बन्धः ।
ब्रह्मणो जरावधयोरभावे सत्यत्वं हेतुत्वेनोच्यत इति चेत् ।
न ।
त्वया ब्रह्मव्यतिरिक्त(स्य)सत्यस्यानभ्युपग(मे)तत्वेनान्वयाभावात् ।
जराद्युपेतानां देहानामसत्यत्वास्यासिद्धेः असत्यानां च शुक्तिरजतादीनां जराद्यभावेन व्यतिरेकस्याप्यभावात् ।
ननु तथापि वाचारम्भणवाक्यं त्रिवारं कस्मात्पठ्यते ।
शब्दान्तरं दृष्टान्तीकर्तुमिति ब्रूमः ।
तर्हि षडेते दृष्टान्ताः स्युः ।
एवमैवैतत् ।
तथा सति संस्कृतशब्ददृष्टान्तत्रयमेकत्रैव वक्तव्यम् ।
मैवम् ।
तत्तदभिधेयप्रसङ्गायत्तस्य तदभिधानस्य तदैव वक्तव्यत्वात् ।
तथापि प्रतिशब्दं दृष्टान्तीकरणे ऽपर्यवसानप्रसक्तेरुपलक्षणत्वे चैकेनापि कृतत्वाच्छब्दत्रयोपादानमनुपपन्नमिति चेन्न ।
मृत्पिण्डादिदृष्टान्तत्रयोपादाने ऽप्यस्य समानत्वात् ।
गहने प्रमेये त्रयोपादानं न दोषाय ।
किन्तु बुद्धिवैशद्यहेतुतया गुणयैवेति चेत् ।
समं प्रकृते ऽपीति
४,६४६
एवं स्वमतेन वाचारम्भणमित्यादिवाक्यं व्याख्याय विवर्तवाद(दि)व्याख्याने दोषमाह वाचारम्भणमिति
वाचारम्भणमित्युक्ते मिथ्येत्यश्रुतकल्पनम् (अनुव्याख्यानम्)१,४.११८च्द्
न्यायसुधा-
उक्तम् उक्तिः शब्द इति यावत् ।
वाचारम्भणमिति शब्दे मिथ्येतिव्याख्यायमाने सतीति शेषः ।
तथाहि ।
किं रूढिमाश्रित्य वाचारम्भणमित्यस्य मिथ्येति व्याख्यानं क्रियते ।
किंवा योगम् ।
आद्ये रूढिज्ञापकप्रमाणाभावादश्रुतकल्पनम् ।
अथारभ्यत इत्यारम्भणमिति द्वितीयः ।
तथापि कृद्योगे षष्ठयां प्राप्तायां तृतीयाङ्गीकारे ऽश्रुतकल्पनम् ।
ल्युटः कर्मणि विधानाभावाच्चाश्रुतकल्पनमेव ।
अस्मिन्नपि पक्षे मिथ्यात्वस्यालाभादश्रुतकल्पनम् ।
वाचारभ्यत्वमात्रेण तथात्वे ब्रह्मणो ऽपि तत्प्रसङ्गात् ।
वाचा केवलमारभ्यते विकारो न तु वस्तुवृत्तेनास्तीति व्याख्याने मिथ्यात्वं लभ्यत इति चेन्न ।
यतः श्रुत्या वाचारम्भणमित्येवोक्ते केवलशब्दप्रक्षेपेण मिथ्येति व्याख्याने ऽश्रुतकल्पनमेवेति ।
४,६४८
दूषणान्तरमाह पुनरुक्तिरिति
पुनरुक्तिर्नामधेयम् … (अनुव्याख्यानम्)१,४.११९अ
४,६४८फ़्.
न्यायसुधा-
इतिशब्दो ऽत्राध्यहार्यः ।
आगामिनो वा काकाक्षिन्यायेनोभयत्र सम्बन्धः ।
नामधेयमित्येतन्नामधेयमात्रं ह्येतदनृतमिति परेण व्याख्यातम् ।
तस्य वाचारम्भणमित्यनेनैव गतार्थत्वान्नामधेयमिति पुनरुक्तिः स्यात् ।
अथ विकारो नामधेयं च द्वयमपि वाचारम्भणमिति व्याख्यानं, तथापि विकारशब्देनैवाभिधेयाभिधानयोर्ग्रहणसम्भवान्नामधयेमिति
पुनरुक्तिरेवेति ।
तन्नामरूपाभ्यां व्याक्रियत इत्यादिश्रुतेः ।
४,६४९
दोषान्तरमाह इतीत्यस्येति
… इतीत्यस्य निरर्थता (अनुव्याख्यानम्)१,४.११९ब्
४,६४९फ़्.
न्यायसुधा-
मृत्तिकायाः सत्यत्वं हि परस्य विवक्षितम् ।
तत्र मृत्तिकैव सत्येति वक्त(व्यम्)व्ये इतिशब्दस्तु निरर्थक एव ।
स हि क्वचित्पदार्थविपर्यासकृत्, क्वचिद्धेतौ, क्वाप्येवमित्यर्थे, कुत्रचिदादिशब्दार्थे, क्वचित्प्रकारार्थे, क्वचित्परिसमाप्तौ ।
न चात्रै(ते)वमादिष्वन्यतमेनार्थेनार्थवान् ।
अस्माकं तु’शब्दादर्थे सम्प्रत्ययः’ इति मृत्तिकार्थे प्राप्ते तत्परिहारेण शब्दस्वरूपग्रहणार्थं तदुपपत्तिः ।
परिणामवादिनो ऽपि कृद्योगे तृतीयाया अङ्गीकृतत्वात् ल्युटः कर्मणि व्याख्यातत्वाद्वाचारम्भणं विकारो नामधेयमित्येतेषां पदानामन्वयाभावेन
पदान्तराध्याहारस्येष्टत्वादश्रुतकल्पनम्, नामधेयस्यापि विकारग्रहणेन ग्रहणसम्भवात्पुनरुक्तिः, इतिशब्दस्य निरर्थकता चेति
स्फुटत्वान्नोक्तम् ।
४,६५१
ननु तेनेतिशब्दः प्रकारवचन इत्युक्तम् ।
तत्कथं निरर्थकता ।
उच्यते ।
कार्यकारणयोर्भेदशङ्कानिरासार्थं हीदमुच्यते ।
तत्र यत्सत्तया मृत्तिका सती तयैव मृण्मयं सत्यमिति व्याचक्षाणेन वक्तव्यम्, केयं सत्ता विवक्षितेति ।
स्वरूपसत्ता चेत्साध्याविशिष्टता ।
यो हि कार्यकारणयोर्भेदं मन्यते, स कथं कारणस्वरूपेणैव कार्यं स्वरूपवदित्यङ्गीकुर्यात् ।
अथ सामान्यसत्ता ।
सानैकान्तिकी ।
नहि महिषसत्तया सन्नश्वो महिषान्न भिद्यते ।
अथ मृत्तिकासत्ताधीनसत्ताकं मृण्मयमिति विवक्षितमिति, तथापि कुलालादिसत्ताधीनसत्ताकमपि भवतीत्यनैकान्त्यमेव ।
विरुद्धं च(चै)तत् ।
यद्यदधीनं तदेव तदिति ।
अतो विवक्षितसाधनानुपयोगित्वादितिशब्दस्य तन्मते ऽपि निरर्थकतैवेति ।
४,६५२
इदानीं यथा सोम्येत्यादीनि दृष्टान्तवाक्यानि स्वमतेन व्याकरिष्यन्परकीयव्याख्यायां तावद्दोषमाह एक इति
एकः पिण्डो मणिश्चेति पदवैयथ्यर्मेव च (अनुव्याख्यानम्)१,४.११९च्द्
विकारत्वविवक्षायां … (अनुव्याख्यानम्)१,४.१२०अ
४,६५२फ़्.
न्यायसुधा-
पदसमुच्चये प्रथमश्चशब्दः ।
इतिशब्दस्य प्रत्येकं सम्बन्धः ।
वैयर्थ्यं विगतार्थत्वं विरुद्धार्थत्वं च ।
एवशब्देन वैयर्थ्यस्यापरिहार्यतामाह ।
चशब्दस्य विवर्तविवक्षायां चेत्यर्थः ।
जगतो ब्रह्मविकारत्वेन तदारोपितत्वेन चैकविज्ञानेन सर्वविज्ञाने विवक्षिते मृदा विज्ञातया मृण्मयं विज्ञातं स्यात् ।
लोहेन विज्ञातेन लोहमयं विज्ञातं स्यात् ।
कृष्णायसा विज्ञातेन कार्ष्णायसं विज्ञातं स्यादित्येतावता पूर्णत्वात्त्रयाणामेकशब्दानां पिण्डमणिनखनिकृन्तनशब्दानां सर्वशब्दानां च
विगताथर्त्वं स्यात् ।
सर्वमृण्मयादीनामेकमृत्पिण्डादिविकारत्वाभावाद्विरुद्धार्थता च स्यात् ।
आरोपितत्वं त्वेकस्यापि मृण्मयस्यैकस्मिन्मृत्पिण्डे नास्ति ।
कुतः सर्वस्य ।
युक्त्या समथ्यर्त इति चेत् ।
तर्हि विवादपदत्वेन दृष्टान्ततानुपपत्तिः ।
‘लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः’ इति हि न्यायविदः ।
किन्तु घटादीनामबाधितप्रत्यक्षादिसिद्धत्वेन युक्तिरेवाभासभूतेति परमाणुपुञ्जवादनिरासे वक्ष्यते ।
आरोपितत्वे ऽपि नैकस्मिन्सर्वमित्येकादिपदानां वैयर्थ्यमेव ।
नन्वकेनेति परमाकारणस्यैकत्वं पिण्डेनेति कार्याभिमुख्यं सर्वमिति कार्यनानात्वं विवक्षितम् ।
अतः कथं वैयर्थ्यमिति ।
मैवम् ।
दार्ष्यान्तिकवाक्ये तद्विवक्षायामत्र वैयर्थ्यापरिहारात् ।
४,६५५
अपि चाद्ययोर्दृष्टान्तयोः कार्यकारणभावमात्रमस्ति ।
किन्त्वेकादिपदवैयर्थ्यमेव ।
इदन्तु सर्वथा नोपपद्यते, यथा सोम्यैकेन नखनिकृन्तनेनेति ।
नखनिकृन्तनस्यान्त्यावयवित्वेन कार्ष्णायसान्तरं प्रति कारणत्वस्यैवासम्भवात् ।
किम्वेकस्य सर्वं प्रतीत्याह नचेति
… नचैकनखकृन्तनम् ।
सर्वकार्ष्णायसं च स्याद् … (अनुव्याख्यानम्)१,४.१२०ब्च्
न्यायसुधा-
सर्वं चेति द्वितीयचशब्दसम्बन्धः ।
यद्यत्र दृष्टान्तत्रये न विकारविवर्तविवक्षा किं तर्हि विवक्षितमित्यत आह अत इति
… अतः सादृश्य एव च (अनुव्याख्यानम्)१,४.१२०द्
विवक्षात्र तु नित्यत्वे प्राधान्ये चोक्तवर्त्मना (अनुव्याख्यानम्)१,४.१२१अब्
४,६५५फ़्.
न्यायसुधा-
अर्थान्तरस्य दूषितत्वादित्यर्थः ।
चशब्दावितरोतरसमुच्चये ।
तुशब्देन नित्यत्वं विशिनष्टि ।
नित्यत्वं प्राधान्योपपादकमेव न तु स्वतन्त्रमेकविज्ञानेन सर्वविज्ञानस्येति ।
मृत्पिण्डादिदृष्टान्तत्रयं सादृश्यविषयम् ।
वाचारम्भणमित्यादि तु प्राधान्यविषयमिति विवेक्तव्यम् ।
वाचारम्भणदृष्टान्तस्य पूर्वमेव व्याख्यातत्वात्किं पुनर्वचनेनेति चेन्न ।
बुद्धयारोहार्थमुक्तस्याप्यनुक्तेन सहैकेन वाक्येनोक्तिसम्भवादित्याशयेनोक्तम् उक्तेति
सादृश्यादेकविज्ञानेन सर्वविज्ञानमाचार्येणान्यत्र व्युत्पादितमत्रानुसन्धेयम् ।
तथा मृत्पिण्डादिदृष्टान्तानामवान्तरभेदो ऽपीति ।
४,६५७फ़्.
नन्वस्मिन्नपि पक्षे’सदेव सोम्येदमग्र आसीत्’ इत्यादेरुत्तरग्रन्थस्य सङ्गत्यभावो दोषः ।
अस्माकं तु कार्यकारणभावादिप्रपञ्चार्थत्वेन अस्त्युपयोग इत्यत आह प्राधान्येति
प्राधान्यप्रतिपत्त्यर्थं सृष्टयादेश्चैव विस्तरः (अनुव्याख्यानम्)१,४.१२१च्द्
न्यायसुधा-
आदिपदेन प्रलये ऽवस्थानं त्रिवृत्करणं जीवरूपेण प्रवेशनमित्यादिकं गृह्यते ।
प्राधान्याद्ब्रह्मज्ञानेन सर्वज्ञानस्य फलं भवतीत्युक्ते, कुतस्तस्य प्राधान्यमित्याशङ्कायां, तत्प्रतिपत्त्यर्थं सृष्टयादेः प्रतिपादक एव ग्रन्थविस्तरः
प्रवृत्तो ऽतः कथमसङ्गतिरिति ।
चशब्दो ऽवधारणे ।
न तूपादानत्वादिप्रतिपत्त्यर्थमिति ।
न ह्युपादनां प्रेक्षापूर्वं कार्यं करोति ।
नाप्यधिष्ठानमध्यस्तम् ।
एष चेति वा सम्बन्धः ।
तेन’अपागादग्नेरग्नित्वम्’ इत्याद्यपि परस्य ब्रह्मणः प्राधान्यप्रतिपत्त्यर्थमेवेत्युक्तं भवति ।
तथाचोक्तं भाष्ये ।
४,६५९
विवर्तमतनिराकरणमुपसंहरति तस्मादिति
तस्मात् केनापि मार्गेण न विवर्तमतं भवेत् (अनुव्याख्यानम्)१,४.१२२अब्
न्यायसुधा-
केनापि मार्गेणेति
ब्रह्माविद्यापेक्षया वा, जीवाविद्यापक्षेण वा, एकजीवमतेन वा, अनेकजीवमतेन वा, स्वपक्षसाधनेन वा, परपक्षनिरासेन वा, युक्तिपर्यालोचनया
वा, श्रुतिपर्यालोचनया वा, विचारितमिति शेषः ।
न भवेत् उपपन्नमित्यध्याहारः ।
ततः किमित्यत आह तदिति
तदसङ्खयातदोषेतं हेयमेव शुभार्थिभिः (अनुव्याख्यानम्)१,४.१२२च्द्
न्यायसुधा-
तत् विवर्तमतम् ।
तस्मादित वा ।
तस्यैव विवरणं असङ्खयातदोषेतं यस्मादिति ।
हेयमेव तत् ।
नतु तदुक्तरीत्या सूत्रार्थो ग्राह्यः ।
एतेन परमतनिराकरणस्यासङ्गतिरपि निरस्ता वेदितव्या ।
यद्युक्तातिरिक्तदोषाः सन्ति ।
तर्हि दूषणाभिधानाय प्रवृत्तैर्वक्तव्याः ।
किमुपरमेणेत्यत आह असङ्खयत्वेनेति
४,६६०
असङ्खयत्वेन दोषाणां ग्रन्थाधिक्यभयादपि ।
उपरम्यते … (अनुव्याख्यानम्)१,४.१२३अच्
न्यायसुधा-
दोषाणामतिबहुत्वेन कांश्चिदुक्त्वा केषाञ्चिदुपलक्षणे(णत्वे)नैवोपरन्तव्यम् ।
उपलक्षणं चैतावतापि भवतीत्युपरम्यत इति ।
सर्वे ऽपि वक्तव्याः, किमुपलक्षणत्वेनेत्यत उक्तम् ग्रन्थेति
ग्रन्थाधिक्ये हि श्रोतॄणां प्रवृत्तिर्न स्यात् ।
तथाच कृतमप्यकृतं स्यादिति भयादपीत्यर्थः ।
यदि नोपादानतया विभ्रमाधिष्ठानतया वा, ब्रह्मणो जगत्कारणत्वं, कीदृशं तर्हि जन्मादिसूत्रे ऽभितिहमित्यत आह तत इति
… ततो विष्णुरिच्छापूर्वकमश्रमः ।
करोति पितृवद् विश्वं … (अनुव्याख्यानम्)१,४.१२३दे
न्यायसुधा-
परिणामादिवादस्य निरस्तत्वादित्यर्थः ।
पितृवदिच्छापूर्वकमिति कतृत्वेन निमित्तत्वमभिप्रैति ।
विचित्रानेककार्यकर्तृत्वे श्रमादिदोषाः प्रसज्यन्त इत्यत उक्तम् अश्रम इति
तदुक्तमन्तर्याम्यधिकरणे ।
यद्वाश्रम इत्येनेनेदमभिप्रैति ।
‘अधिकं तु भेदनिर्देशात्’ इत्यादिना ब्रह्मणः श्रमादिर्निरसिष्यते ।
नचापादानादेः श्रमादिप्रसक्तिरस्ति ।
अतो ऽपि कर्तृत्वमेवाभिप्रेतं सूत्रकारस्येति ।
एवमस्मिन्नध्याये परब्रह्मणि नारायणे प्रतिपादितस्य सकलश्रुतिसमन्वयस्य फलं जन्मादिसूत्रोदितलक्षणसिद्धिमुपसंहरति पूर्णेति
… पूर्णशेषगुणात्मकः (अनुव्याख्यानम्)१,४.१२३फ़्
न्यायसुधा-
पूर्णाः प्रत्येकं निरवधिकाः ।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमाध्यायस्य चतुर्थपादः
_